१० श्राद्ध-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

श्राद्धप्रकरणम् । (९)

श्राद्धं स्वधनत्यागरूपत्वाद् दानेन सदृशम् इति दानविधानानन्तरं बुद्धिस्थम् अतो दानप्रकरणानन्तरं श्राद्धकल्पम् आरभते । तत्र कालो ऽङ्गम् अप्य् अनुपादेय इति स्वरूपेणैवाधिकारहेतुः । न हि कालान्तरे वर्तमानः कर्ताङ्गभूतं कालान्तरविशिष्टं कर्म शक्नुयात् कर्तुम् । किं तु तत्काल एवेति युक्तं कालस्याधिकारहेतुत्वम् । विष्णुक्रमादीनां तूपादेयाङ्गानां न स्वरूपम् अधिकारहेतुः किं तु तद्विषया शक्तिस् तस्मात् कालस्याधिकारहेतुत्वाद् अधिकारायत्तत्वाच् चानुष्ठानस्य श्राद्धकालांस् तावद् आह ।

अमावास्याष्टका वृद्धिः कृष्णपक्षो ऽयनद्वयम् ।
द्रव्यब्राह्मणसंपत्तिर् विषुवत् सूर्यसंक्रमः ॥ १.२१७ ॥
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश् चैव श्राद्धकालाः प्रकीर्तिताः ॥ १.२१८ ॥

अमावास्यादयः श्राद्दस्याङ्गभूताः काला मन्वादिभिः प्रकीर्तिताः । अत्रामावास्या कृष्णपक्षस्य पञ्चदशी तिथिः । सा च सनीवाली कुहूश् चेति द्विविधा ।

दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूस् तथा ।

तत्र साग्निकैः सिनीवाल्यां श्राद्धं कार्यम् इतरैः कुह्वाम् । तथा च व्यासः ।

दृष्टचन्द्रा स्नीवाली कार्या विप्रैस् तु साग्निकैः ।
नष्टचन्द्रा कुहूः कार्या शूद्रैर् विप्रैर् अनग्निकैः ।

शूद्रैर् अनग्निकैर् विप्रैश् चेति योज्यम् । यत् तु प्रेचेतसोक्तम्,

सिनीवाली कुहूश् चैव श्रुत्युक्ते पितृकर्मणि ।
स्यातां चैते तु मध्याग्ने श्राद्धादि स्यात् कथं तदा ॥
तिथिक्षये सिनीवाली तिथिवृद्धौ कुहूर् मता ।
**साम्ये ऽपि च कुहूर् ज्ञेया वेदवेदाङ्गवेदिभिः ॥ [४१८]

इति, तद् यत्र क्षये सिनीवाल्यां पितृयज्ञो भवति तद्विषयं ग्राह्यम् । यदा तु कुह्वां पितृयज्ञस् तदा साग्निकैर् अपि सैव ग्राह्या । पितृयज्ञानन्तरं हि श्राद्धं विहितम् । यद् आह मनुः ।

पितृयज्ञं तु निर्वर्त्य विप्रश् चन्द्रक्षये ऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् ॥ इति ।

वीप्सातो नित्यम् अमावास्याश्राद्धम् इति संबध्यते । तथा च लौगाक्षिः ।

श्राद्धं कुर्याद् अवश्यं तु प्रमीतपितृकः स्वयम् ।
इन्दुक्षये मासि मासि वृद्धौ प्रत्यब्दम् एव च ॥ इति ।

एतच् च निरग्निनापि कार्यम् । तथा च उशना ।

कुर्याद् अहर् अहः श्राद्धं प्रमीतपितृको द्विजः ।
साग्निको ऽनग्निको वापि प्रतिमासे तथाब्दिकम् ॥ इति ।

प्रमीतपितृक इति वचनाज् जीवपितृकस्यानियमो गम्यते । तथा च हारीतः ।

जीवे पितरि वै पुत्रः श्राद्धकर्म विवर्जयेत् ।
यभ्यो वापि पिता दद्यात् तेभ्य एके प्रचक्षते ॥

तेभ्य एवेति च पक्षः साग्निकस्यैव । यद् आह सुमन्तुः।

न जीवत्पितृकः कुर्याच् छ्राद्धम् अग्निम् ऋते द्विजः ।
येभ्य एव पिता कुर्यात् तेभ्य एव तु साग्निकः ॥

अत्र विशेषो मैत्रायणीयप्रैशिष्टात् ।

उद्वाहे पुत्रजनने पित्र्येष्ट्यां सौमिके मखे ।
तीर्थे ब्राह्मण आयाते षड् एते जीवतः पितुः ॥

जीवत्पितृकस्य षड् एते श्राद्धकाला इत्य् अर्थः । पित्र्येष्टिश् चातुर्मास्येषु सौमिके मखे पुरोडाशात् पिण्डदानम् । अत्र च पितृग्रहणम् उपलक्षणार्थम्, यद् आह विष्णुः- “पितरि जीवति यः श्राद्धं कुर्यात् स येषां पिता कुर्यात् तेभ्यः कुर्यात् । पितामहे जीवति येषां पितामहः । पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात्” इति । एवं तावज् जीवपितृक इतरो वा साग्निः सिनीवाल्यां श्राद्धं कुर्याद् इत्य् उक्तम् । तत्र ये सिनीवालीप्रतिषेधास् ते निरग्निविषयाः पिण्डपितृयज्ञायोग्यसिनीवालीविषया वा ग्राह्याः । ते तावद् उदाह्रियन्ते । तत्र बौधायनः ।

[४१९] मध्याह्नात् परतो यत्र चतुर्दश्य् एव वर्तते ।

सिनीवालीति सा ज्ञेया पितृकार्ये तु निष्फला ॥

कार्ष्णाजिनिः ।

भूतविद्धाम् अमावास्यां मोहाद् अज्ञानतो ऽपि वा ।
श्राद्धकर्माणि ये कुर्युस् तेषाम् आयुः प्रहीयते ॥

इत्यादयः । यत् तु प्रचेतसोक्तम्,

नागविद्धा च या षष्ठी सप्तम्या च तथाष्टमी ।
दशम्येकादशीविद्धा त्रयोदश्या चतुर्दशी ॥
भूतविद्धा त्व् अमावास्या न ग्राह्या मुनिपुंगवैः ।

इति, तच् छ्राद्धाद् अन्यत्र द्रष्टव्यम् । हारीतः ।

तुलामकरमेषेषु कन्यायां मिथुने तथा ।
भूतविद्धा त्व् अमावास्या पूज्या भवति यत्नतः ॥

एतद् अपि व्रतोपवासादिविषयम् । बौधायनः ।

घटिकैकाप्य् अमावास्या प्रतिपत्सु न चेत् तदा ।
भूतविद्धापि कर्तव्या दैवे पित्र्ये च कर्मणि ॥

अनग्निभिर् अपि भूतविद्धैव श्राद्धे कार्येत्य् अर्थः । घटिकैकापीति कर्मकालं व्याप्नोतीत्य् अर्थः । तेनापराह्णव्यापिनी कुहूः श्राद्धकर्मणि सर्वैर् एव त्याज्या । तथा च जाबालः ।

प्रतिपत्स्व् अप्य् अमावस्या पूर्वाह्णव्यापिनी यदि ।
पूरविद्धैव सा कार्या पित्र्ये कर्मणि सर्वदा ॥

अमावास्याश्राद्धस्यावश्यकत्वम्, असामर्थ्ये च प्रतिविधिविशेषम् आह हारीतः ।

अष्टकान्वष्टकाभ्युदयतीर्थपात्रोपपत्तयः ।
पितॄणाम् अतिरेको वै मासिको ऽर्थो ध्रुवः स्मृतः ॥
अपि मूलैः फलैर् वापि तथाप्य् उदकतर्पणैः ।
अविद्यमाने कुर्वीत न तु प्राप्तं विलङ्घयेत् ॥ इति ।

मासिको ऽर्थः पार्वणं श्राद्धम् । अत्रैव विषये देवलः ।

यद् एव तर्पयत्य् अद्भिर् आहिताग्निर् दिने दिने ।
पित्र्यं तेनैव चाप्नोति वार्षिकादिक्रियाफलम् ॥
पिण्डमात्रं प्रदातव्यम् अभावे द्रव्यविप्रयोः ।
**श्राद्धाहनि तु संप्राप्ते भवेन् निरशनो ऽपि वा ॥ [४२०]

पिण्डदानासंभवे निरशनत्वम् । तथा ।

पात्राभावे परं कृत्वा पितृयज्ञविधिं नरः ।
निर्दिश्याप्य् अन्नम् उद्धृत्य यत्र पात्रं ततो गतिः ॥

पितृयज्ञविधिं कृत्वा यत्र ब्राह्मणस् तत्र तद् अन्नं नीत्वा ब्राह्मणाय दद्याद् इत्य् अर्थः । तथा ।

निधाय वा दर्भचाटून् आसनेषु समाहितः ।
प्रैषानुप्रैषसंयुक्तं निधानं प्रतिपद्यते ॥
सर्वाभावे क्षिपेद् अग्नौ गवे दद्यात् तथाप्सु वा ।
न तु प्राप्तस्य लोपो ऽस्ति पैतृकस्य विशेषतः ॥
एकेनापि हि विप्रेण षट्पिण्डं श्राद्धम् आचरेत् ।
षड् अर्घ्यान् दापयेत् तत्र षड्भ्यो दद्यात् तथासनम् ॥
पिता भुङ्क्ते द्विजकरे मुखे भुङ्क्ते पितामहः ।
प्रपितामहस् तु तालुस्थं कण्ठे मातामहः स्मृतः ॥
एवम् अप्य् आचरेच् छ्राद्धं षड्दैवत्यं महामुने ।
विलुप्तिं कारयेद् यस् तु पितृहा स प्रजायते ॥

वृद्धो वृद्धप्रमातामहः । मनुः ।

अनेन विधिना श्राद्धं त्रिरब्दस्येव निर्वपेत् ।
हेमन्तग्रीष्मवर्षासु पञ्चयज्ञिकम् अन्वहम् ॥

देवलः ।

अनेन विधिना श्राद्धं कुर्यात् संवत्सरे सकृत् ।
त्रिश् चतुर् वा यथा श्राद्धं मासे मासे दिने दिने ॥

वृद्धवसिष्ठः ।

किंचिद् दद्याद् अशक्तस् तु उदकुम्भादिकं द्विजे ।
तृणानि वा गवे दद्यात् पिण्डान् वाप्य् अथ निर्वपेत् ॥
तिलदर्भैः पितॄन् वापि तर्पयेत् स्नानपूर्वकम् ।
अग्निना वा दहेत् कक्षं श्राद्धकाले समागते ।
तस्मिन् वोपवसेद् अह्नि जपेद् वा श्राद्धसंहिताम् ॥

विष्णुपुराणे ।

असमर्थो ऽन्नदानस्य धान्यम् आमं स्वशक्तितः ।
प्रदास्यति द्विजाग्र्येभ्यः स्वल्पाल्पाम् अपि दक्षिणाम् ॥

[४२१] तत्राप्य् असामर्थ्ययुतः कराग्राग्रस्थितांस् तिलान् ।

प्रणम्य द्विजमुख्याय कस्मैचिन् नृप दास्यति ॥
तिलैः सप्ताष्टभिर् वापि समवेतं जलाञ्जलिम् ।
भक्तिनम्रः सुमुद्दिश्य भुव्य् अस्माकं प्रदास्यति ॥
यतः कुतश्चित् संप्राप्य गोभ्यो वापि गवाह्निकम् ।
अभावे प्रयतस् तस्माच् छ्रद्धायुक्तः प्रदास्यति ॥
सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः ।
सूर्यादिलोकपालानाम् इदम् उच्चैः पठिष्यति ॥

[तद् यथा मार्कण्डेयपुराणे योगिन्या मदालसयोक्तम्]

न मे ऽस्ति वित्तं न धनं न चान्य्च् छ्राद्धोपयोगि स्वपितॄन् नतो ऽस्मि ।
तृप्यन्तु भक्त्या पितरो मयैतौ भुजौ कृतौ वर्त्मनि मारुतस्य ॥
इत्य् एवं पितृभिर् गीतं भावाभावप्रयोजनम् ।
यः करोति कृतं तेन श्राद्धं भवति पार्थिव ॥

स्मृत्यन्तरम् ।

अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् ।
स तदा वाचयेद् विप्रान् साकल्यात् सिद्धिर् अस्त्व् इति ॥

पितृयज्ञः श्राद्धम् । एवम् अमावास्याश्राद्धस्य नित्यत्वाद् उपात्तदुरितक्षयो ऽकरणनिमित्तप्रत्यवायपरिहारो वा नियोगसिद्धिर् वा प्रयोजनम् । ब्रह्मज्ञानसहितस्य तु मुक्तिः । वक्ष्यति हि तत्त्वज्ञाननिष्ठः श्राद्धकृद् विमुच्यत इति । अन्येषाम् अपि नित्यकर्मणाम् एतत् प्रयोजनम् अनुसंधेयम् । न च,

पिण्डानाम् अङ्गभूतं हि मासिकं श्राद्धम् उच्यते ।
पश्चाद् इदं भवेद् यस्मात् प्रशस्तामिषयोगतः ॥

इति भविष्यत्पुराणवचनाद् अमावास्याश्राद्दस्याङ्गत्वम् अवगम्यते । न पृथक्प्रयोजनम् अस्यास्तीति वाच्यम् । यतः पिण्डानां पितृयज्ञस्य यो ऽङ्गम् अमावास्याख्यः कालस् तत्र भूतं तदङ्गभूतम् इति तस्यार्थः । न पुनः पितृयज्ञाङ्गत्वम्, तथा हि सति निरग्नेस् तच्छ्राद्धम् अविधेयं स्यात् ।

अष्टका मार्गशीर्षादिमासत्रयापरपक्षाष्तम्यः । अष्टकाशब्दो यद्य् अपि कर्मविशेषनाम तथापि तदङ्गभूतं कालम् इह लक्षयति नान्यथा श्राद्धकालाः प्रकीर्तिता इति युज्यते । तत्र गृह्यकृच्छौनकः ।
**हेमन्तशिशिरयोश् चतुर्णाम् अपरपक्षाणाम् अष्टमीष्व् अष्टकाः । [४२२]

इति वदन्न् अष्टमीचतुष्टयम् अष्टकाङ्गत्वेनाह । विष्णुस् तु त्रयम् एवाह- “अमावास्यास् तिस्रो ऽष्टकास् तिस्रो ऽन्वष्टका । माघीप्रोष्ठपद्यूर्ध्वं कृष्णत्रयोदशी व्रीहियवपाकौ चेति ।

एतानि श्राद्धकालानि नित्यान्य् आह प्रजापतिः ।
श्राद्धम् एतेष्व् अकुर्वाणो नरकं प्रतिपद्यते” ॥ इति

अत एव नित्यता ह्य् अष्टकाश्राद्धस्य सिध्यति । ब्रह्मपुराणे पुनर् अष्टकाश् चतस्रः ।

ऐन्द्र्यां तु प्रथमायां च शाकैः संतर्पयेत् पितॄन् ।
प्राजापत्यां द्वितीयायां मांसैः शुद्धैश् च तर्पयेत् ॥
वैश्वदेव्यां तृतीयायां अपूपैश् च यथाक्रमम् ।
वर्षासु मेध्यैः शाकैस् तु चतुर्थ्याम् एव सर्वदा ॥

श्रावणादयश् चत्वारो मासा वर्षाः । माध्यंदिनशाखागृह्ये च मध्यावर्षे सा तुरीया शाकाष्टका । तथा — ऐन्द्री वैश्वदेवी प्राजापत्या पित्र्येति च । वृद्धिर् विवाहादिः । वैदिकः कर्मगणः पुत्रजन्मादिश् च । सा च निमित्तत्वाद् अनुपादेयेति कालतुल्यत्वाच् छ्राद्धकालाः प्रकीर्तिता इति कालशब्देन शक्या संग्रहीतुम् । ततश् च वृद्धिश्राद्धं नैमित्तिकत्वाद् आवश्यकम् । अत एव वृद्धशातातपः ।

वृद्धौ न तर्पिता यैर् वै देवता गृहमेधिभिः ।
तद्दानफलं सर्वम् आसुरो विधिर् एव सः ॥ इति ।

कृष्णपक्षः प्रसिद्धः । तस्य श्राद्धकालत्वं श्राद्धाङ्गभूतापराह्णावच्छेदकप्रतिपदादितिथिनिरूपणद्वारेण । एतच् चावश्यकम्, “शाकेनाप्य् अपरपक्षं नातिक्रामेन् मासि मासि वो ऽशनम् इति श्रुतिः” इति कात्यायनवचनात् । एतच् चामावास्येन श्राद्धेन विकल्पते, “अथ श्राद्धम् अमावास्यायां पितृभ्यो दद्यात् पञ्चमीप्रभृर्ति वापरपक्षस्य” इति गौतमवचनात् । न च पञ्चमीप्रभृतित्वं नियतम् । यतः स एवाह- “सर्वस्मिन् वा” इति । न च प्रत्यहं श्राद्धम् आशङ्कनीयम् । यद् आह कात्यायनः- “अपरपक्षे श्राद्धं कुर्वीतोर्ध्वं चतुर्थ्यां यद् अहः संपद्यते” इति । मनुस् तु,

कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
श्राद्धे प्रशस्तास् तिथयो यथैता न तथेतराः ॥

इति दशम्यादिपक्षम् अप्य् उक्तवान् । [४२३] प्रतिमासं कृष्णपक्षविधानेनैव प्रोष्ठपद्या अपरपक्षो ऽपि प्राप्तः । तथास्य यमेन यः पृथग् विधिः क्रियते,

आषाढीम् अवधिं कृत्वा यः पक्षः पञ्चमो भवेत् ।
तत्र श्राद्धं प्रकुर्वीत कन्यास्थो ऽर्को भवेन् न वा ॥

इति, सो ऽमावास्याश्राद्धेन समुच्चयार्थः । प्रत्यहं तत्र श्राद्धप्राप्त्यर्थश् च । अत एव ब्रह्मपुराणम् ।

अश्वयुक्कृष्णपक्षे तु श्राद्धं कार्यं दिने दिने ।
त्रिभागहीनं पक्षं वा त्रिभागं त्व् अर्धम् एव वा ॥

अत्र पौर्णमास्यन्तमासाभिप्रायेण प्रोष्ठपद्या अपरपक्षो ऽश्वयुक्कृष्णपक्ष उक्तः । त्रिभागहीनपक्षे ऽपि प्रत्यहं श्राद्धं कार्यम् । पक्षम् इति द्वितीयावशादत्यन्तसंयोगावगमात् । एवम् उत्तरत्रापि- “त्रिभागहीने पक्षे पञ्चमीप्रभृति वापरपक्षस्य” इति गौतमवचनात् । पञ्चमीप्रभृतिकरणपक्ष आद्याश् चतस्रस् तिथयो हीयन्ते चतुर्दशी चेति तिथिपञ्चकहानाद् भवति त्रिभागहीनः पक्षः । त्रिभागपक्षे दशम्याम् उपक्रमः । चतुर्दशीपरित्यागाच् च त्रिभागत्वम् । अर्धपक्षे पुनर् अष्टम्याम् उपक्रमः । चतुर्दशीवर्जनाच् चार्धत्वम् । विकल्पश् चायं कर्तृशक्त्यपेक्षः । मलमासापरपक्षे ऽपि प्रोष्ठपद्या अपरपक्षः कदाचिद् भवति । तन्निवृत्यर्थम् आह शाट्यायनिः ।

नभस्य् अस्यापरे पक्षे तिथिषोडशकं तु यत् ।
कन्यागतान्वितं चेत् स्यात् स कालः श्राद्धकर्मवत् ॥ इति ।

शुक्लप्रतिपदम् अन्तर्भाव्य षोडशसंख्या पूरणीया । नभस्यः प्रोष्ठपदः । कन्यागतान्वये विशेषम् आह कार्ष्णाजिनिः ।

अन्ते वा यदि वा मध्ये यत्र कन्यां रविर् व्रजेत् ।
पक्षः स पञ्चमः पूज्यः श्राद्धषोडशकं प्रति ॥ इति ।

तेन सिंहगते सूर्ये ऽस्ति श्राद्धषोडशकारम्भः । तथा च जातूकर्ण्यः ।

आषाढीम् अवधिं कृत्वा य पक्षः पञ्चमो भवेत् ।
श्राद्धकालः स विज्ञेयः कन्यां गच्छतु वा न वा ॥ इति ।

पक्षोपक्रमाभिप्रायम् एतत् । कन्यागतान्वयेन तु पक्षस्य भवितव्यम् एव, “कन्यागतान्वितं चेत् स्यात्” इत् वचनात् । ततश् च प्रोष्ठपद्याः पूर्वस्मिन्न् [४२४] अपरस्मिन् वा पक्षे कन्यासंक्रान्तौ सत्याम् उत्तरः पक्षः श्राद्धकालः । यत् तु ब्रह्माण्डपुराणे,

कन्यागते सवितरि यान्य् अहानि तु षोडश ।
क्रतुभिस् तानि तुल्यानि तत्र दत्तं महाफलम् ॥

तत् फलाधिक्याभिप्रायम् । तद् आह शाट्यायनिः ।

पुण्यः कन्यागतस् तावत् पुण्यः पक्षश् च पञ्चमः ।
कन्यागतः पञ्चमश् च सो ऽत्यन्तं पुण्य उच्यते ॥

ततश् च सवितुः कन्यागतत्वे पृथक्श्राद्धकालत्वम् । अतः पुनर् एव कार्ष्णाजिनिः ।

कन्यागते सवितरि पितरो यान्ति वै सुतान् ।
तावत् प्रेतपुरी शून्या यावद् वृश्चिकदर्शनम् ॥

ब्रह्मपुराणम् ।

यावच् च कन्यातुलयोः क्रमाद् आस्ते दिवाकरः ।
तावच् छ्राद्धस्य कालः स्याच् छून्यं प्रेतपुरं तदा ॥ इति ।

पञ्चमपक्षश्राद्धं नित्यम् । यद् आह जातुकर्ण्यः ।

नैयोगिको विधिर् ह्य् एष पक्षे वै पञ्चमे स्मृतः ।
तस्मिन् दत्तं हविर्भूतं पितॄणाम् अक्षयं भवेत् ॥ इति ।

नैयोगिको नैयमिकः । अत एव व्यासः ।

हस्ते वर्षासु कन्यास्थे शाकेनापि गृहे वसन् ।
पञ्चम्योर् अन्तरे दद्याद् उभयोर् वंशयोर् ऋणम् ॥

ऋणम् अवश्यं दयत्वात् । उभयोर् वंशयोर् मातापितृवंशयोः । पञ्चम्योः कृष्णशुक्लपक्षपञ्चम्योर् इत्य् अर्थः । अत्रानुकूल्यम् आह सुमन्तुः ।

सूर्ये कन्यास्थिते कुर्याच् छ्राद्धं यो न गृहाश्रमी ।
धनं पुत्राः कुतस् तस्य पितृनिःश्वासपीडनात् ॥
येयं दीपान्विता राजन् ख्याता पञ्चदशी भिवि ।
तस्यां दद्यान् न चेद् दत्तं पितॄणां वै महालये ॥

महालये कन्यागतपक्षे । यद् अपि स्मृत्यन्तरम्,

बन्धूनाम् अपि सर्वेषां श्राद्धं कन्यागते रवौ ।
निर्वपेद् आनुलोम्येन मृताहतिथिम् आश्रितः ॥

इति, तद् अनपत्यबन्धुविषयम् । [४२५]

अयनद्वयं मकरकर्कटसंक्रान्ती तदुपलक्षितः कालः श्राद्धकालः । “सूर्यसंक्रमः” इत्य् अनेनैवायनपरिग्रहसिद्धौ पृथग्वचनम् अयनश्राद्धस्य नित्यत्वं बहुफलत्वं वा गमयति । तथा च जातूकर्ण्यः ।
ग्रहोपरोगे (?) स्वसुते च जाते पित्र्ये मघायाम् अयनद्वये च ।
नित्यं च शङ्खे च तथैव पद्मे दत्तं भवेन् निष्कसहस्रतुल्यम् ॥

नित्यशब्दश्रवणाद् उपरागादिश्राद्धसाहचर्याच् चायनश्राद्धम् आवश्यकम् । निष्कसहस्रदानतुल्यम् अधिकफलम् । पित्र्ये पितृक्षयाहनि । यद् वा पित्र्ये नभस्यापरपक्षे या मघा तस्याम् इत्य् अर्थः ।

शङ्खम् आहुर् अमावास्यां क्षीणसोमां द्विजोत्तमाः ।
अष्टका तु भवेत् पद्मं तत्र दत्तम् अथाक्षयम् ॥

विष्णुपुराणे ।

वैशाखशुक्लस्य तु या तृतीया नवम्य् असौ कार्तिकशुक्लपक्षे ।
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥
एताश् चतस्रस् तिथयो युगाद्या दत्तं हुतं चाशु भवेद् अनन्तम् ।
उपप्लवश् चन्दसमो रवेश् च तिस्रो ऽष्टकाया अयनद्वयं च ॥
पानीयम् अप्य् अत्र तिलैर् विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समाः सहस्रं रहस्यम् एतन् मुनयो वदन्ति ॥

पानीयम् पय् अत्रेतिवचनाद् एषां श्राद्धानाम् आवश्यकत्वविनिश्चयः । कृष्णपक्ष इति त्रयोदश्याः पञ्चदश्याश् च विशेषणम् इति केचित् । तन् न, शास्त्रान्तरे ऽन्यथादर्शनात् । तथा च ब्रह्मपुराणे ।

वैशाखशुक्लपक्षे तु तृतीयायां कृतं युगम् ।
कार्तिके शुक्लपक्षे च त्रेता च नवमे ऽहनि ॥
अथ भाद्रपदे कृष्णत्रयोदश्यां तु द्वापरम् ।
माघे तु पूर्णमास्यां तु घोरं कलियुगं तथा ॥
युगारम्भास् तु तिथयो युगाद्यास् तेन विश्रुताः ॥ इति ।

एतेन,

द्वे शुक्ले द्वे तथा कृष्णे युगाद्ये परिकीर्तिते ।

इति कस्यचिद् व्याख्यानं प्रयाख्यातम् । यमः ।

आषाढ्याम् अथ कार्तिक्यां माध्यां त्रीन् पञ्च वा द्विजान् ।
तर्पयेत् पितृपूर्वं तु तद् अप्य् अक्षयम् उच्यते ॥

गौतमः- “श्रावण्याग्रहायण्योश् चान्वष्टकासु पितृभ्यो दद्यान् माघीवैशाख्योश् च” । [४२६] यत् तु विष्णुनोक्तम्- “आदित्यसंक्रमणं विषुवद्द्वयं विशेषेणायनद्वयं व्यतीपातो जन्मर्क्षम् अभ्युदयश् च ।

एतांस् तु श्राद्धकालान् वै काम्यान् आह प्रजापतिः ।
श्राद्धम् एतेषु यद् दत्तं तद् आनन्त्याय कल्पते” ॥

इति, तत् पितृतृप्तिरूपफलानन्त्यकामस्य विधायकम् इत्य् अयनश्राद्धस्य नित्यतां न विहन्ति । सर्वम् एव हि श्राद्धं पितृतृप्तिप्रदं पितॄंस् तर्पयेद् इत्यादिवचनबलाद् अवगम्यते । अथ वायनादिश्राद्धस्य भवतु नियता काम्यता च वचनद्वयबलाद् अग्निहोत्रादिवत् । अथ वायनद्वयशब्देनैव मकरकर्कटसंक्रान्त्योर् अभिधानम् । किं तु ताभ्यां पृथग् एव रवेर् उत्तरां दक्षिणां च दिशं प्रति गमनयोः ।

द्रव्यब्राह्मणसंपत्तिर् द्रव्यस्य श्राद्धार्हस्य ब्राह्मणस्य वा पङ्क्तिपावनस्य संपत्तिर् लाभो यत्र काले स श्राद्धकालः । एतच् च नैमित्तिकत्वाद् आवश्यकम् । यद् आह हारीतः ।
तीर्थद्रव्योपपत्तौ तु न कालम् अवधारयेत् ।
पात्रं च ब्राह्मणं प्राप्य सद्यः श्राद्धं विधीयते ॥ इति ।

तीर्थं पुष्करादि । विषुवे मेषे तुलायां च सूर्यस्य संक्रान्तिः । अयनवद् अस्यापि पृथग्वचने प्रयोजनम् । अत्र पुलस्त्योक्तो विशेषः ।

अयनद्वितये श्राद्धं विषुवद्द्वितये तथा ।
युगादिषु च सर्वासु पिण्डनिर्वपणाद् ऋते ॥ इति ।

सूर्यसंक्रमः सूर्यस्य राशितो राश्यन्तरगमनम् । व्यतीपातो योगविशेषः पारिभाषिको वा । तत्र वृद्धमनुः ।

श्रवणाश्वधनिष्ठार्द्रानागदैवतमस्तके ।
यद्यमा रविवारेण व्यतीपातः स उच्यते ॥

नागदैवतम् आश्लेषा । मस्तके प्रथमपादे यदि चन्द्र इत्य् अर्थः । वराहपुराणे ।

श्राद्धार्हम् आगतं द्रव्यं विशिष्टम् अथ वा द्विजम् ।
श्राद्धं कुर्वीत विज्ञाय व्यतीपाते ऽयने तथा ॥
विषुवे चैव संप्राप्ते ग्रहणे चन्द्रसूर्ययोः ।
समस्तेष्व् एव विप्रेन्द्र राशिष्व् अर्के ऽधिगच्छति ॥
नक्षत्रे ग्रहपीडासु दुष्टस्वप्नावलोकने ।
**इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा ॥ [४२७]

गजच्छाया हस्तिच्छाया, तथा च काठकी श्रुतिः ।

एतद् धि देवपितॄणां चायनं यद् धस्तिच्छाया ॥

तथा- “हस्तिच्छायायां श्राद्धं दद्यात्” । महाभारते पितृगाथा ।

अनेन सर्वलोहेन वर्षासु नियतव्रतः ।
हस्तिच्छायासु विधिवत् कर्णव्यजनवीजिनम् ॥ इति ।

श्राद्धं दद्याद् इति शेषः । कर्णव्यजनवीजितम् इत्य् अभिधानात् प्रत्यक्षहस्तिच्छायाविषयम् एवैतद् वाक्यम् । पारिभाषिकी च गजच्छाया, सा चोक्ता स्मृत्यन्तरे ।

यदेन्दुः पितृदै(दे)वत्ये हंसश् चैव करे स्थितः ।
तिथिर् वैश्रवणीया च गजच्छायेति सा स्मृता ॥ इति ।

पितृदै(दे)वत्यं मघा । हंस आदित्यः । करो हस्तनक्षत्रम् । वैश्रवणीया त्रयोदशी । एतत्त्रितययोगो गजच्छाया । ग्रहणम् उपरागः । अत्र च रात्र्यादाव् अपि श्राद्धम् इष्यते । यद् आह विष्णुः ।

संध्यारात्र्योर् न कर्तव्यं श्राद्धं खलु विचक्षणैः ।
तयोर् अपि च कर्तव्यं यदि स्याद् राहुदर्शनम् ॥ इति ।

मत्स्यपुराणे ।

चन्द्रसूर्यग्रहे चैव मरणे पुत्रजन्मनि ।
मलमासे ऽपि देयं स्याद् दत्तम् अक्षयकारकम् ॥

प्रसङ्गाद् ग्रहणविषयम् अन्यद् अपि किंचिद् उच्यते । तत्र मार्कण्डेयः ।

चन्द्रे वा यदि वा सूर्ये दृष्टे राहौ महाग्रहे ।
अक्षयं कथितं पुण्यं तत्रार्के तु विशेषतः ॥

दृष्टे दर्शनयोग्य इत्य् अर्थः । व्यासः ।

सर्वं भूमिसमं दानं सर्वे ब्रह्मसमा द्विजाः ।
सर्वं गङ्गासमं तोयं राहुग्रस्ते दिवाकरे ॥

दिवाकर इति चन्द्रस्याप्य् उपलक्षणम्, यतः ।

इन्दोर् लक्षगुणं पुण्यं रवेर् दशगुणं ततः ।
गङ्गातोये तु संप्राप्ते इन्दोः कोटी रवेर् दश ॥
गवां कोटिसहस्रस्य सम्यग् दत्तस्य यत् फलम् ।
तत् फलं जाह्नवीस्नाने राहिग्रस्ते निशाकरे ॥
दिवाकरे पुनस् तद्वद् दशसंख्यम् उदाहृतम् ।
चन्द्रसूर्यग्रहे चैव यो ऽवगाहेत जाह्नवीम् ॥

[४२८] स स्नातः सर्वतीर्थेषु किम् अर्थम् अटते महीम् ।

सूर्यवारे रवेर् ग्रासः सोमे सोमग्रहस् तथा ॥
चूडामणिर् इति ख्यातस् तत्रानन्तं फलं भवेत् ।
वारेष्व् अन्येषु यत् पुण्यं ग्रहणे चन्द्रसूर्ययोः ॥
यत् पुण्यं कोटिगुणितं ग्रासे चूडामणौ स्मृतम् ।

लिङ्गपुराणे ।

चन्द्रसूर्यग्रहे स्नायात् सूतके मृतके ऽपि च ।
अस्नायी मृत्युम् आप्नोति स्नायी पापं न विन्दति ॥
सूतके मृतके चैव न दोषो राहुदर्शने ।
तावद् एव भवेच् छुद्धिर् यावन् मुक्तिर् न दृश्यते ॥

स्नानविषयम् एतत् । ततश् च समन्त्रकम् एव स्नानं राहुदर्शने सूतकादाव् अपि कार्यम् । तथा ।

त्रिरात्रं समुपोष्यैवं ग्रहणे चन्द्रसूर्ययोः ।
स्नात्वा दत्वा च विधिवन् मोदते ब्रह्मणा सह ॥
एकरात्रम् उपोष्यैवं स्नात्वा दत्वा च शक्तितः ।
कञ्चुकाद् इव सर्वस्य निष्कृतिः पापकोशतः ॥

कात्यायनः ।

उपाकर्मण्य् अथोत्सर्गे प्रेतस्नाने तथैव च ।
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते ॥

देवीपुराणे ।

कार्तिके ग्रहणं श्रेष्ठं गङ्गायमुनसंगमे ।
मार्गे तु ग्रहणं पुण्यं देविकायां महामुने ॥
पौषे तु नर्मदा पुण्या माघे संनिहिता शुभा ।

संनिहिता शुभा नर्मदा कुरुक्षेत्रमध्यगेत्य् अर्थः ।

फाल्गुने वरुणा पुण्या चैत्रं पुण्या सरस्वती ।
वैशाखे तु महापुण्या चन्द्रभागा सरिद् वरा ॥
ज्येष्ठे तु कौशिकी पुण्या आषाढे तापिका नदी ।
श्रावणे सिन्धुनामा च प्रोष्ठे श्रेष्ठा च गण्डकी ॥
आश्विने सरयूः श्रेष्ठा भूयःपुण्या तु नर्मदा ।
गोदावरी महापुण्या चन्द्रे राहुसमन्विते ॥
सूर्ये च शशिना ग्रस्ते तमोरूपे महामते ।
नर्मदातोयसंसर्गात् कृतकृत्यो भवेन् नरः ।
**एवं गङ्गापि द्रष्टव्या तद्वद् देवी सरस्वती ॥ [४२९]

मत्स्यपुराणे ।

गङ्गाकनखले पुण्ये प्रयागं पुष्करं गया ।
कुरुक्षेत्रं तथा पुण्यं राहुग्रस्ते दिवाकरे ॥

ऋष्यशृङ्गः ।

राहुग्रस्ते यदा सूर्ये यस् तु श्राद्धं प्रकल्पयेत् ।
तेनैव सकला पृथ्वी दत्ता विप्रस्य वै करे ॥

मार्कण्डेयः ।

चन्द्रस्य यदि वा भानोर् यस्मिन्न् अहनि भार्गव ।
ग्रहणं तु भवेत् तत्र न पूर्वं भोजनक्रिया ॥
नाचरेत् संग्रहे (?) तस्मिंस् तथैवास्तम् उपागते ।
यावत् स्यान् नोदयस् तस्य नाश्नीयात् तावद् एव तु ॥

एवं च सति,

चन्द्रसूर्यग्रहे नाद्याद् अद्यात् स्नात्वा विमुक्तयोः ।
अमुक्तयोर् अस्तगयोर् दृष्ट्वा स्नात्वा परे ऽहनित् ॥

इत्य् अत्र चन्द्रसूर्यग्रहशब्दस् तदुक्तम् अहोरात्रं लक्ष्यति । अन्यथा “न पूर्वं भोजनक्रिया” इति वाक्यविरोधः स्यात् । सर्वत्राहनि रातौ च भोजनस्य प्रतिषिद्धस्य प्रतिप्रसवार्थम् उक्तम् “अद्यात् स्नात्वा विमुक्तयोः” इति । प्रसिद्धम् अन्यत् । दृष्ट्वेत्य् उदयोपलक्षणार्थम्, “यावत् स्यान् नोदयस् तस्य” इति वचनात् । तथा ।

ग्रहणं च भवेद् इन्दोः प्रथमाद् अधि यामतः ।
भुञ्जीतावर्तनात् पूर्वं पश्चिमे प्रथमाद् अधि(धः) ॥

प्रथमयामाद् ऊर्ध्वम् इत्य् अर्थः । आवर्तनं दिनमध्यम् । पश्चिमे तु रात्रियामे रात्रेश् चतुर्थप्रहरे यदि ग्रहणं तदा रात्रेर् एव तस्याः प्रथमप्रहराद् अधो भुञ्जीतेति । तथा ।

अपराह्णे तु मध्याह्ने मध्याह्ने यदि संगवे ।
भुञ्जीत संगवे चत् स्यान् न पूर्वं भोजनक्रिया ॥

अत्यन्तासमर्थविषयम् एतत् । समर्थस्य तु भोजने प्रायश्चित्तम् उक्तं कात्यायनेन ।

चन्द्रसूर्यग्रहे भुक्त्वा प्राजापत्येन शुध्यति ।
तस्मिन्न् एव दिने भुक्त्वा त्रिरात्रेणैव शुध्यति ॥

षट्त्रिंशन्मतात् ।

सर्वेषाम् एव वर्णानां सूतकं राहुदर्शने ।
स्नात्वा कर्माणि कुर्वीत शृतम् अन्नं विवर्जयेत् ॥
नवश्राद्धस्य यच् छिष्टं ग्रहपर्युषितं च यत् ।
दम्पत्योर् भुक्तिशिष्टं तु भुक्त्वा चान्द्रायणं चरेत् ॥
सूर्यग्रहो यदा रातौ दिवा चन्द्रग्रहो यदि ।
तत्र स्नानं न कुर्वीत दद्याद् दानं न च क्वचित् ॥

यद् भूभागव्यवस्थितानाम् उपरागो दर्शनायोग्यस् तद्विषयम् एतत् । [४३०] देवलः ।

यथा स्नानं च दानं च सूर्यस्य ग्रहण्र् दिवा ।
सोमस्यापि तथा रत्रौ स्नानं दानं विधीयते ॥

यत्र ग्रहो(सूर्यो)दयाद् ऊर्ध्वं ग्रस्तस्य चन्द्रस्यास्तमयस् तत्र सूर्योदयात् प्राग् एव राहुदर्शणनिमित्तं स्नानदानादि कार्यम् । न तु पश्चाद् इत्य् अर्थः । ग्रहणनिमित्तं च श्राद्धम् आवश्यकम् । तथा लिङ्गपुराणे ।

सर्वस्वेनापि कर्तव्यं श्राद्धं वै राहुदर्शने ।
अकुर्वाणस् तु तच् छ्राद्धं पङ्के गौर् इव सीदति ॥

शातातपः ।

आपद्य् अनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा ।
आमश्राद्धं द्विजो दद्याच् छूद्रो दद्यात् सदैव तु ॥
स्नानं दानं तपः श्राद्धम् अनन्तं राहुदर्शने ।
आसुरी रात्रिर् अन्यत्र तस्मात् तां परिवर्जयेत् ॥

श्राद्धं प्रति रुचिश् चैवेति । अत्र रुचिर् इच्छा । सा च सदा श्राद्धानुष्ठानविषया भवति तदैव श्रद्धं कुर्यात् । निमित्तेन च कालतुल्यत्वात् तस्या औपचारिकं श्राद्धकालत्वम् । एवं श्राद्धं प्रति कालविधिर् उक्तः । श्राद्धस्वरूपम् आपस्तम्बश् चाह- “अथैतन् मनुः । श्राद्धशब्दकर्म प्रोवाच प्रजानिःश्रेयसाय तत्र पितरो देवता ब्राह्मणास् त्व् आहवनीयार्थे” इति । अनेन होमात्मकः श्राद्धशब्दार्थो निरूपितः । ब्राह्मणा आहवनीयार्थ आहवनीयकार्ये प्रक्षिप्यमाणहविर्धारणलक्षणे वर्तन्ते । न चाभुञ्जानास् ते तत् कार्यं कर्तुं शक्नुवन्तीत्य् अर्थाद् ब्राह्मणभोजनपर्यन्तता श्राद्धस्यानेनोक्ता । अत एव वक्ष्यति ।

ततो यथासुखं वाच्यं भुञ्जीरंस् ते ऽपि वाग्यताः । इति ।

अत एव गृह्यकृच् छौनकः- “नवावराञ् श्रोत्रियान् भोजयेद् अयुजो वा” इत्य् आह । मनुर् अपि ।

पितृशब्देनात्र यस्य यस्य मातामहादेर् देवतात्वं शास्त्रान्तरेण विधीयते तस्य सर्वस्य परिग्रहः क्रियते । तथा हि सति बहुवचनम् उपपद्यते । पितृशब्देनात्रासपिण्डीकृता [४३१] अप्य् उच्यन्ते नवश्राद्धादेः श्राद्धत्वसिद्ध्यर्थम् । आमश्राद्धादौ च प्रणाड्या ब्राह्मणभोजनपर्यन्तताया विद्यमानत्वान् मुख्यम् एव श्राद्धत्वम् । किं तु पाकपरिवेषणाद्यङ्गाननुष्ठानात् तत्र गौणत्वोक्तिः । तस्मात् सिद्धं श्राद्धस्य होमात्वकत्वम् । तत्र पुत्रादेर् अधिकारस् तस्य तत्र कर्तृत्वस्मरणात् । यत् कर्तृकं हि यत् कर्म स एव तत्राधिकारी यथा राजा राजकर्तृके राजसूये । तत्र शङ्खः ।
पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया ।
पुत्राभावे तु पत्नी स्यात् पत्न्यभावे तु सोदरः ॥ इति ।

अत्र पितृग्रहणं प्रदर्शनार्थम् । तेन मातुर् अप्य् और्ध्वदैहिकं पुत्रेण कार्यम् । यत् तु शातातपेनोक्तम्,

अन्वष्टकासु वृद्धौ च प्रतिसंवत्सरं तथा ।
अत्र मातुः पृथक्श्राद्धम् अन्यत्र पतिना सह ॥

इति, तत् सपिण्डीकरणाद् उत्तरकालविषयम् । प्रेतत्वविमोक्षार्थं श्राद्धजातं सर्वम् एव मातुः पृथक्कार्यम् । यद् आह शङ्खः ।

अन्वष्टकां तथा मातृश्राद्धं चैव मृताहनि ।
एकोद्दिष्टं तथा भुक्त्वा स्त्रीषु नान्यत् पृथग् भवेत् ॥ इति ।

अत्र चैकोद्दिष्टशब्देन प्रेतत्वविमोचकं सर्वम् एव श्राद्धम् उच्यते च पुनर् अन्वष्टकादिश्राद्धान्य् एकोद्दिष्टान्य् एव कार्याणीत्य् उच्यते । अत एव विष्णुः- “अन्वष्टकासु दैवपूर्वं शाकमांसापूपैः श्राद्धं कृत्वान्वष्टकास्व् अष्टकावद् वह्नौ हुत्वा दैवपूर्वम् एव मात्रे पितामह्यै प्रपितामह्यै च पूर्ववद् ब्राह्मणान् भोजयित्वा दक्षिणाभिश् चाभ्यर्च्यानुव्रज्य विसर्जयेत्” । अत एव वृद्धिश्राद्धे शङ्खः पार्वणम् एव विधिम् आह ।

पित्रादित्रयपत्नीषु भोज्या मातॄः प्रति द्विजाः ।
स्त्रीणाम् एव तु तद् यस्मान् मातृश्राद्धम् इहोच्यते ॥ इति ।

केचिद् अन्यत्र पतिना सहेति वचनं पित्रा सह सपिण्डीकृतायां मातरीति व्यवस्थापयन्ति । तत्प्रमाणतया च शातातपीयं वचनं पठन्ति ।

एकमूर्तित्वम् आयाति सपिण्डीकरणे कृते ।
पत्नी पतिपितॄणां तु तस्माद् अंशेषु भागिनी ॥ इति ।

बार्हस्पत्यम् अपि ।

स्वेन भर्त्रा समं श्राद्धं माता भुङ्क्ते सुधासमम् ।
**पितामही च स्वेनैव स्वेनैव प्रपितामही ॥ [४३२]

इति, तद् अयुक्तम् । न ह्य् अत्र वाक्यद्वये ऽपि पित्रा सह मातुः सपिण्डनम् अवबोध्यते । येन तद्विषयत्वे पूर्ववाक्यस्यैतत् प्रमाणं स्यात् । यत् तु सपिण्डीकरणे कृत एकमूर्तित्वम् इत्य् उक्तं तत् पित्रादिदै(दे)वत्ये श्राद्धे तत्पत्नीनां सहभावलक्षणम् एकमूर्तित्वम् अवबोधयति । न पुनर् अभेदलक्षणम् । न हि यो येन सपिण्डी क्रियते स तेनाभिन्नस् तद्दै(दे)वत्ये वा श्राद्धे सहभावेन देवतात्वम् अनुभवति प्रमाणाभावात् । तस्मात् पितामह्या सपिण्डीकृतायां मातर्य् अप्य् एत वचनम् उपपद्यते । सपिण्डीकरणोत्तरकालम् एव पित्रादिदै(दे)वत्ये मातॄणां सहभावेन देवतात्वम् इत्य् एतावन्मात्रविधिपरत्वात् तस्य । अत एव षट्त्रिंशन्मते गोत्रसूतकसाहचर्येण भर्त्रा सहैकपिण्डत्वं नार्याः कीर्त्यते ।

एकत्वं सा गता भर्तुः पिण्डे गोत्रे ऽथ सूतके ।
न पृथक्पिण्डदानं तु तस्मात् पत्नीषु विद्यते ॥ इति ।

ततश् च पितामह्या पितामहेन वा सपिण्डीकृताया मातुर् न पृथक्श्राद्धम् । एतच् चानियतम् इति गम्यते चतुर्विंशतिमतात् ।

क्षयाहं वर्जयित्वैकं स्त्रीणां नास्ति पृथक्क्रिया ।
केचिद् इच्छन्ति नारीणां पृथक्श्राद्धं महर्षयः ॥ इति ।

ततश् चान्वष्टकादित्रये स्त्रीणां श्राद्धं पृथग् एव । गयामहालयादौ तु पृथक् सह वा स्वभर्तृभिर् इति सिद्धम् ।

पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया ।

इति पिण्डदानग्रहणं सकलौर्ध्वदैहिकोपलक्षणार्थम् । पुत्रशब्दो यद्य् अप्य् औरसे मुख्यः क्षेत्रजादिषु गौणस् तथापि “पुत्राभावे तु पत्नी स्यात्” इत्य् अत्र मुख्ये गौणे च वर्तते । अन्यथा गौपुत्रकरणे यद् उक्तम्,

पिण्डदो ऽंशहरश् चैषां पूर्वाभावे परः परः ।

इति, तद् विरुध्यते । “पत्न्यभावे तु सोदरः” इति सोदरग्रहणं पत्न्यभावे यो दायहरस् तदुपलक्षणार्थम् । ततश् च दुहित्रादीनां श्राद्धदत्वम् उक्तं भवति । अत्र च पत्नीशब्दो विवाहयज्ञसंयोगिन्यां भार्यायां वर्तते । यत् पुनर् आह कात्यायनः ।

अष्टकायां पतिर् दद्याद् अपुत्रायां न तु क्वचित् ।
**न पुत्रस्य पिता चैव नानुजस्य तथाग्रजः ॥ [४३३]

इति, तद् अंशहरत्वाभावे पित्रादेर् द्रष्टव्यम् । अंशहरत्वे ऽपि पित्रादिर् अपि कुर्याद् एव । बौधायनः ।

पितुः पुत्रेण कर्तव्यं न कुर्वीत पिता सुते ।
अतिस्नेहात् तु कर्तव्यं सपिण्डीकरणं त्यजेत् ॥

विष्णुः- “यश् चार्थहरः स पिण्डदायी पुत्रः पितृवित्ताभावे ऽपि पिण्डं दद्यात्” । पिण्डशब्दः श्राद्धोपलक्षणार्थः । पुत्रसंस्तुता भ्रातृपुत्रसपत्नीपुत्रानुजभ्रातरो रिक्तग्रहणे ऽपि श्राद्धं दद्युः । तथा च मनुः ।

भ्रातॄणाम् एकजातानाम् एकश् चेत् पुत्रवान् भवेत् ।
सर्वे ते तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् ॥
सर्वासाम् एकपत्नीनाम् एका चेत् पुत्रिणी भवेत् ।
सर्वास् तास् तेन पुत्रेण प्राह पुत्रवतीर् मनुः ॥

तथा ।

पुत्रवत् पालयेच् चैनाञ् ज्येष्ठो भ्राता यवीयसः ।

तथा ।

मातुर् अग्रे ऽधिजननं द्वितीयं मौञ्जिबन्धने ।
तत्रास्य माता सावित्री पिता त्व् आचार्य उच्यते ॥

विष्णुपुराणे त्व् अन्यथा क्रम उक्तः ।

पुत्रः पौत्रः प्रपौत्रो वा तद्वद् भात्रादिसंततिः ।
सपिण्डसंततिर् वापि क्रियार्हा नृप जायते ॥
तेषाम् अभावे सर्वेषां समानोदकसंततिः ।
मातृपक्षस्य पिण्डेन संबद्धो यो जलेन वा ॥
कुलद्वये ऽपि चोत्सन्ने स्त्रीभिः कार्या क्रिया नृप ।
तत्संघान्तर्गतैर् वापि कार्याः सर्वा मताः क्रियाः ॥
उत्सन्नबन्धो रक्ताद् वा कारयेद् अवनीपतिः ।
पूर्वक्रिया मध्यमाश् च तथा चैवोत्तराः क्रियाः ॥
त्रिप्रकाराः क्रिया ह्य् एतास् तासां भेदाञ् शृणुष्व मे ।

आ दाहाद् धार्यायुधादिस्पर्शाद् अन्त्याश् च(?) याः क्रियाः पिण्डदानाद् या अशौचमध्यभावास् ताः पूर्वाः । मध्यमा मासि मास्य् एकोद्दिष्टसंज्ञकाः ।

प्रेते पितृत्वम् आपन्ने सपिण्डीकरणाद् अनु ।
क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः ॥

[४३४] पितृमातृसपिण्डैस् तु समानसलिलैस् तथा ।

तत् संधान्तर्गतैश् चैव राज्ञा वा धनहारिणा ॥
पूर्वक्रियास् तु कर्तव्याः पुत्राद्यैर् एव चोत्तराः ।
दौहित्रैर् वा नरश्रेष्ठ कार्यास् तत्तनयैस् तथा ॥
मृताहनि तु कर्तव्याः स्त्रीणाम् अप्य् उत्तराः क्रियाः ।
प्रतिसंवत्सरं राजन्न् एकोद्दिष्टविधानतः ॥ इति ।

स्मृत्यन्तरम् ।

पुत्रो भ्राता तथा शिष्यः सगोत्रोदकभागिनः ।
विहिताः पिण्डदाने तु तथा बन्धुः समाश्रितः ॥

गौतमः- “पुत्राभावे सपिण्डमातृसपिण्डाः शिष्याश् च दद्युः । तदभाव ऋत्विगाचार्यौ” इति । धर्मः ।

मातुलो भागिनेयस्य स्वस्रीयो मातुलस्य च ।
श्वशुरस्य गुरोश् चैव सख्युर् मातामहस्य च ॥
एतेषां चैव भार्याभ्यः स्वसुर् मातुः पितुस् तथा ।
श्राद्धदानं तु कर्तव्यं नामभिस् तत् तथैव च ॥

मार्कण्डेयपुराणात् ।

पुत्राभावे सपिण्डस् तु तदभावे सहोदकः ।
मातुः सपिण्डा वा ये स्युर् ये वा मातुः सहोदकाः ॥
सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाम् अमन्त्रकम् ।
तदभावे तु नृपतिः कारयेत् स्वकुटुम्बवत् ॥
तज्जातीयैर् नरैः सम्यग् दाहाद्याः सकलाः क्रियाः ।
सर्वेषाम् एव वर्णानां बान्धवो नृपतिर् यतः ॥

स्त्रीशब्दो ऽत्र भुजिष्यावरोधनाद्यपरिणीतस्त्रीविषयः । ततश् च “पत्न्यभावे तु सोदरः” इत्य् अनेनाविरोधः ।

प्रीत्या श्राद्धं तु कर्तव्यं सर्वेषां वर्णलिङ्गिनाम् ।
एवं कुर्वन् नरः सम्यङ् महतीं श्रियम् आप्नुयात् ॥

लिङ्गिन आश्रमिणः । अत्र विषये विशेषैर् अपवादम् आह पारस्करः ।

न ब्राह्मणेन कर्तव्यं शूद्रस्याप्य् और्ध्वदैहिकम् ।
**शूद्रेण वा ब्राह्मणस्य विना पारशवात् क्वचित् ॥ [४३५]

