११ गणपति-कल्प-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

विनायकपूजाविधिप्रकरणम् (१०) ।

अभीष्टकर्मफलप्राप्तौ विघ्नपरिहारस्याप्य् उपायम् इदानीम् आह

विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजिनः ।
गणानाम् आधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥ १.२७० ॥

विनायकाख्यो देवविशेषः सर्वेषां कर्तॄणां कर्मविघ्नार्थं कर्मसिद्ध्यर्थं च गणानां पुष्पदन्तादीनाम् ईश्वरत्वे च रुद्रचतुर्मुखाभ्यां नियुक्तो ऽतो ऽसौ विहितोपायेनैव निवारयितुं च शक्यत इति तदुपायविधिर् आरभ्यते ॥ १.२७० ॥

तत्र विनायकोपद्रवे सति तच्छमनाधिकार इति तदुपद्रवलक्षणं तावद् आह

तेनोपसृष्टो यस् तस्य लक्षणानि निबोधत ।
स्वप्ने ऽवगाहते ऽत्यर्थं जलं मुण्डांश् च पश्यति ॥ १.२७१ ॥
काषायवाससश् चैव क्रव्यादांश् चाधिरोहति ।
अन्त्यजैर् गर्दभैर् उष्ट्रैः सहैकत्रावतिष्ठते ॥ १.२७२ ॥
व्रजन्तं च तथात्मानं मन्यते ऽनुगतं परैः ।

तेन विनायकेनोपसृष्ट उपद्रुतो यो मनुष्यस् तस्य वक्ष्यमाणानि चिह्नानि हे मुनयः शृणुत, स्वप्ने ऽतिशयेन जलम् अवगाहते जलम् अग्रम् आत्मानं पश्यतीत्य् अर्थः । मुण्डान् कृतवपनान् काषायवसनांश् च नरान् पश्यति । तथा क्रव्यादान् व्याघ्रादीन् अधिरोहत्य् अन्त्यजातिभिः सहैकत्र देशे ऽवतिष्ठते च । तथा गच्छन्तं मां पृष्ठतः परे ऽनुगच्छन्तीति मन्यते । क्रव्यम् आममांसं तद् अदन्ति ये ते क्रव्यादा इति स्वप्ने ॥ १.२७१, २७२ ॥

अथ जागरणे

विमना विफलारम्भः संसीदत्य् अनिमित्ततः ॥ १.२७३ ॥
तेनोपसृष्टो लभते न राष्ट्रं राजनन्दनः ।
कुमारी च न भर्तारम् अपत्यं गर्भम् अङ्गना ॥ १.२७४ ॥

[५६३] आचार्यत्वं श्रोत्रियश् च शिष्यो ऽधयनं तथा ।

वणिग् लाभं न चाप्नोति कृषिं चैव कृषीवलः ॥ १.२७५ ॥

विमना उद्विग्नमना विफलारम्बो निष्फलोद्यमः संसीदत्य् अवसीदति अनिमित्ततो दृष्टनिमित्ताभावतः । राजनन्दनो राजपुत्रो न राज्यं कुमारी गुणवत्य् अपि न भर्तारम् अङ्गना च गर्भं प्रसूताव् अपत्यम् आयुष्मच् छ्रोत्रियश् चाचार्यत्वं शिष्यश् चाध्ययनं वनिज्याजीवी च तन्निमित्तं धनोपचयं कृषीवलश् च कृषिं न लभते । इमानि विनायकोपसृष्टस्य लक्षणानि । तत्र बैजवापगृह्यम्- “अथ विनायकाः । चत्वारः खलु विनायका भवन्ति । मितश् च संमितश् च शालकटङ्कश् च कूष्माण्डराजपुत्रश् चेत्य् एतैर् विनायकैर् उपसृष्टलक्षणा ब्राह्मणाः स्वाध्यायवन्तो ऽप्य् आचार्यत्वं न लभन्ते । कुमारा राजपुत्रा राजलक्षणसंपन्ना अपि राज्यं न लभन्ते । कुमार्यो ऽपि लक्षणवत्यो ऽपि भर्तॄन् न लभन्ते । स्त्रीणाम् आचारवतीनाम् अप्य् अपत्यानि म्रियन्ते । विनायकोपसृष्टलक्षणं खलु भवति स्वप्ने सर्वान् पश्यति । अत्यन्तम् अपो ऽवगाहते । अन्तरिक्षं क्रामति पांसुकर्दमे चावसीदति । पृष्ठतो मां कश्चिद् धावन्तीति मन्यते । उष्ट्रान् गर्दभाञ् शुनो दिवाकीर्त्म् अन्यांश् चाप्रयतान् पश्यति । करणे गूढम् आत्मानं मलिनान्तरम् अन्यांश् च प्रयतान् पश्यति” । भविष्यत्पुराणे ।

