१२ ग्रह-शान्ति-प्रकरणम्

अथ सटीकायाज्ञवल्क्यस्मृतौ

ग्रहयज्ञविधिप्रकरणम् । (११)

अथ ग्रहयज्ञविधिम् आह

श्रीशान्त्यादिकामो ऽभिचरन् वा ग्रहयज्ञं वक्ष्यमाणस्वरूपं समाचरेद् अनुतिष्ठेत् । शान्तिः फलदानोन्मुखदुरितनिवारणम् । पुष्टिः शरीराद्युपचयः । अभिचार आयुष्प्रदधर्मप्रतिबन्धः । प्रसिद्धम् अन्यत् । वृष्ट्यायुःपुष्टीनां प्रत्येकं कामसंबन्धो नेतरेतरयुक्तानाम्, प्रमाणान्तरसिद्धत्वे सत्य् उद्दिश्यमानत्वात् । एवंविधस्योद्देश्यस्य विशेषणम् अविवक्षितम् । पूर्वं विनायकस्नानसहितो ग्रहयज्ञः श्रिये विहितः । इदानीं केवलः फलान्तरेभ्यश् चेति विधिभेदः । अभिचरन्न् इति शतृप्रत्ययो ऽभिचारस्य ग्रहयज्ञं प्रति हेतुताम् आचष्टे । अभिचारस्य चासिद्धत्वान् न स्वरूपेण हेतुता, किं तु तदिच्छायास् तेनेष्यमानतया कर्मसंबन्धाद् अभिचारस्य फलत्वम् ॥ १.२९३ ॥

ग्रहान् आह

सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः ॥ १.२९४ ॥
शुक्रः शनैश्वरो राहुः केतुश् चेति ग्रहाः स्मृताः ।

एता ग्रहयज्ञदेवताः । वृत्तवशाच् चात्र सूर्यादिशब्दनिर्देशो यागप्रयोगे पुनर् आदित्यादिशब्दैर् उद्देशः कार्यः । तथा च बह्वृचगृह्यपरिशिष्टम्- “गुडौदनम् आदित्याय घृतपायसं सोमाय हविष्यन् अन्नम् अङ्गारकाय क्षौरौदनं बुधाय षष्टिकं बृहस्पतये दध्योदनं शुक्राय माषौदनं तिलपिष्टमिश्रं सघृतं शनैश्वराय राहवे मांसौदनं केतवे चित्रौदनम्” इति । नैवं गद्यग्रन्थे ऽस्मिञ् श्रूयमाणशब्दस्याविवक्षायां हेतुर् अस्ति ॥ १.२९४ ॥

आदित्यादिग्रहप्रतिमाप्रकृतिद्रव्याण्य् आह

ताम्रकात् स्फटिकाद् रक्तचन्दनात् स्वर्णकाद् उभौ ॥ १.२९५ ॥

[५६९] रजताद् अयसः सीसात् कांस्यात् कार्या ग्रहाः क्रमात् ।

स्ववर्णैर् वा पटे लेख्या गन्धमण्डलके ऽपि (केषु) वा ॥ १.२९६ ॥

ताम्रम् एव ताम्रकं तस्माद् आदित्यस्य प्रतिमा कार्या । स्फटिकात् सोमस्य । रक्तचन्दनाद् अङ्गारकस्य । स्वर्णकाद् बुधबृहस्पत्योः । रजताच् छुक्रस्य । कृष्णमयः कार्ष्णायसं तस्माच् छनैश्चरस्य । सीसाद् राहोः । कांस्यात् केतोः । प्रतिमानिर्माणासमर्थस् तु ग्रहसमानवर्णैर् वर्णकैर् ग्रहान् पटे लिखेत् । तत्राप्य् असमर्थो ग्रहसमानवर्णेषु चन्दनादिगन्धमण्डलकेषु ग्रहान् उल्लिखेत् । अत्र मत्स्यपुराणम् ।