पारशवो विन्नायां शूद्रायां ब्राह्मणाज् जातः । स च ब्राह्मण्यादिपुत्रान्तराभावे ऽधिकारी । कार्ष्णाजिनिः ।

पुत्रः शिष्यो ऽथ वा पत्नी पिता भ्राता स्नुषा गुरुः ।
स्त्रीहारी धनहारी च कुर्यात् पिण्डोदकक्रियाम् ॥

ब्रह्मपुराणम् ।

ब्राह्मणस् त्व् अन्यवर्णानां न करोति कदाचन ।
कामान् मोहाद् भयाल् लोभात् कृत्वा तज्जातितां व्रजेत् ॥
पुत्राः कुर्वन्ति विप्राय क्षत्रविट्शूद्रयोनयः ।
स तादृशेभ्यः पुत्रेभ्यो न करोति कदाचन ॥
स्वमाता कुरुते तेषां ते ऽपि तस्याश् च कुर्वते ॥

स्मृत्यन्तरम् ।

स्त्रीणाम् अमन्त्रकं श्राद्धं तथा शूद्रासुतस्य च ।
प्राग् द्विजातेर् व्रतादेशात् ते ऽपि कुर्युस् तथैव तत् ॥

अथ द्व्यामुष्यायणाधिकारो निरूप्यते । तत्र यमः ।

कुर्यान् मातामहश्राद्धं नियमात् पुत्रिकासुतः ।
उभयोर् अथ संबद्धः कुर्यात् स उभयोर् अपि ॥

द्विविधः पुत्रिकापुत्रः । एको मातामहेनैव संबद्धो ऽपरः पितृमातामहाभ्याम् इति । तत्र प्रथमो मातामहश्राद्धं नियमेन कुर्यात् पितृश्राद्धम् इच्छया । यस् तूभयसंबद्धः स उभयोर् नियमेन कुर्यात् । तत्र मातामहश्राद्धम् एकोद्दिष्टं त्रिपुरुषं वेति जिज्ञासायां कात्यायन आह ।

मातामहस्यापुत्रस्य श्राद्धादि पितृवद् भवेत् ।
संबन्धिबान्धवादीनाम् एकोद्दिष्टं तु सर्वदा ॥

एतच् च दौहित्रमात्रविषयम् अविशेषात् । न तु पुत्रिकापुत्रविषयम् एव । यस्य तु पुत्रिकापुत्रस्य मातैव मातामहेन पुत्रतया परिगृहीता तं प्रति मनुर् आह ।

मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः ।
द्वितीयं तु पितुस् तस्यास् तृतीयं तु पितुः पितुः ॥

यस् तु दौहित्रो न तु पुत्रिकापुत्रः किं तु,

अकृता वा कृता वापि यं विन्देत् सदृशात् सुतम् ।
पौत्री पितामहस् तेन दद्यात् पिण्डं हरेद् धनम् ॥

इति मनुवचनबलान् मातामहधनादायी स नियमेन मातामहश्राद्धं कुर्यात् । [४३६] यद् आह स्कन्दः ।

श्राद्धं मातामहानां तु अवश्यं धनहारिणा ।
दौहित्रेणार्थनिष्कृत्यै कर्तव्यं विधिवत् सदा॥

अत्रोपपत्तिम् आह ।

मलम् एतन् मनुष्याणां द्रविणं यत् प्रकीर्तितम् ।
तद् गृह्णन् मलम् आदत्ते दुर्भिद ज्ञानिनाम् अपि ॥
ऋषिभिस् तस्य निर्दिष्टा निष्कृतिः पावना परा ।
आ देहपतनात् कुर्यात् तस्य पिण्ड्ōदकक्रियाम् ॥ इति ।

यस् तु दौहित्रो न पुत्रिकापुत्रो न च मातामहस्य धनं गृह्णाति स तस्यापुत्रस्य श्राद्धं कुर्वन् निःश्रेयसेन युज्यते । न पुनर् अकुवन् प्रत्यवायी स्यात् । क्षेत्रजो ऽपि द्व्यामुष्यायणो यः क्षेत्रिकबीजिभ्यां पितृभ्यां संबद्धस् तं प्रति देवल आह ।

द्व्यामुष्यायणका दद्युर् द्वाभ्यां पिण्डोदके पृथक् ।
द्वाभ्यां देयास् तु षट्पिण्डा एव कुर्वन् न मुह्यति ॥

द्वाभ्यां पितृवर्गाभ्याम् इत्य् अर्थः । एवं ब्राह्मणभोजने ऽपि । अत्रासमर्थं प्रति बौधायन आह ।

द्विपितुः पिण्डदानं स्यात् पिण्डः पिण्डो द्विनामकः ।
द्वाभ्यां देयास् त्रयः पिण्डा एवं कुर्वन् न मुह्यति ॥

अत्र क्रमविशेषम् आह ऋष्यशृङ्गः ।

क्षेत्रिकस्य पितुस् त्व् आदौ दद्यात् पिण्डं तथोदकम् ।
पश्चात् तु येन ये जातास् तेभ्यो दद्याज् जलाञ्जलिम् ॥

मरीचिः ।

सगोत्रो वान्यगोत्रो वा यो भवेद् विधवासुतः ।
पिण्डं श्राद्धविधानं च क्षेत्रिणे प्राग् विनिर्वपेत् ॥
बीजिने च ततः पश्चात् क्षेत्री जीवति चेत् क्वचित् ।
बीजिने दद्युर् आदौ च मृते पश्चात् प्रदीयते ॥
उभौ यदि मृतौ स्यातां बीजिन्य् आदौ तदा ददेत् (?) ।
क्षेत्रिण्य् आदौ न दत्तं चेद् बीजिने नोपतिष्ठति ॥

नारदः ।

जाता ये त्व् अनियुक्तायाम् एकेन बहुभिस् तथा ।
अरिक्थभाजस् ते सर्वे बीजिनाम् एव ते सुताः ॥
दद्युस् ते बीजिने पिण्डं माता चेच् छुल्कतो हृता ।
अशुल्कोपनताया ते पिण्डदा वोढुर् एव ते ॥

शुल्कं मूल्यम् । [४३७] ऋष्यशृङ्गः ।

स्त्रीणाम् आद्यस्य भर्तुर् वै यद् गोत्रं तेन निर्वपेत् ।
यदि त्व् अक्षतयोनिः स्याद् अन्यपक्षसमाश्रिता ॥
तद्गोत्रेण तथा देयं पिण्डं श्राद्धम् तथोदकम् ॥ १.२१७–२१८ ॥

श्राद्धसंपत्तिहेतून विप्राञ् श्लोकत्रयेणाह

अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद् युवा ।
वेदार्थविज् ज्येष्ठसामा त्रिमधुस् त्रिसुपर्णकः ॥ १.२१९ ॥
स्वस्रीयऋत्विग्जामातृयाज्यश्वशुरमातुलाः ।
त्रिना(णा)चिकेतदौहित्रशिष्यसंबन्धिबान्धवाः ॥ १.२२० ॥
ज्ञाननिष्ठास् तपोनिष्ठाः पञ्चाग्निर् ब्रह्मचारिणः ।
पितृमातृपराश् चैव ब्राह्मणाः श्राद्धसंपदे ॥ १.२२१ ॥

अग्र्यो मुख्यो ऽध्येतॄणाम्, सर्वेषु चतुर्षु वेदेषु । श्रोत्रियो यथाविध्य् एकशाखाध्यायी । ब्रह्मविद् औपनिषदपुरुषवित् । युवा मध्यवयाः । वेदार्थविद् वेदवाक्यार्थवित् । ज्येष्ठसामा ज्येष्ठसामाख्यं व्रतं कृत्वा ज्येष्ठाख्यसामाध्येता । त्रिमध्वाख्यं व्रतं कृत्वा यस् तदाख्यम् एव वेदभागम् अधीते स त्रिमधुः । एवं त्रिसुपर्णः । त्रिना(णा)चिकेतव्रतपूर्वकं तदाख्यवेदभागाध्यायी त्रिना(णा)चिकेतः । संबन्धिनो वैवाह्याः । बान्धवा मातामहप्रभृतयः । ज्ञाननिष्ठा अध्यात्मविदः । कर्मनिष्ठा इति पाठे विहितानुष्ठानपराः । एवं तपोनिष्ठाः । सभ्यावसथ्यौ त्रेता चेति पञ्चाग्नयस् तद्वान् पञ्चाग्निः । ब्रह्मचारिण इत्य् एकस्मिन् बहुवचनं जात्यभिप्रायम् । अन्ये प्रसिद्धाः । एते ब्राह्मणा भोज्यमानाः श्राद्धस्य संपदे समृद्धये भवन्ति । अत्र मनुः ।

श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ।
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥
एकैकम् अपि विद्वांसं दैवे पित्र्ये च भोजयेत् ।
पुष्कलं फलम् आप्नोति नामन्त्रज्ञान् बहून् अपि ॥
दूराद् एव प्रीक्षेत ब्राह्मणं वेदपारगम् ।
तीर्थं तद्धव्यकव्यानां प्रदाने सो ऽतिथिः स्मृतः ॥

पितृप्रभृतिबहुतरपुरुषप्रीक्षा दूरात् परीक्षा । तीर्थं जलप्राप्तिमार्गः । तेन [४३८] यथोदकं प्राप्यत एवं देवपितृभिस् तथाविधविप्रमार्गेण हव्यकव्यानि प्राप्यन्ते । अतिथिर् दातुर् अत्यन्तोपकारकः ।

सहस्रं तु सहस्राणाम् अनृचां यत्र भुञ्जते ।
एकस् तान् मन्त्रवित् प्रीतः सर्वान् अर्हति धर्मतः ॥

सर्वान् अर्हति स एको ऽपि सर्वैस् तुल्य इत्य् अर्थः ।

ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास् तथा परे ।
तपःस्वाध्यायनिष्ठाश् च कर्मनिष्ठास् तथैव च ॥

निष्ठा तात्पर्यम् ।

ज्ञानोत्कृष्टेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः ।
हव्यानि च यथान्यायं सर्वेष्व् एव चतुर्ष्व् अपि ॥

चतुर्षु ज्ञाननिष्ठादिष्व् इत्य् अर्थः ।

वेदविद्याव्रस्नाताञ् श्रोत्रियान् गृहमेधिनः ।
पूजयेद् धव्यकव्येन विपरीतांस् तु वर्जयेत् ॥

वेद एव विद्या वेदविद्या । गृहमेधिनो गृहस्थाः ।

एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस् त्व् अयं ज्ञेयः सदा सद्भिर् अनुष्ठितः ॥
मातामहं मातुलं वा स्वस्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुम् ऋत्विग्यज्यौ च भोजयेत् ॥

विट्पतिर् जामाता ।

व्रतस्थम् अपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।
कुतपं चासनं दद्यात् तिलैश् चावकिरेन् महीम् ॥
अपाव्योपहता पङ्क्तिः पाव्यते यैर् द्विजोत्तमैः ।
तान् निबोधत कार्त्स्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥
अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश् चैव विज्ञेयाः पक्ङ्तिपावनाः ॥

प्रोच्यत एभिर् वेदार्थ इति प्रवचनानि निरुक्तादीनि वेदाङ्गानि ।

त्रिना(णा)चिकेतः पञ्चाग्निस् त्रिसुपर्णः षडङ्गवित् ।
ब्रह्मदेयानुसंतानो ज्येष्ठसामग एव च ॥

ब्रह्मदेयानुसंतानो ब्राह्मविवाहोढापत्यम् ।

[४३९] वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः ।

शतायुश् चैव विज्ञेयो ब्राह्मणः पङ्क्तिपावनः ॥

प्रवक्ता धर्मार्थम् अध्यपकः । सहस्रदो बहुप्रदः । गौतमः- “श्रोत्रियान् वाग्रूपवयःशीलसंपन्नान्” — निमन्त्रयेतेत्यन्वयः — “युवभ्यो दानं प्रथमम् एके पितृवत्” । पितृपितामहप्रपितामहब्राह्मणा वृद्धवृद्धतरवृद्धतमा इत्य् अर्थः । वसिष्ठः- “यतीन् गृहस्थसाधून् वा परिणतवयसः सुकर्मसंस्थाञ् श्रोत्रियान् अशिष्यान् अनन्तेवासिनः । अन्तेवासिनो नैष्ठिका[न्] ब्रह्मचारिणः शिष्यान् अपि गुणवतो भोजयेत् ।

अथ चेन् मन्त्रविद् युक्तः शारीरैः पङ्क्तिदूषणैः ।
अदुष्टं तं यमः प्राह पङ्क्तिपावन एव सः ॥”

शारीरैः श्वित्रादिभिः । यमः ।

पीतसोमा विरजसो धर्मज्ञाः शान्तबुद्धयः ।
व्रतिनो नियमस्थाश् च ऋतुकालाभिगामिनः ॥

विरजसो वीतरागाः । व्रतिनो नियमस्था ब्रह्मचारिणः संयताः ।

पञ्चाग्निर् अप्य् अधीयानो यजुर्वेदविद् एव च ।
बह्वृचो यस् त्रिसौपर्णस् त्रिमधुर् वापि यो भवेत् ॥

पञ्चाग्निविद्या नाम छान्दोग्योपनिषत्पठितविद्या ताम् अधीयानः ।

त्रिणाचिकेतो विरजाश् छन्दोगो ज्येष्ठसामगः ।
अथर्वशिरसो ऽध्येता चत्वारः पङ्क्तिपावनाः ॥

विरजा नाम मन्त्रविशेषः । तदध्ययनाद् विरजाः । अर्हर्वशिरा नामाथर्ववेदैकदेशः ।

गृहस्थो ब्रह्मचारी च यजुर्वेदविद् एव च ।
वेदविद्याव्रतस्नाता ब्राह्मणाः पङ्क्तिपावनाः ॥
मन्त्रिणो नियमस्थाश् च ये विप्राः श्रुतिसंगताः ।
प्राणिहिंसानिवृत्ताश् च ते द्विजाः पङ्क्तिपावनाः ॥

मन्त्रिणो रुद्रादिमन्त्राभ्यासरताः । श्रुतिसंगताः श्रुत्यभिमताः । श्रुत्यर्थानुष्ठायिन इत्य् अर्थः ।

[४४०] सत्यवन्तश् च धीराश् च नित्यदानरताश् च ये ।

मङ्गलाचारयुक्ताश् च ते द्विजाः पङ्क्तिपवनाः ॥
अग्निहोत्ररताः शान्ताः क्षमावन्तो ऽनसूयकाः ।
ये प्रतिग्रहनिःस्नेहास् ते द्विजाः पङ्क्तिपावनाः ॥

अनसूयकाः पैशुन्यरहिताः । कार्ष्णाजिनिः ।

ब्रह्मदेयानुसंतानो ब्रह्मदेयाप्रदायकः ।
ब्रह्मदेयापतिश् चैव ब्राह्मणाः पङ्क्तिपावनाः ॥
अपि स्यात् स कुले जन्तुर् भोजयेद् यस् तु योगिनम् ।
विप्रं श्राद्धे प्रयत्नेन तेन तृप्यामहे वयम् ॥

विष्णुः- “अथ पङ्क्तिपावनाः । वेदाङ्गस्याप्य् एकस्य पारगः पुराणेतिहासव्याकरणपारगो धर्मशास्त्रस्याप्य् एकस्य पारगः । तीर्थपूतो यज्ञपूतस् तपःपूतः सत्यपूतो गायत्रीजपनिरतो जामाता दौहित्रश् चेति पात्रविशेषेण च योगिनः” । ब्रह्माण्डपुराणात् ।

ये तु वृत्ते स्थिता नित्यं ज्ञानिनो ध्यानिनस् तथा ।
शिखिभ्यो धातुरक्तेभ्यस् त्रिदण्डिभ्यश् च दापयेत् ॥
अलाभे ध्यानभिक्षूणां भोजयेद् ब्रह्मचारिणम् ।
तदलाभे ह्य् उदासीनं गृहस्थम् अपि भोजयेत् ॥

ध्यानयोगाद् वानप्रस्थो ऽत्र ध्यानशब्देनोक्तः । भिक्षुः प्रव्रजितः । उदासीनो रागादिरहितः ।

सिद्धा हि विप्ररूपेण चरन्ति पृतिवीम् इमाम् ।
तस्माद् अतिथिम् आयातं अभिगच्छेत् कृताञ्जलिः ॥
पूजयेद् अर्घ्यपाद्याभ्यां पादाभ्यञ्जनभोजनैः।
उर्वीं सागरपर्यन्तां दिवा योगीश्वराः सदा ॥
नानारूपाश् चरन्त्य् एते प्रजाधर्मेण योगिनः ।
तस्माद् दद्यात् सदा श्राद्धं विप्रायातिथये नरः ॥

सिद्धा विदितात्मतत्त्वाः । प्रजाधर्मेण प्राकृतरूपेण ।

पिपादिताय श्रान्ताय संबुद्धाय बुभुक्षवे ।
तस्मै सत्कृत्य दातव्यं यज्ञस्य फलम् इच्छता ॥

संबुद्धाय विज्ञानवते ।

[४४१] अकॢप्तान्नं घृणिक्लान्तं कृशवृत्तिम् अयाचकम् ।

एकान्तशीलं ह्रीमन्तं सदा श्राद्देषु भोजयेत् ॥

अकॢप्तान्नम् अकॢप्तभोजनम् । घृणिक्लान्तं सूर्यातपखिन्नम् ।

षडङ्गविद्ध्यानयोगिसर्वतन्त्रास् तथैव च ।
यायावरश् च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः ॥

सर्वतन्त्रः शालीनाख्यो गृहस्थः । यायावरो गृहस्थविशेषः ।

श्राद्धकल्पं पठेद् यस् तु स नित्यं पङ्क्तिपावनः ।
चतुर्दशानां विद्यानाम् एकस्या अपि पारगः ॥
यथावद् वर्तमानश् च सर्वे ते पङ्क्तिपावनाः ।
ये च भाष्यविदः केचिद् ये च व्याकरणे रताः ॥
अधीयानाः पुराणं ये धर्मशास्त्रम् अथापि वा ।
पुण्येषु ये च तीर्थेषु कृतस्नानाः कृतश्रमाः ॥
मखेषु ये च सर्वेषु भवन्त्य् अवभृथप्लुताः ।
ये च सत्यव्रता नित्यं स्वधर्मनिरताश् च ये ॥
अक्रोधनाः क्षान्तिपरास् तञ् श्राद्धेषु निमन्त्रयेत् ।
प्रत्यासन्नम् अधीयानं व्यतिक्रामति यो द्विजम् ॥
भोजने चैव दाने च हन्यात् त्रिपुरुषं कुलम् ॥

देवलः ।

ज्येष्ठाश्रमनिविष्टश् च शतायुर् ज्येष्ठसामगः ।
अग्निचित् सोमपश् चेति ब्राह्मणः पङ्क्तिपावनः ॥

ज्येष्ठाश्रमो गृहस्थाश्रमः । अग्निचिच् छाक्कराग्निचयनकृत् । चयनान्तरग्रहणे सोमप इत्य् अनर्थकं स्यात् । मत्स्यपुराणे ।

यश् च व्याकुरुते वेदं यश् च मीमांसते ऽध्वरम् ।
सामस्वरविधिज्ञश् च पङ्क्तिपावनपावनाः ॥
अष्टवर्षा तु या दत्ता श्रुतशीलसमन्विते ।
सा गौरी तत्सुतो गौरः पङ्क्तिपावन एव सः ॥

मनुः ।

किं ब्राह्मणस्य पितरं किं वा पृच्छसि मातरम् ।
श्रुतं चेद् अस्ति वेद्यं वा तन् मातापितरौ स्मृतौ ॥

यमः ।

पञ्चाग्निर् वा यजुर्वेदी अथर्वा ब्रह्मशीर्षकः ।
आत्मविच् चाङ्गविच् चैव ब्रह्मदेयासुतस् तथा ॥

यदि यजुर्वेदी पञ्चाग्निविद्याध्यायी, आथर्वणश् च ब्रह्मशीर्षाध्येता । [४४२] मत्स्यपुराणात् ।

मण्डलब्राह्मणज्ञा ये ये सूक्तं पौरुषं विदुः ।
तांस् तु दृष्ट्वा नरः क्षिप्त्रं सर्वपापैः प्रमुच्यते ॥

यमः ।

स्थविरांस् तपस्विनो दान्ताञ् शिष्टान् वा यदि वेतरान् ।
तान् सर्वान् भोजयेच् छ्राद्धे साधुभिश् च निमन्त्रयेत् ॥
अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः ।
भवेत् सर्वातिथिः पश्चात् स राजन् केतनक्षमः ॥

इतरान् अस्थविरान् इत्य् अर्थः । केतनं निमन्त्रणम् । अत्रिः ।

षड्भ्यस् तु पुरुषेभ्यो ऽर्वाग् अश्राद्धेयास् तु गोत्रिणः ।
षड्भ्यस् तु परतो भोज्याः श्राद्धे स्युर् गोत्रजा अपि ॥

असंभवे ऽपि त्रिभ्यः परतो भोज्याः । यद् आह गौतमः- “भोजयेद् ऊर्ध्वं त्रिभ्यो गुणवन्तम्” । षड्भ्यस् त्रिभ्य इति सपिण्डपुरुषसंख्यानिर्देशः । अत्रिः ।

पिता पितामहो भ्राता पुत्रो वाथ सपिण्डकः ।
न परस्परम् अर्घ्याः स्युर् न श्राद्धे ऋत्विजस् तथा ॥
ऋत्विक्पुत्रादयो ऽप्य् एते सकुल्या ब्राह्मणा द्विजाः ।
वैश्वदेवे नियोक्तव्या यद्य् एते गुणवत्तराः ॥
सगोत्रा न नियोक्तव्याः स्त्रियश् चैव विशेषतः ।

पङ्क्तिपावन इत्य् अनुवृत्तौ व्यासः ।

मातापित्रोर् यस्य वंश्याः श्रोत्रिया दश पूरुषाः ।
ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा ॥

छागलेयः ।

सर्वलक्षणसंयुक्तैर् विद्यारूपगुणान्वितैः ।
पुरुषत्रयविख्यातैः सर्वं श्राद्धं प्रकल्पयेत् ॥

पुरुषत्रयविख्यातैर् इति पूर्वोक्तासंभवे । देवलः ।

एकां शाखां सकल्पां वा षड्भिर् अङ्गैर् अधीत्य यः ।
षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित् ॥
वेदवेदाङ्गतत्त्वज्ञः शुद्धात्मा पापवर्जितः ।
शेषं श्रोत्रियवत् प्राप्तः सो ऽनूचान इति स्मृतः ॥
अनूचानगुणोपेतो यज्ञस्वाध्यायमन्त्रवित् ।
भ्रूण इत्य् उच्यते शिष्टैः शेषभोजी जितेन्द्रियः ॥
वैदिकं लौकिकं चैव सर्वं ज्ञानम् अवाप्य यः ।
आश्रमस्थो वशी नित्यम् ऋषिकल्पः स उच्यते ॥

[४४३] ऊर्धरेतास् तपस्य् उग्रे रतो नियतभुग् यतः ।

शापानुग्रहयोः शक्तः सत्यसंधो भवेद् ऋषिः ॥
नियतः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः ।
ध्यानस्थो निष्क्रियो दान्तस् तुल्यमृत्काञ्चनो मुनिः ॥
एषां परः परः श्रेष्ठो विद्याद्यैर् अधिको ऽपि सन् ।
चीर्णव्रता गुणैर् युक्ता भवेयुर् ये च कर्षकाः ॥
सावित्रीज्ञाः क्रियावन्तस् ते राजन् केतनक्षमाः ।
क्षत्रधर्मिणम् अप्याजौ केतयेत् कुलजं द्विजम् ॥
न त्व् एव वणिजं तात श्राद्धेषु परिकल्पयेत् ॥

वृद्धमनुः ।

यश् च व्याकुरुते वाचं यश् च मीमांसते ऽध्वरम् ।
आत्मकैवल्यविच् चैव पङ्क्तिपावनपावनः ॥

यमः ।

ऋजुर् घृणी क्षमी दान्तः शान्तः सत्यव्रतः शुचिः ।
वेदज्ञः सर्वशास्त्रज्ञ उपवासपरायणः ॥

तथा ।

छगोगं भोजयेच् छ्राद्धे वैश्वदेवे च बह्वृचम् ।
पुष्टिकर्मण्य् अथाध्वर्यं शान्तिकर्मण्य् अथर्वणम् ॥

आपस्तम्बः- “तुल्यगुणेष्व् अपि वयोवृद्धः श्रेयान् । द्रव्यकृशश् चेच्छन्” । मत्स्यपुराणे ।

अर्थज्ञो वेदविन् मन्त्री ज्ञातवंशः कुलान्वितः ।
पुराणवेत्ता सर्वज्ञः स्वाध्यायजपतत्परः ॥
सिवभक्तः पितृपरः सूर्यभक्तो ऽथ वैष्णवः ।
ब्रह्मण्यो योगविच् छान्तो विजितात्माथ शीलवान् ॥

स्कन्दपुराणे ।

कुलश्रुताभ्यां संयुक्ताद् अलुब्धस् तु विशिष्यते ।
ताभ्याम् अपि च विप्राभ्यां चिरवासी विशिष्यते ॥

चिरवासी विज्ञातशीलो यद् वा गुरुकुल चिरक्लिष्टो भवतीति तात्पर्यम् । आपस्तम्बः । “भोजयेद् ब्राह्मणान् ब्रह्मविदो योनिगोत्रमन्त्रान्तेवास्यसंबन्धान् गुणहान्या तु परेषां समुदितः सोदर्यो ऽपि योजयितव्यः” । योनिगोत्रमन्त्रान्तेवासित्वेनासंबन्धान् परेषाम् असंबन्धिनां गुणहीनत्वेन गुणैर् युक्तः सोदर्यो ऽपि भोजयितव्यः । किम् उत व्यवहितसंबन्धः ॥ १.२१९, २२०, २२१ ॥

उक्तगुणानाम् अपि विप्राणां रोगित्वादिनिमित्तेन निन्द्यत्वं श्लोकत्रयेणाह ।

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस् तथा ।
अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥ १.२२२ ॥
भृतकाध्यापकः क्लीबः कन्यादूष्य् अभिशस्तकः ।
मित्रध्रुक् पिशुनः सोमविक्रयी परिविन्दकः ॥ १.२२३ ॥
मातापित्रोर् गुरोस् त्यागी कुण्डाशी वृषलात्मजः ।
परपूर्वापतिः स्तेनः कर्मदुष्टाश् च निन्दिताः ॥ १.२२४ ॥

रोगिब्प्रभृतयो निन्दिताः श्राद्धे वर्जनीया इत्य् अर्थः । रोगी दीर्घरोगी । तथा च ब्रह्मपुराणम् ।

भोक्तुं श्राद्धेषु नार्हन्ति दैवोपहतचेतसः ।
षण्ढो मूकश् च कुनखी खल्वाटो दन्तरोगवान् ॥
श्यावदन्तः पूतिनासश् छिन्नाङ्गश् चाधिकाङ्गुलिः ।
गलरोगी च गडुमान् स्फुटिताङ्गश् च सज्वरः ॥
खञ्जतूपरमन्दाश् च तथान्ये दीर्घरोगिणः ।

हीनाङ्ग ऊनाङ्गः संख्यातः परिमाणतो वा । एवम् अतिरिक्ताङ्गः । अङ्गम् अङ्गुल्यादि । काण एकचक्षुः । चक्षुर् नाङ्गं किं त्व् इन्द्रियम् । अतो हीनाङ्गात् काणस्य पृथग्ग्रहणम् । पुनर्भूः पुनरूढा तस्याः पतिस् तस्याः सुतो वा पौनर्भवः । तत्त्वतस् तु सुत एव । अत एव हारीतः ।

स्वैरिणी च पुनर्भूश् च रेतोधाः कामचारिणी ।
सर्वभक्षा च विज्ञेयाः पञ्चैताः शूद्रयोनयः ॥
एतासां यान्य् अपत्यानि चोत्पद्यन्ते कदाचन ।
न तान् पङ्क्तिषु युञ्जीत नैते पङ्क्त्यर्हकाः स्मृताः ॥ इति ।

रेतोधाः कुण्डमाता । कामचारिणी अन्यपुरुषगामिनी । सर्वभक्षा सुरापी । अवकीर्णिनम् आह देवलः ।

गूढलिङ्ग्य् अवकीर्णी स्याद् यश् च भग्नव्रतस् तथा ।

गूढलिङ्गी दण्डादिकाश्रमलिङ्गरहितः । भग्नव्रतो विप्लुतब्रह्मचर्यः । [४४५] यमो प्य् आह ।

व्रती यः स्त्रियम् अभ्येति सो ऽवकीर्णी निरुच्यते ।

व्रती ब्रह्मचारी । कुण्डगोलकाव् आह मनुः ।

परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
जीवे भर्तरि कुण्डः स्यान् मृते भर्तरि गोलकः ॥

क्षेत्रजसुतविषयम् एतत् । अन्यस्याब्राह्मणत्वा एवाप्राप्तिः । कुनखी स्वभावान् मृतनखः । श्यावदन्तः स्वभावात् कृष्णदन्तः । भृत एव भृतको भृतकश् चासाव् अध्यापको भृतकाध्यापकः । अथ वा भृतको ऽध्यापको यस्य स भृतकाध्यापकः । अत्र देवलः ।

भृतकाध्यापको यश् च भृतकाध्यापितश् च यः ।
ताव् उभौ पतितौ विप्रौ स्वाध्यायक्रयविक्रयात् ॥

क्लीबः ष(प)ण्डः । अङ्गुल्यादिना यः कन्यां क्षतयोनिं करोति स कन्यादूषी कन्यादोषखापको वा । अनिश्चितसत्यभावेन पापकारितयोक्तो ऽभिशस्तः । मित्रध्रुङ् मित्रद्रोही । पिशुनः परदोषसूचकः । सोमविक्रयी सोमलतायाः सोमयागस्य वा विक्रेता । परिविन्दकः परिवेत्ता । अत्र मनुः ।

दाराग्निहोत्रसंयोगं कुरुते यो ऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिः स पूर्वजः ॥

शातातपः ।

क्लीबे देशान्तरस्थे च पतिते प्रव्रजे तथा ।
योगशास्त्राभियुक्ते च न दोषः प्रिवेदने ॥
पितृव्यपुत्रान् सापत्नान् परनारीसुतांस् तथा ।
दाराग्निहोत्रसंयोगे न दोषः परिवेदने ॥

परनारीसुता दत्तकादिभ्रातरः । वसिष्ठः- “अष्टौ दश द्वादश वा वर्षाणि ज्येष्ठं भ्रातरम् अनिविष्टम् अप्रतीक्षमाणः प्रायश्चित्ती भवति” । अनिविष्टम् अकृतविवाहाग्निहोत्रम् । तत्र श्लोकौ भवतः ।

द्वादशैव तु वर्षाणि ज्यायान् धर्मार्थयोर् गतः ।
न्याय्यः पर्तीक्षितुं भ्राता श्रूयमाणः पुनः पुनः ॥
उन्मत्तः किल्बिषी कुष्ठी पतितः क्लीब एव च ।
राजयक्ष्म्य् आमयावी ना न न्याय्यः स्यात् प्रतीक्षितुम् ॥
खञ्ञवामनकुब्जेषु गद्गदेषु जडेषु च ।
**जात्यन्धे बधिरे मूके न दोषः परिवेदने ॥ [४४६]

वृद्धवसिष्ठः ।

अग्रजश् च यदानग्निर् आदद्याद् अनुजः कथम् ।
अग्रजानुमतः कुर्याद् अग्निहोत्रं यथाविधि ॥

एतच् च धर्माधिकारिणि ज्येष्ठे ऽग्न्याधेयम् अकुर्वति द्रष्टव्यम् । नानधिकारिणि । हारीतः ।

सोदराणां तु सर्वेषां परिवेत्ता कथं भवेत् ।
दारैस् तु परिवेद्यन्ते नाग्निहोत्रेण नेज्यया ॥

विवाहाधिकारिणानुमतो ऽपि नोद्वहेद् इत्य् अर्थः । उशना ।

पिता पितामहो यस्य अग्रजो वाथ कस्यचित् ।
तपोऽग्निहोत्रमन्त्रेषु न दोषः परिवेदने ॥

यस्य पित्रादयः सन्ति तस्य तदनुज्ञातस्य तपोऽग्निहोत्रादयः परिवेदनहेतवो न भवन्तीत्य् अर्थः । सुमन्तुः ।

पितुर् यस्य तु नाधानं कथं पुत्रस् तु कारयेत् ।
अग्निहोत्रे ऽधिकारो ऽस्ति शङ्खस्य वचनं यथा ॥

अनुज्ञातस्येति शेषः ।

व्यसनासक्तिचित्तो वा नास्तिको ऽप्य् अथ वाग्रजः ।
कनीयान् धर्मकामस् तु आधानम् अथ कारयेत् ॥

व्यसनादिनानधिकारित्वम् उपलक्ष्यते । अतस् तदनुमतेनैवाधिकारी कनीयान् आदध्या(ध्या)त् ।

ज्येष्ठो भ्राता यदा तिष्ठेद् आधानं नैव कारयेत् ।
अनुज्ञातस् तु कुर्वीत शङ्खस्य वचनं यथा ॥

शातातपः ।

नाग्नयः परिविन्दन्ति न वेदा न तपांसि च ।
न च श्राद्धं कनिष्ठस्य या च कन्या विरूपिता ॥

अनधिकृते ज्येष्ठ इति शेषः । ज्येष्ठे ऽधिकारिणि श्राद्धम् कुर्वत्य् अपि कनिष्ठस् तु तत् कुर्वन् न परिविद्यते । विरूपायां ज्येष्ठायाम् अनूड्ःआयाम् अपि कनिष्ठाविवाहो न दोषाय । योगयाज्ञवल्क्यः ।

आवसथ्यम् अनाहृत्य त्रेतायां यः प्रवर्तते ।
सो ऽनाहिताग्निर् भवति परिवेत्ता तथोच्यते ॥

आवसथ्याधानम् अपीतराधानवद् भवतीत्य् आह गार्ग्यः ।

[४४७] सोदर्ये तिष्ठति ज्येष्ठे न कुर्याद् दारसंग्रहम् ।

आवसथ्यं तथाधानं पतितस् तु तथा भवेत् ॥

ब्रह्मगर्भः ।

याजनाध्यापनादानैर् अनिन्द्येभ्यो धनेन च ।
औपासनं समादद्या(ध्या)त् स्वे काले परिवेदयन् ॥

प्रकृतम् उच्यते — मातापित्राचार्यादीन् विना पातित्यादिना कारणेन यस् त्यजति स मात्रादित्यागी । तथा च मनुः ।

अकारणात् परित्यक्ता मातापित्रोर् गुरोस् तथा ।

गुरुर् अत्राचार्यो न पिता तस्य पृथगुपात्तत्वात् । कुण्डाशी कुण्डगोलकान्नभोजी । तथा च कुण्डगोलकाव् अभिधायाह मनुः ।

यस् तयोर् अन्नम् अश्नाति स कुण्डाश्य् उच्यते बुधैः ।

ब्रह्मपुराणात् ।

चतुःषष्ट्या पलैः शुद्धैः कुण्डं प्रस्थचतुष्टयम् ।
भवेत् तद् यस् तु निगिरेत् स कुण्डाशी पतत्य् अधः ॥

धर्महीनो वृषलः । तद् आह मनुः ।

वृषो हि भगवान् धर्मस् तस्य यः कुरुते त्व् अलम् ।
वृषलं तं विदुर् देवाः सर्वधर्मबहिष्कृतम् ॥

तस्यात्मजो वृषलात्मजः । अथ वा वृषलः शूद्रः स आत्मजो यस्य स वृषलात्मजः ।

परपूर्वा पूर्वम् अन्यस्मै दत्ता तस्याः पतिः परपूर्वापतिः । स्तेनश् चौरः । निषिद्धकर्मकारिणश् च कर्मदुष्टास् ते चोक्तेभ्यो ऽन्ये चिकित्सकदेवलकादयः शास्त्रान्तराद् अवबोद्धव्याः । अत्र मनुः ।
ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः ।
तान् हव्यकव्ययोर् विप्रान् अनर्हान् मनुर् अब्रवीत् ॥

नास्ति दैवम् इतिमतिमान् नास्तिकः । नास्तिकशास्त्रव्याख्यानादिनिबन्धनवृत्तिमांस् तद्वृत्तिः । यमः ।

नाश्नन्ति पिशुने देवा नाश्नन्त्य् अनृतवादिनि ।
भार्याजितस्य नाश्नन्ति यस्य चोपपतिर् गृहे ॥
न खरैर् उपयातस्य न रक्ताम्बरवाससः ।

[४४८] द्व्यङ्गुलातीतकर्णस्य पितरो भुञ्जते हविः ॥

य एतैर् लक्षणैर् युक्तास् तांस् तु पङ्क्त्या न निर्विशेत् ॥

शङ्खः ।

अनध्यायेष्व् अधीयानाः शौचाचारविवर्जिताः ।
शूद्रान्नरसपुष्टाङ्गा ब्राह्मणाः पङ्क्तिदूषिताः ॥

यमः ।

चौरा वार्धुषिका दुष्टाः परस्वानाम् च नाशकाः ।
चातुराश्रम्यबाह्याश् च विज्ञेयाः पङ्क्तिदूषकाः ॥
ये व्यपेताः स्वकर्मभ्यः स्तेनास् ते परिकीर्तिताः ।
कव्यं ददाति यस् तेभ्यस् तस्य तत् प्रेत्य नश्यति ॥
ज्ञानपूर्वं तु ये तेभ्यः प्रयच्छन्त्य् अल्पमेधसः ।
पुरीषं भुञ्जते सर्वे शतं वर्षाण्य् अमुत्र ते ॥
तस्माद् वै दातुकामेन दैवं श्राद्धं च सर्वशः ।
प्रशान्तेभ्यः प्रदातव्यं नाशान्तेभ्यः कथंचन ॥

वायुपुराणे ।

यस् तिष्ठेद् वायुभक्षस् तु चातुराश्रम्यबाह्यतः ।
अयतिर् मोक्षवादी च उभौ तौ पङ्क्तिदूषकौ ॥

महाभारते ।

अपरिज्ञातपूर्वाश् च गणपूर्वाश् च भारत ।
पुत्रिकापुत्रपूर्वाश् च श्राद्धे नार्हन्ति केतनम् ॥

केतनं निमन्त्रणम् । गणपूर्वो गणपुत्रः । गणो गणको मठब्राह्मणादिर् वा । मनुः ।

न श्राद्धे भोजयेन् मित्रं धनैः कार्यो ऽस्य संग्रहः ।
नारिं न मित्रं याम् विद्यात् तं श्राद्धे भोजयेद् द्विजम् ॥

अन्यविप्रासंभवे स एवाह ।

कामं श्राद्धे अर्चयेन् मित्रं नाभिरूपम् अपि त्व् अरिम् ।
द्विषता हि हविर् भुक्तं भवति प्रेत्य निष्फलम् ॥

ब्रह्माण्डपुराणात् ।

नानुयोगो ऽस्ति वेदानां यो ऽनुयुङ्क्ते स पापकृत् ।
भोक्ता वेदफलाद् भ्रश्येद् दाता दानफलात् ततः ॥

अनुयोगः परीक्षार्थं प्रश्नः किं पठतीत्य् एवंरूपः । कश्यपः ।

अरीन् विश्वस्तहन्तॄंश् च व्यङ्गान् नक्षत्रसूचकान् ।
वर्जयेद् ब्राह्मणान् एतान् सर्वकर्मसु यत्नतः ॥
काणाः कुष्ठाश् च षण्ढाश् च त्व् अचर्माणः कचैर् विना ।
**सर्वे श्राद्धे न योक्तव्या मिश्रिता वेदपारगैः ॥ [४४९]

अचर्माणः शिपिविष्टाः । कचैर् विना खलतय इत्य् अर्थः । महाभारते ।

अव्रती कितवः स्तेनः प्राणिविक्रयिको ऽपि वा ।
पश्चाच् चेत् पीतवान् सोमं सो ऽपि केतनम् अर्हति ॥

व्रतम् अत्र वेदव्रतम् । मनुः ।

यावतो ग्रसते पिण्डान् हव्यकव्येष्व् अमन्त्रवित् ।
तावतो ग्रसते प्रेत्य दीपाञ् शूलर्ष्ट्ययोगुडान् ॥

शूलम् ऋष्टिश् चायुधविशेषः । अयोगुडो लोहपिण्डः । देवलः- “कूटसाक्षिपुंश्त्वोपघातिस्त्रीजित-सेतुभेदकतालावधारणरङ्गोपजीविविधर्मपाठकनित्ययाचकप्रायश्चित्तनिमित्तधूर्त-साहसिकमृगयुकितवनास्तिकपिशुनशठवणिग्धर्मिपौनर्भवात्मम्भरिपुक्कसिसमुद्र-यायिकृत्याभिचारशूलमेलकवैद्यभृतककन्यादूषककृतघ्नकुहिकक्रूरमित्रध्रुग्दत्ताप-व्ययिसमयभेदिवाग्दुष्टपरुषकारुशिल्पिकहस्त्यारोहाश्वबन्धकाश् चेति वर्ज्याः” । तालावधारणस् तालवादनाजीवी । विधर्मपाठकाः पाषण्ड्यागमस्य पाठकाः । पुक्कसी मृगवधजीवी । दत्तापव्ययी दत्तापहर्ता । अश्वबन्धको विक्रयार्थम् अश्वान् यो बध्नाति । वसिष्ठः ।

विद्वद्भोज्यान्य् अविद्वांसो येषु राष्ट्रेषु भुञ्जते ।
तान्य् अनावृष्टिम् इच्छन्ति महद् वा जायते भयम् ॥

हारीतः ।

अपि विद्याकुलैर् युक्ता हीनवृत्ता नराधमाः ।
क्षौद्रेषु निरता नित्यं यातुधानाः प्रकीर्तिताः ॥

क्षौद्रेषु परपीडाकरेषु कर्मस्व् इत्य् अर्थः ।

पक्षिमीनमृगघ्ना ये सर्पकच्छपघातिनः ।
नानाजन्तुवधे सक्ताः प्रोत्का दुर्ब्राह्मणा हि ते ॥

तथा ।

शूद्रप्रेष्यो भृतो राज्ञा वृषलो ग्रामयाजकः ।
वधबन्धोपजीवी च षड् एते ब्रह्मबन्धवः ॥

यमः ।

यस्य वेदश् च वेदी च विच्छिद्येते त्रिपौरुषम् ।
**स वै दुर्ब्राह्मणो नाम यश् च वै वृषलीपतिः ॥ [४५०]

उशना ।

वन्ध्या तु वृषली ज्ञेया वृषली तु मृतप्रजा ।
अपरा वृषली ज्ञेया कुमारी या रजस्वला ॥
यस् त्व् एनाम् उद्वहेत् कन्यां ब्राह्मणो ज्ञानदुर्बलः ।
अश्राद्धेयम् अपाङ्क्तेयं तं विद्याद् वृषलीपतिम् ॥
दत्वानुयोगेनार्थाय पतितान् मनुर् अब्रवीत् ।
वेदविक्रयिणो ह्य् एते नैताञ् श्राद्धेषु भोजयेत् ॥
असंस्कृताध्यापकाश् च भृतकाध्यापकाश् च ये ।
तमो विशन्ति ते घोरम् इति वैवस्वतो ऽब्रवीत् ॥

अत एवैते न भोजनीया इत्य् अर्थः । मनुः ।

जटिलं चानधीयानं दुर्बालं कितवं तथा ।
याजयन्ति च ये पूगांस् तांश् च श्राद्धे विवर्जयेत् ॥

जटिलो ब्रह्मचारी । दुर्बालः खलतिः ।

चिकित्सकान् देवलकान् मांसविक्रयिणस् तथा ।
विपणेन च जीवन्ति वर्ज्याः स्युर् हव्यकव्ययोः ॥

चिकित्सको वृत्त्यर्थं न धर्मार्थम् । देवलः ।

देवकोशोपजीवी च नाम्ना देवलको भवेत् ।
अपाङ्क्तेयः स विज्ञेयः सर्वकर्मसु सर्वदा ॥

तथा ।

देवार्चनरतो विप्रो वित्तार्थी वत्सरत्रयम् ।
असौ देवलको नाम हव्यकव्येषु गर्हितः ॥

विपणो वणिज्या । विपणजीवितया प्रतिषिद्धस्यापि मांसविक्रयिणः पृथक्प्रतिषेधो ऽत्यन्तवर्ज्यत्वख्यापनार्थः । तेनोक्तगुणवतां विपणजीविनाम् अप्य् आपद्य् उपादेयत्वं गम्यते । एवम् अन्ये ऽपि सामान्यतः प्रतिषेधसिद्धौ विशेषप्रतिषेधा अत्यन्तानुपादानार्था वेदितव्याः ।

प्रेष्यो ग्रामस्य राज्ञश् च कुनखी श्यावदन्तकः ।
प्रतिरोद्धा गुरोश् चैव त्यक्ताग्निर् वार्धुषिश् तथा ॥

प्रतिरोद्धा प्रतिकूलः । त्यक्ताग्निः शास्त्रोक्तत्यागकारणम् अन्तरेणेति शेषः । वार्धुषिर् निषिद्धवृद्ध्युपजीवी । निषेधश् च यथा ।

समर्घं धनम् उद्धृत्य महार्घं यः प्रयच्छति ।
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥

[४५१] यक्ष्मी च पशुपालश् च परिवेत्ता निराकृतिः ।

ब्रह्मद्विट् परिवित्तिश् च गणाभ्यन्तर एव च ॥

यक्ष्मी राजयक्ष्मी । निराकृतिम् आह देवलः ।

अधीत्य विस्मृते वेदे भवेद् विप्रो निराकृतिः ।

कात्यायनस् त्व् अन्यथा निराकृतिम् आह ।

यस् त्व् आधायाग्निम् आलस्याद् देवादीन् नैभिर् इष्टवान् ।
निराकर्तामरादीनां स विज्ञेयो निराकृतिः ॥

ब्रह्मद्विड् ब्राह्मणद्वेष्टा । गणाभ्यन्तरो गणमध्यगः । गणो मठस्थो ब्राह्मणादिः ।

कुशीलवो ऽवकीर्णी च वृषलीपतिर् एव च ।
पौनर्भवश् च काणश् च यस्य चओपपतिर् गृहे ॥

कुशीलवो नटादिः । तथा ।

ब्राह्मैर् यौनैश् च संबन्धैः संयोगं पतितैर् गतः ।

अस्य च पतितात् पृथगुपादानं कृतप्रायश्चित्तस्यानुग्रहार्थम् । उपपातकसंयोग्यनुग्रहार्थं वा ।

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
समुद्रयायी बन्दी च तैलिकः कूटकारकः ॥

गरदो विषदः । बन्दी मङ्गलपाठकः । कूटकारकस् तुलादेर् मानस्य साक्ष्यस्य वा कूटस्य कर्ता ।

पित्रा विवदमानश् च केकरो मद्यपस् तथा ।
पापरोग्य् अभिशस्तश् च दाम्भिको रसविक्रयी ॥

केकरो ऽप्य् अ(ध्य)र्धदृष्टिः । मद्यं द्राक्षारसादि न तु सुरा । तत्पातुः पतितत्वेनैव निषिद्धत्वात् । पापरोगान् आह देवलः- “उन्मादस् त्वग्दोषो राजयक्ष्मा श्वासो मधुमेहो भगंदरो महोदरम् अश्मरीत्य् अष्टौ पापरोगाः” । रसो विषं पारद् इक्षुरसादिर् वा ।

धनुःशराणां कर्ता च यश् चाग्रेदिधिषूपतिः ।
मित्रध्रुग् द्यूतवृत्तिश् च पुत्राचार्यस् तथैव च ॥

अग्रेदिधिषूम् आह देवलः ।

ज्येष्ठायां यद्य् अनूढायां कन्यायाम् उह्यते ऽनुजा ।
**सा चाग्रेदिधिषूर् ज्ञेया पूर्वा च दिधिषूर् मता ॥ [४५२]

मनुस् तु दिधिषूपतिम् अन्यथाह ।

भ्रातुर् मृतस्य भार्यायां यो ऽनुरज्येत कामतः ।
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ इति ।

लक्षणाभिधानाद् एव दिधिषूपतिर् अपि वर्ज्य इति ज्ञेयम् ।

भ्रामरी गण्डमाली च श्वित्र्य् अथो पिशुनस् तथा ।
उन्मत्तो ऽन्धश् च वर्ज्याः स्युर् वेदनिन्दक एव च ॥

भ्रामर्य् अपस्मारी । श्वित्री श्वेतत्वक् ।

हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर् यश् च जीवति ।
पक्षिणां पोषको यश् च युद्धाचार्यस् तथैव च ॥
स्रोतसां भेदकश् चैव तेषां चावरणे रताः ।

स्रोतो जलप्रवाहस् तस्य भेदको विदारकः । आवरणं सेत्वादिना निरोधः ।

गृहसंबीजको दूतो वृक्षरोपक एव च ।
श्वक्रीडी श्येनजीवी च कन्यादूषक एव च ॥

गृहसंबीजको गृहस्य कर्ता । दूतः संधिविग्रही । वृक्षरोपको मूलार्थम् ।

हिंस्रो वृषलवृत्तिश् च गणानां चैव याजकः ।
आचारहीनः क्लीबश् च नित्ययाचनकस् तथा ॥

वृषलवृत्तिर् वृत्तिर् यस्य स वृषलवृत्तिः । बहवो मिलिता एककर्मकारिणो ऽत्र गणाः । प्रत्येकं बहूनां याजकः पूगयाजकः । तेनापुनरुक्तता । क्लीबो ऽनुत्साही ।

कृषिजीवी श्लीपदी च सद्भिर् निन्दित एव च ।
औरभ्रिको माहिषिकः परपूर्वापतिस् तथा ॥

श्लीपदं व्याधिविशेषः । उक्तव्यतिरिक्तो ऽपि साधुनिन्दितः । औरभ्रिको मेषजीवी । एवं माहिषिको व्यभिचारिणीसुतो वा । यथाह देवलः ।

महिषीत्य् उच्यते भार्या सा चैष व्यभिचारिणी ।
तस्यां यो जायते गर्भे स वै माहिषिकः स्मृतः ॥
प्रेतनिर्हारकश् चैव वर्जनीयः प्रयत्नतः ।

प्रेतनिर्हारको मूल्येन, धर्मार्थं तु न दोषः ।

[४५३] एतान् विहर्हिताचारान् अपाङ्क्तेयान् द्विजाधमान् ।

द्विजातिप्रवरो विप्रान् उभयत्र विवर्जयेत् ॥

उभयत्र दैवे पित्र्ये च । गौतमः- “न भोजयेत् स्तेनपतितनास्तिकतद्वृत्तिवीरहाग्रेदिधिषू-दिधिषूपतिस्त्रीग्रामयाजकाजपालोत्सृष्टाग्निमद्यपकुचारकूटसाक्षिप्रातिहारिकान् । उपपतिर् यस्य च सः । कुण्डाशी सीमविक्रयी । अगारदाहिगरदावकीर्णिगणप्रेष्यागम्यागामिपरिवित्तिपरिवेत्तृ-पर्याहितपर्याधातृत्यक्तात्मदुर्बालकुनखिश्यावदन्तपौनर्भवकितवाजपराजप्रेष्य-प्रातिरूपिकशूद्रापतिनिराकृतिकिलासिकुसीदिवणिक्शिल्पोपजीविज्यावादित्रतालनृत्यगीतशीलान् । पित्रा वा कामेन विभक्तान् । शिष्यांश् चैके सगोत्रांश् च वीरहा ब्राह्मणेतरपुरुषहा च” । ब्रह्महा च पतितत्वेनैव गृहीतः । पतिशब्दो ऽग्रेदिधिषूदिधिषूशब्दाभ्यां प्रत्येकं संबध्यते । याजकशब्दश् च स्त्रीग्रामशब्दाभ्यां प्रत्येकं संबध्यते । याजकशब्दश् च स्त्रीग्रामशब्दाभ्यां प्रत्येकं संबध्यते । कुचारः कुत्सिताचारः । प्रातिहारिक ऐन्द्रजालिकः । उपपतिं न भोजयेत् । उपपतिर् यस्य स उपपतिस् तं चेत्य् अर्थः । पर्याहितपर्याधाताराव् आह लौगाक्षिः ।

सोदर्ये तिष्ठति ज्येष्ठे यो ऽग्न्याधानं करोति हि ।
तयोः पर्याहितो ज्येष्ठः पर्याधाता कनिष्ठकः ॥

त्यक्तात्मा साहसिकः । प्रातिरूपिकः कूटतुलादिमानव्यवहारी, प्रकारान्तरेण वा प्रतारकः । किलासी कुष्ठी, भूमिहर्ता वा । कुसीदी कुत्सितवृद्ध्युपजीवी । ज्याशीलो धनुर्विद्योपजीवी । एवं वादित्रादिशीलाः । सगोत्राः सपिण्डाः । शङ्खसिखितौ- “अनृतवाक् तस्करो राजद्विष्टो भृत्यो वृक्षरोपकवृत्तिर् गरदो ऽग्निदो माहिषिकश् छागलिकः शूद्रोपाध्यायो बन्दी घाण्टिको देवलकः पुरोहितो नक्षत्रादेशवृत्तिर् ब्रह्मपुरुषो ऽपत्यविक्रयी कितवः कूटकारकमानुषपशुविक्रयिणश् चेत्य् अपाङ्क्तेयाः” । हारीतः- **[४५४] **“चिकित्सकवृषलप्रेष्य-कारुककितवश्वक्रीडकशकुनिजीविमीनघातकावेष्टकपुंश्चलिवार्धुक्षिकाहितुण्डिकप्रत्यवसित-भृतकाध्यापकभृतकाध्यापितमेलकसूचकानियामककुशीलवादीन् दैवे पित्र्ये च वर्जयेत्” । मनुः ।

सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ।
अप्रतिष्ठं वार्धुषिके नष्टं देवलके भवेत् ॥
यतु वाणिजके दत्तं नेह नामुत्र तद् भवेत् ।
भस्म्नीव हुतं हव्यं तथा पौर्नर्भवे द्विजे ॥
इतरेषु त्व् अपाङ्क्त्येषु यथोद्दिष्टेष्व् असाधुषु ।
मेदोऽसृङ्मांसमज्जास्ति वदन्त्य् अन्नं मनीषिणः ॥
अपाङ्क्त्यो यावतः पाङ्क्त्यान् भुञ्जानान् अनुपश्यति ।
तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥
यावतः संस्पृशेद् अङ्गैर् ब्राह्मणाञ् शूद्रयाजकः ।
तावतां न भवेद् दातुः फलं दानस्य पौर्तिकम् ॥
वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु ।
पापरोगी सहस्रस्य दातुर् नाशयते फलम् ॥

वीक्ष्यान्ध इति योग्यतात्र विवक्षिता । ततश् च यत्र प्रदेशे ऽवस्थितश् चक्षुष्मान् विप्रान् भुञ्जानान् अवलोकयितुं क्षमस् तत्र प्रदेशे ऽवस्थितो वान्धो नवतेर् विप्राणां भोजनफलं नाशयतीत्य् अर्थः । वायुपुराणे ।

अनाश्रमी तपस् तेपे तं विप्रं न निमन्त्रयेत् ।
औपपत्तिस् तथा शाक्यो नास्तिको वेदनिन्दकः ॥
ध्यानिनं ये च निन्दन्ति सर्वे ते पङ्क्तिदूषकाः ॥

औपपत्तिर् औपपत्तिकः शुष्कतार्किकः शाक्यसाहचर्यात् । आगमानुसारतार्किकः प्रशस्त एव ।

वृथामुण्डाश् च जटिलाः सर्वे कापटिकास् तथा ।
निर्घृणान् भिन्नवृत्तांश् च सर्वाञ् श्राद्धे विवर्जयेत् ॥
प्राह वेदान् वेदभृतो वेदान् यश् चोपजीवति ।
उभौ तौ नार्हतः श्राद्धं पुत्रिकापतिर् एव च ॥

वेदभृतो वेदप्राप्तये परिक्रीतः । वेदोपजीवनं वाराध्ययनादि ।

वृथा दारांश्च यो गच्छेद् याजयेच् चावृतो ऽध्वरे ।
नार्हतस् ताव् अपि श्राद्धं द्विजो यश् चैव नास्तिकः ॥

[४५५] आत्मार्थं यः पचेद् अन्नं न देवातिथिकारणात् ।

नार्हत्य् असाव् अपि श्राद्धं पतितो ब्रह्मराक्षसः ॥

हारीतः ।

स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् ।
तेन दुश्चरितेनासौ काण्डपृष्ठो न संशयः ॥

ब्रह्मपुराणे ।

कृतघ्नान् नास्तिकान् स्तब्धान् म्लेच्छदेशनिवासिनः ।
त्रिशङ्कुबर्बरान् आन्ध्रान् बकान् द्रविडकुङ्कुणान् ॥
कर्णाटकांश् च बाह्लीकान् कलिङ्गांश् च विवर्जयेत् ॥

स्कन्दपुराणे ।

ईश्वर उवाच ।
श्राद्धं परीक्ष्य दातव्यम् इत्य् एषा वैदिकी श्रुतिः ।
परीक्षणाच् च रम्भोरु आर्जवं गुणवत्तरम् ॥
अपरीक्ष्य तु यो दद्याच् छ्राद्धम् आर्जवम् आस्थितः ।
तस्य तुष्यन्ति पितरो देवताश् च न संशयः ॥ १.२२२, २२३, २२४ ॥
निमन्त्रयेत पूर्वेद्युर् ब्राह्मणान् आत्मवाञ् शुचिः ।

श्राद्धदिनाच् च पूर्वेद्युर् ब्राह्मणान् पङ्क्तिपावनान् । तदभावे मातामहादीन् । आत्मवान् विजितेन्द्रियः । शुचिः प्रयतो निमन्त्रयेत । अप्रत्याख्येयो नियोगो निमन्त्रणम् । देवलः ।

अक्रुद्धो निभृतः स्वस्थः श्रद्धावान् अत्वरः शुचिः ।
समाहितमनाश् चात्र क्रियायाम् असकृत् सदा ॥

निभृतो मन्दभाषी । स्वस्थः प्रकृतिस्थः । समाहितमनास् तत्परः ।

श्वः कर्तास्मीति निश्चित्य दाता विप्रान् निमन्त्रयेत् ।
निरामिषं सकृद् भुक्त्वा सर्वभुक्तजने गृहे ॥
असंभवे परेद्युर् वा ब्राह्मणांस् तान् निमन्त्रयेत् ।
अज्ञातीन् असमानार्थान् अयुग्मान् आत्मशक्तितः ॥

असंभवे पूर्वेद्युर् निमन्त्रणासंभवे । तदहर्निमन्त्रणपक्षे ऽपि पूर्वेद्युस् त्यक्तस्त्रीसङ्गा एव निमन्त्रणीयाः । अत्र मार्कण्डेयः ।

निमन्त्रयेत पूर्वेद्युः पूर्वोक्तान् द्विजसत्तमान् ।
अप्राप्तौ तद्दिने वापि हित्वा योषित्प्रसङ्गिनम् ॥
भिक्षार्थम् आगतान् विप्रान् काले संयमिनो यतीन् ।
**भोजयेत् प्रणिपाताद्यैः प्रसाद्य यतमानसः ॥ [४५६]

संयमिनो ब्रह्मचारिणः । प्रचेताः ।

सवर्णं प्रेषयेद् आप्तं द्विजानाम् उपमन्त्रणे ।

स्वयंनिमन्त्रणासामर्थ्य एतत् ।

कृतापसव्यः पूर्वेद्युः पूर्वान् पितॄन् निमन्त्रयेत् ।
भवद्भिः पितृकार्यं नः संपाद्यं च प्रसीदथ(त) ॥
सव्येन वैश्वदेवार्थं प्रणिपत्य निमन्त्रयेत् ॥

मनुस् तु वैश्वदेविकब्राह्मणानां पूर्वं निमन्त्रणम् इच्छति । यद् आह ।

दैवाद्यन्तं यदीहेत पित्राद्यन्तं न तद् भवेत् ।
पित्राद्यन्तं त्व् ईहमानः क्षिप्रं नश्यति सान्वयः ॥ इति ।

ततश् च विकल्पः । यमः ।

जातिक्रियावबोधाद्यैर् गुणैर् युक्तान् अलोलुपान् ।
प्रार्थयेत प्रदोषान्ते भुक्तान् आशयितान् द्विजान् ॥
सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः ।
भव्द्भिर् भवितव्यं नः श्वोभूते श्राद्धकर्मणि ॥
ते तं तथेत्य् अविघ्नेन यातीयं रजनी यदि ।
यथाश्रुतं प्रतीक्षेरञ् श्राद्धकालम् अतन्द्रितः ॥

ते तथेति ब्रूयुर् इति शेषः । मत्स्यपुराणे ।

दक्षिणं जानुम् आलभ्य त्वं मायाद्य निमन्त्रितः ।
एवं निमन्त्र्य नियमाञ् श्रावयेत् पैतृकान् बुधः ॥
अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः ।
भवितव्यं भवद्भिश् च मया च श्राद्धकर्मणि ॥

वराहपुराणे ।

वस्त्रशौचादि कर्तव्यं श्वः कर्तास्मीति जानता ।
स्थानोपलेपनं भूमिं कृत्वा विप्रान् निमन्त्रयेत् ॥
दन्तकाष्ठं च विसृजेद् ब्रह्मचारी शुचिर् भवेत् ॥
तैश् चापि संयतैर् भाव्यं मनोवाक्कायकर्मभिः ॥ १.२२५ ॥

तैर् निमन्त्रितैः संयतमनोवाक्कायव्यापारैर् भवितव्यम् । चकरात् कर्त्रापि भवितव्यम् । मनुः ।

निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत् सदा ।
**न च छन्दांस्य् अधीयीत यस्य श्राद्धं च तद् भवेत् ॥ [४५७]

देवलः ।

पूर्वं निमन्त्रितो ऽन्यस्य यति कुर्यात् प्रतिग्रहम् ।
भुक्ताहारो ऽपि वा भुङ्क्ते सुकृतं तस्य नश्यति ॥

मनुः ।

केतितस् तु यथान्यासं हव्यकव्ये द्विजोत्तमः ।
कथंचिद् अप्य् अतिक्रामन् पापः सूकरतां व्रजेत् ॥

अङ्गीकृतनिमन्त्रणस्यैतत् । आपस्तम्बः- “आरब्धे चाभोजनम् आ समापनात्” । यमः ।

केतनं कारयित्वापि यो ऽतिपातयते द्विजः ।
ब्रह्महत्याम् अवाप्नोति शूद्रयोनौ च जायते ॥

निमन्त्र्य ब्राह्मणम् अतिपतयते ऽतिक्रामति तं न भोज्यत इति यावत् ।

आमन्त्रितस् तु यः श्राद्धे त्व् अन्यस्य कुरुते क्षणम् ।
संवत्सरक्र्तं पुण्यं तस्य नश्यति दुर्मतेः ॥
आमन्त्र्य ब्राह्मणं यस् तु यथान्यायं न पूजयेत् ।
अतिकृच्छ्रासु घोरासु तिर्यग्योनिषु जायते ॥

हारीतः ।

दैवे वा यदि वा पित्र्ये निमन्त्र्य ब्राह्मणं यदि ।
तर्पयेन् न यथान्यायं स तत् तस्य फलं हरेत् ॥
प्रसादाद् विस्मृतं ज्ञात्वा प्रसाद्यैनं प्रयत्नतः ।
तर्पयित्वा विशेषेण सर्वं तत् फलम् आप्नुयात् ॥

मनुः ।

निमन्त्रितस् तु यः श्राद्धे वृषल्या सह मोदते ।
दातुर् यद् दुष्कृतं किंचित् तत् सर्वं प्रतिपद्यते ॥

वृषली शूद्रा । मनुः ।

दैवपूर्वं तु यच् छ्राद्धम् अदैवं वापि यद् भवेत् ।
ब्रह्मचारी भवेत् तत्र भुक्त्वा श्राद्धम् तु नैत्यकम् ॥

कात्यायनः - “तदहः शुचिर् अक्रोधनो ऽत्वरितो ऽप्रमत्तः सत्यवादी स्यात् । मैथुनश्रमस्वाध्यायान् वर्जयेत् । आवाहनादि वाग्यत आ उपस्पर्शनात् । आमन्त्रितश् चैवम्” । उपस्पर्शनम् आचमनं कर्मणो ऽन्ते तत्पर्यन्तं वाचंयमः स्याद् इत्य् अर्थः । वृद्धशातातपः ।

शुद्ध्यर्थं प्रातर् उत्थाय भक्षयेद् दन्तधावनम् ।

एतच् च भोक्तुर् न दातुः, “क्लिन्नदन्तः पितॄन् यजेत” इत् श्रुतेः । हारीतः- “अथ श्वोभूते दक्षिणाप्रवणां दिशं गत्वा दक्षिणाप्रणतान् समूलान् [४५८] दर्भान् आहरेत् । अपरिगृहीतास् चापः । कृतवेश्वकर्माणः सस्त्रीबालवृद्धाः सुरभिस्नाताः शुचिवाससः स्युः” । सुरभिस्नाताः सुगन्धितैलादिद्रव्यस्नाताः । यमः ।

समूलस् तु भवेद् दर्भः पितॄणां श्राद्धकर्मणि ।
मूलेन लोकाञ् जयति शक्रस्य तु महात्मनः ॥
रक्षन्ति दर्भा असुरांस् तिला रक्षन्ति राक्षसान् ।
वेदविद् रक्षति त्व् अन्नं यतये दत्तम् अक्षयम् ॥

ब्रह्मपुराणे ।

हरिता वै सपिञ्जूलाः स्निग्धाः पुष्टाः समन्ततः ।
रत्निमात्राः प्रमाणेन पितृतीर्थेन संस्कृताः ॥

सपिञ्जूला अच्छिन्नप्रान्ताः । बद्धमुष्टिः करो रत्निः । संस्कृताः परामृष्टाः ।

तथा श्यामाकनीवारदूर्वाश् च समुदाहृताः ।

कुशाभाव इति द्रष्टव्यम् । तथा च विष्णुः- “कुशाभावे कुशस्थाने काशदूर्वाश् च दद्यात्” । गोभिलः- “बहिर् उपमूललूनं पितृभ्यस् तेषाम् अलाभे शूकतृणशरसूर्यसुतनलषण्ढ(ण्ड)वर्जं सर्वतृणानि” । शुकतृणं शूकधान्यतृणम् । कात्यायनः ।

हरिता यज्ञिया दर्भाः पीतकाः पञ्चपज्ञियाः।
समूलाः पितृदै(दे)वत्याः कल्माषा वैश्वदेविकाः ॥
पिण्डार्थं संभृताः स्युर् ये तर्पणार्थं तथैव च ।
धृतैकतस् तु विण्मूत्रे तेषां त्यागो विधीयते ॥

पुराणात् ।

तर्पणादीन कार्याणि पितॄणां यानि कानिचित् ।
तानि स्युर् द्विगुणैर् दर्भैः संस्तरार्थं विशेषतः ॥
सपिण्डीकरणं यावद् ऋजुदर्भैः पितृक्रिया ।
सपिण्डीकरणाद् ऊर्ध्वं द्विगुणैर् विधिवद् भवेत् ॥

कुशग्रहणमन्त्रः ।

विरिञ्चिना सहोत्पन्न परमेष्ठिन् निसर्गज ।
**नुद पापानि सर्वाणि भव स्वस्तिकरो मम ॥ [४५९]

इति कुशाः । अथ प्रोक्षणम् । तत्र वृद्धशातातपः ।

बहिर् आचम्य नद्यादौ सोदकश् च सुसंयतः ।
आहरेत् प्रोक्षणं प्राज्ञो नैकजातिर् न चाव्रतः ॥
शैवलतृणपर्णाद्यैर् असंस्काराम्बुभाजनैः ।
सैकतावस्त्रतोयाद्यैर् न कुर्यात् प्रोक्षणं बुधः ॥

एकजातिः शूद्रः । शैवलादिभिर् युक्तैर् असंस्कृतभाजनैः । सैकतान्तर्गतैर् वस्त्रादिनिर्गतैश् च जलैर् न पोक्षयेद् इत्य् अर्थः । आपस्तम्बः ।

नालिकाभिन्नपात्रेण कांश्यपात्रेण चैव हि ।
पाण्यङ्गफलजेनापि कुर्यान् नाभ्युक्षणं बुधः ॥

नालिका वेणुमयी । भिन्नपात्रं यन् मृन्मयम् । प्राण्यङ्गजं शङ्खशुक्त्यादि । फलजं नारिकेलबिल्वादिमयम् ।

गृहे वा सम्यग् आचान्तः कृत्वा स्वर्णोदकं बुधः ।
नाधोवस्त्रैकदेशेन शुद्ध्यर्थम् अप् आहरेत् ॥
यद्य् आनीतं तु सव्येन प्रोक्षयेद् दक्षिणेन तु ।
आग्नेयं प्रथमं प्रोक्तं विप्रहस्ताद् द्वितीयकम् ॥
तृतीयम् उदकस्ह्तानाच् चतुर्थं मणिकात् स्मृतम् ॥

अग्नियुक्तभाजनस्थम् आग्नेयम् । मणिक उदपात्रम् । प्रचेताः ।

संगृह्याभ्युक्षणं यायात् सोपानत्को गृहं प्रति ।
तद् अमुक्त्वा गृहं प्राप्य आचामेत् परिचारकात् ॥
अभ्युक्षणोदपात्रं तु न तावत् स्थाप्यते क्वचित् ।
यावन् नाचमनं दत्तं प्रोक्षिता न गलन्तिका ॥

गलन्तिका वाध्धानी । विष्णुः- “न नक्तं गृहीतेन श्राद्धकर्म कुर्याद् उदकेन” । ब्रह्माण्डपुराणे ।

दुर्गन्धि फेनिलं वर्ज्यं तथा वै पल्वलोदकम् ।
नाप्नुयाद् यत्र गौस् तृप्तिं नक्तं यच् चैव गृह्यते ॥

इति प्रोक्षणम् । अथ वैश्वदेवादिः । तत्र लौगाक्षिः ।

पित्रर्थं निर्वपेत् पाकं वैश्वदेवार्थम् एव च ।
**वैश्वदेवं न पित्रर्थं न दार्शं वैश्वदेविकम् ॥ [४६०]

देवयज्ञार्थं वैश्वदेवम् । दर्शश्राद्धं दार्शम् । एतच् च श्राद्धमात्रोपलक्षणार्थम् । पैठीनसिः ।

पितृपाकं समुद्धृत्य वैस्वदेवं करोति यः ।
आसुरं तद् भवेच् छ्राद्धं पितॄणां नोपतिष्ठति ॥

लौगाक्षिः ।

पक्षान्तकर्म निर्वर्त्य वैश्वदेवं च साग्निकः ।
पिण्डयज्ञः ततः कुर्यात् ततो ऽन्वाहार्यकं बुधः ॥

पक्षान्तकर्माग्न्यन्वाधानम् । अन्वाहार्यकं दर्शश्राद्धम् ।

अकृते वैश्वदेवे तु स्थालीपाकः प्रकीर्तितः ।
अन्यत्र पिण्डयज्ञात् तु सो ऽपराह्णे विधीयते ॥

पिण्डयज्ञस्थालीपाकात् प्राग् वैश्वदेवः कार्य इत्य् अर्थः । भविष्यत्पुराणे त्व् अन्यक्रमः ।

कृत्वा श्राद्धं महाबाहो ब्राह्मणांश् च विसृज्य च ।
वैश्वदेवादिकं कर्म ततः कुर्यात् नराधिप ॥ इति ।

तथा ।

पितॄन् संतर्प्य विधिवद् बलिं दद्याद् विधानतः ।
वैश्वदेवं ततः कुर्यात् कृत्वा ब्राह्मणवाचनम् ॥
ये अग्निदग्धा मन्त्रेण भूमौ यन् निक्षिपेद् बुधः ।
जानीहि तद् बलिं वीर श्राद्धकर्मणि नित्यदा ॥

एवं वैश्वदेवस्य त्रयः कालाः । एकः पाकान्तरो ऽपरो बलिदानानन्तरः श्राद्धसमाप्त्यनन्तरस् तृतीयः । अथापरेतिकर्तव्यता । तत्र पुराणम् ।

भूमिः श्राद्धे पञ्चगव्यैर् लिप्ता शोध्या तथोल्मुकैः ।
गौरमृत्तिकया छन्ना प्रकीर्णतिलसर्षपा ॥

उशना- “गोमयोदकैर् भूमिभाजनभाण्डशौचं कुर्यात्” । देवलः ।

तथैव यन्त्रितो दाता प्रातः स्नात्वा सहाम्बरः ।
आरभेत नवैः पात्रैर् अन्नारम्भं च बान्धवैः ॥

[४६१] तिलान् अवकिरेत् तत्र सर्वतो वासयेद् अजान् ।

असुरोपहतं सर्वं तिलैः शुध्यत्य् अजेन च ॥
ततो ऽन्नं बहुसंस्कारं नैकव्यञ्जनभक्ष्यवत् ।
चोष्यपेयसमृद्धं च यथाशक्ति प्रकल्पयेत् ॥
ततो निवृते मध्याह्ने लुप्तलोमनखान् द्विजान् ।
अभिगम्य यथामार्गं प्रयच्छेद् दन्तधावनम् ॥
तैलम् उद्वर्तनं स्नानं स्नानीयं च पृथग्विधम् ।
पात्रैर् औदुम्बरैर् दद्याद् वैश्वदेवकपूर्वकम् ॥
ततः स्नात्वा निवृत्तेभ्यः प्रत्युत्थाय कृताञ्जलिः ।
पाद्यम् आचमनीयं च संप्रयच्छेद् यथाक्रमम् ॥

औदुम्बरं ताम्रम् । विश्नुः ।

स्नातो ऽधिकारी भवति दैवे पित्र्ये च कर्मणि ।
पवित्राणां तथा जप्ये दाने च विधिचोदिते ॥

वृद्धवसिष्ठः ।

जपहोमोपवसेषु धौतवस्त्रः सदा भवेत् ।
अलंकृतशुचिर् मौनी श्राद्धादौ विजितेन्द्रियः ॥

प्रचेताः- “श्राद्धकृच् छुक्लवासाः स्यात्” । कषयरक्तप्रतिषेधम् आह बौधायनः ।

काषायवासाः कुरुते जपहोमप्रतिग्रहान् ।
न तद् देवगमं भवति हव्यकव्येष्व् अथो हविः ॥

योगयाज्ञवल्क्यः ।

जपे होमे तथा दाने दैवे पित्र्ये च कर्मणि ।
बध्नीयान् नासुरीं कक्ष्यां शेषे काले यथेच्छया ॥
परिधानाद् बहिः कक्ष्या निबद्धा ह्य् आसुरी भवेत् ॥

भृगुः ।

नग्नः स्यान् मलवद्वासा नग्नः कौपीनकेवलः ।
द्विकक्ष्यो ऽनुत्तरीयश् च अकक्षो ऽवस्त्र एव च ॥
नग्नः काषायवासाः स्यान् नग्नश् चार्धपटः स्मृतः ॥

शातातपः ।

एकवस्त्रो न भुञ्जीत न कुर्याद् देवतार्चनम् ।
न चार्चयेद् द्विजान् नग्नः कुर्याद् एवंविधो नरः ॥
सव्याद् अंसात् परिभ्रष्टं कथंचिद् विवृताम्बरम् ।
**एकवस्त्रं तु तं विद्याद् दैवे पित्र्ये च वर्जयेत् ॥ [४६२]

वृद्धमनुः ।

सव्यंधौतेन कर्तव्याः क्रिया धर्म्या विपश्चिता ।
न तु नेजकधौतेन नाहतेन च कर्हिचित् ॥

अहतम् आह कश्यपः ।

अहतं यन्त्रनिर्मुक्तम् उक्तं वासः स्वयंभुवा ।
शस्तं तन् माङ्गलिक्येषु तावत् कालं न सर्वदा ॥

माङ्गलिक्यं विवाहादि । ततो ऽन्यत्र सकृत् प्रक्षालितम् अहतम् इत्य् आह प्रचेताः ।

ईषद्धौतं नवं श्वेतं सदशं यन् न धारितम् ।
अहतं तद् विजानीयात् सर्वकर्मसु पावनम् ॥

व्यासः ।

अच्छिन्नाग्रं च यद् वस्त्रं मृदा प्रक्षालितं च यत् ।
अहतं धातुरक्तं तत् पवित्रम् इति वै स्थितिः ॥

शाट्यायनिः ।

ततः सूर्यम् उपस्थाय सम्यग् आचम्य च स्वयम् ।
अभ्युक्षणं समादाय संयतात्मा गृहं व्रजेत् ॥
सोपानत्कः सदर्भश् च सपात्रः सदशोत्तरः ॥

सदशम् उत्तरम् उत्तरीयं यस्य स सदशोत्तरः । सूर्योपस्थानं ब्रह्मयज्ञाद्युपलक्षणार्थम् । योगयाज्ञवल्क्यः ।

तेनोदकेन पात्राणि प्रोक्ष्याचम्य पुनर् गृहे ।
पात्राद् विरहितं तोयम् उद्धृतं सव्यपाणिना ॥
न तेन प्रोक्षणं कुर्याद् वस्त्रनिर्णेजनेन च ॥

ब्रह्माण्डपुराणे ।

नाप्रोक्षितं स्पृशेत् किंचिद् दैवे पित्र्ये च वा पुनः ।
उत्तरेणाहरेद् वेद्या दक्षिणेन विसर्जयेत् ॥

वेदिः श्राद्धभूमिः । गोभिलः ।

दानम् आचमनं होमं भोजनं देवतार्चनम् ।
प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम् ॥
आसनारूढपादो यो जान्वोर् वा जङ्घयोस् तथा ।
कृतावसिक्थिको यस् तु प्रौढपादः स उच्यते ॥

बौधायनः- “नाभेर् अधः करस्पर्शं कर्मयुक्तो विवर्जयेत्” । तथा ।

संध्ययोर् उभयोर् जप्ये भोजने दन्तधावने ।
पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः ॥
गुरूणां संनिधौ दाने योगे चैव विसेषतः ।
**एतेषु मौनम् आतिष्ठेत् स्वर्गम् आप्नोति मानवः ॥ [४६३]

योगयाज्ञवल्क्यः ।

यदि वाग्यमलोपः स्याज् जप्यादिषु कथंचन ।
व्याहरेद् वैष्णवं मन्त्रं स्मरेद् वा विष्णुम् अव्ययम् ॥

मार्कण्डेयः ।

अह्नः षट्सु मुहूर्तेषु गतेषु त्व् अथ तान् द्विजान् ।
प्रत्येकं प्रेषयेत् प्रेष्यं स्नानार्थं चामलोदकम् ॥
स्नातः स्नातान् समाहूतान् स्वागतेनार्चयेत् पृथक् ।
स्थितान् देशे विविक्ते तु प्रकीर्णतिलबर्हिषि ॥ १.२२५ ॥
अपराह्णे समभ्यर्च्य स्वागतेनागतान् द्विजान् ।
पवित्रपाणिर् आचान्तान् आसनेषूपवेशयेत् ॥ १.२२६ ॥
युग्मान् दैवे यथाशक्ति पित्र्ये ऽयुग्मांस् तथैव च ।
परिश्रिते शुचौ देशे दक्षिणाप्रवणे तथा ॥ १.२२७ ॥
द्वौ दैवे प्राक् तु पित्र्ये त्रीन् उदग् एकैकम् एव वा ।

तान् निमन्त्रितान् आगतान् विप्रान् अपराह्णे ऽहनो ऽपरभागे स्वागतेन स्वागतवाक्येन पूजितान् आचान्ताञ् शुचौ शुद्धे परिश्रिते काण्डपटादिना परिवृते दक्षिणतः क्रमनिम्ने प्रदेशे दैवे वैश्वदेविके यथाशक्ति युग्मान् प्राङ्मुखान् पित्र्ये पितृकार्ये यथाशक्त्या वा । अयुग्मान् इति पाठः । अयुग्मान् उदङ्मुखान् आसनेषु पवित्रपाणिर् उपवेशयेत् । अथ वा द्वाव् एव वैश्वदेवे त्रीन् एव पित्र्ये । यद् वोभयत्रैकैकम् । द्विचतुरादिसंख्याका युग्माः । एकत्रपञ्चकादिसंख्याका अयुग्माः । महासंख्यायाम् असमर्थस्य चाल्पसंख्याविधिः । यत् तु मनुनोक्तम्,

द्वौ दैवे पित्र्यकृत्ये त्रीन् एकैकम् उभयत्र वा ।
भोजयेत् सुसमृद्धो ऽपि न प्रसज्येत विस्तरे ॥
सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् ।
पञ्चैतान् विस्तरो हन्ति तस्मान् नेहेत विस्तरम् ॥

इति, तन् न्यूनसंख्याप्रशंसार्थं नाधिकसंख्यानिषेधार्थम् । तथा सति नाधिकसंख्या विधीयते । विधत्ते च गौतमः- “नवावरान् भोजयेद् अयुजो वा यथोत्साहम्” इति । गृह्यकृच्छौनकः- “अथातः पार्वणे श्राद्धे काम्य आभ्युदयिक एकोद्दिष्टे वा [४५४] ब्राह्मणाञ् श्रुतशीलवृत्तसंअन्नान् एकेन वा काले ज्ञापितान् स्नातान् कृतशौचांस् तान् उदङ्मुखान् पितृवद् उपवेश्य चैकैकम् एकैकस्य द्वौ द्वौ त्रींस् त्रीन् वा वृद्धौ फलभूयस्त्वं न त्व् एवैकं सर्वेषां पिण्डैर् व्याख्यातं कामम् अनाद्ये” । अस्यार्थः — पार्वणादिश्राद्धचतुष्टये ब्राह्मणाञ् श्रुतादिगुणोपेतान् एकेन वा श्रुतादिना गुणेन संपन्नान् काले पूर्वेद्युर् ज्ञापितान् निमन्त्रितान् स्नातान् समावृत्तान् आप्लुतान् वा तद्दिने कृतपादशौचान् पितृवत् पितृतुल्यवयस्कान् । वृद्धवृद्धतरवृद्धतमान् इत्य् अर्थः । पित्रादीनाम् एकैकस्य स्थान एकम् एकं द्वौ द्वौ विप्रौ त्रींस् त्रीन् विप्रान् वोपवेश्येत् । विप्रसंख्यया वृद्धौ फलभूयस्त्वं न तु सर्वेषां पित्रादीनां स्थान एकं ब्राह्मणम् उपवेशयेत् । कामम् अनाद्ये आद्यं तु सपिण्डीकरणं ततो ऽन्यद् अनाद्यम् । यद् वान्नम् आद्यं तदभावो ऽनाद्यं यद् वानाद्यम् आमम् इति । ब्रह्मपुराणे ।

देशकालधनाभावाद् एकैकम् उभयत्र वा ।
शेषान् वित्तानुसारेण भोजयेद् अन्यवेश्मनि ॥

उभयत्र दैवे पित्र्ये चेत्य् अर्थः । शङ्खः ।

भोजयेद् अथ वाप्य् एकं ब्राह्मणं पङ्क्तिपावनम् ।
दैवे कृत्वा तु नैवेद्यं पश्चात् तस्य तु निर्वपेत् ॥

पुराणात् ।

एक एव यदा विप्रो द्वितीयो नोपपद्यते ।
पितॄणां ब्राह्मणो योज्यो दैवे त्व् अग्निं नियोजयेत् ॥

वसिष्ठः ।

अपि वा भोजयेद् एकं ब्राह्मणं वेदपारगम् ।
श्रुतशीलादिसंपन्नं सर्वालक्षणवर्जितम् ॥
यद्य् एकं भोजयेच् छ्राद्धे दैवं तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ॥
देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् ।
प्रास्येद् अन्नं तद् अग्नौ तु दद्याद् वा ब्रह्मचारिणे ॥

बृहस्पतिः ।

यद्य् एकं भोजयेच् छ्राद्धे स्वल्पत्वात् प्रकृतस्य तु ।
स्तोकं स्तोकं समुद्धृत्य तेभ्यो ऽन्नं निवेदयेत् ॥

ब्राह्मणतृप्तिसमर्थस्यान्नस्य स्तोकं तृतीयं भागं बुद्ध्या पृथक्कृत्य तेभ्यः पित्रादिभ्यः प्रत्येकं प्रदद्याद् इत्य् अर्थः । [४६५]

अपराह्णे समभ्यर्च्येत्य् अत्र संदेहः । किं द्विधा विभक्तस्याह्ण उत्तरो भागो ऽपराह्णः किं वा पञ्चधा विभक्तस्य चतुर्थो भागो ऽपराह्णः । तत्र केचिद् आहुः- पञ्चधा विभक्तस्य चतुर्थो भागो ऽपराह्ण इति । तथा हि श्रुतिः- “आदित्यो वै सर्व ऋतवः स यदैवोदेत्य् अथ वसन्तो यदा संगवो ऽथ ग्रीष्मो यदा मधंदिने ऽथ वर्षा यदापराह्णो ऽथ शरद् यदास्तमेत्य् अथ हेमन्तः” इति । स्मृतिर् अपि, यद् आह व्यासः ।
मुहूर्तत्रितयं प्रातस् तावान् एव संगवः ।
मध्याह्नस् त्रिमुहूर्तः स्याद् अपराह्णस् तु तादृशः ॥
सायाह्नस् त्रिमुहूर्तो ऽथ सर्वकर्मबहिष्कृतः ॥ इति ।

अतश् च श्रौतादिप्रयोगात् पञ्चधा विभक्तस्याह्नश् चतुर्थ एव भागो ऽपराह्णशब्दवाच्य इति । तद् अन्ये नानुमन्यन्ते । ते हि मन्यन्ते — नैवास्मात् प्रयोगाद् वाच्यनियमः शक्यो ऽवधारयितुम् । भवति हि श्रुताव् एवाह्नो भागान्तरे ऽप्य् अपराह्णशब्दप्रयोगः । यथा- “पूर्वाह्णो वै देवानां मध्याह्नो मनुष्याणाम् अप्राह्णः पितॄणाम्” इति । अत्र खलु त्रेधाविभक्तस्याह्नस् तृतीयो भागो ऽपराह्णशब्दवाच्यः प्रयुज्यते । तथा “तस्मात् सुपूर्वाह्ण एव पूर्वयोपसदा प्रचरितव्यं स्वपराह्णे परया” इत्यादौ दिनस्यान्तिमे मुहूर्ते द्वेधा विभक्तस्याह्नो द्वितीये भागे ऽप्य् अस्ति प्रयोगः । यद् आह मनुः ।

यथा चैवापरः पक्षः पूर्वपक्षाद् विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्णाद् अपराह्णो विशिष्यते ॥ इति ।

ततः पञ्चधाविभक्तस्याह्नश् चतुर्थ एव भागे ऽपराह्णशब्दप्रयोगः इत्य् असिद्धम् । तदसिद्धौ च न स एवापराह्णपदवाच्यः । यदि हि तथा स्यात् तदा पङ्कजशब्दवत् कुशलप्रवीणादिशब्दवद् वा योगरूढत्वादिकल्पनयापराह्णे समभ्यर्च्येत्यादिवाक्ये मध्याह्नसायाह्नयोर् मधगतो ऽह्नो भाग एव वाक्यार्थान्वयी स्यात् । न त्व् एतद् अस्ति । तस्माद् अह्नो ऽपरो भाग इत्य् अनया व्युत्पत्त्या यौगिक एवायं शब्दः । अत एव कुतपकालव्यापिन्याम् अमावास्यायाम् अमावास्याश्राद्धं कार्यम् आह जाबालिः ।

भूतविद्धा त्व् अमावास्या प्रतिपन्मिश्रिता च या ।
**तयोस् तु पितृकृत्ये ऽपि ग्राह्याः कुतपकालिकी ॥ इति ॥ [४६६]
अनेन च पार्वणं श्राद्धं कुतपे कार्यं विधीयते । अन्यथा कुतपव्यापिन्या ग्रहणविधिर् अदृष्टार्थः स्यात् । तस्माद् अपराह्णे विहितं श्राद्धं कुतपे कार्यम् इति विधिः कुतपस्यापराह्णान्तर्भावं गमयति । भवति च कुतपस्य द्वितीयम् अर्धम् अपराह्णमध्यवर्ति । अह्नो हि पञ्चदशमुहूर्तरूपस्याष्टमो मुहूर्तः कुतपस् तेन तस्य भवति द्वितीयम् अर्धम् अपराह्णः । यदि च सायाह्नात् प्राक्तनं मुहूर्तत्रयम् एवापराह्णः स्यात् तदा ग्राह्या कुतपकालिकीति विधिना कुतपो नित्यवद् विहितम् अपराह्णं बाधित्वा विधेयः । स चाबाधे सत्य् अन्याय्यः । अत एव कुतप्विधानान् नाह्णस् तृतीये भागे ऽस्यापराह्णशब्दस्य वृत्तिर् अवसीयते । यद् उक्तं गौतमेन,
प्रारभ्य कुतपे श्राद्धं कुर्याद् आरौहिणाद् बुधः ।
विधिज्ञो विधिम् आस्थाय रौहिणं न तु लङ्घयेत् ॥

इति, तद् अपि कुतपमात्रव्यापिकुह्वादिश्राद्धविषयम् । न पुनः सकलमध्याह्नव्यापिश्राद्ध-तिथाव् एकोद्दिष्टविषयम् । तथाहि सति रौहिणानतिक्रमविधेर् अदृष्टं मूलं कल्प्यं स्यात् । न तु विष्यान्तरे । तथा हि अपराह्णान्तर्गतरौहिणांशारब्धे श्रद्धे श्राद्धाङ्गभूततिथिक्षये ऽपि प्रारब्धकर्मसमाप्तिर् अनन्तरम् एव तिथ्यन्तरे ऽपि विधिनाक्षिप्यते समाप्यते च । कुतपोत्तरार्धारब्धं रौहिणे श्राद्धं विना पुरुषापराधाद् इति दृष्टमूलैव रौहिणानतिक्रमस्मृतिः । तस्माद् उक्त एव विषयो ऽस्य वाक्यस्य युक्तः । यत् तु व्यासादिभिर् मध्यंदिनात् परतो मुहूर्तत्रये ऽपराह्णशब्दः प्रयुज्यते । तत् तस्य भागस्य शब्दान्तरेण व्यपदेष्टुम् अशक्यत्वात् । न पुनस् तस्यैवापराह्णपदव्यपदेश्यत्वात् । दर्शितो हि तस्य सायाह्ने मध्यंदिनोत्तरार्थे च प्रयोगः । ननु च द्वितीयम् अहरर्धम् अपराह्णस् तथापि यद् अपराह्णे विहितं तदह्नः पञ्चधा विभक्तस्य चतुर्थ एव भागे कार्यम् । यद् आह पराशरः ।

यद् यद् एतेषु विहितं तत् तत् कुर्याद् विचक्षणः ।

अस्यार्थः — यद् यत् कर्म स्नानदानश्राद्धादिकं पूर्वाह्णादिकालेषु विहितं तद् एतेषु प्रातरादिषु मुहूर्तत्रयपरिमितेष्व् अह्नः पञ्चसु भागेषु कार्यम् इति । तन् न, न ह्य् अनेन वाक्येनापराह्णविहितं श्राद्धम् अह्नः पञ्चधा विभक्तस्य चतुर्थ एव भागे कार्यम् इति नियम्यते । किं तु पिण्डान्वाहार्यकं श्राद्धं मध्यंदिनाद् उत्तरत्र मुहूर्तत्रये कार्यम् इत्य् औचित्यप्राप्तम् अनूद्यते । तद् धि पितृयज्ञं कृत्वा कार्यं पितृयज्ञं तु निर्वर्त्येत्य् अत्रोक्तम् । यत एव नेदं नियमकम् अत एव दर्शश्राद्धप्रकरणे मत्स्यपुराणम् ।

[४६७] ऊर्ध्वं मुहूर्तात् कुतपाद् यन् मुहूर्तचतुष्टयम् ।

मुहूर्तपञ्चकं वापि स्वधावाचनम् इष्यते ॥ इति ।

एतच् च पराशरवाक्यस्यानियामकत्व एव युज्यते । नियामक्त्वे तु पुनः कुतपसंज्ञकाद् अष्टमान् मुहूर्ताद् उत्तरो रौहिणसंज्ञको मुहूर्तः श्राद्धाङ्गत्वेन न शक्यते विधातुम् । दशमादय एव हि त्रयो मुहूर्ताः पराशरेण नियम्येरन् न तु नवमः । एवं तस्य नियामकत्वे मुहूर्तपञ्चकं वेति त्रयोदशस्य मुहूर्तस्य सायाह्नान्तः पातिनो ऽङ्गत्वविधिर् अनुपपन्नः । अस्य च चतुर्थप्रहरान्तःपाताच् छ्राद्धाङ्गत्वं प्रतिषिध्यते । तथा च वायुपुराणम् ।

चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते नरः ।
आसुरं तद् भवेच् छ्राद्धं दाता च नरकं व्रजेत् ॥

अत एव विहितप्रतिषिद्धत्वान् मुहूर्तपञ्चकं वेति विकल्प उक्तः । व्यवस्थितश् चायम् । यदा प्राक् चतुर्थात् प्रहराद् अमावस्यादिश्राद्धाङ्गतिथिः समग्रश्राद्धप्रयोगसंपादनसमर्था भवति चेत् प्रतिषेधः । नो चेद् विधिः । पराशरवाल्क्यस्यानियमत्वम् एव स्फुटी करोति व्याघ्रपात् ।

विधिज्ञः श्रद्धयोपेतः सम्यक् पात्रप्रयोजकः ।
रात्रेर् अन्यत्र कुर्वाणः श्रेयः प्राप्नोत्य् अनुत्तमम् ॥ इति ।

यत एव द्वितीयम् अह्नो ऽर्धम् अपराह्णो ऽत एव बह्वृचब्राह्मणे श्रूयते- “उद्धाराहवनीयम् इत्य् अपराह्ण आह” इति । अत एव च आश्वलायनीयसूत्रम्- “उत्सर्गे ऽपराह्णे गार्हपत्यं प्रज्वाल्य” इत्यादि । सायंकालविहितस्याग्निहोत्रस्याङ्गम् उद्धरणं सायम् एव कार्यम् “तत्कालश् चैव तद्गुणः” इति वचनात् । तेन सायाह्न एवायम् अपराह्णशब्दः । तस्मात् सिद्धं द्वेधा विभक्तस्याह्नो द्वितीयो भागो ऽपराह्ण इति । तत्रामावस्याया अन्यत्र श्राद्धकरणे प्रथम एवापराह्णभाग् एतत् कार्यम्, विलम्बे हेत्वभावात् । अमावास्यायां तु पिण्डान्वाहार्यकपितृयज्ञानुरोधेन यत्रापराह्णभागे ऽमावास्यायुक्ते संपद्यते तत्र कार्यम् । सांवत्सरादिकं तु श्राद्धतिथियुक्ते ऽपराह्णभागे यत्र कुत्रचित् कर्यम् । सा चेत् सायाह्नमात्रव्यापिनी स्यात् तदा सायाह्न एव व्याघ्रपाद्वचनबलेन श्राद्धं कार्यं न पुनर् उदयव्यापिन्याम् अपराह्णपर्यन्तायाम् । तथा च स्मृत्यन्तरम् ।

[४६८] दर्शं च पौर्णमासं च पितुः सांवत्सरं दिनम् ।

पूर्वविद्धम् अकुर्वाणो नरकं प्रतिपद्यते ॥ इति ।

श्राद्धादावस्तगामिनीति च पितुर् इति च प्रदर्शनार्थम् । यत् तु ग्राह्या कुतपकालिकीति वचनम्, तद् अनग्नेर् अमावास्याश्राद्धं प्रति कालविशेषविधायकं न पुनः श्राद्धान्तरं प्रतीति मन्तव्यम् । श्राद्धविशेषे ऽपराह्णात् कालान्तरम् आह शातातपः ।

आमश्राद्धं तु पूर्वाह्ण एकोद्दिष्टं तु मध्यतः ।
पार्वणं चापराह्णे तु प्रातर् वृद्धिनिमित्तकम् ॥ इति ।

अत्र द्विजानाम् आमश्राद्धं पाकासामर्थ्ये निमित्ते विधीयमानत्वाद् अनित्यम् । शूद्रस्य निमित्तानपेक्षं तद् भवतीति नित्यम् । तत्र नोभयविधे तस्मिन् पूर्वाह्णविधिर् अयं नित्यानित्यसंयोगविरोधात् । तत्र द्विजानाम् आमश्राद्धविधय उदाह्रियन्ते । तत्र संवर्तः ।

पाकाभावे ऽधिकारः स्याद् द्विजातीनाम् उदाहृतः ।
अपत्नीनां महाबाहो विदेशगमनादिभिः ॥
सदा चैव तु शूद्राणाम् आमश्राद्धं विदुर् बुधाः ॥

उशना ।

आत्मनो देशकालानां विप्लवे समुपस्थिते ।
आमश्राद्धं द्विजैः कार्यं शूद्रेण तु सदैव हि ॥

प्रचेताः ।

आपद्य् अनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा ।
आमश्राद्धं द्विजैः कार्यं शूद्रैः कार्यं सदैव हि ॥

तीर्थे पाकासामर्थ्ये सति । चन्द्रसूर्यग्रहे भोक्तुर् अभावे ।

स्त्री शूद्रः स्वपचश् चैव जातकर्मणि वाप्य् अथ ।
आमश्राद्धं तदा कुर्याद् विधिना पार्वणेन तु ॥

स्व्पचः स्वयंपचः । जमदग्निः ।

यावत् स्यान् नाग्निसंयुक्त उत्सन्नागिर् अथापि वा ।
आमश्राद्धं सदा कुर्याद् धस्ते ऽग्नौकरणं भवेत् ॥

हारीतः ।

श्राद्धविघ्ने द्विजातीनाम् आमश्राद्धं प्रकीर्तितम् ।
अमावास्यादि नियतं माससंवत्सराद् ऋते ॥ इति ।

मासिकं सांवत्सरिकं च श्राद्धं वर्जयित्वा स विधिर् इत्य् अर्थः । अयं मासिकसांवत्सरिकामश्राद्धनिषेधो ग्रहणव्यतिरिक्तविषयः । चन्द्रसूर्यग्रहे सति मासिकसांवत्सरिकश्राद्धम् आमान्नेनैव कार्यम् इति भावः । एवमादिभिर् वचनैः [४६९] पाकासामर्थ्यनिमित्ते ऽधिकारभङ्गे सत्य् आमेन द्रव्येण श्राद्धस्य प्रयोगविशेषो ऽधिकारोज्जीवनाय विधीयमानो नैमित्तिको भवति । ननु “शूद्रः कुर्यात् सदैव हि” इति वचनाच् छूद्रत्वेन निमित्तेन पूर्ववद् एव प्रयोगविशेषो नैमित्तिकः कस्मान् न विधीयते । उच्यते — प्राप्तं खलु शूद्रं सत्याम् अश्राद्धम् इति विधेयम् । किं त्व् अनुवाद्यम् । तथा हि प्रतिषिद्धं ब्राह्मणभोजनं शूद्रस्य । यद् आह सुमन्तुः ।

न पक्वः भोजयेद् विप्रान् सच्छूद्रो ऽपि कदाचन ।
भोजयन् प्रत्यवायी स्यान् न च तस्य फलं भवेत् ॥
भोजनेन हि विप्रस्य यत् पापं स्याद् दुरात्मनः ।
ततो ऽसौ लिप्यते मूढो यः शूद्रो भोजयेद् द्विजान् ॥ इति ।

न चात्र संप्रीत्यादिप्रयोजनम् एव ब्राह्मणभोजनं निषिध्यते न तु वैधम् इति वाच्यम् । यतः “न चाप्नोति फलं तस्य” इत् वाक्यशेषो वैधविप्रभोजन एव युज्यते । नैवायं निषेधः श्राद्धोपाधिभूतविप्रभोजनविषयो न भवतीति शक्यते वक्तुं कारणाभावात् । ब्राह्मणभोजनप्रतिषेधे च श्राद्धाधिकार एव शक्यते । तथा हि श्राद्धकल्पे ब्राह्मणनिमन्त्रणादिविधिदर्शनात् । तथा हविः पचेत्, श्राद्धदेशं प्रत्याहरेत्, परिवेषयेत्, विप्रान् भोजयेद् इत्यादिविधिदर्शनाच् छ्राद्धयज्ञस्य ब्राह्मणभोजनरूपोपाधिपर्यन्ततावसीयते । न चोपाधिसंपादनसामर्थ्यप्रतिबन्ध उपहिते भवेति सामर्थ्याप्रतिबन्धः । यत् त्व् अभ्युदिते ऽष्टाव् उपांशुयाजस्य देवतोद्देशरहितस्यापि प्रयोज्यत्वं न्यायविद्भिर् उच्यते, तद् युक्तम् एव । न खल्व् अभ्युदितेष्टेर् अधिकारबुद्धिर् अनुष्ठापिका । किं त्व् अधिकारभ्रमः । विहितकालभ्रान्त्या हि तत्र कालान्तरविषयाधिकारभ्रमो जन्यते । अत उपाधिभूतदेवतोद्देशसामर्थ्यविरहे ऽप्य् उपांशुयाजानुष्ठानं नायुक्तम् । तत्र ह्य् अधिकारभ्रान्तिप्रवर्तितः प्रयोग एव तस्य विकृतस्य समाप्तिनिमित्तम् । तेन नैमित्तिकनिमित्तप्रक्रान्तस्योपांशुयाजप्रयोगस्य देवतोद्देशरहितस्यापि समाप्तिर् वचनसामर्थ्यात् तत्र युज्यते । श्राद्धे तु नाधिकारभ्रमो ऽनुष्ठानहेतुः किं तु तद्भङ्गः । अतो विप्रभोजनोपहितस्य श्राद्धात्मकप्रधानस्यानुष्ठानसामर्थ्यप्रतिबन्धे भवति शूद्रस्याधिकारभङ्गः । न च वाच्यम्, अनधिकृत एव श्राद्धे शूद्र इति । यतो,

**भार्यारतिः शुचिर् भृत्यभर्ता श्राद्धक्रियापरः । [४७०]

इत्यादिवचनैः शृङ्गग्राहितया शूद्रं प्रति श्राद्धं विहितम् । ततश् च शूद्रस्य सकलोपाधिसहितं श्राद्धम् अस्तीति तत्संनिहितम् एव विधिः श्राद्धं प्रत्य् अपि प्रवर्तमानः प्रयुङ्क्ते । तत्र ब्राह्मणभोजननिषेधानुग्रहार्थं द्विजातिकर्तृकश्राद्धः (?) श्राद्ध इति साक्षाद् ब्राह्मणभोजनं न प्रयुङ्क्ते प्रणाड्या तु रयुङ्क्त एव । न खल्व् अपरथा शूद्रं प्रति प्रवर्तमानयोर् विप्रभोजनविषयोर् विधिनिषेधयोर् अविरोधः शक्यः संपादयितुम् । शक्यते च पितॄन् उद्दिश्य परित्यक्तम् आमम् अन्नं शूद्रेणापि विप्रान् प्रत्य् एतत् त्यक्त्वा युष्माभिर् भोज्यम् इति प्रार्थना विप्रभोजनं प्रणाड्या कर्तुम् । एवं च सति शूद्रस्य निमित्तानपेक्षया प्राप्तम् आमश्राद्धं “शूद्रः कुर्यात् सदैव हि” इत्यादिभिर् अनूद्यते । ननु च द्विजानाम् अपि हविष्पाकब्राह्मणभोजनासामर्थ्ये शूद्रवद् आमेन श्राद्धप्रयोगो निमित्तानपेक्षः पाकाभावे ऽधिकारः स्याद् इत्यादिभिर् अनूद्यते । सत्यम् । यदि द्विजातीनां यथाश्रुतपाकाद्यङ्गानुष्ठाने विध्यौचित्यप्राप्तसाक्षाद्ब्राह्मणभोजनविषयसामर्थं न स्यात् । तदसामर्थ्ये च श्राद्धात्मनि प्रधाने ऽप्य् असामर्थयम् । तच् चाधिकारस्य भङ्गे प्राप्ते तद्वज् जीवनायामद्रव्यसाध्यः श्राद्धप्रयोगविशेषो नैमित्तिको विधीयते । तथा च सति नित्यं शूद्रकर्तृकम् आमश्राद्धम् अनित्यं च दिव्जकर्तृकं प्रति पूर्वाह्णो न शक्यो ऽभिधातुं नित्यानित्यसंयोगविरोधात् । तत्र न तावन् नित्ये स शक्तो विधातुम् । औपदेशिकेनापराह्णेन सह विकल्पप्रसङ्गात् । द्विजकर्तृकं त्व् आमश्राद्धं नैमित्तिकत्वाद् विकृतिर् इति । तत्रापराह्ण आतिदेशिक औपदेशिकः पूर्वाह्णः । न चौपदेशिकातिदेशिकयोर् विकल्पस् तस्मात् तत्रैव पूर्वाह्णविधिर् न शूद्र्कर्तृके ऽप्य् आमश्राद्धे । किं तु तत्रापराह्णविधिर् एव । अत एव च यत् शातापपीयम् एव वाक्यम्,

मध्याह्नात् परतो यस् तु कुतपः समुदाहृतः ।
आममात्रेण तत्रैव पितॄणां दत्तम् अक्षयम् ॥

इति, तच् छूद्रविषयम् । अनुवादकं चैतत् । साधारणापराह्णोपदेशाद् एवापराह्णस्य शूद्रामश्राद्धे ऽपि प्राप्तत्वात् । तस्मात् सिद्धं शूद्रकर्तृकम् आमश्राद्धम् अपराह्ण एव कार्यम् ।

प्रसङ्गाद् आमश्राद्धविधयः केचिल् लिख्यन्ते । यत्र व्यासः ।
आमं ददद् धि कौन्तेय दद्याद् अन्नं चतुर्गुणम् ।
सिद्धान्नेन विधिर् यः स्याद् आमश्राद्धे ऽप्य् असौ विधिः ॥
आवाहनादि सर्वं स्यात् पिण्डदानं च भारत ।
दद्याद् यश् च द्विजातिभ्यः शृतं वा यदि वाशृतम् ॥

[४७१] तेनाग्नौकरणं कुर्यात् पिण्डांस् तेनैव निर्वपेत् ।

अत्र पुरुषाहारापेक्षं चातुर्गुण्यम्, सिद्धान्नेनेत्यादिर् अतिदेशो द्विजामश्राद्धविषयः । षट्त्रिषन्मतात् ।

आमश्राद्धं यदा कुर्यात् पिण्डदानं कथं भवेत् ।
गृहपाकात् समुद्धृत्य सक्तुभिः पायसेन वा ॥

पिण्डदानं भवेद् इति शेषः । तथा ।

आमश्राद्धं यदा कुर्याद् विधिज्ञः श्राद्धदस् तथा ।
हस्ते ऽग्नौकरणं कुर्याद् ब्राह्मणस्य विधानतः ॥

आमश्राद्धे च भोजनप्रयुक्तानां तृप्तिप्रश्नादीनां निवृत्तिः ।

एवं कार्यं सदा श्राद्धं शूद्रेणाप्य् आमम् एव च ।
मन्त्रवर्जं तु शूद्रस्य सर्वम् एतद् विधीयते ॥

भविष्यत्पुराणम् ।

धर्मेप्सवश् च धर्मज्ञा यदि शूद्राः प्रकुर्वते ।
अग्नौकरणमन्त्रश् च नमस्कारो विधीयते ॥

