०९ दान-प्रकरणम्

अथ सटीकायाज्ञवल्क्यस्मृतौ

दानप्रकरणम् (८)

अतो ऽनन्तरं दानप्रकरणविधिः । पात्राय गोप्रभृति दातव्यम् इति विधास्यति । तदर्थं पात्रस्तुतये ब्राह्मणानाम् एव पात्रत्वात् तत्प्रशंसाम् आह ।

तपस् तप्त्वा ऽसृजद् ब्रह्मा ब्राह्मणान् वेदगुप्तये ।
तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥ १.१९८ ॥

ब्रह्मा तपस् तप्त्वा वेदसंरक्षणाय देवानां पितॄणां च तृप्त्यर्थं धर्मपालनाय च ब्राह्मणान् ससर्ज । अतस् ते विशिष्टकारणोद्भवत्वाद् अनन्यसाध्यवेदगुप्त्यादिप्रयोजनवत्त्वाच् च प्रशस्ताः । तपः सर्वेन्द्रियजयः ॥ १.१९८ ॥

किं च

सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः ।

सर्वस्य पृथ्वीगतस्य वस्तुनः श्रुताध्ययनशीलिनो ब्राह्मणाः प्रभवः स्वामिनः । तथा च मनुः ।

ब्राह्मणो जायमानो वै पृथिव्याम् अधिजायते ।
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥

[२८२] सर्वं स्वं ब्राह्मणस्येदं यत् किंचिज् जगतीगतम् ।

श्रेष्ठेनाभिजनेनेदं सर्वं वै ब्राह्मणो ऽर्हति ॥ इति ।

श्रुतं गुरुतः साङ्गोपाङ्गश्रुतिस्मृतिवाक्यार्थावधारणम् । अध्ययनं श्रुत्यादिपाठः । श्रुताध्ययने शीलयन्ति सम्यग् आचरन्तीत्य् एवंस्वभावाः श्रुताध्ययनशीलिनः । “शालिनः” इति पाठे ताभ्यां श्लाघमानाः ॥

तेभ्यः क्रियापराः श्रेष्ठास् तेभ्यो ऽप्य् अध्यात्मवित्तमाः ॥ १.१९९ ॥

तेभ्यः श्रुताध्ययनमात्रोपक्षीणव्यापारेभ्यः क्रियापरा धर्मानुष्ठानप्रधानाः । क्रियाशब्दो ऽत्राधर्मवर्जनार्थो ऽपि । अर्थाद् एषां श्रुताध्ययनसिद्धिर् न हि तद्रहिताः क्रियापरा भवन्ति । तेभ्यः केवलधर्मिभ्यो ब्रह्मविदः प्रशस्ततमाः ॥ १.१९९ ॥

एवं ब्राह्मणान् प्रशस्य पात्रलक्षणम् आह ।

न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तम् इमे चोभे तद् धि पात्रं प्रकीर्तितम् ॥ १.२०० ॥

विद्या स्वधर्मब्रह्मविषयं ज्ञानं तया केवलया तपोरहितया तपसा वा स्वधर्मानुष्ठानरूपेण विद्यारहितेन पात्रता न भवति । यतो यत्र ब्राह्मणे वृत्तम् आचारलक्षणम् अस्ति विद्यातपसी च स्तः, तत्पात्रं महर्षिभिः प्रकीर्तितम् । दातारं पापात् तारयतीति पात्रम् । अत एव मनुः ।

दानं धर्मं निषेवेत नित्यम् ऐष्टिकपौष्टिकम् ।
परितुष्टेन भावेन पात्रम् आसाद्य शक्तितः ॥
यत् किंचिद् अपि दातव्यं याचितेनानसूयता ।
उत्पत्स्यते हि तत् पात्रं यत् तारयति सर्वतः ॥

वसिष्ठः ।

स्वाध्यायाढ्यं योनिमन्तं प्रशान्तं वैतानस्थं पापभीरुं बहुज्ञम् ।
स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं व्रतैः क्लान्तं तादृशं पात्रम् आहुः ।

योनिमान् कुलीनः ।

ये क्षान्तदान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिवधान् निवृत्ताः ।
प्रतिग्रहे संकुचिता गृहस्थास् ते ब्राह्मणास् तारयितुं समर्थाः ॥

दाने व्यासः ।

मातापितृषु यद् दत्तं भ्रातृस्वसृसुतासु च ।
जायात्मजेषु यद् दत्तं सो ऽनिन्द्यः स्वर्गसंक्रमः ॥
पितुः शतगुणं दानं सहस्रं मातुर् उच्यते ।
**अनन्तं दुहितुर् दानं सोदरे दत्तम् अक्षयम् ॥ इति । [२८३]

वचनप्रामान्यान् मातृप्रभृतिभ्यो विद्याहीनेभ्यो ऽपि वक्ष्यमाणं गोभूतप्रभृति दातव्यम् अवश्यम् । तथा च मनुः ।

शक्तः परजने दाता स्वजने दुःखजीविनि ।
मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ॥
भृत्यानाम् उपरोधेन यः करोत्य् और्ध्वदैहिकम् ।
तद् भवत्य् असुखोदर्कं जीवतो ऽस्य मृतस्य च ॥

और्ध्वदैहिकम् आमुष्मिकफलं कर्म । उदर्को ऽन्तः । दक्षः ।

दयाम् उद्दिश्य यद् दानम् अपात्रेभ्यो ऽपि दीयते ।
दीनान्धकृपणेभ्यश् च तद् आनन्त्याय कल्पते ॥

शातातपः ।

संनिकृष्टम् अधीयानं व्यतिक्रामति यो द्विजः ।
भोजने चैव दाने च स हन्यात् सप्तमं कुलम् ॥

भविष्यत्पुराणम् ।

यस् त्व् आसन्नम् अतिक्रम्य ब्राह्मणं पतिताद् ऋते ।
दूरस्थं भोजयेन् मूढो गुणाढ्यं नरकं व्रजेत् ॥
तस्मान् नातिक्रमेत् प्राज्ञो ब्राह्मणान् प्रातिवेश्मिकान् ।
संबन्धिनस् तथा सर्वान् दौहित्रं विट्पतिं तथा ॥
भागिनेयं विशेषेण तथा बन्धून् गृहाधिप ।
नातिक्रामेन् नरस् त्व् एतान् मूर्खान् अपि च गोपते ॥
अतिक्रम्य महारौद्रं रौरवं नरकं व्रजेत् ॥

प्रातिवेश्मिकः समीपगृहवर्ती । विट्पतिर् जामाता । महाभारते ।

तद्भक्तास् तधना राजंस् तद्गृहाश् तद्व्यपाश्रयाः ।
अर्थिनश् च भवन्त्य् अर्थे तेषु दत्तं महाफलम् ॥

अर्थी धनविषय इत्य् अर्थः ।

कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः ।
स्पृहयन्ति सुगुप्तानां तेषु दत्तं महाफलम् ॥

प्रभविष्नुभिर् बलिभिः कृतसर्वस्वहरणा इत्य् अर्थः ।

हृतस्वा हृतदाराश् च ये विप्रा देशविप्लवे ।
अर्थार्थम् उपगच्छन्ति तेषु दत्तं महाफलम् ॥
तपस्विनस् तपोनित्यास् तथा भिक्षवराश् च ये ।

[२८४] अर्थिनः केचिद् इच्छन्ति तेषु दत्तं महाफलम् ॥

दक्षः ।

व्यसनाप्दृणार्थं च कुटुम्बार्थं च याचते ।
एवम् अन्विष्य दातव्यं सर्वदानेष्व् अयं विधिः ॥
शीलं संवासतो ज्ञेयं शौचं संव्यवहारतः ।
प्रज्ञा संकथया ज्ञेया त्रिभिः पात्रं परीक्ष्यते ॥

संवर्तः ।

श्रोत्रियाय दरिद्राय अर्थिने च विशेषतः ।
यद् दानं दीयते तस्मै तद् दानं शुभकारकम् ॥

देवलः ।

मात्रश् च ब्राह्मणश् चैव श्रोत्रियश् च ततः परम् ।
अनूचानस् तथा भ्रूण ऋषिकल्प ऋषिर् मुनिः ॥
इत्य् एते ऽष्टौ समुद्दिष्टा ब्राह्मणाः प्रथमं श्रुतौ ॥
तेभ्यः परः परः श्रेष्ठो विद्यावृत्तो विशेषतः ।
ब्राह्मणानां कुले जातो जातिमात्रो यदा भवेत् ॥
अनपेतः क्रियाहीनो मात्र इत्य् अभिधीयते ।
एकोद्देशम् अतिक्रम्य वेदस्यादानवान् ऋजुः ॥
स ब्राह्मण इति प्रोक्तो निभृतं सत्रवान् घृणी ।
एकां शाखां सकल्पां च षड्भिर् अङ्गैर् अधीत्य च ॥
षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित् ।
वेदवेदाङ्गतत्त्वज्ञः शुद्धात्मा पापवर्जितः ॥
शेषं श्रोत्रियवत् प्राप्तः सो ऽनूचान इति स्मृतः ॥

सेषं लक्षणं षट्कर्मनिरतत्वं श्रोत्रियस्येव यः प्राप्तः सो ऽनूचान इत्य् अर्थः ।

अनूचानगुणोपेतो यज्ञस्वाह्याययन्त्रितः ।
भ्रूण इत्य् उच्यते प्राज्ञैः शेषभोजी जितेन्द्रियः ॥

शेषं भृत्यादिभुक्तशेषम् ।

लौकिकं वैदिकं चैव सर्वं ज्ञानम् अवाप्य यः ।
आश्रमस्थो वशी नित्यम् ऋइषिकल्प इति स्मृतः ॥
ऊर्ध्वरेतास् तपस्य् उग्रो नियताशी त्व् असंशयी ।
शापानुग्रहयोः शक्तः सत्यसंधो भवेद् ऋषिः ॥
निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः ।
ध्यानस्थो निष्क्रियो दान्तस् तुल्यमृत्काञ्चनो मुनिः ॥
एवम् अन्वयविद्याभ्यां वृत्तेन च स्मुच्छ्रितः ।
त्रिशुक्ला नाम विप्रेन्द्राः पूज्यन्ते सवनादिषु ॥

अन्वयादीनि त्रीणि शुक्लानि शुद्धानि येषां ते त्रिशुक्लाः । सवनं सोमयागः । वसिष्ठः ।

यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् ।
न सुवृत्तं न दुर्वृत्तं वेद कश्चित् स ब्राह्मणः ॥
योगस् तपो दया दानं सत्यं शौचं श्रुतं घृणा ।
विद्या विज्ञानम् आस्तिक्यम् एतद् ब्राह्मणलक्षणम् ॥

तथा ।

किंचिद् वेदमयं पात्रं किंचित् पात्रं तपोमयम् ।
पात्राणाम् अधिकं पात्रं शूद्रान्नं यस्य नोदरे ॥ १.२०० ॥

इदानीं देयद्रव्येण पात्रेण विशिष्टदानविधिम् अपात्रे दाननिषेधं चाह

गोभूतिलहिरण्यादि पात्रे दातव्यम् अर्चितम् ।
नापात्रे विदुषा किंचिद् आत्मनः श्रेय इच्छता ॥ १.२०१ ॥

प्रत्येकं गोप्रभृतिद्रव्यम् आत्मनः श्रेयः प्रियं स्वर्गादिकम् इच्छतार्चयित्वा पात्राय प्रदेयम् । आदिशब्देन शस्त्रान्तरोक्तम् अन्नादिदेयं संगृह्णाति । अपात्रदानात् प्रत्यवायोदयं विदुषा जानता किंचिद् अप्य् अपात्राय न देयम् । पात्राय दातव्यम् इतिविधिसामर्थ्याद् एवापात्रे न देयम् इति निषेधे सिद्धे पृथङ्निषेधम् आरभमाणो मुख्यपात्रासंभवे प्रतिषिद्धवर्जस्य पात्रतास्तीति ज्ञापयति । अत्र चापात्रशब्दो न पात्राद् अन्यद् अपात्रम् आह किं तु पात्रविरुद्धम् । यस्य च पात्रत्वं प्रतिषिद्धं तत् तद्विरुद्धम् । येभ्यो न देयं तान् आह मनुः ।

न वार्य् अपि प्रयच्छेत् तु बैडालव्रतिके द्विजे ।
न बकव्रतिके पापे नावेदविदि धर्मवित् ॥
त्रिष्व् अप्य् एतेषु दत्तं हि विधिनाप्य् अर्जितं धनम् ।
दातुर् भवत्य् अनर्थाय परत्रादतुर् एव च ॥

अनर्थः प्रत्यवायः ।

यः कारणं पुरस्कृत्य व्रतचर्या निषेवते ।
पापं व्रतेन संछाद्य बैडालं नाम तद् व्रतम् ॥

कारणं धर्मम् इत्य् अर्थः । व्रतं प्रायश्चित्तम् ।

प्रतिगृह्याश्रमं यस् तु स्थित्वा तत्र न तिष्ठति ।
आश्रमस्य विरोपेन बैडालं नाम तद् व्रतम् ॥

[२८६] अव्रतानाम् अमन्त्राणां जातिमात्रोपजीविनाम् ।

तेषां प्रतिग्रहाद् दोषो न शिला तारयेच् छिलाम् ॥
अपविद्धाग्निहोत्रस्य गुरोर् विप्रियकारिणः ।
द्रविणं नैव दातव्यं सततं पापकारिणः ॥
न प्रतिग्रहम् अर्हन्ति वृषलाध्यापका द्विजाः ।
शूद्रस्याध्यापनाद् विप्रः पतत्य् अत्र न संशयः ॥

वसिष्ठः ।

उपक्रन्दति दातारं गौर् अश्वः काञ्चनं मही ।
अश्रोत्रियस्य विप्रस्य हस्तौ दृष्ट्वा निराकृतेः ॥

दक्षः ।

धूर्ते छद्मनि मल्ले च कुविद्ये कितवे शठे ।
चाटचारणचौरेषु दत्तं भवति निष्फलम् ॥

व्यासः ।

ऊषरे वापिते बीजं यच् च भस्मनि हूयते ।
क्रियाहीनेषु यद् दत्तं न च तत् प्रेत्य नो इह ॥

वृद्धमनुः ।

पात्रभूतो ऽपि यो विप्रः प्रतिगृह्य प्रतिग्रहम् ।
असत्सु विनियुञ्जीत तस्मै देयं न किंचन ॥
संचयं कुरुते यश् च प्रतिगृह्य समन्ततः ।
धर्मार्थं नोपयुङ्क्ते च न तं तस्करम् अर्चयेत् ॥

यमः ।

यस्य वेदश् च वेदी च् विच्छिद्येते त्रिपौरुषम् ।
स वै दुर्ब्राह्मणो नाम यश् चैव वृषलीपतिः ॥

वसिष्ठः ।

उदक्यान्वासते येषां ये च केचिद् अनग्नयः ।
कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः ॥

मनुः ।

समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
सहस्रगुणम् आचार्ये अनन्तं वेदपारगे ॥

समं यावद् धनं तावत् तस्य फलम् इत्य् अर्थः । शातातपः ।

नेष्टं देवलके दत्तम् अप्रतिष्ठं च वार्दुषौ ।
यच् च निर्णेजके दत्तं निष्फलाशं विधीयते ॥
यश् च लिङ्ग्युचितां वृत्तिम् अलिङ्गेभ्यः प्रयच्छति ।
घोरायां ब्रह्महत्यायां पच्यते नात्र संशयः ॥
अब्राह्मणाश् च षट् प्रोक्ता ऋषिः शातातपो ऽब्रवीत् ।
आद्यो राजाश्रयस् तेषां द्वितीयः क्रयविक्रयी ॥

[२८७] तृतीयो बहुयाज्यः स्याच् चतुर्थो ग्रामयाजकः ।

पञ्चमस् तु भृतस् तेषां ग्रामस्य नगरस्य च ॥
अनागतां तु यः पूर्वां सादित्यां चैव पश्चिमाम् ।
नोपासीत द्विजः संध्यां स षष्ठो ऽब्राह्मणः स्मृतः ॥

व्यासः ।

ब्रह्मबीजसमुत्पन्नो मन्त्रसंस्कारवर्जितः ।
जातिमात्रोपजीवी च भवेद् अब्राह्मणः स तु ॥
गर्भाधानादिभिर् युक्तस् तथोपनयनेन च ।
न कर्मकृन् न चाधीते स भवेद् ब्राह्मणब्रुवः ॥

यत् तु बृहस्पतिनोक्तम्-

शूद्रे समगुणं दानं वैश्ये तद्द्विगुणं स्मृतम् ।
क्षत्रिये त्रिगुणं दानं ब्राह्मणे षड्गुणं स्मृतम् ॥

इति, तद् अन्नदानविषयम्, “कृतान्नम् इतरे” इति गौतमवचनात् । कृतान्नं पक्वान्नम् । इतरे क्षत्रियादयः । मनुः ।

अनर्हते यद् ददाति न ददाति यद् अर्हते ।
अर्हानर्हापरिज्ञानाद् धनाद् धर्माच् च हीयते ॥ इति ।

अत्र सामान्यतो गवादिना देयेन पात्रे दानेन विशिष्टं दानं विहितं तत्र दानशब्दार्थं तस्य चावान्तरविशेषान् आह देवलः ।

अर्थानाम् उदिते पात्रे श्रद्दया प्रतिपादनम् ।
दानम् इत्य् अभिनिर्दिष्टं व्याख्यानं तस्य वक्ष्यते ॥

अर्था देयद्रव्याणि तेषां प्रतिपादनं नाम पात्रं प्रति स्वस्वाभिभावापादनपर्यन्तस् त्यागः ।

द्विहेतु षडधिष्ठानं षडङ्गं षड्विपाकयुक् ।
चतुष्प्रकारं त्रिविधं त्रिनाशं दानम् उच्यते ॥

तत्र द्विहेतुकत्वम् आह ।

नाल्पत्वं वा बहुत्वं वा दानस्याभ्युदयावहम् ।
श्रद्धा शक्तिश् च दानानां षडेतानि प्रचक्षते ॥
पात्रेभ्यो दीयते नित्यं वृद्धिक्षयकरौ हि तौ ॥

एको वाशब्द इवार्थे द्वितीयः समुच्चये । यथा नाल्पत्वं दानाभ्युदयस्य कारणं तथा न बहुत्वम् अपि किं तु श्रद्धाशक्ती । शक्तिर् औदार्यम् अपश्चात्तापश् च । षडधिष्ठानत्वम् आह ।

[२८८] धर्मम् अर्थं कामं च व्रीडाहर्षभयानि च ।

अधिष्ठानानि दानानां षड् एतानि प्रचक्षते ॥
पात्रेभ्यो दीयन्ते दानम् अनपेक्ष्य प्रयोजनम् ।
केवलं त्यागबुद्ध्या यद् धर्मदानं तद् उच्यते ॥
प्रोयोजनम् अनपेक्ष्यैव प्रसङ्गाद् यत् प्रदीयते ।
तद् अर्थदानम् इत्य् आहुर् वैदिकं फलहेतुकम् ॥
स्त्रीपानमृगयाक्षाणां प्रसङ्गाद् यद् प्रदीयते
अनर्हेषु च रागेण कामदानं तद् उच्यते ॥
संसदि व्रीडयाश्रुत्य यो ऽर्थो ऽर्थिभ्यः प्रयाचितः ।
प्रदीयते चेत् तद् दानं व्रीडादानम् इति स्मृतम् ॥
दृष्ट्वा प्रियाणि श्रुत्वा च हर्षवद् यत् प्रदीयते ।
हर्षदानम् इति प्राहुर् दानं तद् धर्मचिन्तकाः ॥
अक्रोशान् अर्थहिंसानां प्रतीकाराय यद् भयात् ।
दीयते तापकर्तृभ्यो भयादानं (?) तद् उच्यते ॥

षडङ्गत्वम् आह ।

दाता प्रतिग्रहीता च श्रद्धा दैवं च धर्मयुक् ।
देशकालौ च दानानाम् अङ्गान्य् एतानि षड् विदुः ॥
अपापरोगी धर्मात्मा दित्सुर् अव्यसनः शुचिः ।
अनिन्द्याजीवकर्मा च षड्भिर् दाता प्रशस्यते ॥
त्रिशुक्लः कृशवृत्तिश् च घृणालुः सकलेन्द्रियः ।
विमुक्तो योनिदोषेभ्यो ब्राह्मणः पात्रम् उच्यते ॥

त्रिशुल्को व्याख्यातः ।

सौमुखाद्यभिसंप्रीतिर् अर्थिनां दर्शने सदा ।
सत्कृतिश् चानसूया च तदा श्रद्धेति कीर्त्यते ॥
अपराबाधम् अक्लेशं स्वयं येनार्जितं धनम् ।
स्वल्पं वा विपुलं वापि देयम् इत्य् अभिधीयते ॥
यद्य् अत्र दुर्लभं द्रव्यं यस्मिन् काले ऽपि वा पुनः ।
दानादौ देशकालौ तौ स्यातां श्रेष्ठौ न चान्यथा ॥
अवस्थादेशकलानां पात्रदात्रोश् च संपदा ।
**हीनं वापि भएच् छ्रेष्ठं श्रेष्ठं वाप्य् अन्यथा भवेत् ॥ [२८९]

षड्विपाकत्वम् आह ।

दुष्फलं निष्फलं हीनं तुल्यं विपुलम् अक्षयम् ।
षड्विपाकयुग् उद्दिष्टं षड् एतानि विपाकतः ॥
नास्तिकस् तेन हिंस्रेभ्यो ऽवराय पतिताय च ।
पिशुनभ्रूणहर्तृभ्यां प्रदत्तं दुष्फलं भवेत् ॥

अवरः क्षत्रियादिः ।

महद् अप्य् अफलं दानं शद्धया परिवर्जितः ।
परबाधकरं दानं परम् अप्य् ऊनतां व्रजेत् ॥
यथोक्तम् अपि यद् दत्तं चित्तेन कलुषेण तु ।
तत् तु संकल्पदोषेण दानं तुल्यफलं भवेत् ॥
यथोक्तैः सकलैः षड्भिर् दानं स्याद् विपुलोदयम् ।

उदयः फलम् ।

अनुक्रोशवशाद् दत्तं दानम् अक्षयतां व्रजेत् ॥

अनुश्रोशो दया । दीयत इति दानं गवादि । ध्रुवादिचतुष्प्रकारम् आह ।

ध्रुवम् आजस्रिकं काम्यं नैमित्तिकम् इति क्रमात् ।
वैदिको दानमार्गो ऽयं चतुर्धा वर्ण्यते द्विजैः ॥
प्रपारामतडाकादि सर्वकामफलं ध्रुवम् ।
तद् आजस्रिकम् इत्य् आहुर् दीयते यद् दिने दिने ॥
अपत्यविजयैश्वर्यस्त्रीबालार्थं यद् इष्यते ।
इच्छासंस्थं तु तद् दानं काम्यम् इत्य् अभिधीयते ॥
कालापेक्षं क्रियापेक्षम् अर्थापेक्षम् इति स्मृतम् ।
त्रिधा नैमित्तिकं प्रोक्तं सहोमं होमवर्जितम् ॥

त्रिविधत्वम् आह ।

नवोत्तमानि चत्वारि मध्यमानि विधानतः ।
अधमानीति शेषाणि त्रिविधत्वम् इदं विदुः ॥
अन्नं दधि मधु त्राणं गोभूरुक्माश्वहस्तिनः ।
दानान्य् उत्तमदानानि उत्तमद्रव्यदानतः ॥
विद्या चाच्छादनवासपरिभोगौषधानि च ।
दानानि मध्यमानीति मध्यमद्रव्यदानतः ॥
उपानत्प्रेङ्खयानानि छत्रपात्रासनानि च ।
दीपक्ष्ठफलादीनि चरमं बहुवार्षिकम् ॥

[२९०] बहुत्वाद् अर्थजातानां संख्यासेषेषु नेष्यते ।

अधमान्य् अवशिष्टानि सर्वनानाय् अतो विदुः ॥

विनाशित्वम् आह ।

इष्टं दत्तम् अधीतं वा प्रणश्यत्य् अनुकीर्तनात् ।
श्लाधानुशोचनाभ्यां च भग्नतेजो विपद्यते ॥
तस्माद् आत्मकृतं पुण्यं न वृथा परिकीर्तयेत् ।
उक्तवन्तम् इति प्राहुस् तम् एवं कृतवेदनम् ॥
एवं सर्वगुणोपेतम् उक्तदोषैर् विवर्जितम् ।
कामधुग्धेनुवद्दानं फलत्य् आत्मेप्सितं फलम् ॥
इह कीर्तिं च दानाख्यां स्फीतान् भोगांस् त्रिविष्टपे ।
दानश्रद्धां तृतीये च जन्मनि प्रसवोत्तमे ॥
अन्यायाधिगतां दत्त्वा सकलां पृथिवीम् अपि ।
श्रद्धावर्जम् अपात्राय न कांचिद् भूतिम् आप्नुयात् ॥
प्रदाय शाकमुष्टिं वा श्रद्धाभक्तिसमुद्यताम् ।
महते पात्रभूताय सर्वाभ्युदयम् आप्नुयात् ॥

मनुः ।

श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यात् प्रयत्नतः ।
श्रद्धाकृते ह्य् अक्षये ते भवतः स्वागतैर् धनैः ॥

महाभारतम् ।

एकाग्निकर्म हवनं त्रेतायां यच् च हूयते ।
अन्तर्वेद्यां च यद् दानम् इत्य् अभिधीयते ॥
वापीकूपतडाकानि देवतायतनानि च ।
अन्नप्रदानम् आरामः पूर्तम् इत्य् अभिधीयते ॥

नारदः ।

आतिथ्यं वैश्वदेवश् च इष्टम् इत्य् अभिधीयते ।
पुष्करिण्यस् तथा वाप्यो देवतायतनानि च ॥
अन्नप्रदानम् आरामः पूरम् इत्य् अभिधीयते ।
द्वादश्यां चैव यद् दानं पूर्तम् इत्य् अभिधीयते ॥

अनेन चादिशब्देन यज्ञदक्षिणादानाद् दानान्तरं गृह्यते ।

इष्टापूर्तौ द्विजातीनां धर्मः सामान्य उच्यते ।
अधिकारी भवेच् छूद्रः पूर्ते धर्मे न वैदिके ॥

मनुः ।

यो ऽर्चितं प्रतिगृह्णाति ददात्य् अर्चितम् एव तु ।
**ताव् उभौ गच्छतः स्वर्गं नरकं च विपर्यये ॥ [२९१]

यमः ।

दानं हि बहुमानाद् यो गुणवद्भ्यः प्रयच्छति ।
स तु प्रेत्य धनं लब्ध्वा पुत्रपौत्रैः सहाश्नुते ॥

बहुमान आदरः ।

परं चानुपहन्येह दानं दत्वा विचक्षणः ।
सुखोदयं सुखोदर्कं प्रेत्य वै लभते धनम् ॥

आपस्तम्बः- “सर्वाण्य् उदकपूर्वाणि दानानि” ॥ १.२०१ ॥

न केवलम् अपात्राय न देयं किं तु तेन न प्रतिग्राह्यम् अपीत्य् आह ।

विद्यातपोभ्यां हीनेन नैव ग्राह्याः प्रतिग्रहः ।
गृह्णन् प्रदातारम् अधो नयत्य् आत्मानम् एव च ॥ १.२०२ ॥

विद्यातपोभ्यां हीनेन पात्रलक्षणरहितेन । प्रतिगृह्यत इति प्रतिग्रहः । स न ग्राह्यः । यतो विद्यादिरहितः प्रतिगृह्णन् दातारम् आत्मानं च नरकं नयति ॥ १.२०२ ॥

दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापूतं च शक्तितः ॥ १.२०३ ॥

प्रत्यहम् अनुदितं पात्रे दातव्यम् । निमित्तेषु संक्रान्त्यादिषु तु विशेषत आदरेण दातव्यम् । याचितेन दातव्यम् अपिशब्दाद् अयाचितेन च । तत्रायाचितदानं प्रशस्ततमम् । तथा च शातातपः ।

अभिगम्य तु यद् दानं यत् तु दानम् अयाचितम् ।
विद्यते सागरस्यान्तस् तस्यान्तो नैव दृश्यते ॥

तथा ।

गत्वा यद् दीयते दानं तद् अनन्तफलं स्मृतम् । ।
सह्स्रगुणम् आहूते याचिते तु तदर्धकम् ॥

पात्रे श्रद्धापूतं शक्तित इति च प्रतिवाक्यं संबध्यते । दाननिमित्तं कालः क्रियार्थ इत्य् उक्तं देवलेन- “कालापेक्षं क्रियापेक्षम्” इत्यादिना । तत्र कालो विधीयते प्रत्यहम् इत्यादिनाहर्मात्रम् । अनेन च रात्रिर् व्युदस्यते । निमित्तेष्व् इत्य् अनेन कालविशेषा अयनादयो निर्दिश्यन्ते । तथा च शातातपः ।

अयनादौ सदा देयं द्रव्यम् इष्टं गृहे तु यत् ।
षडशीतिमुखे चैव विमुखे चन्द्रसूर्ययोः ॥

विमोक्षे वर्तमानयोर् न तु मुक्तयोर् इत्य् अर्थः, “उपरागे तु तत्कालम्” इति वसिष्ठवचनात् । व्यासः ।

संक्रान्तौ याति दत्तानि हव्यकव्यानि दातृभिः ।
तानि नित्यं ददात्य् अर्कः पुनर् जन्मनि जन्मनि ॥
शतम् इन्दुक्षये दानं सहस्रं तु दिनक्षये ।
विषुवे शतसाह्स्रं व्यतीपाते त्व् अनन्तकम् ॥

संवर्तः ।

अयनेषु च यद् दत्तं षडशीतिमुखेषु च ।
चन्द्रसूर्योपरागे वा दत्तं भवति चाक्षयम् ॥

इन्दुक्षये ऽमावस्यायाम् ।

एकस्मिन् सावने त्व् अह्नि तिथीनां त्रितयं यदा ।
तदा दिनक्षयः प्रोक्तस् तत्र साहस्रिकं फलम् ॥

वसिष्ठः ।

मृगकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने ।

मृगो मकरः ।

विषुवे च तुलामेषे तयोर् मध्ये ततो ऽपराः ।
वृषवृश्चिककुम्भेषु सिंहे चैव यदा रविः ॥
एतद् विष्णुपदं नाम विषुवादधिकं फलम् ।
कन्यायां मिथुने मीने धनुष्य् अपि रवेर् गतिः ॥
षडशीतिमुखी प्रोक्ता षडशीतिगुणा फलैः ।
अतीतानागते पुण्ये द्वे तूदग्दक्षिणायने ।
उपरागे तु तत्कालम् अतीते चोत्तरायणे ॥

पर्वकालस् तु सर्वसंक्रान्तिषु प्राग् ऊर्ध्वं च भवति । अत एव वसिष्ठेनैव व्यवस्थोक्ता ।

त्रिंशत्कर्कटके नाड्यो मकरे विंशतिः स्मृताः ।
वर्तमाने तुलमेषे नाड्यस् तूभयतो दश ॥ इति ।

अत्र वर्तमान उभतत इति च सर्वैर् एव कर्कटादिभिः संबध्यते, साकाङ्क्षत्वाविशेषात् । तद्विशेषे चैकस्य पाठसंनिधिर् नान्वयनियामको ऽवर्जनीयत्वेनान्यथासिद्धत्वात् ।

षडशीत्यां व्यतीतायां षष्टिर् उक्तास् तु नाडिकाः ।

फलभूयस्त्वाभिप्रायम् एतत् । अत एव षडशीतिमुखे ऽपि पूर्वम् अपि पर्वकालम् आह ।

विष्णुपद्यां धनुर्मीननृयुक्कन्यासु वै यदा ।
पूर्वोत्तरगतै रात्रौ यदा संक्रमणं भवेत् ॥

[२९३] पूर्वोत्तरागतै रात्रौ भागैः संक्रमणं भवेत् ।

पूर्वाह्णे पञ्च नाड्यस् तु पुण्याः प्रोक्ता मनीषिभिः ॥
अपराह्णे तु पञ्चैव श्रौते स्मार्ते च कर्मणि ॥ इति ।

अनेन षडशीत्यां संक्रान्त्यां पूर्वरात्रेर् भाविन्याम् अपराह्णे संक्रान्तिकार्यं कर्तव्यम् इत्य् उच्यते । नृयुग् मिथुनराशिः ।

पुण्याख्या विष्णुपद्यां च प्राक् पश्चाद् अपि षोडश ।
अह्नि संक्रमणे पुण्यम् अहः कृत्स्नं प्रकीर्तितम् ॥
रात्रौ संक्रमणे प्रोक्तं दिनार्धं स्नानदानयोः ।
अर्धरात्राद् अधस् तस्मिन् मध्याह्नस्योपरि क्रिया ॥
ऊर्ध्वं संक्रमणे चोर्ध्वम् उदयात् प्रहरद्वयम् ।
पूर्णे चेद् अर्धरात्रे तु यदा संक्रमते रविः ॥
प्राहुर् दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटौ ॥

अत्र चेयं व्यवस्था — पूर्वरात्रसंक्रमणे पूर्वस्याह्न उत्तरार्धे स्नानादिकं कार्यम् अपरत्र संक्रमणे तूत्तरस्याह्नः पूर्वाह्णे । यत् तु वचनम्,

राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु ।
स्नानदानादिकं कुर्यान् निशि काम्यव्रतेषु च ॥

इति, तन् मकरकर्कटसंक्रान्तिविषयम्, “मुक्त्वा मकरकर्कटौ” इति वचनात् । अनेन वचनेनायनद्वय एव रात्रौ स्नानाद्य् अनुगृह्यते । “रात्रौ स्नानं न कुर्वीत” इति नेषेधः संक्रान्त्यन्तरे भवत्य् एव । यत् तु,

त्रिंशत्कर्कटके पुण्यं मकरे विंशतिस् तथा ।
भविष्यद्दक्षिणे पुण्यम् अतीते चोत्तरायणे ॥

इति, तत् पुण्यातिशयप्रतिपादनार्थम् । न पुनर् नियमार्थम् । अत एव,

मध्ये विषुवति दानं विष्णुपदे दक्षिणायने चादौ ।
षडशीतिमुखे ऽतीते तथोदगयने च भूरिफलम् ॥

इति स्मरन्ति । अत एवे तेनाविशेषेणोक्तम् ।

संक्रान्तिसमयः सूक्ष्मो दुर्ज्ञेयो ऽपि मितेक्षणैः ।
तद्योगाद् अप्य् अधश् चोर्ध्वं त्रिंशन् नाड्यः पवित्रिताः ॥

[२९४] आसन्नसंक्रमं पुण्यं दिनार्धं स्नानदानयोः ।

रात्रौ संक्रमणे भानोर् विषुवत्य् अयने दिने ॥
या याः संनिहिता नाड्यस् तास् ताः पुण्यतमाः स्मृताः ॥

एवं चयम् अर्थः सिद्धो भवति — अतीतत्वं संक्रान्तेर् अनागतत्वं वानादृत्य यत्र दिनार्धे ऽतीतानागता वा संक्रान्तिः प्रत्यासन्ना भवति तत्र स्नानदानादिकं कर्यम् इति । अथ प्रकृतम् उच्यते — क्रियापि हिंसादिः प्रायश्चित्तिरूपस्य दानस्य निमित्तं भवति । यथोक्तं मनुना,

धनं वा जीवनायालं गृहं वा सप्रिच्छदम् ।
सर्वस्वं वा वेदविदे ब्राह्मणयोपपदयेत् ॥

इत्यादि प्रायश्चित्तप्रकरणे । अर्थो ऽपि दाननिमित्तं भवति । यथोक्तं महाभारते ।

एकां गां दशगुर् दद्याद् दश दद्यात् तु गोशती ।
शतं सहस्रगुर् दद्यात् सर्वे तुलफलाः स्मृताः ॥ इति ।

याचितेनापि दातव्यम् इत्य् उक्तम् । तत्र येभ्यो ऽवश्यं दातव्यं तान् आह मनुः ।

सांतानिकं यक्ष्यमाणम् अध्वगं सार्ववेदसम् ।
गुर्वर्थिपितृमात्रर्थिस्वाध्यायार्थ्युपतापिनः ॥
न वै तान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभैक्षुकान् ।
निःस्वेभ्यो देयम् एतेभ्यो दानं विद्याविशेषतः ॥
एतेभ्यो हि द्विजाग्र्येभ्यो देयम् अन्नं सदक्षिणम् ।
इतरेभ्यो बहिर्वेदि कृतान्नं भुवि दीयते ॥ इति ।

सांतानिको यः संतानाय कन्याम् उद्वोढुम् इच्छति । यक्ष्यमाणः सोमयागं करिष्यमाणः । अध्वगो धर्माय प्रचलितः । सार्ववेदसः कृतविश्वजिद्यागः । गुरोर् अर्थो गुर्वर्थस् तदर्थी । एवं पित्रर्थी मात्रर्थी स्वाध्यायार्थी उपतापी रोगी च । ते सर्वे स्नातकाः समावृत्तत्वात् । धर्मभिक्षुकाः, विहितभिक्षाकारित्वात् । ब्राह्मणशब्दात् क्षत्रियादिनिवृत्तिः । दकिष्णाशब्देनात्र गवादिद्रव्यम् एवोच्यते । न तु ऋत्विक्परिक्रियो ऽसंभवत्वात् । इतरे क्षत्रियादयः । बहिर्वेदि क्रतोर् अन्यत्रेत्य् अर्थः । बैर्वेदीति देयम् अन्नं सदक्षिणम् इत्य् अनेन संबध्यते, “बहिर्वेदि भिक्षंआणेभ्य” इत् गौतमवचनात् । कृतान्नं पक्वान्नम् ॥ १.२०३ ॥

[१.२०४]

गोदानेतिकर्तव्यताम् आह

हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता ।
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥ १.२०४ ॥

हेमयुक्त शृङ्गे यस्याः सा हेमशृङ्गी । रौप्य्मयैः खुरैर् विशिष्टा । सुशीला साध्वी । वस्त्रसंयुता वस्त्राच्छादिता । कांस्यपात्रसहिता । क्षीरिणी बहुक्षीरा । सदक्षिणा सुवर्णदक्षिणासहिता गौर् दातव्या । स्कन्दपुराणे ।

यो नरो गां प्रच्छेत् तु सवत्सां कांस्यदोहनम् ।
हेमशृङ्गीं रौपखुरां दुकूलक्षौमवासिताम् ॥
शय्यास्तरणसंपन्नां बहुपुष्पफलैर् युताम् ।
ब्राह्मणं पूजयित्वा तु गन्धमाल्यैर् अलंकृताम् ॥
देवैर् अध्यासितां तां तु सर्वैर् हस्तद्वयेन तु ।
मृदुबन्धेन बध्नीयाद् अन्तःश्लक्ष्णेन रज्जुना ॥
कुशान् सुवर्णबीजानि तिलान् सिद्धार्थकांस् तथा ।
प्रदद्यात् तां ततो अद्भिश् च मन्त्रेणानेन सुव्रत ॥
सर्वदेवमयीं दोग्ध्रीं सर्वलोकमयीं तथा ।
सर्वलोकनिमित्तां गां सर्वदेवनमस्कृताम् ॥
प्रयच्छामि महासत्त्वाम् अक्षयाय शुभाम् इति ।
ॐ ह्रीं नमो भगवति ब्रह्ममातर् विष्णुभगिनि रुद्रदैवते सर्वपापप्रमोचिनि स्वरूपं स्मर इडे इडान्ते हव्ये चान्द्रे घृतिमति सरस्वति सुश्रुते एह्य् एहि हुं कुरु कुं कुरु सर्वलोकमये एह्य् आगच्छागच्छ स्वाहा । इत् धेनुकर्णजपः ।
प्रतिग्रहीता दाता च ताव् उभौ स्वर्गगामिनौ(णौ) ।
यदि स्मारयते पूर्वं कर्णेन द्विजसत्तम ॥ इति ।