करणे मूढम् आत्मानं मलिनान्तरगस् तथा ।
चतुर्भिश् चावृतं यान्तं श्मशानान्तिकगं नृप ॥
पश्यते नृपशार्दूल पश्यते नात्र संशयः ।
तैलार्द्रगात्रं च विभो करवीरविभूषितम् ॥ १.२७३, २७४, २७५ ॥
स्नापनं तस्य कर्तव्यं पुण्ये ऽह्नि विधिपूर्वकम् ।

तस्य विनायकोपसृष्टस्य तदुपसर्गशान्तये पुण्याहे वक्ष्यमाणविधिना स्नपनं कार्यम् । यत् तु भविष्यत्पुराणे,

शुक्लपक्षे चतुर्थ्यां च वारेण धिषणस्य च ।
तिष्ये च वीरनक्षत्रे तस्यैव पुरतो नृप ॥

इति, तत् तु श्रीकामविनायकस्नपने द्रष्टव्यम् । तद् उपसृष्टस्नपनविषयाणां तु [५६४] पुण्याहविधानम् । उपसृष्टस्य चिरकालविलम्बायोगात् । धिषणो बृहस्पतिः । तस्यैव विनायकस्येतु अर्थः ॥

स्नपनविधिम् आह

गौरसर्षपकल्केन साज्येनोत्सादितस्य च ॥ १.२७६ ॥
सर्वौषधैः सर्वगन्धैर् विलिप्तशिरसस् तथा ।
भद्रासनोपविष्टस्य स्वस्ति वाच्या द्विजाः शुभाः ॥ १.२७७ ॥

शुक्लसर्षपाणां चूर्णेनाज्यसहितेन स उद्वर्तनीयः । ततः सर्वैषधैः सगन्धैश् चूर्णितैः सोदकैर् विलिपमस्तकः कार्यस् ततो भद्रासन उपवेश्यस् ततस् तस्य स्वस्ति भवन्तो ब्रुवन्त्व् इति द्विजा विप्राः शुभाः कल्याण(णं) वाच्याः । अत्र कर्तरि षष्ठी । ततश् च तेन वाच्या इत्य् अर्थः । तत्सादनादि शै(शि)वादिदेवपूजां कृत्वा कार्यम् इत्य् उक्तं भविष्यत्पुराणे ।

व्योमकेशं तु संपूज्य पार्वतीं भीमजं तथा ।
कृष्णस्य पितरं तात अरकम् आरं सितं तथा ॥
धिषणं क्लेदपुत्रं च कोणं लक्ष्म च भारत ।
विधुंतुदं बाहुलेयं नन्दकस्य च धारिणम् ॥

व्योमकेशः शिवः । भीमजो गणेशः । कृष्णस्य पिता वसुदेवः । आरो भौमः । सितः शुक्रः । क्लेदपुत्रो बुधः । कोणः शनेश्वरः । लक्ष्म लक्ष्मवांश् चन्द्रः, पूर्ण इत्य् अर्थः । विधुंतुदो राहुः । केतुर् अत्रानुक्तो ऽपि ग्राह्यः साहचर्यात् । बाहुलेयः स्कन्दः । नन्दकस्य धारी विष्णुः । सर्वौषधानि सहदेव्यादीनि । तथा च मत्स्यपुराणम् ।

सहदेवी वचा व्याघ्री बला चातिबला तथा ।
शङ्खपुष्पी तथा सिंही अष्टमी तु सुवर्चला ॥
महौषध्यष्टकं ह्य् एतन् महास्नानेषु योजयेत् ॥

ब्रह्म(ब्राह्मी)सुवर्चलादीनि वा । तथा च भविषत्पुराणम् ।

ब्राह्मी सुवर्चला मुस्ता विष्णुक्रान्ता शतावरी ।
दुर्लभा शङ्खपुष्पी च प्रियङ्गुरजनी वचा ॥