पद्मासनं पद्मकरः पद्मगर्भसमद्युतिः ।
सप्ताश्वरथसंस्थश् च द्विभुजः स्यात् सदा रविः ॥
श्वेतः स्वेताम्बरधरो दशा(रः श्वेता)श्वः श्वेतभूषणः ।
गदापाणिर् द्विबाहुश् च कर्तव्यो वरदः शशी ॥
रक्तमाल्ल्याम्बरधरः शक्तिशूलगदाकरः ।
चतुर्भुजो मेषगमो वरदः स्याद् धरासुतः ॥
पीतमाल्याम्बरधरः कर्णिकारदलद्युतिः ।
खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥
देवदैत्यगुरू तद्वत् पीतश्वेतौ चतुर्भुजौ ।
दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥
इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।
बाणबाणासनकरः कर्तव्यो ऽर्कसुतः सदा ॥
करालवदनः खड्गचर्मशूली वरप्रदः ।
नीलसिंहासनयुतो राहुस् तत्र प्रशस्यते ॥
धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ।
गृध्रासनगता नित्यं केतवः स्युर् वरप्रदाः ॥
सर्वे किरीटिनः कार्या ग्रहा लोकहितप्रदाः ।
स्वाङ्गुलेनोच्छ्रिताः सर्वे शतम् अष्टोत्तरं सदा ॥
भास्कराङ्गारकौ रक्तौ श्वेतौ शुक्रनिशाकरौ ।
सोमपुत्रो गुरुश् चैव ताव् उभौ पीतकौ स्मृतौ ॥

[५७०] कृष्णं शनैश्वरं विद्याद् राहुं केतुं तथैव च ॥

निगदव्याख्यातम् एतत् । [अथ राजानकशितिकण्ठकविशेषः ] । देवीपुराणे ।

प्रभाकरस्य प्रतिमाम् इदानीं शृणुत द्विजाः ।
रथस्थं कारयेद् देवं पद्महस्तं सुलोचनम् ॥
सप्ताश्वं चैकवक्त्रं च रथं तस्य प्रकल्पयेत् ।
मुकुटेन विचित्रेण पद्मगर्भसमप्रभम् ॥
नानाभरणभूषाभ्यां कराभ्यां घृतपुष्करम् ।
स्कन्धस्थे पुष्करे चैव लीलयैव घृते सदा ॥
चोलकच्छन्नवपुषं क्वचिच् चित्रेषु दर्शयेत् ।
वस्त्रयुग्मसमोपेतं चरणौ तेजसावृतौ ॥
प्रतीहारौ च कर्तव्यौ पार्श्वयोर् दण्डपिङ्गलौ ।
कर्तव्यौ दण्डहस्तौ च पार्श्वयोः पुरुषाव् उभौ ॥
लेखनीकृतहस्तं च पार्श्वे धातारम् अव्ययम् ।
नानादेवगणैर् युक्तम् एवं कुर्याद् दिवाकरम् ॥
अनूरुं सारथिं चास्य पद्मिनीपत्रसंनिभम् ।
अश्वौ च वलितग्रीवौ गन्धस्थौ तस्य पार्श्वयोः ॥
भुजङ्गरज्जुभिर् बद्धाः सप्ताश्वरथसंयुताः ।
सप्ताश्वस्थं पद्महस्तं तस्मिंश् चैव प्रकल्पयेत् ॥

पद्मपुराणे ।

अत एव रवेः पादौ न कश्चित् कारयेत् क्वचित् ।
यः करोति स पापिष्ठां गतिम् आप्नोति निन्दिताम् ॥
कुष्ठरूपम् अवाप्नोति लोके ऽस्मिन् दुःखसंज्ञितम् ॥

प्रसङ्गाद् वह्न्यादीनां लक्षणम् उच्यते ।

वह्नेस् तु लक्षणं वक्ष्ये सर्वलक्षणलक्षितम् ।
दीप्तं सुवर्णवपुषम् अर्धचन्द्रासनं विभुम् ॥
बालार्कसदृशं तस्य वसनं चात्र कारयेत् ।
यज्ञोपवीतिनं कुर्याल् लम्बकूर्चभ्रुवं तथा ॥
कमण्डलुं वामकरे दक्षिणे ऽस्याक्षसूत्रकम् ।
ज्यालावितानसंयुक्तम् अजवाहनम् उज्ज्वलम् ॥