आमश्राद्धासमर्थं प्रति हेमश्राद्धम् आह व्यासः ।

द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।
हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ॥

द्रव्यम् अत्र भोज्यं विवक्षितं द्विजश् च भोक्ता । मनुः ।

शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ।
दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥

विविक्तो विजनः । शुचेर् अपि देशस्य गोमयोपलेपनं वचनात् संस्कारातिशयाय कार्यम् । तथा ।

अवकाशेषु चोक्षेषु जलतीरेषु चैव हि ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥

चोक्षाः स्वभावशुचयः । यमः ।

परकीयप्रदेशेषु पितॄणां निर्वपेत् तु यः ।
तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ॥
अटव्यः पर्वताः पुण्या नदीतीराणि यानि च ।
सर्वाण्य् अस्वामिकान्य् आहुर् न हि तेषु परिग्रहः ॥
तस्माच् छ्राद्धानि देयानि पुण्येष्व् आयतनेषु च ।
नदीतीरेषु तीर्थेषु सव्भूमौ च प्रयत्नतः ॥
**उपह्वरनिकुञ्जेषु तथा पर्वतसानुषु । [४७२ ]

उपहव्रं पर्वतनिकटः । निकुञ्जओ गुहा ।

रूक्षं क्रिमिहतं क्लिन्नं संकीर्णानिष्टगन्धिकम् ।
देशं त्व अनिष्टशब्दं च वर्जयेच् छ्राद्धकर्मणि ॥

रूक्षम् अस्निग्धम् । क्लिन्नं सकर्दमम् । अनिष्टशब्दं दुःखकरशब्दम् । शङ्खः ।

म्लेच्छदेशे तथा रात्रौ संध्यायां च विशेषतः ।
न श्राद्धम् आचरेत् प्राज्ञो म्लेच्छदेशं न च व्रजेत् ॥

ब्रह्माण्डपुराणम् ।

उत्तरेण मनानद्या दक्षिणेन च कीकटम् ।
एष त्रैशङ्कवो नाम वर्जितः श्राद्धकर्मणि ॥
पारस्कराः कलिङ्गाश् च सिन्धोर् उत्तरम् एव च ।
प्रनष्टश्राद्धकर्माणो वर्ज्या देशाः प्रयत्नतः ॥
गोगजाश्वादिपृष्ठेषु कृत्रिमायां तथा भुवि ।
आपत्स्व् अपि च कष्टासु न कुर्यात् पितृतर्पणम् ॥

अथापासनीयानि । तत्र यमः ।

कुक्कुटो विड्वराहश् च काकः श्वाथ बिडालकः ।
वृषलीपतिश् च वृषलः षण्ढो नारी रजस्वला ॥
एते तु श्राद्धकाले वै वर्जनीयाः प्रयत्नतः ।

मनुः ।

चण्डालश् च वराहश् च कुक्कुटः श्वा तथैव च ।
रजस्वला च षण्ढश् च नेक्षेरन्न् अश्नतो द्विजान् ॥
होमे प्रदाने भोज्ये च यद् एभिर् अभिवीक्षितम् ।
दैवे कर्मणि पित्र्ये वा यद् एभिर् अभिवीक्षितम् ॥
दैवे कर्मणि पित्र्ये वा तद् गच्छत्य् अयथातथम् ॥
घ्राणेन सूकरो हन्ति पक्षपातेन कुक्कुटः ।
श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्णजः ॥

अवरवर्णजः शूद्रः

खञ्जो वा यदि वा काणो दातुः प्रेष्यो ऽपि वा भवेत् ।
हीनातिरिक्तगात्रो वा तम् अप्य् अपनयेत् ततः ॥

खञ्जः कुण्ठः । देवलः ।

बीभत्सम् अशुचिं नग्नं मत्तं धूर्तं रजस्वलाम् ।
नीलकाषायवसनं छिन्नकर्णं च वर्जयेत् ॥
शस्त्रं कालायसं सीसं मलिनाम्बरवाससम् ।
अन्नं पर्युषितं चापि श्राद्धेषु परिवर्जयेत् ॥

[४७३] दैवे वा यदि वा पित्र्ये सुराप्य् आयतनं स्पृशेत् ।

रजस्वला पुंश्चली वा रक्षः संगच्छते हि तत् ॥

व्यासः ।

चण्डालश्वपचौ वर्ज्यौ निर्वापे समुपस्थिते ।
काषायवासाः कुष्ठी वा पतितो भ्रूणहापि वा ॥
संकीर्णयोनिर् विप्रश् च संबन्धी पतितस्य यः ।
वर्जनीया बुधैर् एते निर्वापि समुपस्थिते ॥

निर्वापः श्राद्धम् । संकीर्णयोनिः क्षेत्रजादिः । उपस्थितशब्दाद् उपक्रमप्रभृत्य् एते वर्जनीयाः ।

मद्यपः स्वैरिणी या च परपूर्वापतिस् तथा ।
नैव श्राद्धे ऽभिवीक्षेरन्न् आवापात् प्रभृति क्वचित् ॥

आवापः श्राद्धोपक्रमः । ब्रह्माण्डपुराणे ।

नग्नादयो न पश्येयुः श्राद्धम् एतत् कदाचन ।
गच्छन्त्य् एतैस् तु दृष्टेन पितरो ऽथ पितामहाः ॥
सर्वेषाम् एव भूतानां त्रयी संवरणं यतः ।
ये वै त्यजन्ति तां मूढास् ते वै नग्नादयः स्मृताः ॥
दस्युः चैव नृशंसं च दर्शने परिवर्जयेत् ।
ये चान्ये पापकर्माणः सर्वास् तान् परिवर्जयेत् ॥

दस्युश् चौरः । नृशंसो निष्ठुरः । वायुप्राणे ।

वृथा जटी वृथा मुण्डी वृथा नग्नश् च यो नरः ।
महापातकिनो ये च ते वै नग्नादयो नराः ॥
अन्नं पचेयुर् एते तु यदि वै हव्यकव्ययोः ।
उत्स्रष्टव्यं प्रधानार्थं संस्कारो वा यदि स्मृतः ॥

उत्स्रष्टव्यं त्याज्यम् । आपदि तु श्राद्धात्मकप्रधानार्थं संस्कार्यम् । संस्कारश् च ब्रह्मपुऋआण उक्तः ।

हविषां संस्कृतानां तु पूर्वम् एवापवर्जनम् ।
मृत्संपृक्ताभिर् अद्भिश् च प्रोक्षणं तु विधीयते ॥
सिद्धार्थकैः कृष्णतिलैः कार्यं चाप्य् अवकीरणम् ।
गुरुसूर्याग्निवस्तूनां दर्शनं च प्रयत्नतः ॥

श्वाद्यभिवीक्षितानां पक्वानां हविषाम् अवपर्जनं त्यागः । पूर्वः प्रथमः । [४७८] आपदि तु मृत्संपृक्ताभिर् अद्भिर् इत्यादिकं संस्कारं कृत्वा हवींश्य् उपयोज्यानि ।

अथोपादेयानि । तत्र ब्रह्मपुराणम् ।
यतिस् त्रिदण्डः करुणा राजतं पात्रम् एव च ।
दौहित्रः कुतपः कालश् छागः कृष्णाजिनं तथा ॥

दिनस्याष्टमो मुहूर्तः कुतपः कलः ।

गौराः कृष्णास् तथारण्यास् तथैव त्रिविधास् तिलाः ।
पितॄणां तृप्तये सृष्टा दशैते ब्रह्मणा स्वयम् ॥
दर्भैर् मन्त्रैस् तिलैर् हेम्ना राजतेन विना जलम् ।
दत्तं हन्ति रक्षांसि तस्माद् दद्यान् न केवलम् ॥

दर्भादिभिर् जलेन च विना यद् दत्तं तद् रक्षांसि हरन्तीत्य् अर्थः । दर्भमन्त्रादिरहितम् उदकम् एव वा दत्तं हरन्तीर्य् अर्थः । मनुः ।

अपराह्णस् तथा दर्भा वास्तुसंपादनं तिलाः ।
सृष्टिर् मृष्टिर् द्विजाश् चाग्र्याः श्राद्धकर्मसु संपदः ॥

सृष्टिः प्रभूतता । मृष्टिः स्वादुता ।

त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस् तिलाः ।
त्रीणि चात्र प्रशंसन्ति शौचम् अक्रोधम् अत्वराम् ॥

देवलः ।

दर्भास् तिला गजच्छाया दौहित्रं मधुसर्पिषी ।
कुतपो नीलमण्डश् च पवित्राणीह पैतृके ॥

नीलमण्डो नीलवृषः । स्मृत्यन्तरम् ।

अपत्यं दुहितुश् चैव खडगपात्रं तथैव च ।
घृतं च कपिलाया गौर् दौहित्रम् इति कीर्तितम् ॥

[दुहितृपुत्रः श्राद्धे दक्षिणादाव् एव पूज्यो न तु श्राद्धकर्तृतायाम् । अत्र निर्णयो मनुस्मृतौ ग्राह्यः । ] वृद्धशातातपः ।

दौहित्रं खड्गशृङ्गं तु ललाटं यत् तद् उच्यते ।
तस्य शृङ्गस्य यत् पात्रं दौहित्रम् इति कीर्तितम् ॥

स्मृत्यन्तअम् ।

ब्राह्मणः कम्बलो गावः सूर्यो ऽग्निस् तिथिर् एव च ।
**तिला दर्भाश् च कालश् च नवैते कुतपाः स्मृताः ॥ [४७५]

मात्स्याच् च ।

प्राचीनावीतम् उदकं तिलाः सव्याङ्गम् एव च ।
यवनीवारमुद्गाश् च शुक्लपुष्पघृतानि च ॥
वल्लभानि प्रशस्तान् पितॄणाम् इह सर्वदा ॥

आपस्तम्बः ।

अटव्यां ये समुत्पन्ना अकृष्टाः फलितास् तथा ।
ते वै श्राद्धे पवित्रास् तु तिलास् ते न तिलास् तिलाः ॥

ग्राम्याश् तिला न तिलकार्यकरा भवन्तीत्य् अर्थः । पुराणात् ।

स्थूलोदुम्बरवस्त्राणि रजतं खड्गम् एव च ।
श्राद्धे महापवित्राणि फलानि समिधस् तथा ॥

वायुपुराणे ।

कृष्णाजिनस्य संनिध्यं दर्शनं दानम् एव च ।
रक्षोघ्नं ब्रह्मवर्चस्यं पशून् पुत्रांश् च दापयेत् ॥

मनुः ।

व्रतस्थम् अपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।
कुतपं चासनं दद्यात् तिलैश् चावकिरेन् महीम् ॥

कुतपो ऽत्र कम्बलः । मत्स्यपुराणम् ।

उदपात्रं च कांस्यं च मेक्षणं च समित् कुशान् ।
आहरेद् अपसव्येन सर्वं दक्षिणतः शनैः ॥
एवम् आसाद्य तत् सर्वं भवनस्याग्रतो भुवि ।
गोमयेनोपलिप्तायां गोमूत्रेण तु मण्डलम् ॥
अक्षताभिः सपुष्पाभिस् तद् अभ्यर्च्यापस्व्यवत् ।
विप्राणां क्षालयेत् पादान् अभिनन्द्य पुनः पुनः ॥

स्मृत्यन्तरम् ।

दक्षिणाप्रवणं कार्यं मण्दलद्वयम् एव च ।
उत्तरे ऽक्षतसंयुक्तान् पूर्वाग्रान् विन्यसेत् कुशान् ॥
दक्षिणे दक्षिणाग्रांश् च सतिलान् विन्यसेद् द्विजः ॥

शंभुः ।

संमार्जितोपलिप्ते तु द्वारि कुर्वीत मण्डले ।
उदक्प्लवम् उदीच्यं स्याद् दक्षिणं दक्षिनाप्लवम् ॥

ब्रह्मनिरुक्ते ।

पाद्यं चैव तथैवार्घ्यं दैवं आदौ प्रदापयेत् ।
शं नो द्वीति मन्त्रेण पाद्यं चैव प्रदापयेत् ॥

आम्बरीषः सिन्धुद्विप ऋषिः । आपो देवता । गायत्री छन्दः । [४७६] यमः ।

पादप्रक्षालणम् कुर्यात् स्वयम् एव विनीतवत् ।
ततः सिद्धिम् इति प्रोच्य कल्पितेष्व् आसनेषु च ॥
समाध्वम् इति तान् ब्रूयाद् आसनं संस्पृशन्न् अपि ।
ब्रह्मोद्याश् च कथाः कुर्वन् पितॄणाम् एतद् ईप्सितम् ॥

पादप्रक्षालनानन्तरं श्राद्धस्य् कर्मणः सिद्धिं भवन्तो ब्रुवन्त्व् इति ब्राह्मणान् प्रति प्रोच्य समाध्वम् इत्य् अनेनासनं स्पृशन्न् उपवेशेयेद् इत्य् अर्थः । धर्मः ।

अन्वारभ्य ततो देवान् उपवेश्य ततः पितॄन् ।
समस्ताभिर् व्याहृतिभिर् आसनेषूपवेशयेत् ॥

पितृब्राह्मणोपवेशन एव व्याहृतयः । मनुः ।

तेषाम् आरक्षभूतं तु पूर्वं दैवं निवेदयेत् ।
रक्षांसि विप्रलुम्पन्ति श्राद्धम् आरक्षवर्जितम् ॥

आरक्षणम् आरक्षा(क्षाः) । स्मृत्यन्तरम् ।

आस्यताम् इति तान् ब्रूयाद् आसनं संस्पृशन्न् अपि ।
उपस्तीर्णेषु चासीरन् न स्पृशेयुः परस्परम् ॥

आस्यताम् इत्य् अनेन स्वध्वम् इत्य् अस्य विकल्पः । विष्णुः ।

यथाभूयोवयःक्रमेण कुशोत्तरेष्व् आसनेषूपवेशयेत् ।
विद्यातपोऽधिकानां वै प्रथमासनम् इष्यते ॥
प्राङ्क्त्यानां तु विशिष्टानां समं गन्धादिभोजनम् ॥

हारीतः ।

संतिष्ठमानेष्व् अर्हत्सु यो ऽनर्हो ऽग्रासनं श्रयेत् ।
गृह्णाति स मलं पङ्क्तेर् आयुषा च वियुज्यते ॥
चतुर्णां दुष्कृतं हन्ति ब्राह्मणो विघ्नकारकः ।
अन्नस्यान्नपतेः पङ्क्तेस् तथा भोजनकाङ्क्षिणः ॥

हन्तिर् अत्र गत्यर्थः । तेषां निवार्यात्मनः स्वीकुरुत इति यावत् । गार्ग्यः ।

स्पर्शे स्पर्शे भवेत् पापम् एकपङ्क्तिनियोजने ।
हीनवृत्तादिपङ्क्तौ तु तस्माद् युक्तं विवेचनम् ॥

बृहस्पतिः ।

एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम् ।
भस्मना कृतमर्यादा न तेषां संकरो भवेत् ॥
अग्निना भस्मना वापि स्तम्भेनाप्य् उदकेन वा ।
**द्वारसंक्रमणेनापि पङ्क्तिभेदः प्रकीर्तितः ॥ [४७७]

प्रचेताः ।

उपमूलं सकृल्लूनान् कुशांस् तत्रोपसादयेत् ।
यवांस् तिलान् बृसीं कांस्यम् अपश् च स्वयम् आहृताः ॥
पार्णराजतताम्राणि पात्राणि स्युः समिन् मधु ।
पुष्पधूपसुगन्धाश् च क्षौमसूत्रं च भेक्षणम् ॥

विष्णुः- “कुतपः कृष्णाजिनं तिलाः सिद्धार्थका अक्षतानि च पवित्राणि रक्षोघ्नानि च” । अत एतान्य् आसेचयेद् इत्य् अर्थः ॥ १.२२६, २२७ ॥

मातामहश्राद्धं प्रत्य् अतिदेशं वैश्वदेवतत्रविकल्पं चाह

मातामहानाम् अप्य् एवं तन्त्रं वा वैश्वदेविकम् ॥ १.२२८ ॥

मातामहानाम् अपि श्राद्धम् एवं पितृश्राद्धवत् कार्यम् । तत्र वैश्वदेविकब्राह्मणबोजने प्रतिश्राद्धं भेदेन न्यायतः प्राप्तौ विकल्पार्थम् इदं वचनं “तन्त्रं वा वैश्वदेविकम्” इति । सामर्थ्याधीना चात्र व्यवस्था । अत एव वृद्धवसिष्ठः ।

श्राद्धद्वयं करिष्यंस् तु दशैव चतुरो ऽपि वा ।
त्रीन् वा निमन्त्रयेद् विप्रान् एकं वा ब्रह्मवादिनम् ॥

तत्र, “द्वौ दैवे पितृकृत्ये त्रीन्” इति पक्षं वैश्वदेविकभेदपक्षं चाश्रित्य दशेत्य् उक्तम् । एकैकम् एव चेति पक्षे चतुर इति । अत्रैव वैश्वदेवतन्त्रे त्रीन् इति । अत्यन्तापदि त्व् एकम् इत्य् उक्तम् । प्रेचेताः ।

अपसव्यं ततः कृत्वा जप्त्वा मन्त्रंतु वैष्णवम् ।
गायत्रीं प्रणवं चापि ततः श्राद्धम् उपक्रमेत् ॥
श्राद्धं करिष्य इत्य् एवं पृच्छेद् विप्रान् समाहितः ।
कुरुष्वेति स तैर् उक्तो दद्याद् दर्भासनान्य् अथ ॥

कात्यायनः ।

सर्वत्र प्रश्नेषु पङ्क्तिमूर्धन्यं पृच्छति सर्वान् वा ।

ब्रह्मपुराणम् ।

उपविश्य जपेद् धीमान् गायत्रीं तदनुज्ञया ।
पापापहं पावनीयम् अश्वमेधफलं तथा ॥
मन्त्रं पक्ष्याम्य् अहं तस्माद् अमृतं ब्रह्मनिर्मितम् ।
देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ॥
नमः स्वधायै स्वाहायै नित्यम् एव भवत्व् इह ।
आद्यावसाने श्राद्धस्य त्रिरावर्तं जपेत् सदा ॥

[४७८] पिण्डनिर्वपणे चापि जपेद् एतत् समाहितः ।

पठ्यमानम् इदं श्रुत्वा श्राद्धकाल उपस्थिते ॥
पितरः क्षिप्रम् आयान्ति राक्षसाः प्रद्रवन्ति च ॥

ब्रह्माण्डपुराणे ।

तत्र सिद्धार्थकान् भूमौ क्षिपेद् रक्षोपनुत्तये ।
दिक्षु सर्वासु च तिलान् मन्त्रेणानेन धर्मवित् ॥
ॐ निहन्मि सर्वं यद् अमेध्यवद् भवेद् धाताश् च सर्व ऽसुरदानवा मया ।
रक्षांसि यक्षाः सपिशाचगुह्यका हता मया यातुधानाश् च सर्वे ॥
एतेन मन्त्रेण सुसंयतात्मा तिलान् क्षिपेद् दिक्षु यथ विदिक्षु ॥

निगमः- “अपहता असुरा रक्षांसीति तिलान् विकिरेत्” । आसुरं यज्ञः (जुः) परमेष्ठिप्रजापतिदृष्टम् ॥ १.२२८ ॥

पाणिप्रक्षालनं दत्वा विष्टरार्थान् कुशान् अपि ।
आवाहयेद् अनुज्ञातो विश्वे देवास इत्य् ऋचा ॥ १.२२९ ॥

पाणिप्रक्षालनसाधनं हस्ते जलं दत्वा हस्ते विष्टरार्थांश् च कुशान् दत्वा वैश्वदेविकब्राह्मणैर् अनुज्ञातो “विश्वे देवास आगत” इत्य् गायत्र्या वैश्वदेव्या प्रजापतिदृष्टया विश्वान् देवान् आवाहयेत् । अनुज्ञात इत्य् वचनाद् विश्वान् देवान् आवाहयिष्य इत्य् अनुज्ञापनम् आवाहयेति चानुज्ञानम् अर्थसिद्धम् । अत्र च मन्त्रान्ते पुरूरवार्द्रवनामानो देवा आगच्छेति पारणे वाच्यम् । श्राद्धान्तरे तु नामान्तराणि । यथाह बृहस्पतिः ।

इष्टिश्राद्धे क्रतुर् दक्षः सत्यो नान्दीमुखे वसुः ।
नैमित्तिके कालकामौ काम्ये च धुनिरो(रिलो)चनौ ॥
पुरूरवार्दवश् चैव पावणे समुदाहृतौ ।
उत्पत्तिं नाम चैतेषां न विदुर् ये द्विजातयः ॥
अयम् उच्चारणीयस् तु श्लोकः श्रद्धासमन्वितैः ।
आगच्छन्तु महाभागा विश्वे देवा महाबलाः ॥
ये यत्र विहिताः श्राद्धे सावधाना भवन्तु ते ॥

प्रेचेताः ।

दर्भाश् चैवासने दद्यान् न तु पाणौ कदाचन ।
पितृदेवमनुष्याणां स्यात् तुष्टिः शाश्वती तथा ॥

[४७९] दैवे तु ऋजवो दर्भाः प्रदातव्याः पृथक् पृथक् ।

धर्मो ऽसीत्य् अथ मन्त्रेण गृह्णीयुस् ते च तान् कुशान् ॥

बृहस्पतिः ।

ऋजून् सव्येन कृत्वा वै दैवे दर्भान् प्रदक्षिणान् ।
द्विगुणान् अपसव्येन दद्यात् पित्र्ये ऽपसव्यवत् ॥

ततश् च दैवासनेषु यज्ञोपवीत्य् आसनस्य दक्षिणतो दर्भान् ददाति । इतरत्र तु प्राचीनावीती पश्चिमत इति सिद्धम् । बौधायनः ।

प्रदक्षिणं तु देवानां पितॄणाम् अप्रदक्षिणम् ।
देवानां सयवा दर्भाः पितॄणां द्विगुणास् तिलैः ॥

प्रदक्षिणम् उदक्संस्थम् अप्रदक्षिणं प्राक्संस्थम् । द्वैगुण्यं दर्भाणां भङ्गपर्यन्तं कार्यम् । यद् आह शौनकः- “अपः प्रदाय दर्भांश् च द्विगुणान् भुग्नान् आसने प्रदाय” । शातातपः ।

उदङ्मुखस् तु देवानां पितॄणां दक्षिणामुखः ।
प्रदद्यात् पार्वणे श्राद्धे दैवपूर्वं विधानतः ॥

बृहस्पतिः ।

आसने चार्घ्यदाने च पिण्डदाने ऽवनेजने ।
संबन्धगोत्रनामानि यथार्हम् अनुकीर्तयेत् ॥

कत्यायनः ।

दक्षिणं पातयेज् जानुं देवान् परिचरन् सदा ।
पातयेद् इतरं जानुं पितॄन् परिचरन् सदा ॥

तथासनेषु दर्भान् आस्तीर्य विश्वान् देवान् आवाहयिष्य इति पृच्छति । आवाहयेत्य् अनुज्ञातो विश्वे देवास आगतेत्य् आवाह्य विश्वे देवाः शृणुतेमम् इति जप्त्वौ(पित्वौ)षधय इत्य् अक्षतावापनम् ॥ १.२२९ ॥

यवैर् अन्ववकीर्याथ भाजने सपवित्रके ।
शं नो देव्या पयः क्षिप्त्वा यवो ऽसीति यवांस् तथा ॥ १.२३० ॥
या दिव्या इति मन्त्रेण हस्तेष्व् अर्घ्यं विनिक्षिपेत् ।

आवाहनं कृत्वा द्वे पवित्रवती पात्रे यवैर् अन्ववकीर्य पात्रयोर् यवान् प्रक्षिप्य शं नो देवीत्य् ऋचा पात्रद्वये ऽपः क्षिप्त्वाप्सु च यवो ऽसीति यजुषा यवान् प्रक्षिप्य “या दिव्याः” इति मन्त्रेण वैश्वदेविकब्राह्मणहस्तेष्व् एकपात्रस्थम् अर्घ्यम् एकस्य ब्राह्मणस्य हस्तयोः पात्रान्तरस्थम् अपरस्य निक्षिपेत् । प्रत्यर्घ्यदानं मन्त्रावृत्तिः । एवम् अपां च प्रक्षेपे यवानां च प्रक्षेपे मन्त्रावृत्तिः । [४८०] परजापतिः ।

सौवर्णं राजतं ताम्रं खड्गं मणिमयं तथा ।
यज्ञियं चमसं वापि त्व् अर्घ्यार्थं पूरयेद् बुधः ॥

कात्यायनः ।

अनन्तर्गर्भिणं साग्रं कौशं द्विदलम् एव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥

योगयाज्ञवल्क्यः ।

पवित्रे स्थ इति मन्त्रेण द्वे पवित्रे च कारयेत् ।
अन्तर्गर्भे कुशच्छन्ने कौशे प्रादेशसंमिते ॥

यज्ञपार्श्वः ।

ओषधीर् अन्तरं कृत्वा अङ्गुष्ठाङ्गुलिपर्वणोः ।
छिन्द्यात् प्रादेशमात्रं तु पवित्रं विष्णुदैवतम् ॥
न नखेन न काष्ठेन न लोहेन न मृन्मयात् ॥

चतुर्विंशतिमतात् ।

द्वे द्वे शलाके देवानां पात्रे कृत्वा त्व् अपः क्षिपेत् ।
शं नो देव्या यवो ऽसीति यवान् अपि ततः क्षिपेत् ॥
पुष्पधूपादिभिः कृत्वा पूजां पत्रेषु मानवः ।
पितृपात्रे विशेषो ऽयं तिलो ऽसीति तिलान् क्षिपेत् ।
तिस्रस् तिस्रः शलाकास् तु पितृपात्रेषु पार्वणे ॥
एकोद्दिष्टे शलाकैका निधायोदकम् आहरेत् ॥

शलाका दर्भाग्रम् । प्रेचेताः ।

पवित्र इति मन्त्रेण पवित्रे कारयेद् बुधः ।
ते निधायार्ह्यपात्रेषु शं नो देवीत्य् अपः क्षिपेत् ॥

तिसृष्व् अपि शलाकासु पवित्रे स्थ इति द्विवचनान्त एव मन्त्रः प्रयोक्तव्यः । एकस्मिन्न् अपि पात्रे विकल्प्यमानसुवर्णादिद्र्वयबहुत्वात् पात्रेष्व् इति बहुवचनम् । मत्स्यपुराणे ।

विश्वान् देवान् यवैः पुष्पैर् अभ्यर्च्यासनपूर्वकम् ।
पूरयेत् पात्रयुग्मांस् तु स्थाप्य दर्भपवित्रके ॥

प्रचेताः ।

एकैकस्य तु विप्रस्य अर्घ्यं पात्रे विनिक्षिपेत् ।
यवो ऽसीति यवान् क्षिप्त्वा गन्धपुष्पैः सुपूजितम् ॥

गार्ग्यः ।

दत्वा हस्ते पवित्रं तु कृत्वा पूजां विधानतः ।
या दिव्या इति मन्त्रेण हस्तेष्व् अर्घ्यं विनिक्षिपेत् ॥

प्रेचेताः ।

पादप्रभृति मूर्धान्तं देवानां पुष्पपूजनम् ।
**शिरःप्रभृति पादान्तं नमो व इति पैतृके ॥ [४८१]

गार्ग्यः ।

स्वधेति चैव मन्त्रान्ते पितॄणां वचनं यथा ।
स्वाहेति चैव देवानां होमकर्मण्य् उदाहरेत् ॥

अर्घ्यादिप्रदानानि चात्र होमशब्देनोच्यन्ते ॥

दत्वोदकं गन्धमाल्यं धूपदानं सदीपकम् ॥ १.२३१ ॥

गन्धमाल्यादिदानानि प्रत्येकम् उदकं दत्वा कार्याणि । तथा च गौतमः- “भिक्षादानम् अप्पूर्वं ददाति चैवं धर्म्येषु” इति । आपः पूर्वं यस्मात् अत अप्पूर्वम् । अत्र मनुः ।

गन्धमाल्यैः सुरभिभिर् अर्चयेद् दैवपूर्वकम् ।

शौनकः पुनर् आच्छादनदानम् अप्य् आह- “एतस्मिन् काले गन्धमाल्यधूपदीपाच्छादनानां प्रदानम्” । एतस्मिन् काले ऽर्घ्यदानाद् ऊर्ध्वम् इत्य् अर्थः । गन्धादिमन्त्राः पितृपूजायां वक्ष्यन्ते ते ऽत्राप्य् अविरोधाद् ग्राह्याः । ब्रह्मपुराणे ।

देवान् आवाहयिष्ये ते प्राहुर् आवाहयस्व च ।
विप्राङ्गुष्ठं गृहीत्वा तु विश्वान् देवान् समाह्वयेत् ॥
ततो मन्त्रं जपेन् मौनी विश्वे देवास आगत ।
द्वितीयं च जपेन् मन्त्रं विश्वे देवाः शृणो(णु)त च ॥
जपेत् तृतीयं मन्त्रं तु पौराणं पुण्यवर्धनम् ।
आगच्छन्तु महाभागा विश्वे देवा महाबलाः ॥
ये यत्र विहिताः श्राद्धे सावधाना भवन्तु ते ।
इदं च वः पाद्यम् अर्घ्यं पुष्पधूपविलेपनम् ॥
अयं दीपप्रकाशश् च विश्वे देवाः समर्प्यते ॥

अनेन च पाद्यादिदानेषु मन्त्रविधिः क्रियते । ततश् च — इदं वो विश्वे देवाः पाद्यम् इदं वो विश्वे देवा अर्घ्यम् इत्य् एवं सर्वत्र प्रयोज्यम् । धूपदीपप्रकाशयोर् अयं व इत्य् मन्त्रादिः । एवं चैषां मन्त्रान्तरैर् विकल्पः ॥ १.२३१ ॥

अपसव्यं ततः कृत्वा पितॄणाम् अप्रदक्षिणम् ।
द्विगुणांस् तु कुशान् दत्वा उशन्तस् त्व् इत्य् ऋचा पितॄन् ॥ १.२३२ ॥
आवाह्य तदनुज्ञातो जपेद् आयन्तु नस् ततः ।
यवार्थस् तु तिलैः कार्यः कुर्याद् अर्घादि पूर्ववत् ॥ १.२३३ ॥

[४८२]

ततो वैश्वदेविकमा(का)वाहनादिदीपप्रदानान्तपदार्थे(र्थ) काण्डाद् ऊर्ध्वम् अपसव्यं प्राचीनावीतं कृत्वाप्रदक्षिणं प्राक्संस्थं द्विगुणान् कुशान् विष्टरार्थान् दत्वा पितॄन् पितामहान् प्रपितामहान् इत्य् एवमादीन् उद्देश्यान् पितॄन् आवाहयिष्य इति विप्रान् अननुज्ञाप्यावाहयति एतैर् अनुज्ञात् उशन्तस् त्वेत्य् अनुष्टुभा दमनदृष्टया पितृदै(दे)वत्यया पित्रादीन् आवाह्यायन्तु न इति त्रिष्टुभं शङ्खदृष्टां पितृदै(दे)वत्याम् जपेत् । यवकार्यं चात्र तिलैः कर्तव्यम् । अर्घ्यादि वैश्वदेविकवत् कुर्यात् । पुराणात् ।

अपसव्यं ततः कृत्वा तिलान् आदाय संयतः ।
पितॄन् आवाहयामीति पृच्छेद् विप्रान् उदङ्मुखान् ॥
आवाहयेद् अनुज्ञात उशन्तस् त्वेत्य् ऋचा पितॄन् ।
क्षिप्त्वापसव्यं च तिलान् पितॄन् ध्यायन् समाहितः ॥
जपेद् आयन्तु न इति मन्त्रं सम्यग् अशेषतः ।
रक्षार्थं पितृसत्रस्य त्रिः कृत्वा सर्वतोदिशम् ॥
तिलांस् तु प्रक्षिपेन् मन्त्रं तुच्चार्यापहता इति ।
सौवर्णराजताम्भोजमणिपात्राण्य् अथापि वा ॥
अर्घ्यार्थं संस्करोत्य् एव शुभपत्रपुटादिना ॥

ब्रह्मपुराणे ।

पितॄन् आवाहयिष्ये ऽहं शेषान् विप्रान् वदेत् ततः ।
आवाहयस्वेत्य् उक्तस् तैः सावधाना भवन्त्व् इति ॥

सावधाना भव्त्व् इति कर्ता ब्रूयात् ।

इदं वः पाद्यम् अर्घ्यं च चतुर्थ्यन्तं निवेदयेत् ।
पितॄन् पितामहान् यक्ष्ये भोजनेन यथाक्रमम् ॥
प्रपितामहांश् च सर्वांश् च तत् पितॄंश् चानुपूर्वशः ।
उशन्तस् त्व् एति च जपेत् पितॄन् आवाहयेत् ततः ॥
सोमदत्ता बर्हिषद् अस्त्व् अग्निष्वात्ताश् च ये परे ।
पितरः पुण्ययशसः सर्वे ऽप्य् आयन्तु नस् त्व् इति ॥
ततस् तिलान् गृहे तस्मिन् विकिरेच् चाप्रदक्षिणम् ।
श्रद्धया परया युक्तो जपेद् अपहतास् त्व् इति ॥
ततो यज्ञियवृक्षोत्थपात्रेषु सकुशेषु च ।
गृहीत्वापः पवित्राश् च शं नो देवीं जपन् क्षिपेत् ॥
विकिरेत् तेषु च तिलांस् तिलो ऽसीति जपन् क्रमात् ।
अर्घ्यैः पुष्पैश् च गन्धैश् च ताः प्रपूज्याश् च शास्त्रवत् ॥

[४८३] ततो वामेन हस्तेन गृहीत्वा चमसान् क्रमात् ।

पितृतीर्थेन तत् तोयं दक्षिणेन च पाणिना ॥
दत्तदर्भोदके हस्ते विप्रेभ्यश् च पृथक् पृथक् ।
दद्यान् मन्त्रं जपंश् चाथ या दिव्या आप इत्य् अपि ॥
अमुकामुकगोत्रैतत् तुभ्यम् अस्तु तिलोदकम् ।
एष ते ऽर्घ इति प्रोच्य तेभ्यो दद्याद् यथा स्वधा ॥
जलं क्षीरं दधि घृतं तिलतण्डुलसर्षपान् ।
कुसाग्राणि च पुण्यानि दत्वाचामेत् ततः स्वयम् ॥
इदं वः पुष्पम् इत्य् उक्त्वा पुष्पाणि च निवेदयेत् ।
अयं वो धूप इत्य् उक्त्वा तद् अग्रे तु दहेत् ततः ॥
अयं वो दीप इत्य् उक्त्वा दीपं गृह्यं निवेदयेत् ।
अनङ्गलग्नं यद् वस्त्रं विभवे तद् युगं शुभम् ॥
श्वेतचन्दनकर्पूरकुङ्कुमानि शुभानि च ।
विलेपनार्थं दद्यात् तु यद् वान्यत् पितृवल्लभम् ॥

कात्यायनः ।

अपसव्यवद् आसिञ्चेत् पितृपात्रेषु पूर्ववत् ।
ततस् तिलांस् तिलो ऽसीति गन्धपुष्पाणि चैव हि ॥

पूर्ववच् छं नो देवीर् इत्य् अनयेत्य् अर्थः । दक्षः ।

दत्वा हस्ते पवित्रं तु कृत्वा पूजां च पादतः ।
या दिव्या इति मन्त्रेण हस्तेष्व् अर्घ्यं विनिक्षिपेत् ॥
हस्ते प्रादेशमात्रं तु त्रिवृद् दत्वा पवित्रकम् ।
अभ्यर्च्य पूर्वतो ऽर्घ्यं वै दद्यात् तु पितृदिङ्मुखः ॥

श्लोकगौतमः ।

श्रसः पादतो वापि सम्यग् अभ्यर्च्य संयतः ।
पूर्ववत् पृथग् एकैकम् एकैकेनार्घयेत् क्रमात् ॥
एकैकं ब्राह्मणम् एकैकेनार्घ्येण प्रतिपूजयेत् ॥

प्रचेताः ।

अप्रदक्षिणम् एतेषाम् एकैकंतु पितृक्रमात् ।
संबोध्य गोत्रनामभ्याम् एष ते ऽर्घ इतीरयेत् ॥

ततश् च यद्य् एकैकस्य द्वौ द्वौ त्रींस् त्रीन् वा विप्रान् उपवेशयेत् तथाप्य् एकैक एव ब्राह्मणो ऽर्घ्यो न सर्वे । अत एव शौनकस् त्रीण्य् एवार्घपात्राण्य् आह- “त्रिषु पात्रेष्व् एवैकद्रव्येष्व् अनेकद्रव्येषु वा” इति । [४८४] स्मृत्यन्तरम् ।

विभक्तिभिस् तु संयुक्तं दीयते पितृदैवतम् ।
दत्तम् अक्षयतां याति विपरीतं निरर्थकम् ॥

बह्वृचगृह्यपरिशिष्टे ।

गोत्रं स्वरान्तं सर्वत्र गोत्रस्याक्षय्यकर्मणि ।
गोत्रस् तु तर्पणे कुर्याद् एवं दाता न मुह्यति ॥
सर्वत्रैव पितः प्रोक्तः पिता तर्पणकर्मणि ।
अक्षय्ये तु पितुः कार्यं तर्पणं तृप्तिम् इच्छता ॥
शर्मन्न् अर्घ्यादिके कार्यं शर्मणो ऽक्षय्यकर्मणि ।
शर्मा तु तर्पणे कुर्याद् एवं कुर्वन् न मुह्यति ॥

ततश् चामुकगोत्र पितरमुकश्रमन्न् एतत् ते ऽर्घ्यम् इति प्रयोक्तव्यम् । एवं पितामहादिष्व् अपि । तर्पणे त्व् अमुकगोत्रः पितामुकशर्मा तृप्यत्व् इति प्रयोगः । एवं पितामहादिष्व् अपि । अक्षय्योदके त्व् अमुकगोत्रस्य पितुर् अमुकशर्मणो ऽक्षय्यम् अस्त्व् इति प्रयोगः । एवं पितामहादिष्व् अपि ॥ १.२३२, २३३ ॥

दत्वार्घ्यं संस्रवांस् तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यः स्थानम् असीति न्युब्जं पात्रं करोत्य् अधः ॥ १.२३४ ॥

अर्घ्यं दत्वावशिष्टान् संस्रवान् संस्रावपात्रस्थाञ् जलशेषान् एकस्मिन् पात्रे कृत्वा यथाविधि पितृभ्यः स्थानम् असीति मन्त्रेण तत् पात्रम् अधोमुखं करोति । अधो भूम्यां न फलकादाव् इत्य् अर्थः । प्रचेताः ।

प्रथमं पितृपात्रे तु सर्वान् संभृत्य संस्रवान् ।
पितृभ्यः स्थानम् इत्य् उक्त्वा कुर्याद् भूमाव् अधोमुखम् ॥
अर्घ्यसंस्रावपात्रं तु शुन्धन्ताम् इति संस्पृशेत् ।
पितृभ्यः स्थानम् असीति न्युब्जं कुर्यात् पवित्रवत् ॥
तस्योपरि कुशं दत्वा प्रदद्याद् दैवपूर्वकम् ।
गन्धपुष्पाणि धूपं च प्रदीपं च यथाक्रमम् ॥

अनेन गन्धदानं चैवं ब्राह्मणेषु कार्यम् इत्य् उच्यते । तदा पुष्पादिदानान्य् अपि । ततश् च दत्वोदकं गन्धमाल्यम् इत्य् अत्र य उक्तः क्रमस् तेनास्य विकल्पः । कात्यायनः- “एकस्मिन् पितृपात्रे संस्रावान् समवनीय पुत्रकामो मुखम् अनक्ति । तथा शुन्धन्तां लोकाः पितृषदना इत्य् एकदेशम् अवसिच्य तत्र [४८५] न्युब्जं पात्रं करोति पितृषदनम् असीति कुशवत्यां भूम्याम् अधोमुखं कुर्यात् । तस्योपरि च कुशपुष्पगन्धधूपदीपोपपवीतवाससां दानानि” । तस्य पात्रस्योपरि गन्धादिदानं कुशसाहचर्यात् । अन्ये तु मन्यन्ते — गन्धादिदानं पितृब्राह्मणेभ्य इत्य् उक्त्वा कुशदानम् एव पात्रस्योपरीति, कुशशब्दं च द्वितीयान्तं पठन्ति । श्लोककात्यायनः ।

अर्घ्यं स्वधा या इत्य् उक्त्वा संस्रावान् अभिमन्त्रयेत् ।
ये देवा इति मन्त्रेण पुत्रकामो मुखं स्पृशेत् ॥

यमः ।

पैतृकं प्रथमं पात्रं तस्मिन् पैतामहं न्यसेत् ।
प्रपितामहं ततो न्यस्य नोद्धरेन् न च चालयेत् ॥
स्पृष्टम् उद्धृतम् अन्यत्र नीतम् उद्घाटितं तथा ।
पात्रं दृष्ट्वा व्रजन्त्य् आशु पितरः प्रशपन्ति च ॥

मत्स्यपुराणात् ।

या द्वियेत्य् अर्घ्यम् उत्सृज्य दद्याद् गन्धादिकं ततः ।
वस्त्रोत्तरं चानुपूर्वं दत्वा संस्रवम् आदितः ॥
पितृपात्रे निधायाथ न्युब्जम् उत्तरतो न्यसेत् ॥

अस्यार्थः — “या दिव्याः” इत्य् अर्घं(घ्यं) दत्वा पितृपात्रे संस्रावम् अर्घ्यावशेषम् आदित आदौ कृत्वा निधायानन्तरं श्राद्धदेशाद् उत्तरतो न्युब्जं तन् न्यसेत् । ततो गन्धादि वस्त्रपर्यन्तं दद्याद् इति । विष्णुः- “चन्दनकुङ्कुमकर्पूराण्य् अनुलेपनाय” । मार्कण्डेयः ।

चन्दनागुरुकर्पूरकुङ्कुमानि प्रदापयेत् ।
अश्वमेधम् अवाप्नोति पितॄणाम् अनुलेपनात् ॥

व्यासः ।

विपवित्रकरो गन्धैर् गन्धद्वारेति पूजयेत् ।
धूपं च धूर् असीत्य् उक्त्वा दीपो(प) ज्योतिर् इदं च ते ॥

तत्र — “गन्धद्वाराम्” इत्य् अनुष्टुभं स्त्रीदै(दे)वत्यां विश्वे देवा अपश्यन् । “धूर् असि” इति धूपदै(दे)वत्यं यजुः परमेष्ठी प्राजापत्यो ऽपश्यत् । वृद्धशातातपः ।

पवित्रं तु करे कृत्वा यः समालभते द्विजम् ।
राक्षसं तद् भवेच् छ्राद्धं निराशैः पितृभिर् गतैः ॥

गन्धैश् चर्चनं समालम्भनम् । देवलः ।

यज्ञोपवीतं विप्राणां स्कन्धान् नैवावतारयेत् ।
**गन्धादिपूजासिद्ध्यर्थं दैवे पित्र्ये च कर्मणि ॥ [४८६]

शङ्खः ।

उपवीतं कटौ कृत्वा कुर्याद् गात्रानुलेपनम् ।
एकवासाश् च यो ऽश्नीयान् निराशाः पितरो गताः ॥

वृद्धमनुः ।

विनोपवीतं नो कुर्याद् गन्धैः श्राद्धे ऽनुलेपनम् ।
नियुक्तश् च शिखावर्जं माल्यं शिरसि वेष्टयेत् ॥

मार्कण्डेयः ।

जात्याश् च सर्वा दातव्याः मल्लिकाः श्वेतयूथिकाः ।

ब्रह्माण्डपुराणे ।

शुक्लाः सुमनसः श्रेष्ठास् तथा पद्मोपलानि च ।
गन्धरूपोपपन्नानि यानि चान्यानि कृत्स्नशः ॥
जपादि कुसुमं भाण्डी रूषिकाः सकुरण्डिकाः ।
पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ॥

शङ्खः ।

उग्रगन्धीन्य् अगन्धीनि चैत्यवृक्षोद्भवानि च ।
पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥
जलोद्भवानि देवानि रक्तान्य् अपि विशेषतः ॥

चैत्यवृक्षः श्मशानवृक्षः । वर्जयेद् इत्य् अनुवृत्तौ विष्णुः- “उग्रगन्धीनि कण्टकिजानि रक्तानि च पुष्पाणि । तथा सितानि सुगन्धीनि कण्टकिजातान्य् अपि जलजानि रक्तान्य् अपि दद्यात् । पुष्पवतीर् इत् पुष्पम्” । ओषधीः प्रतिमोदध्वम् इत्य् अस्या मध्ये प्रतीकम् एतत् । ब्रह्मपुराणे ।

चन्दनागुरुणी चोभे तथैवोशीरपद्मकम् ।
तुरुष्कं गुग्गुलुं चैव घृताक्तं युगपद् दहेत् ॥
घृतं न केवलं दद्याद् दुष्टं वा तृणगुग्गुलुम् ॥

शङ्खः ।

धूपार्थे गुग्गुलुं दद्याद् घृतयुक्तं मधूत्कटम् ।

पुराणात् ।

वनस्पतिरसो दिव्यो गन्धाढ्यः सुमनोहरः ।
आह्वानं सर्वदेवानां धूपो ऽयं प्रतिगृह्यताम् ॥

शातातपः ।

हस्तवाताहतं धूपं ये पिबन्ति द्विजोत्तमाः ।
वृथा भवति तच् छ्राद्धं तस्मात् तत् परिवर्जयेत् ॥

देवलः ।

पुष्पवतीतिमन्त्रेण दद्यात् पुष्पाण्य् अतन्द्रितः ।
**इदं ज्योतिर् इति ज्योतिः सुज्योतिर् इति ते ऽपि च ॥ [४८७]

क्रतुः ।

ललाटे पुण्ड्रं दृष्ट्वा स्कन्दे(न्धे) मालां तथैव च ।
निराशाः पितरो यान्ति दृष्ट्वा च वृषलीपतिम् ॥

पुण्ड्रकं चात्र वृत्तं निषिद्धं नोर्ध्वम् । मरीचिः ।

घृताद् वा तिलतैलाद् वा नान्यद् दाद्यात् तु दीपकम् ॥

अत्रिः ।

युवं वस्राणीत्य् अनेन दद्याद् वासांसि शक्तितः ॥

वायुपुराणात् ।

वासो हि सर्वदै(दे)वत्यं सर्वदेवैर् अभिष्टुतम् ।
वस्त्राभावे क्रिया न स्याद् यज्ञदानादिका क्वचित् ॥
तस्माद् वस्त्राणि देयानि श्राद्धकाले विशेषतः ।
ददद् वै तानि चाप्नोति यज्ञदानतपांसि च ॥

तथा।

आच्छादनं तु यो दद्याद् अहतं श्राद्धकर्मणि ।
आयुः प्राकाम्यम् ऐश्वर्यं रूपं च लभते शुभम् ॥
कौशेयं क्षौमकार्पासं दुगू(कू)लम् अहतं तथा ।
श्राद्धेष्व् एतानि यो दद्यात् कामान् आप्नोति पुष्कलान् ॥

शातातपः- “युवा सुवासा इति वासो दद्यात् तदभावे यज्ञोपवीतकम्” ॥ तथा ।

लोके श्रेष्ठतमं सर्वम् आत्मनश् चापि यत् प्रियम् ।
सर्वं पितॄणां दातव्यं तद् एवाक्षयम् इच्छता ॥

वायुपुराणे ।

श्राद्धेषूपानहौ दद्याद् ब्राह्मणेभ्यो विशेषतः ।
दिव्यं स लभते चक्षुर् वाजियुक्तान् रथांस् तथा ॥
यज्ञोपवीतं यो दद्याच् छ्राद्धकाले तु धर्मवित् ।
पावनं सर्वविप्राणां ब्रह्मदानस्य तत् फलम् ॥
कृतं विप्रेण यो दद्याच् छ्राद्धकाले कमण्डलुम् ।
धेनुं स लभते दिव्यां घटोपभृतदोहनाम् ॥
तूलपूर्णे तु यो दद्यात् पादुके श्राद्धकर्मणि ।
शोभनं लभते यानं पादयोः सुखम् एव च ॥
व्यजनं तालवृन्तं च दत्वा विप्राय सत्कृतम् ।
प्राप्नुयात् स्पर्शयुक्तानि सुगन्धीनि मृदूनि च ॥
श्रेष्ठं छत्रं च यो दद्यात् पुष्पमालाविभूषितम् ।
प्रासादो ह्य् उत्तमो भूत्वा गच्छन्तम् अनुगच्छति ॥

[४८८] दद्यात् पवित्रं योगिभ्यो गन्तुर् धारणम् अम्भसः ।

अथ निष्कसहस्रस्य फलम् आप्नोति मानवः ॥

तथा ।

लवणेन सुपूर्णानि श्राद्धे पात्राणि दापयेत् ।
रसास् तम् उपतिष्ठन्ति भक्ष्यं सौभाग्यम् एव च ॥
पात्रं वै तैजसं दद्यान् मनोज्ञं श्राद्धभोजने ।
पात्रं भवति कामानां विद्यानां च धनस्य च ॥
राजतं काञ्चनं चैव दद्याच् छ्राद्धेषु यः पुमान् ।
दत्वा स लभते दाता प्राकाम्यं धनम् एव च ॥

पुराणात् ।

राजतं राजताक्तं वा पितॄणां पात्रम् एव च ।
रजतस्य कथा वापि दर्शनं दानम् एव च ॥
अनन्तम् अक्षयं स्वर्ग्यं राजतं दानम् उच्यते ।
पितॄन् एतेन दानेन सत्पुत्रास् तारयन्त्य् उत ॥

मनुः ।

राजतैर् भाजनैर् एषाम् अपि वा राजतान्वितैः ।
वार्य् अपि श्रद्धया दत्तम् अकषयायोपकल्पते ॥

वृद्धशातातपः ।

पात्रे तु मृन्मये यस् तु श्राद्धे वै भोजयेत् पितॄन् ।
अन्नदाता पुरोधाश् च भोक्ता च नरकं व्रजेत् ॥

अत्रिः ।

भोजने हैमरौप्याणि दैवे पित्र्ये यथाक्रमम् ।
न मृन्मयानि कुर्वीत भोजने दैवपित्र्ययोः ॥
पालाशेभ्यो विना न स्युः पर्णपात्राणि भोजने ॥

विष्णुः- “तैजसानि पात्राणि दद्याद् विशेषतो राजतानि । घृतादिदाने तैजसानि पात्राणि फल्गुपात्राणि वा” । फल्गुर् वृक्षविशेषः । मत्स्यपुराणात् ।

अकृत्वा भस्ममर्यादां यः कुर्यात् पङ्क्तिभोजनम् ।
आसुरं तद् भवेच् छ्राद्धं पितॄणां नोपतिष्ठति ॥

ब्रह्मपुराणे ।

मण्डलानि च कार्याणि नैवारैश् चूर्णिकैः सुभैः ।
गौरमृत्तिकया वापि प्रणीतेनाथ भस्मना ॥
पाषाणचूर्णसंकीर्णाद् आहृतं तत्र वर्जयेत् ॥

ब्रह्माण्दपुराणे ।

प्रक्षाल्य हस्तपात्रादि पश्चाद् अद्भिर् विधानवित् ।
**प्रक्षालनं दर्भैस् तिलैर् मिश्रं क्षिपेच् छुचौ ॥ [४८९]

विष्णुः ।

मन्त्रहीनं क्रियाहीनं संपद्धीनं द्विजोत्तमाः ।
श्राद्धं संपूर्णतां यातु प्रसादाद् भवतां मम ॥ इति ॥ १.२३४ ॥
अग्नौ करिष्य आदाय पृच्छत्य् अन्नं घृतप्लुतम् ।
कुरुष्वेत्य् अभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥ १.२३५ ॥
हुतशेषं प्रदद्यात् तु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु तु विशेषतः ॥ १.२३६ ॥

बहुतराज्यसिक्तम् अन्नम् उपादायाग्नौ करिष्य इत्य् अनेन मन्त्रेण श्राद्धभोक्तॄन् अन्जुज्ञाप्य कुरुष्वेत्य् अनेन तैर् अनुज्ञातः स्वसूत्रोक्तपिण्डपितृयज्ञहोमकल्पेन तदन्नैकदेशम् अग्नौ हुत्वा हुतशेषं ब्राह्मणभोजनभाजनेषु रौप्यमयेषु तदसंभवे प्रतिषिद्धवर्जं यथालाबोपपन्नेषु समाहितस् तन्मनाः प्रक्षिपेत् । रौप्यपात्रनिर्देशात् पितृब्राह्मणभाजनेष्व् एव हुतशेषप्रदानम् इच्छतीति गम्यते । अत्रानुज्ञानवचनं सर्वैर् एव ब्राह्मणैर् युगपद् वाच्यम् इत्य् आह मनुः ।

अग्नौ कुर्याद् अनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥

ब्राह्मण्डपुराणे ।

आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः ।
अग्नये कव्यवाहाय स्वधा नम इति ब्रुवन् ॥
सोमाय च पितृमते स्वधा नम इति ब्रुवन् ।
यमायाङ्गिरसां पत्ये स्वधा नम इति ब्रुवन् ॥
इत्य् एते होममन्त्रास् तु त्रयाणाम् अनुपूर्वशः ।
दक्षिणतो ऽग्नये नित्यं सोमायोत्तरतस् तथा ॥
एतयोर् अन्तरे नित्यं जुहुयाद् वै विवस्वते ।
बहुशुष्केन्धने चाग्नौ सुसमिद्धे विशेषतः ॥
विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ।
अप्रबुद्धे सधूमे वा जुहुयाद् यो हुताशने ॥
यजमानो भवेद् अन्धः सो ऽमुत्रेति हि नः श्रुतम् ।
अन्तर् निधाय समिधं जुहुयात् कव्यवाहनम् ॥
पलाशफल्गुन्यघ्रोधप्लक्षाश्वत्थविकङ्कताः ।
उदुम्बरस् तथा बिल्वश् चन्दनं यज्ञियाश् च ये ॥