मत्स्यपुराणे ।

एवं दत्वा तु गां तां तु यत्र यत्र प्रजायते ।
तत्र तत्र गता सा तु जन्तुं तारयते बलात् ।
स्वर्गलोकं नरो गत्वा रमते च यथामरः ॥

[२९६] स तया मानुषे जातो गोसहस्री महाबलः ।

रूपवान् धनवांश् चैव बहुपुत्रश् च जायते ॥

दुकूलं पत्रोर्णम् । क्षौमम् अतसीवल्कलमयं वस्त्रम् । वासिताच्छादिता । देवैर् अध्यासितेत्यादिस् तस्याः स्तुतिः । हस्तद्वयेन बध्नीयाद् इत्य् अर्थः । रज्जुना रज्ज्वेत्य् अर्थः । महाभारते ।

द्विजातिम् अभिसंपूज्य श्वःकाल्यम् अभिवाद्य च ।
प्रदानार्थे ऽभियुञ्जीत रोहिणीं नियतव्रतः ।
आह्वानं च प्रयुञ्जीत समङ्गा बहुलेति च ॥

ब्रह्मपुराणे ।

गां दद्याद् वेदपूर्णाय विप्राय गृहमेधिने ।
स्वर्णालंकृतशृङ्गीं तां वस्त्रघण्टाविभूषिताम् ॥
कांस्योपदोहनां राजन् नरकात् सप्त पूरुषान् ।
सदक्षिणां ददद् गां तां मोक्षयन् स्वर्गम् आप्नुयात् ॥

महाभारते ।

वृत्तिग्लाने सीदति चातिमात्रं कृष्यर्थं वा होमहेतोः प्रसूत्याम् ।
गुर्वर्थं वा वंशसंवृद्धये वा धेनुं दद्याद् एव कालो विशिष्टः ॥

अङ्गिराः ।

गौर् एकस्मौ प्रदातव्या श्रोत्रियाय विसेषतः ।
सा ह तारयते सर्वान् सप्त सप्त च सप्त च ॥

नन्दिपुराणे ।

अपात्रे सा तु गौर् दत्ता दातारं नरकं नयेत् ।
कुलैकविंशत्या युक्तं ग्रहीतारं च पातयेत् ॥
पात्रेष्व् आध्यात्मिका मुख्या विशुद्धाश् चाग्निहोत्रिणः ।
देवताश् च तथा मुख्या गोदाने ह्य् एतद् उत्तमम् ॥

महाभारते ।

न गोदानात् परं किंचिद् विद्यते वसुधाधिप ।
गौर् हि न्यायागता दत्ता सा हि तारयते कुलम् ॥
यानि कानि न दुर्गाणि दुष्कृतानि कृतानि च ।
तरन्ति चैव पाप्मानं ये धेनुं ददति प्रभो ॥
तिस्रो रात्रीर् अभ्युपोष्याथ भूमौ तृप्ता गावस् तर्पितेभ्यः प्रदेयाः ।
वत्सैः प्रीताः सुव्रतैः सोपचारास् त्र्यहं दत्वा गोरसैर् वर्तितव्यम् ॥

जाबालः ।

होमार्थम् अग्नोत्रस्य यो गां दद्याद् अयाचिताम् ।
त्रिर् वित्तपूर्णा पृथिवी दत्ता तेन न संशयः ॥ १.२०४ ॥

अधुना फलम् आह ।

[२९७] दातास्याः स्वर्गम् आप्नोति वत्सरान् रोमसंमितान् ।

अस्या गोर् उक्तप्रकाराया दातस्या एव यावन्ति रोमाणि तावतो वत्सरान् स्वर्गम् आप्नोति लभते ॥

गुणात् फलातिशयम् आह ।

कपिला चेत् तारयति भूय आसप्तमं कुलम् ॥ १.२०५ ॥

उक्तप्रकारा गौः कपिला चेद् दीयते तदासौ दातुः सप्त पुरुषान् नरकात् तारयति । भूयःशब्दात् दातारं पूर्वोक्तेन फलेन योजयति । सर्ंवर्तः ।

दशधेनुप्रदानेन तुल्यैका कपिला मता ॥

बृहस्पतिः ।

हेमशृङ्गीं रौप्यखुरां वस्त्रकांस्याज्यसंयुताम् ।
सवत्सां कपिलां दत्वा सप्त वंश्यान् समुद्धरेत् ॥

आदिपुराणे ।

कपिलां ये प्रयच्छन्ति चैलच्छन्नां स्वलंकृताम् ।
स्वर्णशृङ्गीं रौप्यखुरां मुखालाङ्गूलशोभिताम् ॥
श्वेतवस्त्रपरिच्छन्नां घण्टास्वनरवैर् युताम् ।
सहस्रं यो गवां दद्यात् कपिलां वापि सुव्रत ॥
समाम् एव पुरा प्राह ब्रह्मा ब्रह्मविदां वर ।
यावन्ति रोमकूपाणि कपिलाङ्गे भवन्ति हि ॥
तावत्कोटिसहस्राणि वर्षाणां दिवि मोदते ।
कृष्णां गां ददते यस् तु पटच्छन्नां स्वलंकृताम् ॥
विधिवच् च द्विजातिभ्यो यमलोकं न पश्यति ।
आयुर् आरोग्यम् ऐश्वर्यं दाता कामान् समाप्नुयात् ॥
सुवर्णश्ट्ङ्गाभरणा तथा रौप्यखुरा शुभा ।
पटच्छन्ना शुभा चैव दातव्या वरयोगिने(णे) ॥
यश् च दद्यात् तु गां श्वेतां तस्य पुण्यफलं शृणु ।
जन्मप्रभृति यत् पापं मातृकं पैतृकं च यत् ॥
हस्तोद्धृतजलस्येव तत्क्षणाद् एव नश्यति ।
**गां ददानीह इत्य् एव वाचा पूयेत सर्वशः ॥ [२९८]

महाभारते ।

समानवत्सां कपिलां धेनुं दत्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंपन्नां ब्रह्मलोके महीयते ॥

समानवत्सा सरूपवत्सा । सुव्रता सुशीला ।

रोहिणीं तुल्यवत्सां तु धेनुं दत्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंछन्नां ब्रह्मलोके महीयते ॥
समानवत्सां श्वेतां तु धेनुं दत्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीताम् इन्द्रलोके महीयते ॥
समानवत्सां शबलां धेनुं दत्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंछन्नां सोमलोके महीयते ॥
वातरेणुसवर्णां तु सवत्सां कामदोहिनीम् ।
प्रदाय वस्त्रसंपन्नां वायुलोके महीयते ॥
गवां पुच्छं गृहीत्वा तु सुसुवर्णेन पाणिना ।
गृहस्थो वेदविद् विप्रो वाचयेत् तत् प्रतिग्रहम् ॥
भोगमोक्षप्रदा श्वेता प्रसूता पापनाशिनी ।
कृष्णा स्वर्गप्रदा ज्ञेया गौरी च कुलवर्धिनी ॥
रक्ता रूपप्रदा ज्ञेया पीता दारिद्र्यघातिनी ।
पुत्रप्रदा कृष्णशारी नीला धर्मप्रवर्धिनी ॥
कपिला सर्वपापघ्नी नानावर्णा च मोक्षदा ॥ इति ।

इति गोदानम् ॥ १.२०५ ॥

_उभयमुखीदानं सेतिकर्तव्यताफलविशेषं प्रति साधनत्वेनाह । _

सवत्सारोमतुल्यानि युगानु उभयतोमुखी ।
दातास्याः स्वर्गम् आप्नोति पूर्वेण विधिना ददत् ॥ १.२०६ ॥

वत्सेन सह वर्तेत इति सवत्सा तस्या रोमाणि सवत्सारोमाणि तैस् तुल्यानि तुल्यसंख्याकानि युगान्य् उभयतोमुखी अर्धप्रसूता गौर् दतुर् आसप्तमं कुलं तारयति । पूर्वोकेतिकर्तव्यतया ददत् प्रयच्छंस् तावन्त्य् एव युगानि स्वर्गम् आप्नोति । युगं देवमानेन चत्वारि वर्षसहस्राणि ॥ १.२०६ ॥

[२९९]

यावद् वत्सस्य द्वौ पादौ मुखं योन्यां प्रदृश्यते ।
तावद् गौः पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति ॥ १.२०७ ॥

यावद् वत्सस्य जायमानस्य द्वौ पादौ मुखं च योन्यां प्रजनने दृश्यते तावद् असौ गौः पृथिवी ज्ञेयागर्भवोमोदनात् । ततश् च तद्दानाद् दातुः पृथिवीदानफलावाप्तिर् भवति । उभयशिरसं दद्याद् इत्य् अनुवृत्तौ च्यवनः ।

तस्याः प्रदानकालः प्रसवकालो नान्यं कालं प्रतीक्षते । व्यतीपातविषुवायनषडशीति-मुखविष्णुप्रदाद्या ग्रहणान्ताः सर्व एव पुण्यकालाः । तदैव यत्र स्नाते ब्राह्मणं श्रेयांसं श्रुतशीलसत्यशौचवृत्तजातिगुणादैर् गुणैर् उपेतं विज्ञातं महता कालेन प्रणिपत्य ब्रूयात् । अहम् अतीवार्तो भीतो ऽस्माद् अगाधाद् अपारात् संसारार्णवात् समुत्तारयामि दशावरान् दशापरान् आत्मानं च स्वामिन् भवन्तं दानपात्रम् आसाद्य मदनुग्रहबुद्ध्या नार्थलिप्सया गृह्यताम् इति दाता तम् अनुमन्त्रयेत् । त्वं महीम् अवनिं विश्वधेनाम् इति [र्व् ३.६।१६] जपति । निष्क्रान्ते ऽग्निम् उपसमाधाय देवान् पितॄन् नदीः पर्वतान् वनस्पतीन् उदधीन् नागान् ओषधीस् तर्पयेत् स्वैः स्वैर् मन्त्रैः । तेषां मन्त्रपदानि भवन्ति ।
ये देवासो दिव्येकादश स्थ पृथिव्यां मध्येकादश स्थ ।
अप्सुक्षितो महि नैकादश स्थ ते देवा यज्ञम् इमं जुषध्वम् ॥
[र्व् २.२।४] इति देवानाम् ।
उशन्तस् त्वा हवामह उशन्तः समिधीमहि ।
उशन्नुशत आवह पितॄन् हविषे अत्तवे ॥
इति पितॄणाम् ।
इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या ।
असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥
[र्व् ८.३।८] इति नदीनाम् ।
अद्रिभिः सुतो मतिभिश् च नो हितः प्ररोचयन् रोदसी मातरा शुचिः ।
**रोमान्य् अव्या समया वि धावति मधोर्धारा पिन्वमाना दिवे दिवे ॥ [३००]
[र्व् ७.२।३३] इति पर्वतानाम् ।
वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम ।
यं त्वाम् अयं स्वधितस् तेजमानः प्रणिनाय महते सौभगाय ॥
[र्व् ६.१।४] इति वनस्पतीनाम् ।
समुद्रज्येष्ठाः सलिलस्य मध्यात् पुनाना यन्त्य् अनिविशमानाः ।
इन्द्रो या वज्रो वृषभो रराद ता आपो देवीर् इह माम् अवन्तु ॥
[र्व् ५.४।१६] इति समुद्राणाम् ।
अहिर् इव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसं परि पातु विश्वतः ॥
[र्व् ५.१।२१] इति नागानाम् ।
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर् नः सन्त्व् ओषधीः ॥
[र्व् १.६।१८] इत्य् ओषधीनाम् ।
इति देवादीनाम् ओषधिपर्यन्तानां मन्त्राः । तद् अनु पार्थिवीभिः पृथ्वीं तर्पयेत् ।
ईडे द्यावापृथिवी पूर्वचित्तये ऽग्निं घर्मं सुरुचं यामन्न् इष्टये ।
याभिर्भरे कारम् अंशाय जिन्वथस्ताभिरूषु ऊतिभिर् अश्विना गतम् ॥
[र्व् १.७।३३]
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् ।
पिपृतां नो भरीमभिः ॥ [र्व् १.२।६]
ऊर्वी पृथ्वी बहुले दूरे अन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् ।
दधाते ये सुभगे सुप्रतूतीं ध्यावा रक्षतं पृथिवी नो अभ्यात् ॥
[र्व् २.५।६]
गौरीर् मिमाय सलिलानि तक्षत्य् एकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥
[र्व् २.३।२२] इत्यादिभिश् चतुरशीत्याज्याहुतीर् जुहोति । ब्राह्मणान् भोजयेत् ।
स्वस्ति नो मिमीताम् अश्विना भगः स्वस्ति देव्य् अदितिर् अनर्वणः।
स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥
[र्व् ४.३।७]। [३०१]
इत्यादिस्वस्त्ययनं वाचयीत । अथास्य व्युष्टिम् उदाहरन्ति — अभक्ष्यभक्षणम् अपेयपानं ब्रह्मघ्नं मातृघ्नं पितृघ्नं सद्य एव पुनात्य् उपाध्यायीं स्वसुतां स्वामिभार्यां मातरं मातृष्वसारं पितृष्वसारं मातुलानीं भगिनीं भागिनेयीं शिष्यजायाम् अन्याम् अप्य् अगम्यां गत्वोभयशिरसं सपरिकरां ब्राह्मणाय दद्यात् । परिकरः स्यात् सुवर्णरूप्यरत्नानि क्षेत्राणि धान्यानि वस्त्राणि रसा लवणाद्याश् चन्दनाद्या गन्धास् तदर्धम् अर्धं वा सर्वस्वं वा सह तया ब्राह्मणाय दद्यान् महापातकविमुक्तये" इति ।

मत्यपुराणे ।

मत्स्य उवाच ।
रुक्मशृङ्गीं रौप्यखुरां मुक्तालाङ्गूलशोभिताम् ।
कांस्योपदोहनां राजन् सवत्सां द्विजपुंगवे ॥
प्रसूयमानां गां दत्वा महत् पुण्यफलं लभेत् ।
यावत् वत्सो योनिगतो यावद् गर्भं न मुञ्चति ॥
तावद् गौः पृथिवी ज्ञेया सशैलवनकानना ।
चतुरन्ता भवेद् दत्ता पृथिवी नात्र संशयः ॥
यावन्ति धेनुरोमाणि वत्सस्य च नराधिप ।
तावत्संख्यान् युगगणान् देवलोके महीयते ॥
पितॄन् पितामाहांश् चैव तथैव प्रपितामहान् ।
उद्धरिष्यत्य् असंदेहं नरकाद् भूरिदक्षिणः ॥
घृतक्षीरवहाः कल्या दधिपायसकर्दमाः ।
यत्र तत्र गतस्यास्य भवन्तीप्सितकामदाः ॥
गोलोकः सुलभस् तस्य ब्रह्मलोकश् च पार्थिव ॥
स्त्रियश् च तं चन्द्रसमानवक्त्राः प्रतप्तजाम्बूनदतुल्यवर्णाः ।
महानितम्बस्तनवृत्तमध्याः सेवन्त्य् अजस्रं नलिनाभनेत्राः ॥

वराहपुराणे ।

सुवर्णशृङ्गी यः कृत्वा रौपयुक्तां खुरेष्व् अथो ।
ब्राह्मणस्य करे दत्वा सुवर्णं रौप्यम् एव वा ॥
कपिलायास् तदा पुच्छं ब्राह्मणस्य करे न्यसेत् ।
उदकं च करे दत्वा वाचयेच् छुद्धयान्वितः ॥

[३०२] ससमुद्रगुहा तेन सशैलवनकानना ।

रत्नपूर्णा भवेद् दत्ता पृथिवी नात्र संशयः ॥
पृथिवीदानतुल्येन दानेनानेन मानवः ।
तारितैर् याति पितृभिर् विष्ण्याख्यं यत् परं पदम् ॥
ब्रहस्वहारको गोघ्नो भ्रूणहा पाकभेदकः ।
महापातकयुक्तो ऽपि वञ्चको ब्रह्मदूषकः ॥
निन्दको ब्राह्मणानां च तेषां कर्माभिदूषकः ।
एवं पातकयुक्तो ऽपि गवां दानेन शुध्यति ॥
यश् चोभयमुखीं दद्यात् प्रभूतकनकावृताम् ।
तद् दिनं पायसाहारः पयसा वातिवाहयेत् ॥
सुवर्णस्य सहस्रेण तदर्धेनापि भामिनि ।
तस्याप्य् अर्धं शतं वाथ पञ्चाशच् च ततो ऽर्धकम् ॥
यथाशक्ति प्रदातव्यं वित्तशाठ्यविवर्जितम् ।
इमां गृहाणोभयमुखीं भवांस् त्राता ममास्तु वै ॥
मम वंशविशुद्धिः स्यात् सदा स्वस्तिकरो भव ।
इरावती धेनुमतीति जप्त्वा देवस्योना तदनन्तरम् ॥
प्रतिगृह्णामि तां धेनुं कुटुम्बार्थे विशेषतः ।
स्वस्तिर् भवतु ते नित्यं भद्रं चान्ते नमो नमः ॥
द्यौस् ते प्रतिददामि पृथिवीं ते प्रति गृह्णामि ।
क इदं कस्मा अदाद् इति च वसुंधरे ।
विसृजेद् ब्राह्मणं दधि गां च तस्य गृहं नयेत् ॥

इति उभयमुखीदानम् ।

यथाकथंचिद् दत्वा गां धेनुं वाधेनुम् एव वा ।
अरोगाम् अपरिक्लिष्टां दाता स्वर्गे महीयते ॥ १.२०८ ॥

यथाकथंचिद् यावत् पूर्वोक्तप्रकारवतीं गां धेनुम् अधेनुं वा रोगरहिताम् अपरिक्लिष्टां दत्वा स्वर्गे महीयते पूज्यते । धेनुर् नवप्रसूता । अधेनुर् अनवप्रसूता । अपरिक्लिष्टाकृशा । अत्र महाभारते ।

न कृशाम् अपवत्सां वा वन्ध्यां रोगान्वितां तथा ।
न व्यङ्गां न परिश्रान्तां दद्याद् गां ब्राह्मणाय वै ॥

तथा ।

पीतोदकां जग्धतृणां दुग्धदोहां निरिन्द्रियाम् ।
उन्मत्ताम् अङ्गहीनां च मृतवत्सां महाशनाम् ॥
केशचैलपुरीषास्थिक्रव्यादां स्यन्दिनीं खलाम् ।
पुनर्नवां यमलसूं नित्यं प्रगलितस्तनीम् ॥
न दद्याद् ब्राह्मणेभ्यश् च सदोषं वृषं तथा ॥

पीतोदकत्वजग्धतृणत्वादिना वृद्धत्वम् उपलक्ष्यते । खला दुःशीला । एकस्यापि गोदानादिकर्मणः क्वचिच् छास्त्रे बहुफलं कथ्यते क्वचिच् चाल्पं तद्दातुर् देयस्य पात्रस्य देशकालयोश् च गुणभूयस्त्वाल्पत्वाभ्यां व्यवस्थापनीयम् । तद् आह मनुः ।

पात्रस्य च विशेषेण श्रद्दधानतयापि च ।
अल्पं वा बहु वा प्रेत्य दानस्यावाप्यते फलम् ॥ इति ।

धेनुदानविधिप्रसङ्गेन गुडधेन्यादिविधय उदाह्रियन्ते । तत्र मत्स्यपुराणम् ।

गुडधेनुविधानस्य यद् रूपम् इह यत् फलम् ।
तद् इदानीं प्रवक्ष्यामि सर्वपापप्रणाशनम् ॥
कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद् भुवि ।
गोमयेनोपलिप्तायां दर्भान् आस्तीर्य यत्नतः ॥

हस्तो ऽरत्निः ।

लघ्वेणकाजिनं तद्वद् वत्सस्य परिकल्पयेत् ।
प्राङ्मुखीं कल्पयेद् धेनुम् उदक्पादां सवत्सकाम् ॥

प्राङ्मुखी प्राक्शिराः । वत्सो ऽपि तथैव ।

उत्तमा गुडधेनुः स्यात् सदा भारचतुष्टयम् ।
वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता ॥
अर्धभारेण वत्सः स्यात् कथिता भारकेण तु ।
चतुर्थांशेन वत्सः स्याद् गृहवित्तानुसारतः ॥

फलशतं तुला तुलानां विंशतिर् भारः । तद् उक्तम् ।

तुला स्त्रियां पलशतं भारः स्याद् विंशतिस् तुलाः ।
धेनुवत्सौ घृतास्यौ तौ सितसूत्राम्बरावृतौ ॥

[३०४] शुक्तिकर्णाव् इक्षूपादौ शुक्तिमुक्ताफलेक्षणौ ।

सितसूत्रशिरालौ तौ सितकम्बलकम्बलौ ॥
ताम्रगुडकपृष्ठौ तौ सितचामररोमकौ ।
विद्रुमभ्रूयुगोपेतौ नवनीतस्तनान्वितौ ॥
क्षौमपुच्छौ कांस्यदोहाव् इन्द्रनीलकतारकौ ।

तारके चक्षुर्मध्यभागौ ।

सुवर्णशृङ्गाभरणौ खुरौ रौप्यमयैर् युतौ ॥
नानाफलयुतौ दन्तौ घ्राणगन्धकरण्डकौ ।
इत्य् एवं रचयित्वा तौ धूपदीपैस् तथार्चयेत् ॥
या लक्ष्मीः सर्वभूतानां या च देवेष्व् अवस्थिता ।
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥
विष्णोर् वक्षसि या लक्ष्मीः स्वाहा या च विभावसौ ।
चन्द्रार्कशक्रशक्तिर् या धेनुरूपास्तु सा श्रिये ॥
चतुर्मुखस्य या लक्ष्मीर् या लक्ष्मीर् धनदस्य च ।
लक्ष्मीर् या लोकपालानां सा धेनुर् वरदास्तु मे ॥
स्वधा या पितृमुख्यानां(णां) स्वाहा यज्ञभुजां च या ।
सर्वपापहरा धेनुस् तस्माच् छान्तिं (?) प्रयच्छ मे ॥
एवम् आमन्त्र्य तां धेनुं ब्राह्मणाय निवेदयेत् ।
विधानम् एतद् धेनूनां सर्वासाम् इह पठ्यते ॥
यास् तु पापविनाशिन्यः पठ्यन्ते दश धेनवः ।
तासां स्वरूपं वक्ष्यामि नामानि च नराधिप ॥
प्रथमा गुडधेनुः स्यात् तिलधेनुस् तथा परा ।
घृतधेनुस् तृतीया च चतुर्थी जलधेनुका ॥
क्षीरधेनुश् च विख्याता मधुधेनुस् तथा परा ।
सप्तमी शर्कराधेनुर् दधिधेनुस् तथाष्टमी ॥
रसधेनुश् च नवमी दशमी स्यात् स्वरूपतः ।
कुम्भाः स्युर् द्रवधेनूनाम् इतरासां तु राशयः ॥

कुम्भो द्वादशपलाधिकानि फलशतानि पञ्च । तद् उक्तम् ।

[३०५] पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् ।

चतुर्भिः कुषवैः प्रस्थः प्रस्थाश् चत्वार आढकः ॥
आढकैस् तैश् चतुर्भिस् तु द्रोणस् तु कथितो बुधैः ।
कुम्भो द्रोणद्वयं शूर्पः खारी द्रोणास् तु षोडश ॥
सुवर्णधेनुम् अप्य् अत्र केचिद् इच्छन्ति मानवाः ।
नवनीतेन रत्नैश् च तथान्ये ऽपि महर्षयः ॥
एतद् एव विधानं स्याद् एते चोपस्कराः स्मृताः ।
मन्त्रावाहनसंयुक्ताः सर्वाः पर्वणि पर्वणि ॥
यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः ।
गुडधेनुप्रसङ्गेन सर्वास् तव मयोदिताः ॥
अशेषयज्ञफलदाः सर्वाः पपहराः शुभाः ।
अयने विषुवे पुण्ये व्यतीपाते च वा पुनः ॥
गुडधेन्वादयो देया उपरागादिपर्वसु ॥

इति गुणधेनुः ।

अथ तिलधेनुः । विष्णुधर्मोत्तरे वसिष्ठः ।

तिलधेनुं प्रवक्ष्यामि केशवप्रीणनाय या ।
दत्ता भवति यश् चास्या नरेन्द्र विधिर् उत्तमः ॥
यां दत्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः ।
अगारदाही गरदः सर्वपापरतो ऽपि वा ॥
महापातकयुक्तो वा युक्तो यश् चोपपातकैः ।
प्रमुच्यते ऽखिलैः पापैर् विष्णुलोकं च गच्छति ॥
उपलिप्ते महीपृष्ठे वस्त्राजिनसमावृते ।
धेनुं तिलमयीं कृत्वा सर्वरत्नैर् अलंकृताम् ॥
स्वर्णशृङ्गीं रौप्यखुरां गन्धघ्राणवतीं शुभाम् ।
मिष्टान्नजिह्वां कुर्वीत गुणास्यां सूत्रकम्बलाम् ॥
इक्षुपादां ताम्रपृष्ठां कुर्यान् मुक्ताफलेक्षणाम् ।
प्रशस्तपत्रश्रवणां फलदन्तवतीं शुभाम् ॥
स्रग्दामपुच्छां कुर्वीत नवनीतस्तनान्विताम् ।
फलैर् मनोहरैर् भक्ष्यैर् मणिमुक्ताफलान्विताम् ॥

[३०६] तिलद्रोणेन कुर्वीत आढकेन तु वत्सकम् ।

शुभवस्त्रयुगच्छन्नां चारुच्छत्रसमन्विताम् ॥
ईदृक्संस्थानसंपन्नां कृत्वा श्रद्धासमन्वितः ।
कांस्योपदोहनां दद्यात् केशवः प्रीयताम् इति ॥
सम्यग् उच्चार्य विधिना दत्वैतेन नराधिप ।
सर्वपापविनिर्मुक्तः पितरं सपितामहम् ॥
प्रपितामहं तथा पूर्वपुरुषाणां चतुष्टयम् ।
आत्मानं तनयं पौत्रं प्रपौत्रं तदधस् त्रयम् ॥
तारयत्य् अवनीपाल तिलधेनुप्रदो नरः ।
यश् च गृह्णाति विधिवत् तस्याप्य् एवंविधं फलम् ॥
चतुर्दश तथा ये च ददतश् चानुमोदतः ।
दीयमानां प्रपश्यन्ति तिलधेनुं च ये नराः ॥
ते ऽप्य् अशेषाघनिर्मुक्ताः प्रयान्ति परमां गतिम् ।
प्रशान्ताय सुशीलाय तथामत्सरिणे बुधः ॥
तिलधेनुं नरो दद्याद् वेदपूर्णाय धर्मिणे ।
त्रिरात्रं यस् तिलाहारस् तिलधेनुं प्रयच्छति ॥
दत्वैकरात्रं स नरस् तिलान् अत्ति नराधिप ।
दानाद् विशुद्धपापस्य तस्य पुण्यवतो नृप ॥
चान्द्रायणाद् अप्य् अधिकं शस्तं तत् तिलभक्षणम् ॥ इति ।

तिलधेनोः पद्मपुराणोक्तः परिमाणविशेषः ।

षोडशाढकमयी धेनुश् चतुर्भिर् वत्सको भवेत् ॥

भविष्योत्तरे ।

विनीताश्व उवाच ।
विधानं चैव धेनूनां तच् छृणुष्व नराधिप ।
तासां विधानं वक्ष्यामि विशेषश् चापि यादृशः ॥
अनुलिप्ते महीपृष्ठे क्ष्णाजिनकुशोत्तरे ।
वस्त्रप्रस्तरणं कृत्वा धेनुं तत्रोपकल्पयेत् ॥
उदङ्मुखीं सवत्सांआ तु स्थापयित्वा विचक्षणः ।
प्रस्थैः षोडशभिर् धेनुश् चतुर्भिर् वत्सको भवेत् ॥
इक्षुदण्डमयाः पादा दन्ताः फलमयाः स्मृताः ।
जिह्वा पिष्टमयी तस्या घ्राणं गन्धमयं स्मृतम् ॥

[३०७] गुडेन वदनं कृत्वा नेत्रे चैव तु मौक्तिके ।

प्रशस्तपत्रश्रवणा पृष्ठं ताम्रमयं स्मृतम् ॥
पुच्छं शणमयं तस्याः क्षुद्रमौक्तिकरोमिकाम् ।
श्वेतैश् च कम्बलै राजन् कम्बलं चैव कल्पयेत् ॥
फलानां विविधाकारां कण्ठिकां चैव कल्पयेत् ।
स्तनाश् च नवनीतेन सर्वालंकारभूषिताम् ॥
स्वर्णशृङ्गीं रौप्यक्षुरां पञ्चरत्नसमन्विताम् ।
दर्भैर् आच्छादयित्वा च वस्त्रैश् च तदनन्तरम् ॥
आच्छादयित्वा राजेन्द्र चन्दनेन क्चिर्चिताम् (?) ।
पुण्यैश् च पूजयित्वा तु धूपगन्धैश् च पूजिताम् ॥
तादृशीं कल्पयित्वा तु पात्रभूते द्विजोत्तमे ।
सुव्रताय सुशीलाय विशेषेणाहिताग्नये ॥
वेदवेदाङ्गविदुषे साधुवृत्ताय धीमते ।
ईदृशाय प्रदातव्या तिलधेनुर् नराधिप ॥
मन्त्रेणानेन राजेन्द्र पूज्या स्तुत्या च सर्वतः ।
ॐ या लक्ष्मीः सर्वभूतानां या च देवेष्व् अवस्थिता ॥
धेनुरूपेण सा देवी मम पापं व्यपोहतु ।
देहस्था या च रुद्राणी शंकरस्य सदा प्रिया ॥
तेन रूपेण सा देवी मम शान्तिं प्रयच्छतु ।
विष्णोर् वक्षसि या लक्ष्मीः स्वाहा या च विभावसोः ॥
चन्द्रारक्शक्रशक्तिर् या धेनुरूपास्तु सा श्रिये ।
चतुर्मुखस्य या लक्ष्मीर् या लक्ष्मीर् धनदस्य च ॥
लक्ष्मीर् या लोकपालानां सा धेनुर् वरदास्तु मे ।
स्वधा या पितृमुख्यानां(णां) स्वाहा यज्ञभुजाम् अपि ॥
सर्वपापहरा धेनुस् तस्माच् छन्तिं प्रयच्छ मे ।
अन्नं मे जायतां सद्यः पानं सर्वरसास् तथा ॥
कामान् संपादयास्माकं तिलधेनो द्विजार्पिते ।

इति दानमन्त्रः।

एवं चामन्त्र्य तां धेनुं ब्राह्मणाय निवेदयेत् ।
एवम् उच्चारयित्वा तु दद्यात् तस्य च दक्षिणाम् ॥

[३०८] सुवर्णं वाचयित्वाग्रे यथाशक्ति प्रदापयेत् ।

न वित्तशाठ्यं कुर्वीत आत्मनो विभवे सति ॥

अथ प्रतिग्रहीतृमन्त्रः ।

प्रतिगृह्णामि देवि त्वां कुटुम्बार्थे विशेषतः ।
भरस्व कामैर् मां सर्वैस् तिलधेनो नमो ऽस्तु ते ॥

इति तिलधेनुः ।

अथ घृतधेनुदानम् । विष्णुधर्मेषु वसिष्ठः ।

तिलालाभे तथा दद्याद् घृतधेनुं यतव्रतः ।
येन भूप विधानेन तद् इहैकमनाः शृषु ॥
वासुदेवं जगन्नाथं घृतक्षीराभिषेचनात् ।
संपूज्य पूर्ववत् पुष्पैर् गन्धधूपादिभिर् नरः ॥
अहोरात्रोषितो नाम्ना अभिषिच्य घृतार्चिषम् ।
गव्यस्य सर्पिषः कुम्भं पुष्पमाल्यदिशोभितम् ॥
कांस्याप्धानसंयुक्तं सितवस्त्रयुगेन(ण) च ।
हिरण्यगर्भसहितं मणिविद्रुममौक्तिकैः ॥

गर्भो मध्यम्, मध्यवर्तिना हिरण्येन सहितं मण्यादिभिश् च सहितं कुम्भम् इत्य् अर्थः ।

इक्षुयुग्ममयान् पादान् खुरान् रूप्यमयांस् तथा ।
सौवर्णे चक्षिणी कुर्याच् छृङ्गे चागुरुकाष्ठजे ॥
सप्तदान्यमये पार्श्वे पत्रोणं नवकम्बलम् ।
कुर्याद् अगुरुकर्पूरैर् घ्राणं फलमयान् स्तनान् ॥
तद्वच् छर्करया जिह्वां गुडक्षीरमयं मुखम् ।
क्षौमसूत्रेण लाङ्गुलं रोमाणि सितसर्षपैः ॥
ताम्रपात्रमयं पृष्ठं कुर्याच् छ्रद्धासमन्वितः ।
ईदृक्स्वरूपां संकल्प्य घृतधेनुं नराधिप ॥

[३०९] तद्वत् कल्पनया धेनोर् घृतवत्सं प्रकल्पयेत् ॥

धेन्वाश् चतुर्थभागेन वत्सः कार्यः, अन्यत्र तथादृष्टत्वात् ।

तां च विप्रं महाभागं मनसैव घृतार्चिषम् ।
कल्पयित्वा ततस् तस्मै प्रयतः प्रतिपादयेत् ॥
एतां ममोपकाराय गृह्णीष्व त्वं द्विजोत्तम ।
प्रीयतां मम देवेशो घृतार्चिः पुरुषोत्तमः ॥
इत्य् उदाहृत्य विप्राय दद्याद् धेनुं नराधिप ।
घृतरत्नसुवर्णानां सम्यक्कल्पनया कृताम् ॥
दत्वैकरात्रं स्थित्वा तु घृताहारो नराधिप ।
मुच्यते सर्वपापेभ्यस् तथा दानफलं शृणु ॥
घृतक्षीरवहा नद्यो यत्र पायसकर्दमाः ।
तेषु लोकेषु सर्वेषु सुपुण्येषूपजायते ॥
पितुर् ऊर्ध्वं नयेत् सप्त पुरुषांस् तस्य ये ऽप्य् अधः ।
तांस् तेषु नृप लोकेषु स नयत्यस्तकल्मषः ॥
सकामानाम् इयं व्युष्टिः कथिता नृपसत्तम ।
विष्णुलोकं नरा यान्ति निष्कामा घृतधेनुदाः ॥

इति घृतधेनुः ।

अथ जलधेनुः । विष्णुधर्मेषु वसिष्ठः ।

जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया ।
देवदेवो हृषीकेशः सर्वदः सर्वभावनः ॥
जलकुम्भं नरव्याघ्र सुवर्णरजतान्वितम् ।
रत्नगर्भम् अशेषैस् तु ग्राम्यैर् धान्यैः समन्वितम् ॥
सितवस्त्रयुगच्छनं दूर्वापल्लवशोभितम् ।
कुष्ठमांसीपुरोशीरवालकामकैर् युतम् ॥
प्रियङ्गुपात्रसहितं सितयज्ञोपवीतिनम् ।
सोपानत्कं च सच्छत्रं दर्भविष्टरसंस्थितम् ॥
चतुर्भिः संभृतं भूप तिलपात्रैश् चतुर्दिशम् ।

[३१०] स्थगितं दधिपात्रेण घृतक्षौद्रवता मुखे ॥

उपोषितः समभ्यर्च्य वासुदेवं जलेश्वरम् ।
पुष्पधूपोपहारैस् तु यथाविभवम् आदृतः ॥
संकल्प्य जलधेनुं च कुम्भं तम् अभिपूज्य च ।
पूजयेद् वत्सकं तद्वत् कृतं जलमयं ततः ॥
एवं संपूज्य गोविन्दं जलधेनुं सवत्सकम् ।
सितवस्त्रधरः शान्तो वीतरागो विमत्सरः॥
दद्याद् द्विजाय राजेन्द्र प्रीत्यर्थं जलशायिनः ।
जलशायी जगद्योनिः प्रीयतां मम केशवः ॥
यो चोच्चार्य भूनाथ विप्राय प्रतिपादयेत् ।
अपक्वान्नाशिना स्थेयम् अहोरात्रम् अतः परम् ॥
अनेन विधिना दत्वा जलधेनुं नराधिप ।
सर्वाह्लादान् अवाप्नोति ये दिव्या ये च मानुषाः ॥
शरीरारोग्यम् आबाधप्रशमः सार्वकालिकः ।
नृणां भवति दत्तायां जलधेन्वां न संशयः ॥

इति जलधेनुविधानम् ।

अथ लवणधेनुविधानम्

युधिष्ठिर उवाच ।
कृष्ण कृष्ण महाबाहो सर्वशास्त्रविशारद ।
कथयस्वेह दानानाम् उत्तमं यत् प्रकीर्तितम् ॥
येन दत्तेन दानानि सर्वाण्य् एव भवन्त्य् उत ।
सर्वकामप्रसिद्धिश् च सर्वपापक्षयो भवेत् ॥
प्रायश्चित्तं विशुद्धिश् च तन् मे कथय सुव्रत ॥
श्रीकृष्ण उचाव ।
शृणु राजन् प्रवक्ष्यामि दानानाम् उत्तमोत्तमम् ।
ख्यातं लवणधेन्वाख्यं सर्वकामप्रदं नृणाम् ॥
यद् दत्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः ।
विश्वासघाती क्रूरात्मा सर्वपापरतो ऽपि वा ॥
मुच्यते नात्र संदेहः शिवलोकं च गच्छति ।
शुभगोधनसंपन्नो दीर्घायुर् अपराजितः ॥