[५७१] कुण्डस्थं वापि कुर्वीत मूर्ध्नि सप्तशिखान्वितम् ।

कात्यायन्याः प्रवक्ष्यामि रूपं दशभुजं तथा ॥
त्रयाणाम् अपि देवानाम् अनुकारानुकारिणीम् ।
जटाजूटसमायुक्ताम् अर्धेन्दुकृतलक्षणाम् ॥
लोचनत्रयसंयुक्तां पूर्णेदुसदृशाननाम् ।
अतसीपुष्पसंकाशां सुप्रतिष्ठां सुलोचनाम् ॥
नवयौवनसंपन्नां सर्वावयवभूषिताम् ।
सुचारुदशनां तद्वत् पीनोन्नतपयोधराम् ॥
त्रिभङ्गस्थान्संस्थानां महिषासुरमर्दिनीम् ।
त्रिशूलं दक्षिणे दद्यात् खड्गचक्रे तथैव च ॥
तीक्ष्णधारां तथा शक्तिं वामतो ऽपि निबोधत ।
खेटकं पूर्णचापं च पाशम् अङ्कुशम् एव च ॥
घण्टां च परशुं वापि वामतः संनिवेशयेत् ।
अधस्तान् माहिषं तद्वद् द्विशिरस्कं प्रदर्शयेत् ॥
शिरश्छेदे न्यसेत् तद्वद् दानवं खड्गपाणिकम् ।
हृदि शूलेन निर्भिन्नं तिर्यग् ऊर्ध्वं च भूषितम् ॥
रक्तरक्तीकृताङ्गं च रक्तविस्फुरितेक्षणम् (?) ।
वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ॥
वमद्रुधिरवक्त्रं च देव्याः सिंहं प्रदर्शयेत् ।
देव्यास् तु दक्षिणं पादं समं सिंहोपरि स्थितम् ॥
किंचिद् ऊर्ध्वं तथा वामम् अङ्गुष्ठं महिषोपरि ।
स्तूयमानं च तद्रूपम् अमरैः संनिवेशयेत् ॥
विनायकं प्रवक्ष्यामि गजवक्त्रं त्रिलोचनम् ।
सम्बोदरं चतुर्बाहुं व्यालयज्ञोपवीतिनम् ॥
स्तब्धकर्णं बृहत्तुण्डम् एकदंष्ट्रं पृथूदरम् ।
स्वदन्तं दक्षिणकरे उत्पलं चपरे तथा ॥
मोदकं परशुं चैव वामतः परिकल्पयेत् ।
बृहत्संक्षिप्तगहनं पीनस्कन्धाङ्घ्रिपाणिकम् ।
युक्तं बुद्धिकुबुद्धिभ्याम् अधस्तान् मूषकान्वितम् ॥
ब्रह्मा कमण्डलुधरः कर्तव्यः स चतुर्मुखः ॥

[५७२] हंसारूढः क्वचित् कार्यः क्वचिच् च कमलासनः ।

वर्णेन कमलाभश् च चतुर्बाहुः शुभेक्षणः ॥
कमण्डलुं वामकरे सूत्रं हस्ते च दक्षिणे ।
वामे दण्डधरस् तद्वत् स्रुक्स्रुवौ चापि कल्पयेत् ॥
मुनिभिर् देवगन्धर्वैः स्तूयमानं समन्ततः ।
कुर्वाणम् इव लोकांस् त्रीञ् शुक्लाम्बरधरं विभुम् ॥
मृगचर्मधरं चापि दिव्ययज्ञोपवीतिनम् ।
आज्यस्थाली तथा पार्श्वे तेनैव च चरुः पुरः ॥
वामे पार्श्वे च सावित्री दक्षिणेन सरस्वती ।
अग्रे च ऋषयस् तद्वत् कार्याः पैतामहे पदे ॥