[४९०] सरलो देवदारुश् च सालश् च खदिरश् च ह ।

समिदर्थे प्रशस्ताः स्युर् एते वृक्षा विशेषतः ॥
ग्राह्याः कण्टकिनश् चैव यज्ञिया ये च केचन ।
पूजिताः समिदर्थे ये पितॄणां वचनं यथा ॥
श्लेष्मान्तको रक्तमालः कपित्थः श(शा)ल्मलिस् तथा ।
नीपो विभीतकश् चैव श्राद्धकर्मणि गर्हिताः ॥
चिरबिल्वस् तथा टङ्कस् तिन्दुकाम्रातकौ तथा ।
बिल्वकः कोविदारश् च एते श्राद्धे विगर्हिताः ॥
निवासश् चैव कीटानां गर्हिताः स्युर् अयज्ञियाः ।
गुल्मांश् च वेष्टितान् यांश् च बलीभिश् च समन्ततः ॥
शकुनानां निवासांश् च वर्जयेद् द्विजसत्तमः ।
अन्यांश् चैवंविधान् सर्वान् वर्जयेद् वा अयज्ञियान् ॥
पुष्पाणां च फलानां च भक्षाणां च प्रयत्नतः ।
अग्रम् उद्धृत्य सर्वेषां जुहुयाज् जातवेदसे ॥

मार्कण्डेयः ।

आहिताग्निश् च जुहुयाद् दक्षिणाग्नौ समाहितः ।
अनाहिताग्निश् चौपसदे अग्न्यभावे तथाप्सु वा ॥

औपसदो गृह्याग्निः । आहिताग्नेर् दक्षिणाग्निविधानम् औपसदाभावे वेदितव्यम् । औपसदे तु सति तत्रैव । तथा च वायुपुराणम् ।

आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः ।
अग्न्यर्थं लौकिकं वापि जुहुयात् कर्मसिद्धये ॥

अत्र वाक्ये ऽग्निशब्दः प्रकृते ऽग्नौ वर्तते । श्राद्धप्रयोगविधौ च गृह्यो ऽग्निः प्रकृतः श्राद्धप्रयोगस्य गृह्यशास्त्रविधेयत्वात् । गृह्याग्न्यधिकारेण च गृह्यशास्त्राणां प्रवृत्तिर् इति तदभाव एव तत्कार्ये दक्षिणाग्निलौकिकाग्न्योर् विधिर् युज्यते तत्सद्भावे तु तेनैव स्वकार्यसिद्धौ किम् अग्न्यन्तरविधानेन । यो ऽपि धर्मशास्त्रेषु पुराणेषु च श्राद्धप्रयोगविधिः स गृह्योक्ताद् अभिन्नः प्रत्यभिज्ञानात् तेन धर्मशास्त्रेष्व् अपि गृह्य एवाग्निः प्रकृतः । अतो ऽग्न्यर्थम् इत्य् अत्राग्निशब्दो गृह्यपरः प्रकृतत्वाद् इति युक्तम् । यत् पुनर् अनाहिताग्निश् चौपसद इति वचनं तद् दक्षिणाग्नाव् अग्नौकरणविधानाद् अनाहिताग्नेः श्राद्धानधिकाराशङ्कानिराकरणार्थम् । [४९१] ततश् चानाहिताग्निश् चौपसदे कुर्याद् एव न न (?) कुर्यात् । न त्व् अनाहिताग्निर् एवौपसद इति तस्यार्थः । अनग्निस् तु विप्रकरे ऽग्नौकरणहोमं कुर्याद् इत्य् आह मनुः ।

अग्न्यभावे तु विप्रस्य पाणाव् एवोपपादयेत् ।

यत् तु जातूकर्ण्येनोक्तम्,

अग्न्यभावे तु विप्रस्य हस्ते दद्यात् तु दक्षिणे ।
अग्न्यभावः स्मृतस् तावद् यावद् भार्यां न विन्दति ॥

इति, तद् भार्यावेदनात् प्राङ् नियताग्न्यभावो न पुनस् ततः प्राग् एवाग्न्यभाव इत्य् अभिप्रायः(येण) । लब्धभार्यो ऽपि प्राग् दायविभागाद् अनग्निः संभवति । पाणाव् एवोपपदयेद् इत्य् एवशब्दो लौकिकम् अग्निं व्युदस्यति यतः स एवाह ।

न पैतृयज्ञियो होमो लौकिको ऽग्नौ विधीयते ।

मत्स्यपुराणे ।

अग्न्यभावे तु विप्रस्य पाणाव् अथ जले ऽपि वा ।
अजकर्णे ऽश्वकर्णे वा गोष्ठे वाथ शिवान्तिके ॥

शङ्खः ।

अजस्य दक्षिणे कर्णे पाणौ विप्रस्य दक्षिणे ।
अप्सु चैव कुशस्तम्बे अग्निं कात्यायनो ऽब्रवीत् ॥
रजते च सुवर्णे च नित्यं वसति पावकः ॥

कात्यायनः ।

पित्र्ये यः पङ्क्तिमूर्धन्यस् तस्य पाणाव् अनग्निकः ।
हुत्वा मन्त्रवद् अन्येषां तूष्णीं पात्रेषु निक्षिपेत् ॥
मातामहस्य भेदे ऽपि कुर्यात् तन्त्रे च साग्निकः ॥

मातामहस्य यो ब्राह्मणस् तस्य पाणौ वैश्वदेविकतन्त्रे भेदे च पृथग् अग्नौकरणं कार्यम् इत्य् अर्थः । वायुपुराणे ।

दैवे ह्य् अनग्निकः कुर्याच् छेषं पित्र्ये निवेदयेत् ।
न हि स्मृताः शेषभाजो विश्वे देवाः पुराणगैः ॥

यमः ।

दैवविप्रकरे ऽनग्निः कृत्वाग्नौकरणं द्विजः ।
हुत्वा पितृभ्यः शेषात् तु पिण्डार्थं स्थापयेत् पुनः ॥

वायुपुराणम् ।

वैश्वदेवे यदैकस्मिन् भवेयुर् द्व्यादयो द्विजाः ।
तदैकपाणौ दातव्यं स्याद् विधिर् विहतस् तदा ॥

अस्यार्थः — यदैकस्मिञ् श्राद्धे वैश्वदेविके कर्ये द्वौ चत्वारः षड् इत्य् एवं द्व्यादयो विप्राः स्युस् तदैकस्य हस्ते होमे कृते कृतो विधिर् अतो न विप्रान्तरहस्ते कार्य इति । वैश्वदेविकहस्ते होमो ऽनग्नेर् वैकल्पिकः । यदा च हस्ते होमस् [४९२] तदा भवत्स्व् एवाग्नौकरणम् इति ब्राह्मणानुज्ञानम् । तथेरि च प्रतिवचनम् । तद् आह शौनकः- “अनग्निश् चेद् आज्यं गृहीत्वा भवत्स्व् एवाग्नौकरणम् इति पूर्ववत् तथास्त्व् इति” । यमः ।

हुत्वाग्नौ च ततः पश्चाद् विधिनानेन मन्त्रवित् ।
स्वधेत्य् एवं हविःशेषम् आदाय प्रसमीक्ष्य च ॥

होमावशिष्टं स्वधेत्य् अनेन मन्त्रेण प्रसमीक्ष्यालोक्यादाय पितृभ्यो दत्वा पिण्डार्थम् अवशेषयेत् ॥ १.२३५, २३६ ॥

दत्वान्नं पृथिवी पात्रम् इति पात्रानुमन्त्रणम् ।
कृत्वेदं विष्णुर् इत्य् अन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥ १.२३७ ॥

हुतशेषाद् अन्यद् भोजनार्थम् उपकॢप्तम् अन्नं विचित्रं तद् देवेभ्यः पितृभ्यश् च दत्वा संकल्प्य पृथिवी ते पात्रम् इति पात्रानुमन्त्रणं कृत्वा “इदं विष्णुर् वि चक्रमे” इति गायत्र्या मेधातिथिदृष्टया विष्णुदै(दे)वत्यया द्विजाङ्गुष्ठं तस्मिन्न् अन्ने निवेशयेत् । शौनकः ।

पाकं सर्वम् उपानीय संवेद्य च पृथक् पृथक् ।
विधिना दैवपूर्वं तु परिवेषणम् आरभेत् ॥

संवेद्य भोक्तॄणां संविदितं कृत्वेत्य् अर्थः । उशना ।

हुतशेषं पितृभ्यश् च दत्वान्नं परिवेषयेत् ।
हविष्यं मधुमांसानि पायसापूपम् एव च ॥

शङ्खः ।

उष्णम् अन्नं द्विजातिभ्यः श्रद्धया विनिवेदयेत् ।
अन्यत्र फलपुष्पेभ्यः पानकेभ्यश् च पण्डितः ॥

फलाद्य् अनुष्णं देयम् इत्य् अर्थः । धर्मः ।

परिवेषणम् इष्टं स्याद् भार्यया पितृतृप्तये ।
फलस्यानन्तता प्रोक्ता स्वयं च परिवेषणे ॥

हुतशेषं प्रदाय स्वयं च परिवेषणं कार्यम् इति विहितम् । शौनकस् तु परिवेषणोत्तरकालं हुतशेषप्रदानम् आह- “अन्नम् अन्ने मृष्टं दत्तं समृध्नुकम्” इति । हुतावशिष्टम् अन्नं भाजने पूर्वं दत्ते भोजनार्थे ऽन्ने दत्तं समृध्नुकम् ऋद्धिकरं भवतीत्य् अर्थः । मनुः ।

पाणिभ्याम् उपसंगृह्य स्वयम् अन्नस्य वर्धितम् ।
**विप्रान्तिके पितॄन् द्यायञ् शनकैर् उपनिक्षिपेत् ॥ [४९३]

ततश् च विप्रभोजनप्रदेशात् प्रदेशान्तरे ऽन्नस्य वर्धितं हस्ताभ्याम् उपसंगृह्य विप्रसंनिधौ पित्रादीन् ध्यायञ् शनकैः स्थापयेत् स्वयम् एव । एकैकस्य भोक्तुर् भोजनार्थम् उपकल्पितो भागो ऽन्नस्य वर्धितम् । तथा ।

उभयोर् हस्तयोर् मुक्तं यद् अन्नम् उपनीयते ।
तद् विप्रलुम्पन्त्य् असुराः सहसा दुष्टचेतसः ॥
गुणांश् च सूपशाकाद्यान् पयो दधि घृतं मधु ।
विन्यसेत् प्रयतः सम्यग् भूमाव् एव समाहितः ॥

गुणा व्यञ्जनादिकानि तानि च सूपशाकादिशब्दैर् निर्दिष्टानि तानि च भूमिस्थितेषु भाजनेषु देयानि । नामर्य(त्रा)दिस्थितेषु । वृद्धशातातपः ।

आयसेन तु पात्रेण यद् अन्नम् उपनीयते ।
भोक्ता विष्ठासमं भुङ्क्ते दाता तु नरकं व्रजेत् ॥

तथा ।

हस्तदत्तास् तु ये स्नेहा लवणव्यञ्जनादयः ।
दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्बिषम् ॥
सौवर्णराजताभ्यां वा खड्गेनौदुम्बरेण वा ।
दत्तम् अक्षयतां याति फल्गुपात्रेण वा पुनः ॥

औदुम्बरं ताम्रमयम् । यमः ।

माक्षिकं फाणितं शाकं गोरसं लवणं तथा ।
हस्तदत्तानि भुक्त्वा तु कृच्छ्रं सान्तपनं चरेत् ॥

विष्णुः- “न प्रत्यक्षं लवणं दद्यात्” । वायुपुराणे ।

सैन्धवं लवणं चैव तथा मानससंभवम् ।
पवित्रे परमे ह्य् एते प्रत्यक्षे ऽपि च नित्यशः ॥

हारीतः ।

पङ्क्त्यां वै चोपविष्टेभ्यः समं गन्धादि भोजनम् ।
न पङ्क्त्यां विषमं दद्यान् न याचेन् न च दापयेत् ॥
याचको दापको दाता सर्वे निरयगामिनः(णः) ॥

कार्ष्णाजिनिः ।

अपसव्येन कर्तव्यं पित्र्यं कृत्यं विशेषतः ।
अन्नदानाद् ऋते सर्वम् एवं मातामहेष्व् अपि ॥
अपसव्येन यस् त्व् अन्नं ब्राह्मणेभ्यः प्रयच्छति ।
विष्ठाम्। अश्नन्ति पितरस् ते च सर्वे द्विजातयः ॥
यत् तु श्राद्धं क्रियादुष्टम् अज्ञानपरिवेषितम् ।
**तस्मिन् भुक्त्वाचरेत् कृच्छ्रं चान्द्रायणम् अथापि वा ॥ [४९४]

अपसव्यम् अत्र प्राचीनावीतम् । यमः ।

यावद् धविष्यं भवति यावत् सृष्टं प्रदीयते ।
तावद् अश्नन्ति पितरो यावन् नाह ददाम्य् अहम् ॥
यत् किंचित् पच्यते गेहे भक्ष्यं वा भोज्यम् एव वा ।
न भोक्तव्यं पितॄणां स्याद् अनिवेद्य कथंचन ॥

पुराणात् ।

नापवित्रेण हस्तेन नैकेन न विना कुशम् ।
नायसे नायसेनैव श्राद्धे तु परिवेषयेत् ॥

आयसे भाजन आयसेन दर्व्यादिना न दद्याद् इत्य् अर्थः ।

तस्माद् अन्तरितं देयं पर्णेनाथ तृणेन च ।

पैठीनसिः- “पृथिवी ते पात्रं द्यौर् अपिधानं ब्राह्मणस्य मुखे ऽमृतं जुहोमि स्वधा । इदं विष्णुर् वि चक्रम इत्य् अनेनाङ्गुष्ठम् अन्ने चोदके चावधर्य व्याहृतिपूर्वां गायत्रीं जप्त्वा स्वदतेति ब्रूयात्” । यमः ।

अङ्गुष्ठमात्रो भगवान् विष्णुः पर्यटते महीम् ।
राक्षसानां वधार्थाय को मे ऽद्य प्रहरिष्यति ॥
तस्माच् छ्राद्धेषु सर्वेषु अङ्गुष्ठग्रहणं स्मृतम् ।
निरङ्गुष्ठं च यच् छ्राद्धं बहिर्जानु च यत् कृतम् ॥
बहिर्जानु च यद् भुक्तं सर्वम् एवासुरं भवेत् ।
विष्णो हव्यं च कव्यं च ब्रूयाद् रक्षेति च क्रमात् ॥
वारिष्व् अग्रप्रदत्तेषु तम् अङ्गुष्ठं निवेशयेत् ॥

कात्यायनः- “वैष्णव्या वा यजुषा वाङ्गुष्ठम् अन्ने ऽवगाह्यापहता इति तिलान् प्रकीर्योष्णं स्विष्टम् अन्नं दद्यात्” । इदं विष्णुर् वि चक्रम इत् वैष्णवी, विष्णो हव्यम् इति यजुः । दद्याद् देवेभ्यः पितृभ्यश् चेति शेषः । विष्णुः- “नमो विश्वेभ्यो देवेभ्य इत्य् अन्नम् आदौ प्राङ्मुखयोर् निवेदयेत् । पित्रे पितामहाय च नामगोत्राभ्याम् उदङ्मुखेषु” । उक्तवाक्येभ्यः पूर्वम् अङ्गुष्ठनिवेशनं पश्चाद् अन्नसंकल्प इति क्रमः प्रतीयते । अत्र प्राङ्मुखयोर् उदङ्मुखेष्व् इति सप्तम्या ब्राह्मणानाम् आहवनीयार्थत्वं प्रतिपद्यते । विश्वेभ्यो देवेभ्यः पित्र इत्यादिकया चतुर्थ्या विश्वेषां देवानां पित्रादेश् च देवतात्वं तेन यद् आपस्तम्बेन- “अथैतन् मनुः श्राद्धशब्दं कर्म प्रोवाच” इत्यादिना श्राद्धम् उक्तं तद् एतन् निवेदनादिशब्देनोच्यते । [४९५] ब्रह्मपुराणे ।

ततो मधुघृताक्तं तु सोष्णम् अन्नं तिलान्वितम् ।
गृहीत्वा देवतीर्थेन प्रणवेनैव तत् पुनः ॥
एतद् वो ऽन्नम् इतीत्य् उक्त्वा विश्वान् देवांश् च संयजेत् ॥

अस्यार्थः — वैश्वदेविकब्राह्मणभोजनार्थं मधुघृताभ्याम् अभ्यक्तेनान्नेन पूर्णपात्रं सतिलोदकेन हस्ताग्रेण गृहीत्वोम् इत्य् एतद् वो विश्वे देवा अमुकनामानो ऽन्नम् इति निवेदयेद् इति ।

पितृभ्यश् च ततो दद्याद् अन्नम् आमन्त्रणेन तु ।
अमुकामुकगोत्रैतत् तुभ्यम् अन्नं स्वधा नमः ॥
अथ दत्वा समग्रं तु कुलान्तं भोजनं क्रमात् ।
विश्वेभ्यश् चाथ देवेभ्यः कुर्याच् च प्रतिपादनम् ॥
द्विजाङ्गुष्ठं गृहीत्वा तु पठन् मन्त्रं च वाग्यतः ।
पृथ्वी ते पात्रम् इत्य् अन्नम् अमृतं चिन्तयेत् पठन् ॥
विष्णो हव्यम् इदं रक्ष मदीयम् इति कीर्तयन् ।
एकैकस्याथ विप्रस्य गृहीत्वाङ्गुष्ठम् आदरात् ॥
अमुकामुकगोत्रैतत् तुभ्यम् अन्नं स्वधा नमः ।
तिलयुक्तं च पानीयं सकुशं तेषु चाग्रतः ॥
विकिरेत् पितृभृत्येभ्यो जपन्न् अपहता इति ।
तेभ्यो दद्याद् अपोशानं भवन्तः प्राशयन्त्व् इति ॥

अस्माद् वाक्याद् अङ्गुष्ठनिवेशनं पश्चात् पूर्वम् अन्नसंकल्प इति गम्यते । ततश् चाङ्गुष्ठविवेशनान्नसंकल्पयोः पौर्वापर्ये विकल्पः । अत्रिः ।

असंकल्पितम् अन्नाद्यं पाणिभ्यां यद् उपस्पृशेत् ।
अभोज्यं तद् भवेद् दत्तं पितॄणां नोपतिष्ठते ॥

देवादिभ्यो ऽन्नप्रदानं संकल्पः ।

अपोशानकरे विप्रे संकल्पं यः समाचरेत् ।
तद् अन्नम् असुरैर् भुक्तं पितॄणां नोपतिष्ठति ॥
हस्तेन सक्तम् अन्नद्यम् इदम् अन्नम् उदीरयेत् ।
स्वधेति च ततः कुर्यात् स्वसत्ताविनिवर्तनम् ॥

[४९६] गोत्रसंबन्धनामानि इदम् अन्नम् इति स्वधा ।

पितृक्रमाद् उदीर्येति स्वसत्तां विनिवर्तयेत् ॥

स्वसत्ताविनिवर्तनाय न ममेति मानसः संकल्पः कार्यः । ततश् चामुकगोत्रपितर् अमुकैतत् ते ऽन्नं स्वधा नम इत्य् उच्चार्य न ममेति मनसा संकल्पयेत् । एवं पितामहादाव् अपि । यदा तु बहूनां पित्रादीनाम् एकैक एव ब्राह्मणो भोज्यते तदा यावन्तः पितरस् तावतो ऽन्नभागान् बुध्या कृत्वाइकैकं भागं पित्रादिभ्यः संकल्पयेत् । तथा ।

दत्ते वाप्य् अथ वादत्ते भूमौ यो निक्षिपेद् बलिम् ।
तद् अन्नं विफलं याति निराशैः पितृभिर् गतैः ॥

भरद्वाजः ।

पितॄणाम् अन्नम् आदाय बलिं यस् तु प्रयच्छति ।
स्तेयेन ब्राह्मणस् तेन स सर्वस्तेयकृद् भवेत् ॥ १.२३७ ॥
सव्याहृतिकां गायत्रीं मधु वाता इति त्र्यृचम् ।
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस् ते ऽपि वाग्यताः ॥ १.२३८ ॥

तिसृभिर् व्याहृतिभिः सहितां गायत्रीं मधुवाता इति च त्र्यृचं राहुगणगौतमदृष्टं गायत्रं वैश्वदेवं जपित्वा यथासुखं जुषध्वम् इति विप्रान् प्रति वाच्यम् । ते च विप्रा वाचंयमा भुञ्जीरन् । प्रचेताः ।

अपोशानं प्रदायाथ सावित्रीं त्रिर् जपेद् अथ ।
मधु वात(ता) इति त्र्यृचं मध्व् इत्य् एतत् त्रिकं तथा ॥

मध्व् इति त्रिर् उच्चारयेद् इत्य् अर्थः । लघुयमः ।

अन्नं मधुमयं कृत्वा मधु वातेति मन्त्रितम् ।
अग्निहीनं क्रियाहीनं मन्त्रहीनं च यद् भवेत् ॥
सर्वम् अच्छिद्रम् इत्य् उक्त्वा ततो यत्नेन भोजयेत् ॥

मधुमयं प्रचुरमधुकम् इत्य् अर्थः । अच्छिद्रभाषणं च प्राग् एवापोशानदानात् कार्यं न पश्चात् । तद् आह प्रचेताः ।

अपोशानकराग्राणाम् अच्छिद्रस्य च भाषणात् ।
निराशाः पितरो यान्ति देवैः सह न संशयः ॥

व्यासः ।

जुषध्वम् इति ते चोक्ताः सम्यग्विधृतभाननाः ।
**कृतमौनाः समश्नीयुर् अपोशानाद् अनन्तरम् ॥ [४९७]

शङ्खलिखितौ- “नाग्रासनस्थः पूर्वम् अश्नीयान् नाभ्यधिकं दद्यान् न प्रतिगृह्णीयात्” । बौधायनः ।

जुषेति प्रथमं ब्रूयाद् भुक्तान्ते ब्राह्मणेषु च ।
मन्त्रकर्मविपर्यासाद् अच्छिद्रं जायताम् इति ॥

बह्वृचगृह्यपरिशिष्टम् ।

यच् च पाणितले दत्तं य्च् चान्नम् उपकल्पितम् ।
एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते ॥

पाणितले दत्तम् इत्य् अग्नौकरणान्नम् इत्य् अर्थः । तच् चान्नं संकल्पात् पूर्वं पृथक् स्थाप्यं ततो भोजनार्थेनान्नेन मिश्रणीयम् । मनुः ।

न च द्विजातयो ब्रूयुर् दात्रा पृष्टान् हविर्गुणान् ।
यावद् ऊष्मा भवत्य् अन्ने यावद् अश्नन्ति वाग्यताः ॥
तावद् अश्नन्ति पितरो यावन् नोक्ता हविर्गुणाः ॥

प्रचेताः ।

पीत्वापोशानम् अश्नीयात् पात्रे दत्तम् अगर्हितम् ।
सर्वेन्द्रियाणां चापल्यं पादपाण्योस् तथैव च ॥
दन्तच्छेदं हस्तपानं वर्जयेच् चातिभोजनम् ॥

पानादिकं हस्तेन न पिबेत् । शङ्खलिखितौ- “ब्राह्मणा अन्नं गुणदोषैर् नाभिवदेयुः । नानृतं ब्रूयुः । अन्योन्यं न प्रशंसेयुः । अन्नपानं न प्रभूतम् इति न ब्रूयुः । अन्यत्र हस्तसंज्ञाया यावद् भूमौ यावत् प्रशस्तं यावत् सोष्म तावद् अश्नन्ति पितरो ह्य् अन्यत्र फलम्मूलपानकेभ्यः” । फलादीनां सोष्मता न कार्येत्य् अर्थः । यमः ।

यश् च पाणितले भुङ्क्ते यश् च वायुं समुत्सृजेत् ।
न तस्य पितरो ऽश्नन्ति यश् चैवाग्रे प्रशंसति ॥

वराहपुराणे ।

याचते यदि दातारं ब्राह्मणो ज्ञानवर्जितः ।
पितरस् तस्य तुष्यन्ति दातुर् भोक्तुर् न संशयः ॥

हारीतः ।

उद्धृत्य पाणिं विहसन् सक्रोधो विस्मयान्वितः ।
श्राद्धकाले तु यद् भुङ्क्ते न तत् प्रीणाति वै पितॄन् ॥

वृद्धशातातपः ।

आसने पादम् आरोप्य यद् भुङ्क्ते च द्विजोत्तमः ।
हन्ति दैवं च पित्र्यं च तद् अन्नं च प्रजाः पशून् ॥

देवलः ।

यो ऽप्रसन्नमना भुङ्क्ते सोपानत्को ऽपि वा पुनः ।
**प्रलापशीलः क्रुद्धो वा स विप्रः पितृदूषकः ॥ [४९८]

यमः ।

यस् तु भुक्त्वा पुनर् भुङ्क्ते यश् च तैलाभिघारितम् ।
रजस्वलाभिर् यद् दृष्टं तद् वै रक्षांसि गच्छति ॥

रजस्वलादिभिर् इति व्याख्येयं बहुवचनम् ।

निर्ॐकारेण यद् भुक्तं परिविष्टं समन्युना ।
दुरात्मना च यद् भुक्तं तद् वै रक्षांसि गच्छति ॥

निर्ॐकारेणेत्य् ॐकारादिकं भोजनमन्त्रम् अन्तरेणेत्य् अर्थः ।

विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणम् ।
अश्रद्धया हुतं दत्तं तद् वै रक्षांसि गच्छति ॥
नियुक्तश् चैव यः श्राद्धे यत् किंचित् परिवर्जयेत् ।
पितरस् तस्य तं मासं नैराश्यं प्रतिपेदिरे ॥

वसिष्ठः ।

उभयोः शाखयोर् मुक्तं पितृभ्यो ऽन्नं निवेदितम् ।
तदन्तरं प्रतीक्षन्ते ह्य् असुरा दुष्टचेतसः ॥
तस्माद् अशून्यं हस्तेन तिष्ठेद् उच्छोषणाद् द्विजः ॥

तथा ।

नियुक्तस् तु तथा श्राद्धे दैवे वा मांसम् उत्सृजेत् ।
यावन्ति पशुरोमाणि तावन् नरकम् ऋच्छति ॥

वराहपुराणे ।

उद्धरेद् यदि पात्रं तु ब्राह्मणो ज्ञानदुर्बलः ।
हरन्ति राक्षसास् तस्य भुञ्जानो ऽन्नं वसुंधरे ॥

शातातपः ।

अर्घभुक्ते तु यो विप्रस् तस्मिन् पात्रे जलं पिबेत् ।
यद् भुक्तं तत् पितॄणां तु शेषं विद्याद् अथासुरम् ॥
हस्तं प्रक्षाल्य यश् चापः पिबेद् भुक्त्वा द्विजः सदा ।
तद् अन्नम् असुरैर् भुक्तं निराशाः पितरो गताः ॥

मनुः ।

श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति ।
स मूढो नरकं याति कालसूत्रम् अवाक्शिराः ॥

शातातपः ।

भग्नपृष्ठस् तु यो भुङ्क्ते बहिर्जानुस् तथैव च ।
हस्ते वक्ति चाजस्रं स ज्ञेयः पितृघातकः ॥
न स्पृशेद् वामहस्तेन भुञ्जानो ऽन्नं कदाचन ।
**न पादौ न शिरो बस्तिं न पदा भाजनं स्पृशेत् ॥ [४९९]

बौधायनः ।

पादेन पादम् आक्रम्य यो भुङ्क्ते ऽनापदि द्विजः ।
नैवासौ भोज्यते श्राद्धे निराशाः पितरो गताः ॥

ब्रह्माण्डपुराणे ।

शूद्राय चानुपेताय श्राद्धोच्छिष्टं न दापयेत् ।
यो दद्याद् रागसंमोहान् न तद् गच्छति वै पितॄन् ॥
तस्मान् न देयम् उच्छिष्टम् अन्नाद्यं श्राद्धकर्मणि ।
अन्यत्र दधिसर्पिर्भ्यां शिष्याय च सुताय च ॥
हर्षयेद् ब्राह्मणांस् तुष्टो भोजयेच् चाशनं शनैः ।
अन्नाद्येनासकृच् चैतान् गुणैश् च परिचोदयेत् ॥

परिचोदयेत् प्रवर्तयेत् । निगमः ।

अपेक्षितं न यो दद्याच् छ्राद्धार्थं परिकल्पितम् ।
अधः कृच्छ्रासु घोरासु तिर्यग्योनिषु जायते ॥
मांसापूपफलेक्ष्वादि दन्तच्छेदं न भक्षयेत् ।
ग्रासशेषं न पात्रे स्यात् पीतशेषं तु नो पिबेत् ॥

अत्रिः ।

हुंकारेणापि यो ब्रूयाद् धस्ताद् वाथ गुणान् वदेत् ।
भूतलाच् चोद्धरेत् पात्रं मुञ्जेद् धस्तेन वा पिबेत् ॥
प्रौढपादो बहिष्कक्षो बहिर्जानुकरो ऽथ वा ।
अङ्गुष्ठेन विनाश्नाति मुखशब्देन वा पुनः ॥
पीत्वावशिष्टतोयादि पुनर् उद्धृत्य वा पिबेत् ।
खादितार्धं पुनः खादेन् मोदकादि फलादि वा ॥
मुखेन वा धमेद् अन्नं निष्ठीवेद् भाजने ऽपि वा ।
इत्थम् अश्नन् द्विजः श्राद्धं हत्वा गच्छत्य् अधोगतिम् ॥
घृतं वा यदि वा तैलं विप्रो नाद्यान् नखच्युतम् ।
यमस् तद् अशुचि प्राह तुल्यं गोमांसभक्षणैः ॥

शातातपः ।

अत्युष्णं सतिलं सर्वम् अनिवारितम् अद्रुतम् ।
अलोलुपो जितक्रोधो भुञ्जीतान्नं मितं हितम् ॥

कार्ष्णाजिनिः ।

कुर्याद् अथापरिश्रान्तो दम्भाहंकारवर्जितः ।
क्रोधं मोहं तथा लोभं वर्जयेच् छ्राद्धकर्मणि ॥

कुर्याद् भोजनम् इत्य् अन्वयः । [५००]

मनुः ।

ब्राह्मणं भुक्षुकं वापि भोजनार्थम् उपागतम् ।
ब्राह्मणैर् अभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥

यमः ।

भिक्षुको ब्रह्मचारी वा भोजनार्थम् उपागतः ।
उपविष्टेषु तु प्राप्तः कामं तम् अपि भोजयेत् ॥ १.२३८ ॥
अन्नम् इष्टं हविष्यं च दद्याद् अक्रोधनो ऽत्वरः ।

अन्नं पायसादि ब्राह्मणानाम् अभीष्टं तच् च हविर्भागार्हं क्रोधत्वरारहितो दद्यात् । शङ्खः ।

अग्नौकरणशेषेण यद् अन्नम् अभिघारयेत् ।
तस्मिंस् तु प्राशिते दद्याद् यद् अन्यत् प्रकृतं भवेत् ॥

शङ्खलिखितौ- “ततस् तिलैर् मांसैः शाकैः सूपैः कृसरपायसापूपैर् लाजैर् भक्षैः पानैर् मधुना घृतेन दध्ना पयसा च प्रभूतमिष्टतो ऽन्नं दद्याद् अनसूयः” । यमः ।

ततो विष(श)दम् आनीय भोजयेत् प्रयतो द्विजान् ।
अन्नं सूपं घृतं शाकं मांसं दधि पयो मधु ॥
सर्वम् एतत् समानीय प्रणयेत् यथासुखम् ।
यद् यद् रोचेत विप्रेभ्यस् तत् तद् दद्याद् अमत्सरी ॥

नारायणः ।

यद् धव्यं यत् पवित्रं च यत् पित्र्यं यत् सुखावहम् ।
द्विजातिभ्यः सवर्णाया नार्या हस्तेन दीयते ॥
हृदयं यद् अन्नम् उष्णं यत् तद् उष्णम् इह शस्यते ॥

मनुः ।

हविर् यच् चिररात्राय यच् चानन्त्याय कल्पते ।
पितृभ्यो विधिवद् दत्तं तत् प्रवक्ष्याम्य् अशेषतः ॥
तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलेन वा ।
दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् ॥

विष्णुः- “तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलैः शाकैः प्रियङ्गुनीवारैर् गोधूमैश् च मासं प्रीयन्ते । एकादशौरभ्रेणाजेन संवत्सरं तु पयसा तद्विकारैर् वा” । मनुः ।

मुन्यन्नानि पयः सोमं मांसं यच् चानुपस्कृतम् ।
अक्षारलवणं चैव प्रकृत्या हविर् उच्यते ॥

अनुपकृतं कार्यान्तरार्थत्वेनापक्वम् । [५०१] बृहस्पतिः ।

संस्कृतं व्यञ्जनाढ्यं च पयोमधुघृतान्वितम् ।
श्रद्धया दीयते यस्माच् छ्राद्धं तेन निगद्यते ॥

आपस्तम्बः- “नैयमिकं तु यच् छ्राद्धं स्नेहवद् एव दद्यात् । सर्पिर् मांसम् इति प्रथमकल्पाभावे तैलं शाकम् इति” । कार्ष्णाजिनिः ।

यद् इष्टं जीवतश् चासीद् दद्यात् तत् तस्य यत्नतः ॥

यमः ।

कृच्छ्रं द्वादशरात्रेण मुच्यते कर्मणस् ततः ।
तस्माद् विद्वान् नैव दद्यान् नापि याचेत दापयेत् ॥

वृद्धशातातपस् त्व् अन्यथाह ।

अपेक्षितं याचितव्यं श्राद्धार्थम् उपकल्पितम् ।
न याचते द्विजो मूढः स भवेत् पितृघातकः ॥
अपेक्षितं यो न दद्याच् छ्राद्धार्थम् उपकल्पितम् ।
कृपणो मन्दबुद्धिस् तु न स श्राद्धफलं लभेत् ॥ इति ।

तच् च श्राद्धार्थम् उपकल्पितं याचितव्यं दातव्यं च । अनुपकल्पितं तु न याच्यं नापि देयम् इति व्यवस्था ॥

आ तृप्तेस् तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥ १.२३९ ॥
अन्नम् आदाय तृप्ताः स्थ शेषं चैवानुमान्य च ।
तद् अन्नं प्रकिरेद् भूमौ दद्याच् चापः सकृत् सकृत् ॥ २.२४० ॥

ब्राह्मणतृप्तिं यावत् पवित्राणि सूक्तानि यजूंषि सामानि च जपित्वा यद् यद् अन्नं विप्रैर् उपभुक्तं ततस् तत एकदेशं क्वचित् पात्रे कृत्वोपादाय पूर्वं जपं जपित्वा तृप्ताः स्थेति विप्रान् आमन्त्र्य तैश् च तृप्ताः स्म इति प्रत्युक्तः शेषम् अन्नं यथा नेतुं मन्यन्ते तथोक्त्वा तत्पात्रस्थम् अन्नं भूमौ प्रकिरेत् । ततो विप्रेभ्यः सकृत् सकृद् अपो दद्यात् । व्याहृतयः सावित्री “मधु वाता ऋतायते” इति त्र्यृचश् च पूर्वजपः स यज्ञोपवीतिना कार्यः । यद् आह जमदग्निः ।

अपसव्येन कर्तव्यं सर्वं श्राद्धं यथाविधि ।
सूक्तं स्तोत्रं जपं मुक्त्वा विप्राणां च विसर्जनम् ॥ इति ।

कात्यायनः- “अश्नत्सु जपेद् व्याहृतिपूर्वां गायत्रीं सप्रणवां सकृत् त्रिर् वा रक्षोघ्नीः पितृमन्त्रान् पुरुषसूक्तम् अप्रतिरथम् अन्यानि च पवित्राणि” । [५०२] कृणुष्व पाज [र्व् ३.४।२३] इत्याद्या रक्षोघ्नाः । पितृमन्त्रा उदीरताम् अवर [र्व् ७.६।१७] इत्यादयः । बौधायनः ।

रक्षोघ्नानि च सामानि स्वधावन्ति यजूंषि च ।
मध्वृचो ऽथ पवित्राणि श्रावयेद् आशयाञ् शनैः ॥

मनुः ।

स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि ।
आख्यानानीतिहासांश् च पुराणानि खिलानि च ॥
ब्रह्मविष्ण्वर्करुद्राणां स्तोत्राणि विविधानि च ।
इन्द्रेशसोमयुक्तानि पावमानीश् च शक्तितः ॥
बृहद्रथन्तरं तद्वज् ज्येष्ठसाम च रौरवम् ।
तथैव शान्तिकाध्यायं मधुब्राह्मणम् एव च ॥
मण्डलब्राह्मणं तद्वत् प्रीतिकारि च यत् पुनः ।
विप्राणाम् आत्मनश् चैव तत् सर्वं समुदीरयेत् ॥

विष्णुपुराणे ।

रक्षोघ्नमन्त्रपठनं भूमेर् आस्तरणं तिलैः ।
कृत्वा ध्येयाश् च पितरस् त एव द्विजसत्तमाः ॥
पिता पितामहश् चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्व् अग्र्यां विप्रदेहेषु संस्थिताः ॥
पिता पितामहश् चैव तथैव प्रप्तामहः ।
मम तृप्तिं प्रयान्त्व् अग्निहोमाप्यायितमूर्तयः ॥
पिता पितामहश् चैव तथैव प्रप्तामहः ।
तृप्तिं प्रयान्तु पिण्डेन मया दत्तेन भूतले ॥
पिता पितामहश् चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु मे भक्त्या यन् मयैतद् उदीरितम् ॥
मातामहस् तृप्तिम् उपैतु तस्य तथा पिता तस्य पिता च यो ऽन्यः ।
विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः ॥
यज्ञेश्वरो यज्ञसमस्तकव्यभोक्ताव्ययात्वा हरिर् ईश्वरो ऽत्र ।
तत् संनिधानाद् अपयान्तु सद्यो रक्षांस्य् अशेषाण्य् असुराश् च सर्वे ॥

वायुपुराणे ।

सप्तार्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ।
स्वर्गापवर्गसोपानं पितॄणां च विमुक्तय ॥

[५०३] अमूर्तीनां समूर्तीनां पितॄणां दीप्ततेजसाम् ।

नमस्यामि सदा तेषां ध्यायिनां योगचक्षुडाम् ॥
इन्द्रादीनां जनेतारो दक्षमारीचयोस् तथा ।
सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान् ॥
मन्वादीनां जनेतारः सूर्याचन्दमसोस् तथा ।
तान् नमस्यामि सर्वान् वै पितॄन् अप्सुषदस् तथा ॥
नक्षत्राणां ग्रहाणां च वाय्वग्न्योश् च पितॄन् अथ ।
द्यावापृथिव्योश् च सदा नमस्यामि कृताञ्जलिः ॥
देवर्षीणां जनेतारः सर्वदेवनमस्कृताः ।
भ्रातरः सर्वभूतानां तान् नमस्ये पितामहान् ॥
प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगीश्वरेभ्यश् च सदा नमस्यामि कृताञ्जलिः ॥
नमो गणेभ्यः सप्तभ्यस् तथा लोकेषु सप्तसु ।
स्वयंभुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥
इत्य् एतद् उक्तं सप्तार्चिर् ब्रह्मर्षिगणपूजितम् ।
पवित्रं परमं ह्य् एतच् छ्रीमद् रक्षोविनाशनम् ॥ इति ।

शेषानुज्ञापने विशेषम् आह शौनकः- “तृप्ताञ् ज्ञात्वा मधुमतीः श्रावयेद् अक्षन्नमीमदन्तेति च संपन्नं पृष्ट्वा यद् यद् अन्नम् उपभुक्तं ततः स्थालीपाकेन सह पिण्डार्थम् उद्धृत्य शेषं निवेदयेद् अभिमते ऽनुमते वा” इति । अस्यार्थः — श्राद्धे भोक्तॄंस् तांस् तृप्तान् विदित्वा मधु वाता ऋतायत इति त्र्यृचम् अक्षन्नमीमदन्त इति चैकाम् ऋचं राहूगणगौतमदृष्टाम् इन्द्रदै(दे)वत्यां पङ्क्तिं जपित्वा संपन्नम् इति ब्राह्मणान् पृष्ट्वा संपन्नम् इति तैः प्रत्युक्त यद् यद् अन्नं तैर् ब्राह्मणैर् भुक्तं ततस् ततः स्थालीपाकाद् अन्नाद् एकदेशं पिण्डार्थं पात्रान्तरे पिण्डपितृयज्ञस्थालीपाकेन सहोद्धृत्य ब्राह्मणान् अनुज्ञापयत्य् अवशिष्टम् अन्नं किं क्रियताम् इति । ततस् तस्मिन्न् अन्ने ब्राह्मणैर् अभिमते स्वीकृते विप्रगृहं प्रति तत् प्रापणियम् । अथ ज्ञातिभिः सहोपभुज्यताम् इत्य् अनुमन्यन्ते तदा तथैव कुर्याद् इति । [५०४] मनुः ।

ततो भुक्तवतां तेषाम् अन्नशेषं निवेदयेत् ।
यथा ब्रूयुस् तथा कुर्याद् अनुज्ञातस् तु तैर् द्विजैः ॥

मार्कण्डेयः ।

प्रष्टव्या ब्राह्मणा भक्त्या भूनिविष्टेन जानुना ।
तृप्ता भवन्तः संपन्नं भवतां कश्चिद् एव तु ॥

मनुः ।

सार्ववर्णिकम् अन्नाद्यं संनीयाप्लाव्य वारिणा ।
समुत्सृजेद् भुक्तवताम् अग्रतो विकिरेन् भुवि ॥

संनयनम् एकत्र पात्रे ग्रहणम् ।

असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्याद् दर्भेषु विकिरश् च यः ॥
उच्छोषणं भूमिगतम् अजिह्मस्याशठस्य च ।
दासवर्गस्य तत् पित्र्यं भागधेयं प्रचक्षते ॥

भागधेयं भागः । ततश् चानुपनीतप्रमीतांश् च स्वकुलोत्पन्नाञ् जन्तूंस् तथा कुलयोषित्प्रभृतीनाम् अत्याज्यानां ये त्यागिनस् तांश् चोद्दिश्य विप्रभोजनपात्रस्थम् अन्नं दर्भेषु च यो विकिरस् तद् उभयं पृथक् पृथक् त्याज्यम् इत्य् अर्थः सिद्धो भवति । यश् च (यच् च) भूमिगतं विप्रोच्छिष्टं तद् अजिह्मायाशठाय मृताय दासवर्गाय संकल्पनीयम् । वसिष्ठस् तु ।

उच्छोषणं भूमिगतं विकिरं लेपमोदकम् ।
अनुप्रेतेषु विसृजेद् अप्रजानाम् अनायुषाम् ॥ इति ।

प्रेतेषु पित्रादिषि ये ऽनुप्रेता अनुमृता ये च स्वकुले ऽप्रजसो ऽल्पायुषश् च तान् उद्दिश्योच्छोषणादि दद्यात् । तथा ।

प्राक् संस्कारात् प्रमीतानां सप्रेष्याणाम् इति श्रुतिः ।
भागधेयं मनुः प्राह उच्छिष्टोच्छोषणे उभे ॥

पात्रगतम् उच्छिष्टम् । भूमिगतम् उच्छोषणम् । ततश् चासंस्कृतप्रमीतेभ्यः सप्रेष्येभ्य इति चोद्देशः कार्य इति सिद्धं भवति । वैश्वदेविकब्राह्मणविकिरे गोभिलोक्तमन्त्रः ।

असोमपाश् च ये देवा यज्ञभागविवर्जिताः ।
तेषाम् अन्नं प्रदास्यामि विकिरं वैशदेविकम् ॥

पित्र्यब्राह्मणसंबन्धिविकिरविषये बृहस्पतिः ।

उपस्पृष्टोदकानां तु ब्राह्मणानां तदग्रतः ।
सोदकं विकिरेद् अन्नं मन्त्रम् एनम् उदाहरेत् ॥

[५०५] अनग्निदग्धा ये जीवा ये ऽपि दग्धाः कुले मम ।

भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ॥

इति बृहस्पतिमते विकिर आचमनानन्तरम् । अन्यमते तु प्राग् एवाचमनात् । कात्यायनः पुनर् एतं मन्त्रम् आह ।

ये अग्निदग्धा ये अनग्निदग्धा जीवा जाताः कुले मम ।
भूमौ दत्तेन तृप्यन्तु यान्तु परां गतिम् ॥ इति ।

मार्कण्डेयः ।

न्नं सतृणम् अभ्युक्ष्य मामेक्षेष्ठेति मन्त्रतः ।
उदङ्मुखानां विप्राणां पुरतः सोदकं ततः ॥
अन्नं तु विकिरेद् भक्त्या भृत्यभागस् तु स स्मृतः ॥

अत्रान्नविकिरे मन्त्रः । न तु प्रोक्षणे । तृणम् अत्र दर्भाः, “दर्भेषु विकिरश् च यः” इति वचनात् । मरीचिः ।

श्राद्धेषु विकिरं दत्वा यो नाचामेन् मतिभ्रमात् ।
पितरस् तस्य षण्मासान् भवत्य् उच्छिष्टभोजिनः ॥ १.२३९, २४० ॥
सर्वम् अन्नम् उपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसंनिधौ पिण्डान् दद्याद् धि पितृयज्ञवत् ॥ १.२४१ ॥

प्रकृतं सर्वप्रकारम् अन्नं स्तोकशः स्तोकशः क्वचित् पात्र उपादायोद्धृत्य पिण्डपितृयज्ञविधानेन चान्नमयान् पिण्डान् दद्यात् । सतिलं दक्षिणामुख इति पितृयज्ञाद् विशेषः । उच्छिष्टसंनिधौ नाग्निसंनिधाव् इत्य् अर्थः । अत्रिः ।

पितॄणाम् आसनस्थानाम् अग्रतस् त्रिष्व् अरत्निषु ।
उच्छिष्टसंनिधानं तन् नोच्छिष्टासनसंनिधौ ॥

जातूकर्ण्यः ।

व्याममात्रं समुद्धृत्य पिण्डांस् तत्र प्रदापयेत् ।
यत्रोपस्पृशतां वापि प्राप्नुवन्ति न बिन्दवः ॥

भास्करस्मृतौ ।

विप्राणां बाहुमात्रेण पिण्डदानं विधीयते ॥

मनुः ।

उपलिप्ते सुचौ देशे स्थानं कुर्वीत सैकतम् ।
मण्डलं चतुरश्रं वा दक्षिणावनतं महत् ॥
एकदर्भेण तन्मध्यम् उल्लिखेत् त्रिश् च तं त्यजेत् ।
तस्मिन् स्थाने ततो दर्भान् एकमूलशिखान् बहून् ।
**दक्षिणाग्रान् उदक्पादान् सर्वांस् तान् स्तृणुयात् समम् ॥ [५०६]

कात्यायनः- “तृप्ताञ् ज्ञात्वान्नं प्रकीर्य सकृत् सकृद् अपो दत्वा पूर्ववद् गायत्रीं जप्त्वा मधुमतीर् मधु मध्व् इति च तृप्ताः स्थेति पृच्छति । तृप्ताः स्म इत्य् अनुज्ञातः शेषम् अन्नम् अनुज्ञाप्य सर्वम् अन्नम् एकत उद्धृत्योच्छिष्टसमीपे दर्भेषु त्रीन् पिण्डान् अवनिज्य दद्याद् आचान्तेष्व् इत्य् एके” । ब्रह्माण्डपुराणे ।

सव्योत्तराभ्यां पाणिभ्यां कुर्याद् उल्लेखनं द्विजः ।
प्रघर्षणं ततः कुर्याच् छ्राद्धकर्मण्य् अतन्द्रितः ॥
खण्डनं पेषणं चैव तथैवोल्लेखनं बुधः ।
सकृद् एव पितॄणां स्याद् देवानां च त्रिर् उच्यते ॥

उल्लेखनं पिण्डनिर्वपणप्रदेशे लेखाकरणम् । वायुपुराणात् ।

सकृद् एवास्तरेद् दर्भान् पिण्डार्थं दक्षिणामुखः ।
प्राग् दक्षिणाग्रान् प्रयतो दद्यात् पिण्डान् अनन्तरम् ॥

तथा ।

मधुसर्पिस्तिलयुतांस् त्रीन् पिण्डान् निर्वपेद् बुधः ।
जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः ॥

जातूकर्ण्यः ।

उपमूलं समास्तीर्य दर्भान् उच्छिष्टसंनिधौ ।
कृत्वावनेजनं दद्यात् त्रीन् पिण्डांस् तु यथाविधि ॥

सुमन्तुः ।

श्राद्धसेवनकाले तु पाणिनैकेन दीयते ।
तर्पणे तूभयं कुर्याद् एष एव विधिः स्मृतः ॥ इति ।

बृहस्पतिः ।

सर्वस्मात् प्रकृतादन्नात् (?) पिण्डान् मधुतिलान्वितान् ।
पितृमातामहादीनां दद्याद् गृह्यविधानतः ॥

मरीचिः ।

पात्राणां खड्गपात्रेण पिण्डदानं विधीयते ।
राजतोदुम्बराभ्यां वा हस्तेनैवाथ वा पुनः ॥

उदुम्बरं ताम्रमयम् । पारस्करः ।

अर्घदाने ऽथ संकल्पे पिण्डदाने तथाक्षये ।
गोत्रसंबन्धनामानि यथावत् प्रतिपादयेत् ॥

गृह्यकृत्- “यदि नामानि न विद्यात् स्वधा पितृभ्यः पृथिवीसद्भ्य इति प्रथमं पिण्डं निन्द्यात् । स्वधा पितृभ्यो ऽन्तरिक्षषद्भ्य इति द्वितीयम् । स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयम्” । [५०७] विष्णुधर्मोत्तरे ।

पिण्डनिर्वपणं कार्यं कुशाभावे विचक्षणैः ।
काशेषु राजन् दूर्वासु पवित्रे ते परे स्मृते ॥

व्यासः ।

ब्रूयाच् छ्राद्धेषु सावित्रीं पिण्डे पिण्डे समाहितः ।
सोमायेति च वक्तव्यं तथा पितृमतेति च ॥

मरीचिः ।

आर्द्रामलकमात्रांस् तु पिण्डान् कुर्वीत पार्वणे ।
एकोद्दिष्टे बिल्वमात्रं पिण्डम् एकं तु निर्वपेत् ॥
नवश्राद्धे स्थूलतरं तस्माद् अपि तु निर्वपेत् ॥
नवश्राद्धे स्थूलतरं तस्माद् अपि तु निर्वपेत् ।
तस्माद् अपि स्थूलतरम् अशौचे प्रतिवासरम् ॥

मनुः ।

न्युप्य पिण्डान् पितृभ्यस् तु प्रयतो विधिपूर्वकम् ।
तेषु पिण्डेषु तं हस्तं निर्मृज्याल् लेपभागिनाम् ॥

लेपभागिन आह मत्स्यपुराणम् ।

लेपभाजश् चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।
पिण्डदः सप्तमस् तेषां सापिण्ड्यं साप्तपौरुषम् ॥

विष्णुः- “अत्र पितरो मादयध्वम् इति दर्भमूले करावघर्षणम्” । व्याघ्रः ।

दर्भमूलेषु निर्मृज्याद् धस्तलेपं समाहितः ।
अद्भिः प्रक्षाल्य तत् पात्रं प्रतिपिण्डं तु पूर्ववत् ॥
कृत्वावनेजनं कुर्यात् पिण्डपात्रम् अधोमुखम् ॥

मनुः ।

आचम्योदक् परावृत्य त्रिर् आयम्य शनैर् असून् ।
षडृतूंश् च नमस्कुर्यात् पितॄन् एव च मन्त्रवित् ॥

ब्रह्माण्डपुराणात् ।

कृष्णाच् चैव तिलात् तैलं यत्नात् सुपरिरक्षितम् ।
बिल्वपात्रेण दातव्यं पितृभ्यो ऽभ्यञ्जनं बुधैः ॥

तिलाद् इति जात्यभिप्रायम् एकवचनम् । तथा ।

अपसव्यं पितृभ्यस् तु दद्याद् अञ्जनम् उत्तमम् ।
नामान्य् उच्चार्य सर्वेषां वस्त्रार्थं सूत्रम् एव च ॥
क्षौमसूत्रं नवं दद्याद् दिशेत् कार्पासकं तथा ।
पत्तोर्णं पट्टसूत्रं च कौशेयं च विसर्जयेत् ॥

क्षौमम् अतसीप्रभवम् । पत्तोर्णं धौतकौशेयम् । पट्टसूत्रं प्रसिद्धम् । कौशेयं त्रसरीसूत्रम् । [५०८] शङ्खः ।

ऊर्णासूत्रं प्रदातव्यं कार्पासम् अथ वा नवम् ।
दशां विवर्जयेत् प्राज्ञो यद्य् अप्य् अहतवस्त्रजा ॥

आश्वलायनः- “वासो दद्याद् दशाम् ऊर्णास्तुकां वा” इति । ततश् च विहितप्रतिषिद्धत्वाद् दशाया विकल्पः । व्याघ्रः ।

गन्धपुष्पादि धूपं च दीपं च विनिवेदयेत् ।
एतद् वः पितरो वासो दशा दद्यात् पृथक् पृथक् ॥

बृहस्पतिः ।

धूपदीपैर् माल्यगन्धैस् तथा वस्त्राञ् जनादिना ।
समभ्यर्च्योदपात्रं तु तेषाम् उपरि निक्षिपेत् ॥