सुरादीनि वा । तथा स्मृतिः ।

सुरा मांसी वचा कुष्टं रजनीद्वयम् ।
**सती चण्यकमुस्तं च सर्वौषधिगणः स्मृतः ॥ [५६५]

सुरा ताभोरा इति प्रसिद्धा । रजनीद्वयं हरिद्रादारुहरिद्रे । सती कर्पूरविशेषः । वालुकादीनि वा । तथा च वसिष्ठः ।

वालुका शङ्खपुष्पी च कुष्ठं चैव वचा तथा ।
नागकेसर्चूर्णं च सर्वौषधिगणो भृगो ॥ १.२७६, २७७ ॥

अपि च

अश्वत्थानाद् गजस्थानाद् वल्मीकात् संगमाद् ध्रदात् ।
मृत्तिकां रोचनां गन्धान् गुग्गुलं च विनिक्षिपेत् ॥ १.२७८ ॥
या आहृता ह्य् एकवर्णैश् चतुर्भिः कलशैर् ह्रदात् ।

एकवर्णैश् चतुर्भिः कलशैर् अप आहृत्य तास्व् अश्वस्थादिभ्यः समाहृता मृत्तिका गोरोचनाम् अगुरुकस्तूरीकर्पूरचन्दनकेसरात्मकान् गन्धान् गुग्गुलं च विनिक्षिपेत् । अत्र बैजवापगृह्यम्- “चतुर्भ्यः प्रस्रवणेभ्यश् चतुरः कुम्भान् आहृत्य तेषु सर्वौषधीः सर्वगन्धान् हिरण्यं व्रीहियवौ गुग्गुलं मृदम् आखूत्कराम्” इति । प्रक्षिपेद् इति शेषः ॥ १.२७८ ॥

चर्मण्य् आनडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥ १.२७९ ॥

अनः शकटं यो वहति तत् सो ऽनद्वान् बलीवर्दः । तच्चर्मणि लोहिते भद्रासणं प्रतिष्ठातन्त्रोकम् । ततो ऽप्सु मृदादिप्रक्षेपाद् अनन्तरं स्थाप्यम् ॥ १.२७९ ॥

सहस्राक्षं शतधारम् ऋषिभिः पावनं कृतम् ।
तेन त्वाम् अभिषिञ्चामि पावमान्यः पुनन्तु ते ॥ १.२८० ॥
भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।
भगम् इन्द्रश् च वायुश् च भगं सप्तर्षयो ददुः ॥ १.२८१ ॥
यत् ते केशेषु दौर्भाग्यं सीमन्ते यच् च मूर्धनि ।
ललाटे कर्णयोर् अक्ष्णोर् आपस् तद् घ्नन्तु ते सदा ॥ १.२८२ ॥

सहस्राक्षम् इत्यादिभिर् मन्त्रैस् त्रिभिर् एकैकेन कलशेन विनायकोपसृष्टस्य गुरुः स्नपनं करोति । प्रतिकलशं मन्त्रत्रयावृत्तिः ॥ १.२८०, २८१, २८२ ॥

[५६६]

स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु ।
जुहुयान् मूर्धनि कुशान् सव्येन परिगृह्य च ॥ १.२८३ ॥
मितश् च संमितश् चैव तथा शालकटङ्कटः ।
कूष्माण्डराजपुत्रश् चेत्य् अन्ते स्वाहासमन्वितैः ॥ १.२८४ ॥
नामभिर् बलिमन्त्रैश् च नमस्कारसमन्वितैः ।
दद्याच् चतुष्पथे शूर्पे कुशान् आस्त्रीय सुव्रतः ॥ १.२८५ ॥
कृताकृतांस् तण्डुलांश् च पललौदनम् एव च ।
मत्स्यान् पक्वांस् तथा चामान् मांसम् एतावव् एव तु ॥ १.२८६ ॥
पुष्पं चित्रं सुगन्धं च सुरां च विविधाम् अपि ।
मूलकं पूरिकापूपांस् तथैवोण्डेरकस्रजम् ॥ १.२८७ ॥
दध्य् अन्नं पायसं चैव गुडमिश्रं समोदकम् ।