इति राजानकशितिकण्ठपुस्तके विशेषः । प्रासङ्गिकम् उक्त्वा प्रकृतम् उच्यते । एते ग्रहा अग्निं प्रणीयाग्न्यायतनस्योत्तरपूर्वदेशे पूज्याः । तथा च मत्स्यपुराणम् ।

गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम् ।
वप्रत्रयान्वितां वेदिं वितस्त्युच्छ्रायसंयुताम् ॥
संस्थापनाय देवानां चतुरश्राम् उदक्प्लवाम् ॥

कुर्याद् इति शेषः । गर्तः खातम् अग्न्यायतनम् । वप्रो मेखला ।

अग्निप्रणयनं कृत्वा तस्याम् आवाहयेत् सुरान् ।

तस्यां तिस्रः कोष्ठकपङ्क्तयः कार्या एकैकस्यां त्रयस् त्रयः कोष्ठका भवन्ति ।

बु। शु। चं।
बृ। आ। भौ।
के। श। रा।

तत्र ।

मध्ये तु भास्करं विद्याल् लोहितं दक्षिणेन तु ।
उत्तरेण गुरुं विद्याद् बुधं पूर्वोत्तरेण तु ॥
पूर्वेण भार्गवं विद्यात् सोमं दक्षिणपूर्वके ।
पश्चिमेन शनिं विद्याद् राहुं दक्षिणपश्चिमे ॥
पश्चिमोत्तरतः केतुं स्थापेच् छुक्लतण्डुलैः ॥

एते चादित्याभिमुखाः स्थाप्याः ॥ १.२९६ ॥

ग्रहपूजाम् आह ।

[५७३]

यथावर्णं प्रदेयानि वासांसि कुसुमानि च ।
गन्धाश् च बलयश् चैव धूपो देयश् च गुग्गुलुः ॥ १.२९७ ॥

यो ग्रहो यद् वर्णस् तस्मै तद् वर्णान्य् एव वस्त्रादीनि देयानि । धूपार्थं च गुग्गुलुर् देयः । अत्र वृत्तवशात् क्रमो न विवक्षितः सो ऽन्यतो ऽवगन्तव्य इति गन्धपुष्पधूपवस्त्रबलयः क्रमेण देयाः । अत्र सर्वेभ्यो ग्रहेभ्यो गन्धपुष्पाणि देयानि तथा धूपादि न पुनर् एकस्मै गन्धादिबलिपर्यन्तं दत्त्वान्यस्मै देयम् ॥ १.२९७ ॥

होमविधिम् आह

कर्तव्या मन्त्रवन्तश् च चरवः प्रतिदैवतम् ।

न केवलम् आदित्यादीनां पूजैव कार्या । किं तु प्रत्येकं चरवश् च । ते च मन्त्रवन्तः कार्याः । अनवस्रावितो विशदो ऽन्तरूष्मपक्व ओदनश् चरुः । तन्त्रवन्त इति पाठे पाकयज्ञेतिकर्तव्यता तन्त्रम् । अत्र च नवानाम् अपि ग्रहयागानां(णां) तुल्यकालत्वाद् इध्माद्यभेदः । तद् आह शौनकः- “एकबर्हिरिध्माज्यस्विष्टकृतः स्युस् तुल्यकालाः” । तद् एषाभियज्ञभागा गथाभिगीयते ।

पाकयज्ञान् समासाद्य एकाज्यान् एकबर्हिषः ।
एकस्विष्टकृतः कुर्यान् नानापि सति दैवते ॥ इति ।

होममन्त्रान् आह

आकृष्णेन इमं देवा अग्निर् मूर्धा दिवः ककुत् ॥ १.२९८ ॥
उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः ।
बृहस्पते अतियदर्यस् तथैवान्नात् परिस्रुतः ॥ १.२९९ ॥
शं नो देवीस् तथा काण्डात् केतुं कृण्वन् निमा अपि ।