ब्रह्मपुराणात् ।

मधु वाज्यं जलं चार्घं पुष्पं धूपं विलेपनम् ।
बलिं दद्याच् च विधिवत् पिण्डो ऽष्टाङ्गो भवेद् यथा ॥

पुराणात् ।

यत् किंचित् पच्यते गेहे भक्ष्यं भोज्यम् अगर्हितम् ।
अनिवेद्य न भोक्तव्यं पिण्डमूले कथंचन ॥

विष्णुः- “पिण्डानां विकिरं कृत्वार्घपुष्पधूपानुलेपनान्नाद्यभक्ष्यभोज्यं निवेदयेत् । उदपात्रं मधुघृततिलैः संयुक्तं च” । मनुः ।

अविजिघ्रेच् च तान् पिण्डान् यथा न्युप्तान् समाहितः ॥ १.२४१।
मातामहानाम् अप्य् एवं दद्याद् आचमनं ततः ।

मातामहानाम् अप्य् एवं पितृवत् पिण्डदानं कुर्यात् । ततो ब्राह्मणान् आचामयेत् । विष्नुः- “उदङ्मुखेष्व् आचमनं दत्वा ततः प्राङ्मुखेषु दद्यात्” । ततश् च सुप्रोक्षितम् इति श्राद्धदेशं प्रोक्ष्य दर्भपाणिः सर्वं कुर्यात् । नारायणः ।

अचालयित्वा तत् पात्रं स्वस्ति कुर्वन्ति ये द्विजाः ।
तद् अन्नम् असुरैर् भुक्तं निराशैः पितृभिर् गतैः ॥

बृहस्पतिः ।

भाजनेषु तु तिष्ठत्सु स्वस्ति कुर्वन्ति ये द्विजाः ।
निराशाः पितरस् तेषां शप्त्वा यान्ति यथागतम् ॥

जातूकर्ण्यः ।

पात्राणि चालयेच् छ्राद्धे स्वयं शिष्यो ऽथ वा सुतः ।
न स्त्रीभिर् न च बालेन न सजात्या कदाचन ॥
स्वस्तिवाच्यं ततः कुर्याद् अक्षय्योदकम् एव च ॥ १.१४२ ॥
दत्वा तु दक्षिणां शक्त्या स्वधाकारम् उदाहरेत् ।

[५०९] वाच्यताम् इत्य् अनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ १.२४३ ॥

**
ब्रूयुर् अस्तु स्वधेत्य् उक्ते भूमौ सिञ्चेत् ततो जलम् ।

ततो विप्राचमाद् ऊर्ध्वं स्वस्तिवाचनं कुर्यात् । स्वस्ति भवन्तो ब्रुवन्त्व् इति विप्रान् वाचयेद् इत्य् अर्थः । तैश् च स्वस्तीत्य् उक्ते ऽक्षय्योदकं कुर्यात् । षष्ठ्यन्तगोत्रसंबन्धनामानन्तरम् अक्षय्यम् अस्त्व् इत्य् उक्त्वा विग्रहस् तेषु जलं निषिञ्चेद् इत्य् अर्थः । ततो यथाशक्ति दक्षिणां दत्वा स्वधाकारं कारयेत् स्वधां वाचयिष्य इति विप्रान् अनुज्ञापयेद् इत्य् अर्थः । तैश् च वाच्यताम् इत्य् अनुज्ञातः प्रकृतेभ्यः पित्रादिभ्यः स्वधोच्यताम् इति विप्रानुज्ञापने कृते ऽस्तु स्वधेति तैर् उक्ते भूमौ जलं सिञ्चेत् । शातातपः ।

अभिप्रेतार्थसिद्ध्यर्थम् इष्टकामांस् तु वाचयेत् ।
दीर्घाः सूर्यहया नद्यो विष्णोस् त्रीणि पदानि च ॥
एवम् एषां प्रणामेन दीर्घम् आयुर् अवाप्नुयात् ।
अपां मध्ये स्थिता देवाः सर्वम् अप्सु प्रतिष्थितम् ॥
ब्राह्मणस्य करे न्यस्ताः शिवा आपो भवन्तु नः ।
लक्ष्मीर् वसति पुष्पेषु लक्ष्मीर् वसति पुष्करे ॥
लक्ष्मीर् वसेत् सदा सोमे सौमनस्यं सदास्तु मे ।
अक्षतं चास्तु मे पुण्यं शान्तिः पुष्टिर् धृतिस् तु मे ॥
यद् यच् छ्रेयस्करं लोके तत् तद् अस्तु सदा मम ।
दक्षिणायां तु सर्वत्र बहु देयं तथास्तु नः ॥
एवम् अस्त्व् इति तैर् वाच्यं मूर्ध्ना ग्राह्यं तु तेन तत् ॥

ब्रह्मपुराणात् ।

आचान्तेषूदकं दद्यात् पुष्पाणि सयवानि च ।
यवो ऽसीति पठन् मन्त्रं श्रद्धाभक्तिसमन्वितः ॥
दद्यात् तथाक्षय्यजलं तिलाज्यमधुसंयुतम् ।
सपवित्रान् कुशान् भूमाव् आस्तीर्य सतिलांस् तथा ॥

ब्रह्माण्डपुराणात् ।

सौवर्णरौप्यपात्राणि मनोज्ञानि शुभानि च ।
हस्त्यश्वरथयानानि समृद्धानि गृहाणि च ॥
उपानत्पादुकाछत्रचामराण्य् अजिनानि च ।
यज्ञेषु दक्षिणा पुण्या सेति संचिन्तयेत् सदा ॥

या यज्ञदक्षिणा सैवेयम् इति बुद्धिः कार्येत्य् अर्थः । [५१०]

दरिद्रो ऽपि यथाशक्ति दद्याद् विप्रेषु दक्षिणाम् ।

तथा ।

लोके श्रेष्ठतमं सर्वं मनसश् चापि यत् प्रियम् ।
सर्वं पितॄणां दातव्यं तेषाम् एवाक्षयार्थिना ॥
अनन्तम् अक्षय्यं स्वर्ग्यं राजतं दानम् उच्यते ।
पितॄणां तेन दानेन सत्पुत्रास् तारयन्त्य् उत ॥

मार्कण्डेयः ।

अपि स्यात् स कुले ऽस्माकं कश्चित् पुरुषसत्तमः ।
प्रसूयमानां यो धेनुं दद्याद् ब्राह्मणपुंगवे ॥
अपि स्यात् स कुले ऽस्माकं दद्यात् कृष्णाजिनं च यः ।
सुवर्णशृङ्गं सखुरं विधिना मानवोत्तमः ॥

पारस्करः ।

एकपङ्क्त्युपविष्टानां विप्राणां श्राद्धकर्मणि ।
भक्ष्यं भोज्यं समं देयं दक्षिणा त्व् अनुसारतः ॥

पात्रानुसारत इत्य् अर्थः । वृद्धगौतमः ।

दक्षिणां पितृदेवेभ्यो दद्यात् पूर्वं ततो द्वयोः ।

पितरो देवा येषां ते पितृदेवाः पितृदेवत्याः श्राद्धभोक्तार इत्य् अर्थः । तेभ्यः पूर्वं दक्षिणां दद्यात् ततो द्वयोर् वैश्वदेविकविप्रयोर् इत्य् अर्थः । द्वयोर् इति चतुर्थ्यर्थे सप्तमी । ततश् च ब्राह्मणेभ्य एव दक्षिणा देया न पित्रादिभ्यः । तथा च देवलः ।

आचान्तेभ्यो द्विजेभ्यश् च प्रयच्छेद् अथ दक्षिणाम् ।
हिरण्यरत्नभोगानाम् अन्येषां च स्वशक्तितः ॥

एवं च सति दक्षिणाशब्दसामञ्जस्यं भवति । यच् च वाक्यम् “पितृभ्यो दक्षिणा देया” इति तत् पितृदेवत्यब्राह्मणसंबन्धपरम् । अन्यथा ब्राह्मणानां दक्षिणास्वाम्यं न स्यात् । जमदग्निः ।

सर्वं कर्मापसव्येन दक्षिणादानवर्जनम् ।

अपसव्यं तत्रापि भगवान् मत्स्यो मेने । कात्यायनः- “स्वधावाचनीयान् सपवित्रान् कुशान् आस्तीर्य स्वधां वाचयिष्य इति पृच्छति वाच्यताम् इत्य् उक्ते पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः स्वधोच्यताम् इत्य् अनुज्ञापितैर् विप्रैर् अस्तु स्वधेत्य् उच्यमान ऊर्जं वहन्तीत्य् अपो निषिञ्चेत् सपवित्रेषु कुशेषु” ॥ १.२४२, २४३ ॥

विश्वे देवाश् च प्रीयन्तां विप्रैश् चोक्त इदं जपेत् ॥ १.२४४ ॥

[५११]

दातारो नो ऽभिवर्धन्तां वेदाः संततिर् एव च ।
श्रद्धा च नो मा व्यगमद् बहु देयं च नो ऽस्त्व् इति ॥ १। २४५ ॥

विश्वे देवाः प्रीयन्ताम् इति कर्त्रा विप्रैश् चोक्ते दातारो नो ऽभिवर्धन्ताम् इति श्लोकं जपेत् । पुराणात् ।

सव्यवद् दिव्यतीर्थेन यवोदकम् अथो ददत् ।
विश्वे देवाश् च यज्ञे ऽस्मिन् प्रीयन्ताम् इत्य् उदाहरेत् ॥

मत्स्यपुराणे ।

ततः स्वधावाचनकं विश्वे(श्व)देवेषु चोदकम् ।
दत्वाशिषो ऽपि गृह्णीयाद् द्विजेभ्यः प्राक्मुखो बुधः ॥
अघोराः पितरः सन्तु सन्त्व् इत्य् उक्ते पुनर् द्विजैः ।
गोत्रं तथा वर्धतां नस् तथेत्य् उक्तश् च तैः पुनः ॥
दातारो नो ऽभिवर्धन्तां वेदाः संततिर् एव च ।
श्रद्धा च नो मा व्यगमद् बहु देयं च नो ऽस्त्व् इति ॥
एताः सत्याशिषः सन्तु सन्त्व् इत्य् उक्तश् च तैः पुनः ॥

अत्र बौधायनेन “दातारो नो ऽभिवर्धन्ताम्” इति श्लोकानन्तरम्,

अन्नं च नो बहु भवेद् अतिथींश् च लभेमहि ।
याचितारश् च नः सन्तु मा च याचिष्म कंचन ॥

इति मन्त्र आम्नातः ॥ १.२४४, २४५ ॥

इत्य् उक्त्वा तु प्रिया वाचः प्रणिपत्य विसर्जयेत् ।
वाजे वाज इति प्रीतः पितृपूर्वं विसर्जनम् ॥ १.२४६ ॥

इति पूर्वोक्तं मन्त्रम् उक्त्वा ब्राह्मणानां प्रिया वाचश् चोक्त्वा तांश् च नमस्कृत्य प्रीतः सन् “वाजे वाजे” इत्य् अनया त्रिष्टुभा वसिष्ठदृष्टया पिप्रदेवत्यया विसर्जयेत् । अत्र पितृविस्रजनं पूर्वम् । अत्र मत्स्यपुराणम् ।

ततस् तान् अग्रतः स्थित्वा प्रतिगृह्योदपात्रकम् ।
वाजे वाज इति जपन् कुशाग्रेण विसर्जयेत् ॥

विप्रविसर्जनं चोपवीतिना कार्यम्, “उपवीर्यो स्वधेति विसृजेद् अस्तु स्वधेति विसृजेत् । अस्स्तु स्वधेति वा” इति शौनकवचनात् । प्रतिब्राह्मणं मन्त्रावृत्तिः । कुशाग्रस्पर्शरूपविसर्गस्य सर्वविप्रविषयस्य युगपत् कर्तुम् अशक्यत्वात् । [५१२] बृहस्पतिः ।

अद्य मे सफलं जन्म भवत्पादाभिवन्दनात् ।
अद्य मे वंशजाः सर्वे गतास् ते ऽनुग्रहाद् दिवम् ॥
अत्र शाकादिदानेन क्लेशिता ये मयेदृशाः ।
तत्क्लेशजातं चित्तेन विस्मृत्य क्षन्तुम् अर्हथ ॥ १.२४६ ॥
यस्मिंस् ते संस्रवाः पूर्वम् अर्घ्यपात्रे निवेशिताः ।
पितृपात्रं तद् उत्तानं कृत्वा विप्रान् विसर्जयेत् ॥ १.२४७ ॥

यस्मिन्न् अर्घ्यपात्रे ऽर्घ्यसंस्रावाः पूर्वं स्थापितास् तत् पात्रं पूर्वम् उत्तानं कार्यं ततः प्राग् उक्तं विप्रविसर्जनं कार्यम् । येषां गृहे पितृपात्रम् उत्तानम् एव पात्रान्तरेण पिहितं स्थापनीयम् एवेति विहितं तन्मतम् आश्रित्य दक्षिणादानानन्तरम् उक्तं ब्राह्माण्डपुराणे ।

ततः संस्रावपात्रेभ्यो जलम् आदाय चार्पितम् ।
ऊर्जं वहन्तीश् च जपन् पिण्डांश् चाप्य् अवसिञ्चति ॥ १.२४७ ॥
प्रदक्षिणम् अनुव्रज्य भुञ्जीत पितृसेवितम् ।
ब्रह्मचारी भवेत् तां तु रजनीं ब्राह्मणैः सह ॥ १.२४८ ॥

तान् विप्रान् प्रदक्षिणीकृत्य गच्छतो ऽनुगम्य पितृसेवितं श्राद्धावशिष्टम् एवान्नं भुञ्जीत । श्राद्धकर्ता भोक्तारश् च तां रात्रिं ब्रह्मचारिणो भवेयुः । मत्स्यपुराणात् ।

बहिः प्रदक्षिणं कुर्यात् पदान्य् अष्टाव् अनुव्रजेत् ।
बन्धुवर्गेण सहितः पुत्रभार्यासमन्वितः ॥
निवृत्य प्रणिपत्याथ पर्युक्ष्याग्निं स मन्त्रवित् ।
वैश्वदेवं प्रकुर्वीत नैत्यकं बलिम् एव च ॥

बहिर् गृहाद् बहिर् इत्य् अर्थः । कात्यायनः- “वाजे वाजे इति विसृज्यामावाजस्य इत्य् अनुव्रज्य प्रदक्षिणीकृत्य प्रविशेत्” । मनुः ।

प्रक्षाल्य हस्ताव् आचम्य ज्ञातिप्रायं प्रकल्पयेत् ।
ज्ञातिभ्यः शक्तितो दत्वा बान्धवान् अपि पूजयेत् ॥
**ततो गृहबलिं कुर्याद् इति धर्मो व्यवस्थितः ॥ [४१३]

ज्ञातयः पितृपक्ष्याः । बान्धवा मातृपक्ष्याः । गृहबलिशब्देन सकलम् एव वैश्वदेवादि कर्मोपलक्ष्यते । पुराणात् ।

ततो विसर्जयेद् विप्रान् प्रणिपत्य च भक्तितः ।
आद्वारम् अनुगच्छेच् च आगच्छेच् चानुमोदितः ॥

मार्कण्डेयः ।

ततो नित्यक्रियां कुर्याद् भोजयेच् च तथातिथिम् ।
नित्यक्रियां पितॄणां च केचिद् इच्छन्ति मानवाः ॥
पितॄणां न तथैवान्ये शेषं पूर्ववद् आचरेत् ।
पृथक्पाकेन चेत्य् अन्ये केचित् पूर्वं तु पूर्ववत् ॥
ततस् तद् अन्नं भुञ्जीत सह भृत्यादिभिर् नरः ॥

नित्यक्रिया वैश्वदेवादिः । स्मृत्यन्तरम् ।

आतिथ्यरहितं श्राद्धम् आसुरं सति संभवे ।
देहि देहीति वक्तव्ये भोक्तुर् दोषो ऽन्यथा भवेत् ॥

देवलः ।

निर्वर्त्य पितृमेधं तु दीपं प्रच्छाद्य पाणिना ।
आचम्य पाणी प्रक्षाल्य ज्ञातीञ् शेषेण तोषयेत् ॥

ब्रह्मपुराणे ।

भगिन्यो बान्धवाः पूज्याः श्राद्धेषु च सदैव हि ॥

तथा ।

बन्दिमागधसूताश् च तौर्यत्रिकविदस् तथा ।
अलब्धलाभाः श्राद्धेषु नाशयन्ति महद् यशः ॥
तस्मात् ते ऽपि विभोक्तव्याः सकलं च विभज्य च ॥

गीतनृत्तवाद्यानि तौर्यत्रिकम् । देवलः ।

श्राद्धं दत्वा तु यो विप्रो न भुङ्क्ते ऽथ कदाचन ।
देवा हविर् न गृह्णन्ति कव्यानि पितरस् तथा ॥

आपस्तम्बः- “सर्वतः समवदायोत्तरेण यजुषा ग्रासार्धपरार्धं प्राश्नाति” । एतत् संकल्पितैकादश्याद्युपवासविषयं भोजनविरोधिरोगविषयं च । “प्राणे निविष्टो ऽमृतं जुहोमि ब्रह्मणि म आत्मामृतत्वाय” इत्य् उत्तरं यजुः । ततश् च “भुञ्जीत पितृसेवितम्” इत्य् अनेन भोजनं कर्तव्यम् एवेति नियम्यते । तत्रामिषादि पितृसेवितम् अप्य् औपवसथ्ये ऽहन्य् अग्निमता न भक्ष्यम् । “अमाषम् अमांसं व्रतं व्रतयीत” इति श्रुतेः । अनग्निस् तु भक्षयेद् एव । यत् पुनः,

आसप्तमं कुलं हन्ति शिरोऽभ्यङ्गे चतुर्दशी ।
**मांसाशने पञ्चदशी कामधर्मे तथाष्टमी ॥ [५१४]

इत्यादि पञ्चदश्यां मांसवर्जनं तद् रागप्राप्तं मांसबक्षणं वारयति । न वैधम् । पितृसेवितभोजनविधिश् च सकृद्भक्षणमात्रेणैव चरितार्थो भवतीति तदभ्यासो रागीय एव । विष्णुपुराणे ।

श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियोज्य च ।
व्यवायी रेतसो गर्भे मज्जयत्य् आत्मनः पितॄन् ॥

व्यवायो मैथुनम् । शातातपः ।

श्राद्धं कृत्वा परे श्राद्धे भुञ्जते ये तु जिह्मलाः ।
पतन्ति पितरस् तेषां लुप्तपिण्डोदकक्रियाः ॥

तथा ।

पुनर्भोजनम् अध्वानं भाराध्ययनमैथुनम् ।
दानं प्रतिग्रहं होमं श्राद्धं भुक्त्वाष्ट वर्जयेत् ॥

यमः ।

दशकृत्वः पिबेच् चापो गायत्र्या श्राद्धभुग् द्विजः ।
ततः संध्याम् उपासीत जपेच् च जुहुयाद् अपि ॥

अत्र सकृन् मन्त्रः, कार्याविशेषात् । यत्र हि मन्त्रकार्यं शिष्यते तत्र कर्मवृत्तौ मन्त्रो ऽप्य् आवर्तते । यथा निर्वाप्याज्यग्रहणधूपच्छेदनमन्त्राः । तैर् हि निर्वापादिसंस्कार्यं द्रव्यं प्रकाश्यते । तद्भेदाद् युक्ता मन्त्रावृत्तिः । मत्स्यपुराणे ।

पुनर्भोजनम् अध्वानं द्यूतम् आयासमैथुनम् ।
स्वाध्यायं कलहं चैव दिवा स्वप्नंच सर्वदा ॥

ब्रह्मपुराणे ।

अस्तास्ते च ततः सूर्ये विप्रपात्राणि चाम्भसि ।
निक्षिपेत् प्रयतो भूत्वा सर्वाण्य् अधोमुखानि च ॥
द्वितीये ऽहनि सर्वं च भाण्डप्रक्षालनं तथा ॥ १.२४८ ॥

सर्वेषां श्राद्धानां प्रकृतिभूतं पार्वणं श्राद्धं विधायेदानीं तद्विकृत्यात्मकम् आभ्युदयिकं श्राद्धं विधातुम् आह ।

एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखान् पितॄन् ।
यजेत दधिकर्कन्धुमिश्राः पिण्डा यवैः क्रियाः ॥ १.२४९ ॥

वृद्धौ विवाहादौ नान्दीमुखसंज्ञकान् पितॄन् एवं पार्वणोक्तश्राद्धप्रकारेण यजेत । प्रदक्षिणं कृत्वा प्रदक्षिणं कुर्वन्न् इत्य् अर्थः । अत्र पौर्वापर्यम् अविवक्षितम् । संमील्य हसतीतिवत् । अत्रापरो विशेषः कर्कन्धुमिश्राः पिण्डा यवैश् च तिलैश् च कार्याः क्रिया इति । कर्कन्धु बदरम् । [५१५] अत्र विष्णुपुराणम् ।

कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनि ।
नामकर्मणि बालानां चूडाकर्मादिके तथा ॥
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने ।
नान्दीमुखं पितृगणं पूजयेत् प्रयतो गृही ॥
युग्मांस् तु प्राङ्मुखान् विप्रान् भोजयेन् मनुजेश्वर ॥

मत्स्यपुराणम् ।

उत्सवानन्दसंताने यज्ञोद्वाहादिमङ्गले ।
मातरः प्रथमं पूज्याः पितरस् तदनन्तरम् ॥
ततो मातामहाः पूज्या विश्वे देवास् तथैव च ॥

शातातपः ।

नानिष्ट्वा तु पितॄञ् श्राद्धे कर्म वैदिकम् आचरेत् ।
तिस्रो ऽपि मातरः पूर्वं पूजनीयाः प्रयत्नतः ॥
अकृत्वा मातृयागं तु यः श्राद्धं परिवेषयेत् ।
तस्य क्रोधसमाविष्टा हिंसां कुर्वन्ति मातरः ॥

ब्रह्मपुराणे ।

कर्मण्य् अथाभ्युदयिके मङ्गल्यवति शोभने ।
जन्मन्य् अथोपनयने विवाहे पुत्रकस्य च ॥
पितॄन् नान्दीमुखान् नाम तर्पयेद् विधिपूर्वकम् ॥

शातातपः ।

मातृश्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् ।
ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥

भास्करः ।

निषेककाले सोमे च सीमन्तोन्नयने तथा ।
ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिवत् कृतम् ॥

कात्यायनः ।

विवाहादिः कर्मगणो य उक्तो गर्भाधानं यस्य शुश्रुम चान्ते ।
विवाहादाव् एकम् एवात्र कुर्याच् छ्राद्धं नादौ कर्मणः कर्मणः स्यात् ॥
आधाने होमयोश् चैव वैश्वदेवे तथैव च ।
बलिकर्मणि दर्शे च पौर्णमासे तथैव च ।
नवयज्ञे च यज्ञज्ञा वदन्त्य् एवं मनीषिणः ॥
एवम् एव भवेच् छ्राद्धम् एतेषु न पृथक् प्र्थक् ।
नाष्टकासु भवेच् छ्राद्धं न श्राद्धे श्राद्धम् इष्यते ॥

पुराणात् ।

वैश्वदेवविहीनं तत् केचिद् इच्छन्ति मानवाः ।
**युग्मास् तत्र द्विजाः कार्यास् ते पूज्याश् च प्रदक्षिणम् ॥ [५१६]

वृद्धवसिष्ठः ।

पूर्वेद्युर् मातृकं श्राद्धं कर्माहे पैतृकं तथा ।
उत्तरेद्युः प्रकुर्वीत मातामहगणस्य तु ॥

वृद्धशातातपः ।

पृथग् दिनेष्व् अशक्ताश् चेद् एकस्मिन्न् एव वासरे ।
श्राद्धत्रयं प्रकुर्वन्ति तन्त्रं वा वैश्वदेविकम् ॥

शातातपः ।

पूर्वाह्णे मातृकं श्राद्धं मध्याह्ने पैतृकं स्मृतम् ।
ततो मातामहानां तु वृद्धौ श्राद्धत्रयं स्मृतम् ॥

वसिष्ठः ।

श्राद्धत्रयं प्रकुर्वीत तन्त्रं वा वैश्वदेविकम् ।
मातृभ्यः कल्पयेत् पूर्वं पितृभ्यस् तदनन्तरम् ॥
ततो मातामहानां तु पिण्डान् दद्यात् क्रमेण तु ॥

कात्यायनः ।

असकृद् यानि कर्माणि क्रियेरन् कर्मकारिभिः ।
अतिप्रयोगं नैताः स्युर् मातरः श्राद्धम् एव च ॥
गणशः क्रियमाणेषु मातृभ्यः पूजनं सकृत् ।
सकृद् एव भवेच् छ्राद्धम् आदौ न पृथगादिषु ॥

एतच् च सर्व एव प्रत्युद्धारः पुत्रजन्मना व्याख्यात इत्य् एतद्विषयम् । अस्य चायम् अर्थः — सर्व एव पतितस्य कृतप्रायश्चित्तस्य प्रत्युद्धारो ज्ञातिपरिग्रहः पुत्रजन्मना व्याख्यातः । पुत्रे जाते ये तस्य जातकर्मादयः संस्कारास् ते सर्वे ऽप्य् अस्य कार्या इति । एवं च जातकर्मादीनां संस्काराणां युगपत्करणाद् गणशः क्रियमाणत्वम् ।

स्वपितृभ्यः पिता दद्यात् सुतसंस्कारकारणात् ।
पिण्डान् ओद्वाहनात् तेषां तस्याभावे तु तत्क्रमात् ॥

पिण्डान् अभ्युदयश्राद्धे तेषां पुत्राणाम् ओद्वाहनाद् आ विवाहात् पिता स्वपितृभ्यो दद्यात् । तस्य पितुर् अभावे तत्क्रमात् । अत्र क्रमशब्देन पितुर् अनन्तरो भ्रात्रादिर् लक्ष्यते । पुत्रविवाहे पितुः श्राद्धादिकारः कन्यापुत्रविवाहेष्व् इत्य् अनेनोक्तो वोढुर् अपि पृथगधिकारो नानिष्ट्वा तु पितॄञ् श्राद्धम् इत्य् अनेनोक्तस् तेन पुत्रविवाहे पित्रा पुत्रेण च वृद्धिश्राद्धं पृथक् कार्यम् । पुत्रेण च,

येभ्य एव पिता दद्यात् तेभ्यो दद्यात् सुतो ऽग्निमान् ।

इति विधिम् आश्रित्य कर्तव्यम् । अत्र चाग्निमद्ग्रहणम् अधिकारिमात्रोपलक्षणार्थम् । अत एव समावर्तने ब्रह्मचारिणा जीवत्पितृकेण पितामहादिभ्यः श्राद्धं प्रदीयते । वृद्धवसिष्ठः ।

[५१७] मातृश्राद्धे तु विप्राणाम् अलाभे पूजयेद् अपि ।

पतिपुत्रान्विता भव्या योषितो ऽष्टौ मुदान्विताः ॥

चतुर्विंशतिमतात् ।

अथाभ्युदयिके प्राप्ते देवतास्थापनं स्मृतम् ।
जातिधर्मकुलश्रेणिलोकानां वृद्धिकारणम् ॥
तिस्रः पूज्याः पितुस् तिस्रः पूज्या मातामही तथा ।
इत्य् एता मातरः प्रोक्ताः पितृमातृष्वसाष्टमी ॥

माता पितामही प्रपितामहीति तिस्रः पितृपक्षे । मातामही मातुः पितामही मातुः प्रपितामहीति तिस्रो मातृवर्गे । तथा मातृष्वसा पितृष्वसा चेत्य् अष्टौ मातरः ।

ब्रह्माण्याद्यास् तथा सप्त दुर्गाक्षेत्रगणाधिपान् ।
वृद्ध्यादौ पूजयित्वा तु पश्चान् नान्दीमुखान् पितॄन् ॥
मातृपूर्वान् पितॄन् पूज्य ततो मातामहान् अपि ।
मातामहीस् ततः केचिद् युग्मा भोज्या द्विजातयः ॥

कात्यायनः ।

कर्मादिषु तु सर्वेषु मातरः सगणाधिपाः ।
पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ॥
प्रतिमासु च शुभ्रासु लिखिता वा पटादिषू ।
अपि वाक्षतपुञ्जेषु नैवेद्यैश् च पृथग्विधैः ॥
कुड्यलग्ना वसोर् धाराः पञ्च धारा घृतेन तु ।
कारयेत् सप्त धारा वा नातिनीचा न चोच्छ्रिताः ॥
आयुष्याणि च शान्त्यर्थं जप्त्वा तत्र समाहितः ॥
*अद्दितोनल् वेर्सेस् गिवेन् इन् थे एदितिओन्
[ललिता च उमा गौरी अम्बिका सलिलाश्रया ।
भगाही च भगाक्षी च धाराः सप्त प्रकीर्तिताः ॥
अनुमतिश् च राका च सिनीवाली कुहूस् तथा ।
धात्री सर्वेश्वरी चैव ह्य् अन्नैश्वरी तथैव च ॥
एतास् तु देवता नित्यं भक्तगोलकदेवताः ।
पूज्या ह्य् अक्षोटशाखायाम् एकान्तवासिनी सदा ॥
मृत्तिकागोलके पूज्यो महागणपतिर् विभुः ।
पञ्चामृतं घृताभ्यक्तं मधुमांसं द्वितीयकम् ॥ इति । ]

आयुष्याणि आनोभद्रीयादीनि । मातरस् तु ।

ब्रह्माणी चैव माहेशी कौमारी वैष्णवी क्रमात् ।
वाराही नारसिंह्य् ऐन्द्री सप्तैता मातरो मताः ॥

यद् वा ।

गौरी पद्मा शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥

[५१८] धृतिः पुष्टिस् तथा तुष्टिर् आत्मदेवतया सह ।

अपो ऽर्घ्यं गन्धपुष्पं च धूपं दीपं निवेदयेत् ॥

ब्रह्मपुराणात् ।

पूर्वाह्णे दैविके कार्यं श्राद्धम् अभ्युदयार्थिना ।
सव्येन चोपवीतेन ऋजुदर्भैश् च धीमता ॥

सव्यं प्रदक्षिणम् । तथा ।

युग्मांस् तु भोजयेद् वृद्धौ ब्राह्मणान् नियतः शुचिः ।
नान्दीमुखास् तु पितरस् तृप्यन्ताम् इति वाचयेत् ॥

अत्रिः ।

पूर्वाह्णे वै भवेद् वृद्धिर् विना जन्मनिमित्तकम् ।
पुत्रजन्मनि कुर्वीत श्राद्धं तात्कालिकं बुधः ॥

कात्यायनः- “आभ्युदयिके प्रदक्षिणम् उपचारः पित्र्यमन्त्रवर्जं जप ऋजवो दर्भा यवैस् तिलार्थः संपन्नम् इति तृप्तिप्रश्नो दधिबदराक्षत्मिश्राः पिण्डाः नान्दीमुखान् पितॄन् आवाहयिष्य इति पृच्छति । नान्दीमुखाः पितरः प्रीयन्ताम् इत्य् अक्षय्यस्थाने । नान्दीमुखान् पितॄन् वाचयिष्य इति पृच्छति । नान्दीमुखाः पितरः पितामहाः प्रपितामहाः प्रीयन्ताम् इति स्वधां प्रयुञ्जीत । युग्मान् आशयेत्” । तथा ।

अतः परं प्रवक्ष्यामि विशेष इह यो भवेत् ।
प्रातर् आमन्त्रितान् विप्रान् युग्मान् उभयतस् तथा ॥
उपवेश्य कुशान् दद्याद् ऋजुनैव हि पाणिना ॥ इति ।

प्रातर् उपवेश्येत्य् अन्वयः । आमन्त्रणं पूर्वेद्युर् एव । तथा ।

निपातो न हि सव्यस्य जानुनो विद्यते क्वचित् ।
सदा परिचरेद् भक्त्या पितॄन् अप्य् अत्र देववत् ॥
पितृभ्य इति दत्तेषु उपवेश्य कुशेषु तान् ।
गोत्रनामभिर् आमन्त्र्य पितॄन् अर्घ्यं प्रदापयेत् ॥
नात्रापसव्यकरणं न पित्र्यं तीर्थम् इष्यते ।
पात्राणां पूरणादीनि दैवे नैव हि कारयेत् ॥
ज्येष्ठोत्तरकरान् युग्मान् कराग्राग्रपवित्रकान् ।
कृत्वार्घ्यं संप्रदातव्यं नैकैकस्यात्र दीयते ॥

द्वयोर् द्वयोर् ब्राह्मणयोर् हस्तौ मेलयित्वार्घ्यदानं कार्यम् । तत्र ज्येष्ठस्य विप्रस्य हस्त उत्तरः कार्यः । [५१९] तथा ।

मधु मध्व् इति यस् तत्र त्रिर् जपो ऽशितुम् इच्छताम् ।
गायत्र्यनन्तरं सो ऽत्र मधुमन्त्रविवर्जितः ॥
न चाश्नत्सु जपेद् अत्र कदाचित् पितृसंहिताम् ।
अन्य एव जपः कार्यः सोमसामादिकः शुभः ॥
यस् तस्य प्रकरो ऽन्नस्य तिलमान् यवमांस् तथा ।
उच्छिष्टसंनिधौ सो ऽत्र तृप्तेषु विपरीतकः ॥
संपन्नम् इति तृप्ताः स्थ प्रश्नस्थाने विधीयते ।
सुसंपन्नम् इति प्रोक्ते शेषम् अन्नं निवेदयेत् ॥
प्रागग्रेषु तु दर्भेषु आद्यम् आमन्त्र्य पूर्ववत् ।
अपः क्षिपेन् मूलदेशे ऽवनेनिध्वेति निस्तिलाः ॥

आद्यः पाङ्क्तिमूर्धन्यो विप्रः ।

द्वितीये च तृतीये च मध्यदेशाग्रदेशयोः ।
मातामहप्रभृतींस् तु एतेषाम् एव वामतः ॥
सर्वस्माद् अन्नम् उद्धृत्य व्यञ्जनैर् उपसिच्य च ।
संयोज्याक्षतकर्कन्धुदधिभिः प्राङ्मुखस् ततः ॥
अवनेजनवत् पिण्डान् दत्वा बिल्वप्रमाणकान् ।
तत्पात्रक्षालनेनाथ पुनर् अप्य् अवनेजयेत् ॥
उत्तरोत्तर्दानेन पिण्डानाम् उत्तरोत्तरः ।
भवेद् अधश् च करणाद् अधरः श्राद्धकर्मसु ॥
तस्मात् सर्वेषु श्राद्धेषु वृद्धिमत्स्व् इतरेषु च ।
मूलमध्याग्रदेशेषु ईषत्सक्तांश् च निर्वपेत् ॥
गन्धादीनि क्षिपेत् तूष्णीं तत आचामयेद् द्विजान् ।
अन्यत्राप्य् एष एव स्याद् यवादिरहितो विधिः ॥
दक्षिणाप्रवणे देशे दक्षिणाभिमुखस्य च ।
दक्षिणाग्रेषु दर्भेषु एषो ऽन्यत्र विधिः स्मृतः ॥
अथाग्रभूमिम् आसिञ्चेत् सम्यक् प्रोक्षितम् अस्त्व् इति ।
शिवा आपः सन्त्व् इति च युग्मान् एवोदकेन च ॥
सौमनस्यम् अस्त्व् इति च पुष्पदानम् अनन्तरम् ।
अक्षतं चारिष्टं चास्त्व् इत्य् अक्षतान् प्रतिपादयेत् ॥

[५२०] अक्षय्योदकदानं च अर्घ्यदानवद् इष्यते ।

षष्ठ्यैव नित्यं तत् कुर्यान् न चतुर्थ्या कदाचन ॥
प्रार्थनासु प्रतिप्रोक्ते सर्वास्व् एव द्विजोत्तमैः ।
पवित्रान्तर्हितान् पिण्डान् सिञ्चेद् उत्तानपात्रकृत् ॥
युग्मान् एव स्वस्तिवाच्य अङ्गुष्ठग्रहणं सदा ।
कृत्वा धुर्यस्य विप्रस्य प्रणम्यानुव्रजेत् ततः ॥

धुर्यः पङ्क्तिमूर्धन्यः । आश्वलायनगृह्यपरिशिष्टम्- “आभ्युदयिके युग्मा ब्राह्मणा अमूला दर्भाः प्राङ्मुखेभ्य उदङ्मुखो दद्यात् । उदङ्मुखेभ्यो वा प्राङ्मुखः । द्वौ दर्भौ पवित्रे सोपयामानि पात्राणि चत्वारि शं नो देवीर् इत्य् अभिमन्त्रितासु यवान् आवपति । यवो ऽसि सोमदैवत्यो गोसवो देवनिर्मितः । प्रत्नवद्भिः प्रभुस् तुष्ट्या नान्दीमुखांल् लोकान् प्रीणयाहि नः स्वाहेति पितरः प्रीयन्ताम् इत्य् एषां प्रतिग्रहणं विसर्जनं च । एवम् उत्तरयोः पितृपितामहयोर् नित्यं चाग्नौकरणम् । स्वाहाकारेण होमश् च । अतो देवा अवन्तु न इत्य् अङ्गुष्ठग्रहः । इदं विष्णुर् वि चक्रम इत्य् अत्र पावमानीः शंवतीर् ऐन्द्रीर् अप्रतिरथं च श्रावयेत् । भुक्त्वा च येषु पिण्डदानम् आशयान् गोमयेनोपलिप्य तेषु प्रागग्रान् कुशान् आस्तीर्यालंकृत्य पृथग् आज्यमिश्रगुडौदनो हविः सर्वत्र तस्यार्धेन द्वे द्वे आज्याहुतीर् जुहुयात् । नान्दीमुखाः पितरः प्रीयन्ताम् इति विसृजेत् । प्रदक्षिणम् उपचारः । यवैस् तिलार्थः सर्वं द्विर् द्विः” इति । भविष्यत्पुराणम् ।

पिण्डनिर्वपणं कुर्यान् न वा कुर्यान् नराधिपः ।
वृद्धिश्राद्धे महाबाहो लोके धर्मम् अपेक्षते ॥

इति नान्दीमुखश्राद्धविधानम् ॥ १.२४९ ॥

अथैकोद्दिष्टप्रयोगविधिम् आह[५२१]

एकोद्दिष्टं दैवहीनम् एकार्घैकपवित्रकम् ।
आवाहनाग्नौकरणरहितं ह्य् अपसव्यवत् ॥ १.२५० ॥
उपतिष्ठताम् इत्य् अक्षय्यस्थाने विप्रविसर्जने ।
अभिरम्यताम् इति वदेद् ब्रूयुस् ते ऽभिरताः स्म ह ॥ १.२५१ ॥

एकम् उद्दिश्य यत् क्रियते श्राद्धं तद् एकोद्दिष्टम् । तद् दैवहीनं विश्वे(श्व)देवरहितम् । तत्रैकम् अर्घ्यं पवित्रम् अप्य् एकम् आवाहनमन्त्रेणाग्नौकरणेन च रहितम् । यत् पार्वणे यज्ञोपवीतवत् कर्म तद् इहापसव्यवत् कार्यम् । अपसव्यं प्राचीनावीतम् । “उपतिष्ठताम्” इति मन्त्रः प्रकृतस्याक्षय्यम् अस्त्व् इति मन्त्रस्य कार्ये प्रयोज्यो विप्रविसर्जने ऽभिरम्यताम् इति वदेत् । न तु “वाजे वाजे” इति । विप्राश् चाभिरताः स्म इति प्रतिब्रूयुः । एकस्यैकोद्देशस्य बहुविप्रनियोजनपक्षे बहुवचनम् । कात्यायनः- “अथैकोद्दिष्टम् एकम् अर्घ्यम् एकं पवित्रकम् एकः पिण्डो नावाहनं नाग्नौकरणं नात्र विश्वे देवाः स्वधितम् इति तृप्तिप्रश्नः सुस्वधितम् इत्य् अनुज्ञानम् । उपतिष्ठताम् इत्य् अक्षयस्थाने ऽभिरम्यताम् इति विसर्गो ऽभिरताः स्म इत्य् अपरे” । शातातपः ।

एकोद्दिष्टं तु यच् छ्राद्धं नैमित्तिकम् इहोच्यते ।
तद् अप्य् अदैवं कर्तव्यम् अयुग्मान् आशयेद् द्विजान् ॥

एकोद्दिष्टम् उक्तं तच् च त्रिविधम् । नवं मिश्रं पुराणं च । तत्रैकादशाहान्तं नवम् । तदूर्ध्वम् आ संवत्सरान् मिश्रम् । तत उत्तरं पुराणम् । तत्र नवमिश्रविषया विधयस् तावद् उच्यन्ते । तत्र व्याघ्रः ।

एकादशे चतुर्थे च मासि मासि च वत्सरम् ।
प्रतिसंवत्सरं चैवम् एकोद्दिष्टं मृताहनि ॥

  • अद्दितिओन् इन् म्स्स्- “प्रतिसंवत्सरं चैवम् इत्य् अनेन चतुर्थवत्सरे शुद्धश्राद्धं त्रिपौरुषं विधेयम् इत् गम्यते”

कात्यायनः ।

श्राद्धम् अग्निमतः कार्यं दाहाद् एकादशे ऽहनि ।
ध्रुवाणि तु प्रकुर्वीत प्रमीताहनि सर्वदा ॥

त्रैपक्षिकाद् ऊर्ध्वानि ध्रुवाणि । अत एवाह जातूकर्ण्यः ।

ऊर्ध्वं त्रिपक्षाद् यच् छ्राद्धं मृताहन्य् एव तद् भवेत् ।
**अधस् तु कारयेद् दाहाद् आहिताग्नेर् द्विजन्मनः ॥ इति । [५२२]

तथा ।

द्वादश् प्रतिमास्यानि आद्यं षाण्मासिके तथा ।
सपिण्डीकरणं चैवम् इत्य् एतच् छ्राद्धषोडशम् ॥

षाण्मासिके इत्य् अनेन विहितयोः श्राद्धयोर् निरूपणार्थम् आह ।

एकाहेन तु षण्मासा यदा स्युर् अपि वा त्रिभिः ।
न्यूनः संवत्सरश् चैवं स्यातां षाण्मासिके तदा ॥

एकेनाह्ना त्रिभिर् वाहोभिर् यदा षण्मासा न्यूनाः स्युः संवत्सरश् च तावत्संख्यया न्यूनो ऽस्ति तदा षाण्मासिके श्राद्धे कार्ये इत्य् अर्थः । भविष्यत्पुराणे ।

अकृत्वा षोडशैतानि कृत्वा वर्षशतायुतम् ।
न मुच्यते तु प्रेतत्वाद् यथाह भगवाञ् शिवः ॥
अर्वाग् अब्दात् प्रमीतस्य तस्य मासास् त्र्योदश ।
श्राद्धं तस्यापि कर्तव्यं प्रतिमासं तु वत्सरम् ॥

तथा ।

मृताहनि तु दातव्यं प्रेताय सुखम् इच्छता ।
मृताहनि तु दत्तेन मुच्यते कर्मणो ऽशुभात् ॥
अस्थिसंचयने श्राद्धं त्रिपक्षे मासिकानि तु ।
रिक्तयोश् च तथा तिथ्योः प्रेतश्राद्धानि षोडश ॥

रिक्तयोस् तिथ्योर् एकेनाह्ना न्यूने षष्ठे द्वादशे च मास इत्य् अर्थः । तथा च पैठीनसिः ।

षाण्मासिकाब्दिके श्राद्धे स्यातां पूर्वेद्युर् एव ते ।
मासिकानि स्वकीये तु दिवसे द्वादशे ऽपि च ॥

तथा ।

सपिण्डीकरणाद् अर्वाक् कुर्याच् छ्राद्धानि षोडश ।
एकोद्दिष्टविधानेन कुर्यात् सर्वाणि तानि तु ॥
प्रेतसंस्कारकर्माणि यानि श्राद्धानि षोडश ।
यथाकाले तु कार्याणि नान्यथा मुच्यते ततः ॥

अनेनेदम् उच्यते — सपिण्डीकरणे द्वादशाहादौ कृते ऽपि मासिकानि प्रतिमासम् एव कार्याणीति । तानि च यद्य् अप्य् एकोद्दिष्टानि प्रेतत्वविमोचनार्थानि च तथापि तानि मन्त्रवन्ति न पुनर् नवश्राद्धवद् अमन्त्रकानि । यद् आह पैठीनसिः ।

नवश्राद्धम् अतिक्रम्य मृताहनि तु मासिकम् ।
**प्रेतम् उद्दिश्य मन्त्रैस् तु वत्सरं निर्वपेत् सुतः ॥ [५२३]

अतिक्रम्य समप्येत्य् अर्थः । ब्रह्मपुराणे ।

नॄणां तु त्यक्तदेहानां श्राद्धाः षोडश सर्वदा ।
चतुर्थे पञ्चमे चैव नवमैकादशे तथा ॥
ततो द्वादशभिर् मासैः श्राद्धा द्वादशसंख्यया ।
कर्तव्याः श्रुतितश् चैषां तत्र विप्रांश् च तर्पयेत् ॥

अस्माच् च पूर्णे मासि मासिकं कार्यम् इति गम्यते । शङ्खः ।

आद्यं श्राद्धम् अशुद्धो ऽपि कुर्याद् एकादशे ऽहनि ।
कर्तुस् तात्कालिकी शुद्धिर् अशुद्धः पुनर् एव सः ॥

पैठीनसिः ।

सद्यःशौचे ऽपि दातव्यं प्रेतस्यैकादशे ऽहनि ।
स एव दिवसस् तस्य श्राद्धशय्यासमाधिषु ॥

[*अपिशब्दो ऽत्राशौचे सत्य् अपीति गमयति]

मत्स्यपुराणम् ।

एकादशे ऽहनि तथा विप्रान् एकादशैव तु ।
पुत्रादिः सूतकान्ते तु भोजयेद् अयुजो द्विजान् ॥
द्वितीये ऽह्नि पुनस् तद्वद् एकोद्दिष्टं समाचरेत् ॥

[*सूतकान्त इति ब्राह्मणस्यैव तद्विषयम् (?) । क्षत्रियवैश्यशूद्राणां तु ।]

वृद्धवसिष्ठः ।

सप्तमे च तृतीये च प्रथमे नवमे तथा ।
एकादशे ऽह्नि यच् छ्राद्धं तत् सामान्यम् उदाहृतम् ॥

चतुर्णां वर्णानां सामान्यम् इत्य् अर्थः । तर्ह्य् अशौचकालस्य दत्तस् तिलाञ्जलिर् इत्य् आशङ्क्याह स एव ।

चतुर्णाम् अपि वर्णानां सूतकं तु पृथक् पृथक् ॥

सूतकम् अशौचम् इत्य् अर्थः । एषां मध्ये नवश्राद्धान्य् आह यमः ।

चतुर्थे पञ्चमे चैव नवमैकादशे तथा ।
यद् अत्र दीयते जन्तोर् नवश्राद्धं तद् उच्यते ॥

तथा ।

यस्य संचयनाद् अर्वाग् आहिताग्नेर् द्विजन्मनः ।
अयुग्मान् भोजयेद् विप्रांस् तन् नवश्राद्धम् उच्यते ॥

अत्रिः ।

प्रेतार्थं सूतकान्ते तु ब्राह्मणान् भोजयेद् दश ।
**नवश्राद्धनिमित्तं तु एकम् एकादशे ऽहनि ॥ [५२४]

एवं च सत्य् ऐकादशाहिकान् नवश्राद्धाद् आशौचान्तकार्यं ब्राह्मणभोजनं कर्मान्तरम् । व्यासः ।

प्रथमे सप्तमे चैव नवमैकादशे तथा ।
यत् तु वै दीयते जन्तोस् तन् नवश्राद्धम् उच्यते ॥

बह्वृचगृह्यपरिशिष्टे- “नवश्राद्धं सह दद्युः” न पुनः प्रत्येकम् इत्य् अर्थः । नवश्राद्धग्रहणं प्रदर्शनार्थम् । अत एव प्रचेताः ।

एकादश्याद्याः क्रमशो ज्येष्ठस्य विधिवत् क्रियाः ।
कुर्युर् नैकैकशः श्राद्धम् आब्दिकं तु पृथक् पृथक् ॥
अर्वाक् संवत्सरात् सर्वे तु कुर्युः श्राद्धं समेत्य वै ।
संवत्सरे व्यतीते तु कुर्युः श्राद्धं पृथक् पृथक् ॥

उशना ।

नवश्राद्धं सपिण्डत्वं श्राद्धान्य् अपि च षोडश ।
एकेनैव हि कार्याणि संविभक्तधनैर् अपि ॥

एकेन ज्येष्ठेनेत्य् अर्थः । शातातपः ।

एकादशे ऽह्नि यच् छ्राद्धं मातापित्रोस् तु दीयते ।
तत् समेतैस् तु कर्तव्यं पूर्वं चैव पृथक् पृथक् ॥

पूर्वं पुराणम् आब्दिकादिकम् । मरीचिः ।

सर्वैर् अनुमतं कृत्वा ज्येष्ठेनैव तु यत् कृतम् ।
धनेन चाविभक्तेन सर्वैर् एव कृतं भवेत् ॥

व्याघ्रः ।

प्रेतस्य प्रेतकार्याणि अकृत्वा धनहारकः ।
वर्णानां यद् वधे प्रोक्तं तद् व्रतं प्रयतश् चरेत् ॥

तथा ।

देयानि वेश्मशुद्ध्यर्थं नवश्राद्धानि यत्नतः ।
ततः प्रेतविशुद्ध्यर्थं मृताहनि तु वत्सरम् ॥

गृहविशुद्ध्यर्थम् इति गृहे प्रविष्टयमकिंकरतृप्त्यर्थम् ।

शौचे तु सूतकं चेत् स्यान् निशाशेषे तथैव च ।
नवश्राद्धानि देयानि यथाकालं यथाक्रमम् ॥
यस्यैतानि न दीयन्त एकोद्दिष्टानि षोडश ।
पिशाचत्वं स्थिरं तस्य दत्तैः श्राद्धशतैर् अपि ॥

वृद्धवसिष्ठः ।

अलब्ध्वा तु नवश्राद्धं प्रेतत्वाच् च न मुच्यते ।
**अर्वाक् तु द्वादशाहस्य लब्ध्वा तरति दुष्कृतम् ॥ [५२५]

भविष्यत्पुराणे ।

नवश्राद्धं त्रिपक्षं च षाण्मासं मासिकानि च ।
न करोति सुतो यस्य तस्याघः पितरो गताः ॥

व्यासः ।

द्वादशाहे त्रिपक्षे च षाण्मासे मासिके ऽब्दिके ।
श्राद्धानि षोडशैतानि संस्मृतानि मनीषिभिः ॥
षान्मासिकाब्दिके श्राद्धे स्यातां पूर्वेद्युर् एव ते ॥

आश्वलायनपरिशिष्टम् ।

नवश्राद्धं दशाहानि नवमिश्रं तु षडृतून् ।
अतः परं पुराणं स्यात् त्रिविधं श्राद्धम् उच्यते ॥

न चानेनैकादशाहिकस्य नवश्राद्धत्वं व्यावर्त्यते । वचनान्तरैस् तद्भावस्य विहितत्वात् । भविष्यत्पुराणे ।

नवश्राद्धादिश्राद्धानि यस्य वै न कृतानि सः ।
नाधिकारी भवेत् तत्र मासषाण्मासिकाब्दिके ॥

शौनकगृह्यपरिशिष्टात् ।

प्रेतश्राद्धेषु सर्वेषु न स्वधा नाभिरम्यताम् ।
स्वस्त्य् अस्तु विसृजेद् एवं सकृत् प्रणववर्जितम् ॥
एकोद्दिष्टस्य पिण्डे तु अनुशब्दो न युज्यते ।
पितृशब्दं न कुर्वीत पितृहा चोपजायते ॥

सपिण्डीकरणात् प्राक्तनैकोद्दिष्टविषयम् एतत् । बह्वृचगृह्यपरिशिष्टे ।

असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् ।
प्रथमे ऽहनि यो दद्यात् सदशाहं समापयेत् ॥
अनूदकम् अधूपं च गन्धमाल्यविवर्जितम् ।
नवश्राद्धम् अमन्त्रं च पिण्डोदकविवर्जितम् ॥

अनूदकम् अनर्घ्यम् । पिण्डोदकम् अवनेजनम् । वराहपुराणे ।

श्वः करिष्य इति ज्ञात्वा ब्राह्मणामन्त्रणक्रिया ।
गतो ऽसि दिव्यलोकं त्वं कृतान्तविहितात् पथः ॥
मनसा वायुभूतेन विप्रे त्वाहं नियोजये ।
पूजयिष्यामि भोगैस् त्वाम् एवं विप्रं निमन्त्रयेत् ॥
अस्तं गते तथादित्ये गत्वा विप्रनिवेशनम् ।
दत्वा तु पाद्यं विधिवन् नमस्कृत्य द्विजोत्तमम् ॥

[५२६] पादौ प्रक्षाल्य तैलेन प्रेतस्य हितकाम्यया ।

प्रभातायां च शर्वर्याम् उदिते च दिवाकरे ॥
कारयित्वा श्मश्रुकर्म नखच्छेदस् ततः परम् ।
स्नापनाभ्यञ्जनं दद्याद् विप्राय विधिपूर्वकम् ॥
गृह्णीयाद् भूमिभागं च स्थण्डिलं तदनन्तरम् ।
निपानदेशं संगृह्य कर्तव्यं स्थण्डिलं महत् ॥
नदीकूले निवासे वा प्रेतभूमिं विनिर्दिशेत् ।
अकृत्वा भूमिभागं तु निर्गतं ये न कुर्वते ॥
तद् अध्वनि जगद् भद्रे तद् उच्छिष्टं कृतं भवेत् ।
न देवाः पितरस् तस्य गृह्णन्तीह कदाचन ॥
पतन्ति निरये घोरे तेनोच्छिष्टेन सुन्दरि ।
सतैलं स्नपनं कृत्वा गत्वा चैव महानदीम् ॥
तीर्थानि मनसा ध्यात्वा तैः स्वम् अभ्युक्षयेद् बुधः ।
एवं शुद्धिं ततः कृत्वा ब्राह्मणं शीघ्रम् आनयेत् ॥
आनीतं च द्विजं दृष्ट्वा कर्तव्या स्वागतक्रिया ।
अर्घ्यं पाद्यं ततः कृत्वा हृष्टतुष्टेन माधवि ॥
आसनं चोपकल्पेत मन्त्रेण विधिपूर्वकम् ॥