[३११] जायते पुरुषो लोके सर्वकामसमन्वितः ।

विधिं वक्ष्यामि राजेन्द्र लवणस्येह कल्पनाम् ॥
गोमयेनोपलिप्येत् तु दर्भसंस्तरसंस्थितम् ।
आविकं चर्म विन्यस्य पूर्वाशाभिमुखस्थितम् ॥
वस्त्रेणाच्छादितं कृत्वा धेनुं कुर्वीत बुद्धिमान् ।
आढकेनैव कुर्वीत बहुवित्तो ऽल्पवित्तवान् ॥
स्वर्णशृङ्गीं रौप्यखुराम् इक्षुपादां फलस्तनीम् ।
कार्या शर्करया जिह्वा गन्धघ्राणवतीं तथा ॥
समुद्रोदरजे शुक्ती कर्णौ तस्याः प्रकल्पयेत् ।
शृङ्गे चन्दनकाष्ठाभ्यां यवान् आस्ये प्रदापयेत् ॥
तिलान् पार्ष्णिषु कुर्वीत गोधूमांश् चैव शक्तितः ।
एवं वै सप्त धान्यानि यथालाभं प्रकल्पयेत् ॥
कम्बलं पट्टसूत्रेण ग्रीवायां छत्रिकां तथा ।
पृष्टे वै ताम्रपात्रं तु अपाने गुडपिण्डिकाम् ॥
लाङ्गूले कर्पटं दद्याद् दशाः क्षीरप्रदेशतः ।
योनिप्रदेशे तु मधु सर्वतस् तु फलान्विताम् ॥
एवं सम्यक् परिस्थाप्य रससस्यमयीं दशाम् ।
स्थापयेद् वत्सकं चापि चतुर्भागेन(ण) मानवः ॥
एवं धेनुं समभ्यर्च्य माल्यवस्त्रविभूषणैः ।
स्नात्वा देवार्चनं कृत्वा ब्राह्मणान् अभिपूज्य च ॥
दत्वा सदक्षिणां गां तु पुत्रभार्यासमन्वितः ।
ब्राह्मणाय सुशीलाय वृत्तयुक्ताय वै नृप ॥
सौभाग्यं परमा बुद्धिर् आरोग्यं सर्वसंपदः ।
नृणां भवति दत्वा तु रसधेनुं न संशयः ॥
स्वर्गे च नियतो वासो यावद् आभूतसंप्लवम् ॥
पत्रोर्णकम्बलगलां लवनाढकेन कृत्वा फलस्तनवतीम् अविचर्म पृष्ठे ।
दत्वा द्विजाय विधिवद् रसधेनुम् एनाम् लोके गवां सकलसौख्ययुतो वसेत् तु ॥

इति भविष्योत्तरे लवणधेनुविधिः ।

[३१२]

अथ शर्कराधेनोर् विधानम् ।

विनीताश्व उवाच ।
तद्वच् च शर्कराधेनुं शृणु राजन् यथार्थतः ।
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे ॥
धेनुः शर्करया राजन् सदा भारचतुष्टयम् ।
उत्तमा कथ्यते सद्भिश् चतुर्थांशेन वत्सकम् ॥
तदर्धं मध्यमा प्रोक्ता चतुर्थांशेन कन्यसा(सी) ।
तद्वद् वत्सं प्रकुर्वीत चतुर्थांशेन मानवः ॥
अथ कुर्याद् अष्टशतैश् चतुर्थांशेन वत्सकम् ।
स्वशक्त्या कारयेद् धेनुं यथात्मानंन पीडयेत् ॥
सर्वबीजानि संस्थाप्य चतुर्दिक्षु समन्ततः ।
सौवर्णमुखशृङ्गाणि मौक्तिकानयनानि च ॥
गुडेन च मुखं कार्यं जिह्वा पिष्टमयी तथा ।
कम्बलं पट्टसूत्रेण घण्टाभरणसंयुता ॥
इक्षुपादा रौप्यखुरा नवनीतमयस्तनी ।
प्रशस्तपत्रश्रवणा सितचामरभूषिता ॥
पञ्चरत्नसमायुक्ता दर्भरोमसमन्विता ।
कांस्योपदोहना सम्यग् गन्धपुष्पैः समन्विता ॥
ईदृग्विधानसंयुक्ता वस्त्रैर् आच्छादितोपरि ।
गन्धपुष्पैर् अलंकृत्य ब्राह्मणाय निवेदयेत् ॥
श्रोत्रियाय दरिद्राय साधुवृत्ताय धीमते ।
वेदवेदाङ्गविदुषे विशेषेणाग्निहोत्रिणे ॥
अनसूयवे प्रदातव्या न मत्सरयुताय वै ।
अयने विषुवे चैव व्यतीपाते तु षण्मुखे ॥
एषु कालेषु पुण्येषु यदृच्छायापि दापयेत् ॥

षण्मुखं षडशीतिमुखम् । यदृच्छाया यदृच्छया यादृगिच्छयेत्य् अर्थः । आर्षो दीर्घः \

[३१३] सत्पात्रं तु द्विजं दृष्ट्वा स्वागतं श्रोत्रियं गृहे ।

तादृशाय प्रदातव्या पुच्छदेशे निवेदयेत् ॥
पूर्वामुखः स्थितो दाता अथ वापि ह्य् उदङ्मुखः ।
धेनुं पूर्वामुखीं कृत्वा वत्सं तूत्तरतो न्यसेत् ॥
दानकाले तु ये मन्त्रास् तान् पठित्वा समर्पयेत् ।
आच्छाद्य दैवतं विप्रं मुद्रिकाकर्णवेष्टकैः ॥
स्वशक्त्या दक्षिणां दद्याद् वित्तशाठ्यविवर्जितः ।
हस्ते च दक्षिणां दद्याद् गन्धपुष्पं सचन्दनम् ॥
धेनुं समर्पयेत् तस्य मुखं च न विलोकयेत् ।
एकाहं शर्कराहारो ब्राह्मणास् त्रिदिनं वसेत् ॥
सर्वपापहरा धेनुः सर्वकामप्रदायिनी ।
सर्वकामप्रसिद्धस् तु जायते नात्र संशयः ॥
दीयमानां प्रपश्यन्ति ते ऽपि यान्ति परां गतिम् ।
य इदं शृणुयाद् भक्त्या पठते वापि मानवः ॥
मुच्यते सर्वपपेभ्यो विष्णुलोकं च गच्छति ॥

इति भविषोत्तरे दानधर्मेषु शर्कराधेनुविधिः \

अथ महादानानि ।

मत्स्यपुराणे ।

ऋषय ऊचुः ।
न्यायेनार्जनम्। अर्थानां वर्धनं चाभिरक्षणम् ।
सत्पात्रप्रतिपत्तिश् च सर्वशास्त्रेषु पठ्यते ॥
कृतकृत्यो भवेत् केन मनस्वी धनवान् बुधः ।
महादानेन दत्तेन तात विस्तरशो वद ॥
सूत उवाच ।
दानधर्मेषु यच् चोक्तं विष्णुना प्रभविष्णुना ।
तद् अहं सम्प्रवक्ष्यामि महादानम् अनुत्तमम् ॥
सर्वपापक्षयकरं नृणां दुःस्वप्ननाशनम् ।
यत् तु षोडशधा प्रोक्तं वासुदेवेन भूतले ॥
पुण्यं पवित्रम् आयुष्यं सर्वपापहरं शुभम् ।
पूजितं देवताभिश् च ब्रह्मविष्नुहरादिभिः ॥

[३१४] आद्यं तु सर्वदानानां तुलापुरुषसंज्ञकम् ।

हिरण्यगर्भदानं च ब्रह्माण्डं तदनन्तरम् ॥
कल्पपादपदानं च गोसहस्रं च पञ्चमम् ।
हिरण्यकामधेनुश् च हिरण्याश्वस् तथैव च ॥
हिरण्याश्वरथस् तद्वद् धेमहस्तिरथस् तथा ।
पञ्चलाङ्गलिकं तद्वद् धरादानं तथैव च ॥
द्वादशं विष्णुचक्रं च ततः कल्पलतात्मकम् ।
सप्तसागरदानं च रत्नधेनुस् तथैव च ॥
महाभूतघटस् तद्वत् षोडशं परिकीर्तितम् ।
सर्वाण्य् एतानि कृतवान् पुरा शम्बरसूदनः ॥
वासुदेवो ऽथ भगवान् अम्बरीषो ऽथ भार्गवः ।
कार्तवीर्यार्जुनो रामः प्रह्रादः पृथुर् एव च ॥
कुर्युर् अन्ये महीपालाः कानिचिद् भरतादयः ।
यस्माद् विघ्नसहस्राणि महादानानि भूतले ॥
एषाम् अन्यतमं कार्यं वासुदेवप्रसादतः ।
न शक्यम् अन्यथा कर्तुम् अपि शक्रेण भूतले ॥
तस्माद् आराध्य गोविन्दम् उमापतिविनायकौ ।
महादाने मुखं कुर्याद् विप्रैश् चैवानुमोदितः ॥
एतद् एवाह मनवे परितुष्टो जनार्दनः ।
यथा तद् अत्र वक्ष्यामि शृणुध्वम् ऋषिसत्तमाः ॥
मनुर् उवाच ।
महादानानि यानीह पवित्राणि शुभानि च ।
रहस्यानि प्रदेयानि तानि मे कथयाच्युत ॥
मत्स्य उवाच ।
नोक्तानि यानि दिव्यानि महादानानि षोडश ।
तानि ते संप्रवक्ष्यामि यथावद् अनुपूर्वशः ॥
तुलापुरुषयोगो ऽयं येषाम् आदौ विधीयते ।
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥
युगादिषूपरागेषु तथा मन्वन्तरादिषु ।
संक्रान्तौ वैधृतिदिने चतुर्दश्यष्टमीषु च ॥
सितपञ्चदशीपर्वद्वादशीष्व् अष्टकासु च ।
यज्ञोत्सवविवाहेषु दुःस्वप्नाद्भुतदर्शने ॥

[३१५] द्रव्यब्राह्मणलाभे वा श्रद्धा वा यत्र जायते ।

तीर्थे वायतने गोष्ठे कूपारामसरित्सु च ॥
गृहे वाथ वने वापि तडाके निझरे तथा ।
महादानानि देयानि संसारभयभीरुणा ॥
अनित्यं जीवितं यस्माद् वसु चातीव चञ्चलम् ।
केशेष्व् इव गृहीतस् तन् मृत्युना धर्मम् आचरेत् ॥
पुण्यां तिथिं समासाद्य कृत्वा ब्राह्मणवाचनम् ।
षोडशारत्निमात्रं तु दश द्वादश वा करान् ॥
मण्डलं कारयेद् विद्वांश् चतुर्भद्राननं बुधः ।
सप्तहस्ता भवेद् वेदी मध्ये पञ्चकराथ वा ॥
तन्मध्ये तोरणं कुर्यात् सारदारुमयं बुधः ॥

तोरणम् इदं तुलाधारणार्थम् ।

कुर्याद् दण्डानि चत्वारि चतुर्दिक्षु विचक्षणः ।
सुमेखलायोनियुतानि द्वारि संपूर्णकुण्डानि सविष्टराणि ।
हस्तप्रमाणानि तिलाज्यधूपपुष्पोपहाराणि सुशोभनानि ॥
पूर्वोत्तरे हस्तमिताथ वेदी ग्रहादिदेवेश्वरपूजनाय ।
तत्रार्चनं ब्रह्मशिवाच्युतानां सूर्यस्य कार्यं फलमाल्यवस्त्रैः ॥
लोकेशवर्णाः परितः पताका मध्ये ध्वजः किंकिणिकायुतः स्यात् ।
द्वारेषु कार्याणि च तोरणानि चत्वर्य् अपि क्षीरवनस्पतीनाम् ॥
द्वारेषु कुम्भद्वयम् अत्र कार्यं सुगन्धधूपाम्बररत्नयुक्तम् ।
शाकेङ्गुदीचन्दनदेवदारुश्रीपर्णबिल्वैः प्रियकाञ्चनोत्थम् ॥
स्तम्भद्वयं हस्तयुगावखातं कृत्वा दृढं पञ्चकरोच्छ्रितं च ।
तदन्तरं हस्तचतुष्टयं स्याद् अथोत्तराङ्गं च तदङ्गम् एव ॥

तदङ्गं स्तम्भवृक्षजातिमत् ।

समानजातिश् च तुलावलम्ब्या हैमेन मध्ये पुतुषेण युक्ता ।
दैर्घ्येण सा हस्तचतुष्टयं तु पृथुत्वम् अस्यास् तु दशाङ्गुलानि ॥
तुला सुवर्णाबरणा तु कार्या सलोहपाशद्वयशृङ्खलाभिः ।

[३१६] युता सुवर्णेन च रत्नमाला विभूषिता माल्यविलेपनाड्या ॥

चक्रं लिखेद् वारिजगर्भयुक्तं नानारजोभिर् भुवि पुष्पकीर्णम् ।
वितानकं चोपरि पञ्चवर्णं संस्थापयेत् पुष्पफलोपशोभम् ॥
अथ द्विजा वेदविदश् च कार्याः सुरूपवेशान्वयशीलयुक्ताः ।
विधानदक्षाः पटवो ऽनुकूला ये चार्यदेशप्रभवा द्विजेन्द्राः ॥
गुरुश् च वेदार्थविदार्यदेशसमुद्भवः शीलकुलाभिरूपः ।
कार्यः पुराणाभिरतो ऽतिदक्षः प्रसन्नगम्भीरसरस्वतीकः ॥
सिताम्बरः कुण्डलहेमसूत्रकेयूरकण्ठाभरणाभिरामः ।
पूर्वेण ऋग्वेदयुतौ च शस्तौ यजुर्विदौ दक्षिणतश् च कार्यौ ॥
स्थाप्यौ द्विजौ सामविदौ च पश्चाद् आथर्वणाव् उत्तरतश् च कार्यौ ।
विनायकादिग्रहलोकपालवस्वष्टकादित्यमरुद्गणानाम् ॥
ब्रह्माच्युतेशार्कवनस्पतिभ्यः स्वमन्त्रतो होमचतुष्टयं स्यात् ।
जप्यानि सूक्तानि तथैव चैषाम् अनुक्रमेणैव यथास्वरूपम् ॥
होमावसाने कृततूर्यनादो गुरुर् गृहीत्वा बलिपुष्पधूपम् ।
आवाहयेल् लोकपतीन् क्रमेण मन्त्रैर् अमीभिर् यजमानयुक्तः ॥
ॐ एह्य् एहि सर्वामरसिद्धसाध्यैर् अभिष्टुतो वज्रधरः सुरेशः ।
संवीज्यमानो ऽप्सरसां गणेन रक्षाध्वरं नो भवन् नमस् ते ॥
ॐ इन्द्राय नमः ।
ॐ एह्य् एहि सर्वामर हव्यवाह मुनिप्रवीरैर् अभितो ऽभुजुष्टः ।
तेजोवतीलोकगणेन सार्धं ममाध्वरं रक्ष कवे नमस् ते ॥
ॐ अग्नये नमः ।
ॐ एह्य् एहि वैवस्वत धर्मराज सर्वामरैर् अर्चितदिव्यमूर्ते ।
शुभाशुभानन्दसुवामधीश शिवाय नः पाहि सखं नमस् ते ॥
ॐ यमाय नमः ।
ॐ एह्य् एहि रक्षोगणनायकस् त्वं विशालवेतालपिशाचसंघैः ।
ममाध्वरं पाहि शुभाधिनाथ लोकेश्वरस् त्वं भगवन् नमस् ते ॥

[३१७] ॐ निरृतये नमः ।

ॐ एह्य् एहि पाथोगणवारिधीनां गणेन पर्जन्य महाप्सरोभिः ।
विद्याधरेन्द्रामरगीयमानः पाहि त्वम् अस्मान् भगवन् नमस् ते ॥
ॐ वरुणाय नमः ।
ॐ एह्य् एहि यज्ञं मम रक्षणाय मृगाधिरूढः सह सिद्धसंघैः ।
प्राणाधिपः कालकवेः सहायो गृहाण पूजां भगवन् नमस् ते ॥
ॐ वायवे नमः ।
ॐ एह्य् एहि यज्ञेश्वर यज्ञरक्षां विधत्स्व नक्षत्रगणेन सार्धम् ।
सर्वौषधीभिः पितृभिः सहैव गृहाण पूजां भगवन् नमस् ते ॥
ॐ सोमाय नमः ।
ॐ एह्य् एहि विश्वेश्वर नस् त्रिशूलिन् कपालखत्वाङ्गवरेण सार्धम् ।
लोकेश भूतेश्वर यज्ञसिद्ध्यै गृहाण पूजां भगवन् नमस् ते ॥
ॐ ईशानाय नमः ।
ॐ एह्य् एहि पातालधारामरेन्द्र नागाङ्गनाकिंनरगीयमानः ।
रक्षोगणेनामरलोकसार्धम् अनन्त रक्षोध्वरम् अस्मदीयम् ॥
ॐ अनन्ताय नमः ।
ॐ एह्य् एहि विश्वाधिपते मुनीन्द्र लोकेन सार्धं पितृदेवताभिः ।
विशाध्वरं नः सततं शिवाय पितामहस् त्वं भगवन् नमस् ते ॥
ॐ ब्रह्मणे नमः ।
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।
ब्रह्मविष्णुसुरैः सार्धं रक्षां कुर्वन्तु तानि मे ॥
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
ऋषयो मनवो गावो देवा मातर एव च ॥
सर्वे ममाध्वरे रक्षां प्रकुर्वन्तु मुदान्विताः ।
इत्य् आवाह्य सुरान् दद्याद् ऋत्विग्भ्यो हेमभूषणम् ॥
कुण्डलानि च हैमानि सूत्राणि कटकानि च ।
तथाङ्गुलीपवित्राणि वासांसि शयनानि च ॥
द्विगुणं गुरवे दद्याद् भूषणाच्छादनादिकम् ।
**जपेयुः शान्तिकाध्यायं जापकाः सर्वतोदिशम् ॥ [३१८]

शान्तिकाध्यायम् “शं न इन्द्राग्नी” इति सूक्तम् ।

उपोषिताश् च ते सर्वे कृत्वैवम् अधिवासनम् ।
आदाव् अन्ते च मध्ये च कुर्याद् ब्राह्मणवाचनम् ॥
ततो मङ्गलशब्देन स्नापितो वेदपुंगवैः ।
त्रिः प्रदक्षिणम् आवृत्य गृहीतकुसुमाञ्जलिः ॥
शुक्लमाल्याम्बरधरस् तां तुलाम् अनुमन्त्रयेत् ।
नमस् ते सर्वदेवानां शक्ति त्वं सत्यम् आस्थिता ॥
साक्षिभूता जगद्धात्री निर्मिता विश्वयोनिना ।
एकतः सर्वसत्यानि तथानृतशतानि च ॥
धर्माधर्मकृतां मध्ये स्थापितासि जगद्धिते ।
त्वं तुले सर्वभूतानां प्रमाणम् इह कीर्तिता ॥
मां तोलयन्ती संसाराद् उद्धरस्व नमो ऽस्तु ते ।
यो ऽसौ तत्राधिपो देवः पुरुषः पञ्चविंशकः ॥
स एषो ऽधिष्ठितो देवि त्वयि तस्मान् नमो नमः ।
ॐ नमो नमस् ते गोविन्द तुलापुरुषसंज्ञक ॥
त्वं हरे तारयस्वास्मांस् त्व् अस्मात् संसारकर्दमात् ।
पुण्यं कालं समासाद्य कृत्वैवम् अधिवासनम् ॥
पुनः प्रदक्षिणं कृत्वा तुलां तां प्रारुहेद् बुधः ।
सखड्गचर्मकवची सर्वाभरणभूषितः ॥
धर्मराजम् अथाधाय सोमसूत्रेण संयुतम् ।
कराभ्यां बद्धमुष्टिभ्याम् आस्ते पश्यन् हरेर् मुखम् ॥
ततो ऽपरे तुलाभागे न्यसेयुर् द्विजपुंकवाः ।
समाद् अभ्यधिकं यावत् काञ्चनं चातिनिर्मलम् ॥
पुष्टिकामस् तु कुर्वीत भूमिसंस्थं नरेश्वर ।
क्षणमात्रं ततः स्थित्वा पुनर् एवम् उदीरयेत् ॥
ॐ नमस् ते सर्वभूतानां साक्षिभूते सनातने ।
पितामहेन देवि त्वं निर्मिता परमेष्ठिना ॥
त्वया घृतं जगत् सर्वं महत् स्थावरजङ्गमम् ।
सर्वभूतात्मभूतस्थे नमस् ते विश्वधारिणि ॥

[३१९] ततो ऽवतीर्य गुरवे पूर्वम् अर्धं निवेदयेत् ।

ऋत्विग्भ्यः परम् अर्धं तु दद्याद् उदकपूर्वकम् ॥
गुरवे ग्रामरत्नानि ऋत्विग्भ्यश् च निवेदयेत् ।
प्राप्य तेषाम् अनुज्ञां च तथान्येभ्यो ऽपि दापयेत् ॥
दीनानाथविशिष्टादीन् पूजयेद् ब्राह्मणैः सह ।
न चिरं घारयेद् गेहे हेम संप्रोक्षितं बुधः ॥
तिष्ठद्भयावहं यस्माच् छोकव्याधिकरं नृणाम् ।
शीघ्रं परस्वीकरणाच् छ्रेयः प्राप्नोति पुष्कलम् ॥
अनेन विधिना यस् तु तुलापुरुषम् आचरेत् ।
प्रतिलोकाधिपस्थाने प्रतिमन्वन्तरं वसेत् ॥
विमानेनार्कवर्णेन किंकिणीजालमालिना ।
पूज्यमानो ऽप्सरोभिश् च ततो विष्णुपुरं व्रजेत् ॥
कल्पकोटिशतं यावत् तस्मिंल् लोके महीयते ॥
कर्मक्षयाद् इह् पुनर् भुवि राजराजभूपालमौलिमणिरञ्जितपादपीठः ।
श्रद्धान्वितो भवति यज्ञसहस्रयाजी दीपप्रतापजितसर्वमहीपलोकः ॥
यो दीयमानम् अपि पश्यति भक्तियुक्तो लोकान्तरे स्मरति वाचयतीह लोके ।
यो वा शृणोति पठतीन्दुसमानरूपं प्राप्नोति धाम स पुरंदरदेवजुष्टम् ॥

इति तुलापुरुषदानम् ।

अत्र भविष्योत्तरीया विशेषाः ।

तन्मध्ये कारयेद् वेदिं हस्तमात्रोच्छ्रितां शुभाम् ।
चतुर्द्वारेषु संस्थाप्याः कुम्भाः स्युः पल्लवाननाः ॥
पञ्चरत्नसमायुक्ताःसप्तधान्योपरि स्थिताः ।

पञ्चरत्नानि ।

कनकं हीरकं नीलं पद्मरागं च मौक्तिकम् ॥ इति

सप्तधान्यानि ग्राम्याणि आरण्यानि ग्राम्यारण्यानि वा ।

व्रीहयो यवगोधूमा उभौ च तिलसर्षपौ ।
इक्षुः प्रियङ्गवश् चैव ग्राम्या ओषधयः स्मृताः ॥
वेणुश्यामाकनीवारजर्तिलाश् च गवेधुकाः ।
आरण्यजा मर्कटिकाः सप्त गन्दुतिकोत्तमाः ॥

[३२०] अणवो राजमाषाश् च माषा मुद्गाश् च कोद्रवाः ।

कुहीनकाः सहीनाश् च सप्तैते द्व्यन्तराः स्मृताः ॥ इति ।

तथा ।

अत्रैव केचिद् इच्छन्ति ऋषयः षोडशर्त्विजः ।
आघाराव् आज्यभागौ तु पूर्वं हुत्वा द्विजोत्तमः ॥
प्रणवादिस्वनाम्ना च स्वाहान्ते होम उच्यते ॥

तथा ।

अनेनैव विधानेन केचिद् रौप्यमयं पुनः ।
कर्पूरेण तथेच्छन्ति केचिद् ब्राह्मणपुंगवाः ॥
तथा सिततृतीयायां नार्यः सौभाग्यदर्पिताः ।
कुङ्कुमेन प्रयच्छन्ति लवणेन गुडेन च ॥
तत्र मन्त्रा न होमा वा एवम् एव प्रदापयेत् ॥

इति तुलादाने विशेषः ।

अथातः संप्रवक्ष्यामि महादानम् उत्तमम् ।
नाम्ना हिरण्यगर्भाख्यं महपातकनाशनम् ॥
पुण्यं दिनम् अथासाद्य तुलापुरुषदानवत् ।
ऋत्विग्मण्डपसंभारभूषणाच्छादनादिकम् ॥
कुर्याद् उपोषितस् तद्वल् लोकेशावाहनं बुधः ।
पुण्याहवाचनं कृत्वा तद्वत् कृत्वाधिवासनम् ॥
ब्राह्मणैर् आनयेत् कुण्डं तपनीयम् अयं शुभम् ।
द्वासप्तत्यङ्गुलोच्छ्रायं हेमपङ्कजगर्भवत् ॥
त्रिभागहीनविस्तारं प्रशस्तं मुरजाकृति ।
दशान्तानि सरत्नानि दात्रं सूची तथैव च ॥
हेमनालं सपिटकं बहिर् आदित्यसंयुतम् ।
अथैवावरणं नाभेर् उपवीतं च काञ्चनम् ॥
पार्श्वतः स्थापयेत् तद्वद् धेमदण्डं कमण्डलुम् ।
पद्माकारं पिधानं स्यात् समन्ताद् अङ्गुलाधिकम् ॥
मुक्तावलीसमोपेतं पद्मरागदलान्वितम् ।
तिलद्रोणोपरि गतं वेदिमध्ये ततो ऽर्चयेत् ॥
ततो मङ्गलशब्देन ब्रह्मघोषरवेण च ।

[३२१] सर्वौषध्युदकस्थानं स्नपितं वेदपारगैः ॥

शुक्लमाल्याम्बरधरैः सर्वाभरणभूषितः।
इद(म)म् उच्चारयेन् मन्त्रं गृहीतकुसुमाञ्जलिः ॥
नमो हिरण्यगर्भाय हिरण्यकवचाय च ।
सप्तलोकसुराध्यक्ष जगद्धात्रे नमो नमः ॥
भूर्लोकप्रमुखा लोकास् तव घर्भे व्यवस्थिताः ।
ब्रह्मादयस् तथा देवा नमस् ते विश्वधारिणे ॥
नमस् ते भुवनाधार नमस्ते भुवनाश्रय ।
नमो हिरण्यगर्भाय गर्भे यस्य पितामहः॥
यतस् त्वम् एव भूतात्मा भूते भूते व्यवस्थितः ॥
तस्मान् माम् उद्धराशेषदुःखसंसारसागरात् ।
एवम् आमन्त्र्य तन्मध्यम् आविश्यास्त उदङ्मुखः ॥
मुष्टिभ्यां परिसंगृह्य धर्मराजचतुर्मुखौ ॥
जानुमध्ये शिरः कृत्वा तिष्ठेद् उच्छ्वासपञ्चकम् ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ॥
कुर्युर् हिरण्यगर्भस्य ततस् ते द्विजपुंगवाः ।
गीरमङ्गलघोषेण गुरुर् उत्थापयेत् ततः ॥
जातकर्मादिकाः कुर्युः क्रियाः षोडश चापराः ।
सूच्यादिकं च गुरवे दत्वा मन्त्रम् इमं पठेत् ॥
ॐ नमो हिरण्यगर्भाय विश्वगर्भाय वै नमः ।
चराचरस्य जगतो गृहभूताय वै नमः ॥
मात्राहं जनितः पूर्वं मर्त्यधर्मामरोत्तम ।
त्वद्गर्भसंभवो देव दिव्यदेहो भवाम्य् अहम् ॥
चतुर्भिः कलशैर् भूयस् ततस् ते द्विजपुंगवाः ।
स्नानं कुर्युः प्रसन्नाङ्गाः सर्वाभरणभूषिताः ॥
देवस्य त्वेति मन्त्रेण स्थितस्य कनकासने ।
अद्य जातस्य ते ऽङ्गानि अभिप्रेक्ष्यामहे वयम् ॥
दिव्येनानेन वपुषा चिरं जीव सुखी भव ।

[३२२] ततो हिरण्यगर्भं तं तेभ्यो दद्याद् विचक्षणः ॥

ते पूज्याः सर्वभावेन बहवो वा तदाज्ञया ।
तत्रोपकरणं सर्वं गुरवे विनिवेदयेत् ॥
पादुकोपानहच्छत्रं चामरासनभाजनम् ।
ग्रामं वा विषयं वापि यद् अन्यद् दयितं भवेत् ॥
अनेन विधिना यस् तु पुण्ये ऽह्नि विनिवेदयेत् ।
हिरण्यगर्भदानं स ब्रह्मलोके महीयते ॥
पुरेषु लोकपालानां प्रैमन्वन्तरं वसेत् ।
कल्पकोटिशतं यावद् ब्रह्मलोके महीयते ॥
कलिकलुषविमुक्तः पूजितः सिद्धसंघैर् अमलचमरमालावीज्यमानो ऽप्सरोभिः ।
पितृशतम् अथ बन्धून् पुत्रपौत्रप्रपौत्रान् अपि नरकनिमग्नांस् तारयेद् एक एव ॥

इति मात्स्ये हिरण्यगर्भदानविधिः ।

मत्स्य उवाच ।
अथातः संप्रवक्ष्यामि ब्रह्माण्डाभिधम् उत्तमम् ।
यच् छ्रेष्ठं सर्वदानानां महापातकनाशनम् ॥
पुण्यं दिनम् अथासाद्य तुलापुरुषदानवत् ।
ऋत्विग्मण्डलसंभारभूषणाच्छादनानि च ॥
लोकेशावाहनं तद्वद् अधिवासनकं तथा ।
कुर्याद् विंशपलाद् ऊर्ध्वम् आ सहस्राच् च शक्ततः ॥
शकलद्वयसंयुक्तं ब्रह्माण्डं काञ्चनं बुधः ।
दिग्गजाष्टकसंयुक्तं षड्वेदाङ्गसमन्वितम् ॥
लोकपालाष्टकोपेतं मध्यस्थितचतुर्मुखम् ।
शिवाच्युतार्कशिखरम् उमालक्ष्मीसमन्वितम् ॥
वस्वादित्यमरुद्गर्भं महारत्नसमन्वितम् ।
वितस्तेर् अङ्गुलशतं यावदायामविस्तरम् ॥
कौशेयवस्त्रसंयुक्तं तिलद्रोणोपरि न्यसेत् ।
**तथाष्टादश धान्यानि समन्तात् परिकल्पयेत् ॥ [३२३]
श्यामाकधान्ययवमुद्गतिलाणुमाषगोधूमकोद्रवकुलत्थसतीनशिम्बैः ।
अष्टादशं चणकलायमयोष्टराजमाषप्रियङ्गुसहितं च मसूरम् आहुः ॥
पूर्वेणानन्तसंयुक्तं प्रद्युम्नं पूर्वदक्षिणे ।
प्रकृतिं दक्षिणे देशे संकर्षणम् अतः परम् ॥
पश्चिमे चतुरो वेदान् अनिरुद्धम् अतः परम् ।
अग्निम् उत्तरतो हेमवासुदेवम् अतः परम् ॥
समन्ताद् गुडपीठस्थान् अर्चयेत् काञ्चनान् बुधः ।
स्थापयेद् वस्त्रसंवीतान् पूर्णकुम्भान् दशैव तु ॥
दशैव धेनवो देयाः सहेमा वरदोहनाः ।
पादुकोपानहच्छत्रचामरासनदर्पणैः ॥
भक्ष्यभोज्यान्नदीपेक्षुफलमाल्यानुलेपनैः ।
होमाधिवासनान्ते तु स्नापितो वेदपुंगवैः ॥
ॐ नमो ऽस्तु विश्वेश्वर विश्वधाम जगत्सवित्रे भगवन् नमस् ते ।
सप्तर्षिलोकामरभूतलेश गर्भेण सार्धं वितराभिरक्षाम् ॥
ये दुःखितास् ते सुखिनो भवन्तु प्रयान्तु पापानि चराचराणाम् ।
त्वद्दानशस्त्राहतपातकानां ब्रह्माण्ड दोषाः प्रलयं प्रयान्तु ॥
देवं प्रणम्यामरविश्वगर्भं दद्याद् द्विजेभ्यो दशधा विभज्य ।
भागद्वयं तत्र गुरोः प्रकल्प्य समं भजेच् छेषम् अतः क्रमेण ॥
स्वल्पेषु होमं गुरुर् एक एव कुर्याद् अथैकाग्निविधानयुक्त्या ।
स एव संपूज्यतमो ऽल्पवित्तैर् यथोक्तवस्त्राभरणादिकेन ॥
इत्थं य एतद् अखिलं पुरुषो ऽनुकुर्याद् ब्रह्माण्डदानम् अधिगम्य महद् विमानम् ।
निर्धूतकल्मषविशुद्धतनुर् मुरारेर् आनन्दकृत्पदम् उपैति महाप्सरोभिः ॥
संतारयेत् पितृपितामहपुत्रपौत्रबन्धुप्रियातिथिकलत्रशताष्टकं सः ।
ब्रह्माण्डदानशकलीकृतपातकौघम् आनन्दयेच् च जननीकुलम् अप्य् अशेषम् ॥

इति मात्स्ये ब्रह्माण्डदानविधिः ।

अत्र भविष्योत्तरीया विशेषाः । [३२४]

ब्रह्माण्डं काञ्चनं कृत्वा सर्वलक्षणसंयुतम् ।
देवासुरैर् मनुष्यैश् च गन्धर्वोरगराक्षसैः ॥
संयुक्तं च नदीभिश् च समुद्रैः पर्वतैस् तथा ।
विमानशतकोटीभिर् भूषितं च सरोवरैः ॥

तथा ।

तस्याङ्गे कल्पयेद् राजन् भुवनानि चतुर्दश ।

तथा ।

कलश(शकल)द्वयसंयुक्तं घटाकारं सुसंहतम् ।

तथा ।

पुष्पमण्डपिकां कृत्वा तत्र संस्थापयेद् बुधः ।
तिलद्रोणोपरिगतं कुङ्कुमक्षोदचर्चितम् ॥
वासोयुग्मेन संछाद्य धूपगन्धादिवासितम् ।
अष्टादशैव धान्यानि द्रोणमात्राण्य् अथाहरेत् ॥
गृहे वा मण्डपे वापि स्थापयेत् तं विचक्षणः ।

तथा ।

ब्रह्मविष्णुशिवानां च तन्नाम्ना जुहुयात् तिलान् ।
अयुतं होमयेत् पञ्चान् महाव्याहृतिभिर् नृप ॥
रुद्रजापश् च कर्तव्यस् तस्यैवानन्तरं बुधैः ।
ततः पर्वसमीपे तु स्नातः शुक्लाम्बरः शुचिः ॥
ब्रह्माणं पूजयेद् भक्त्या गृहीतसुकुमाञ्जलिः (?) ।
नमो जगत्प्रतिष्ठाय विश्वधाम्ने नमो ऽस्तु ते ॥
वाङ्मयान्तर्निमग्नाय ब्रह्माण्डे शुभकृद् भव ।
ब्रह्माण्डोदरवर्तीनि यानि सत्त्वानि कानिचित् ॥
तानि सर्वाणि मे पुष्टिं प्रयच्छन्त्व् अतुलां तथा ।
ब्रह्मा विष्णुश् च रुद्रश् च लोकपालास् तथा ग्रहाः ॥
नक्षत्राणि तथा नागा ऋषयो मरुतस् तथा ।
सर्वे भवन्तु मे प्रीताः सप्त जन्मान्तराणि च ॥
इत्य् उच्चार्य ततो दद्याद् ब्रह्माण्डं सर्वकामदम् ।
सदक्षिणं च तत् कृत्वा दिक्संस्थान् पूजयेद् द्विजान् ॥

इति भविष्योत्तरे विशेषतो ब्रह्माण्डदानविधिः \

मत्स्य उवाच ।
कल्पपादपदानाख्यम् अतः परम् अनुत्तमम् ।
महादानं प्रवक्ष्यामि सर्वपापप्रणाशनम् ॥

[३२५] पुण्यं दिनम् अथासाद्य तुलापुरुषदानवत् ।

पुण्याहवाचनं कृत्वा लोकेशावाहनं तथा ॥
ऋत्विग्मण्डपसंस्कारभूषणाच्छादनादिकम् ।
काञ्चनं कारयेद् वृक्षं नानाफलसमन्वितम् ॥
नानाविहगवस्त्राणि भूषणानि च कारयेत् ।
शक्तितस् त्रिपलाद् ऊर्ध्वम् आ सहस्राद् धि कारयेत् ॥
अथ तप्तसुवर्णस्य कारयेत् कल्पपादपम् ।
गुडप्रस्थोपरिष्टाच् च सितवस्त्रयुगावृतम् ॥
ब्रह्मविष्णुशिवोपेतं पञ्चशाखं सभास्करम् ।
कामदेवम् अधस्ताच् च सकलत्रं प्रपूजयेत् ॥
संतानं पूर्वतस् तद्वत् तुरीयांशेन कल्पयेत् ।
मन्दारं दक्षिणे पार्श्वे श्रिया सार्धं घृतोपरि ॥
पश्चिमे पारिभद्रं तु सवित्र्या सह जीरके ।
सुरभीसंयुतं तद्वत् तिलेषु हर्चन्दनम् ॥
तृतीयांशेन कुर्वीत तिलेन फलसंयुतम् ।
कौशेयवस्त्रसंयुक्तान् इक्षुमालासमन्वितान् ॥
तथाष्टौ पूर्णकलशान् पादुकासनभाजनम् ।
दीपकोपानहच्छत्रचामरासनसंयुतम् ॥
फलमाल्ययुतं तद्वद् उपरिष्टाद् वितानकम् ।
तथाष्टादश धान्यानि समन्तात् परिकल्पयेत् ॥
ॐ नमस् ते कल्पवृक्षाय चिन्तितार्थप्रदायिने ।
विश्वंभराय देवाय नमस् ते विश्वमूर्तये ॥
यस्मात् त्वम् एव विश्वात्मा ब्रह्मा स्थानुर् दिवाकरः ।
मूर्तामूर्तं परं बीजमतः पाहि सनातनम् ॥
त्वम् एवामृतसर्वस्वम् अनन्तः पुरुषो ऽव्ययः ।
संतानाद्यैर् उपेतः सन् पाहि संसारसागरात् ॥

[३२६] एवम् आमन्त्र्य तं दद्याद् गुरवे कल्पपादपम् ।

चतुर्भ्यश् चापि ऋत्विग्भ्यः संतानाद्यान् प्रकल्पयेत् ॥
(स्वल्पेष्व् एकाग्निवत् कुर्याद् गुरुर् एवाभिपूजितः ।
न वित्तशाठ्यं कुर्वीत न च विस्मयवान् भवेत् ॥
अनेन विधिना यस् तु महादानं निवेदयेत् ।)
सर्वपापविनिर्मुक्तः सो ऽश्वमेधफलं लभेत् ॥
अप्सरोभिः परिवृतः सिद्धचारणकिंनरैः ।
भूतान् भव्यांश् च मनुजांस् तारयेद् रोमसंमितान् ॥
स्तूयमानो दिवः पृष्ठे पुत्रपौत्रप्रपौत्रकान् ।
विमानेनार्कवर्णेन विष्णुलोकं स गच्छति ॥
दिवि कल्पशतं तिष्ठेद् राजराजो भवेन् नरः ।
नारायणबलोपेतो नारायणपरायणः ॥
नारायणकथासक्तो नारायणपरं व्रजेत् ॥