भगवतो योगीश्वरस्य वाजसनेय(यि)त्वाद् वाजसनेयके समाम्नाता एवात्र मन्त्रा ग्राह्याः । तत्रत्यान्य् एवार्षादीनि वेदितव्यानि । आकृष्णेनेत्याद्या नवसंख्याका मन्त्रा नवसंख्याकेष्व् एवादित्यादिदै(दे)वत्येषु होमेषु यथासंख्यं प्रकीर्तिता विहिताः । तत्रैकैकस्य चरोर् एकैवाहुतिः पाकयज्ञातिदेशेन प्राप्ता सत्य् एकैकेन मन्त्रेण कार्या, आहुतीनां संख्यान्तराविधानात् । आकृष्णेनेति हिरण्यस्तूप [५७४] आङ्गिरस ऋषिर् आदित्यो देवता त्रिष्टुप् छन्दः । इमं देवा इति देवाः सोमो यजुः । अग्निर् मूर्धेति विश्वरूप आङ्गिरसो ऽङ्गारको गायत्री । उद्बुध्यस्वेति परमेष्ठी बुधस् त्रिष्टुप् । अन्नात् परिस्रुत इति अश्विसरस्वतीन्द्राः शुक्रो ऽतिजगती । सं नो देवीर् इति सिन्धुद्वीपः शनैश्चरो गायत्री । काण्डात् काण्डाद् इत्य् अग्नी रहुर् अनुष्टुप् । केतुं कृण्वन्न् इति मधुच्छन्दाः केतुर् गायत्री ॥ १.२९८, २९९ ॥

चरुहोमानन्तरं समिधां स्वरूपप्रतिपादनपूर्वकं तद् धोमम् आह

अर्कः पलाशः खदिरस् त्व् अपामार्गो ऽथ पिप्पलः ॥ १.३०० ॥
उदुम्बरः शमी दूर्वा कुशाश् च समिधः क्रमात् ।
एकैकस्याष्टशतकम् अष्टाविंशतिर् एव वा ॥ १.३०१ ॥
होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण संयुताः ।

अर्काद्याः समिधो यथा ग्रहस्या(म)ष्टोत्तरशतम् अष्टाविंशतिर् वा मधुघृताभ्यां दधिपयोभ्यां वाभ्यक्ताः पूर्वोक्तैर् मन्त्रैर् होतव्याः । एकैकस्येति षष्टी चतुर्थ्यर्थे । एषा च संख्या समिधाम् एव तदेकवाक्यत्वात् । न च सकृन् मन्त्रम् उच्चार्यैकदेवतात्वेन सह समिधः प्रक्षेप्तव्याः किं त्व् एकैकाः, प्रत्येकं च मन्त्रावृत्तिः । तद् उक्तं मत्स्यपुराणे ।

स्वेन स्वेनैव मन्त्रेण होतव्याः समिधः पृथक् ।

तथा ।

प्रादेशमात्राः सशिखाः शाखापर्णविपाटिताः ।
समिधः कल्पयेत् प्राज्ञः सर्वकर्मसु सर्वदा ॥ १.३००, ३०१ ॥

ब्राह्मणभोजनद्रयम् आह

गुडौदनं पायसं च हविष्यं क्षीरष(षा)ष्टिकम् ॥ १.३०२ ॥
दध्योदनं घृतान्नं च कृसरामिषचित्रकम् ।
दद्याद् ग्रहक्रमाद् एतद् द्विजेभ्यो भोजनं बुधः ॥ १.३०३ ॥
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ।

गुडौदनादिकं यथाग्रहक्रमं द्विजेभ्यो भोजनं दद्यात् । भुज्यत इति [५७५] व्युत्पत्त्या भोज्यम् एव भोजनम् । यदि गुडौदनं न शक्नुयाद् दातुं ततो यथाशक्ति यथालाभं साधारणं यथाविधि दद्यात् । गुडमिश्र ओदनो गुडौदनः । क्षीरमिश्रं षष्टिकान्नं क्षीरषाष्टिकम् । षष्टिको व्रीहिविशेषः । गुडौदनं सर्वम् एवात्र चित्रकम् ॥ १.३०२, ३०३ ॥