पूर्वोक्तेन प्रकारेण स्नातकस्य शिरसि सव्येन पाणिना कुशान् परिगृह्येतरपाणिगृहीतेनौदुमरवृक्षमयेन स्रुवेण सर्ष्पतैलं मिताय स्वाहा संमिताय स्वाह शालकटङ्कटाय स्वाहा कूष्माण्डराजपुत्राय स्वाहेति गुरु जुहुयात् । तैर् एव मितादिभिश् चतुर्भिर् नामभिश् चतुर्थ्यन्तैर् नमस्कारसमन्वितैश् चतुष्पथे शूर्पं स्थापयित्वा तत्र च सर्वतः सर्वदिगग्रान् कुशान् आस्तीर्य कृताकृततण्डुलादिरूपं बलिं दद्यात् । नामभिर् बलिमन्त्रैश् चेति विशेषेण निर्देशान् मितादिनामभिश् चतुर्थ्यन्तैर् नमस्कारमन्त्रैर् बलिमन्त्रताम् आपन्नैर् बलिर् देय इति गम्यते । अवघातादिना येषां व्रीहीणां तण्डुलीभावः प्रारब्धापरिसमाप्तश् चैते कृताकृतास् तण्डुलाः । तिलपिष्टमिश्र ओदनः पललौदनः । मूलकं शाकादिविसेषः । भृष्टा लोपिकाः पूरिकाः । क्षुद्रापूपास् तूण्डेरकाः । प्रसिद्धम् अन्यत् । एतत् सर्वम् एकस्मिन् पात्रे कृत्वा सकृद् एव दद्यात् ॥ १.२८३, २८४, २८५, २८६, २८७ ॥

विनायकस्य जननीम् उपतिष्ठेत् तदाम्बिकाम् ॥ १.२८८ ॥

[५६७] दूर्वासर्षपुष्पाणां दत्वार्घं(घ्यं) पूर्णम् अञ्जलिम् ।

रूपं देहि यशो देहि भगं भवेति देहि मे ॥ १.२८९ ॥
पुत्रान् देहि धनं देहि सर्वकामांश् च देहि मे ।

दूर्वया सर्षपैः पुष्पैर् उदकेन च पूर्णम् अञ्जलिम् अर्घ्यं विधाय विनायकस्य जनन्या अम्बिकायै दत्वा रूपं देहीत्य् अनेन ताम् उपतिष्ठेत ॥ १.२८८, १८९ ॥

ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥ १.२९० ॥
ब्राह्मणान् भोजयेद् दद्याद् वस्त्रयुग्मं गुरोर् अपि ।

अम्बिकाम् उपस्थाय शुक्ले वाससी परिधाय शुक्लमाल्यानुलेपनैश् चात्मानम् अलंकृत्य ब्राह्मणान् भोजयेत् । गुरवे च वस्त्रद्वयं दद्यात् । गुरुशब्दप्रयोगात् स्नपनकर्ता गुरुवत् पूज्य इति गमयति ॥ १.२९० ॥

एवं विनायकं पूज्य ग्रहांश् चैव विधानतः ॥ १.२९१ ॥
कर्मणां फलम् आप्नोति श्रियम् आप्नोत्य् अनुत्तमाम् ।

एवम् उक्तेन प्रकारेण विनायकं पूजयित्वा ग्रहांश् च वक्ष्यमाणविधिना कर्मणां कृतानां करिष्यमाणानां च फलं विघ्नशान्तिद्वारेण प्राप्नोति । श्रियं चानुत्तमां सर्वोत्कृष्टाम् आप्नोति । न विद्यत उत्तमा यस्याः सानुत्तमा । आप्नोतीति पुनर्वचनं श्रीकामं प्रति विनायकादिपूजायाः पृथग्विधानार्थम् ॥ १.२९१ ॥

आदित्यस्य सदा पूजां तिलकं स्वामिनस् तथा ॥ १.२९२ ॥
महागणपतेश् चैव कुर्वन् सिद्धिम् अवाप्नुयात् ।

इति विनायकपूजाविधिप्रकरणम् ॥ १० ॥

आदित्यस्य स्वामिनः स्कन्दस्य महागणपतेश् च सर्वकालं पूजां तिलकं सुवर्णादिमयं कुर्वन् कर्मफलसिद्धिम् अवाप्नुयाद् इति ॥ १.२९२ ॥

इति श्रीविध्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदप्रादित्यदेवविरचिते याज्ञवल्कीयधर्मशास्त्रनिबन्धे ऽपरार्के

विनायकपूजाविधिप्रकरणं समाप्तम् ॥ ९ ॥