इति मात्स्ये कल्पवृक्षदानविधिः ।

अस्य भविष्योत्तरे विशेषः ।

श्रीभगवान् उवाच ।
अपुत्रः पुरुषो यश् च नारी वा पर्वतात्मने ।
सौवर्णस् तेन दातव्यः कल्पवृक्षो गुणान्वितः ॥
कृत्त्रिमं वापि गृह्णीयाद् वृक्षं वा स्थावरादिकम् ।
अन्यजातो ऽथ वा पुत्रः पुत्रत्वे परिकल्पयेत् ॥
तेन पुत्रवतां लोके गच्छेद् दिवि न संशयः ।
कल्पवृक्षस् तु कर्तव्यः सुद्धकाञ्चनसंभवः ॥
बहुशाखः सुपर्णाङ्गो ह्य् अनेककुसुमान्वितः ।
महास्कन्धः सुरूपश् च रत्नालंकृतविग्रहः ॥
फलानि तस्य दिव्यानि सौवर्णानि प्रकल्पयेत् ।
राजतं चैव कुर्वीत समन्तात् पीठम् उत्तमम् ॥
प्रवालाङ्कुरसंपृक्तं मुक्तादामविलम्बितम् ।
चतुष्कोणेषु कुर्वीत चतुरः काञ्चनद्रुमान् ॥

[३२७] सुवर्णस्य प्रमाणं तु कथयामि वरानने ।

सहस्रेण तदर्धेन तस्याप्य् अर्धेन वा पुनः ॥
कारयेत् कल्पवृक्षं तु सर्वकामसमृद्धये ।
चन्द्रसूर्योपरागे तु दुःस्वप्नाद्भुतदर्शने ॥
जन्मर्क्षे विषुवे चैव युगाद्यास्व् अथ वा पुनः ।
नद्यास् तीरे गृहे वापि देवतायतने ऽपि वा ।
प्रागुदक्प्रवणे देशे मण्डपं तत्र कारयेत् ॥
दशहस्तप्रमाणेन कुण्डम् एकं सुशोभनम् ।
आग्नेय्यां कारयेद् राजन् मेखलात्रयभूषितम् ॥
तत्र च ब्राह्मणा योज्या ऋग्यजुःसामपाठकाः ।
उपदेष्टा च तत्रैव द्वितीयः पञ्चमो ऽपि वा ॥
सर्वाभरणसंपन्नास् ताम्रपात्रविभूषिताः ।
गुडप्रस्थोपरिष्टाच् च स्थापयेत् कल्पपादपम् ॥
ब्रह्मविष्णुशिवोपेतं पञ्चशाखं सभास्करम् ।
कामदेवम् अधस्ताच् च सकलत्रं प्रकल्पयेत् ॥
संतानं सह गायत्र्या पूर्वतो लवणोपरि ।
मन्दारं दक्षिणे पार्श्वे श्रिया सह तथा घृते ॥
पश्चिमे पारिजातं च उमया सह जीरके ।
सुरभीसहितं तद्वित्तिलेषु हरिचन्दनम् ॥
कौशेयवस्त्रसंयुक्तान् इक्षुमालासमन्वितान् ।
तथाष्टौ पूर्वकलशान् समन्तात् परिकल्पयेत् ॥
अग्नौ प्रणयनं कृत्वा अधिवास्य तु पादपम् ।
होमं च ब्राह्मणाः कुर्युः सुशुद्धेनान्तरात्मना ॥
आघाराव् आज्यभागौ च पूर्वं हुत्वा विचक्षणः ।
तल्लिङ्गैः स्थापितान् देवान् होमेनाप्याययेत् ततः ॥
महाव्याहृतिभिश् चैव होमं कुर्युस् ततः परम् ।
अयुतेन भवेत् सिद्धिर् यज्ञस्य वरवर्णिनि ॥
ततः प्रभाते चोत्थाय स्नात्वा शुक्लाम्बरः शुचिः ।
त्रिः प्रदक्षिणम् आवृत्य मन्त्रम् एतम् उदीरयेत् ॥

[३२८] नमस्ते कल्पवृक्षाय चिन्तितार्थप्रदायक ।

वृद्धिप्रदाय देवाय नमस् ते विश्वमूर्तये ॥
यस्मात् त्वम् एव विश्वात्मा ब्रह्मा स्थाणुर् दिवाकरः ।
मूर्तामूर्थं परं बीजम् अतः पाहि सनातनम् ॥
एवम् आमन्त्र्य तं दद्याद् गुरवे कल्पपादपम् ।
चतुर्भ्यश् चाथ ऋत्विग्भ्यः संतानादीन् प्रकल्पयेत् ॥
अनेन विधिना यस् तु दानम् एतत् प्रयच्छति ।
तस्य पुण्यफलं देवि शृणुष्व गदतो मम ॥
नारी वा पुरुषो वापि स तावद् भुवि दुर्लभः ।
मातृतः पितृतश् चैव पुरुषान् एकविंशतिम् ॥
तारयेत् कृतकृत्यश् च भवेज् जन्मनि जन्मनि ।
अवस्थात्रितये यच् च पापं जन्मदशार्जितम् ॥
तत् क्षालयत्य् असंदेहं ब्रह्मलोकं च गच्छति ।
तत्र ब्रह्मदिनं स्थित्वा पुनर् याति शिवालयम् ॥
तत्रापि सुचिरं कालं गमित्वा पुण्यलोकतः ।
एवमादि वसित्वा तु मुनुष्यो जायते पुनः ॥
अरोगी बलवाञ् शूरो रूपवान् सुभगस् तथा ।
दश् जन्मानि कुरुते राज्यं निहतकण्टकः ॥
नारी वा दानम् एतद् धि दत्वा चैतत् फलं लभेत् ।
एतद् गौर्याः समाख्यातं भवेन भवमेदिना ॥
मया च कथितं सर्वं तव पाण्डुकुलोद्वह ॥
हैमं सुरद्रुमचतुष्टयसंयुतं च संकल्प्य कल्पविटपं प्रतिपादयेद् यः ।
विप्राय् वेदविदुषे प्रयतो ऽह्नि पुण्ये प्राप्नोत्य् अनल्पम् अविकल्पम् असाव् अभीष्टम् ॥

इति भविष्योत्तरे कल्पवृक्षदाने विशेषः ।

मत्स्य उचाच ।
अथातः संप्रवक्ष्यामि महादानम् अनुत्तमम् ।
गोसहस्रप्रदानाख्यं सर्वपापहरं परम् ॥
पुण्यां तिथिं समासाद्य युगमन्वन्तरादिकम् ।

[३२९] पयोव्रत्स् त्रिरात्रं स्याद् एकरात्रम् अथापि वा ॥

लोकेशावाहनं कुर्यात् तुलापुरुषदानवत् ।
पुण्याहवाचनं कुर्याद् धोमकार्यं तथैव च ॥
ऋत्विग्मण्डलसंभारभूषणाच्छादनादिकम् ।
वृषं लक्षणसंयुक्तं वेदिमध्ये ऽधिवासयेत् ॥
गोसहस्राद् विनिष्कृष्य गवां दशकम् एव च ।
गोसहस्रं बहिष्कुर्याद् वस्त्रमाल्यविभूषितम् ॥
सुवर्णशृङ्गाभरणं रौप्यपादसमन्वितम् ।
अन्तः प्रेवेश्य दशकं वस्त्रमाल्यैस् तु पूजयेत् ॥
सुवर्णघण्टिकोपेतं हेमपट्टैर् अलंकृतम् ।
कौशेयवस्त्रसंवीतं गन्धमाल्यसमन्वैतम् ॥
हेमरत्नमयैः शृङ्गैश् चामरैर् उपशोभितम् ।
पादुकोपानहच्छत्रभाजनासनसंयुतम् ॥
गवां दशकमध्ये स्यात् काञ्चनो नन्दिकेश्वरः ।
कौशेयवस्त्रसंवीतो गन्धमाल्यविभूषितः ॥
लवणद्रोणशिखरे मालेक्षुफलसंयुतः ।
कुर्यात् पलशताद् ऊर्ध्वं सर्वम् एतद् असंशयम् ॥
शक्तितः पलसाहस्रं त्रितयं यावद् एव तु ।
गोशते ऽपि दशांशेन सर्वम् एतत् समाचरेत् ॥
पुण्यकालं समाशाद्य गीतमङ्गलनिःस्वनैः ।
सर्वौषध्युदकस्नानैः स्नापितो वेदपुंगवैः ॥
इमम् उच्चारयेन् मन्त्रं गृहीतकुसुमाञ्जलिः ।
ॐ नमो विश्वमूर्तिभ्यो विश्वमातृभ्य एव च ॥
विश्वाधिवासिनीभ्यश् च रोहिणीभ्यो नमो नमः ।
गवाम् अङ्गेषु तिष्ठन्ति भुवनान्य् एकविंशतिः ॥
ब्रह्मादयस् तथा देवा रोहिण्यः पान्तु मातरः ।
गावो ममाग्रतः सन्तु गावः पृष्ठत एव हि ॥
गावः शिरसि मे नित्यं गवां मध्ये वसाम्य् अहम् ।
यस्मात् त्वं वृषरूपेण धर्म एव सनातनः ॥

[३३०] अष्टमूर्तेर् अधिष्ठानम् अतः पाहि सनातनम् ।

इत्य् आमन्त्र्य ततो दद्याद् गुरवे नन्दिकेश्वरम् ॥
सर्वोपकरणोपेतं गोयुगं च विचक्षणः ।
ऋत्विग्भ्यो धेनुम् एकैकां दशानां विनिवेदयेत् ॥
दश पञ्चाथ वा दद्याद् अन्येभ्यस् तदनुज्ञया ।
नैका बहुभ्यो दातव्या यतो दोषकरो भवेत् ॥
बह्व्यश् चैकस्य दातव्याः श्रीमतारोग्यवृद्धये ।
पयोव्रतः पुनस् तिष्ठेद् एकाहं गोसहस्रदः ॥
श्रावयेच् छृणुयाद् वापि महादानानुकीर्तनम् ।
तद् दिनं ब्रह्मचारी स्याद् य इच्छेद् विपुलां श्रियम् ॥
अनेन विधिना यस् तु गोसहस्रप्रदो भवेत् ।
सर्वपापविनिर्मुक्तः सिद्धचारणसेवितः ॥
विमानेनार्कवर्णेन किङ्किणीजालमालिना ।
सर्वेषां लोकपालानां लोके संपूज्यते ऽमरैः ॥
प्रतिमन्वन्तरं तिष्ठेत् पुत्रपौत्रसमन्वितः ।
सप्त लोकान् अतिक्रम्य ततः शिवपुरं व्रजेत् ॥
शतम् एकोत्तरं तद्वत् पितॄणां तारयेद् बुधः ।
मातामहानां तद्वच् च पुत्रपौत्रसमन्वितः ॥
यावत् कल्पशतं तिष्ठेद् राजराजो भवेत् पुनः ।
अश्वमेधशतं कुर्याच् छिवध्यानपरायणः ॥
वैष्णवं लोकम् आस्थाय ततो मुच्येत बन्धनात् ।
पितरश् चाभिनन्दन्ति गोसहस्रप्रदं शुभम् ॥
अपि स्यात् स कुले ऽस्माकं पुत्रो दौहित्र एव वा ।
गोसहस्रप्रदो भूत्वा नरकाद् उद्धरिष्यति ॥
तस्य कर्मकरो वा स्याद् अपि द्रष्टा तथैव च ।
संसारसागराद् अस्माद् यो ऽस्मान् संतारयिष्यति ॥

इति मात्स्ये गोसहस्रदानविधिः ।

मत्स्य उवाच ।
अथातः संप्रवक्ष्यामि कामधेनुविधिं परम् ।
सर्वकामप्रदं नॄणां महापातकनाशनम् ॥

[३३१] लोकेशावाहनं तद्वद् धोमः कार्यो विचक्षणैः ।

तुलापुरुषवत् कुर्यात् कुण्डमण्डपवेदिकाम् ॥
स्वल्पेष्व् एकाग्निवत् कुर्याद् गुरुर् एव समाहितः ।
काञ्चनस्यातिशुद्धस्य धेनुं वत्सं च कारयेत् ॥
उत्तमा पलसाहस्रा तदर्धेन तु मध्यमा ।
कनीयसी तदर्धेन कामधेनुः प्रकीर्तिता ॥
शक्तितस् त्रिपलाद् ऊर्ध्वम् अशक्तो ऽपि हि कारयेत् ।
वेद्यां कृष्णाजिनं न्यस्य गुडप्रस्थसमन्विताम् ॥
न्येअसेद् उपरि तां धेनुं महारत्नैर् अलंकृताम् ।
कुम्भाष्टकफलोपेतां नानाफलसमन्विताम् ॥
तथाष्टादश धान्यानि समन्तात् परिकल्पयेत् ।
इक्षुदण्डाष्टकं तद्वच् नानाफलसमन्वित्म् ॥
भाजनं चामरं तद्वत् ताम्रदोहनकं तथा ।
कौशेयवस्त्रद्वयसंप्रयुक्ता दीपातपत्राभरणाभिरामा ।
सचामरा कुण्डलिनी सघण्टा गलर्तिका पादुकरौप्यपादा ॥

गलर्तिका गलभूषणम् ।

रसैश् च सर्वैः परितो ऽभिजुष्टा हरिद्रया पुष्पफलैर् अनेकैः ।
अजाजिकुस्तुंबुरुशर्कराभिर् वितानकं चोपरि पञ्चवर्णम् ॥
स्नातस् ततो मङ्गलवेदघोषैः प्रदक्षिणीकृत्य सपुष्पहस्तः ।
आवाहयेत् तां गुरुणोक्तमन्त्रैर् द्विजाय दद्याद् अथ दर्भपाणिः ॥
त्वं सर्वदेवगणमन्दिरसङ्गभूता विश्वेश्वरत्रिपथगोदधिपर्वतानाम् ।
त्वद्दानशस्त्रशकलीकृतपातकौघः प्राप्तो ऽस्मि निर्वृतिम् अतीव परां नमामि ॥
लोके यथेप्सितफलार्थविधायिनीं त्वाम् आसाद्य को हिअ भवदुःखम् उपैति मर्त्यः ।
संसारदुःखशमनाय ददस्व कामं त्वां कामधेनुर् इति देवगणा वदन्ति ॥
आमन्त्र्य रूपकुलशीलगुणान्विताय विप्राय यः कनकधेनुम् इमां प्रदद्यात् ।
प्राप्नोति धाम स पुरंदरदेवजुष्टं कन्यागणैः परिवृतः पदम् इन्दुमौलेः ॥

इति मात्स्य कामधेनुप्रदानविधिः ।

मत्स्य उवाच ।
अथातः संप्रवक्ष्यामि हिरण्याश्वविधिं शुभम् ।
यस्य प्रदानाद् भुवने अनन्तं फलम् अश्नुते ॥

[३३२] पुण्यां तिथिं समासाद्य कुर्याद् ब्राह्मणवाचनम् ।

लोकेशावाहनं तद्वत् तुलापुरुषदानवत् ॥
ऋत्विग्मण्डपसंभारभूषणाच्छादनादिकम् ।
अल्पेष्व् एकाग्निवत् कुर्याद् धेमवाजिमखं बुधः ॥
स्थापयेद् वेदिमध्ये तु कार्ष्णाजिनतिलोपरि ।
कौशेयवस्त्रसंवीतं कारयेद् धेमवाजिनम् ॥
शक्तितस् त्रिपलाद् ऊर्ध्वम् आसहस्रपलं बुधः ।
पादुकोपाहनच्छत्रचामरासनभाजनैः ॥
पूर्णकुम्भाष्टकोपेतं माल्येक्षुफलसंयुतम् ।
शय्यां सोपस्करां तद्वद् धेममार्तण्डसंयुताम् ॥
ततः सर्वौषधिस्नानस्नापितं वेदपुंगवैः ।
इमम् उच्चारयेन् मन्त्रं गृहीतकुसुमाञ्जलिः ॥
नमस् ते देव देवेश वेदाहरणलम्पट ।
वाजिरूपेण माम् अस्मात् पाहि संसारसागरात् ॥
त्वम् एव सप्तधा भूत्वा छन्दोरूपेण भास्करम् ।
यस्माद् ब्रमयसे लोकान् अतः पाहि सनातन ॥
एवम् उच्चार्य गुरवे तम् अश्वं विनिवेदयेत् ।
दत्वा पापक्षयाद् भानोर् लोकम् अभ्येति शाश्वतम् ॥
गोभिर् विभवतः सर्वान् ऋत्विजश् चाभिपूजयेत् ।
सर्वधान्योपकरणं गुरवे विनिवेदयेत् ॥
सर्वं शय्यादिकं दत्वा भुञ्जीत तिलम् एव च ।
पुराणश्रवणं तद्वत् कारयेद् भोजनादिकम् ॥
इमं हिरण्याश्वविधिं करोति यः संपूज्यमानो दिवि देवतेन्द्रैः ।
विमुक्तपापः स पुरं मुरारेर् आप्नोति सिद्धरि अभिपूजितः सन् ॥

इति मात्स्ये हिरण्याश्वदानम् ।

मत्स्य उवाच ।
अथातः संप्रवक्ष्यामि महादानम् अनुत्तमम् ।
पुण्यम् अश्वरथं नाम महापातकनाशनम् ॥
पुण्यं दिनम् अथासाद्य कृत्वा ब्राह्मणवाचनम् ।
लोकेशावाहनं कुर्यात् तुलापुरुषदानवत् ॥

[३३३] ऋत्विग्मण्डपसंभारभूषणाच्छादनादिकम् ।

कृष्णाजिने तिलान् कृत्वा काञ्चनं कारयेद् रथम् ॥
सप्ताश्वं चतुरश्वं वा चतुश्चक्रं सुकूबरम् ।
ऐन्द्रनीलेन कुम्भेन ध्वजरूपेण संयुतम् ॥
लोकपालाष्टकोपेतं पद्मरागदलान्वितम् ।
चत्वारः पूर्णकलशा धान्यान्य् अष्टादशैव तु ॥
कौशेयवस्त्रसंयुक्तम् उपरिष्टाद् वितानकम् ।
माल्येक्षुफलसंयुक्तं पुरुषेण समन्वितम् ॥
यो यद्भक्तः पुमान् कुर्यात् स तन्नाम्न्याधिवासनम् ।
छत्रचामरकौशेयवस्त्रोपानहपादुकाः ॥
गोभिर् विभवतः सार्धं दद्याच् च शयनासनम् ।
आ भारात् त्रिपलाद् ऊर्ध्वं शक्तितः कारयेद् बुधः ॥
अष्टाभिर् अथ संयुक्तं चतुर्भिर् वाथ वाजिभिः ।
द्वाभ्याम् अथ युतं दद्याद् धेमसिंहध्वजान्वितम् ॥
चक्ररक्षाव् उभौ तद्वत् तुरगस्थावथाश्विनौ ।
पुण्यकालम् अथासाद्य पूर्ववत् स्नापितो द्विजैः ॥
त्रिः प्रदक्षिणम् आवृत्य गृहीतकुसुमाञ्जलिः ।
शुक्लमाल्याम्बरो दद्याद् इमं मन्त्रम् उदीरयेत् ॥
ॐ नमो नमः पापविनाशनाय वेदात्मने वेदतुरंगमाय ।
धाम्नाम् अधीशाय भवाभवाय पापौघदावानल देहि शान्तिम् ॥
वस्वष्टकादित्यमरुद्गणानां त्वम् एव धाता परमं निधानम् ।
यतस् ततो मे हृदयं प्रयातु धर्मैकतानत्वमघौघनाशात् ॥
इति तुरगरथप्रदानम् एवं भवभयसूदनम् अत्र यः करोति ।
स कलुषपटलैर् विमुक्तदेहः परमम् उपैति पदं पिनाकपाणेः ॥
देदीप्यमानवपुषा विजितप्रभावम् आक्रम्य मण्डलम् अखण्डम् अचण्डभानोः ।
सिद्धाङ्गनानयनषट्पदपीयमानवक्त्राम्बुजो ऽम्बुजभवेन चिरं सहास्ते ॥
इति पठति शृणोति वा य इत्थं कनकतुरङ्गरथप्रदानम् अस्मिन् ।
न स नरकपुरं प्रयाति जातु नरकरिपोर् भवनं प्रयाति भूयः ॥

[३३४]

इति मात्स्ये हिरण्याश्वरथदानम् ।

मत्स्य उवाच ।
अथातः संप्रवक्ष्यामि हेमहस्तिरथं शुभम् ।
यस्य प्रदानाच् च हरेर् भवनं याति मानवः ॥
पुण्यां तिथिं समासाद्य तुलापुरुषदानवत् ।
विप्रवाचनकं कुर्याल् लोकेशावाहनं बुधः ॥
ऋत्विग्मण्डलसंभारभूषणाच्छादनादिकम् ।
अत्राप्य् उपोषितस् तद्वत् ब्राह्मणैः सह भोजनम् ॥
कुर्यात् पुष्परथाकारं काञ्चनं मणिमण्डितम् ।
वलभीभिर् विचित्राभिश् चतुश्चक्रसमन्वितम् ॥
लोकपालाष्टकोपेतं ब्रह्मार्कशिवसंयुतम् ।
मध्ये नारायणोपेतं लक्ष्मीपुष्टिसमन्वितम् ॥
कृष्णाजिने तिलद्रोणं कृत्वा संस्थापयेद् रथम् ।
तथाष्टादश धान्यानि भाजनासनचन्दनैः ॥
दीपकोपनहच्छत्रदर्पणं पादुकान्वितम् ।
ध्वजे तु गरुडं कुर्यात् कूबराग्रे विनायकम् ॥
नानाफलसमायुक्तम् उपरिष्टाद् वितानकम् ।
कौशेयकं पञ्चवर्णम् अम्लानकुसुमान्वितम् ॥
चतुर्भिः कलशैः सार्धं गोभिर् अष्टाभिर् अन्वितम् ।
चतुर्भिर् हेममातङ्गैर् मुक्तादामविभूषितम् ॥
स्वरूपतः करिभ्यां च युक्तं कृत्वा निवेदयेत् ।
कुर्यात् पञ्चपलाद् ऊर्ध्वम् आ भाराद् अपि शक्तितः ॥
ततो मङ्गलशब्देन स्नपितो वेदपुंगवैः ।
त्रिः प्रदक्षिणम् आवृत्य गृहीतकुस्माञ्जलिः ॥
इमम् उच्चारयेन् मन्त्रं ब्राह्मणेभ्यो निवेदयेत् ।
नमो नमः शंकरपद्मजार्कलोकेशविद्याधरवासुदेवैः ।
त्वं सेव्यसे वेदपुराणयज्ञैस् तेजोमय स्यन्दन पाहि तस्मात् ॥
यत् तत्पदं परम् गुह्यतरं मुरारेर् आनन्दहेतु गुणरूपविमुक्तम् अन्तः ।
योगैकमानसदृशो मुनयः समाधौ पश्यन्ति तत् त्वम् असि नाथ रथे ऽधिरूढः ॥
यस्मात् त्वम् एव भवसागरसंप्लुतानाम् आनन्दभाण्डभृतमन्थनयानपात्रम् ? ।

[३३५] तस्माद् अघौघशमनेन कुरु प्रसादं चामीकरेभरथमाधवसंप्रदानम् ॥

इत्थं प्रणम्य कनकेभरथप्रदानं यः कारयेत् सकलपापविमुक्तदेहः ।
विद्याधरामरमुनीन्द्रगणाभुजुष्टं प्राप्नोति तत्पदम् अतीन्द्रियम् इन्दुमौलेः ॥
कृतदुरितवितानांस् तूल्लसद्वह्निजालव्यतिकरकृतदाहोद्वेगभाजो ऽपि बन्धून् ।
नयति च पितृपौत्रान् रौरवाद् अप्य् अशेषान् कृतगजरथदानः शाश्वतं सद्म विष्णोः ॥

इति मात्स्ये हस्तिरथदानम् ।

मत्स्य उवाच ।
अथातः संप्रवक्ष्यामि महादानम् अनुत्तमम् ।
पञ्चलाङ्गलकं नाम महापातकनाशनम् ॥
पुण्यां तिथिं समासाद्य युगादिग्रहणादिकाम् ।
भूमिदानं नरो दद्यात् पञ्चलाङ्गलकान्वितम् ॥
खर्वटं खेटकं वापि ग्रामं वा सस्यशालिनम् ।
निर्वर्तनशतं वापि तदर्धं वापि शक्तितः ॥
सुरदारुमयान् कृत्वा हलान् पञ्च विचक्षणः ।
सर्वोपकरणैर् युक्तांस् तथा तान् पञ्च काञ्चनान् ॥
वृषलक्षणसंयुक्तान् दशैव च दुरंधरान् ।
सुवर्णशृङ्गाभरणान् मुक्तालाङ्गूलशोभितान् ॥
रौप्यपादाग्रतिलकान् रक्तकौशेयभूषणान् ।
स्रग्दामचन्दनयुताञ् शालायाम् अधिवासयेत् ॥
पर्जन्यादित्यरुद्रेभ्यः पयसा निर्वपेच् चरून् ।
एतस्मिन्न् एव कुण्डे तु गुरुर् यस्मै निवेदयेत् ॥
पलाशसमिधस् तद्वद् आज्यं कृष्णतिलांश् तथा ।
तुलापुरुषवत् कुर्याल् लोकेशावाहनं बुधः ॥
ततो मङ्गलशब्देन शुक्लमाल्याम्बरो ऽथ सः ।
आहूय द्विजदांपत्यं हेमसूत्राङ्गुलीयकैः ॥
कौशेयवस्त्रकटकैर् मणिभिश् चाभिपूजयेत् ।
शय्यां सोपस्करां तद्वद् धेनुम् एकां पयस्विनीम् ॥
तथाष्टादश दान्यानि समन्ताद् अधिवासयेत् ।
ततः प्रदक्षिणं कृत्वा गृहीतकुसुमाञ्जलिः ॥

[३३६] इमम् उच्चारयेन् मन्त्रम् अथ संविनिवेदयेत् ।

यस्माद् देवगणाः सर्वे स्थावराणि चराणि च ॥
धुरंधराङ्गे तिष्ठन्ति तस्माद् भक्तिः शिवाश्तु मे ।
यस्माच् च भूमिदानस्य कलां नार्हन्ति षोडशीम् ॥
दानान्य् अन्यानि मे भक्तिर् धर्म एव दृढा भवेत् ।
दण्डेन सप्तहस्तेन त्रिंशद् दण्डा निवर्तनम् ॥
त्रिभागहीनं गोचर्ममानम् आह प्रजापतिः ।
मानेनानेन यो दद्यान् निवर्तनशतं बुधः ॥
विधिनानेन तस्याशु क्षीयते पापसंहतिः ।
तदर्धम् अथ वा दद्याद् अपि गोचर्ममात्रकम् ॥
भवनस्थानमात्रं सो ऽपि पापैः प्रमुच्यते ।
यावन्ति लाङ्गलकमार्गमुखानि भूमेस् तासां पतेर् दुहितुरङ्गजरोमकाणि ।
तावन्ति शंकरपुरे स समानि तिष्ठेद् भूमिप्रदानम् इह यः कुरुते मनुष्यः ॥
गन्धर्वकिंनरसुरासुरसिद्धसंघैर् आधूतचामरम् उपेत्य महद् विमानम् ।
संपूज्यते पितृपितामहबन्धुयुक्तः शंभोः पुरं व्रजति चामरनायकः सन् ॥
नेन्द्रत्वम् अप्य् अधिगतं क्षयम् अभ्युपैति गोभूमिलाङ्गलधुरंधरसंप्रदानात् ।
तस्माद् अघौघपटलक्षयकारि भूमेर् दानं विधेयम् अतिभूतिभवाभवाय ॥

इति मात्स्ये पञ्चलाङ्गलकप्रदानम् ।

मत्स्य उवाच ।
अथातः संप्रवक्ष्यामि धरादानम् अनुत्तमम् ।
पापक्षयकरं नॄणाम् अमङ्गल्यविनाशनम् ॥
कारयेत् पृथिवीं हैमीं जम्बुद्वीपानुकारिणीम् ।
मर्यादापर्वतमयीं मध्ये मेरुसमन्विताम् ॥
लोकपालाष्टकोपेतां नववर्षसमायुताम् ।
नदीनदशतोपेतां सप्तसागरवेष्टिताम् ॥
महारत्नसमाकीर्णां वसुरुद्रार्कसंयुताम् ।
हेम्नः पलसहस्रेण तदर्धेनाथ शक्तितः ॥
शतत्रयेण वा कुर्याद् द्विशतेन शतेन वा ।
कुर्यात् पञ्चपलाद् ऊर्ध्वम् अशक्तो ऽपि विचक्षणः ॥

[३३७] तुलापुरुषवत् कुर्याल् लोकेशावाहनं बुधः ।

ऋत्विग्मण्डलसंभारभूषणाच्छादनादिकम् ॥
वेद्यां कृष्णाजिनं कृत्वा तिलान् उपरि विन्यसेत् ।
तथाष्टादश धान्यानि रसांश् च लवणादिकान् ॥
तथाष्टौ पूर्णकलशान् समन्तात् परिकल्पयेत् ।
वितानकं च कौशेयं फलानि विविधानि च ॥
तथांशुकानि रम्याणि श्रीखण्डशकलानि च ।
इत्य् एवं रचयित्वा ताम् अधिवासनपूर्वकम् ॥
शुक्लमाल्याम्बरधरः शुक्लाभरणभूषितः ।
प्रदक्षिणं ततः कृत्वा गृहीतकुसुमाञ्जलिः ॥
पुण्यकालम् अथासाद्य मन्त्रान् एतान् उदाहरेत् ।
ॐ नमस् ते सर्वदेवानां त्वम् एव भवनं यतः ॥
धात्री च सर्वभूतानाम् अतः पाहि वसुंधरे ।
वसून् धारयते यस्माद् वसुधा तेन निर्मला ॥
वसुंधरा ततो जाता तस्मात् पाहि भयाद् अलम् ।
चतुर्मुखो ऽपि नो गच्छेद् यस्माद् अन्तं तवाचले ॥
अनन्तायै नमस् तस्मात् पाहि संसारकर्दमात् ।
त्वम् एव लक्ष्मीर् गोविन्दे शिवे गौरीति संस्थिता ॥
गायत्री ब्रह्मणः पार्श्वे ज्योत्स्ना चन्द्रे रवौ प्रभा ।
बुद्धिर् बृहस्पतौ ख्याता मेधा मुनिषु संस्थिता ॥
विश्वं व्याप्य स्थिता यस्मात् ततो विश्वंभरा मता ।
स्थितिर् धृतिः क्षमा क्षोणी पृथ्वी वसुमती रसा ।
एताभिर् मूर्तिभिः पाहि देवि संसारसागरात् ॥
एवम् उच्चार्य तां देवीं ब्राह्मणेभ्यो निवेदयेत् ।
धरार्धं वा चतुर्भागं गुरवे प्रतिपादयेत् ॥
शेषं चैवाथ ऋत्विग्भ्यः प्रणिपत्य विसर्जयेत् ।
अनेन विधिना यस् तु दद्याद् धेमधरां बुधः ॥
पुण्यकाले तु संप्राप्ते स पदं याति वैष्णवम् ।
विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥

[३३८] नारायणपुरं गत्वा कल्पत्रयम् अथो वसेत् ।

पितृपौत्रप्रपौत्रांश् च तारयेद् एकविंशतिः(तिम्) ॥
इति पठति य इत्थं यः शृणोति प्रसङ्गाद् अपि कलुषवितानैर् युक्तदेहः समन्तात् ।
दिवम् अमरवधूभिर् याति स पार्थ्यमानः पदम् अमरसहस्रैः सेवितं चन्द्रमौलैः ॥

इति मात्स्ये हैमपृथ्वीदानम् ।

मत्स्य उवाच ।
अथातः संप्रवक्ष्यामि महादानम् अनुत्तमम् ।
विश्वचक्रम् इति ख्यातं महापातकनाशनम् ॥
तपनीयस्य शुद्धस्य विश्वचक्रं च कारयेत् ।
श्रेष्ठं पलसहस्रेण तदर्धेन तु मध्यमम् ॥
तस्यार्धेन कनिष्ठं स्याद् विश्वचक्रम् उदाहृतम् ।
अन्यद् विंशपलाद् ऊर्ध्वम् अशक्तो ऽपि निवेदयेत् ॥
षोडशारं ततश् चक्रं भूषणैर् अष्टधावृतम् ।
नाभिपद्मे स्थितं विष्णुं योगारूढं चतुर्भुजम् ॥
शङ्खपद्मौ च पार्श्वे तु देव्यष्टकसमावृतम् ।
द्वितीयावरणे तद्वत् पूर्वतो जलशायिनम् ॥
अत्रिर् भृगुर् वसिष्ठश् च ब्रह्मा कश्यप एव च ।
मत्स्यः कूर्मो वराहश् च नरसिंहो ऽथ वामनः ॥
रामो रामश् च कृष्णश् च बुद्धः कल्कीति च क्रमात् ।
तृतीयावरणे गौरी मातृभिर् वसुभिर् वृता ॥
चतुर्थे द्वादशादित्या वेदाश् चत्वार एव च ।
पञ्चमे पञ्च भूतानि रुद्राश् चैकादशैव तु ॥
लोकपालाष्टकं षष्ठे दिङ्मातङ्गांस् तथैव च ।
सप्तमे ऽस्त्राणि सर्वाणि मङ्गल्यानि च कारयेत् ॥
अन्तरान्तरतो देवान् विन्यसेद् अष्टमे पुनः ।
तुलापुरुषवत् सर्वं समन्तात् परिकल्पयेत् ॥
ऋत्विग्मण्डलसंभारभूषणाच्छादनादिकम् ।
विश्वचक्रं ततः कुर्यात् कृष्णाजिनतिलोपरि ॥
तथाष्टादश धान्यानि रसाश् च लवणादयः ।

[३३९] पूर्णकुम्भाष्टकं चैव वस्त्राणि विविधानि च ॥

माल्येक्षुफलरत्नानि वितानं चैव कल्पयेत् ।
ततो मङ्गलशब्देन स्नातः शुक्लाम्बरो गृही ॥
होमाधिवासनान्ते तु गृहीतकुसुमाञ्जलिः ।
इमम् उच्चारयेन् मन्त्रं त्रिः कृत्वाथ प्रदक्षिणम् ॥
नमो विश्वमायायेति विश्वचक्रात्मने नमः ।
परमानन्दरूपी त्वं पाहि नः पापकर्दमात् ॥
तेजोमयम् इदं यस्मात् सदा पश्यन्ति योगिनः ।
तद् इदं त्रिगुणातीतं विश्वचक्रं नमाम्य् अहम् ॥
वासुदेवे स्थितं चक्रं चक्रमध्ये च माधवः ।
अन्योन्याधाररूपेण प्रणमामि स्थिताव् इह ॥
चक्रं। विश्वमयं यस्मात् सर्वपापहरं हरेः ।
आयुधं चापि वासश् च भवाद् उद्धर माम् अतः ॥
इत्य् आमन्त्र्य च यो दद्याद् विश्वचक्रम् अमत्सरः ।
विमुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ॥
वैकुण्ठलोकम् आसाद्य चतुर्बाहुः सनातनः ।
सेव्यते ऽप्सरसां संघैर् वसेत् कल्पशतत्रयम् ॥
प्रणमेद् वा स्वयं कृत्वा विश्वचक्रं दिने दिने ।
तस्यायुर् वर्धते नित्यं लक्ष्मीश् च विपुला भवेत् ॥
इति सकलजगत्सुराधिवासं वितरति यस् तपनीयषोडशारम् ।
हरिभवनम् उपागतः स सिद्धैश् चिरम् अभिगम्य नस्यते शिरोभिः ॥
असुदर्शनतां प्रयाति शत्रोर् मदनसुदर्शनतां च कामिनीनाम् ।
स सुदर्शनकेशवानुरूपः कनकसुदर्शनदानदग्धपापः ॥
कृतगुरुदुरितारिषोडशारप्रवितरणप्रवराकृतिर् मुरारेः ।
अभिभवति भवोद्भवानि भित्त्वा भवम् अभितो भवने भयानि भूयः ॥

इति मात्स्य विश्वचक्रदानम् ।

मत्स्य उचाच ।
अथातः संप्रवक्ष्यामि महादानम् अनुत्तमम् ।
महाकल्पलता नाम पातकावलिनाशनम् ॥

[३४०] पुण्यां तिथिं समासाद्य कृत्वा ब्राह्मणवाचनम् ।

ऋत्विग्मण्डलसंसारभूषणाच्छादनादिकम् ॥
तुलापुरुषवत् कुर्याल् लोकेशावाहनादिकम् ।
चामीकरमयीः कुर्याद् दश कल्पलताः शुभाः ॥
नानापुष्पफलोपेता नानांशुकविभूषिताः ।
विद्याधरसुवर्णानां मिथुनैर् उपशोभिताः ॥
हारानादित्सुभिः सिद्धैः फलानि च विहंगमैः ।
लोकपालानुकारिण्यः कर्तव्यास् तासु देवताः ॥
ब्राह्मीम् अनन्तशक्तिं तां लवणस्योपरि न्यसेत् ।
अधस्ताल् लतयोर् मध्ये पद्मशङ्खकरे शुभे ॥
इभासनस्था च गुडे पूर्वतः कुलिशायुधा ।
अजेनावस्थिताग्नेयी स्रुवपाणिरथानले ॥
याभ्यां महिषम् आरूढा दण्डिनी तण्डुलोपरि ।
घृतेन नैरृती स्थाप्या सखड्गा दक्षिणापरे ॥
वारुणी वारुणे क्षीरे ऊषस्था नागपाशिनी ।
पताकिनी च वायव्ये मृगस्था शर्करोपरि ॥
सौम्या तिलेषु संस्थाप्या शङ्खिनी निधिसंस्थिता ।
माहेश्वरी वृषगता नवनीते त्रिशूलिनी ॥
मालिन्यो वरदास् तद्वत् कर्तव्या बालकान्विताः ।
शक्त्या पञ्चपलाद् ऊर्ध्वम् आ सहस्रात् प्रकल्पयेत् ॥
सर्वासाम् उपरिष्टाच् च पञ्चवर्णं वितानकम् ।
धेनवो दश कुम्भाश् च वस्त्रयुग्मानि(णि) चैवे हि ॥
संन्यसेद् द्वे च गुरवे ऋत्विग्भ्यो ऽन्यास् तथैव च ।
ततो मङ्गलशब्देन स्नातः शुकाम्बरो बुधः ॥
त्रिः प्रदक्षिणम् आवृत्य मन्त्रांश् चैतान् उदाहरेत् ।
नमो नमः पापविनाशिनीभ्यो ब्रह्माण्डलोकेश्वरपालिनीभ्यः ।
आशंसिताधिक्यफलप्रदाभ्यो दिग्भ्यस् तथा कल्पलतावधूभ्यः ॥
इति सकलदिगङ्गनाप्रदानं भवभवसूदनकारि यः करोति ।

[३४१] अभिमतफलदे स नागलोके वसति पितामहवत्सराणि विंशत् ॥

पितृशतम् अपि तारयेद् भवाब्धेर् गुरुदुरितौघविधातशुद्धदेहः ।
सुरवरवनितासहस्रसंघैः परिवृतम् अम्बुजसंभवाभिनन्द्यम् ॥
इति विधानम् इदं सदिगङ्गनाकनककल्पलताविनिवेदने ।
पठति यः स्मरतीह तथेक्षते स पदम् एति पुरंदरसेवितम् ॥