दक्षिना आह

धेनुः शङ्खस् तथानड्वान् हेम वासो हयः क्रमात् ॥ १.३०४ ॥
कृष्णा गौर् आयसं छग एता वै दक्षिणा स्मृताः ।

ग्रहक्रमेण दक्षिणा दातव्याः । धेनुर् नवप्रसूता गौः । अनसो वोढा गौर् अनड्वान् । आयसं लोहमयम् । प्रसिद्धम् अन्यत् । एताश् च दक्षिणा ऋत्विग्भ्य एव देयाः । तथा मत्स्यपुराणम् ।

यजमानः सपत्नीक ऋत्विजस् तु समाहितः ।
दक्षिणाभिः प्रयत्नेन पूजयेद् गतविस्मयः ॥
सूर्याय कपिलां धेनुं दद्याच् छङ्खं तथेन्दवे ।
रक्तं धुरंधरं दद्याद् भौमाय ककुदान्वितम् ॥
बुधाय जातरूपं तु गुरवे पीतवाससी ।
श्वेताश्वं दैत्यगुरवे कृष्णां गाम् अर्कसूनवे ॥
आयसं राहवे दद्यात् केतवे छागम् उत्तमम् ।
सुवर्णेन समाः कार्याः यजमानेन दक्षिणाः ॥
सर्वेषाम् अथ वा गावो दातव्या हेमभूषिताः ।
सुवर्णम् अथ वा दद्याद् गुरुर् वा येन तुष्यति ॥ १.३०४ ॥
यश् च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् ॥ १.३०५ ॥
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ।

यस्य पुरुषस्य यो ग्रहो दुःस्थो दुःखप्रदराशिस्थितो यथा जन्मराशितो ऽष्टमराशिस्थः स तं ग्रहम् इतरग्रहपूजायाम् असमर्थ एकम् एव यत्नेनादरेणोक्तविधिना पूजयेत् । पूजितो हि न दुःखकरो भवति । यत एषां ग्रहाणां यूयं पूजयितारं पूजयिष्यथाभिलषितेन फलेन योजयिष्यथेति ब्रह्मणा प्रजापतिना वरो दत्तः ॥ १.३०५ ॥

अत्रैव हेत्वन्तरम् आह

[५७६] ग्रहाधीना नरेन्द्राणाम् उच्छ्रायाः पतनानि च ॥ १.३०६ ॥

भावाभावौ च जगतस् तस्मात् पूज्यतमा ग्रहाः ।

अनेकजन्मार्जितपुण्योपचयवताम् अपि नरेन्द्राणां यतो ग्रहाधीना उच्छ्रायाः संपदतिशयाः पतनानि च विपदतिशयरूपाणि । तथा जगतो भावाभावाव् उदयप्रलयौ ग्रहाधीनाव् एव । तस्माद् अन्येभ्यः पूज्यतरेभ्यो ऽतिशयेन ग्रहा उक्तप्रकारेण पूज्याः । यद्य् अपि धर्माधर्मौ सुखदुःखानुभवहेतू तथापि कालविशेषम् अनपेक्ष्य न तद् धेतू भवतः । न च ग्रहाणां गतिविशेषम् अन्तरेण् कालनिशेषः शक्यो निरूपयितुम् इति भवति ग्रहाधीनत्वं नरेन्द्रोच्छ्रायादेर् अतो विरुद्धं ग्रहस्थानं दृष्ट्वा तत्सूचितागामिदुःखसंघातविघाताय ग्रहयज्ञः कार्यः । स हि शान्तिकामस्य विहित इति तात्पर्यार्थः ॥ १.३०६ ॥

इति श्रीविध्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदप्रादित्यदेवविरचिते याज्ञवल्कीयधर्मशास्त्रनिबन्धे ऽपरार्के

ग्रहयज्ञविधिप्रकरणं समाप्तम् ॥ ११ ॥