तथा ।

उपवेश्यासने भद्रे छत्रं तत्र प्रकल्पयेत् ॥

आवरणार्थं छत्रं तद् ब्राह्मणाय प्रदीयते ।

पश्चाद् उपानहौ दद्यात् पादस्पर्शकरे शुभे ।
संतप्तवालुकां भूमिम् असिकण्टकितां तथा ॥
संतारयति दुर्गाणि प्रेतं ददद् उपानहौ ।
तिलोपचारं कृत्वा तु विप्रस्य नियतात्मवान् ॥
नामगोत्रम् उदाहृत्य प्रेताय तदनन्तरम् ।
शीघ्रम् आह्वानयेद् भूमिं दर्भहस्तो ऽथ भूतले ॥

मन्त्रः ।

इमं लोकं परित्यज्य गतो ऽसि परमां गतिम् ।
एवम् आह्वाय तं गन्धपुष्पधूपान् समर्पयेत् ॥

देवलः ।

एकोद्दिष्टेषु सर्वेषु ब्राह्मणेभ्यः समुत्सृजेत् ।
**ततः कामं तु भुञ्जीत स्वयं मङ्गलभोजने ॥ [५२७]

एकोद्दिष्टेषु सर्वेष्व् इति नवश्राद्धाभिप्रायम् । तत्रावशिष्टम् अन्नं भोक्तृभ्य एव देयम् । मङ्गलभोजनं सांवत्सरिकैकोद्दिष्टावशिष्टम् । अत एव अङ्गिराः ।

नवश्राद्धेषु यच् छिष्टं ग्रहपर्युषितं च यत् ।
दम्पत्योर् भुक्तशिष्टं च तन् न भुञ्जीत कर्हिचित् ॥

बृहस्पतिः ।

चतुर्थे ऽहनि विप्रेभ्यो देयम् अन्नं हि बान्दवैः ।
गावः सवर्णं वित्तं च प्रेतम् उद्दिश्य शक्तितः ॥

चतुर्थे ऽस्थिसंचयनाह (?) इत्य् अर्थः ।

यद् इष्टं जीवतश् चासीत् तद् दद्यात् तस्य यत्नतः ।

तस्य जीवत इत्य् अन्वयः । सत्यव्रतः- “प्रातर् उत्थाय प्रेतब्राह्मणान् एकादशामन्त्र्यापराह्णे नानाभक्ष्यान्नरसविन्यासैर् एकैकम् उद्दिश्य विधिवत् पिण्डदानम् । वासो हिरण्यदास्युपानच्छत्रोदकुम्भदक्षिणाः । गुणवति पात्रे शय्याप्रदानं ततः स्वस्त्ययनादि धर्माः प्रवर्तन्ते दशम्याम् अतीतायाम् एकैकं तम् उद्दिश्य भोजयेत् । तेषाम् एवैकस्मै गुणवते शय्या” । विष्णुः- “द्वादशाहं श्राद्धं कृत्वा त्रयोदशे ऽह्नि वा कुर्यात्” । व्यासः ।

पुत्रः पत्नी च वपनं कुर्याद् अन्ते यथाविधि ।
पिण्डदानोचितो ऽन्यो ऽपि कुर्याद् इत्थं समाहितः ॥

तथा ।

अशौचान्तदिने क्षौरं जनन्यां च गुरौ तथा ।

संस्थितायां जनन्यां गुरौ संस्थित इत्य् अर्थः । स्मृत्यन्तरम् ।

नन्दायां बार्गवदिने चतुर्दश्यां त्रिपुष्करे ।
नवश्रद्धं न कुर्वीत गृही पुत्रधनक्षयात् ॥
एकादश्यां तु नन्दायां सिनीवाल्यां भृगोर् दिने ।
नभस्यस्य चतुर्दश्यां कृत्तिकासु त्रिपुष्करे ॥

यो नन्दायां निषेधः स एकादश्याम् एव । शुक्रे ऽमावास्यायाम् एव । चतुर्दश्यां भाद्रपदचतुर्दश्याम् एव । त्रिपुष्करे कृत्तिकास्व् एव । [५२८] बौधानयः- “संवत्सरं प्रेतपत्नी मधुमांसलवणानि वर्जयेत् । अधः शयीत षण्मासान् इति मौद्गल्यः” । अब्राह्मणीविषयम् एतत् । ब्राह्मणी तु सर्वकालम् एव मध्वाइ वर्जयेत् । प्रचेताः ।

प्रेतायान्नं सदा देयम् अब्दं वृत्तिविधानतः ।
एकोद्दिष्टविधानेन सर्वैः पुत्रैः प्रयत्नतः ॥
निनीयाश्मनि पूर्वं तु ततः श्राद्धं प्रकल्पयेत् ।
पश्चात् तु निनयेत् पूर्वं तस्मिन्न् एव यथाविधि ॥

हारीतः- “नाशिषः प्रतिगृह्णन्ति नान्नं विकिरेन् न स्वधां निनयेत् । पितृमन्त्रवर्जम् अश्नत्सु जपः ।

प्रदद्याद् दक्षिणां तेभ्यः सर्वेभ्यश् चानुपूर्वशः ।
यथाशक्ति प्रदद्याच् च गोभूहेमादिकं तथा ॥

नवानि भाण्डानि येष्व् अन्नं संस्क्रियते येषु भुज्यते तानि भुक्तवद्भ्यो दद्यात्” । तथा ।

नाग्नौकरणमन्त्राश् च एकं चात्र तिलोदकम् ।

प्राक्सपिण्डीकरणान्त एव स्वस्तीत्य् उक्त्वा नवेषु विसर्गः ।

अनुद्दिश्य हि प्रेताय सर्वं तत्रैव दीयते ॥ १.२५०, २५१ ॥

अथ सपिण्डीकरणम् आह

गन्धोदकतिलैर् युक्तं कुर्यात् पात्रचतुष्टयम् ।
अर्घ्यार्थां पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ १.२५२ ॥
ये समाना इति द्वाभ्यां शेषं पूर्ववद् आचरेत् ।
एतत् सपिण्डीकरणम् एकोद्दिष्टं स्त्रिया अपि ॥ १.२५३ ॥

गन्धैश् चन्दनादिभिर् उदकेन तिलैश् च युक्तं पात्रचतुष्टयं प्रेतादिभ्यो ऽर्घ्यं दातुं कुर्यात् । तत्र प्रेतायार्घ्यं दत्वा तत्पात्रस्थं जलं पितामहादिपात्रेषु त्रिषु “ये समानाः” इति द्वाभ्याम् अनुष्टुब्भ्यां प्रजापतिदृष्टाभ्यां यथाक्रमं पितृजीवदेवताभ्यां प्रसिञ्चेत् । शेषं तु कर्म ब्राह्मणनिमन्त्रणादि पार्वणवद् आचरेत् । एतदुक्तप्रकारं पितामहादिदै(दे)वत्यं पार्वणं प्रेतदै(दे)वत्यं चैकोद्दिष्टं श्राद्धं सपिण्डीकरणसंज्ञकं वेदितव्यम् । स्त्रिया अपि चैतत् कार्यं न पुनः पुरुषस्यैव । अत्र भविष्यत्पुराणम् । [५२९]

पात्राणि कृत्वा चत्वारि पूरयित्वा (?) तिलाम्बुभिः ।
त्रिष्व् एकं पितृपात्रेषु प्रसिञ्चेन् नामगोत्रतः ॥

शौनकः- “अथ सपिण्डीकरणं चत्वार्य् उदकपात्राणि । एकं प्रेतस्य त्रीणीतरेषां प्रथमं पात्रं त्रिषु पात्रेषु नियोजयेत् । समानीव (?) आकूतिर् इत्य् एवम् एव प्रथमं पिण्डं त्रिषु नियोजयेत् । मधुमतीभिः संगच्छतीति द्वाभ्याम् एव चतुर्थो ऽनुज्ञापितो भवति” इति । ब्रह्मपुराणम् ।

चतुर्भ्यश् चार्घ्यपात्रेभ्य एकं वामेन पाणिना ।
गृहीत्वा दक्षिणेनैव पाणिना च तिलोदकम् ॥
संसृजतु त्वा पृथिवी ये समाना इति स्मरन् ।
प्रेतविप्रस्य हस्ते तु चतुर्भागं जलं क्षिपेत् ॥
ततः पितामहादिभ्यस् तन् मन्त्रैश् च पृथक् पृथक् ।
ये समाना इति द्वाभ्यां तज् जलं तु समर्पयेत् ॥
अर्घ्यं तेनैव विधिना प्रेतपात्राच् च पूर्ववत् ।
तेभ्यश् चार्घ्यं निवेद्यैव पश्चाच् च स्वयम् आचमेत् ॥

पितामहादिभ्य इति वचनात् प्रेतशब्देनाचिरातीत उच्यते । न तु प्रपितामहस्य पितेति गम्यते ।

अथ तेनैव विधिना दर्भमूले ऽवनेजनम् ।
पितुर् दत्वा तु पिण्डं तु दद्याद् भक्त्या तु पूर्ववत् ॥
कृत्वा पिण्डम् अथाष्टाङ्गं ध्यात्वा तु वसुभास्वरम् ।
सुवर्णरूप्यदर्भैश् च तस्मिन् पिण्डे ततस् त्रिधा ॥
कृत्वा पितामहादिभ्यो विधिवच् चैतम् अर्पयेत् ।
संसृजतु त्वा पृथिवी वायुर् अग्निः प्रजापतिः ॥
एतं मन्त्रं जपेद् भक्त्या समानावर्तम् एव च ।
ये समाना इति द्वाभ्यां पितृभ्यः प्रेतम् अर्पयेत् ।
सुवर्तुलांस् ततस् तांस् त्रीन् पिण्डान् कृत्वा प्रपूजयेत् ॥
अर्घपुष्पैस् तथा धूपैर् दीपमाल्यानुलेपनैः ।
**मुख्यं तु पितरं कृत्वा पुनस् त्व अन्यान् यथाक्रमम् ॥ [५३०]

अत्र च पितुः पात्रं पिण्डं च मुख्यं प्रथमं कुर्यात् । तथा पितरि प्रेतशब्दः प्रयुक्त इति गम्यते । पितुः पात्रपिण्डौ पितामहादीनां पात्रेषु पिण्डेषु प्रक्षेप्तव्याव् इति प्रतीयते । ततश् च यैः कैश्चिद् उच्यते पितुर् यः प्रपितामहस् तदीयौ पात्रपिण्डौ त्रिधा कृत्वा पित्रादिपात्रपिण्डेषु निक्षेप्तव्याव् इति । तद् एतद् वचनविरुद्धत्वाद् उपेक्षणीयम् । शातातपवचनविरोधश् च । तथा हि ।

प्रेतानाम् इह स्रवेषां ये मन्त्रैश् च नियोजिताः ।
कृतार्थास् ते हि संवृत्ताः सपिण्डीकरणे कृते ॥
प्रेतत्वाच् चेह निस्तीर्णाः प्राप्ताः पितृगणं तु ते ॥ इति ।

प्रपितामह इदानीं क्रियमाणात् सपिण्डीकरणात् पितृत्वं [न] प्रतिपद्यते किं तु पूर्वम् एवासौ तथा संपन्नस् तस्मात् पितुर् एव प्रेतत्वविमुक्तिपूर्विका पितृत्वप्राप्तिः सपिण्डीपरणसाध्या । पितृत्वप्राप्तेश् च प्रयोजनम् उक्तं विष्णुपुराणे ।

ततः पितृत्वम् आपन्ने तस्मिन् प्रेते महीपते ।
श्राद्धधर्मैर् अशेषैस् तु तत्पूर्वान् अर्चयेत् पितॄन् ॥

न च चतुर्थपुरुषप्रमुखानां(णां) पितॄणां श्राद्धेष्व् अर्चनाधिकारो ऽस्ति तत्परेभ्यो ऽनधिकारात् । “न चतुर्थं पिण्डं गच्छति” इत्यादिनिषेधेभ्यः । विष्णुः ।

अर्वाक् सपिण्डीकरणात् प्रेतो भवति वै मृतः ।
प्रेतलोकं गतस्यान्नं सोदकुम्भं प्रयच्छत ॥
पितृलोकं गतस्यास्य श्राद्धं श्रद्धासमन्वितम् ।
पितृलोकं गतस्यापि तस्माच् छ्राद्धं प्रयच्छत ॥

इत्यादिवचनार्थपर्यालोचनवशाद् गम्यते — मृतस्य प्राक् सपिण्डीकरणात् को ऽप्य् अवस्थाविशेषः प्रेतशब्दप्रवृत्तिनिमित्तो भवतीति । सपिण्डीकर्णाद् ऊर्ध्वं तज्जन्यः पितृशब्दप्रवृत्तिनिमित्तभूतः को ऽप्य् अतिशयस् तत्र जात इति । यत् पुनः शातातपेनोक्तम्,

निरुप्य चतुरः पिण्डान् पिण्डदः प्रतिनामतः ।
ये समाना इति द्वाभ्याम् आद्यं तु विभजेत् त्रिधा ॥

इति, यत् तु (यच् च) लौगाक्षिवचनम्- “चतुर्थं पिण्डम् उत्सृज्य त्रैधं कृत्वा पिण्डेषु निदद्यात्” [५३१] इति, तद् उभयम् अप्य् अचिरातीतपित्रादिपिण्डविषयम् एव । तस्य पिण्डस्य पितामहादिपिण्डत्रयात् प्राग् ऊर्ध्वं वा प्रदानं विहितम् । तत्र यदा पूर्वं दीप्यते तदासाव् आद्यः । यदोर्ध्वं तदासाव् एव चतुर्थः । ततश् च “आद्यं तु विभजेत् त्रिधा,” “चतुर्थं पिण्डम् उत्सृज्य त्रैधं कृत्वा” इत्यादिवाक्यानि तद्विषयाण्य् एव । तत्रापि चिरातीतस्य पूर्वं पिण्डोदय इत्य् अभिप्रायेणात्र मुख्यं तु पितरं कृत्वेत्यादि पुराणवचनं प्रमाणम् । अत एव विष्णुः- “संवत्सरान्ते प्रेताय तत्पित्रे तत्पितामहाय तत्प्रपितामहाय च ब्राह्मणान् देवपूर्वान् भोजयेत्” इत्य् उक्तवान् । शातातपस् तु प्रेतपिण्डस्य पश्चात् प्रदेयताम् आह ।

सपिण्डीकरणं श्राद्धं देवपूर्वं नियोजयेत् ।
पितॄन् एवाशयेत् तत्र पुनः प्रेतं च निर्दिशेत् ॥ इति ।

उशनसा च,

सपिण्डीकरणे विप्रान् भोजयेत् पार्वणे यथा ।
पृथक् च कल्पयेद् अन्नम् एकोद्दिष्टविधानतः ॥

इत्य् उक्तम् । पुराणे ऽपि ।

श्राद्धद्वयम् अतिक्रम्य कुर्वीत सहपिण्डताम् ।
तयोस् त्रिपुरुषं पूर्वम् एकोद्दिष्टं ततः परम् ॥

पितामहादित्रयदै(दे)वत्यं त्रिपुरुषम् । अचिरादीतदै(दे)वत्यम् एकोद्दिष्टम् । अथ सपिण्डीकरणे ऽधिकारी निरूप्यते । तत्र पुराणम् ।

पुत्र एव सपिण्डत्वं पित्रोर् एव समाचरेत् ।
औरसः क्षेत्रजो वापि धर्म एव सनातनः ॥

एष मुख्यः शास्त्रार्थः । पुत्रासंभवे ऽन्येषाम् अप्य् अस्त्य् अधिकारः । अत एव पैठीनसिः ।

भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा ।
सपिण्डीकरणं कुर्यात् पुत्रहीने मृते सति ॥
सर्वबन्धुविहीनस्य पत्नी कुर्यात् सपिण्डनम् ।
ऋत्विजं कारयेद् वापि पुरोहितम् अथापि वा ॥

यत् तु सुमन्तुनोक्तम्,

सर्वबन्धुविहीनस्य पत्नी कुर्याद् अनिन्दिता ।
अथ वा शिष्यसब्रह्मऋत्विग्भृत्यपुरोहितैः ॥
कारयेत क्रियाः सर्वाः सपिण्डीकरणम् विना ।
**सपिण्डीकरणं पुत्रैः कार्यं नान्यैश् च निश्चितम् ॥ [५३२]

इति, तत् प्रवासादिवशात् सपिण्डीकरणासमर्थे पुत्रे सति वेदितव्यम् । सामर्थ्यलाभे सति तु कालात्यये ऽपि पुत्रेणैव कार्यम् । तद् उक्तं वायुपुराणे ।

श्राद्धानि षोडशापाद्य विदधीत सपिण्डताम् ।
पितुः पुत्रो विधानज्ञ इति पौराणिका विदुः ॥
श्राद्धानि षोडशादत्वा कुर्यान् न तु सपिण्डताम् ।
प्रोषितावसिते पुत्रः कालाद् अतिचिराद् अपि ॥

प्रोषितावसिते प्रवासावसाने पुत्रो ऽतिचाराद् अपि कालाद् यत् सपिण्डत्वं कुर्यात् तत् षोडश श्राद्धान्य् अदत्वा न कुर्यात् किं तु दत्वैवेत्य् अर्थः । यदि तानि भ्रात्रादिना दत्तानि तदा सपिण्डत्वम् एव कुर्यात् । तथा ।

अज्ञानाद् अथ वा मोहान् न कृता चेत् सपिण्डता ।
तत्रापि विधिवत् कार्या कालाद् अतिचिराद् अपि ॥

अज्ञानमोहौ सकलासामर्थ्योपलक्षणार्थौ । सुमन्तुः ।

सुतः सपिण्डीकरणं न कुर्याद् यदि मोहितः ।
यावज् जीवति दुःखार्तो मृतो नरकम् आप्नुयात् ॥

सुतग्रहणम् अधिकारिमात्रोपलक्षणार्थम् । पैठीनसिः ।

नवश्राद्धं सपिण्डत्वं श्राद्धान्य् अपि च षोडश ।
एकेनैव तु कार्याणि संविभक्तधनेष्व् अपि ॥
विभक्तैस् तु पृथक् कार्यं प्रतिसंवत्सरादिकम् ।
एकेनैवाविभक्तेषु कृते सर्वैस् तु तत् कृतम् ॥

कात्यायनः ।

पितामहः पितुः पश्चात् पञ्चत्वं यदि गच्छति ।
पौत्रेणैकादशाहादि कर्तव्यं श्राद्धषोडशम् ॥
न तत्पौत्रेण कर्तव्यं पुत्रवांश् चेत् पितामहः ।
पितुः सपिण्डतां कृत्वा कुर्यान् मासानुमासिकम् ॥
असंस्कृतौ न संस्कार्यौ पूर्वौ पौत्रप्रपौत्रकैः ।
पितरं तत्र संस्कुर्याद् इति कात्यायनो ऽब्रवीत् ॥
पापिष्ठम् अपि शुद्धेन शुद्धं पापकृतापि वा ।
पितामहेन पितरं संस्कुर्याद् इति निश्चयः ॥

असंस्कृताव् असपिण्डितौ पितामहप्रपितामहौ पौत्रेण प्रपौत्रेण च न [५३३] संस्कार्यौ न सपिण्डनीयाव् इत्य् अर्थः । एतच् च प्रत्यासन्ने सपिण्डीकरणकर्तरि सति द्रष्टव्यम् । असति तु पौत्रादिः कुर्याद् एव सपिण्डत्वात् । पापिष्ठम् अपि शुद्धेनेति पतितादिव्यतिरिक्तविषयम् । तथा च सपिण्डीकरणानुवृत्तौ बैजवापः- “अभिशप्तपतितभ्रूणघ्नान् स्त्रीर् अभिचारिणीर् नातिदिशेत् । अतिदेशः सपिण्डनम् । गौतमः- “पापकर्मिणो न संसृजेरन् स्त्रियश् चाभिचारिणीः” । अथ पतितान् इत्य् अधिकृत्याह वृद्धयाज्ञवल्क्यः ।

सर्पविप्रहतानां च शृङ्गिदंष्ट्रिसरीसृपैः ।
आत्मनस् त्यागिनां चैव श्राद्धम् एषां न कारयेत् ॥

[*श्राद्धम् और्ध्वदैहिकादि]

छागलेयः ।

चण्डालाद् उदकात् सर्पाद् ब्राह्मणाद् वैद्युताद् अपि ।
दंष्ट्रिभ्यश् च पशुभ्यश् च मरणं पापकर्मिणाम् ॥
उदकं पिण्डदानं च प्रेतेभ्यो यत् प्रदीयते ।
नोपतिष्ठति तत् सर्वम् अन्तरिक्षे विनश्यति ॥

तर्हि प्रेतत्वविमोक्ष उदपिण्डदानादिप्राप्तौ चोपायम् आह ।

नारायणबलिः कार्यो लोकगर्हाभयान् नरैः ।
ततस् तेभ्यो ऽपि दातव्यम् अन्नम् एवं सदक्षिणम् ॥

तत इति नारायणबलिकरणाद् अनन्तरम् इत्य् अर्थः । वृद्धयाज्ञवल्क्यः ।

नारायणं समुद्दिश्य शिवं वा यत् प्रदीयते ।
तस्य शुद्धाव् अह्ं चैव तद् भवेन् न तद् अन्यथा ॥

संग्रहात् ।

प्रेतम् उद्दिश्य यत् कार्यं कुर्यान् नारायणाय तत् ।
शिवाय वोदकश्राद्धपिण्डनिर्वपणादिकम् ॥

यमः ।

चण्डालैस् तु हता ये च शृङ्गिदंष्ट्रिसरीसृपैः ।
श्राद्धम् एषां न कर्तव्यं ब्रह्मदण्डहताश् च ये ॥
महापातकिनां चैव तथा चैवात्मघातिनाम् ।
उदकं पिण्डदानं च श्राद्धं चैव तु यत् कृतम् ॥
**नोपतिष्ठति तत् सर्वं राक्षसैर् विप्रलुप्यते ॥ [५३४]

स्मृत्यन्तरम् ।

विद्युद्गोनृपविप्राम्बुशृङ्गिदंष्ट्र्यग्निघातिताः ।
वृथोत्पन्नमहाक्लीबव्रतिनो नोदभाजनाः ॥

उदभाजना अर्घ्योदकसंसर्गभाजना इत्य् अर्थः । तथा ।

ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते ।
व्युत्क्रमाच् च मृते देयं येभ्य एव ददात्य् असौ ॥

सङ्गवर्जितो भिक्षुः । स्मृत्यन्तरात् ।

स्वेच्छया मरणं विप्र शृङ्गिदंष्ट्रिसरीसृपैः ।
अन्त्यान्त्यजविषोद्बन्धैर् आत्मना चैव ताडनैः ॥
संपूर्णसर्वगात्राणां विषाद् आकर्षतो ऽथ वा ।
जलाग्निश्वभ्रपातैश् च निराहारादिभिस् तथा ॥
येषाम् एव भवेत् ते वै कथिताः पापकर्मणि ।
पाषण्डम् आश्रिताश् चैव महापातकिनस् तथा ॥
स्त्रियश् च व्यभिचारिण्य आरूढपतितास् तथा ।
न तेषां स्नानसंस्कारो न श्राद्धं न सपिण्डनम् ॥
श्राद्धानि षोडशोक्तानि नान्यान्य् अपि भवन्ति हि ॥

निराहारत्वम् अत्र रोषवशात् पापिपदकारं न पुनर् दारिद्र्यभावात् । आरूढपतिता दशदिनाभ्यन्तर एव मृता योषितः ।

वैतानं प्रक्षिपेत् तोये गृह्याग्निं च चतुष्पथे ।
पात्राणि दाहयेद् अग्नौ यजमाने वृथा मृते ॥

साग्निके पापकर्मणीति पाठः ।

पूर्णे संवत्सरे तेषाम् अथ कार्यं दयालुभिः ।
एकादशीं समासाद्य शुक्लपक्षस्य वै तिथिम् ॥
विष्णुं यमं च संपूज्य गन्धपुष्पादिभिस् तथा ।
दश पिण्डान् घृताभ्यक्तान् दर्भेषु मधुसंयुतान् ॥
यज्ञोपवीती सतिलान् द्यायन् विष्णुं यमं तथा ।
दक्षिणाभिमुखस् तूष्णीम् एकैकं निर्वपेत् तु तम् ॥
उद्धृत्य नियतः पिण्डांस् तीर्थाद्यम्भसि निक्षिपेत् ।
क्षिपंस् तान् कीर्तयेन् नाम गोत्रं तु मृतकस्य तु ॥
पुनर् अभ्यर्चयेद् विष्णुं यमं कुसुमचन्दनैः ।
धूपदीपैश् च नैवेद्यैर् भक्ष्यभोज्यसमन्वितैः ॥

[५३५] ततश् चोपवसेद् अह्नि विप्रांश् चैव निमन्त्रयेत् ।

कुलविद्यातपोयुक्तान् रूपशीलसमन्वितान् ॥
नव सप्ताथ वा पञ्च स्वसामर्थ्यानुसारतः ।
अपरे ऽहनि संप्राप्ते मध्याह्ने सुसमाहितः ॥
विष्णोर् अभ्यर्चनं कृत्वा विप्रांस् तान् उपवेशयेत् ।
उदङ्मुखान् यथाज्येष्ठं पितृरूपम् अनुस्मरन् ॥
मनो निवेश्य विष्णौ च सर्वं कुर्याद् अतन्द्रितः ।
आवाहनादि यत् प्रोक्तं दैवपूर्वं तु तद् भवेत् ॥
तृपाञ् ज्ञात्वा ततो विप्रांस् तृप्तिं पृष्ट्वा यथाविधि ।
हविष्यव्यञ्जनेनैव तिलादिसहितेन च ॥
एवं पिण्डान् प्रदद्याद् वै दैवं रूपम् अनुस्मरन् ।
प्रथमं विष्णवे दद्याद् ब्रह्मणे च शिवाय च ॥
यमाय सपरिवाराय चतुर्थं पिण्डम् उत्सृजेत् ।
मृतं संकीर्त्य मनसा गोत्रपूर्वं ततः परम् ॥
विष्णोर् नाम गृहीत्वैवं पञ्चमं पूर्ववत् क्षिपेत् ।
विप्रान् आचामयित्वा तु दक्षिणाभिः समर्चयेत् ॥
एकं वृद्धतमं विप्रं हिरण्येन प्रपूजयेत् ।
गवा वस्त्रेण भूम्या च प्रेतस्य मनसा स्मरन् ॥
ततस् तिलाम्भो विप्रास् तु हस्तैर् दर्भसमन्वितैः ।
क्षिपेयुर् गोत्रम् उद्दिश्य नाम बुद्धौ निवेश्य च ॥
बहिर् गत्वा तिलाम्भस् तु तस्मै दद्यात् समाहितः ।
मित्रबन्धुजनैः सार्धं पश्चाद् भुञ्जीत वाग्यतः ॥
एवं विष्णुमते स्थित्वा यो दद्याद् आत्मघातिने ।
समुद्धरति तं क्षिप्रं नात्र कार्या विचारणा ॥

वायुपुराणे ।

शुक्लपक्षे तु द्वादश्यां कुर्याच् छ्राद्धं तु वत्सरम् ।
द्वादशाहनि वा कुर्याच् छुक्ले च प्रथमे ऽहनि ॥

स्मृत्यन्तरम् ।

यदैव शुध्यति प्रेतो नारायणबलौ कृते ।
तदैव पापनिर्मुक्तः क्रियार्हो जायते तु सः ॥
तदैव स्मरणं तस्य यस्मिन्न् अहनि शुध्यति ।
सुतैर् अन्नप्रदानेन विष्णोः संसमरणक्रमात् ॥

[५३६] यो ददाति क्रियापिण्डं तस्मै प्रेताय वै सुतः ।

तस्यैवाशौचम् उद्दिष्टं त्र्यहम् एव न संशयः ॥
विष्णुश्राद्धसमाप्तौ तु त्रयोदश्यां दिनत्रयम् ।
आशौचं पिण्डदः कुर्यान् न तु तद्बन्धुगोत्रजाः ॥

एवं च प्रतिषिद्धश्राद्धानां मध्ये केषांचिद् आत्मघातकादीनां नारायणबलिर् उक्तः । तत्र ये विधित आत्मानं घातयन्ति तेषां न श्राद्धप्रतिषेधो नापि नारायणबलिविधिः । विधिनिषेधविरोधतो ऽप्रतिषिद्धस्य चाप्रत्यवायकरत्वात् । प्रत्यवायकरणस्य मरणस्य श्राद्धप्रतिषेधादिनिमित्तता । तथा च ब्रह्मगर्भः ।

यो जीवितुं न शक्नोति महाव्याध्युपपीडितः ।
सो ऽग्न्युदकमहायात्रां कुर्वन् नामुत्र दुष्यति ॥

विवस्वान् ।

सर्वेन्द्रियविरक्तस्य वृद्धस्य कृतकर्मणः ।
व्याधितस्येच्छया तीर्थे मरणं तपसो ऽधिकम् ॥

तथा गार्ग्यो ऽपि गृहस्थम् अधिकृत्याह ।

महाप्रस्थानगमनं ज्वलनाम्बुप्रवेशनम् ।
भृगुप्रपतनं चैव वृथा नेच्छेत् तु जीवितम् ॥

भृगुः पर्वतकटकः । वृथा धर्मानुष्ठानशून्यम् । मनुस् तु वानप्रस्थम् अधिकृत्याह ।

अपराजितां चास्थाय व्रजेद् दिशम् अजिह्मगः ।
आ निपाताच् छरीरस्य युक्तो वार्यनिलाशनः ॥

अपराजिता पूर्वोत्तरेशानदिक् ताम् आ शरीरपाताद् अकुटिलं जलम् अनिलं वा भक्षयन् समाहितो व्रजेत् ।

आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् ।
वीतशोकभयो विप्रो ब्रह्मभूयाय कल्पते ॥

नागसर्पहतं प्रति कार्यविशेष उक्तः स्मृत्यन्तरे ।

प्रमादाद् इच्छया वापि नागाद् वा सर्पतो मृतः ।
पक्षयोर् उभयोर् नागान् पञ्चमीषु प्रपूजयेत् ॥
कुर्यात् पिष्टमयीं लेखां नागप्रतिकृतिं भुवि ।
अर्चयेत् तां सितैः पुष्पैः सुगन्धैश् चन्दनेन तु ॥
प्रदद्याद् धूपदीपौ च तण्डुलांश् च सितान् क्षिपेत् ।
आमम् इष्टं तथैवान्नं क्षीरं च विनिवेदयेत् ॥

[५३७] उपस्थाय वदेद् एवं मुञ्च मुञ्चामुकं त्व् इह ।

मधुरं तद् दिने दद्याद् एवम् अब्दं समाचरेत् ॥
सौवर्णं शक्तितो नागं ततो दद्याद् द्विजन्मने ।
गां सवत्सां ततो दद्याद् इत्य् आज्ञा गारुडी तथा ॥
यथाविभागं कर्माणि नागार्थं यत्नतो नरः ।
द्विजान् विमोक्षयित्वा तु सुप्रीताः सन्तु पन्नगाः ॥

षट्त्रिंशन्मतात् ।

पितुः पुत्रेण कर्तव्यं न कुर्वीत पिता सुते ।
अतिस्नेहेन कुर्वीत सपिण्डीकरणं विना ॥

ब्रह्मपुराणे ।

मृते पितरि यस्याथ विद्यते च पितामहः ।
तेन देवास् त्रयः पिण्डाः प्रपितामहपूर्वकाः ॥
तेभ्यस् तु पैतृकं पिण्डो नियोक्तव्यस् तु पूर्ववत् ।
मातर्य् अथ मृतायां च विद्यते च पितामही ॥
प्रपितामहीपूर्वकं तु कार्यस् तत्राप्य् अयम् विधिः ॥

यत् तु,

व्य्त्क्रमाञ् च मृतानां तु नैव कार्या सपिण्डता ॥

इति वचनम्, तन् मातापितृव्यतिरिक्तप्रेतविषयम् । छन्दोगपरिशिष्टे कात्यायनः ।

न योषिद्भ्यः पृथग् दद्याद् अवसानदिनाद् ऋते ।
सवभर्तृपिण्डमात्राभ्यस् तृप्तिर् आसां यतः स्मृता ॥

तथा ।

पितामहः पितुः पश्चात् पञ्चत्वं यदि गच्छति ।
पौत्रेणैकादशाहादि कर्तव्यं श्राद्धषोडशम् ॥
नैतत् पौत्रेण कर्तव्यं पुत्रवांश् चेत् पितामहः ।
पितुः सपिण्डतां कृत्वा कुर्यान् मासानुमासिकम् ॥
असंस्कृतौ न संस्कार्यौ पूर्वौ पौत्रप्रपौत्रकैः ।
पितरं तत्र संस्कुर्याद् इति कात्यायनो ऽब्रवीत् ॥
पापिष्ठम् अपि शुद्धेन शुद्धं पापकृतापि वा ।
पितामहेन पितरं संस्कुर्याद् इति निश्चयः ॥

पूर्वौ पितामहौ यत्र केनापि निमित्तेनासंकृताव् अकृतसपिण्डीकरणौ तत्रापि ताभ्यां सह पितरं संस्कुर्यात् सपिण्डयेद् इत्य् अर्थः । वाजसनेययज्ञवार्श्वः । [५३८]

होमान्तः पितृयज्ञः स्याज् जीवे पितरि जानतः ।
पितरं भोजयित्वा वा पिण्डौ निपृणुयात् परौ ॥
येभ्यः पिण्डं पिता दद्यात् तेभ्यः पुत्रोऽपि दापयेत् ।
जीवे पितरि नो दद्याद् इत्य् एषा नैगमी श्रुतिः ॥
जीवेत् पितामहो यस्य पिता चान्तरितो भवेत् ।
पितुर् एकस्य दातव्यम् एवम् आहुर् मनीषिणः ॥
यस्य प्रमीतौ द्वौ स्यातां जीवेच् च प्रपितामहः ।
पिण्डौ निपृणुयात् पूर्वौ भोजयेत् प्रपितामहम् ॥

षट्त्रिंशन्मतात् ।

पित्रा श्राद्धं न कर्तव्यं पुत्राणां च कथंचन ।
भ्रात्रा तु नैव कर्तव्यं भ्रातॄणां च यवीयसाम् ॥

वृद्धवसिष्ठः ।

यतीनां तु न संसर्गः कर्तव्यो ऽत्र सुतैः सदा ।
त्रिदण्डग्रहणाद् एव प्रेतत्वं नोपपद्यते ॥

दण्डापूपिकान्यायेनैतन् मन्तव्यम् । यस्य प्रेतत्वं नास्ति तस्य मरणे ऽशौचशङ्कैव केति । प्रजापतिः ।

सपिण्डीकरणं न स्याद् यतीनां चैव सर्वदा ।
अहन्य् एकादशे प्राप्ते पार्वणम् तु विधीयते ॥

बृहस्पतिः ।

नवश्राद्धं यतेर् न स्यात् सपिण्डीकरणं तथा ।
अहन्य् एकादशे प्राप्ते कुर्यात् तस्य तु पार्वणम् ॥

अत्र नवश्राद्धग्रहणम् अशेषप्रेतत्वविमुक्त्यर्थकर्मोपलक्षणार्थम् । तथा च शातातपः ।

एकोद्दिष्टं जलं पिण्डम् अशौचं प्रेतसत्क्रियाम् ।
न कुर्यात् पार्वणाद् अन्यद् ब्रह्मीभूताय भिक्षवे ॥

ब्रह्मीभूतो ब्रह्माहम् अस्मीत्य् उपासकः । अथ कालाः । तत्र भविष्यत्पुराणम् ।

सपिण्डीकरणं कुर्याद् यजमानो ह्य् अनग्निमान् ।
अनाहिताग्नेः प्रेतस्य पूर्णे ऽब्दे भतर्षभ ॥
निरग्निः सहपिण्डत्वं पितुर् मातुश् च धर्मतः ।
**पूर्णे संवत्सरे कुर्याद् वृद्धिर् वा यद् अहर् भवेत् ॥ [५३९]

कर्तुर् उद्देश्यस्य च निरग्नित्वे निमित्ते कालो ऽत्र नियम्यते तस्य कर्माङ्गत्वेन विधेयत्वात् । यत् तु काले कर्म विधीयते न कर्मणि काल इति न्यायविद्वचनं तद् अनुपादेयत्वाभिप्रायम् । न पुनर् अविधेयत्वपरम् । तथा सति तस्याङ्गत्वं न स्यात् । न ह्य् अविहितम् अङ्गं भवतीति । वृद्धिर् अभ्युदयः । उशना ।

पितुः सपिण्डीकरणं वार्षिके मृतवत्सरे ।
आधानाद्युपसंप्राप्ताव् एतत् प्राग् अपि वत्सरात् ॥

लघुहारीतः ।

भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा ।
सहपिण्डक्रियां कृत्वा कुर्याद् अभ्युदयं ततः ॥

सुमन्तुः ।

अनग्निस् तु यदा वीर भवेत् कुर्यात् तदा गृही ।
प्रेतश् चेद् अग्निमांस् तु स्यात् त्रिपक्षे वै सपिण्डनम् ॥

अत्रापि पूर्ववत् कालनियमः । अनग्निर् यदा गृही भवेद् इत्य् अन्वयः । श्राद्धकर्ता गृही । तथा ।

यजमानाग्निमान् राजन् प्रेतश् चानग्निमान् भवेत् ।
द्वादशाहे भवेत् कार्यं सपिण्डकरणं सुतैः ॥

जाबालिः ।

सपिण्डीकरणं कुर्यात् पूर्वे दर्शे ऽग्निमान् सुतः ।
परतो दशरात्रस्य पूर्णे ऽब्दे तु तथा परः ॥

दशरात्रग्रहणम् अशौचकालोपलक्षणार्थम् । कात्यायनः ।

एकादशाहं निर्वर्त्य पूर्वं दर्शाद् यथाविधि ।
प्रकुर्वीताग्निमान् विप्रो मातापित्रोः सपिण्डनम् ॥

हारीतः ।

या तु पूर्वम् अमावस्या मृताहाद् दशमाद् भवेत् ।
सपिण्डीकरणं तस्यां कुर्याद् एवं सुतो ऽग्निमान् ॥
नासपिण्ड्य् अग्निमान् पुत्रः पितृयज्ञं समाचरेत् ।
न पार्वणं नाभ्युदयं कुर्वन् न लभते फलम् ॥

अस्ति हि पुत्रिकापुत्रस्य पार्वणश्राद्धे मातुर् देवतात्वम्,

मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः ।

इत्यादिवचनात् । इतरस्यापि माता पार्वणश्राद्धादौ पितृवत् तृप्तिम् उपैतीति गम्यते । उक्तं हि ।

स्वेन भर्त्रा समं श्राद्धं माता भुङ्क्ते स्वधासमम् ।
**पितामही च स्वेनैव स्वेनैव प्रपितामही ॥ इति [५४०]

न चानुद्देश्यमानायास् तत् संभवतीति साप्य् उद्देश्या । उद्देशे च सा सहभावेनैव निविशते न मुख्यत्वेन । तेनोत्पत्तिशिष्टे ऽपि पित्रादिदेवतात्वे स्त्रीणाम् अपि देवतात्वम् अविरुद्धम् । ततश् च प्राग् दर्शान् मातुर् अपि सपिण्डीकरणविधानं युज्यते । एवं श्राद्धेषु सपत्नीकाः पितृपितामहप्रपितामहा उद्देश्¥आ इत्य् अपि सिद्धम् । सपिण्डीकरणं कर्तव्यम् इत्य् अनुवृत्तौ विष्णुः- “मन्त्रवर्जं हि शूद्राणां द्वादशे ऽह्नि” । अमावास्याश्राद्धकातिशूद्रविषयम् एतत् । वचनबलाद् अशौचमध्य् एव श्राद्धकरणम् । एवं च साग्निकस्य कर्तुः सपिण्डीकरणकालास् त्रय उक्ता भवन्ति । द्वादशाहः । तथाशौचान्तप्रथमदर्शयोर् मध्ये किम् अप्य् अहः । तथाशौचानन्तरं प्रथमो दर्श इति । अनग्नेस् तु चत्वारः कालाः । यद् आह गोभिलः- “पूर्णे संवत्सरे षण्मासे त्रिपक्षे वा यद् अहर् वा वृद्धिर् आपद्येत” । पैठीनसिः ।

सपिण्डीकरणं पुत्रः पितुः कुर्वीत यो ऽग्निमान् ।
अनग्नेस् तु क्रिया नान्या एकोद्दिष्टाद् ऋते क्वचित् ॥

एतद् अनग्नेः संवत्सरान्ते सपिण्डीकरणं करिष्यतः प्रथमसंवत्सरवर्तिश्राद्ध्विषयम् । वृद्धवसिष्ठः ।

श्राद्धानि षोडशादत्त्वा नैव कुर्यात् सपिण्डनम् ।
तद्धानौ तु कृते प्रेतः पितृत्वं न प्रपद्यते ॥

एतद् अपि पूर्वेण समानविषयम् । विषयान्तरे तु लौगाक्षिर् आह ।

यस्य संवत्सराद् अर्वाक् सपिण्डीकरणं भवेत् ।
मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ॥ इति ।

यत् हारीतेनोक्तम्- “मुख्यं श्राद्धं मासि मासि अपर्याप्तावृत्तं प्रति द्वादशाहेन वा भोज्या एकाहे द्वादशापि वा” इति, तद् असमर्थविषयम् । अपकृष्येत्य् अनुवृत्ताव् आह उशना ।

वृद्धिश्राद्धविहीनस् तु प्रेतश्राद्धानि यश् चरेत् ।
स श्राद्धी नरके घोरे पितृभिः सह पच्यते ॥

अनुपजातायां वृद्धौ यः प्रेतश्राद्धान् अपकर्षेद् इत्य् अर्थः । समर्थविषयं चैतत् । शाट्यायनिः ।

प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा ।
**अपकृष्यापि कुर्वीत कर्तुं नान्दीमुखं द्विजः ॥ [५४१]

अथ मातृसपिण्डीकरणम् । तत्र वृद्धशातातपः ।

मातुः सपिण्डीकरणं कथं कार्यं सुतैर् भवेत् ।
पितामह्या सहैवास्याः सपिण्डीकरणं स्मृतम् ॥

गार्ग्यः ।

पत्यैवैकेन कर्तव्यं सपिण्डीकरणं स्त्रियाः ।
सा मृतापि हि तेनैक्यं गता मन्त्राहुतिव्रतैः ॥

सुमन्तुः ।

पिता पितामहे योज्यः पूर्णे संवत्सरे सुतैः ।
माता मातामहे तद्वद् इत्य् आह भगवाञ् शिवः ॥

यमः ।

जीवत्पिता पितामह्या मातुः कुर्यात् सपिण्डनम् ।
प्रमीतपितृकः पित्रा तत्पित्रा पुत्रिकासुतः ॥

तत्पित्रा मातुः पित्रेत्य् अर्थः । पितुः पितामह्याश् चाभावे व्यवस्थाम् आह शातातपः ।

मृता यानुगता नाथं सा तेन सह पिण्डताम् ।
अर्हति स्वर्गवासं च यावद् आभूमिसंप्लवम् ॥ इति ।

एवं च सत्य् अन्वारूढविषये जीवन्त्याम् अजीवन्त्यां वा पितामह्यां पित्रैव सह मातुः सपिण्डनं कार्यम् । अन्यदा तु तत्पित्रा पितामह्या वेति सिद्धम् । यदि पुनः प्रेते पितरि तेनैव सपिण्डनं स्यात् तदान्वारूढविषयं वचनम् अनर्थकं भवेत् । तस्य त्व् अन्वारूढा भर्त्रैव सह सपिण्डनीयेति नियामकत्वेनार्थवत्त्वे सति प्रमीतपितृकः पित्रेतिवचनं न नियमपरं शक्यते वक्तुम् इत्य् अनियमसिद्धिः । यत् तु,

मृते पितरि मातुस् तु न कुर्यात् सहपिण्डताम् ।
पितुर् एव सपिण्डत्वे तस्या अपि कृतं भवेत् ॥

इति, तच् चेत् समूलं स्यात् तदापद्विषयतया नेयम् । लघुहारीतः ।

पुत्रेणैव तु कर्तव्यं सपिण्डीकरणं स्त्रियाः ।
पुरुषस्य पुनस् त्व् अन्ये भ्रातृपुत्रादयो ऽपि ये ॥

मार्कण्डेयपुराणम् ।

स्त्रीणाम् अप्य् एवम् एवैतद् एकोद्दिष्टम् उदाहृतम् ।
सपिण्डीकरणं तासां पुत्राभावे न विद्यते ॥

भर्तुर् अभाव एतत् । यद् आह पैठीनसिः ।

अपुत्रायां मृतायां तु पतिः कुर्यात् सपिण्डनम् ।
**श्वश्र्वादिभिः सहैवास्याः सपिण्डीकरणम् भवेत् ॥ [५४२]

शातातपः ।

तन्मात्रा च पितामह्या तच्छ्वश्र्वा तु सपिण्डनम् ।
आसुरादिविवाहेषु विन्नानां योषितां स्मृतम् ॥

तन्मात्रा मातुर् मात्रेत्य् अर्थः । पितामही च मातुर् एव । अथ मातुर् गोत्रनिर्णयः । तत्र बृहस्पतिः ।

भर्तुर् गोत्रेण नाम्ना च मातुः कुर्यात् सपिण्डनम् ।
तूष्णीं दम्पतिपिण्डाभ्यां कुशौर् अन्तरयन् पितॄन् ॥

अन्तरयंस् तिरोदधानः । शातातपः ।

कुर्याद् गोत्रेण दौहित्रो मातुलेनावनेजनम् ।
पिण्डनिर्वपणं चैव मातुर् मातामहस्य च ॥

अवनेजनं जलदानम् । यद् आह लौगाक्षिः ।

मातामहस्य गोत्रेण मातुः पिण्डोदकक्रियाम् ।
कुर्वीत पुत्रिकापुत्र एवम् आह प्रजापतिः ॥

मार्कण्डेयः ।

ब्राह्मादिषु विवाहेषु या तूढा कन्यका भवेत् ।
भर्तृगोत्रेण कर्तव्यास् तस्याः पिण्डोदकक्रियाः ॥
आसुरादिविवाहेषु पितृगोत्रेण धर्मवित् ॥

मातुः पितृगोत्रेणेत्य् अर्थः । व्यासः ।

पत्या सहैकता तावद् यावत् पुत्रो न जायते ।
पुत्रिकायाः सुतोत्पत्तौ तस्यैकत्वं निवर्तते ॥ १.२५२, २५३ ॥
अर्वाक् सपिण्डीकरणं यस्य संवत्सराद् भवेत् ।
तस्याप्य् अन्नं सोदकुम्भं दद्याद् वर्षं द्विजन्मने ॥ १.२५४ ॥

संवत्सराद् अर्वाग् इति संबन्धः । वर्षम् इत्य् अत्यन्तसंयोगे द्वितीया । यस्यापि प्रेतस्य संवत्सरपूर्तेः पूर्वम् एव द्वादशाहादौ सपिण्डीकरणं भवेत्, तस्यापि संवत्सरं यावत् सोदकुम्भम् अन्नं द्विजे दद्यात् । तस्येति षष्ठी चतुर्थ्यर्थे द्विजन्मन इति चतुर्थी सम्यक् संप्रदानार्था । दद्यात् संवत्सरं द्विज इति पाठे सप्तमी यथार्था, श्राद्धे ब्राह्मणस्याहवनीयार्थत्वात् । संवत्सरम् इति चात्यन्तसंयोगे द्वितीया । अतः संवत्सरं यावत् प्रत्यहम् अन्नं देयम् । तथा च आपस्तम्बः ।

यस्य संवत्सराद् अर्वाक् सपिण्डीकरणं कृतम् ।
**अब्दम् अम्बुघटं दद्यात् प्रत्यहं त्व् अन्नसंयुतम् ॥ [५४३]

यल् लघुहारीत आह ।

सपिण्डीकरणे वृत्ते पृथक्त्वं नोपपद्यते ।
पृथक्त्वे तु कृते पश्चात् पुनः कार्या सपिण्डता ॥

शातातपः ।

सपिण्डीकरणाद् ऊर्ध्वं यत्र यत्र प्रदीयते ।
तत्र पार्वणवच् छ्राद्धं ज्ञेयम् अभ्युदयाद् ऋते ॥ इति ।

तस्यायम् अपवादः । तस्याप्य् अन्नं सोदकुम्भम् इत्य् एकवचनश्रवणात् । अपिशब्दात् संवत्सरान्ते सपिण्डीकरणे ऽप्य् एतत् कार्यम् ॥ १.२५४ ॥

अपरम् अप्य् अपवादम् आह

मृताहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवमाद्यम् एकादशे ऽहनि ॥ १.२५५ ॥

यन् मृताहनि संवत्सरं यावत् प्रतिमासं यच् च तत्रैवाहनि प्रतिवर्षं यच् चाद्यं यच् चैकादशे ऽहनि श्राद्धं तद् एवं कार्यम् । एकोद्दिष्टविधानेनेत्य् अर्थः । आद्यशब्देन नवश्राद्धान्य् उच्यन्ते । मासिकानाम् आब्दिकस्य चैकोद्दिष्टत्वं न नित्यं पार्वणवद्भावस्यापि विधानात् । यद् आह जातूकर्ण्यः ।

पितुः पितृगणस्थस्य कुर्यात् पार्वणवत् सुतः ।
प्रत्यब्दं प्रतिमासं च विधिर् ज्ञेयः सनातनः ॥

पितृगणस्थः सपिण्डितः । तत्र मासिकेषु [न] व्यवस्थितविकल्पो व्यवस्थाकपाभावात् । अत एवाह कात्यायनः ।

सपिण्डीकरणाद् ऊर्ध्वं न दद्यात् प्रतिमासिकम् ।
एकोद्दिष्टविधानेन दद्याद् इत्य् आह शौनकः ॥
अत्रैकोद्दिष्टविधानेन मासिकं दद्याद् इत्य् एकः कल्प उक्तः । न दद्याद् इत्य् अपरः । सांवत्सरिकश्राद्धे तु व्यवस्थितविकल्पः । तत्र क्षेत्रजौरसपुत्रिकापुत्राणाम् अग्निमत्त्वं पार्वणवत्त्वे व्यवस्थापकम् । तथा श्राद्धोद्देश्यस्यामावास्यायां प्रेतपक्षे वा मृतत्वं यतित्वं वा येन केनचित् क्रियमाणस्य श्राद्धस्य पार्वणवत्त्वव्यवस्थापकम् । शस्त्रहतश्राद्धस्य कृष्णचतुर्दश्यां क्रियमाणत्वं सर्वम् एव कर्तारं प्रत्येकोद्दिष्टत्वव्यवस्थापकम् । तथा कर्तुर् उद्देश्यस्य वानग्नित्वं तथाग्निमतो ऽपि कर्तुर् औरसक्षेत्रजपुत्रिकापुत्रव्यतिरिक्तत्वम् एकोद्दिष्टत्वव्यवस्थापकम् । मृताहिकाद् अन्यत् संक्रान्त्युपरागमहालयादिकालविहितं तत्रैकोद्दिष्टतया विधिर् एव नास्तीति तत् पार्वणवद् एव कार्यम् । एतां च व्यवस्थाम् आहुर् मुनयः । तत्र तावज् जातूकर्ण्यः ।

[५४४] प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजौरसौ ।

कुर्याताम् इतरे कुर्युर् एकोद्दिष्टं सुता दश ॥

कार्ष्णाजिनिः ।

अग्निप्रधानं पार्वणेनैव विधिना क्षेत्रजौरसौ ।
कुर्याताम् इतरे कुर्युर् एकोद्दिष्टं सुता दश ॥

कार्ष्णाजिनिः ।

अग्निप्रधानं सर्वेषाम् अनुष्ठानं गृहाश्रमे ।
तद् योगात् कृतसाहाय्यः सर्वत्रार्हति पार्वणम् ॥
निरग्नेर् औरसस्योक्तम् एकोद्दिष्टं मृताहनि ।
प्रत्यब्दं पार्वणं साग्नेर् अन्येषां न तु पार्वणम् ॥

यत् तु स्मृत्यन्तरम्,

बह्वग्नयस् तु ये विप्रा ये चैकाग्नय एव च ।
तेषां सपिण्डनाद् ऊर्ध्वम् एकोद्दिष्टं न पार्वणम् ॥

इति, तत् क्षेत्रजादिव्यतिरिक्तविषयम् । अपुत्रकश्राद्धविषयं वा । पुत्रिकापुत्रो ऽप्य् औरवसत् कुर्यात् तत्समत्वात् । तथा च व्यासः ।

मुख्य एव सुतः कुर्यात् सपिण्डीकरणं पितुः ।
औरसस् तु सुतो मुख्यस् तत्समः पुत्रिकासुतः ॥

शङ्खः ।

अमावास्याक्षयो यस्य प्रेतपक्षे ऽथ वा यदि ।
सपिण्डीकरणाद् ऊर्ध्वं तस्योक्तः पार्वणो विधिः ॥