इति मात्स्ये कल्पलतादानम् ।

मत्स्य उवाच ।
अथातः संप्रवक्ष्यामि महापातक्नाशनम् ।
सप्तसागरकं नाम सर्वपापप्रणाशनम् ॥
पुण्यं दिनं समासाद्य कृत्वा ब्राह्मणवाचनम् ।
तुलापुरुषवत् कुर्याल् लोकेशावाहनं बुधः ॥
ऋत्विग्मण्डलसंभारभूषणाच्छादनादिकम् ।
कारेयेत् सप्त कुण्डानि काञ्चनानि विचक्षणः ॥
प्रादेशमात्राणि तथारत्निमात्राणि वा पुनः ।
कुर्यात् सप्तपलाद् ऊर्ध्वम् आ सहस्राच् च शक्तितः ॥
संस्थाप्यानि च सर्वाणि पूर्णानि च तिलोपरि ।
प्रथमं पूरयेत् कुण्डं लवणेन विचक्षणः ॥
द्वितीयं पयसा तद्वत् तृतीयं सर्पिषा पुनः ।
चतुर्थं च गुडेनैव दध्ना पञ्चमम् एव च ॥
षष्ठं शर्करया तद्वत् सप्तमं तीर्थवारिणा ।
स्नापयेल् लवणस्यान्तर् ब्रह्माणं काञ्चनं शुभम् ॥
केशवं क्षीरमध्ये तु घृतमध्ये महेश्वरम् ।
भास्करं गुडमध्ये तु दधिमध्ये ऽमराधिपम् ॥
शर्करायां न्यसेल् लक्ष्मीं जलमध्ये तु पार्वतीम् ।
सर्वेषु सर्वरत्नानि धान्यानि च समन्ततः ॥
तुलापुरुषवच् छेषम् अत्रापि परिकल्पयेत् ।
ततो वारुणहोमान्ते स्नापितो वेदपुंगवैः ॥
त्रिः प्रदक्षिणम् आवृत्य मन्त्रान् एतान् उदाहरेत् ।
नमो वः सर्वसिन्धूनाम् आधारेभ्यः सनातनाः ॥
जन्तूनां स्थानदेभ्यश् च समुद्रेभ्यो नमो नमः ।

[३४२] क्षीरोदकाज्यदधिमाधवलावणेक्षुसारामृतेन भुवनत्रयजीवसांघान् ।

आनन्दयन्ति वसुभिश् च यतो भवन्तस् तस्मान् ममाप्य् अघविघातम् अलं दिशन्तु ॥
यस्मात् समस्तभुवनेषु भवन्त एव तीर्थामरासुरसुगन्धिमणिप्रतानम् ।
पापक्षयाध्वरविलेपनभूषणाय लोकस्य बिभ्रति ततो ऽस्तु ममापि लक्ष्मीः ॥
इति ददाति रसामरसंयुतान् सुचिरविस्मयवान् इह सागरान् ।
अमलकाञ्चनरत्नचयान् असौ पदम् उपैति हरेर् अमरार्चितम् ॥
सकलपापविघातविराजितं पितृपितामहपुत्रशतत्रयम् ।
नरकलोकसमाकुलम् अप्य् अलं झगि(टि)ति नेतुम् असौ शिवमन्दिरम् ॥

इति मात्स्य सप्तसागरदानम् ।

मत्स्य उवाच ।
अथातः संप्रवक्ष्यामि महादानम् अनुत्तमम् ।
रत्नधेनुर् इति ख्यातं गोलोकफलदं नृणाम् ॥
पुण्यां तिथिं समासाद्य तुलापुरुषदानवत् ।
लोकेशावाहनं कृत्वा रत्नधेनुं प्रकल्पयेत् ॥
भूमौ कृष्णाजिनं कृत्वा लवणद्रोणसंयुतम् ।
धेनुं रत्नमयीं कुर्यात् संकल्पविधिपूर्वकम् ॥
स्थापयेत् पद्मरागाणाम् एकाशीतिं मुखे बुधः ।
पुष्परागशतं तद्वद् घोणायां परिकल्पयेत् ॥
ललाटे हैमतिलकं मुक्ताफलशतं दृशोः ।
भ्रूयुगे विद्रुमशतं शुक्ती कर्णद्वयं स्मृतम् ॥
काञ्चनानि च शृङ्गाणि शिरो वज्रशतात्मकम् ।
ग्रीवायां नेत्रपुटकं गोमेदकशतात्मकम् ॥
इन्द्रनीलशतं पृष्ठे वैडू(दू)र्यशतपार्श्वकौ ।
स्फटिकं चोदरे तद्वत् सौगन्धिकशतान् (त्) कटिः ॥
खुरा हेममयाः कार्याः पुच्छं मुक्तावलीमयम् ।
सूर्यकान्तेन्दुकान्तानां प्राणे कर्पूरचन्दनम् ॥
कौङ्कुमानि च रोमाणि नाभिं रौप्यां च कल्पयेत् ।
गारुत्मतशतं तद्वद् अपाने परिकल्पयेत् ॥
अथान्यानि च रत्नानि स्थापयेत् सर्वसंधिषु ।
कुर्याच् छर्करया जिह्वां गोमयं च गुडात्मकम् ॥

[३४३] गोमूत्रम् आज्येन तथा दधिदुग्धं स्वरूपतः ।

पुच्छाग्रे चमरं दद्यात् समीपे ताम्रदोहनम् ॥
कुण्डलानि च हैमानि भूषणानि स्वशक्तितः ।
कारयेद् एवम् एवं तु चतुर्थांशेन वत्सकम् ॥
तथा धान्यानि सर्वाणि पादाश् चेक्षुमयाः शुभाः ।
नाना फलानि सर्वाणि पञ्चवर्णं वितानकम् ॥
एवं विरचनां कृत्वा तद्वद् धोमादिकं परम् ।
ऋत्विग्भ्यो दक्षिणां दत्वा धेनुम् आमन्त्रयेत् ततः ॥
गुडधेनुवद् आवाह्य इमं चोदाहरेत् ततः ।
त्वां सर्वदेवगणधाम यतः पठन्ति रुद्रेन्द्रसोमकमलासनवासुदेवाः ।
तस्मात् समस्तभुवनत्रयदेवयुक्ते मां पाहि देवि भवसागरपीड्यमानम् ॥
आमन्त्र्य चेत्थम् अभितः परिवृत्य भक्त्या दद्याद् द्विजाय गुरवे जलपूर्वकं ताम् ।
यः पुण्यम् आप्य दिनम् अत्र कृतोपवासः पापैः स मुक्ततनुर् एति पदं मुरारेः ॥
इति सकलविधिज्ञो रत्नधेनुप्रदानं वितरति स विमानं प्राप्य देदीप्यमानम् ।
सकलकलुषमुक्तो बन्धुभिः पुत्रपौत्रैः सह मदनसरूपः स्थानम् अभ्येति शंभोः ॥

इति मात्स्ये रत्नधेनुविधानम् ।

मत्स्य उवाच ।
अथातः संप्रवक्ष्यामि महादानम् अनुत्तमम् ।
महाभूतघटं नाम महापातकनाशनम् ॥
पुण्यां तिथिम् अथासाद्य कृत्वा ब्राह्मणवाचनम् ।
ऋत्विग्मण्डपसंभारभूषणाच्छादनादिकम् ॥
तुलापुरुषवत् कार्यं लोकेशावाहनादिकम् ।
कारयेत् काञ्चनं कुम्भं महारत्नचितं शुभम् ॥
प्रादेशाद् अङ्गुलशतं यावत् कुर्यात् प्रमाणतः ।
क्षीराज्यपूरितं तच् च कल्पवृक्षसमन्वितम् ॥
पद्मासनगतांस् तद्वद् ब्रह्मविष्णुमहेश्वरान् ।
वराहेणोद्धृतां तद्वत् कुर्याद् भूमिं सपर्वताम् ॥
वरुणं चासनगतं काञ्चनं मकरोपरि ।
हुताशनं मेषगतं वायुं मृगकृतासनम् ॥
तथाकाशाधिपं कुर्यान् मूषकस्थं विनायकम् ।
विन्यसेद् घटमध्ये तान् वेदपञ्चकसंयुतान् ॥

[३४४] ऋग्वेदस्याक्षसूत्रं स्याद् यजुर्वेदस्य पङ्कजम् ।

सामवेदस्य वीणा स्याद् धेनुं धक्षिणतो न्यसेत् ॥
अथर्ववेदस्य पुनः स्रुक्स्रुवौ कमलं करे ।
पुराणवेदो वरदः साक्षसूत्रकमण्डलुः ॥
परितः सर्वधान्यानि चामरासनदर्पणम् ।
पादुकोपानहच्छत्रदीपप्का भूषणानि च ॥
शय्याथ जलकुम्भश् च पञ्चवर्णं वितानकम् ।
स्नात्वाधिवासनान्ते तु मन्त्रम् एतद् (म्) उदीरयेत् ॥
नमो वः सर्वदेवानाम् आधारेभ्यश् चराचरे ।
महाभूतादिदेवेभ्यः शान्तिर् अस्तु शिवं मम ॥
यस्मान् न किंचिद् अप्य् अस्ति महाभूतैर् विना कृतम् ।
ब्रह्माण्डे सर्वभूतानां तस्माच् छ्रीर् अक्षयास्तु मे ॥
इत्य् उच्चार्य महाभूतघटं यो विनिवेदयेत् ।
सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥
विमानेनार्कवर्णेन पितृबन्धुसमन्वितः ।
स्तूयमानो वरस्त्रीभिः पदम् अभ्येति वैष्णवम् ॥
षोडशैतानि य कुर्यान् महादानानि मानवः ।
न तस्य पुनर् आवृत्तिर् इह लोके ऽभिजायते ॥
इति पठति य इत्थं वासुदेवस्य पार्श्वे ससुतपितृकलत्रः संशृणोतीह सम्यक् ।
पुररिपुभवने वै मन्दिरे चार्कलक्ष्म्योर् अमरपुरवधूभिर् मोदते सोऽपि कल्पम् ॥

इति मात्स्य महाभूतघटदानम् ।

अथ पर्वतदानानि ।

मत्स्यपुराणे ।

उमापतिर् उवाच
मेरुप्रदानं वक्ष्यामि दशधा मुनिसत्तम ।
यत्प्रदानान् नरो लोकान् आप्नोति सुरपूजितान् ॥
पुराणेषु च वेदेषु कृतेष्व् एषु यद् अश्नुते ।
तस्माद् विधानं वक्ष्यामि पर्वतानाम् अनुक्रमात् ॥
प्रथमो धान्यशैलः स्याद् द्वितीयो लवनाचलः ।
गुडाचलस् तृतीयस् तु चतुर्थो हेमपर्वतः ॥
पञ्चमस् तिलशैलः स्यात् षष्ठः कार्पासपर्वतः ।
सप्तमो घृतशैलः स्याद् रत्नशैलस् तथाष्टमः ॥

[३४५] राजतो नमस् तद्वद् दशमः शर्कराचलः ।

वक्ष्ये विधानम् एतेषां यथावद् अनुपूर्वशः ॥
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।
कृष्णपक्षे तृतीयायाम् उपरागे शशिक्षये ॥
विवाहोत्सवयज्ञेषु द्वादश्याम् अथ वा पुनः ।
शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः ॥
धान्यशैलादयो देया यथाशास्त्रं विधानतः ।
तीर्थे वायतने वापि गोष्ठे वा संगमे ऽपि वा ॥
मण्डलं कारयेद् भक्त्या चतुरश्रम् उदङ्मुखम् ।
प्रागुदक्प्रवणं तद्वत् प्राङ्मुखं वा विधानतः ॥
गोमयेनोपलिप्तायां भूमाव् आस्तीर्य वा कुशान् ।
तन्मध्ये पर्वतं कुर्याद् विष्कम्भैः पर्वतैर् युतम् ॥
धान्यद्रोणसहस्रेण भवेद् गिरिर् इहोत्तमः ।
मध्यमः पञ्चशतिकः कनिष्ठः स्यात् तिभिः शतैः \
मेरुर् महाव्रीहिमयस् तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्यात् ।
पूर्वेण मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपुष्परागैः ॥
पश्चाच् च गारुत्मतनीलरत्नैः सौम्येन वैडू(दू)र्यसरोजनालैः ।
श्रीखण्डखण्डैर् अभितः प्रवाललतान्वितैः शुक्तिशिलातलः स्यात् ॥
ब्रह्मा च विष्णुर् भगवान् पुरारिर् दिवाकरो ऽप्य् अत्र हिरण्मयः स्यात् ।
मूर्ध्नि व्यवस्थानम् अमत्सरेण कार्यं सुवर्णेन तथा द्विजौघैः ॥
चत्वारि शृङ्गाणि च राजतानि नितम्बभागेष्व् अपि राजतः स्यात् ।
तथेक्षुवंशावृतकन्दरश् च घृतोदकप्रस्रवणश् च दिक्षु ॥
शुक्लाम्बराण्य् अम्बुधरावली स्यात् पूर्वेण पीतानि च दक्षिणेन ।
वासांसि पश्चाद् अथ कर्बुराणि रक्तानि चैवोत्तरतो घनाली ॥
रौप्यान् महेन्द्रप्रमुखांस् तथाष्टौ संस्थाप्य लोकाधिपतीन् क्रमेण ।
नानाफलाली च समन्ततः स्यान् मनोरमं माल्यविलेपनं च ॥
वितानकं चोपरि पञ्चवर्णम् अम्लानपुष्पाभरणं सितं च ।
इत्थं निवेद्यामरशैलम् अग्र्यं तं काञ्चनेनातिविराजमानम् ॥

[३४६] ततस् तु विष्कम्भगिरीन् क्रमेण तुरीयभागेण चतुर्दिशं च ।

संस्थापयेत् पुष्पविलेपनाढ्यान् मनोरमान् वस्त्रगणावृतांश् च ॥
युक्तं यवैः करभभद्रकदम्बचिह्नं कामेन काञ्चनमयेन विराजमानम् ।
तं कारयेत् कुसुमवस्त्रविलेपनाढ्यं क्षीरारुणोदसरसा च वनेन चैव ॥
रौप्येण शुक्तिघटितेन विराजमानं याम्येन गन्धमदनो ऽत्र निवेशनीयः ।
गोधूमसंचयमयः कलधौतजो वा हैमेन यक्षपतिना घृतमानसेन ॥
वस्त्रैश् च राजतवनेन च संयुतः स्यात् पश्चाच् च मैनाकतिलाचलं च ।
सुगन्धधूपेन विलेपनेन पुष्पोत्करैर् मण्डितविग्रहाभम् ॥
सौवर्णपिप्पलहिरण्मयसंप्रयुक्तम् आकारयेद् रजतपुष्पवनेन तद्वत् ।
वस्त्रान्वितं दधिसितोदसरस् तथाग्रे संस्थाप्य तं विपुलशैलम् अथोत्तरेण ॥
शैलं स्वपार्श्वम् अपि धातुमयं सुवस्त्रं विन्यासभूषितमहाकृतिसंनिवेशम् ।
पुष्पैश् च हेमवटपादपशेखरं तम् आकारयेत् कनकधेनुविराजमानम् ॥
साक्षीकभद्रसुरसावसनेन तद्वद् रौप्येण भासुरवता च युतं विहाय ।
होमं चतुर्भिर् अथ वेदपुराणविद्भिर् मान्यैर् अनिन्द्यचरिताकृतिभिर् द्विजेन्द्रैः ॥
पूर्वेण हस्तिमुखवच् च विधाय कुण्डं कार्यस् तिलैर् यवघृतेन समित्कुशैश् च ।
रात्रौ च जागरम् अनुद्धतगीततूर्यैर् आवाहनं च कथयामि शिलोच्चयानाम् ॥
त्वं सर्वदेवगणधामनिधे विरुद्धम् अस्मद्गृहेष्व् अमरपर्वत नाशयाशु ।
त्वम् एव भगवान् ईशो ब्रह्मा विष्णुर् दिवाकरः ।
मूर्तामूर्तं परं बीजम् अतः पाहि सनातनः ॥
यस्मात् त्वं लोकपालानां विश्वमूर्तेश् च मन्दिरम् ।
रुद्रादित्यवसूनां च तस्माच् छान्तिं प्रयच्छ मे ॥
यस्माद् अशून्यम् अमरैर् नारीभिश् च शिरस् तव ।
तस्मान् माम् उद्धराशेषदुःखसंसारसागरात् ॥
एवम् अभ्यर्चितं मेरुं मन्दरं चाभिपूजयेत् ।
यस्माच् चैत्ररथेन त्वं भद्राश्ववरिषेण च ॥
शोभसे मन्दर क्षिप्रम् अतस् तुष्टिकरो भव ।
यस्माच् चूडामणिर् जम्बुद्वीपे त्वं गन्धमादन ॥
गन्धर्ववनशोभावान् अतः कीर्तिर् दृढास्तु मे ।
यस्मात् त्वं केतुमालेन वैभ्राजेन वनेन च ॥
हिरण्मयैश् च शिखरैस् तस्मात् पुष्टिर् ध्रुवास्तु मे ।
उत्तरैः कुरुभिर् यस्मात् सावित्रेण वनेन च ॥
सुपार्श्व राजसे नित्यम् अतः श्रीरक्षयास्तु मे ।
एवम् आमन्त्र्य तान् सर्वान् प्रभाते विमले पुनः ॥
स्नात्वाथ गुरवे दद्यान् मध्यमं पर्वतोत्तमम् ।
विष्कम्भपर्वतान् पश्चाद् ऋत्विग्भ्यः क्रमशो मुने ॥
गाश् च दद्याच् चतुर्विंशद् अथ वा दश नारद ।
शक्तितः सप्त वाष्टौ वा पञ्च दद्याद् अशक्तिमान् ॥
एकां वा गुरवे दद्यात् कपिलां च पयस्विनीम् ।
पर्वतानाम् अशेषाणाम् एष एव विधिः स्मृतः ॥
त एव पूजने विप्रास् त एवोपस्कराः स्मृताः ।
ग्रहणं लोकपालानां ब्रह्मादीनां च सर्वदा ॥
स्वमन्त्रेणैव सर्वेषु होमः शैलेषु पठ्यते ।
उपवासी भवेन् नित्यम् अशक्तौ नक्तम् इष्यते ॥
विधानं सर्वशैलानां क्रमशः शृणु नारद ।
दानकालेषु ये मन्त्राः पर्वतेषु च यत् फलम् ॥
अन्नं ब्रह्म यतः प्रोक्तम् अन्नं प्राणाः प्रकीर्तिताः ।
अन्नाद् भवन्ति भूतानि जगद् अन्नेन वर्तते ॥
अन्नम् एव यतो लक्ष्मीर् अन्नम् एव जनार्दनः ।
धान्यपर्वतरूपेण पाहि तस्मान् नगोत्तम ॥
अनेन विधिना यस् तु दद्याद् धान्यमयं गिरिम् ।
मन्वन्तरशतं साग्रं देवलोके महीयते ॥
अप्सरोगणगन्धर्वैर् आकीर्णेन विराजता ।
विमानेन दिवः पृष्ठम् आयाति ऋषिसेवितः ॥
कर्मक्षये राजराज्यम् आप्नोतीह न संशयः ॥

इति धान्यपर्वतदानम् ।

[३४८]

मत्स्य उवाच ।
अथातः संप्रवक्ष्यामि लवणाचलम् उत्तमम् ।
यत्प्रदानान् नरो लोकान् आप्नोति शिवसंमतान् ॥
उत्तमः षोडशद्रोणः कर्तव्यो लवणाचलः ।
मध्यमः स्यात् तदर्धेन चतुर्भिर् अवमः स्मृतः ॥
वित्तहीनो यथा शक्त्या द्रोनाद् ऊर्ध्वं तु कारयेत् ।
चतुर्थांशेन विष्कम्भपर्वतान् कारयेत् पृथक् ॥
विधानं पूर्ववत् कुर्याद् ब्रह्मादीनां च सर्वदा ।
तद्वद् धेममयान् सर्वांल् लोकपालान् निवेशयेत् ॥
सरांसि कामदेवादींस् तद्वच् चात्र निवेशयेत् ।
कुर्याज् जागरम् अत्रापि दानमन्त्रान् निबोध मे ॥
सौभाग्यरससंभूतो यतो ऽयं लवणाचलः ।
तदात्मकत्वेन च मां पाहि पापान् नगोत्तम ॥
यस्माद् अन्नरसाः सर्वे नोत्कटा लवणं विना ।
प्रियं च शिवयोर् नित्यं तस्माच् छान्तिं प्रयच्छ मे ॥
विष्णुदेहसमुद्भूतं यस्माद् आरोग्यवर्धनम् ।
तस्मात् पर्वतरूपेण पाहि संसारसागरात् ॥
अनेन विधिना यस् तु दद्याल् लवणपर्वतम् ।
उमालोके वसेत् कल्पं ततो याति परां गतिम् ॥

इति लवणपर्वतदानम् ।

अथातः संप्रवक्ष्यामि गुडपर्वतम् उत्तमम् ।
यत्प्रदानान् नरः श्रीमान् स्वर्गम् आप्नोति पूजितः ॥
उत्तमो दशभिर् भारैर् मध्यमः पञ्चभिर् मतः ।
त्रिभिर् भारैः कनिष्ठः स्यात् तदर्धेनाल्पवित्तवान् ॥
तद्वद् आमन्त्रणं पूजा हेमवृक्षसुरार्चनम् ॥
विष्कम्भपर्वतांस् तद्वल् लोकपालाधिवासनम् ।
धान्यपर्वतवत् कुर्याद् इमं मन्त्रम् उदीरयेत् ॥
यथा देवेषु विश्वात्मा प्रवरो ऽयं जनार्दनः ।
सामवेदस् तु वेदानां महादेवस् तु योगिनाम् ॥
प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा ।

[३४९] तथा रसानां प्रवरः सदैवेक्षुरसो मतः ॥

मम तस्मात् परां लक्ष्मीं ददस्व गुडपर्वत ।
सुरासुराणां सर्वेषां नागयक्षर्क्षपक्षिणाम् ॥
निवासश् चापि पार्वत्यास् तस्मान् मां पाहि सर्वदा ॥
अनेन विधिना यस् तु दद्याद् गुडमयं गिरिम् ।
पूज्यमानः स गन्धर्वैर् गौरीलोके महीयते ॥
पुनः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् ।
आयुरारोग्यसंपन्नः शत्रुभिश् च पराजितः ॥

इति गुडपर्वतदानम् ।

अथातः संप्रवक्ष्यामि हिरण्याचलम् उत्तमम् ।
यस्य प्रदानाद् भवनं वैरिञ्चं याति मानवः ॥
उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः ।
तदर्धेनावरस् तद्वद् अल्पवित्तो ऽपि शक्तितः ॥
दद्याद् एकपलाद् ऊर्ध्वं यथा शक्त्या विमत्सरः ।
धान्यपर्वतवत् सर्वं वदध्यान् मुनिपुंगव ॥
विष्कम्भशैलांस् तद्वच् च कृत्वा मन्त्रम् उदीरयेत् ।
नमस् ते ब्रह्मबीजाय ब्रह्मगर्भाय वै नमः ॥
यस्माद् अनन्तफलदस् तस्मात् पाहि शिलोच्चय ।
यद्माद् अग्नेर् अपत्यं त्वं यस्माद् उल्बं जगत्पतेः ॥
हेमपर्वतरूपेण तस्मात् पाहि नमो नमः ।
अनेन विधिना यस् तु दद्यात् कनकपर्वतम् ॥
स याति परमं स्थानं ब्राह्ममानन्दकारम् (?) ।
तत्र कल्पशतं तिष्ठेत् ततो याति परां गतिम् ॥

इति सुवर्णपर्वतदानम् ।

अथातः संप्रवक्ष्यामि तिलशैलं विधानतः ।
यत् प्रदानान् नरो याति विष्णुलोकम् अनुत्तमम् ॥
उत्तमो दशभिर् द्रोणैर् मध्यमः पञ्चभिर् मतः ।
त्रिभिः कनिष्ठो विप्रेन्द्र तिलशैलः प्रकीर्तितः ॥

[३५०] पूर्ववच् चापरं सर्वं विष्कम्भपर्वतादिकम् ।

दानमन्त्रं प्रवक्ष्यामि यथावन् मुनिपुंगव ॥
यस्मान् मधुवधे विष्णोर् देहस्वेदसमुद्भवाः ।
तिला मुद्गाश् च माषाश् च तस्माच् छं नो भवत्व् इह ॥
हव्यकव्येषु यस्माच् च तिलैर् एवाभिरक्षणम् ।
भवाद् उद्धर शैलेन्द्र तिलाचल नमो ऽस्तु ते ॥
इत्य् आमन्त्र्य च यो दद्यात् तिलाचलम् अनुत्तमम् ।
स वैष्णवपदं याति पुनरावृत्तिदुर्लभम् ॥
दीर्घायुष्यम् अवाप्नोति इह चामुत्र मानवः ।
पितृभिर् देवगन्धर्वैः पूज्यमानो दिवं व्रजेत् ॥

इति तिलपर्वतदानम् ।

कार्पासपर्वतस् तद्वद् विंशद्भारैर् इहोत्तमः ।
दशभिर् मध्यमः प्रोक्तः कनिष्ठः पञ्चभिर् मतः ॥
भारेणाल्पधनो दद्याद् वित्तशाठ्यविवर्जितः ।
धानपर्वतवत् सर्वम् आसाद्य मुनिपुंगव ॥
प्रभातायां तु शर्वर्यां दद्याद् इदम् उदीरयेत् ।
त्वम् एवावरणं यस्माल् लोकानाम् इह सर्वदा ॥
कर्पासाचल तस्मात् त्वम् अघौघध्वंसनो भव ।
एवं कार्पासशैलेन्द्रं यो दद्यात् पर्वसंनिधौ ॥
रुद्रलोके वसेत् कल्पं ततो राजा भवेद् इह ॥

इति कार्पासपर्वतदानम् ।

अथातः संप्रवक्ष्यामि घृताचलम् अनुत्तमम् ।
तेजोमृतमयं दिव्यं महापातकनाशनम् ॥
विंशत्या घृतकुम्भानाम् उत्तमः स्याद् घृताचलः ।
दशभिर् मध्यमः प्रोक्तः पञ्चभिस् त्व् अवरः स्मृतः ॥
अल्पवित्तो ऽपि यः कुर्याद् द्वाभ्याम् इह विधानतः ।
विष्कम्भपर्वतांस् तद्वच् चतुर्भागेन कल्पयेत् ॥
शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत् ।
कारयेत् संहतान् उच्चान् यथाशोभं विधानतः ॥

[३५१] वेष्टयेच् छुक्लवासोभिर् इक्षुदण्डफलादिभिः ।

धान्यपर्वतवच् छेषं विधानम् इह पठ्यते ॥
अधिवासनपूर्वं तु तद्वद् धोमसुरार्चनम् ।
प्रभातायां विभावर्यां गुरवे तु निवेदयेत् ॥
विष्कम्भपर्वतांस् तद्वद् ऋत्विग्भ्यः शान्तमानसः ।
संयोगाद् घृतम् उत्पन्नं यस्माद् अमृततेजसोः ॥
तस्माद् घृतार्चिर्विश्वात्मा प्रीयतां मम शंकरः ।
यस्मात् तेजोमयं ब्रह्म घृते तच् च व्यवस्थितम् ॥
घृतपर्वतरूपेण तस्मान् नः पाहि भूधर ।
अनेन विधिना दद्याद् घृतपर्वतम् उत्तमम् ॥
महापातकयुक्तो ऽपि लोकम् आयाति शंकरम् ।
हंससारसयुक्तेन किंकिणीजालमालिना ॥
विमानेनाप्सरोभिश् च सिद्धविद्याधरैर् वृतः ।
विहरेत् पितृभिः सार्धं यावद् आभूमिसंप्लवम् ॥

इति घृतपर्वतदानम् ।

अथातः संप्रवक्ष्यामि रत्नाचलम् अनुत्तमम् ।
मुक्ताफलसहस्रेण पर्वतः स्याद् अनुत्तमः ॥
मध्यमः पञ्चशतिको द्विशतेनावरः स्मृतः ।
चतुर्थांशेन विष्कम्भपर्वताः स्युः समन्ततः ॥
पूर्वेण वज्रगोमेदैर् दक्षिणेनेन्द्रनीलकैः ।
पुष्परागयुतैः कार्यो विद्वद्भिर् गन्धमादनः ॥
वैडू(दू)र्यविद्रुमैः पश्चात् संमिश्रो विपुलाचलः ।
पद्मरागैः ससौवर्णैर् उत्तरेण च विन्यसेत् ॥
धान्यपर्वतवत् सर्वत्रापि परिकल्पयेत् ।
तद्वद् आवाहनं कृत्वा वृक्षान् वेदांश् च काञ्चनान् ॥
पूजयेत् पुष्पपानीयैः प्रभाते स्याद् विसर्जनम् ।
पूर्ववद् गुरुऋत्विग्भ्य इमान् मन्त्रान् उदीरयेत् ॥
यथा देवगणाः सर्वे सर्वरत्नेष्व् अवस्थिताः ।
त्वं हि रत्नमयो नित्यम् अतः पाहि महाचल ॥

[३५२] यस्माद् रत्नप्रदानेन तुष्टिं प्रकुरुते हरिः ।

सदानन्दप्रसादेन तस्मान् नः पाहि भूधर ॥
अनेन विधिना यस् तु दद्याद् रत्नमहागिरिम् ।
स याति वैष्णवं लोकम् अमरेश्वरपूजितः ॥
यावत्कल्पशतं साग्रं वसित्वेह नराधिपः ।
रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत् ॥
ब्रह्महत्यादिकं किंचिद् यद् अत्रामुत्र वा कृतम् ।
तत् सर्वं नाशम् आयाति गिरिर् वज्रहतो यथा ॥

इति रत्नपर्वतदानम् ।

अथातः संप्रवक्ष्यामि रूप्याचलम् अनुत्तमम् ।
यत्प्रदानान् नरो याति सोमलोकं नराधिप ॥
दशभिः पलसाहस्रैर् उत्तमो रजताचलः ।
पञ्चभिर् मध्यमः प्रोक्तस् तदर्धेनावरः स्मृतः ॥
अशक्तो विंशतेर् ऊर्ध्वं कारयेच् छक्तितः सदा ।
विष्कम्भपर्वतांस् तद्वत् तुरीयांशेन कारयेत् ॥
पूर्ववद् राजतान् कुर्यान् मन्दरादीन् विधानतः ।
कलधौतमयांस् तद्वल् लोकेशान् अर्चयेद् बुधः ॥
ब्रह्मविष्ण्वर्कवान् कार्यो नितम्बो ऽत्र हिरण्मयः ।
राजतं स्याद् यद् अन्येषां सर्वं तद् इह काञ्चनम् ॥
शेषं च पूर्ववत् कुर्याद् धोमजागरणादिकम् ।
दद्यात् तद्वत् प्रभाते तु गुरवे रौप्यपर्वतम् ॥
विष्कम्भशैलान् ऋत्विग्भ्यः प्राज्यवस्त्रविभूषणान् ।
इमं मन्त्रं पठन् दद्याद् दर्भपाणिर् विमत्सरः ॥
पितॄणां वल्लभं यस्माद् धरीन्द्राणां शिवस्य च ।
रजतं पाहि तस्मान् नः शोकसंसारसागरात् ॥
इत्थं निवेद्य यो दद्याद् रजताचलम् उत्तमम् ।
गवायुतसहस्रस्य फलम् आप्नोति मानवः ॥
सोमलोके स गन्धर्वैः किंनराप्सरसां गणैः ।
पूज्यमानो वसेद् विद्वान् यावद् आभूतसंप्लवम् ॥

इति रजतपर्वतदानम् ।

[३५३] अथातः संप्रवक्ष्यामि शर्कराचलम् उत्तमम् ।

यस्य प्रदानाद् विष्ण्वर्करुद्रास् तुष्यन्ति सर्वदा ॥
अष्टभिः शर्कराभारैर् उत्तमः स्यान् महाचलः ।
चतुर्भिर् मध्यमः प्रोक्तो भाराभ्याम् अवरो मतः ॥
भारेण वार्धभारेण कुर्याद् यः स्वल्पवित्तवान् ।
विष्कम्भपर्वतान् कुर्यात् तुरीयांशेन मानवः ॥
धान्यपर्वतवत् सर्वम् आसाद्यामरसंयुतम् ।
मेरोर् उपरि तत् तद्वत् स्थाप्यं हेमतरुत्रयम् ॥
मन्दारः पारिजातश् च तृतीयः कल्पपादपः ।
एतद् वृक्षत्रयं मूर्ध्नि सर्वेष्व् अपि निवेशयेत् ॥
हरिचन्दनसंतानौ पूर्वपश्चिमभागयोः ।
निवेश्यौ सर्वशैलेषु विशेषाच् छर्कराचले ॥
मन्दारे कामदेवस् तु प्रत्यग्वक्त्रः सदा भवेत् ।
गन्धमादनशृङ्गे च धनदः स्याद् उदङ्मुखः ॥
प्राङ्मुखो वेदमूर्तिश् च हंसः स्याद् विपुलाचलः ।
हैमी सुपार्श्वसुरभी दक्षिणाभिमुखी भवेत् ॥
धान्यपर्वतवत् सर्वम् आवाहनमखादिकम् ।
कृत्वाथ गुरवे दद्यान् मध्यमं पर्वतोत्तमम् ॥
ऋत्विग्भ्यश् चतुरः शैलान् इमान् मन्त्रान् उदीरयेत् ।
सौभाग्यामृतसारो ऽयं परमः शर्कराचलः ॥
तस्माद् आनन्दकरी त्वं भव शैलेन्द्र सर्वदा ।
अमृतं पिबतां ये तु निपेतुर् भुवि शीकराः ॥
देवानां तत्समुत्थो ऽयं पाहि नः शर्कराचलः ।
मनोभवधनुर् मध्याद् उद्गता शर्करा यतः ॥
तन्मयो ऽपि महाशैल पाहि संसारसागरात् ।
यो दद्याच् छर्कराशैलम् अनेन विधिना ततः ॥
सर्वपापविनिर्मुक्तः स याति शिवमन्दिरम् ।
चन्द्रादित्याग्निसंकाशम् अधिरुह्यानुजीविभिः ॥
सहैव यानम् आतिष्ठेत् स तु विष्णुप्रभो दिवम् ।
ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् ॥

[३५४] आयुरारोग्यसंपन्नो यावज्जन्मार्बुदत्रयम् ।

भोजनं शैक्तितः कुर्यात् सर्वशैलेष्व् अमत्सरः ॥
सर्वत्र क्षारलवणम् अश्नीयात् तदनुज्ञया ।
पर्वतोपस्करान् सर्वान् प्रापयेद् ब्राह्मणालये ॥
पश्येद् अमून् मानधनो हि भक्त्या स्पृशेन् मनुष्यैर् इह दीयमानान् ।
शृणोति भक्त्व्याथ मतिं ददाति विकल्मषः सो ऽपि दिवं प्रयाति ॥

इति शर्कराचलदानम् ।

अथ कृष्णाजिनदानं विचार्यते । तत्र विष्णुः ।

अथ वैशाख्यां पौर्णमास्यां कृष्णाजिनं सखुरं सुवर्णशृङ्गं रूप्यखुरं मुक्तालाङ्गूलभूषितं कृत्वाविकवस्त्रे प्रसारयेत् । तत्र तिलैः प्रच्छादयेत् । सुवर्णनाभं च कुर्याद् अहतेन वाससोर् युगलेन प्रच्छादयेत् । सर्वरत्नगन्धैश् चालं कुर्यात् । चतसृषु दिक्षु चत्वारि तैजसानि पात्राणि क्षीरदधिमधुसर्पिःपूर्णानि निधायाहिताग्नये ब्राह्मणायालंकृताय वासोयुगेन प्रच्छादिताय दद्यात् । अथ गाथा भवन्ति ।
यस् तु कृष्णाजिनं दद्यात् सखुरं शृङ्गसंयुतम् ।
तिलैः प्रच्छाद्य वासोभिः सर्वरत्नैर् अलंकृतम् ॥
ससमुद्रगुहा तेन सशैलवनकानना ।
चतुरन्ता भवेद् दत्ता पृथिवी नात्र संशयः ॥
कृष्णाजिने तिलान् कृत्वा हिरण्यं मधुसर्पिषी ।
ददाति यस् तु विप्राय स संतरति दुष्कृतम् ॥ इति ।

यमगाथासु ।

गोभूहिरण्यसंयुक्तमार्गम् एकं ददाति यः ।
हित्वा दुष्कृतकर्माणि सायुज्यं ब्रह्मणो व्रजेत् ॥
गोभिश् चतसृभिर् युक्तं तथा भूमिसमन्वितम् ।
प्रतिग्रहसमर्थाय विदुषे ब्रह्मचारिणे ॥

मत्स्यपुराणे ।

मत्स्य उवाच ।
वैशाखी पौर्णमासी च ग्रहणं चन्द्रसूर्ययोः ।
पौर्णमासी तथा माघी आषाढी कार्तिकी तथा ॥
तुरायणं तु द्वादश्यां तस्यां दत्तं महाफलम् ।
आहिताग्निर् द्विजो यश् च तद् देयं कस्य पार्थिव ॥

[३५५] यथा येन विधानेन तन् मे निगदतः शृणु ।

गोमयेनोपलिप्ते तु शुचौ देशे नराधिप ॥
आदाव् एव समास्तीर्य शोभनं वस्त्रम् आविकम् ।
ततः सशृङ्गं सखुरम् आविके कृष्णमार्गणम् ॥
कर्तव्यं रूप्यशृङ्गं तद्रूप्यदन्तं तथैव च ।
लाङ्गूलं विद्रुमं चैव नेत्रयोर् मौक्तिकं तथा ॥
तिलैर् आत्मसमं कृत्वा वाससाच्छादयेद् बुधः ।
सुवर्णनाभं तत् कुर्याद् अलंकुर्याद् विशेषतः ॥
गन्धैर् अन्नैर् यथाशक्त्या तस्य दिक्षु च विन्यसेत् ।
धातुपात्राणि चत्वारि दिक्षु दद्याद् यथाक्रमम् ॥
हिरण्मयेषु पात्रेषु पूर्वादिक्रमेण तु ।
घृतं क्षीरं दधि क्षौद्रम् एवं दत्वा यथाविधि ॥
चम्पकस्य तथा शाखाम् अव्रणं कुम्भम् एव च ।
वाद्योपस्थापनं कृत्वा शुभवित्तो निवेशयेत् ॥
जीर्णवस्त्रेण पीतेन सर्वाङ्गानि च मार्जयेत् ।
धातुमयानि पात्राणि पादेष्व् अस्य प्रदापयेत् ॥
यानि काम्यानि पापानि मया लोके कृतानि वै ।
लोहपात्रप्रदानेन प्रणश्यन्तु ममाशु वै ॥
तिलपूर्णं तु तं कृत्वा वामपादे निवेशयेत् ।
यानि पापान्य् अकाम्यानि कामोत्थानि कृतानि च ॥
कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सदा ।
मधुपूर्णं तु तं कृत्वा पादे वै दक्षिणे न्यसेत् ॥
परापवादपैशुन्यात् पृष्ठमांसस्य भक्षणात् ।
तत्रोत्थितं च मे पापं ताम्रपात्रात् प्रशश्यतु ॥
कन्यानृतं गवां चैव परदारप्रघर्षणम् ।
रूप्यपात्रप्रदानाद् धि क्षिप्रं नाशं प्रयातु मे ॥
ऊर्ध्वपादौ त्व् इमौ कार्यौ ताम्रस्य रजतस्य च ।
जन्मजन्मसहस्रेषु कृतं पापं कुबुद्धिना ॥

[३५६] सुवर्णपात्रदानेन नाशयाशु जनार्दन ।

हेम मुक्ता विद्रुमं च दाडिमं बीजपूरकम् ॥
प्रशस्तपात्रे श्रवणे खुरशृङ्गाटकानि च ।
एवं कृत्वा यथोक्तेन सर्वशाकफलानि च ॥
तत्प्रतिग्रहविद् विद्वान् आहिताग्निर् द्विजोत्तमः ।
स्नातो वस्त्रयुगच्छन्नः स्वशक्त्या वाप्य् अलंकृतः ।
प्रतिग्रहश् च तस्योक्तः पुच्छदेशे महीपते ॥
सुवर्णनाभकं दद्यात् प्रीयतां वृषभध्वजः ।
अनेन विधिना दत्वा यथावकृष्णमार्गणम् ॥
न स्पृश्यः स द्विजो राज्ंश् चितियूपसमो हि सः ।
दाने च श्रद्दधाने च दूरतः परिवर्जयेत् ॥
स्वगृहान् प्रेष्य तं विप्रं मण्डले स्नानम् आचरेत् ।
पूर्णकुम्भेन राजेन्द्र शाखायां चणकस्य च ॥
कृत्वा चाचार्यकलशं मन्त्रेणानेन मूर्धनि ।
आप्यायतां समुद्रस् त्वाम् ऋचो जप्यास् तु षोडश ॥
अहते वाससी कृत्वा चाचान्तः शुचिताम् इयात् ।
तद्वत् सुसंहितं कुम्भं नीत्वोत्क्षिप्य चतुष्पथे ॥
कृतेनानेन या व्युष्टिर् न सा क्रतुशतैर् अपि ।
वक्तुं च नृपतिश्रेष्ठ तथाप्य् उद्देशतः शृणु ॥
समग्रभूमिदानस्य फलं प्राप्नोत्य् असंशयम् ।
सर्वांश् च लोकाञ् जयति कामचारी विहंगमः ॥
आभूतसंप्लवं यावत्स्वर्गं प्राप्नोत्य् असंशयम् ।
न पिता पुत्रमरणं वियोगं भायया सह ॥
धनदेशपरित्यागं न चैवेहाप्नुयात् क्वचित् ॥

इति कृष्णाजिनदानविधिः ।

अथ कालपुरुषदानम् ।

श्रीकृष्ण उवाच ।
पुण्यं दिनम् अथासाद्य भूमिभागे समे शुभे ।
चतुर्दश्यां चतुर्थ्यां वा विष्ट्यां वा पाण्दुनन्दन ॥

[३५७] पुमान् कृष्णतिलैः कार्यो रूप्यदन्तः सुवर्णदृक् ।

खड्गोद्यतकरो दीर्घो जपाकुसुममण्डितः ॥
रक्ताम्बरधरः स्रग्वी शङ्खमालाविभूषितः ।
तीक्ष्णासिपुत्र्या बन्धनं प्रभावितकटीतटः ॥
उपानद्युगयुक्तो ऽपि कृष्णकम्बलपार्श्वगः ।
गृहीतसांसपिण्डश् च वामे करतले तु सः ॥
एवंविधं तु तं कृत्वा गृहीतकुसुमाञ्जलिः ।
यजमानः प्रसन्नात्मा इमं मन्त्रम् उदीरयेत् ॥
संपूज्य गन्धकुसुमैर् वैवेद्यं विनिवेद्य च ।
सर्वं कालयसे यस्मात् कालस् तेनैव चोद्यसे ॥
ब्रह्मविष्णुशिवादीनां त्वम् असाध्यो ऽसि सुव्रत ।
पूजितस् त्वं मया भक्त्या पार्थितश् च मया सुखम् ॥
यद् युज्यते तव विभो तत् कुरुष्व नमो नमः ।
एवं संपूजयित्वा तं ब्राह्मणाय निवेदयेत् ॥
ब्राह्मणः प्रथमं पूज्यो वासोभिर् भूषणैस् तथा ।
दक्षिणां शक्तितो दत्वा प्रणिपत्य विसर्जयेत् ॥
अनेन विधिना यस् तु दानम् एतत् प्रयच्छति ।
अपसृत्युभयं तस्य न च व्याधिकृतं भवेत् ॥
भवत्य् अव्याहरैश्वर्यः सर्वबाधाविवर्जितः ।
देहान्ते सूर्यभवनं भित्त्वा याति परां गतिम् ॥
पुण्यक्षयाद् इहाभ्येत्य राजा भवति धार्मिकः ।
यज्ञयाजी श्रिया युक्तः पुत्रपौत्रसमन्वितः ॥
संपूज्य कालपुरुषं विधिवद् द्विजाय दत्वा शुभाशुभफलोदयहेतुभूतम् ।
रोगामयैः सकलरोगमयैः श्रीरे देही न मोहम् उपगच्छति तत्प्रभावात् ॥

इति भविष्योत्तरे कालपुरुषदानविधानम् ।

अथ तिथिदानानि । तत्र विष्णुः ।

**मार्गशीर्षशुक्लपञ्चदश्यां मृगशिरसा युक्तायां चूर्णितलवणस्य सुवर्णनाभं प्रस्थम् एकं ब्राह्मणाय प्रतिपादयेत् । अनेन कर्मणा रूपसौभाग्यं [३५८] जायते । पौषी चेत् पुष्ययुक्ता स्यात् तस्यां गौरसर्षपकल्केनोत्सादितशरीरो गव्यघृतकुम्भेनाभिषिक्तः सर्वौषधीभिः सर्वगन्धैः सर्वबीजैश् च स्नातो घृतेन च भगवन्तं वासुदेवं स्नापयित्वा पुष्पधूपदीपगन्धनैवेद्यादिभिश् चाभ्यर्च्य वैष्णवैः सूक्तैर् बार्हस्पत्यैश् च मन्त्रैः पावकं हुत्वा सुसुवर्णेन घृतेन ब्राह्मणं स्वस्ति वाचयेत् । वासोयुगं च कर्त्रे दद्यात् । अनेन कर्मणा पुष्यते । माघी मघायुक्ता चेत् स्यात् तस्यां तिलैः श्राद्धं कृत्वा पूतो भवति । फाल्गुनी फल्गुनेन युक्ता चेत् स्यात् तस्यां ब्राह्मणाय सुसंस्कृतं स्वास्तीर्णं शयनं निवेद्य भार्यां मनोज्ञां पक्षवतीं रूपवतीं द्रविणवतीं चाप्नोति नर्य् अप्य् एवंविधं भर्तारम् । चैत्री चित्रायुक्ता चेत् स्यात् तस्यां ब्राह्मणाय चित्रवस्त्रदानेन सौभाग्यम् आप्नोति । वैशाख्यां पौर्णमास्यां ब्राह्मणानां सप्तकं क्षौद्रयुक्तैस् तिलैः संतर्प्य धर्मराजं प्रीणयित्वा पापेभ्यः पूतो भवति । ज्यैष्ठी ज्येष्ठायुक्ता चेत् स्यात् तस्यां छत्रोपनत्प्रदानेन नगराधिपत्यम् आप्नोति । आषाढ्याम् आषाडायुक्तायाम् अन्नपानदानेन तद् एवाक्षय्यम् आप्नोति । श्रावण्यां श्रणयुक्तायां जलधेनुं सान्नां वासोयुगाच्छादितां दत्वा स्वर्गलोकम् आप्नोति । प्रोष्ठपद्या तद्युक्तायां गोदानेन सर्वपापविनिर्मुक्तो भवति । आश्वयुज्याम् अश्विनीगते चन्द्रमसि घृतपूर्णभाजनं सुवर्णयुतं विप्राय दत्वा दीपाग्निर् भवति । कार्तिकी चेत् कृत्तिकायुक्ता स्यात् तस्यां सितम् उक्षाणम् अन्यवर्णं वा शशाङ्कोदये सर्वसस्यरत्नगन्दोपेतं दीपमध्ये ब्राह्मणाय दद्यात् । कान्तारभयं न पश्यति । वैशाखमासतृतीयायाम् उपोषितो ऽक्षतैर् वासुदेवम् अभ्यर्च्य तान् एव हुत्वा दत्वा सर्वं यच् च तस्मिन्न् अहनि प्रयच्छति तद् अक्षय्यम् आप्नोति । पौष्याम् अतीतायां कृष्णपक्षद्वादश्यां सोपवासस् तिलैः स्नातस् तिलोदकं दत्वा तिलैर् वासुदेवम् अभ्यर्च्य तान् एव हुत्वा भुक्त्वा च सर्वपापेभ्यः पूतो भवति । माघ्यां समतीतायां कृष्णद्वादशीं सश्रवणां प्राप्य वासुदेवाग्रतो महावर्तिद्वयेन दीपद्वयं दद्यात् । दक्षिणपार्श्वे महारजनरक्तेन समग्रेण वाससा घृततुलाम् अष्टाधिकां दत्वा वामपार्श्वे तिलतैलतुलां साष्टां दत्वा श्वेतेन समग्रेण वाससैतत् कृत्वा यस्मिन् राष्ट्रे ऽभिजायते यस्मिन् देशे यस्मिन् कुले च तत्रोज्ज्वलो भवति ॥ [३५९]

यमः ।

वैशाख्यां पौर्णमास्यां तु ब्राह्मणान् सप्त पञ्च वा ।
क्षौद्रयुक्तैस् तिलैः कृष्णैर् वार्चयेद् यदि वेतरैः ॥
प्रीयतां धर्मराजेति यद् वा मनसि वर्तते ।
यावज्जीवं कृतं पापं तत्क्षणाद् एव नश्यति ॥

तथा ।

वैशाख्याम् एव विधिवद् ब्राह्मणान् भोजयेद् दश ।
त्रिरात्रम् उषितः स्नात्वा कृसरं प्रयतः शुचिः ॥
गौरान् यदि वा कृष्णांस् तिलान् क्षौद्रेण संयुतान् ।
दत्वा दशसु विप्रेषु तान् एव स्वस्ति वाचयेत् ॥
प्रीयतां धर्मराजेति पितॄन् देवांश् च तर्पयेत् ।
यावज्जीवं कृतं पापं तत्क्षणाद् एव मुञ्चति ॥
अयुतायुतं च तिष्ठेत् स्वर्गलोके न संशयः ।
माम् एव च न पश्येत् तु न च पापेन लिप्यते ॥

जाबालः ।

शृतान्नम् उदकुम्भं तु वैशाख्यां च विशेषतः ।
निर्दिश्य धर्मराजाय गोदानफलम् आप्नुयात् ॥
सुवर्णतिलयुक्तैस् तु ब्राह्मणान् सप्त पञ्च वा ।
तर्पयेद् उदपात्रैस् तु ब्रह्महत्यां व्यपोहति ॥

महाभारते ।

वैशाख्यां पौर्णमास्यां तु तिलान् दद्याद् द्विजातिषु ।
तिला भक्षयितव्याश् च सदा चालभनं च तैः ॥
कार्यं सततम् इच्छद्भिः श्रेयः सर्वात्मना गृहे ।

अनादिष्टप्रायश्चित्तम् आह संवर्तः ।

माघमासे तु संप्राप्ते पौर्णमास्याम् उपोषितः ।
ब्राह्मणेभ्यस् तिलान् दत्वा सर्वपापैः प्रमुच्यते ॥

अत्र दानं पौर्णमास्यां विधीयते प्रधानत्वात् ततश् चार्थाच् चतुर्दश्याम् उपवासः ।

उपवासरतो भूत्वा पौर्णमास्यां तु कार्तिके ।
हिरण्यम् अन्नं वस्त्रं च दत्वा तरति दुष्कृतम् ॥

यमः ।

कार्तिकस्य तमिस्रे तु मधासु नवमीतिथौ ।
अहोरात्रोषितो भूत्वा धर्मराजाय भोजयेत् ॥
विधिवद् ब्राह्मणान् भक्त्या स्वर्गलोके महीयते ।
तिलान् कृष्णाजिने कृत्वा हिरण्यं मधुसर्पिषी ॥

[३६०] दत्वा तु ब्राह्मणायाशु सर्वं तरति दुष्कृतम् ।

धेनुं दत्वोभयमुखीं भूदानफलम् आप्नुयात् ॥
माघान्धकारद्वादश्यां तिलैर् हुत्वा हुताशनम् ।
तिलान् दत्वा द्विजातिभ्यः सर्वपापैः प्रमुच्यते ॥
आदित्यवारे विप्राय सहिरण्यं सदैव तु ।
यः प्रयच्छत्य् अपूपं च तस्य तुष्यति वै यमः ॥

स्कन्दपुराणे ।

तिलपात्राणि यो दद्याद् विप्रेभ्यः शुद्धमानसः ।
अमावस्यां तु संप्राप्य कृष्णानां तु समाहितः ॥
पितॄंश् च तर्पयित्वा तु अक्षयं नरपुंगवः ।
पितृलोकं समाप्नोति चिरं च सुखम् एधते ॥

अथ नक्षत्रदानानि ।

तत्र विष्णुः ।

प्रतिमासं रेवतीगते चन्द्रमसि मधुघृतयुतं परमान्नं ब्राह्मणान् भोजयित्वा रूपभाग् भवति ।
मासि मासि च रेवत्यां ब्राह्मणान् गृतपायसैः ।
सदक्षिणं भोजयित्वा रूपभाग् अभिजायते ॥

भविष्योत्तरे ।

श्रीकृष्ण उवाच ।
नक्षत्रयोगे यद् यस्मिन् देयं भवति भारत ।
तत् ते ऽहं संप्रवक्ष्यामि सर्वपातकनाशनम् ॥
कृत्तिकासु महाभाग पायसेन ससर्पिषा ।
संतर्प्य ब्राह्मणान् साधूंल् लोकान् आप्नोति चाक्षयान् ॥
रोहिण्यां पाण्डवश्रेष्ठ मांसैर् अन्नेन सर्पिषा ।
पयो ऽन्नदानं दातव्यम् आनृण्यार्थं द्विजातये ॥
दोग्ध्रीं दत्वा सवत्सां तु नक्षत्रे सोमदैवते ।
दत्वा दिव्यविमानस्थः स्वर्गम् आप्नोत्य् अनुत्तमम् ॥
आर्द्रायां कृसरं दत्वा तैलसिद्धं समाहितः ।
नरस् तरति दुर्गाणि सर्वाण्य् एव नरोत्तम ॥
पूपान् पुनर्वसौ दत्वा तिलपूर्णान् सुपाचितान् ।
यशस्वी रूपसंपन्नो बह्वन्नो जायते कुले ॥

[३६१] पुण्ये च काञ्चनं दत्वा कृतं चाकृतम् एव च ।

अनालोकेषु लोकेषु सोमवत् स विराजते ॥
अश्लेषासु तथा रौप्यं यः सुरूपं प्रयच्छति ।
स सर्वभयनिर्मुक्तः शास्त्रवान् अभिजायते ॥
मधासु तिलपूर्णानि वर्धमानानि मानवः ।
प्रदाय पशुमांश् चैव पुत्रवांश् चाभिजायते ॥
फल्गुनीपर्वसमये वडवां द्विजपुंगवे ।
दत्वा पुण्यकृतां लोकान् प्राप्नोति सुरसेवितान् ॥
उत्तराफल्गुनीयोगे दत्वा सौवर्णपङ्कजम् ।
सूर्यलोकम् अवाप्नोति सर्वबाधाविवर्जितः ॥
हस्ते तु हस्तिनं दत्वा काञ्चनं शक्तितः कृतम् ।
प्रयाति शक्रसदनं वरवारणधूर्गतः ॥
चित्रासु वृषभं दत्वा पुण्यगन्धांश् च भारत ।
चरत्य् अप्सरसां लोके मोदते नन्दने वने ॥
स्वातिष्व् अथ धनं दत्वा यदभीष्टम् इहात्मनः ।
प्राप्नोति सुशुभांल् लोकान् इह लोके महद् यशः ॥
विशाखासु महाराज धुरंधरविभूषितम् ।
सोपासङ्गं च शकटं धान्यवस्त्रादिसंयुतम् ॥
दत्वा प्रीणाति स पितॄन् प्रेत्य चानन्त्यम् अश्नुते ।
न च दुर्गाण्य् अवाप्नोति रौरवादीनि मानवः ॥
दत्वा यथेष्टं विप्रेभ्यो गतिम् इष्टां स विन्दति ।
कम्बलान् अनुराधासु दत्वा प्रावरणानि च ॥
स्वर्गे वर्षशतं साग्रम् आस्ते सुरगणैर् वृतः ।
कालशाकं च विप्रेभ्यो दत्वा मर्त्यः समूलकम् ॥
ज्येष्ठासु ज्येष्ठताम् एति गतिम् इष्टां च विन्दति ।
मूले मूलफलं दत्वा ब्राह्मणेभ्यः समाहितः ॥
पितॄन् प्रीणयते सर्वान् गतिम् आप्नोत्य् अनुत्तमाम् ।
अथ पूर्वास्व् आषाढासु दधिपात्राणि मानवः ॥

[३६२] कुलवृत्तेन संपन्ने ब्राह्मणे वेदपारगे ।

प्रदाय जायते प्रेत्य कुले स बहुगोधने ॥
पुत्रपौत्रैः परिवृतः पशुमान् धनवांस् तथा ।
उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् ॥
दत्वोत्तरास्व् आषाढासु सर्वान् कामान् अवाप्नुयात् ।
दुग्धं त्व् अभिजिता योगे दत्वा घृतमधुप्लुतम् ॥
दर्मविद्भ्यो मनीषिभ्यो स्वर्गे वसति पुण्यभाक् ।
श्रवणे पुस्तकं श्रेष्ठं प्रददातीह यो नरः ॥
स्वेच्छया याति यानेन सर्वांल् लोकान् असंवृतान् ।
गोयुगं च धनिष्ठासु दत्वा विप्राय मानवः ॥
सर्वान् रसान् अवाप्नोति यत्र यत्रेह जायते ।
तथा शतभिषायोगे दत्वा शगुरुचन्दनम् ॥
प्राप्नोत्य् अप्सरसां लोकान् प्रेत्य गन्धांश् च शोभनान् ।
पूर्वभद्रपदायोगे (?) राजमाषान् प्रदापयेत् ॥
सर्वभक्ष्यफलोपेतः स वै प्रेत्य सुखी भवेत् ।
औरभ्रम् उत्तरायोगे सवस्त्रं यः प्रयच्छति ॥
प्तिॠन् प्रीणाति सकलान् प्रेत्य चानन्त्यम् अश्नुते ।
कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति ॥
सा प्रेत्य कामान् आदाय दातारम् उपतिष्ठति ।
रथम् अश्वसमायुक्तं दत्वाश्विन्यां नरोत्तमः ॥
हस्त्यश्वरथसंपन्ने वर्चस्वी जायते कुले ।
भरणीषु द्विजातिभ्यस् तिलधेनुं प्रदाय वै ॥
गाः सुप्रसूताः प्राप्नोति नरः प्रेत्य यशस् तथा ।
इत्य् एष दक्षिणोद्देशः प्रोक्तो नक्षत्रयोगतः ॥
देवक्या नारदेनेह मया च कथितस् तव ।
सर्वपापप्रशमनः सर्वोपद्रवनाशनः ॥
न चात्र कालनियमो न नक्षत्रक्रमस् तथा ।
वित्तं श्रद्धा च राजेन्द्र कारणं चात्र कथ्यते ॥
यद्य् अत्र ते भगवता कमलासनस्य पुत्रेण दानम् उदितं प्रसमीक्ष्य वेदान् ।
तद् यो ददाति विभवे सति साधुवृत्ते किं तेन पार्थ न कृतं भवतीह लोके ॥

इति भविष्योत्तरे नक्षत्रदानविधिः ।

अथ मासदानानि

विष्णुः ।

आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतं प्रदायाश्विनौ प्रीणयित्वा रूपभाग् भवति । अस्मिन्न् एव मासि प्रत्यहं गोरसैर् ब्राह्मणान् भोजयित्वारोग्यभाग् भवति । माघे मास्य् अग्निं प्रत्यहं तिलैर् हुत्वा सघृतं कुल्माषं ब्राह्मणान् भोजयित्वा च दीप्ताग्नित्वम् आप्नोति ।

तथा ।

घृतम् आश्वयुजे मासि नित्यं दद्याद् द्विजातये ।
प्रीणयित्वाश्विनौ देवौ रूपभाग् अभिजायते ॥
तिलप्रदः प्रजाम् इष्टां पुरुषः खलु विन्दति ।
माघे मासि विशेषेण तत् तमिस्रे विशेषतः ॥

यमः ।

कृसरं भोजयित्वा तु स्वशक्त्या शिशिरे द्विजान् ।
दीप्ताग्नित्वम् अवाप्नोति स्वर्गलोकं च गच्छति ॥
मासि मासि च रेवत्यां ब्राह्मणान् घृतपायसम् ।
सदक्षिणं भोजयित्वा रूपभाग् अभिजायते ॥

आदित्यपुराणे ।

ज्येष्ठे मासि तिलान् दत्वा पौर्णमास्यां विशेषतः ।
अश्वमेधस्य यत् पुण्यं तत् प्राप्नोति न संशयः ॥

देवीपुराणे ।

धेनुं तिलमयीं माघ्यां दद्याद् यश् चोत्तरायण (?) ।
विचित्राणि च वस्त्राणि चैत्रे दद्याद् द्विजोत्तमः ॥
वैशाखे यवगोधूमाञ् ज्येष्ठे तोयभृतान् घटान् ।
आषाढे चन्दनं देयं सकर्पूरं महाफलम् ॥
नवनीतं नभोमासि छत्रं प्रोष्ठपदे मतम् ।
गुडशर्करवर्णाढ्यांल् लड्डुकान् आश्विने मुने ॥
दीपदानं महापुण्यं कार्तिके यः प्रयच्छति ।
सर्वान् कामान् अवाप्नोति क्रमान् मार्गाद्युदाहृतान् ॥
धेनुं पौषे घृतमयीं माघे तिलमयीं तथा ।
ज्येष्ठे तोयमयीं दद्याद् घृतवत्सां महाफलाम् ॥
सुरूपां श्रावणे दद्याद् गां महाफलदायिकाम् ।
सर्वहेममयैः शृङ्गै रौप्यपादा उदाहृताः ॥
कांस्यपात्राः सघण्टास् तु किङ्किणीभिः सुशोभिताः ।
सयुगाः सस्रजो वत्सा दत्व्या विधिना मुने ॥

[३६४] देवीब्रह्मेशसूर्यान् वा विष्णुं वाथ यथाविधि ।

स्वभाववृत्तसंपन्ने पूजयित्वा द्विजोत्तमे ॥
दातव्यालंकृता धेनुः कामक्रोधविवर्जिते ।
अयाचके सदाचारे विनीते विनयान्विते ॥
गोप्रदानाल् लभेत् कामान् स्वे स्वे लोके मनोरमान् ।

तथा ।

आषाढे तोयधेनुः स्याद् धेनुर् भाद्रपदे सदा ।
माघे तु तिलधेनुः स्याद् यां दत्वा लभते हितम् ॥
माघे मासि तिलान् यस् तु ब्राह्मणेभ्यः प्रयच्छति ।
सर्वसत्त्वसमाकीर्णं नरकं न स पश्यति ॥

यमः ।

महापातकसंघातः कामतो वाप्य् अकामतः ।
शुद्धिं तस्य प्रवक्ष्यामि स्वर्गसाधनम् एव च ॥
शुक्लैः कृष्णैस् तथा लब्धैर् द्वात्रिंशदङ्गुलोच्छ्रितः ।
राशिस् तिलैः समे देशे कर्तव्यः पुरुषायतः ॥
प्रतिमाष्टाङ्गुलोत्क्षेप्या सौवर्णीं विभवे सति ।
क्षौद्रेण पयसा दध्ना घृतेनापूरयेद् घटान् ॥
यथाविभवविस्तारं ब्राह्मणे श्रोत्रिये ऽर्थिनि ।
दद्यान् माघे ऽथ वैशाखे विषुवे चोत्तरायणे ॥
यावज्जीवं कृतं पापं तत्क्षणाद् एव नश्यति ।

वामनपुराणे ।

माघे मासि तिला देयास् तिलधेनुश् च दानव ।
इध्मेन्धनादयश् चैव माधवप्रीणनाय वै ॥
फाल्गुने व्रीहयो गावो वस्त्रं कृष्णाजिनान्वितम् ।
गोविन्दप्रीणनार्थाय दातव्यं पुरुषर्षभ ॥
चैत्रे विचित्रवस्त्राणि शयनान्य् आसनानि च ।
विष्णोः प्रीत्यर्थम् एतानि देयानि ब्राह्मणेष्व् अथ ॥
गन्धाश् च माल्यानि तथा वैशाखे सुरभीणि च ।
देयानि द्विजमुख्येभ्यो मधुसूदनतुष्टये ॥
उदकुम्भाम्बुधेनुं च तालवृन्तं सचन्दनम् ।
त्रिविक्रमस्य प्रीत्यर्थं दातव्यं साधुभिः सदा ॥
उपानद्युगलं छत्रं लवनामलकानि च ।
आषाढे वामनप्रीत्यै दातव्यानि तु भक्तितः ॥

[३६५] घृतं च क्षीरकुम्भाश् च घृतधेनुस् तथैव च ।

श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिते ॥
मासि भाद्रपदे दद्यात् पायसं मधुसर्पिषी ।
हृषीकेशप्रीणनाय लवणं सुगुडौदनम् ॥
तिलास् तुरङ्गवृषभदधिताम्ररसादिकम् ।
प्रीत्यर्थं पद्मनाभस्य देयम् आश्वयुजे नरैः ॥
रजतं कनकं दीपा मणिमुक्ताफलादिकम् ।
दामोदरस्य प्रीत्यर्थं प्रदद्यात् कार्तिके नरः ॥
खरोष्ट्राश्वतरा नागाः शकटोक्षम् अजाविकम् ।
दातव्यं केशवप्रीत्यै मासि मार्गशिरे नरैः ॥
प्रासादनगरादीनि गृहप्रावरणानि च ।
नारायणस्य तुष्ट्यर्थं पौषे देयानि यत्नतः ॥
दासीदाससमलंकारम् अन्नं षड्रससंयुतम् ।
पुरुषोत्तमतुष्ट्यर्थं पौषे देयानि यत्नतः ॥
अथ वा चतुर्थपादः प्रदेयं सार्वकामिकम् ।
यद् यद् इष्टतमं किंचिद् यच् चाप्य् अस्ति शुभं गृहे ॥
तत् तद् धि देयं प्रीत्यर्थं देवदेवस्य चक्रिणः ॥ इति ॥ १.२०८ ॥

गोप्रदानप्रसङ्गाद् दानान्य् उक्तानि, प्रकृतम् उच्यते ।

श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्टमार्जनं गोप्रदानवत् ॥ १.२०९ ॥

श्रान्तसंवाहनादिकं प्रत्येकं गोदानेन फलतः समं भवति । श्रान्तः खिन्नस् तस्य संवाहनं श्रमापनयनम् । रोगिपरिचर्या चिकित्सादि । प्रसिद्धम् अन्यत् । पादशौचद्विजोच्छिष्टमार्जने समोत्तमवर्षविषये । यमः ।

देवमाल्यापनयनं देवागारसमूहनम् ।
स्नापनं सर्वदेवानां गोप्रदानसमं मतम् ॥

नन्दिपुराणे ।

धर्मार्थकामकोक्षाणाम् आरोग्यं साधनं यतः ।
अतस् त्व् आरोग्यदानेन नरो भवति सर्वदः ॥

[३६६] आरोग्यशालां कुरुते महौषधिपरिच्छदाम् ।

विदग्धवैद्यसंयुक्तां घृतान्नमधुसंयुताम् ॥
वैद्यस् तु शास्त्रवित् प्राज्ञो दृष्टौषधिपरम्परः ।
ओषधीमूलपर्णज्ञः समुद्धरणकालवित् ॥
रसवीर्यविपाकज्ञः शालिमांसौषधीगणे ।
योगविद् देहिनां देहं यो धिया प्रविशेद् बुधः ॥
धातुपथ्यामयज्ञश् च निदानविद् अतन्द्रितः ।
व्याधीनां पूर्वलिङ्गज्ञस् तदुत्तरविधानवित् ॥
देशकालविधानज्ञश् चिकित्सासामयवित् तथा ।
अष्टाङ्गायुर्वेदवेत्ता मुष्टियोगविधानवित् ॥
एवंविधः शुभो वैद्यो भवेद् यत्राभियोजितः ।
आरोग्यशालाम् एवं तु कुर्याद् यो धर्मसंश्रयः ॥
स पुमान् धार्मिको लोके स कृतार्थः स शुद्धिमान् ।
सम्यग् आरोग्यशालायाम् औषधैः स्नेहपाचनैः ॥
व्याधितं नीरुजीकृत्य अप्य् एकं करुणायुतः ।
प्रयाति ब्रह्मसदनं कुलसप्तकसंयुतः ॥
आढ्यो वित्तानुसारेण दरिद्रः फलभाग् भवेत् ।
दरिद्रस्य कुतः शाला आरोग्याय भिषक् तथा ॥
अपि मूलेन केनापि चन्दनाद्यैर् अथापि वा ।
स्वस्थीकृते लभेन् मर्त्ये पूर्वोक्तं लोकम् अव्ययम् ॥
वातपित्तकफाद्यानां चयापचयभेदिनाम् ।
यस् तु स्वस्ल्पाभ्युपायेन मोक्षयेद् व्याधिपीडितान् ॥
सो ऽपि याति शुभांल् लोकान् अवाप्यान् यज्ञयाजिभिः ।
शल्यं शालक्यं कायचिकित्सा भूतविद्या कौमारप्रभृत्यम् अश्वतन्त्रं रसायनतन्त्रं वाजीकरणतन्त्रम् ।

इति सुश्रुतोक्तान्य् अष्टाङ्गान्य् आयुर्वेदस्य । इत्य् आरोग्यदानम् ॥ १.२०९ ॥

[३६७]

किं च

भूदीपान्नाश्ववस्त्राम्भस्तिलसर्पिःप्रतिश्रयान् ।
नैवेशिकस्वर्णधुर्यान् दत्वा स्वर्गे महीयते ॥ १.२१० ॥

भूमिदीपादिदानेन स्वर्गम् आप्नोतीति वाक्यार्थः । भूश् च सस्यवती फलप्रदा वा देया । तद्द्वारेणैव तद्गुरुत्वम् ।

भूमिं सस्यवतीं श्रेष्ठां दत्वा स्वर्गे महीयते ।

इति संवर्तः । पापक्षयार्थम् अपि भवति । यथाह बृहस्पतिः ।

यत् किंचित् कुरुते पापं जन्मप्रभृति मानवः ।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥
सप्तहस्तेन दण्डेन त्रिंशद् दण्डा निवर्तनम् ।
दश तान् एव गोचर्म दत्वा स्वर्गे महीयते ॥

चर्ममात्रगोप्रदानेनापि स्वर्गप्राप्तिः । “दिव्यं वर्षशतं यावद् भूमिदः स्वर्गम् आप्नोति । द्वियं वर्षशतं सार्धं तथा” इति, तद् द्वैगुण्यादितारतम्याद् इति । यत् पुनर् मनुनोक्तम् “भूमिदो भूमिम् आप्नोति” इति, तत् स्वर्गच्युताभिप्रायेण न्यूनात्मदानाभिप्रायेण वा । तद्दानस्य वैश्वरूप्यात् । अत एव ।

सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च ।
सर्वम् एतद् भवेद् दत्तं वसुधां यः प्रयच्छति ॥ इति ।

न च सकलवसुधाभिप्रायेणोच्यते । तस्या अशक्यत्वात् । एवं प्रदीपादिदाने ऽपि पात्रविशेषाद् आवृत्तौ वा स्वर्गप्राप्तिः ।

पात्रस्य हि विशेषेण श्रद्दधानतयापि च ।
अल्पं वा बहु वा प्रेत्य दानस्याप्नोति तत्फलम् ॥

इति वचनात् । अन्यथा —

वारिदस् तृप्तिम् आप्नोति सुखम् अक्षय्यम् अन्नदः ।
तिलप्रदः प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम् ॥
वासोदश् चन्द्रसालोक्यं सूर्यसालोक्यम् अश्वदः । इति ।

वस्त्रादिविशेषाच् च फलविशेषो द्वित्रादिसंख्यातश् च । क्षीणवृत्तेर् आयातस्यास्मिन् भवने स्थीयताम् इति प्रतिश्रयः । निवेशार्थं कन्यापि दीयत इति नैवेशिकम् । [३६८] अत एव ।

मातापितृविहीनं तु संस्कारोद्वाहनादिभिः ।
यः स्थापयति तस्येह पुण्यसंख्या न विद्यते ॥ इति ।
न तच्छ्रेयो ऽग्निहोत्रेण नाश्वमेधेन नान्यथा ।
यच्छ्रेयः प्राप्यते प्रेत्य विप्रेण स्हापितेन तु ॥ इति ।

स्थापितेन भवनादिदानेन प्रतिष्ठापितेनेत्य् अर्थः । दक्षः । “सुवर्णम् एव स्वर्णम् अस्य च देशकालपात्रसुवर्णपरिमाणाच् च फलविशेषः” । तथा ।

उच्चा दिवि दक्षिणावन्तो अस्थुर् ये अश्वदाः सह ते सूर्येण ।
हिरण्यदा अमृतत्वं भजन्ते वासोदाः सोम प्र तिरन्त आयुः ॥

इत्य् अमृतत्वं मुक्तिर् दर्शिता । तथा- “स्वर्णधुर्यान् दर्त्वा स्वर्गे महीयते” इति । गर्गः ।

भूमिदो भूमिम् आप्नोति दीर्घम् आयुर् हिरण्यदः ।
गृहदो ऽग्र्याणि वेश्मानि रूप्यदो रूपम् उत्तमम् ॥ इति ।

एतच् च सुवर्णदाने ऽपि वेदितव्यम् । अलंकारे तु फलविशेषः ।

अलंकृतस् त्व् अलंकारं दत्वा स्वर्गे महीयते । इति ।

धुरम् अर्हतीति धुर्यः ।

अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् । इति ।

अत्रापि पात्रादिदेशकालविशेषाद् द्वित्रादिविशेषाच् च फलविशेषः । विष्णुधर्मेषु ।

भगवान् उवाच ।
छत्रप्रदानेन गृहं वरिष्ठं रथं तथोपानहसंप्रदानात् ।
धुर्यप्रदानेन गवां तथैव लोकान् अवाप्नोति पुरंदरस्य ॥
स्वरीयम् अप्य् आह हिरण्यदानं तथा वरिष्ठं कनकप्रदानम् ।
नैवेशिकं सर्वगुणोपपन्नं प्रयच्छते यः पुरुषो द्विजाय ॥
स्वाध्यायचारित्र्यगुणान्विताय तस्यापि लोकाः प्रवरा भवन्ति ।
यो ब्रह्मदेयां प्रददाति कन्यां भूमिप्रदानं च करोति विप्रे ॥
वस्त्रान्नदानं च तथा विशिष्टं स शक्रलोकं लभते दुरापम् ।
भूदानेन समं दानं न भूतं न भविष्यति ।
इति धर्मविदः प्राहुस् तन् मे निगदतः शृणु ॥

[६३९] षष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः ।

आच्छेत्ता चानुमन्ता च तान्य् एव नरके वसेत् ॥
दानानाम् अति सर्वेषां भूमिदानम् इहोच्यते ।
अचला ह्य् अक्षया भूमिः सर्वान् कामान् प्रयच्छति ॥
भूमिदः स्वर्गम् आरुह्य शाश्वतीर् एधते समाः ।
पुनर्जन्म च संप्राप्य भवेद् भूमिपतिर् ध्रुवम् ॥
यथा भूमिः सदा देवी दातारं कुरुते पतिम् ।
एवं सदक्षिणा दत्ता कुरुते गौर् जनाधिपम् ॥
अपि पापकृतं प्राप्य प्रतिगृह्णीत भूमिदम् ।
महीं ददत् पवित्रः स्यात् पुण्या हि जगती यतः ॥
नाम वै प्रियदत्तेति गुह्यम् एतत् सनातनम् ।
तदास्याः सततं प्रीत्यै कीर्तनीयं प्रयच्छता ॥
यत् किंचित् कुरुते पापं पुरुषो वृत्तिकर्षितः ।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥
सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च ।
सर्वान् एतान् महाप्राज्ञ ददाति वसुधां ददत् ॥
फालकृष्टां महीं दत्त्वा सोदकां च फलान्विताम् ।
सोदकं वापि शरणं प्राप्नोति परमं पदम् ॥
रत्नोपकीर्णां वसुधां यो ददाति द्विजातये ।
विमुक्तः किल्बिषैः सर्वैः स्वर्गलोके महीयते ॥
इक्षुभिः सहितां भूमिं यवगोधूमशालिभिः ।
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम् ॥
सर्वकामदुघां भूमिं सर्वसस्यसमन्विताम् ।
यो ददाति द्विजेन्द्राय ब्रह्मलोकं स गच्छति ॥
भूमिदानं नरः कुर्यान् मुच्यते सर्वतो भयात् ।
न भूप भूमिदानाद् धि दानम् अन्यद् विशिष्यते ॥
पुण्यां सर्वरसां भूमिं यो ददाति नरर्षभः ।
न तस्य लोकाः क्षीयन्ते भूमिदस्य महात्मनः ॥
कृशाय कृशभृत्याय वृत्तिक्षीणाय सीदते ।
भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः ॥

[३७०] आस्फोटयन्ति पितरः प्रवल्गन्ति पितामहाः ।

भूमिदो ऽस्मत्कुले जातः सो ऽस्मान् संतारयिष्यति ॥

आदित्यपुराणे ।

य एतां दक्षिणां दद्यात् पृथिवीं पृथिवीपतिः ।
पुनश् च जननं प्राप्य भवेत् स पृथिवीपतिः ॥
यथा दानं तथा भोग इति धर्मेषु निश्चयः ।
संग्रामे वा तनुं जह्याद् दद्याद् वा पृथिवीम् इमाम् ॥
इत्य् एतां क्षत्त्रबन्धूनां वदन्ति परमाशिषम् ।
अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः ॥
पृथिवीं नान्यद् इच्छन्ति पावनं ह्य् एतद् उत्तमम् ।
नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् ॥
दानं वाप्य् अथ वा ज्ञानं नाम्नो ऽस्याः परमं प्रियम् ।
यस् तु गोचर्ममात्रां वै प्रयच्छन्ति वसुंधराम् ॥
विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
षष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः ॥
आच्छेत्ता चानुमन्ता च तान्य् एव नरके वसेत् ।
स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् ॥
श्वविष्ठायां कृमिर् भूत्वा पितृभिः सह मज्जति ॥

मत्स्यपुराणे ।

यत् किंचित् कुरुते पापं पुरुषो वृत्तिकर्षितः ।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥
सुवर्णानां सहस्रेण लभेद् दत्तेन यत् फलम् ।
गोचर्मभूमिमात्रेण तत्फलं तु विधीयते ॥