प्रेतपक्षो भाद्रपदापरपक्षः । शातातपः ।

एकोद्दिष्टं जलं पिण्डम् अशौचं प्रेतसत्क्रियाम् ।
न कुर्यात् पार्वणाद् अन्यद् ब्रह्मीभूताय भिक्षवे ॥

गर्गः ।

चतुर्दश्यां तु यच् छ्राद्धं सपिण्डीकरणे कृते ।
तद् एकोद्दिष्टविधिना कर्तव्यं शस्त्रघातिने ॥

तथा ।

सपिण्डीकरणाद् ऊर्ध्वम् मृते कृष्णचतुर्दशीम् ।
प्रतिसंवत्सराद् अन्यद् एकोद्दिष्टं न पार्वणम् ॥

प्रजापतिः ।

संक्रान्ताव् उपरागे च पर्वोत्सवमहालये ।
निवपेद् अत्र पिण्डांस् त्रीन् एकतस् तु क्षये ऽहनि ॥

कात्यायनः ।

यानि पञ्चदशादीनि अपुत्रस्येतराण्य् अपि ।
एकस्यैवात्र दातव्यम् अपुत्रायाश् च सर्वदा ॥

आपस्तम्बः ।

अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश् च ये ।
तेषाम् अपि च देयं स्याद् एकोद्दिष्टं न पार्वणम् ॥

अथ मृताहापरिज्ञानविषयाणि वाक्यान्य् उच्यन्ते । तत्र बृहस्पतिः ।

[५४५] न ज्ञायते मृताहश् चेत् प्रमीते प्रोषिते सति ।

मासश् चेत् प्रतिविज्ञातस् तद् दर्शे स्यान् मृताहनि ॥

मृताहे यत् कार्यं तद् विज्ञातमासामावास्यायां काऋयम् इत्य् अर्थः ।

यदा मासो न विज्ञातो विज्ञातं दिनम् एव तु ।
तदा मार्गशिरोमासि माघे वा तद्दिनं भवेत् ॥
दिनमासौ न विज्ञातौ मरणस्य यदा पुनः ।
प्रस्थानदिनमासौ तु ग्राह्यौ पूर्वोक्तया दिशा ॥ इति ।

अत्र तिथौ दिनशब्दः । पूर्वोक्तया दिशेत्य् अस्यायम् अर्थः — प्रोषितमरणे मासपरिज्ञाने मृततिथिज्ञानाभावे सति परिज्ञातमासामावास्यायां तस्य मृताहकालः । तथा मृततिथिपरिज्ञाने मासज्ञानाभावे सति तदा मार्गशिरोमासि माघमासे वा तस्यां परिज्ञातायां तिथौ तस्य मृताहकालः । तथैव मृततिथिमासापरिज्ञाने प्रस्थानदिनमासौ ग्राह्यौ यस्यां तिथौ मासे वा प्रस्थानं कृतं तत्रैव तस्य मृताहकालस् तत्राप्य् अभावे मृतवार्ताश्रवणदिने मृताहकाल इति भावः । प्रचेताः- “अपरिज्ञाते मृताहे ऽमावास्यायां श्रवणदिवसे वा” । जातूकर्ण्यः ।

पितरि प्रोषिते यस्य न वार्ता नैव वागतिः ।
ऊर्ध्वं पञ्चदशाद् वर्षात् कृत्वा तत्प्रतिरूपकम् ॥
कुर्यात् तस्य च संस्कारं यथोक्तविधिना ततः ।
तदादीन्य् एव सर्वाणि शेषकर्माणि संचरेत् ॥

स्मृत्यन्तरम् ।

न लभ्यते शरीरं चेल् लभ्यन्ते ऽस्थीनि चेत् तदा ।
घृतेन तानि संसिच्य संस्कुर्याद् विधिना मृतम् ॥
दग्धान्य् अस्थीनि संप्राप्य क्षीरेणाप्लाव्य तानि तु ।
तेषाम् अपि न लाभश् चेत् पलाशानां शतत्रयम् ॥
द्वाषष्ट्यधिकम् आदाय कुर्यात् तत्प्रतिरूपकम् ।
तत्र द्वात्रिंशतिं(तं) मूर्ध्नि कण्ठे षष्टिं ततः परम् ॥
वक्षस्य् अशीतिं जघने विंशतिं विंशतिद्वयम् ।
बाह्वोर् दशाङ्गुलीष्व् अत्र मुष्कयोः षट् च साधने ॥
चत्वार्य् ऊरुद्वये षष्टिं विंशतिं जानुनोस् ततः ।
विंशतिं जङ्घयोः पश्चाद् दश् पादाङ्गुलीषु च ॥

[५४६] न्यसेत् पलाशवृत्तानाम् ऊर्णासूत्रेण वेष्टयेत् ।

लेपयेद् यवपिष्टेन संस्कुर्याद् विधिवत् ततः ॥
क्षिपेद् उदकधारां तु संस्कारान्ते सुमन्ततः ॥

वृद्धमनुः ।

जीवन् यदि स आगच्छेद् घृतकुण्डे निमज्ज्य तम् ।
उद्धृत्य स्नापयित्वास्य जातकर्मादि कारयेत् ॥
व्रतचर्या द्वादशाहं त्रिरात्रम् अथ वास्य तु ।
स्नात्वोद्वहेत तां भार्याम् अन्यां वा तदभावतः ॥
अग्नीन् आधाय विधिवद् व्रात्यस्तोमेन वा यजेत् ।
तथैन्द्राग्नेयपशुना गिरिं गत्वा स तत्र तु ॥
इष्टिम् आयुष्मतीं कुर्याद् ईप्सितांश् च क्रतूंस् ततः ॥

आयुष्मतीम् इष्टिम् आयुष्कामेष्टिम् इत्य् अर्थः । मासिकम् आब्दिकं च मृताहे कार्यम् इत्य् उक्तम् । तत्राहःशब्देनाहोरात्र उपलक्ष्यते । स च त्रिविधः — सावनः सौर ऐन्दवश् चेति । तद् उक्तं ब्रह्मसिद्धान्ते ।

सावनं स्याद् अहोरात्रम् उदयाद् उदयो रवः ।
सौरस् त्रिंशस् तु राश्यंशस् तिथिसंभोगम् ऐन्दवम् ॥

मेषासिराशेस् त्रिंशम् अंशं यावता कालेन रविर् भुङ्क्ते तावान् कालः सौरो ऽहोरात्रः । ऐन्दवस् तु प्रतिपदादितिथिपरिमितः । स एव मृताहनीत्य् अत्र विवक्षितः । तद् उक्तम् ।

मासपक्षतिथिस्पृष्टे यो यस्मिन् म्रियते ऽहनि ।
प्रत्यब्दं च तथाभूतं क्षयाहं तस्य तं विदुः ॥

मासो ऽपि पूर्ववत् त्रिविध एव । तद् उक्तं ब्रह्मसिद्धान्त एव ।

दर्शाद् दर्शं चान्द्रस् त्रिंशद्दिवसस् तु सावनो मासः ।
रविसंक्रान्तिकचिह्नः सौरो मासो ऽभिगद्यते तज्ज्ञैः ॥

तथा ।

चान्द्रः शुक्लादिदर्शान्तः सावनस् त्रिंशता दिनैः ।
एकराशौ रविर् यावत् कालं मासः स भास्करः ॥

मासश् चान्द्र एव पितृकार्ये ग्राह्यः । स्मरन्ति हि ।

विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृतः ।
**आब्दिके पितृकार्ये च मासश् चान्द्रमसः स्मृतः ॥ [५४७]

लघुहारीतः ।

चक्रवत् परिवर्तेत सूर्यः कालवशाद् यतः ।
अतः सांवत्सरं श्राद्धं कर्तव्यं मासचिह्नितम् ॥
मासचिह्नं तु कर्तव्यं पौषमाधाद्यम् एव हि ।
अतश् चान्द्रविधानेन मासः स परिकीर्तितः ॥

पौषादिसंज्ञा चान्द्रस्यैव हि । तथा हि — पुष्येण युक्तश् चन्द्रो यस्यां सा पौषी सा यस्मिन् मासि स पौषो मासः । एवं माघादयो ऽपि । यद्य् अपि द्व्यहत्र्यहादौ पौर्णमासी भवति तथापि नासौ पौषादिसंज्ञकः । मासार्थमाससंवत्सराणाम् एव पौषादिः संज्ञा न द्व्यहादेस् तद् आह पाणिनिः- “सास्मिन् पौर्णमासीति संज्ञायाम्” (पाण् ४.२।२१) इति । न च सौरसावनमासयोर् उक्तप्रकारपौर्णमासीनियमो ऽस्ति । तस्माच् चान्द्र एव मासो मासिक आब्दिके च ग्राह्यः । यत् पुनः स्मृत्यन्तरे ऽप्य् उक्तम्,

यस्मिन् राशौ गते सूर्ये विपत्तिं याति मानवः ।
तद्राशाव् एव कर्तव्यं पितृकार्यं मृताहनि ॥

अधिमासमरणविषयम् एतत् । यद् आह स एव,

अधिमासे विपत्तिश् चेत् सौरं मासं समाश्रयेत् ।
स एव दिवसस् तस्य श्राद्धपिण्डोदकादिषु ॥ इति ।

अधिमासमृतस्य पुनस् तद् अधिमासप्राप्तौ सत्याम् एतद् वेदितव्यम् । तथा च भृगुः ।

मलमासमृतानां तु यच् छ्राद्धं प्रतिवत्सरम् ।
मलमासे तु तत् कार्यं नान्येषां तु कथंचन ॥

[अन्येषां मलमासमध्ये ऽमृतानाम् । मलमासमध्ये सांवत्सरिकं न कार्यम् । किं तु तद्व्यपगम इत्य् अर्थः । ] कः पुनर् अधिमासो नामेत्य् अपेक्षायाम् आह गर्गः ।

यदा चान्द्रेषु मासेषु मेषादिं क्रमते रविः ।
चैत्रादय्स् तदोच्यन्ते तदभावे ऽधिमासकः ॥

लघुहारीतो ऽपि ।

इन्द्राग्नी यत्र हूयेते मासादिः स प्रकीर्तितः ।
अग्नीषोमौ स्मृतौ मध्ये समाप्तौ पितृसोमकौ ॥
तम् अतिक्रम्य तु यदा रविर् गच्छेत् कदाचन ।
आद्यो मलिम्लुचो ज्ञेयो द्वितीयो प्रकृतः स्म्र्तः ॥

इन्द्राग्नी यत्रे हूयेते इति शुक्लप्रतिपद उपलक्षणम् । अग्नीषोमाव् इति कृष्णप्रतिपदः । [५४८] पितृसोमाव् इति दर्शस्य । एतेन चान्द्रो मास उपलक्षितः । तं मासं समतिक्रम्यान्यस्मिन् मासे यदा सूर्यो राश्यन्तरं गच्छेत् तदा पूर्वो मलिम्लुचः । उत्तरः प्रकृतः । शातातपः ।

सिनीवालीम् अतिक्रम्य यदा संक्रमते रविः ।
मलमासस् तु स प्रोक्तस् तत् कार्यं तूत्तरे भवेत् ॥

सिनीवालीं इति सकलसिनीवाल्यन्तमासाभिप्रायम् । काठकगृह्य ।

यस्मिन् मासे न संक्रान्तिः संक्रान्तिद्वयम् एव वा ।
मलमासः स विज्ञेयो मासे त्रिंशत्तमे भवेत् ॥

तत्र मलिम्लुचे ऽपि मासिकं श्राद्धं कार्यम् इत्य् आह कुथुमिः ।

अब्दम् अम्बुघटं दद्याद् अन्नं चामिषसंयुतम् ।
संवत्सरे विवृद्धे ऽपि प्रतिमासं च मासिकम् ॥

हारीतः ।

असंक्रान्ते ऽपि कर्तव्यम् आब्दिकं प्रथमं द्विजैः ।
तथैव मासिकं पूर्वं सपिण्डीकरणं तथा ॥

पूर्वं प्रथमसंवत्सरविहितं मासिकम् । न तु दर्शश्राद्धम्, तस्य हि तत्र निषेधम् आह ऋष्यशृङ्गः ।

संवत्सरातिरेको वै मासो यः स्यात् त्रयोदशः ।
तस्मिंस् त्रयोदशं श्राद्धं न कुर्याद् इन्दुसंक्षये ॥

यत् तु शातातपेनोक्तम्,

एकसंज्ञौ यदा मासौ स्यातां संवत्सरे क्वचित् ।
तत्राद्ये पितृकार्याणि देवकर्याणि चोत्तरे ॥

इति, तत् सपिण्डीकरणपर्यन्तपितृकार्यविषयम् । अत एव लघुहारीतः ।

सपिण्डीकरणाद् ऊर्ध्वं यत् किंचिच् छ्राद्दिकं भवेत् ।
इष्टं वाप्य् अथ वा पूर्तं तत्र कुर्यान् मलिम्लुचे ॥

यत् तु सत्यव्रतः,

वर्षे वर्षे तु यच् छ्राद्धं मातापित्रोर् मृताहनि ।
मलमासे न कर्तव्यं व्याघ्रस्य वचनं यथा ॥

इति, तद् अधिमासाद् अन्यत्र मृतस्य प्रथमाब्दिकश्राद्धव्यतिरिक्तश्राद्धविषयम् । यतु तु गभस्तिवाक्यम्,

न कुर्यान् मलमासे तु कर्मी कर्म कथंचन ।
मुक्त्वा नैमित्तिकं श्राद्धं तद् धि तत्रैव कीर्तितम् ॥
एकोद्दिष्टं हि यच् छ्राद्धं तन् नैमित्तिकम् उच्यते ।
**तत् कार्यं पूर्वमानेन कालाधिक्ये ऽपि धर्मतः ॥ [५४९]

इति, तत् सपिण्डीकरणात् प्राक्तनैकोद्दिष्टविषयम् । यच् च वृद्धवसिष्ठेनोक्तम्,

श्राद्धीये ऽहनित् संप्राप्ते अधिमासो भवेद् यदि ।
श्राद्धद्वयं प्रकुर्वीत ह्य् एवं कुर्वन् न मुह्यति ॥

इति, तन् मासिकविषयम् । वार्षिकविषये तु लघुहारीतः ।

प्रत्यब्दं द्वादशे मासि कार्या पिण्डक्रिया बुधैः ।
क्वचित् त्रयोदशे ऽपि स्याद् आद्यं मुक्त्वा तु वत्सरम् ॥

अस्यार्थः — सर्वदा द्वादशे मासि परिसमाप्ते त्रयोदशे च प्राप्ते सांवत्सरिकं कार्यम् अधिमादोपनिपाते तु त्रयोदशे व्यतीते चतुर्दशे च प्रवृत्ते पिण्डक्रिया कार्या । आद्ये तु संवत्सरे ऽधिमासे त्रयोदश एवाब्दिकं कार्यम् इति । प्रसङ्गाद् अन्यद् अपि मलमासविषयं किंचिद् उच्यते । तत्र बृहस्पतिः ।

नित्यनैमित्तिके कुर्यात् प्रयतः सन् मलिम्लुचे ।
तीर्थस्नानं गजच्छायां प्रेतश्राद्धं तथैव च ॥

मत्स्यपुराणे ।

चन्द्रसूर्यग्रहे चैव मरणे पुत्रजन्मनि ।
मलमासे ऽपि देयं स्याद् दत्तम् अक्षयकारकम् ॥

वृद्धमनुः ।

अग्न्याधेयं प्रतिष्ठां च यज्ञदानव्रतानि च ।
वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥
मङ्गल्यम् अभिषेकं च मलमासे विवर्जयेत् ॥

वृषोत्सर्गस्य च नैकादशाहिकस्य प्रतिषेधः । तस्य नियतकालत्वात् प्रेतोपकारकत्वाच् च ।

बाले वा यदि वा वृद्धे शुक्रे चास्तम् उपागते ।
मलमास इवैतानि वर्जयेद् देवदर्शनम् ॥
वापीकूपतडागादिप्रतिष्ठा यज्ञकर्म च ।
न कुर्यान् मलमासे च महादानव्रतानि च ॥

देवदर्शनं सोमेश्वरादिदेवदर्शनं तच् चात्र प्रथमं विवक्षितम् । गृह्यपरिशिष्टात् ।

अवषट्कारहोमाश् च पर्व चाग्रा(ग्र)यणं तथा ।
मलमासे ऽपि कर्तव्यं काम्या इष्टीर् विवर्जयेत् ॥

पराशरः ।

उपाकर्म तथोत्सर्गप्रसवाहोत्सवाष्टकाः ।
मासवृद्धौ पराः कार्या वर्जयित्वा च पैतृकम् ॥

प्रसवनिमित्तं जातकर्मादि कार्यम् एव । अत एवाह सत्यव्रतः ।

[५५०] जातकर्मणि यच् छ्राद्धं नवश्राद्धं तथैव च ।

प्रतिसंवत्सरं श्राद्धं मलमासे ऽपि तत् स्मृतम् ॥ इति ।

अत एव प्रसवनिमित्तो ऽन्य एवोत्सवः शिष्टाचारप्राप्तो ऽत्र प्रतिषिध्यते । पैतृकम् इति चन्द्रसूर्योपरागगजच्छायाश्राद्धादि कथ्यते । यस्यास्व्श्यकस्य नाश्ति कालान्तरम् । अत एव मत्स्यपुराणम् ।

चन्द्रसूर्यग्रहे चैव मरणे पुत्रजन्मनि ।
मलमासे ऽपि देयं स्याद् दत्तम् अक्षयकारकम् ॥

सत्यः ।

देवतारामवाप्यादिप्रतिष्ठोदङ्मुखे रवौ ।
दक्षिणाशामुखे कुर्वन् न तत्फलम् अवाप्नुयात् ॥

प्रासङ्गिकं परिसमाप्य प्रकृतम् अनुसरामः ॥ १.२५५। ॥

पिण्डांस् तु गोऽजविप्रेभ्यो दद्याद् अग्नौ जले ऽपि वा ।
प्रक्षिपेत् सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥ १.२५६ ॥

पार्वणादिश्राद्धसंबन्धिनः पिण्डान् गोछागविप्राणाम् अन्यतमाय दद्याद् अन्यतमं भोजयेद् इत्य् अर्थः । अथ वाग्नौ जले ऽपि वा प्रक्षिपेत् स्तसु विप्रेषु स्वस्माद् आसनाद् अनुत्थितेषु तद् उच्छिष्तं न मार्जयेन् न शोधयेत् । पिण्डान् इति बहुवचनम् अविवक्षितम् । तेन पत्नीप्राशिते मध्यमपिण्डे पिण्डद्वयस्यापि प्रतिपत्तिः कार्या । अत्र मत्स्यपुराणम् ।

पिण्डांस् तु गोऽजविप्रेभ्यो दद्याद् अग्नौ जले ऽपि वा ।
विप्रान्ते वाथ विधिवद् वयोभिर् अथवाशयेत् ॥
पत्नीं वा मध्यमं पिण्डम् आश्रयेद् विनयान्विताम् ।
आधत्त पितरो गर्भम् अन्तः साम्तानवर्धनम् ॥

वयांसि पक्षिणः । मनुः ।

पतिव्रता धर्मपत्नी पितृपूजनतत्परा ।
मध्यमं तु ततः पिण्डम् अद्यात् सम्यक् सुतार्थिनी ॥
आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् ।
धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं शुचिम् ॥

बृहस्पतिः ।

अन्यदेशस्थिता पत्नी रोगिणी गर्भिणी तथा ।
तदा तं जीर्णवृषभश् छागो वा भोक्तुम् अर्हति ॥

शङ्खलिखितौ- “एवं वरान् याचयित्वा नमस्कृत्य पिण्डान् अप्सु विन्यसेद् अग्नौ वा निक्षिपेत् । पत्नी वा मधयं पिण्डम् अश्नीयाद् आर्तवस्नाता । [५५१] अगृहीतगर्भात्रार्तवस्नातेत्य् उच्यते । यमः ।

अप्स्व् एकं प्लावयेत् पिण्डम् एकं पत्न्यै निवेदयेत् ।
एकं च जुहुयाद् अग्नौ त्रयः पिण्डाः प्रकीर्तिताः ॥

वायुपुराणे ।

पिण्डम् अग्नौ सदा दद्याद् भोगार्थी सततं नरः ।
पत्न्यै प्रजार्थी दद्याद् वै मद्यमं मन्त्रपूर्वकम् ॥
उत्तमां गतिम् अन्विच्छन् गोभ्यो नित्यं प्रयच्छति ।
आज्ञां प्रज्ञां यशः कीर्तिम् अप्सु पिण्डं निधापयेत् ॥
प्रार्थयन् दीर्घम् आयुश् च वायसेभ्यः प्रयच्छति ।
आकाशं गमयेद् अप्सु स्थितो वा दक्षिणामुखः ॥
पितॄणां स्थानम् आकाशं दक्षिणादिक् तथैव च ॥

द्विजोच्चिष्टमार्जने वसिष्ठो ऽन्यथाह ।

श्राद्धे नोद्वासनीयानि उच्छिष्टान्य् आ दिनक्षयात् ।
च्योतन्ते वै स्वधाधारास् ताः पिबन्त्य् अकृतोदकाः ॥ १.२५६ ॥

येन द्रव्येण यावती तृप्तिः पितॄणां भवति तद् आह

हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥ १.२५७ ॥
एइणरौरववाराहशाशैर् मांसैर् यथाक्रमम् ।
मासवृद्ध्याभितृप्यन्ति दत्तैर् हि पितामहाः ॥ १.२५८ ॥

हविष्यान्नेन प्रदत्तेन पितृपितामहाद्या उद्देश्या मासं तृप्यन्ति । हविष्यम् आह मनुः ।

मुन्यन्नानि पयःसोमौ मांसं यच् चानुपस्कृतम् ।
अक्षारलवणं चैव प्रकृत्या हविर् उच्यते ॥

पयसि शृत ओदनः पायसः । तेन दत्तेन वत्सरं यावत् पित्रादयस् तृप्यन्ति । तद् उक्तम्,

संवत्सरं तु गव्येन पयसा पायसेन च ।

इति मनुना । पायसश् चाप्रतिषिद्धपयो(या) ग्राह्यः । तत्र पयोविशेषनिषेधम् आह मार्कण्डेयः ।

मार्गम् आविकम् औष्ट्रं च सर्वम् ऐकशफं च यत् ।
माहिषं चामरं चैव धेन्वा यच् चाप्य् अनिदशम् ॥

[५५२] पित्रर्थं मे प्रयच्छस्वेत्य् उक्त्वा यच् चाप्य् उपाहृतम् ।

वर्जनीयं सदा सद्भिस् तत् पयः श्राद्धकर्मणि ॥

मत्स्यस्येदं मांसं मात्स्यं तेन दत्तेन द्वौ मासौ पित्रादयस् तृप्यन्ति । मत्स्यश् चात्र भक्षणार्थ एव पाटीनप्रभृतिर् ज्ञेयः । हरिणस्येदं हारिणम् । एवम् औरभ्रादिषु माससंख्यावृद्धिर् द्रष्टव्या । उरभ्रो मेषः । तस्येदम् औरभ्रम् । एवं शाउकनादीन्य् अपि । शकुनिः पक्षी । सो ऽप्य् अत्र शिष्टभोजनीय एव ग्राह्यः । छागः प्रसिद्धः । पृषतश् चित्रमृगः । एणः कृष्णमृगः । लोहितस् तु हरिणः । तद् उक्तम् आयुर्वेदे ।

एणः कृष्णस् तयोर् ज्ञेयस् ताम्रो हरिण उच्यते ।

रुरुर् मृगविशेषः । वराहो ऽत्रारण्यो न ग्राम्यो ऽत्यन्ताभक्ष्यत्वात् । शशस्येदं शाशम् । अत्र मनुः ।

तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलेन वा ।
दत्तेन मासं प्रीयन्ते पितरो विधिवन् नृणाम् ॥

तथा ।

वाध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी ॥

विष्णुः- “तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलैः शाकैः स्यामकैः प्रियङ्गुभिर् नीवारैर् मुद्गैर् गोधूमैर् मासं प्रीयन्ते । नव गावयेनैकादश तूपरेणाजेन” । गवयस्येदं गावयम् । तेन नव मासान् प्रीयन्ते । तूपरः शृङ्गहीनः । शङ्खः ।

लाजान् मधुयुतान् दद्यात् सक्तूञ् शर्करया सह ।
दद्याच् छ्राद्धे प्रयत्नेन शृङ्गाटकगवेधुकम् ॥

शृङ्गाटकं जलजं त्रिकण्टकम् । गवेधुकं शङ्खाकारं तृणविशेषफलम् ॥ १.२५७, २५८ ॥

खड्गामिषं महाशल्कं मधु मुन्यन्नम् एव च ।
लोहामिषं कालशाकं मांसं वाध्रीणसस्य च ॥ १.२५९ ॥
यद् ददाति गयास्थश् च सर्वम् आनन्त्यम् अश्नुते ।

खड्गो गण्डकाख्यो मृगविशेषः । तद् आमिषम् । महाशल्को मत्स्यविशेषः । तेन च तन्मांसं लक्ष्यते । मधु क्षौद्रम् । मुन्यन्नम् आरण्यं नीवारादि सस्यम् । लोहो लोहितच्छागस् तदामिषम् । कालशाकः प्रसिद्धः । वाध्रीणस उक्तो निगमे ।

त्रिपिबं त्व् इन्द्रियक्षीणं श्वेतं वृद्धम् अजापतिम् ।
**वाध्रीणसं तु तं प्राहुर् याज्ञिकाः श्राद्धकर्मणि ॥ [५५३]

यस्य पिबतः कर्णौ जलं स्पृशतः स त्रिपिबस् त्रिभिर् मुखेन कर्णाभ्यां च पिबन्तीति व्युत्पत्त्या । क्षीणेन्द्रियं संभोगाक्षमम् अजापतिम् अजम् इत्य् अर्थः । तस्य मांसम् । तथा ।

कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहंगमः ।
स वै वाध्रीणसः प्रोक्तः इत्य् एषा नैगमी श्रुतिः ॥

तस्य मांसं वा । तथा गयास्थो यद् ददाति च । एतत् सर्वम् आनन्त्यम् अक्षयत्वम् अश्नुते प्राप्नोति । एतज्जनिता तृप्तिर् अनन्ता भवतीति तात्पर्यार्थं । गयाग्रहणं प्रदर्शनार्थम् । अत एवोक्तम् ।

गङ्गाद्वारे प्रयागे च नैमिषे पुष्करे ऽर्बुदे ।
संनिहित्यां गयायां च श्राद्धम् अक्षयतां व्रजेत् ॥

अत्र वायुपुराणम् ।

श्यामाकैर् इक्षुभिश् चैव पितॄणां सार्वकालिकम् ।
कुर्याद् आग्रयणं यस् तु स शीघ्रं सिद्धिम् आप्नुयात् ॥
श्यामाका हस्तिनामानो विद्धि तान् यज्ञनिःसृतान् ।
प्रशान्तिकाः प्रियङ्गुश् च ग्राह्याः स्युः श्राद्धकर्मणि ॥
एतान्य् अपि समानि स्युः श्यामाकानां सदा गुणैः ।
कृष्णमाषास् तिलाश् चैव श्रेष्ठाः स्युर् यवशालयः ॥
महायवा व्रीहियवास् तथैव च मधूलिकाः ।
कृष्णाः श्वेता लोहिताश् च ग्राह्याः स्युः श्राद्धकर्मणि ॥
बिल्वामलकमृद्वीकापनसाम्रातदाडिमम् ।
भव्यपालेवताक्षोटखर्जूरामलकानि च ॥
कशेरुः कोविदारश् च तालकन्दं तथा बिसम् ।
तमालं शतकन्दं च मध्यालुः शीतकन्दकम् ॥
कलायं कालशाकं च सुनिषण्णं सुवर्चला ।
मांसं शाकं दधिक्षीरं चञ्चुर् वेत्राङ्कुरस् तथा ॥
कट्फलं कङ्कणी द्राक्षा लकुचं मोचम् एव च ।
कर्कन्धुर् जीरकं चारं तिन्दुकं मधुसाह्व्यम् ॥
वैकङ्कतं नागरिकं शृङ्गाटकपरूषकम् ।
पिप्पली मरिचं चैव पटोलं बृहतीफलम् ॥
सुगन्धिमत्स्यमांसं च कलायाः सर्व एव च ।
एवमादीनि चान्यानि स्वादूनि मधुराणि च ॥

[५५४] नागरं चात्र वै देयं दीर्घमूलकम् एव च ॥

आदित्यपुराणे ।

मधुकं रामठं चैव कर्पूरं मरिचं गुडम् ।
श्राद्धकर्मणि शस्तानि सैन्धवं त्रपुसं तथा ॥

मार्कण्डेयपुराणे ।

यवव्रीही सगोधूमौ तिलमुद्गाः ससर्षपाः ।
प्रियङ्गवः कोविदारो निष्पावाश् चात्र शोभनाः ॥

वायुपुराणे ।

भक्षान् पूपं करम्भं च इष्टकाघृतपूरकान् ।
कृसरा मधुसर्पिश् च पयः पायसम् एव च ॥
स्निग्धम् उष्णं च यो दद्याद् अग्निष्टोमफलं लभेत् ।
दधि गव्यम् असंसृष्टं भक्ष्यान् नानाविधान् अपि ॥
दत्वा न शोचति श्राद्धे वर्षासु च मघासु च ।
घृतेन भोजयेद् विप्रान् घृतं भूमौ समुसृजेत् ॥
शर्कराक्षीरसंयुक्ताः पृथुका नित्यम् अक्षयाः ।
स्युश् च संवत्सरं प्रीताः कुकरैर् मेषकैणकैः ॥
सक्तूंल् लाजांस् तथा पूपान् कुल्माषान् व्यञ्जनैः सह ।
सर्पिःस्निग्धानि सर्वाणि दध्ना संस्कृतस्य भोजयेत् ॥
श्राद्धेष्व् एतानि यो दद्यात् पितरः प्रीणयन्ति तम् ॥

मत्स्यपुराणे ।

यत् किंचिन् मधुना मिश्रं गोक्षीरघृतपायसैः ।
दत्तम् अक्षयम् इत्य् आहुः पितरः पञ्च देवताः ॥

ब्रह्मपुराणे ।

अलाबुं ग्रीवकं चाणु कर्करीं त्रपुसं तथा ।
मधूकं नारिकेलं च लकुचं च हरीतकीम् ॥
माराक्षं दधिशाकं च शाकम् उत्पलसंज्ञितम् ।
भृङ्गराजम् अदुष्टानि वन्यानि च निवेदयेत् ॥
अथ मूलानि देयानि शुण्ठ्यार्द्रकबिसानि च ।
तमालं शतकन्दं च बहुसूची च कण्टकी ॥
कूर्चालकं च पिण्डालं दीर्घमूलं वरूटकम् ।
देयं तक्रं तु सद्यस्कं नवनीताद् अनुद्धृतम् ॥
पक्वं तु गोरसं देयं घृतात् पक्वाद् अनन्तरम् ।
निर्दोषायाश् च गोः क्षीरं क्वथितं शर्करानुगम् ॥
आरण्यमहिषीक्षीरं शर्कराशुण्ठिसंयुतम् ।
मध्वाक्तं तुहिनं चैव दद्याद् अमृतम् एव तत् ॥

[५५५] दधिशुक्तं च दातव्यं सर्वत्र दधिसंभवम् ।

दापयेन् मरिचोपेतं युक्तं मधुगुडैर् अपि ॥

पुलस्त्यः ।

मुन्यन्नं ब्राह्मणस्योक्तं मांसं क्षत्रियवैश्ययोः ।
मधुप्रदानं शूद्रस्य सर्वेषां चाविरोधि यत् ॥ १.२५९ ॥

तथा

वर्षास्व् एवं त्रयोदश्यां मधासु च न संशयः ॥ १.२६० ॥

वर्षासु या त्रयोदशी याश् च मधास् तस्यां तासु च यत् पितृभ्यो ददाति तद् अपि तृप्तिलक्षणस्य फलस्यानन्त्यम् अश्नुते । अनन्तां पितृतृप्तिं साधयतीत्य् अर्थः । अत्र च प्रोष्ठपद्य् अपरपक्षे या त्रयोदशी याश् च मघास् ता एव गृह्यन्ते । मनुः ।

यत् किंचिन् मधुसंयुक्तं प्रदद्यात् तु त्रयोदशीम् ।
तद् अप्य् अक्षयम् एव स्याद् वर्षासु च मघासु च ॥

त्रयोदशीम् इति द्वितीया सप्तम्यर्थे । पितृगाथा ।

अपि नः स कुले भूयाद् यो नो दद्यात् त्रयोदशीम् ।
पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च ॥

वसिष्ठः ।

पिता पितामहश् चैव तथैव प्रपितामहः ।
उपासते सुतं जातं शकुन्ता इव पिप्पलम् ॥
मधुमांसैश् च शाकैश् च पयसा पायसेन च ।
एष नो दास्यति श्राद्धं वर्षासु च मधासु च ॥

पैठीनसिः ।

अजेन सर्वलोहेन वर्षासु च मघासु च ।
पुत्रो वा यदि वा पौत्रो यो नो दद्यात् त्रयोदशीम् ॥

पितृगाथे ।

अपि जायेत सो ऽस्माकं कुले कश्चिन् नरोत्तमः ।
प्रावृट्काले ऽसिते पक्षे त्रयोदश्यां समाहितः ॥
मधूत्कटेन यः श्राद्धं पायसेन समाचरेत् ।
कार्तिकं सकलं वापि प्राक्छाये कुञ्जरस्य वा ॥

यत् तु बृहस्पतिनोक्तम्,

कृष्णपक्षे त्रयोदश्यां यः श्राद्धं कुरुते नरः ।
पञ्चत्वं तस्य जानीयाज् ज्येष्ठपुत्रस्य निश्चितम् ॥

इति, यच् च षट्त्रिंशन्मतम्,

गृही त्रयोदशीश्राद्धं न प्रकुर्वीत पुत्रवान् ।
उपवासं च संक्रान्तौ चन्द्रसूर्यग्रहे तथा ॥

[५५६] त्रयोदश्यां तु वै श्राद्धं न कुर्यात् पुत्रवान् गृही ।

नेष्यते चोपवासश् च कैश्चिद् अप्य् अयनद्वये ॥

इति, तत्रेदं चिवारणीयम् — किं सर्वापरपक्षेषु ज्ञातिश्रैष्ठ्यादिकामस् त्रयोदश्याम् एवापरपक्षिकं श्राद्धं कुर्याद् इत्य् अनेन यद् विहितं तस्यैष निषेधः । यदि वा युगादिषु श्राद्धं कुर्याद् इति विधितो भाद्रपदासितत्रयोदश्यां यत् प्राप्तं तस्य निषेधः । यद् वा तिस्रो ऽष्टकास् तिस्रो ऽन्वष्टकाः प्रोष्ठपद्यूर्ध्वं त्रयोदशीव्रीहियवपाकौ चेतु अनेन । तत्र युगादित्वप्रयुक्तं प्रोष्ठपद्यूर्ध्वं त्रयोदशीत्वप्रयुक्तं यच् छ्राद्धं तन् नित्यं तस्य चेद् अयं प्रतिषेधस् तदा विहितत्वात् प्रतिषिद्धत्वाच् च विकल्प आपद्येतातिरात्रष्ōडशिग्रहणाग्रहणवत् । न च वाच्यं सामान्यविषयाद् विधेः पुत्रवद्गृहिरूपविशेषविषयो निषेधो बलवान् अतो न विकल्प इति । यद्विषयो हि निषेधस् तद्विषयां निषेध्यप्राप्तिम् अपेक्षते । प्रसक्तिपूर्वकत्वान् निषेधस्य । ततश् च पुत्रवद्गृहिविषया त्रयोदशीश्राद्धप्राप्तिर् अस्तीति निषेधाद् एव गम्यते । अतो हि दुर्निवारो विकल्पः । ननु च नायं प्रसज्यप्रतिषेधः हिं तु पर्युदासः, ततश् च पुत्रवद् गृहिव्यतिरिक्तं प्रत्य् एव श्राद्दविधिर् अयम् अतो न विकल्पः । तन् न । तथा सति हि न कुर्याद् इत्य् अन्वयो न स्यात् । किं तु न गृही न पुत्रवान् इति स्यात् । न चार्थपदक्रमान् यथाभावः कार्यो हेत्यभावात् । न च करोत्य् अर्थान्वितो नञ्पर्युदासो भवति किं तु नामान्वितो धात्वन्तरान्वितश् च । तस्मान् न नैत्यकत्रयोदशीश्राद्धविषयो ऽयं प्रतिषेधः, किं तु काम्यविष्य एव । न हि तद्विषयत्वे विकल्पः प्रसज्येत । न हि रागप्राप्तं कलञ्जभक्षणं तत्प्रतिषेधेन विकल्प्यते । ननु च कलञ्जभक्षणम् अशास्त्रीयम् । शास्त्रीयश् च तत्प्रतिषेधस् तस्माद् अविकल्पः । तर्योदशीश्राद्धं तु काम्यम् अपि शास्त्रेण विहितम् । अतो युक्तस् तस्य शास्त्रीयेण प्रतिषेधेन विकल्पः । सत्यं विहितम्, किं तु फलं प्रत्य् उपायतया न पुनर् अनुष्ठेयतया । अनुष्ठेयता च तस्य फलरागनिबन्धनैव । अतो युक्ता कलञ्जभक्षणतुल्यता । येषाम् अपि मते यत्र विधिः पुरुषं प्रवर्तयति तस्य फलसाधनत्वं शास्त्राद् अवबुध्यत इति, तन्मते ऽपि विषयस्य फलसाधनत्वावगमपरम् एव विधेः प्रवत्रकत्वं प्रतीयते, न पुरुषप्रवृत्तिसिद्ध्यर्थं फलरागत एव तत्सिद्धेः । त्रिकालायां ह्य् अप्राप्तौ विधिर् अर्थवान् । अत एवाहुः- “अप्रवृत्तप्रवर्तको विधिर् अज्ञातजापकश् च” इति । [५५७] तस्माद् यत् काम्यं त्रयोदशीश्राद्धं तद्विषयो ऽयं निषेधो न पुनर् यन् नित्यं तद्विषयः । अत एव आपस्तम्बः काम्यस्यैवास्य निन्दाम् आह- “सर्वेष्व् एवापरपक्षस्याहःसु क्रियमाणं पितॄन् प्रीणाति कर्तुस् तु कालादिनियमात् फलविशेषः । प्रथमे ऽहनि क्रियमाणं स्त्रीप्रायम् अपत्यं जायते । द्वितीये स्तेनास् तृतीये ब्रह्मवर्चस्विनः । चतुर्थे क्षुद्रपशुमान् । पञ्चमे बहुपुमांसो बह्वपत्यो न चानपत्यः प्रमीयते । षष्ठे ऽध्वशीलो ऽक्षशीलश् च । सप्तमे कृषेर् वृद्धिः । अष्टमे पुष्टिर् नम एकशफो दशमे व्यवहारे राद्धिः । एकादशे कृष्णायसत्रपुसीसम् । द्वादशे पशुमांस् त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयपत्यो युवमारिणस् तु भवन्ति । चतुर्दश् आयुधे राद्धिः । पञ्चदशे पुष्टिः” इति । सर्वेष्व् एवापरपक्षस्याहःसु क्रियमाण इत्य् अनेनापरपक्षिकस्य श्राद्धस्य नित्यत्वम् आह । क्रतुस् तु कालानियमात् फलविशेष इत्य् अनेन तु प्रतिपदादितिथिनियमेन तदैव क्रियमाणं फलविशेषप्रदं भवतीत्य् आह । तस्मात् काम्यस्यैव त्रयोदशीश्राद्धस्य प्रतिषेधो ऽयम् । या तु षट्त्रिंशन्मते मघाश्राद्धस्य निन्दा,

मघासु कुर्वतः श्राद्धं ज्येष्ठः पुत्रो विनश्यति ।
संक्राताव् उपवासश् च चन्द्रसूर्यग्रहे तथा ॥

इति, सा न निषेधं कल्पयति कॢप्तत्वात् तस्य । तथा च कन्यागतापरपक्षाधिकारे देवीपुराणम् ।

तत्रापि महती पूजा कर्तव्या पितृदैवते ।
ऋक्षे पिण्डप्रदानं तु ज्येष्ठपुत्री विवर्जयेत् ॥ इति ।

पितृदैवतम् ऋक्षं मघा । पूजा श्राद्धम्, तेन पिण्डदानसहितम् एव भाद्रपदापरपक्षमघासु श्राद्धं निन्दितम् । न श्राद्धमात्रं पिण्डदानस्यैव प्रतिषिद्धत्वात् । न च निषेधवाक्ये पिण्डदानशब्दः श्राद्धलक्षकः, लक्षणाकारणाभावात् । एवं तावन् मघाश्राद्धं पिण्डदानरहितम् उक्तम्, श्राद्धान्तराण्य् अपि पिण्डदानरहितान्य् उक्तान्य् मत्स्यपुराणे ।

अयनद्वितये श्राद्धं विषुवद्द्वितये तथा ।
संक्रान्तिषु च सर्वासु पिण्डनिर्वपणाद् ऋते ॥

[५५८] वैशाखस्य तृतीयायां नवम्यां कार्तिकस्य च ।

श्राद्धं कार्यं च शुक्लायां संक्रान्तिविधिना नरैः ॥

महाभारते ।

नक्षत्रेण न कुर्वीत यस्मिञ् जातो भवेन् नरः ।
न प्रोष्ठपदयोः कार्यं तथाग्नेये च भारत ॥
दारुणेषु च सर्वेषु प्रत्यवरे च विवर्जयेत् ।
ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् ॥

आग्नेयं कृत्तिकाः । दारुणानि आर्द्राश्लेषाज्येष्ठामूलानि । जन्मनक्षत्रात् पञ्चमं चतुर्दशं त्रयोविंशं च प्रत्यरम् । श्राद्धनिषेधो ऽयं कृष्णपक्षश्राद्धविषयः । तद् ध्य् अनियमेनैकस्यां तिथौ कर्तव्यम् इत् प्रतिषिद्धं परित्यज्यान्य् अत्रापि शक्यं कर्तुम् इति प्रतिषेधे ऽपि नात्यन्तबाधः। अन्यविषयत्वे तु श्राद्धविधेर् अत्यन्तिको बाध आपद्यते । ज्योतिषम् ।

साधारणध्रुवोग्रेषु मैत्रे ऽपि च न शस्यते ।
मनुष्याणां प्रेतक्रिया कथंचित् त्रिपुष्करे यमलधिष्ण्ये च ॥

साधारणे कृत्तिकाविशाखे । उत्तरात्रयं रोहिणी च ध्रुवाणि । उग्राणि पूर्वात्रयं भरणी मघाश् च । मैत्रम् अनुराधा । त्रिपुष्करं त्रिपात् । यमलं द्विपात् । पुत्रादिनापि क्रियमाणं श्राद्धं तत्पित्रादीनां तृप्तिलक्षणं फलं साधयतीति शास्त्रप्रामान्याद् आश्रयणीयम् । तथा पित्रापि क्रियमाणा वैश्वानरेज्या पुत्रस्य ब्रह्मवर्चसादिकं निष्पादयतीति । एवं च सति पितृतृप्त्याश्रितो ऽतिशयो हविर्विशेषात् कालविशेषाद् देशविशेषाच् च भवतीति शक्यं शात्राद् अवगन्तुम् ॥ १.२६० ॥

कृष्णपक्षे श्राद्धम् एकस्यां तिथौ कार्यम् इत्य् उक्तं तद् यस्यां क्रियमाणं यस्मै फलाय संपद्यते तद् इदानीम् आह

कन्यां कन्यावेदिनश् च पशून् मुख्यान् सुतान् अपि ।
द्यूतं कृषिं च वाणिज्यं द्विशफैकशफांस् तथा ॥ १.२६१ ॥
ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके ।
ज्ञातिश्रैष्ठ्यं सर्वकामान् आप्नोति श्राद्धदः सदा ॥ १.२६२ ॥
प्रतिपत्प्रभृतिष्व् एकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस् तत्र प्रदीयते ॥ १.२६३ ॥

प्रतिकृष्णपक्षं सर्वदा प्रतिपदि श्राद्धपदः कन्यां प्राप्नोति । एवं द्वितीयायां [५५९] कन्याविदिना जामातॄन् । तृतीयायां पशून् । चतुर्थ्यां प्रधानान् सुतान् । पञ्चम्यां द्यूतम् । षष्ठ्यां कृषिम् । सप्तम्यां वाणिज्यम् । अष्टम्यां द्विशफं गवादि । नवम्याम् एकशफम् अश्वादि । दशम्यां ब्रह्मवर्चस्विनः पुत्रान् । एकादश्यां स्वर्णरूप्ये । द्वादश्यां कुप्यं त्रपुसीसादिकम् । त्रयोदश्यां ज्ञातीनां मध्ये श्रेष्ठताम् । अमावास्यायां सर्वान् उक्तान् कामान् । चतुर्दशी चात्र वर्जनीया । शस्त्रहस्तेभ्य एव तस्यां श्राद्धम् प्रदेयम् । शस्त्रहतग्रहणं शास्त्रान्तरोक्तदुर्मरणप्रदर्शनार्थम् । तत्र ब्रह्मपुराणम् ।

प्रायानशनशस्त्राग्निविषोद्बन्धनिनां तथा ।
चतुर्दश्यां तु कर्तव्यं तृप्त्यर्थम् इति निश्चयः ॥

वायुपुराणात् ।

युवान् अस्तु गृहे यस्य मृतास् तेषां प्रदापयेत् ।
शस्त्रेण निहता ये वै तेषां दद्याच् चतुर्दशीम् ॥

मरीचिः ।

विषशस्त्रश्वापदाहितिर्यग्ब्राह्मणघातिनाम् ।
चतुर्दश्यां क्रियाः कार्या अन्येषां तु विगर्हिताः ॥

इति वचनाच् छस्त्रहतादीनाम् एव चतुर्दश्यां क्रिया इत्य् अवधार्यते न तु तस्याम् एव तेषाम् इति । तेनामावास्यादिकालान्तरेष्व् अपि तेषां श्राद्धं युक्तम् । अत एव देवीपुराणम् ।

आहवेषु विपन्नानां जलाग्निभृगुपातिनाम् ।
चतुर्दश्यां भवेत् पूजा ह्य् अमावास्या तु कामिकी ॥

गर्गः ।

चतुर्दश्यां तु यच् छ्राद्धं सपिण्डीकरणे कृते ।
तद् एकोद्दिष्टविधिना कर्तव्यं शत्रघातिने ॥

तथा ।

सपिण्डीकरणाद् ऊर्ध्वम् ऋते कृष्णचतुर्दशीम् ।
प्रतिसंवत्सराद् अन्यद् एकोद्दिष्टं न पार्वणम् ॥

अत्र चैकस्य शस्त्रहस्त्व एकोद्दिष्टविधानं न तु त्रयाणां तथात्वे, तत्र पार्वणम् एव ॥ १.२६१, २६२, २६३ ॥

नक्षत्रविशेषात् फलविशेषम् आह

स्वर्गं ह्य् अपत्यम् ओजश् च शौर्यं क्षेत्रं बलं तथा ।
ज्ञाति श्रैष्ठ्यं सुसौभाग्यं समृद्धिं मुख्यतां सुतान् ॥ १.२६४ ॥
प्रवृत्तचक्रतां पुत्राण् वाणिज्यप्रभृतींस् तथा ।
अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥ १.२६५ ॥

[५६०] धनं विद्यां भिषक्सिद्धिं कुप्यं गा अप्य् अजाविकम् ।

अश्वान् आयुश् च विधिवद् यः श्राद्धं संप्रयच्छति ॥ १.२६६ ॥
कृत्तिकादिभरण्यन्तं स कामान् आप्नुयाद् इमान् ।
आस्तिकः श्रद्दधानश् चाप्य् अपेतमदमत्सरः ॥ १.२६७ ॥

कृत्तिकादिभरण्यन्तेषु नक्षत्रेषु श्राद्धम् आस्तिकः श्रद्धावान् विगतमत्सरश् च सन् यथाविधि यः पितृभ्यः संप्रयच्छति स यथानक्षत्रक्रमं स्वर्गादीन् कामान् आप्नुयात् । ततश् च स्वर्गकामः कृत्तिकासु श्राद्धं कुर्यात् । अपत्यकामो रोहिण्याम् । तजस्कामो मृगशिरसि । शौर्यकाम आर्द्रायाम् । क्षेत्रकामः पुनर्वस्वोः । बलकामः पुष्ये । पुत्रकामो ऽश्लेषायाम् । श्रैष्ठ्यकामो मघासु । सौभागकामः पूर्वासु फल्गुनीषु । समृद्धिकाम उत्तरासु फल्गुनीषु । मुख्यताकामो हस्ते । सुतकामश् चित्रासु । चक्रप्रवृत्तिकामः स्वातौ । पुत्रकामो विशाखायाम् । वाणिज्यकामो ऽनुराधासु । अरोगित्वकामो ज्येष्ठायाम् । यशस्कामो मूले । विशोकत्वकामः पूर्वाषाढासु । मुक्तिकाम उत्तराषाढासु । धनकामः श्रवणे । विद्याकामो धनिष्ठासु । भिषक्सिद्धिकामः शतभिषजि । कुप्यकामः पूर्वयोर् भद्रपदयोः । गोकाम उत्तर्योर् भद्रपदयोः । अजाविककामो रेवत्याम् । अश्वकामो ऽश्वयुजि । आयुष्कामो भ्रण्याम् । आ फलप्राप्तेः कृत्तिकादिनक्षत्रे श्राद्धं प्रयोक्तव्यम् । अत एव वायुपुराणे,

श्राद्धं यः कृत्तिकायोगे करोति सततं नरः ।

इत्यादि उक्तम् ॥ १.२६४, २६५, २६६, २६७ ॥

वसुरुद्रादितिसुता पितरः श्राद्धदेवताः ।
प्रीणयन्ति मनुष्याणां पितॄञ् श्राद्देन तर्पिताः ॥ १.२६८ ॥

उक्तं स्वसंबन्धिभ्यः प्रेतेभ्यः श्राद्धं प्रदेयम् इति तत्र पित्रादिषु श्राद्धदेवताभूतेषु वस्वादिबुद्धिः कार्येत्य् अनेन विधीयते । ये पितृपितामहप्रपितामहाः श्राद्धदेवतात्वेन नियुक्ताः श्रास्त्रेषु ये यथाक्रमं वसुरुद्रादित्या बोद्धव्या इत्य् अन्वयः । ते वस्वादयः श्राद्देन तर्पिताः श्राद्धेषु देवतात्वेन निविष्टा मनुष्याणां पित्रादींस् तर्पयन्ति । वस्वादिरूपेण ध्याताः श्राद्धात् तृप्तिम् उपयान्तीत्य् अर्थः । अत एव मनुः ।

[५६१] वसून् वदन्ति हि पितॄन् रुद्रांश् चैव पितामहान् ।

प्रपितामहांस् तथादित्याञ् श्रुतिर् एषा पुरातनी ॥ १.२६८ ॥
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं नॄणां प्रीताः पितामहाः ॥ १.२६९ ॥

आयुरादीनि फलानि श्राद्धकर्तृभ्यः प्रयच्छन्ति न पुनर् वस्वादयः । यथाश्रुतग्राहिणः पूर्वश्लोकाद् वस्वादिदै(दे)वत्यम् एव सर्वं श्राद्धं न पुनः पित्रादिदै(दे)वत्यम् इति कस्यचिद् बुद्धिर् उत्पद्यते । तन्निवृत्तिद्वारेण श्राद्धस्यायुरादिफलत्वप्रतिपादनपरो ऽयं श्लोकः । अत्र च पितामहग्रहणं पित्राद्युपलक्षणार्थम् । ततश् च श्राद्धकर्तॄणां मनुष्याणां श्राद्धे देवताभावेन संबध्यमानाः पित्रादय आयुरादिफलप्रदा भवन्तीत्य् उक्तं भवति । यद्य् अप्य् अपूर्वफलप्रदातृत्वं न देवतायास् तथापि सर्वाङ्गोपेतकर्मानुष्ठानात् फलदापूर्वोदय इति युक्ताङ्गभूतपित्रादिदेवतायाः फलहेतुत्वोक्तिः । आयुरादीनां च प्रत्येकं फलत्वं प्रत्येकं द्वितीयायोगात् । एवं चामावास्याष्टकादिश्राद्धानां नित्यत्वं काम्यत्वं च ज्ञेयम् । यद् वा नित्यस्यैव श्राद्धस्य प्रयोगात् कर्तुर् आयुरादिसिद्धिः । नित्ययोर् इव् दर्शपूर्णमासयोः सूक्तवाकनिर्दिष्टायुरादिफलसिद्धिः ।

अत्र श्राद्धकालातिक्रमे यत् कार्यं तद् उच्यते । तत्र ऋष्यशृङ्गः ।
देये पितॄणां श्राद्धे तु आशौचं जायते यदि ।
आशौचे तु व्यतिक्रान्ते तेभ्यः श्राद्धम् प्रदीयते ॥
एकोद्दिष्टे तु संप्राप्ते यदि विघ्नः प्रजायते ।
मासे ऽन्यस्मिंस् तिथौ तस्यां श्राद्धं कुर्यात् प्रयत्नतः ॥

मासिकविषयम् एतत् । मरीचिः ।

श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृताहनि ।
एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः ॥

षट्त्रिंशन्मतात् ।

मासिकाब्दे तु संप्राप्ते त्व् अन्तरा मृतसूतके ।
वदन्ति शुद्धौ तत् कार्यं दर्शे वापि विचक्षणः ॥

यन् मृताहनि प्रतिमासं क्रियते तद् अत्र मासिकम् ॥ १.२६९ ॥

इति श्रीविध्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदप्रादित्यदेवविरचिते याज्ञवल्कीयधर्मशास्त्रनिबन्धे ऽपरार्के

श्राद्धप्रकरणं समाप्तम् ॥ ९ ॥

[५६२]