महाभारते ।

न चोषरां न निर्दग्धां महीं दद्यात् कथंचन ।
न श्मशानपरीतां च न च पापनिवेशिताम् ॥

इति भूमिदानम् ।

दीपदाने संवर्तः ।

देवागारे द्विजानां वा दीपं दत्वा चतुष्पथे ।
मेधावी ज्ञानसंपन्नश् चक्षुष्मांश् च सदा भवेत् ॥

विष्णुधर्मेषु (?) ।

उच्चैः प्रदीपम् आकाशे यो दद्यात् कार्तिके नरः ।
**स सर्वं कुलम् उद्धृत्य विष्णुलोकम् अवाप्नुयात् ॥ [३७१]

कार्तिकनिर्णयश् च भविष्योत्तरे बोद्धव्यः । तद् यथा ।

विष्णोर् आयतने ये तु सहस्रं परिदीपकान् ।
प्रज्वालयन्त्य् अनुदिनं दिवारात्रम् अनिर्वृताः ।
तामिस्रम् आश्वयुक्पक्षं शुक्लपक्षं तु कार्तिकम् ॥ इति ।

दीपदाने मन्त्रः ।

दामोदराय नभसि तुलायां लोलया सह ।
प्रदीपं ते प्रयच्छामि नमो ऽनन्ताय वेधसे ॥ इति ।

तथा ।

यदा यदा नरश्रेष्ठ पुण्यकालः प्रपद्यते ।
संक्रान्तिसूर्यग्रहणे चन्द्रे पर्वणि वैधृते ॥
उत्तरे त्व् अयने प्राप्ते दक्षिणे त्व् अयने तथा ।
एकादश्यां शुक्लपक्षे चतुर्दश्यां दिनक्षये ॥
सप्तम्याम् अथ षष्ठ्यां वा स्नात्वा व्रतपरो नरः ।
भवद्भूमिदेवेभ्यः प्रयच्छेत् प्रयतो गणे ॥
घृतकुम्भे च वस्त्रेण प्रज्वलन्तं प्रदीपकम् ॥

गणे समुदाये वर्तमान इत्य् अर्थः । तथा ।

सूर्याय रक्तवस्त्रेण पूर्णवर्ति घृतेन ताम् ।
चतुष्प्रस्थैः प्रज्वलन्तीं मन्त्रेणानेन दापयेत् ॥
तद् विष्णोर् इति मन्त्रेण वर्तिं दद्यात् सदैव हि ।
पीतवस्त्रेण कृष्णाय श्वेतवस्त्रेण शूलिने ॥
कौसुम्भघृतवस्त्रेण गौरीम् उद्दिश्य दापयेत् ।
लाक्षारक्तेन दुर्गायै पूर्णवर्तिं प्रबोधयेत् ॥
नेत्रपट्टेन मधुना गृतेन मधुकूपके ।
अर्चिते च सिते चैवे ललितायै प्रबोधयेत् ॥
मन्त्रेणानेन राजेन्द्र तं निशामय्य वैदिकान् ।
आ ते वत्सो मनो यमत् परमाच् चित् सधस्थात् ।
अग्ने त्वां कामया गिरा ॥
ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस्पतिम् ।
अजस्रं धर्मम् ईमहे ॥

[३७२] दिवि पृष्ठे अरोचनाग्निर् वैश्वानरो मतान् ।

ज्योतिषा बाधते तमः ॥
कामो भूतस्य भव्यस्य सम्राड् एको विराजति । इत्य् अन्तो मन्त्रः ।
एवम् एतेन विधिना ये प्रयच्छन्ति दीपकम् ।
विस्तीर्णे विपुले पात्रे घृतकुम्भं निवेशितम् ॥
यान्ति ते ब्रह्मसदनं विमानेनार्कतेजसा ।
तिष्ठन्ति द्योतमानास् ते यावद् आभूमिसंप्लवम् ॥
घृतेन दीपो दातव्यो राजंस् तैलेन वा पुनः ।
वसामज्जादिभिर् दीपो न तु देयः कथंचन ॥
दीपतैलेन कर्तव्यं न तु कर्म विजानता ।
निर्वापणं च दीपस्य हिंसनं च विगर्हितम् ॥
यः कुर्यात् तेन कर्माणि स्याद् असौ पुष्पितेक्षणः ।
दीपहर्ता भवेद् अन्धः काणो निर्वापको भवेत् ॥
पद्मसूत्रोत्थितां वर्तिं गन्धतैलेन दीपकम् ।
नीरोगः सुभगश् चैव दत्वा भवति मानवः ॥
प्रज्वाल्य देवदेवस्य कर्पूरेण तु दीपकम् ।
अश्वमेधम् अवाप्नोति कुलं चैव समुद्धरेत् ॥

इति दीपदानम् ।

अथाश्वदानम् ।

देवीपुराणे ।

अश्वं वा यदि वा युग्यं शोभने वाथ पादुके ।
ददाति यः प्रदानं वै ब्राह्मणेभ्यः सुसंयतः ॥
तस्य दिव्यानि यानानि रथध्वजपताकिनः ।
दुष्टः पन्था न चैवेह भवत्य् एव कदाचन ॥

स्कन्दपुराणे ।

अश्वं यस् तु प्रच्छेत हेमचित्रं सुलक्षणम् ।
स तेन कर्मणा देवि गान्धर्वं लोकम् अश्नुते ॥

अन्नदाने संवर्तः ।

अन्नदस् तु सुखी श्रीमान् सुतृप्तः सर्वकर्मसु ।

महाभारते । [३७३]

नारद उवाव ।
नान्नदानात् परं दानं किंचिद् अस्ति नरेश्वर ।
अन्नेन धार्यते कृत्स्नं चराचरम् इदं जगत् ॥
अन्नं वै प्राणिनां प्राणा इत्य् उवाच प्रजापतिः ।
तस्माद् अन्नप्रदो राजन् प्राणदः प्रोच्यते बुधैः ॥
अन्नदः पशुमांल् लोके धनवान् रूपवान् अपि ।
आयुष्मान् बलवांश् चैव सुखी च प्रेत्य जायते ॥
नित्यं ददाति यश् चान्नम् अतिथिभ्यः समाहितः ।
स याति ब्रह्मसालोक्यम् एवम् आह पराशरः ॥
अन्नेन सदृशं दानं न भूतं न भविष्यति ।
तस्माद् अन्नं विशेषेण दातुम् इच्छन्ति साधवः ॥
कृत्वापि सुमहत् पापं यः पश्चाद् अन्नदो भवेत् ।
विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥
आशंसन्तीह पितरः सुवृष्टिम् इव कर्षकाः ।
अस्माकम् इह पुत्रो वा पौत्रो वान्नं प्रदास्यति ॥
यो दद्याद् अपरिक्लिष्टम् अन्नम् अध्वनि वर्तिने ।
श्रान्तायादृष्टपूर्वाय स पुण्यां गतिम् आप्नुयात् ॥
न पृच्छेद् गोत्रचरणं न स्वाध्यायं श्रुतं तथा ।
याचितो ब्राह्मणेनान्नं दद्याद् एवाविचारयन् ॥
दुर्वृत्तः साधुवृत्तो वा मूर्खो वा यदि पण्डितः ।
यः प्राप्तो वैस्वदेवान्ते सो ऽतिथिः स्वर्गसंक्रमः ॥
अदृष्टं दृष्टपूर्वं वामित्रं वा सुहृदं तथा ।
ब्राह्मणं भोजयेन् नित्यं शान्तं शीलसमन्वितम् ॥
यस्य ह्य् अन्नम् उपाश्नाति ब्राह्मणानां शतं सताम् ।
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर् भवेत् ॥
भोजयित्वा दश शतं नरो वेदविदां नृप ।
न्यायविद् धर्मविदुषां स्मृतिभाष्यविदां तथा ॥
न याति नरकं घोरं संसारं च न सेवते ।
ब्राह्मणानां सहस्राणि दश भोज्यानि भारत ॥
**नरो ऽध्र्मात् प्रमुच्येत पापेष्व् अपि रतः सदा । [३७४]

बृहस्पतिः ।

अन्नदानं गुणकरं सर्वदानाधिकं स्मृतम् ।
अन्नात् प्राणप्रजननं नॄणां संजायते सदा ॥
प्राणाप्यायनमात्रं तु यो विप्राय प्रयच्छति ।
दुर्भिक्षे तु विशेषेण स लभेताक्षयां दिवम् ॥
हेमरत्नाम्बरयुतो ऽभुञ्जानो म्रियते नरः ।
अश्नन् विनाप्य् अलंकारं जीर्णवस्त्रो ऽपि जीवति ॥
तस्मात् प्रदद्याद् विप्रेभ्यः संस्कृतान्नं सदक्षिणम् ।
तेनेह कीर्तिम् आप्नोति स्वर्गं चानन्तकं तथा ॥

आदित्यपुराणे ।

अन्नदानात् परं नास्ति न भूतं न भविष्यति ।
पुत्रं प्रजां पशून् मेधां स्त्रियः कामांश् च सर्वशः ॥
सर्वं चान्नप्रदानेन लभते नात्र संशयः ।
आदरेण तु भक्त्या च यद् अन्नम् उपदीयते ॥
तत् प्रीणयति गात्राणि नामृतं मानवर्जितम् ।
दुर्लभस् तु मुदा दाता मुदा भोक्ता च दुर्लभः ॥
मुदा दाता च भोक्ता च ताव् उभौ स्वर्गगामिनौ(णौ) ।
यो दद्याद् अप्रियेणान्नं यश् चान्नं नाभिनन्दति ॥
ताव् उभौ नरके मग्नौ वसेतां शरदां शतम् ।

विष्णुधर्मोत्तरे ।

दानानाम् उत्तमं दानं वस्त्रदानं प्रकीर्तितम् ।
वासो हि सर्वदै(दे)वत्यं सर्वसायुज्यम् अश्नुते ॥
वस्त्रदाता सुवेशः स्याद् रूपद्रविणसंयुतः ।
नीलीरक्तं तथा शीर्णं न देयं ब्राह्मणस्य तु ॥
देयं न चाप्य् उपहतं बहुपुण्यम् अभीप्सता ।
दत्वा कार्पासिकं वस्त्रं स्वर्गलोके महीयते ॥
दत्वा सरोमम् अपि तत् ततो दशगुणं लभेत् ।
आविकं वसनं दत्वा भृगूणां लोकम् आप्नुयात् ॥
छागं दत्वा चाङ्गिरसं क्षौमं दत्वा बृहस्पतेः ।
वसूनां लोकम् आप्नोति कुशकौशेयवाससी ॥
कृमिजं च तथा दत्वा सोमलोके महीयते ।
अग्निष्टोमम् अवाप्नोति दत्वैव मृगलोमिकम् ॥

[३७५] दत्वा वल्कलजं वासो वसूनां लोकम् आप्नुयात् ।

वस्त्रप्रदानात् तेजस्वी सर्वेषां प्रियदर्शनः ॥
भवेत् संभोगवांश् चैव स्त्रीणां चैव मनोहरः ॥

इति वस्त्रदानम् ।

अथोदकदानम् ।

संवर्तः ।

वारिदस् तृप्तिम् अतुलां वितृष्णः सर्ववस्तुषु ।

भविष्योत्तरे ।

श्रीकृष्ण उवाच ।
अतीते फाल्गुने मासि प्राप्ते चैत्रमहोत्सवे ।
पुण्ये ऽह्नि विप्रकथिते ग्रहचन्द्रबलान्विते ॥
तडाकं कारयेद् विद्वान् धनच्छायं मनोरमम् ।
पुरस्य मध्ये ह्य् अथ् वा कान्तारे तोयवर्जिते ॥
देवतायतने वापि चित्रवृक्षतले ऽपि वा ।
सुशीतलतरं रम्यं विचित्रासनसंयुतम् ॥
कारयेन् मण्डलं दिव्यं शीतातपसहं दृढम् ।
तन्मध्ये स्थापयेद् भव्यान् मणीन् कुम्भांश् च शोभनान् ॥
अकालमूलान् कवकान् वस्त्रेणावेष्टिताननान् ।
ब्राह्मणः शीलसंपन्नो भृतिं दत्वा यथोचिताम् ॥
प्रपापालः प्रकर्तव्यो बहुपुत्रपरिच्छदः ।
पानीयपानम् अश्रान्तो यः कारयति मानवान् ॥
एवंविधां प्रपां कृत्वा शुभे ऽह्नि विधिपूर्वकम् ।
यथाशक्त्या नरश्रेष्ठः प्रारम्भे भोजयेद् द्विजान् ॥
ततश् चोत्सर्जयेद् विद्वान् मन्त्रेणानेन मानवः ।
प्रपेयं सर्वसामान्या भूतेभ्यः प्रतिपादिता ॥
अस्याः प्रदानात् पितरस् तृप्यन्तु च पितामहाः ।
अनिवार्यं ततो देयं जलं सामचतुष्टयम् ॥
त्रिपक्षं वा महाराज जीवानां जीवनं परम् ।
गन्धाढ्यं सरसं शीतं शोभने भाजने स्थितम् ॥

[३७६] प्रदद्याद् अप्रतिहतं श्रद्धावान् अवलोकयन् ।

प्रत्यहं कारयेत् तस्य भोजनं शक्तितो द्विजे ॥
अनेन विधिना यस् तु ग्रीष्मे शोषविनाशनम् ।
पानीयम् उत्तमं दद्यात् तस्य पुण्यफलं शृणु ॥
कपिलाशतदानस्य सम्यग्दत्तस्य यत् फलम् ।
तत् पुण्यफलम् आप्नोति सर्वदेवैस् तु पूजितः ॥
पूर्णचन्द्रप्रतीकाशं विमानं सो ऽधिरुह्य वै ।
याति देवेन्द्रभवनं पूज्यमानो ऽप्सरोगणैः ॥
त्रिंशत्कोट्यो हि वर्षाणां यक्षगन्दर्वसेवितः ।
पुण्यक्षयाद् इहागत्य चतुर्वेदो द्विजो भवेत् ॥
ततः परम् इदं याति पुनरावृत्तिर् दुर्लभम् ।
प्रपां दातुम् अशक्तेन विशेषाद् धर्मम् ईप्सुना ॥
प्रत्यहं धर्मघटकः कर्पटावेष्टिताननः ।
ब्राह्मणस्य गृहे देयः शीतामलजलः शुचिः ॥
तस्य वोद्यापनं कार्यं मासि मासि नराधिप ।
मण्डकावेष्टिकाभिश् च पक्वान्नैः सर्वकामिकैः ॥
उद्दिश्य शंकरं विष्णुं ब्रह्माणं वासवं तथा ।
सलिलं प्रोक्षयित्वा तु मन्त्रेणानेन मानवः ॥
एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः ।
अस्य प्रसादात्(दानात्) सकला मम सन्तु मनोरथाः ॥
धर्मघटदानमन्त्रः ।
अनेन विधिना यस् तु धर्मकुम्भं प्रयच्छति ।
प्रपादानफलं सो ऽपि प्राप्नोतीह न संशयः ॥
धर्मकुम्भप्रदाने ऽपि अशक्तो यः पुमान् भवेत् ।
तेनाश्वत्थतरोर् मूलं नित्यं सेव्यं यतात्मना ॥
अश्वत्थरूपी भगवान् प्रीयतां मे जनार्दनः ।
इत्य् उच्चार्य नमस्कृत्य प्रत्यहं पापनाशनम् ॥
यः करोति तरोर् मूले सेकं मासचतुष्टयम् ।
सो ऽपि तत्फलम् आप्नोति श्रुतिर् एषा सनातनी ॥

**[३७७] **स्पृष्टा सुशीतसलिला क्लमनाशिनी च प्राप्ते परस्य पथि पान्थसमूहभूमौ ।

यस्य प्रपा भवति सर्वजनस्य भोग्या धर्मान् नरः स खलु जीवति जीवलोके ॥

इति भविष्योत्तरे प्रपादानविधिः \

महाभारते ।

तिला नित्यं प्रदातव्या यथाशक्ति द्विजातिभिः ।
नित्यदानात् सर्वकामांस् तिला निर्वर्तयन्त्य् उत ॥
घृतप्रदानेन तथा दीर्घं विन्दति जीवितम् ।
दत्वा प्रतिश्रयं लोके तथा दत्वैव चाभयम् ॥
तथा दत्वा क्षितिं विप्रो ब्रह्मलोके महीयते ।

नैवेशिकदाने कालिकापुराणम् ।

कारयित्वा तथोद्वाहं श्रोत्रियाणां कुलेषु च ।
वेदविच्छीलवृत्तेषु द्विजेष्व् एकादशस्व् अथ ॥
ततो गृहाणि रम्याणि कुर्याद् एकादशैव तु ।
कारयित्वा तु धान्यैस् तु विविधैश् चैव पूजयेत् ॥
दासीगोमहिषीश् चापि शयनासनपादुकाः ।
भाजनानि विचित्राणि ताम्रमृन्मयकानि च ॥
पात्राणि भोजनार्थं च कृत्स्नं चोपस्करं च यत् ।
लोहं च काञ्चनं चैव वस्त्राणि तु विशेषतः ॥
संभृत्यैवं सुसंभारं तद्गृहेषु नियोजयेत् ।
योजयेच् चैव वृत्त्यर्थं शक्तितो वा शतं शतम् ॥
पृथक् पृथग् लाङ्गलानां निर्वर्तनशतान्य् अपि ।
विषयं खर्वटं खेटं ग्रामार्थं ग्रामम् एव वा ॥
योजयेत् सोममूर्तिं च चिन्त्य तेषु द्विजेषु वै ।
एकादशैव तास् तत्र दम्पत्योः प्रतिमात्मकाः ॥
विचिन्त्य परया भक्त्या तद्गृहेषु निवेशयेत् ।
ग्राहयेद् अग्निहोत्राणि प्रविश्यैतद् द्विजोत्तमान् ॥
विधिपूर्वं यथान्याय्यम् आत्मनः श्रेयसे नरः ।
अदुष्टकुलजानां च विधिर् एष चिरंतनः ॥
शिवशक्त्योर् विभाक्तानां द्विजानां कारयेत् सदा ।
यश् च प्रेष्यान् निजान् मूढो योजयेद् धव्यकव्ययोः ॥

[३७८] न भवेत् फलं तस्य दैविकीं श्रुतिर् ध्रुवा ।

यज्ञदानव्रताद्यं च तीर्थयात्रादिकं च यत् ॥
यस् त्व् एवं कारयेज् जन्तुस् तेन सर्वम् अनुष्ठितम् ।
स यात्य् अर्कसमानाभं विमानं रत्नमालिनम् ॥
आरुह्य तत्पदं पुण्यं सुरस्त्रीभिर् अलंकृतम् ।
विनानैश् चापरैर् दिव्यैः सहस्रैः परिवारितम् ॥
सर्वलोकगतान् भोगान् भुक्त्वा तस्मिन् प्रपद्यते ।
ज्ञात्वा स्ववित्तसामर्थ्याद् एकं चोद्वाहयेद् द्विजम् ॥
तेनाप्य् आप्नोति तत् स्थानं शिवभक्तो नरो ध्रुवम् ।
स्थानेन स्थानसंप्राप्तिर् विधिवत् तेन जायते ॥

दक्षः ।

मातापितृविहीनं तु संस्कारोद्वाहनादिभिः ।
यः स्थापयति तस्येह पुण्यसंख्या न विद्यते ॥

आदित्यपुराणे ।

भूमिपालं च्युतं राज्याद् यस् तु संस्थापयेद् द्विजः ।
तस्य वासो मुनीन्द्रेह नाकपृष्ठे न संशयः ॥

हिरण्यदाने भार्गवरामं प्रति विसिष्ठवाक्यानि ।

सर्वरत्नानि निर्मथ्य तेजोराशिं समुत्थितम् ।
सुवर्णम् एभ्यो विप्रेन्द्र रत्नं परमम् उत्तमम् ॥
एतस्मात् कारणाद् देवा गन्धर्वोरगराक्षसाः ।
मनुष्याश् च पिशाचाश् च प्रयता धारयन्ति तत् ॥
मुकुटैर् अङ्गदयुतैर् अलंकारैः पृथग्विधैः ।
सुवर्णे विघृते तत्र विराजति भृगूत्तम ॥
तस्मात् सर्वपवित्रेभ्यः पवित्रं परमं स्मृतम् ।
पृथिवीं गां च दत्वेह तथान्यद् अपि किंचन ॥
विशिष्यते सुवर्णस्य दानं परमकं विभो ।
अक्षयं पावनं चैव सुवर्णम् इति कथ्यते ॥
प्रयच्छ द्विजमुख्येभ्यः पावनं ह्य् एतद् उत्तमम् ।
सुवर्णम् एव सर्वत्र दक्षिणासु विधीयते ॥

[३७९] सुवर्णं ये प्रयच्छन्ति वर्णदास् ते भवन्त्य् उत ।

अग्निर् हि देवताः सर्वाः सुवर्णं च तदात्मकम् ॥
तस्मात् सुवर्णं ददतो दत्ताः स्युः सर्वदेवताः ॥

नन्दिपुराणे ।

कृष्णलाः पञ्च माषास् तु माषैः षोडशभिः स्मृतम् ।
सुवर्णम् एकं तद्दानाद् दाता स्वर्गम् अवाप्नुयात् ॥

तथा ।

तस्मात् सर्वात्मना पात्रे दद्यात् कनकदक्षिणाम् ।
अपात्रे पातयेद् दत्तं सुवर्णं नरकार्णवे ॥

इति सुवर्णदानम् ।

अथ भविष्योत्तरे वृषभदानम् ।

कृष्ण उवाच ।
वृषदानफलं पुण्यं शृणुष्व कथयामि ते ।
पवित्रं पावनं चैव सर्वदानोत्तमं तथा ॥
दशधेनुसमो ऽनड्वान् एकश् चैव धुरंधरः ।
दशधेनुप्रदानाद् धि स एवैको विशिष्यते ॥
वोढा चरंश् च पुष्टाङ्गो ह्य् अरोगः पाण्डुनन्दन ।
युवा भद्रः सुशीलश् च सर्वदोषविवर्जितः ॥
त्राता भवति संसारे नात्र कार्या विचारणा ।
अलंकृत्य वृषं शान्तं पुण्ये ऽह्नि समुपस्थिते ॥
रौप्यलाङ्गलसंयुक्तं ब्राह्मणाय निवेदयेत् ।
मन्त्रेणानेन राजेन्द्र तं शृणुष्व वदामि ते ॥
धर्मस् त्वं वृषरूपेण जगदानन्दकारकः ।
अष्टमूर्तेर् अधिष्ठानम् अतः पाहि सनातन ॥
दत्वैनं दक्षिणायुक्तं प्रणिपत्य विसर्जयेत् ।
सप्तजन्मकृतं पापं वाङ्मनःकायकर्मणा ॥
तत् सर्वं विलयं याति गोदानेन कृतेन वै ।
दानं वृषभसंयुक्तं दीप्यमानं सुशोभितम् ॥
आरुह्य कामगं दिव्यं स्वर्लोकम् अधिरोहति ।
यावन्ति तस्य रोमाणि गोवृषस्य महीपते ॥
तावद् वर्षसहस्राणि गवां लोके महीयते ।
गोलोकाद् अवतीर्णश् च इह लोके द्विजो भवेत् ॥

३८०] यज्ञयाजी महातेजाः सर्वब्राह्मणपूजितः ।

यथोक्तस् ते महाराज देयो यस्य वृषोत्तमः ॥
तद् अप्य् अहं ते वक्ष्यामि पात्रं प्राणप्रदं नृणाम् ॥
ये क्षान्तदान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिवधान् निवृत्ताः ।
प्रतिग्रहे संकुचिता गृहस्हास् ते ब्राह्मणास् तारयितुं समर्थाः ॥
तेजस्विनं भरसहं दृढकन्धरं च यच्छन्ति ये वृषम् अशेषगुणोपपन्नम् ।
दत्तेन यद् भवति गोदशकेन पुण्यं सत्यं भवन्ति भुवि तत्फलभागिनस् ते ॥

इति भविष्योत्तरे वृषदानम् ॥ १.२१० ॥

किं च ।

गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् ।
यानं वृक्षं प्रियं शय्यां दत्वात्यन्तं सुखी भवेत् ॥ १.२११ ॥

गृहादिदातात्यन्तम् अतिशयेन् सुखी भवेत् । मत्स्यपुराणे गृहदानम् ।

मत्स्य उवाच ।
पक्वेष्टका(क)चितं कृत्वा शैलजं वापि दारुजम् ।
मृन्मयं वापि कर्तव्यं शुभलक्षणसंयुतम् ॥
प्रभूतबलिपुष्पाढ्यं धेन्वा चैव समन्वितम् ।
अर्जुनैः सरलैः शाकैर् अन्यैश् चैव मनोहरैः ॥
तिनिशैः सर्जवृक्षैश् च कदम्बैः सह वञ्जुलैः ।
शुभस्थानसमुत्पन्नैर् वास्तुलक्षणसंयुतम् ॥
स्थापनं च यथान्यायं भूमेश् चैव सुशोभनम् ।
मार्जनं सिञ्चनं चैव शास्तातीयेन कारयेत् ॥

शान्तातीयेन सं न इन्द्राग्नी इति सूक्तेन ।

मङ्गलान्य् उपहाराश् च वास्तुविद्योदितास् तथा ।
देवतापञ्चकं तत्र चत्वारिंशत्समन्वितम् ॥
पूजयित्वा यथान्यायं ततो दद्याद् गृहं गृही ।
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥
युगादिषूपरागे च तथा मन्वन्तरादिषु ।
संक्रान्तौ वैधृतिदिने पौर्णमास्यष्टमीषु च ॥
यज्ञोत्सवविवाहेषु दुःस्वप्नानां च दर्शने ।
द्रव्यब्राह्मणसंपत्तौ श्रद्धा वा यत्र जायते ॥

[३८१] गृहदानं ततो देयं संसारभयभीरुणा ।

अनित्यं जीवितं यस्माल् लक्ष्मीश् चातीव चञ्चला ॥
एतज् ज्ञात्वा तु कर्तव्यम् ऐशान्यां हस्तसंमितम् ।
चतुरस्रं समं कुण्डं मेखलायोनिभूषितम् ॥
पूर्वोत्तरे हस्तमिता च वेदी ग्रहादिदेवेश्वरपूजनाय ।
तत्रार्चनं ब्रह्मशिवाच्युतानां सूर्यस्य कार्यं फलपुष्पगन्धैः ॥
द्वारेषु कार्याणि च तोरणानि पत्रैर् अपि क्षीरवनस्पतीनाम् ।
मध्ये तु संस्थाप्य च पूर्णकुम्भं स्रग्गन्धधूपाम्बररत्नयुक्तम् ॥
गृह्योक्तेन विधानेन हुत्वा चाग्निमुखं ततः ।
गव्येन पयसा दिव्यं स्थालीपाकचरुं श्रपेत् ॥
ततश् च वै तं चरुकं जुहोति मध्यस्थिताभ्यो गृहदेवताभ्यः ।
बलिं च सम्यग्विधिसंप्रयोगात् क्षीरेण धारां परितस् तु दद्यात् ॥
ब्रह्माणं द(दी)क्षयेत् पूर्वं परितुष्टं क्षमापयेत् ।
शय्यां तु दक्षिणो भागे सोपधानां सदीपकाम् ॥
सितवस्त्रैस् तु संछन्नां लक्ष्मीनारायणान्विताम् ।
सिताम्बरं कुण्डलहेमभूषितं केयूरकण्ठाभरणाभिरामम् ।
पत्नीसमेतं च करे गृहीत्वा दाता पठेन् मन्त्रम् इमं गृहस्थः ॥
एह्य् एहि नारायण दिव्यरूप सर्वामरैर् अर्चितपादपद्म ।
शुभाशुभानां जगताम् अधीश लक्ष्मीयुतस् त्वं हि गृहं गृहाण ॥
नमः कौस्तुभनाथाय हिरण्यकवचाय च ।
क्षीरोदार्णवसुप्ताय जगद्धात्रे नमो नमः ॥
नमो हिरण्यगर्भाय विश्वगर्भाय वै नमः ।
चराचरस्य जगतो गृहभूताय वै नमः ॥
भूलोकप्रमुखा लोकास् तव देहे व्यवस्थिताः ।
नन्दन्ति यावत् कल्पान्तं तथास्मिन् भवने गृही ॥
त्वत्प्रसादेन देवेश पुत्रैः पौत्रैर् युतो द्विजः ।
पञ्चयज्ञक्रियायुक्तो वसेद् आचन्द्रतारकम् ॥
एवम् उक्त्वा तु देवेशं सपत्नीकं द्विजोत्तमम् ।
तिलप्रस्थोपरिस्थायां शय्यायाम् उपवेश्य च ॥

[३८२] वदेद् इदं ततो वाक्यं सर्वधान्ययुतं गृहम् ।

सर्वोपस्करसंयुक्तं गृहं गृह्ण द्विजोत्तम ॥
तत्रोपकरणं सर्वं दम्पत्योस् तु निवेदयेत् ।
पादुकोपानहच्छत्रभूषणासनभाजनम् ॥
संपन्नं चाप्य् असंपन्नं गृहोपस्करभूषणम् ।
सर्वं संपूर्णम् एवास्तु त्वत्प्रसादाज् जनार्दन ॥
अनेन विधिना यस् तु पक्वेष्टं विनिवेदयेत् ।
कल्पकोटिशतं यावद् ब्रह्मलोके महीयते ॥
शैलजं दारुजं वापि यो दद्याद् विधिपूर्वकम् ।
वसेत् क्षीरार्णवे रम्ये नारायणसमीपतः ॥
मृन्मयं चैव यो दद्याद् गृहं सोपस्करान्वितम् ।
पुत्रेषु लोकपालानां प्रेत्यामन्वन्तरं वसेत् ॥
कलिकलुषविमुक्तः पूजितः सिद्धसंघैर् अमरचमरमालावीज्यमानो ऽप्सरोभिः ।
पितृशतम् अपि बन्धून् पुत्रपौत्रप्रपौत्रान् अपि नरकनिमग्नांस् तारयेद् एक एव ॥
दिव्यान् भोगांस् ततो भुक्त्वा राजराजो भवेद् भुवि ।
नारायणबलोपेतो नारायणपरायणः ॥
नारायणकथासक्तो जीवेद् वर्षशतं सुखी ।
देवतापञ्चकं तत्र चत्वारिंशत् समन्वितम् ॥ इति ।

अत्रायं विधिः ।

एकाशीतिपदं कृत्वा रेणुभिः कनकेन च ।
पश्चाल् लिम्पेच् चानुलिम्पेत् सूत्रेणालोड्य सर्वतः ॥
दश पूर्वायता रेखा दश चैवोदगायताः ।
सर्ववास्तुविभागेषु विज्ञेया नवका नव ॥
एकाशीतिपदं कृत्वा वास्तुवित् सर्ववास्तुषु ।
पदस्थान् पूजयेद् देवांस् त्रिंशत् पञ्चदशैव तु ॥
द्वात्रिंशद् बाह्यतः पूज्याः सूक्ष्माश् चान्तस् त्रयोदश ।
नामतस् तान् प्रवक्ष्यामि स्थानानि च निबोधत ॥
ईशानकोणादि सुरान् पूजयेत् पदिकान् नव ।
शिखी चैवाथ पर्जन्यो जयन्तः कुलिशायुधः ॥

[३८३] शून्यः सत्यो भृशश् चैव आकाशे वायुर् एव च ।

पूषाथ वितथश् चैव गृहक्षतयमाव् उभौ ॥
गन्धर्वो भृङ्गराजश् च मृगः पितृगणस् तथा ।
दौवारिको ऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ॥
असुरः शेषपापौ च रोगो ऽहिर् मुख्य एव च ।
भल्लाटः सोमसूर्यौ च अदितिश् च दितिस् तथा ॥
बहिर् द्वात्रिंशद् एते तु तदन्तश् चतुरः शृणु ।
ईशानादिचतुष्कोणसंस्थितान् पूजयेद् बुधः ॥
आपश् चैवाथ सावित्रो जयो रुद्रस् तथैव च ।
मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपगान् ॥
सर्वान् एकान्तरान् विद्यात् पूर्वाद्यान् नामतः शृणु ।
अर्यमा स्विता चैव विवस्वान् विबुधाधिपः ॥
मित्रो ऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ।
अष्टमस् त्व् आपवत्सस् तु परितो ब्रह्मणः स्मृताः ॥
आपश् चैपावत्सश् च पर्जन्यो ऽग्निर् दितिस् तथा ।
पदिकानां तु वर्गो ऽयम् एवं कोणेष्व् अशेषतः ॥
तन्मध्ये तु बहिर्विशद् द्विपदास् ते तु सर्वदा ।
अर्यमा च विवस्वांश् च मित्रः पृथ्वीधरस् तथा ॥
ब्रह्मणः परितो दिक्षु त्रिपदास् ते तु सर्वतः ॥

अत्रैवं प्रयोगः — गृहमध्ये समां चतुरस्रां भूमिं कृत्वा तत्र सुधालिप्तानि दश सूत्राणि समान्तरालानि पातयेत् तथैवोत्तरायतानि । एवम् एकाशीतिपदानि संपद्यन्ते । तत्रेशानकोणगे पदे शिखी पूज्यस् तस्य दक्षिणतो ऽनन्तरे पर्जन्यः । तदनन्तरे दक्षिणे पदे स्वपश्चिमेनैकीकृते जयन्तः । एवं तद्दक्षिण इन्द्रः । तद्दक्षिणे शून्यः । एवं तद्दक्षिणे सत्यः । एवं त्द्दक्षिणे भृशः । ततो दक्षिण एकस्मिन्न् एव कोष्ठ आकाशः । तद्दक्षिणे आग्नेयकोणगृह एकस्मिन्न् एव कोष्ठे वायुः । ततः पश्चिमे पूषा । ततः पश्चिमे वितथः । एवं तथा पश्चिमे गृहक्षतः । ततः पश्चिमे गन्धर्वः । [३८४] एवं ततः पश्चिमे भृङ्गराजः । ततह् पश्चिमे एकस्मिन्न् एव मृगः । नैरृतकोण एकस्मिन्न् एव पितृगणः । तत उत्तर एकस्मिन्न् एव दौवारिकः । तत उत्तरे सुग्रीवः । वियवदुत्तरे वरुणः । एवं तदुत्तरे पुष्पदन्तः । एवं तदुत्तरे वरुणः । एवं तदुत्तरे ऽसुरः । एवं तदुत्तरे शेषः । तदुत्तरे एकस्मिन्न् एव पापः । वायव्यकोणे रोगः । ततः पूर्वस्मिन्न् अहिः । ततः पूर्वस्मिन् मुख्यः एवं तत्पूर्वस्मिन् भल्लाटः । एवं तत्पूर्वस्मिन् सोमः । एवं तत्पूर्वस्मिन् सूर्यः । एवं तत्पूर्वस्मिन्न् अदितिः । एकस्मिन्न् एव दितिः । मध्ये नवसु पदेष्व् एकीकृतेषु ब्रह्मा । तत्पूर्वस्मिन् दक्षिणोत्तराभ्याम् एकीकृते ऽर्यमा । तस्य दक्षिणत एकस्मिन् सविता । तत्पश्चिमे पदत्रय एकीकृते विवस्वान् । ततः पश्चिम एकस्मिन्न् एव विबुधाधिपः । तत उत्तरे पदत्रय एकीकृते मित्रः । तत उत्तर एकस्मिन्न् एव राजयक्ष्मा । ततः पूर्वस्मिन् पदत्रय एकीकृते पृथ्वीधरः । ततः पूर्वस्मिन्न् एवापवत्सः । पर्जन्यात् पश्चिम एकस्मिन्न् एव पद आपः । आकाशात् पश्चिम एकस्मिन्न् एव सावित्रः । दौवारिकात् पूर्वस्मिन्न् एकस्मिञ् जयः । पापात् पूर्वस्मिन्न् एकस्मिन् रुद्र इति । बृहस्पतिः ।

रसान्न्नोपस्करान् गेहं विप्रेभ्यो यः प्रयच्छति ।
तस्य न क्षीयते वंशः स्वर्गम् आप्नोत्य् अनन्तकम् ॥ इति ।

इति गृहदानम् ।

विष्णुधर्मोत्तरे ।

धान्यानाम् उत्तमं धान्यं कथितं द्विजपुंगवैः ।
धान्येभ्यो ऽपि परं धान्यं रक्तशालिः प्रकीर्तितः ॥
रक्तशालिः नरो दत्वा सूर्यलोके महीयते ।
तथा गोधूमदानेन वसूनां लोकम् आप्नुयात् ॥
प्रियो भवति लोकस्य प्रियङ्गुं यः प्रयच्छति ।
ददाति यस् तु श्यामकं तस्य प्रीयन्ति देवताः ॥
अन्येषां शूकधान्यानां प्रदाननिरतो नरः ।
स्वर्गलोकम् अवाप्नोति नात्र कार्या विचारणा ॥
मुद्गदः शक्रलोकं तु यमलोकं तु माषदः ।
यथेष्टलोकम् आप्नोति तथा विप्रस् तिलप्रदः ॥

[३८५] मयोष्टकानां दानेन लोकं वै नैरृतं व्रजेत् ।

सतीनचणके दत्वा लोकं वारुणम् आप्नुयात् ॥
वायव्यं च मसूराणि राजमाषाणि धानदम् ।
अन्येषां शिष्टधान्यानां प्रदानात् स्वर्गम् आप्नुयात् ॥
इक्षुमृद्वीकयोर् दानात् परं सौभाग्यम् आप्नुयात् ॥

इति धानदानम् ।

अथाभयदानम् ।

तत्र विष्णुः- “अन्नप्रदानाधिकम् अभयदानम् । एतत्प्रदानेनाभीष्टलोकम् आपद्यते” । संवर्तः ।

भूताभयप्रदानेन सर्वान् कामान् अवाप्नुयात् ।
दीर्थम् आयुश् च लभते सदा च सुमना भवेत् ॥

नन्दीपुराणे ।

महतां सूक्ष्मदेहानां तथा च व्याधितात्मनाम् ।
हिंस्राणां सौम्यमूर्तीनां सर्वदा ह्य् अभयात् सुखम् ॥
वरम् एकस्य सत्त्वस्य जीविताभयरक्षणम् ।
न तु विप्रसहस्रस्य गोसहस्रं सदक्षिणम् ॥

मार्कण्डेयपुराणे ।

धिक् तस्य जीवितं पुंसः शरणार्थिनम् आतुरम् ।
यो नार्तम् अनुगृह्णाति वैरिपक्षम् अपि ध्रुवम् ॥
यज्ञदानतपांसीह परत्र च न भूतये ।
भवन्ति तस्य यस्यार्तपरित्राणे न मानसम् ॥

महाभारते ।

लोभाद् द्वेषाद् भयाद् वापि यस् त्यजेच् छरणागतम् ।
ब्रह्महत्यासमं तस्य पापम् आहुर् मनीषिणः ॥

तथा ।

प्राणिनां वध्यमानं हि यः शक्तः समुपेक्षते ।
स याति नरकं घोरम् इति प्राहुर् मनीषिणः ॥
चतुःसागरपर्यन्तां यो दद्यात् पृथिवीम् इमाम् ।
सत्त्वेभ्यो ऽथाभयं यश् च तयोर् अभयदो ऽधिकः ॥ इति ।

रामायणे ।

विनष्टः पश्यतो यस्य रक्षितुः शरणागतः ।
आदाय सुकृतं तस्मात् सर्वं गच्छत्य् अरक्षितः ॥

मनुः ।

यत् किंचिद् अपि दातव्यं याचितेनानसूयतः ।
उत्पत्स्यते हि तत् पात्रं यत् तारयति सर्वतः ॥
वारिदस् तृप्तिम् आप्नोति सुखम् अक्षयम् अन्नदः ।
तिलप्रदः प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम् ॥

[३८६] भूमिदः स्वर्गम् आप्नोति दीर्घम् आयुर् हिरण्यदः ।

गृहदो ऽग्र्याणि वेश्मानि रूप्यदो रूपम् उत्तमम् ॥
वासोदश् चन्द्रसालोक्यम् अश्विसालोक्यम् अश्वदः ।
अनडुद्दः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥
यानशय्याप्रदो भार्याम् ऐश्वर्यम् अभयप्रदः ।
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम् ॥ इति ।

संवर्तः ।

पादुकोपानहौ छत्रं शयनान्य् आसनानि च ।
विविधानि च रत्नानि दत्वा द्रव्यपतिर् भवेत् ॥

विष्णुः- “छत्रदानेन च स्वर्गम् आप्नोति । उपानहां प्रदानेनाश्वतरयुक्तं रथम्” । महाभारते ।

उपानहौ प्रयत्नाद् यो ब्राह्मणाय प्रयच्छति ।
मन्दरे कण्टकान् सर्वान् विषमान् संतरिष्यति ॥
शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ।

तथा ।

छत्रदो गृहम् आप्नोति गृहदो नगरं तथा ।
उपानहां प्रदानेन रथम् आप्नोत्य् अनुत्तमम् ॥

बृहस्पतिः ।

असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ।
तीक्ष्णातपं च तरति छत्रोपानत्प्रदो नरः ॥

देवीपुराणे ।

अन्नदानाश्वगोवस्त्ररौप्यच्छत्रासनानि च ।
प्रेतलोके प्रशस्तानि दानान्य् अष्टौ विशेषतः ॥
क्षीरं दधि घृतं वापि मधु तैलं गुडं तथा ।
यः प्रयच्छति विप्रेभ्यो स यमं नोपसर्पति ॥

शय्यादाने विष्णुधर्मोत्तरेषु ।

शय्यादानेन चाप्नोति भार्यां ब्राह्मणसत्तमः ।
दत्वा द्विजाय शयनं स्वास्तीर्णं सोत्तरच्छदम् ॥
कुले महति संभूतां रूपद्रविणसंयुताम् ।
तथा पक्षवतीं भार्यां प्राप्नोति वशगां तथा ॥
अनेनैव च दानेन भार्या पतिम् आप्नुयात् ॥

तथा ।

वितानकप्रदानेन सर्वपापैः प्रमुच्यते ।
छतदश् च तथा विप्रो नात्र कार्या विचारणा ॥

[३८७] छत्रं शतशलाकं तु दत्वैवातपवारणम् ।

सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥
याम्यं मार्गं तथा याति सुखेन द्विजसत्तम ।
उपानहौ तथा दत्वा श्लक्ष्णे स्नेहसमन्विते ॥
रथम् अश्वतरीयुक्तं त्रिदिवं प्रतिपद्यते ।
सर्वपापविनिर्मुक्तो याम्यं मार्गं सुखं व्रजेत् ॥
माल्यदः श्रियम् आप्नोति फलदः सफलाः क्रियाः ।
अनुलेपनदानेन सर्वतापैः प्रमुच्यते ॥

तथा ।

नरश् चन्दनदानेन रूपवान् अभिजायते ।
सौभाग्यकारकं प्रोक्तं प्रदानं कुङ्कुमस्य च ॥
तथा कर्पूरदानेन सर्वान् कामान् अवाप्नुयात् ।
मृगनाभिप्रदानेन यशसा भुवि राजते ॥

वायुपुराणे ।

चन्दनानां प्रदातारः शङ्खानां मौक्तिकस्य च ।
पापकर्तॄन् अपि पितॄंस् तारयन्ति यथा श्रुतिः ॥

वृक्षदानं महाभारते ।

पुष्पोपगं वाथ फलोपगं वा यः पादपं लम्बयते द्विजाय ।
स स्त्रीसमृद्धं बहुरत्नपूर्णं प्राप्नोत्य् अयत्नोपगतं गृहं वै ॥

यमः ।

देवतापुष्पदानेन जायते श्रीसमन्वितः ।
ऊर्ध्वं गतिम् अवाप्नोति यश् च धूपप्रदो नरः ॥
गर्भौषधम् अथाभ्यङ्गं माक्षिकं लवणं तथा ।
यः प्रयच्छति विप्राय सौभाग्यं तु स विन्दति ॥
अन्नप्रदानाद् आप्नोति यान् कामान् मनसेप्सितान् ।
पानीयस्य प्रदानेन तृप्तिं विन्दति शाश्वतीम् ॥

विष्णुः ।

यद् यद् इष्टतमं लोके यच् चस्य दयितं गृहे ।
तत् तद् गुणवते दयें तद् एवाक्षयम् इच्छता ॥

भविष्योत्तरे शय्यादानम् ।

श्रीकृष्ण उवाच ।
शय्यादानं प्रवक्ष्यामि तव पाण्डुकुलोद्वह ।
यां दत्वा सुखभागी स्याद् इह लोके परत्र च ॥
अनित्यं जीवितं यस्मात् पश्चात् को ऽन्यः प्रदास्यति ।
तावत् स बन्धुः स पिता यावज् जीवति भारत ॥

[३८८] मृतो मृत इत् ज्ञात्वा क्षणात् स्नेहो निवर्तते ।

तस्माद् यत्नेन दातव्यं स्वयं भोज्यफलादिकम् ॥
आत्मैव ह्य् आत्मनो बन्धुर् इति संचिन्त्य चेतसा ।
आत्मैव यदि नात्मानं दानधर्मैः प्रपूजयेत् ॥
को ऽन्यो हितकरस् तस्माद् यः पश्चात् पूजयिष्यति ।
तस्माच् छय्यां समासाद्य सारदारुमयीं दृढाम् ॥
सुदन्तपत्ररचनां हेमपट्टैर् अलंकृताम् ।
हंसतूलीपरिच्छन्नां शुभगण्डोपधानकाम् ॥
प्रच्छादनपटीयुक्तां धूपगन्धाधिवासिताम् ।
तस्यां संस्थापयेद् धैमं हरिं लक्ष्म्या समन्वितम् ॥
तच्छीर्षके घृतयुतं कलशं परिकल्पयेत् ।
विज्ञेयः पाण्डव सदा स निद्राकलशो बुधैः ॥
ताम्बूलकुङ्कुमक्षोदकर्पूरागुरुचन्दनम् ।
दीपकोपानहच्छत्रचामरासनभाजनम् ॥
पार्श्वेषु स्थापयेद् भक्त्या सप्त धान्यानि चैव हि ।
शयनस्थस्य भवति यद् अन्यद् उपकारकम् ॥
शृङ्गारकरवाद्यं च पञ्चवर्णवितानकम् ।
शय्याम् एवंविधां कृत्वा ब्राह्मणायोपपादयेत् ॥
सपत्नीकाय विप्राय पुण्ये ऽह्नि विधिपूर्वकम् ।
यथा न कृष्ण भवतः शून्या सागरजा तथा ॥
शय्या ममाप्य् अशून्यास्तु तथा जन्मनि जन्मनि ।
दत्वैवं तल्पम् अमलं प्रणिपत्य विसर्जयेत् ॥
एकादशे(शा)हे ऽपि तथा विधिर् एष प्रकीर्तितः ।
ददाति यदि धर्मार्थं बान्धवो बान्धवे मृते ॥
विशेषं चात्र राजेन्द्र कथ्यमानं निशामय ।
तेनोपभुक्तं यद् वस्तु किंचित् पूर्वं गृहे सता ॥
तद्गात्रलग्नं च तथा वस्त्रवाहनभाजनम् ।
यद् यद् इष्टं च तस्यासीत् तत् सर्वं परिकल्पयेत् ॥

[३८९] तथैव पुरुषं हैमं तस्यां संस्थापयेत् तदा ।

पूजयित्वा प्रदातव्या मृतशय्या यथोदिता ।
स्वर्गे पुरंदरगृहे सूर्यपुत्रालये तथा ॥
सुखं वसत्य् असौ जन्तुः शय्यादानप्रभावतः ।
पीडयन्ति न तं याम्याः पुरुषा भीषणा नरम् ॥
न धर्मेण न शीतेन बाध्यते स नरः क्वचित् ।
अपि पापसमायुक्तः स्वर्गलोकं स गच्छति ॥
विमानवरम् आरूढः सेव्यमानो ऽप्सरोगणैः ।
आभूतसंप्लवं यावत् तिष्ठेत् पातकवर्जितः ॥
शय्याप्रदानम् अमलं तव पाण्डुपुत्र संकीर्तितं सकलसौख्यनिधानभूतम् ।
तद् यो ददाति विधिवत् स्वयम् एव नाके कल्पं विकल्परहितः स विभाति सौख्यम् ॥

इति भविष्योत्तरे शय्यादानविधिः ॥ १.२११ ॥

किं च ।

सर्वधर्ममयं ब्रह्म प्रदानेभ्यो ऽधिकं यतः ।
तद् ददत् समवाप्नोति ब्रह्मलोकम् अविच्युतः ॥ १.२१२ ॥

ब्रह्म वेदस् तदध्यापयन् ब्रह्मलोकम् अविच्युतो ऽनपभ्रष्टः प्राप्नोति । अत्र हेतुः — ब्रह्मणः सर्वधर्ममयत्वेनान्येभ्यः प्रदेयेभ्यो ऽधिकम् । प्राचुर्ये मयट्प्रत्ययः । यथा शालिमया मगधाः । अन्नमयो यज्ञ इति । अभेदे वा यथा — आनन्दमयं ब्रह्मेति । अभेदश् चात्र प्रमाणप्रमेययोर् अभेदोपचारेण । बृहस्पतिः ।

सहस्रम् एव धेनूनां शतं चानुडुहां समम् ।
शतानडुत्समं यानं दशयानसमो हयः ॥
दशवाजोसमा कन्या भूमिदानं च तत्समम् ।
भूमिदानात् समं नास्ति विद्यादानं ततो ऽधिकम् ॥

यमः ।

इमां पृथ्वीं च यो दद्यात् सर्वरत्नोपशोभिताम् ।
दद्याच् छास्त्रं च विप्राणां तच् च तानि च तत्समम् ॥

ब्रह्मदानप्रसङ्गेन विद्यान्तरदानविधिर् उच्यते । तत्र भविष्योत्तरम् ।

विद्यादानविधिं वक्ष्ये याथातथ्येन ते ऽधुना ।
यथातथ्यं फलं यच् च दत्तेन यदुनन्दन ॥

[३९०] शुभे ऽह्नि विप्रकथिते गोमयेन सुशोभनम् ।

कारयेन् मण्डलं दिव्यं चतुरस्रं समन्ततः ॥
पुष्पप्रकरसंयुक्तं स्वस्तिकादिसमन्वितम् ।
पुस्तकं तत्र संस्थाप्य गन्धपुष्पैः समर्चयेत् ॥
सौवर्णीं लेखनी कार्या रौप्यं च मषिभाजनम् ।
दीपज्वालासमुद्भूतकज्जलेन मषी भवेत् ॥
औदुम्बरामत्रपाणिघृष्टबोलरसान्विता ।
लेखकं पूजयित्वा तु प्रारब्धं कारयेत् सुधीः ॥
विनीतश् चाप्रमत्तश् च ततः प्रभृति लेखकः ।
मात्रानुस्वारसंयुक्तं पदच्छेदैः समन्वितम् ॥
समानि समशीर्षाणि वर्तुलानि घनानि च ।
मात्रासु प्रतिबद्धानि यो जानाति स लेखकः ॥
लेखयेद् अक्षराणीह तद्गतेनान्तरात्मना ।
ग्रन्थानां पञ्चकं वाथ दशकं विंशम् एव वा ॥
त्रिंशं वा चत्वारिंशं वा परं पञ्चाशकं सुधीः ।
पदवाक्यप्रमाणज्ञो मधुरस्निग्धभुक् शुचिः ॥
सामाजिकेषु तृप्तेषु हृष्टेषु च शनैः शनैः ।
निष्पादयित्वा सच्छास्त्रं शैवं वाप्य् अथ वैष्णवम् ॥
निष्पादिते पुनः पूज्यो लेखको वस्त्रभूषणैः ।
संपूजयित्वा तच्छास्त्रं देयम् गुणवते तथा ॥
शास्त्रसंभावविदुषे वाचके च प्रियंवदे ।
वस्त्रयुग्मेन(ण) संयुक्तं पुस्तकं प्रतिपादयेत् ॥
सामान्यं सर्वलोकानां स्थापयेद् अथ वा मठे ।
अनेन विधिना दत्वा यत् फलं प्राप्नुयान् नरः ॥
तद् अहं ते प्रवक्ष्यामि युधिष्ठिर निबोध मे ।
यत् फलं तीर्थयात्रायां यत् पुण्यं यज्ञयाजिनाम् ॥
कपिलानां सहस्रेण सम्यग् दत्तेन यत् फलम् ।
तत् फलं समवाप्नोति पुस्तकैकप्रदानतः ॥

[३९१] पुराणं भारतं वापि रामायणम् अथापि वा ।

दत्वा यत् फलम् आप्नोति पार्थ तत् केन वर्ण्यते ॥
प्रातर् उत्थाय यः शिष्यान् अध्यापयति यत्नतः ।
वेदशास्त्रं तु पठितं कीर्तितं सदृशं कृतम् ॥
उपाध्यायस्य यो वृत्तिं दत्वाध्यापयते द्विजान् ।
किं न दत्तं भवेत् तेन धर्मकामार्थदर्शिता ॥
छात्राणां भोजनाभ्यङ्गं वस्त्रं भिक्षाम् अथापि वा ।
दत्वा प्राप्नोति पुरुषः सर्व्वकामान् असंशयः ॥
विवेको जीवितं दीर्घं सर्वकामार्थसंपदः ।
सर्वं तेन भवेद् दत्तं छात्राणां भोजने कृते ॥
शस्त्रशास्त्रकलाशिल्पं यो यम् इच्छेद् उपार्जितम् ।
तस्योपकारकरणे पार्थ कार्यं सदा मनः ॥
वाजपेयसहस्रस्य सम्यग् इष्टस्य यत् फलम् ।
तत् फलं समवाप्नोति विद्यादानान् न संशयः ॥
शिवालये विष्णुगृहे सूर्यस्य भवने तथा ।
यः कारयति धर्मात्मा सदा पुस्तकवाचनम् ॥
गोभूहिरण्यवासांसि शयनान्य् आसनानि च ।
प्रत्यहं तेन दत्तानि भवन्ति पुरुषर्षभ ॥
धर्माधर्मौ न जानाति विद्याविरहितः पुमान् ।
तस्मात् सर्वत्र धर्मात्मा विद्यादानरतो भवेत् ॥
त्रैलोक्यं चतु(त्वा)रो वर्णाश् चत्वारश् चाश्रमाः पृथक् ।
ब्रह्माद्या देवताः सर्वा विद्यादाने प्रतिष्ठिताः ॥
चतुर्युगानि(णि) राजेन्द्र एकसप्ततिसंख्यया ।
कल्पं विष्णुपुरे तिष्ठन् पूज्यमानः सुरोत्तमैः ॥
क्षितिं चागत्य कालान्ते राजा भवति धार्मिकः ।
हस्त्यश्वरथयानाढ्यो दाता भोक्ता विमत्सरी ॥
रूपसौभाग्यसंपन्नो दीर्घायुर् निरुजो भवेत् ।
पुत्रपौत्रैः परिवृतो जीवेच् च शरदां शतम् ॥
दानं विशेषफलदं जगतीह नान्यद्विद्यां विहाय वदनाब्जकृताधिवासाम् ।
गोभूहिरण्यगजवाजिरथादि सर्वं तां यच्छता किम् इह पार्थ भवेन् न दत्तम् ॥

[३९२]

इति भविष्योत्तरे विद्यादानविधिः \

मत्स्यपुराणे ।

मत्स्य उवाच ।
पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मना स्मृतम् ।
अनन्तरं च वक्त्रेभ्यो वेदा यस्य विनिर्गताः ॥
पुराणम् एकम् एवासीत् तस्मिन् कालान्तरे ऽपि च ।
त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् ॥
तदर्थो ऽत्र चतुर्लक्षैः संक्षेपेण प्रदर्शितः ।
पुराणानि दशाष्टौ च सांप्रतं तद् इहोच्यते ॥
नामतस् तान् प्र(नि)वक्ष्यामि शृणुध्वम् ऋषिसत्तमाः ।
ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये ॥
ब्राह्मं तद्दशसाहस्रं पुराणं परिकीर्त्यते ।
लिखित्वा तच् च यो दद्याज् जलधेनुसमन्वितम् ॥
वैशाखपौर्णमस्यां तु ब्रह्मलोके महीयते ॥

ग्रन्थः १०,००० इति ब्रह्मपुराणदानविधिः । (१)

एतद् एव यदा पद्मम् अभूद् धैरण्मयं जगत् ।
तत् कथान्ताश्रयं तद्वत् पाद्मम् इत्य् उच्यते बुधैः ॥
पाद्मं तत् पञ्चपञ्चाशत्सहस्राणीह पठ्यते ।
तत् पुराणं च यो दद्यात् सुवर्णकमलान्वितम् ॥
ज्येष्ठे मासि तिलैर् युक्तं सो ऽश्वमेधफलं लभेत् ॥

ग्रन्थः ५५,००० इति पद्मपुराणदानविधिः । (२)

वाराहकल्पवृत्तान्तम् अधिकृत्य पराशरः ।
यत् प्राह धर्मान् अखिलांस् तद् युक्तं वैष्णवं विदुः ॥
तदाषाढे तु यो दद्याद् घृतधेनुसमन्वितम् ।
पौर्णमास्यां विपूतात्मा स पदं याति वारुणम् ॥
त्रयोविंशतिसाहस्रं तत् पुराणं विदुर् बुधाः ॥

ग्रन्थः २३,००० इति विष्णुपुराणदानविधिः । (३)

श्रुतकल्पप्रसङ्गेन धर्मान् वायुर् इहाब्रवीत् ।
यत्र तद् वायवीयं स्याद् रुद्रमाहात्म्यसंयुतम् ॥
चतुर्विंशतिसाहस्रं पुराणं तद् इहोच्यते ।
श्रावण्यां श्रावणे मासि गुडधेनुसमन्वितम् ॥

[३९३] यो दद्याद् दधिसंयुक्तं ब्राह्मणाय कुटुम्बिने ।

शिवलोके स पूतात्मा कल्पम् एकं वसेन् नरः ॥

ग्रन्थः २४,००० इति वायुपुराणदानविधिः । (४)

यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः ।
वृत्रासुरवधोपेतं तद् भागवतम् उच्यते ॥
लिखित्वा तच् च यो दद्याद् धेमसिंहसमन्वितम् ।
पौर्णमास्यां प्रौष्ठपद्यां स याति परमं पदम् ॥
अश्टादश सहस्राणि पुराणं तत् प्रकीर्तितम् ।

ग्रन्थः १८,००० इति भागवतपुराणदानविधिः ।

यत्राह नारदो धर्मान् बृहत्कल्पाश्रयांस् त्व् इह ।
पञ्चविंशत्सहस्राणि नारदीयं तद् उच्यते ॥
तद् इषे पञ्चदश्यां तु यो दद्याद् धेनुसंयुतम् ।
परमां सिद्धिम् आप्नोति पुनरावृत्तिदुर्लभाम् ॥

ग्रन्थः २५,००० इति नारदपुराणदानम् । (६)

यत्राधिकृत्य शकुनीन् धर्माधर्मविचारणम् ।
पुराणं नवसाहस्रं मार्कण्डेयम् इहोच्यते ॥
परिलेख्य च यो दद्यात् सौवर्णकरिसंयुतम् ।
कार्तिक्यां पौण्डरीकस्य यज्ञस्य फलभाग् भवेत् ॥

ग्रन्थः ९,००० इति मार्कण्डेयदानविधिः । (७)

यत् तद् ईशानकल्पस्य वृत्तान्तम् अधिकृत्य च ।
वसिष्ठायाग्निना प्रोक्तम् आग्नेयं तत् प्रचक्षते ॥
लेखयित्वा च यो दद्याद् धेमपद्मसमन्वितम् ।
मार्गशीर्ष्यां विधानेन तिलधेनुयुतं तथा ।
तच् च षोडशसाहस्रं सर्वक्रतुफलप्रदम् ॥

ग्रन्थः १६,००० इत्य् आग्नेयपुराणदानविधिः । (८)

यत्राधिकृत्य माहात्म्यम् आदित्यस्य चतुर्मुखः ।
अघोरकल्पवृत्तान्तप्रसङ्गेन जगत्स्थितिम् ॥
मनवे कथयामास भूतग्रामस्य लक्षणम् ।
चतुर्दश सहस्राणि तथा पञ्चशतानि च ॥

[३९४] भविष्यच्चरितप्रायं भविष्यत् तद् इहोच्यते ।

तत् पौषे मासि यो दद्यात् पौर्णमास्यां विशेषतः ॥
गुडकुम्भसमायुक्तम् अग्निष्टोमफलं लभेत् ।

ग्रन्थः १४,५०० । इति भविष्यत्पुराणदानविधिः । (९)

रथन्तरस्य कल्पस्य वृत्तान्तम् अधिकृत्य च ।
सवर्णिर् नारदायाह कृष्णमाहात्म्यम् उत्तमम् ॥
यत्र ब्रह्मवराहस्य चरितं वर्ण्यते महत् ।
तद् अष्टादशसाहस्रं ब्रह्मवैवर्तम् उच्यते ॥
पुराणं ब्रह्मवैवर्तं यो दद्यान् माघमासि च ।
पौर्णमास्यां च भगवन् ब्रअह्मलोके महीयते ॥

ग्रन्थः १८,००० इति ब्रह्मवैवर्तदानविधिः । (१०)

यत्राग्निलिङ्गमध्यस्थः प्राह देवो महेश्वरः ।
धर्मार्थकाममोक्षार्थम् आग्नेयम् अधिकृत्य च ॥
कल्पं तल् लैङ्गम् इत्य् उक्तं पुराणं ब्रह्मणा स्वयम् ।
तद् एकादशसाहस्रं फाल्गुने यः प्रयच्छति ॥
तिलधेनुसमायुक्तं स याति शिवसात्म्यताम् ॥

ग्रन्थः ११,००० इति लिङ्गपुराणदानविधिः । (११)

महावराहस्य पुनर् माहात्म्यम् अधिकृत्य च ।
विष्णुनाभिहितं क्षोण्यै तद् वराहम् इहोच्यते ॥
मानवस्य प्रसङ्गेन कल्पस्य मुनिसत्तमाः ।
चतुर्विंशतिसाहस्रं पुराणं तद् इहोच्यते ॥
काञ्चनं गरुडं कृत्वा तिलधेनुसमन्वितम् ।
पौर्णमास्यां च यो दद्याद् ब्राह्मणाय कुटुम्बिने ॥
वराहस्य प्रदानेन पदम् आप्नोति वैष्णवम् ।

ग्रन्थः २४,००० इति वाराहपुराणदानविधिः । (१२)

यत्र माहेश्वरं धर्मम् अधिकृत्य च षण्मुखः ।
कल्पे तान् पुरुषे वृत्तचरितैर् उपशोभितम् ॥
स्कान्दं नाम पुराणं तद् एकाशीतिर् निगद्यते ।
सहस्राणि शतं चैकम् इति यत्नेन पठ्यते ॥

[३९५] परलेख्य च यो दद्याद् धेमशूलसमन्वितम् ।

शैवं पदम् अवाप्नोति मीने चोपगते रवौ ॥

ग्रन्थः ८१,१०० इति स्कन्दपुराणदानविधिः । (१३)

त्रिविक्रमस्य माहात्म्यम् अधिकृत्य चतुर्मुखः ।
त्रिवर्गम् अभ्यधाद् यत्र वामनं परिकीर्त्यते ॥
पुराणं दशसाहस्रं ख्यातं कल्पानुगं शिवम् ।
यच् च तद् विषुवे दद्याद् वैष्णवं यात्य् असौ पदम् ॥

ग्रन्थः १०,००० इति वामनपुराणदानविधिः । (१४)

यत्र धर्मार्थकामानां मोक्षस्य च रसातले ।
माहात्म्यं कथयामास कूर्मरूपी जनार्दनः ॥
इन्द्रध्युम्नप्रसङ्गेन ऋषीणां शक्रसंनिधौ ।
सप्तदश सहस्राणि लक्ष्मीकल्पानुषङ्गिकम् ॥
यो दद्याद् अयने कौर्मं हेमकूर्मसमन्वितम् ।
गोसहस्रप्रदानस्य स फलं प्राप्नुयान् नरः ॥

ग्रन्थः १७,००० इति कूर्मपुराणदानविधिः । (१५)

श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः ।
मत्स्यरूपी च मनवे नरसिंहोपवर्णनम् ॥
अधिकृत्याब्रवीत् सप्त सप्तकल्पमुनिव्रतम् ।
तन् मात्स्यम् इति जानीध्वं सहस्राणि त्रयोदश ॥
विषुवे हैममत्स्येन धेन्वा चैव समन्वितम् ।
यो दद्यात् पृथिवी तेन दत्ता भवति चाखिला ॥

ग्रन्थः १३,००० इति मत्स्यपुराणदानविधिः । (१६)

यदा च गारुढे कल्पे विश्वान्ते परुडो भवेत् ।
अधिकृत्याब्रवीत् कृष्णो गारुडं तद् इहोच्यते ॥
तद् अष्टादशकं चेह सहस्राणां प्रपठ्यते ।
सौवर्णहंससंयुक्तं यो ददाति शुभे ऽहनि ॥
स सिद्धिं लभते मुख्यां शिवलोके च संस्थितिम् ॥

ग्रन्थः १८,००० इति गरुडपुराणदानविधिः । (१७)

[३९६] ब्रह्मा ब्रह्माण्डमाहात्म्यम् अधिकृत्याब्रवीत् पुनः ।

तच् च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम् ॥
भविष्याणां च कल्पानां श्रूयते यत्र विस्तरः ।
तद् ब्रह्माण्डपुराणं तु ब्रह्मणा समुदाहृतम् ॥
यो दद्यात् तद्व्यतीपाते पत्रोर्णयुगसंयुतम् ।
राजसूयसहस्रस्य फलं प्राप्नोति मानवः ॥

ग्रन्थः १२,२०० इति ब्रह्माण्डपुराणदानविधिः । (१८)

इति मात्स्ये विद्यादान ।

नन्दीपुराणे ।

शास्त्रे यस्माज् जगत्सर्वं संश्रितं च शुभाशुभम् ।
तस्माच् छास्त्रं प्रयत्नेन दातव्यं शुभकर्मणा ॥
विद्याश् चतुर्दश प्रोक्ताः क्रमेण तु यथास्थिति ।
षडङ्गाश् चतुरो वेदा धर्मशास्त्रं पुराणकम् ॥
मीमांसा तर्क इति च एता विद्याः प्रकीर्तिताः ।
आयुर्वेदः सामवेदो बहुभेदः प्रकीर्तितः ॥
सर्वोत्तमा चात्मविद्या संसारभयनाशिनी ।
सर्वदुःखान्तकरणी सर्वपापविनाशिनी ॥
एता विद्याः समाख्याता बहुभेदोपभेदतः ।
कला विद्यास् तथा चान्याः शिल्पविद्यास् तथा पराः ॥
सर्वा एव महाभाग सदा सर्वार्थसाधिकाः ।
स्थिताश् च तारतम्येन विशिष्टफलसाधिकाः ॥
आत्मविद्या प्रधाना तु तथायुर्वेदसंज्ञिता ।
धर्मप्रणयिनीरेताः कलाः सर्वार्थसाधिकाः ॥
सस्यविद्या च वितता एता विद्या महाफलाः ।
यथैको जीवति प्राणी कयापि किल कुत्रचित् ॥
प्रयच्छत्य् अक्षयांल् लोकान् विधिना वाविधानतः ।
शिल्पविद्यां नरो दत्वा वैष्णवं लोकम् आप्नुयात् ॥
धर्मशास्त्रं नरो दत्वा स्वर्गे कल्पत्रयं वसेत् ।
आत्मविद्यां तु यो दद्यात् तस्य संख्या न विद्यते ॥

[३९६] पुण्यस्य गदितुं सम्यग् अपि वर्षशतायुतैः ।

एतावच् छक्यते वक्तुं यत् कल्पायुतम् उत्तमम् ॥
सत्यलोके वसेन् मर्त्यो यत्र ब्रह्मा वसेत् प्रभुः ।
अप्य् एकं नीरुजीकृत्य जन्तुं यादृशतादृशम् ॥
आयुर्वेदप्रदानेन किं न दत्तं भवेद् भुवि ।
सस्यवेदप्रदानेन संपन्ना यस्य शालयः ॥
किं नाम न कृतं तत्र पुण्यं भवति शाश्वतम् ।
मीमांसाशास्त्रमाहात्म्याद् बुद्ध्वा वै वेदनिर्णयम् ॥
किं न नाम शुभं दत्तं यज्ञकर्मप्र्वर्तनात् ।
आत्मविद्या च पौराणी धर्मशास्त्रात्मिका च या ॥
एतद् विद्यात्रयं मुख्यं सर्वदानक्रियाफलैः ।
धर्मशास्त्रं नरो बुद्ध्वा यत् किंचिद् धर्मम् आश्रयेत् ॥
तस्य धर्मं दशगुणं धर्मशास्त्रप्रदस्य वै ।
पुराणाखानविद्वांसः पितृदेवार्चने रताः ॥
लोकान् सर्वान् कामपूर्णान् यान्ति सर्वसुभोदयान् ।
पुराणविध्यादातारस् त्व् अनन्तफलभागिनः ॥
आत्मविद्याप्रदातारो नरा धर्मसमाश्रयाः ।
न पुनर् योनिनिरयं प्रविशन्ति दुरत्ययम् ॥
उत्तीर्णाः सर्वपापेभ्यः सपुत्रपशुबान्धवाः ।
मुच्यन्ते निरयैर् घोरैर् असंख्यैर् यातनात्मकैः ॥

तथा ।

श्लोकं प्रहेलिकां गाथाम् अथान्यद् वा सुभाषितम् ।
दत्वा प्रीतिकरं याति लोकम् अप्सरसां शुभम् ॥
यद् एतत् पुण्यम् आख्यातं विद्यादानस्य सांप्रतम् ।
देशकालविधिश्रद्धापात्रयोगात् तथाविधम् ॥
प्राप्नोति कोटिगुणितं फलं विद्याप्रदो नरः ।
यस् तु पुण्यपरो मर्त्यो जिगीषुः कीर्तिसाधकः ॥
स विधानेन वै दद्याद् विद्यां विविधकामदाम् ।
एवं विद्याप्रदानेन सर्वकामगुणान्वितम् ॥

[३९८] यत्नेन पात्रे दातव्यं रहस्यं ह्य् एतद् उत्तमम् ।

उद्दिश्य देवतादत्तं प्रदानं यत्र कुत्रचित् ॥
तस्यासमाप्तपुण्यस्य केन पुण्यं (?) निरूप्यते ॥

असमाप्तं पुण्यं येन सो ऽसमाप्तपुण्यम् ।

गुरुम् आराध्य यत्नेन विद्याव्याख्यानपारगम् ।
शक्त्या भक्त्या प्रणामेन धनैः सर्वैर् गुणैस् तथा ॥
यथा घटप्रतिच्छन्ना रत्नराजा महाप्रभाः ।
अकिंचित्करतां प्राप्तास् तद्वद् विद्याश् चतुर्दश ॥
विना तु गुरुणा सम्यग् बोधकेन विपश्चिता ।
नैव विद्याफलप्राप्तिर् गुरुं तस्मात् तु पूजयेत् ॥
स्रग्दामभूषणैर् नित्यं यथा देवं पिनाकिनम् ।
यो गुरुं पूजयेन् नित्यं स्थितं वा प्रस्थितं च वा ॥
तत्प्रसादेन यस्मात् स प्राप्नुयात् सर्वसंपदम् ।
तस्माद् गुरुं प्रयत्नेन महादेववद् अर्चयेत् ॥
भक्त्या प्रीत्या प्रयत्नेन श्रद्धया च सदैव हि ।
एष माता पिता ह्य् एष एष् एव च बान्धवः ॥
एष चिन्तामणिश् चैव एष एव च मे सुहृत् ।
एवं श्रद्धापरो नित्यं गुरुम् आराधयेद् बुधः ॥
अज्ञान्दुःखशमनं नरकोद्धारणं तथा ।
कुतो माता पिता वापि बान्धवो ऽपि महागुणः ॥
तादृग् अभ्युदयं कुर्याद् यादृक् कुर्याद् गुरुर् महत् ।
को ऽन्यो ज्ञानेन दुःखौघाद् उद्धरेद् भवबन्धणात् ॥
सम्यक् शास्त्रार्थबोद्धारं महादेववद् अर्चयेत् ।
वस्तुमात्रेण यो ज्ञानं शास्त्ररूपम् उपन्यसेत् ॥
स तावच् छिववत् पूज्यो भक्त्या भवभयापहः ।
यस् तु शास्त्रविवक्षाख्यं विशेषार्थं प्रपूजयेत् ॥
पदवाक्यार्थबोधेन सम्यक् शास्त्रप्रवर्तनात् ।
पूर्वोत्तरार्थसंगत्या समुदायार्थनिश्चयात् ॥
स्वशास्त्राभिमता वाचः सम्यग् यो वेत्ति तत्त्वतः ।
स तु साकाण् महाबुद्धिर् भगवान् इह शंकरः ॥

[३९९] तं भजेत् सर्वभावेन भक्तियोगेन सर्वदा ।

आदित्येन विना यद्वज् जगदन्धं विभाव्यते ॥
गुरुवाक्यं विना सर्वं तथैव हि तमोमयम् ।
तस्माद् यथा महादेवं तद्वद् एव गुरुं सदा ॥
यः पश्यति स पुरुषः सर्वधर्मान् अवाप्नुयात् ।
विद्या च मुख्यं दानानां गुरुतो ऽस्य विधिं पुनः ॥
श्रुत्वा विधेयं विधिवच् छ्रद्धया भावितात्मना ।
सत्यां तेभ्यस् तु ताम् दद्याद् विशेषाद् गुणशालिषु ॥
उपयोग्यं च यद् यस्य तत् तस्य प्रतिपादयेत् ।
सुरालयेषु सर्वेषु यथाविभवविस्तरैः ॥
दातव्यास् तु प्रयत्नेन महापुण्यफलार्थिभिः ।
दत्वा तु पुस्तकं तत्र पितॄणां धर्मम् उद्दिशेत् ॥
बान्धवानां च हृद्यानाम् अनन्तं फलम् इच्छता ।
ततो दत्वा विधानेन तां विद्यां शिवमन्दिरे ॥
ततश् च भोजयेद् विप्रान् रुद्रभक्तांश् च मानवान् ।
यथाशक्ति च कर्तव्य उत्सवः स्वेषु वेश्मसु ॥
राज्ञा च नगरे कार्यो ग्रामे ग्रामाधिपैस् तथा ।
गृहे गृहस्थैः कर्तव्य उत्सवो बन्धुभिः सह ॥
स्नातैर् भुक्तैः समालब्धैः स्रग्विभिः सुसमाहितैः ।
प्रतियुक्तैस् ततः श्राव्यं शास्त्रं श्रद्धासमन्वितैः ॥
वाचकं दक्षयेत् तत्र यथाविभवविस्तरैः ।
गुरुं च भक्त्या मतिमान् यथाशक्ति न मायया ॥
ततः पुष्पैश् च धूपैश् च श्रावकान् संप्रपूजयेत् ।
वाचको ब्राह्मणः प्राज्ञः श्रुतशास्त्रो महामहाः ॥
अभ्यस्ताक्षरविन्यस्तो वृत्तशास्त्रविशारदः ।
शब्दार्थवित् प्रगल्भश् च विनीतो मेधयान्वितः ॥
गीतज्ञो वाक्यविच् छ्राव्यस्वरो ऽनाविलभाषकः ।
गुरुश् च धर्मवान् प्राज्ञः श्रुतशास्त्रो विमत्सरः ॥

[४००] विप्रः प्रकृतसंशुद्धः श्रुतिस्मृतिमुखः सदा ।

सुवृत्तस् तर्कशास्त्रज्ञो धर्मशास्त्रविशारदः ॥
स्वभ्यस्तशास्त्रसंदोहः प्रकृतार्थप्रवर्तकः ।
नाप्रक्रमकृतव्याख्यः पौर्वापर्यार्थविष्टधी ॥

विष्टधीः प्रकृष्टवाग् इत्य् अर्थः । पौर्वापर्यविषिष्टधीर् इति पाठे पौर्वापर्ये विशिष्टा सविशेषा संबन्धप्रापणात्मिका धीर् यस्येति भावः ।

अध्यायसर्गविच्छेदविभक्तार्थप्रयोजकः ।
संस्कारैः संस्कृतां विद्यां प्राकृतैः प्राकृताम् अपि ॥
आलापमात्रैर् व्याखानैर् यश् च शिष्यान् प्रबोधयेत् ।
देशाभिधानविन्यासैर् बोधयेच् चापि यो गुरुः ॥
स गुरुः स पिता माता स तु चिन्तामणिः स्मृतः ।
यः शास्त्रोपायम् आख्याय नकेभ्यः समुद्धरेत् ॥
कस् तेन सदृशो लोके बान्धवो भुवि विद्यते ।
यस्य वाग्रश्मिसंधेन नश्यते हृद्गतं तमः ॥
महासंसाररजनीभवं शोकं महाद्युतेः ।
नोद्विजेत् तस्य पारुष्ये न च वै लोप्य पृच्छतः ॥
न चास्य व्याधिदुःखेषु मलानां चापि शोधने ।
प्रसादयेत् तु कुपितं दुःख्मग्नं समुद्धरेत् ॥
रोगेभ्यश् चापि यत्नेन पैरक्षेन् न चोद्विजेत् ।
एवं व्याख्यां शुभां श्रुत्वा गुरुवक्त्रान् नरोत्तमः ॥
विधेयं चिन्तयेद् यत्नात् परत्र हितकारणम् ।
शृणुयाच् छ्रद्दया युक्तः प्रणतो ऽभिमतो गुरोः ॥
भिषजां वचनं कार्यं गुरूणां च महात्मनाम् ।
न तत्कृतं स्वयं कुर्यात् ते समिद्धानलवत् विषः ॥
अप्रस्तुतकथाक्षेपं यः कुर्याद् अग्रतो गुरोः ।
स ब्रह्महत्याम् आप्नोति गुरुवाकेष्व् अनिश्चयात् ॥

४०१] यश् च श्रुत्वान्यतः शास्त्रं संस्कारं प्राप्य वा शुभम् ।

अन्यस्य जनयेत् कीर्तिं गुरोः स ब्रह्महा भवेत् ॥
विस्मारयेच् च वा मौढ्याद् यो ऽपि शास्त्रम् उत्तमम् ।
स याति नरकं घोरम् अक्षयं भीमदर्शनम् ॥
यस् तु बुद्ध्वा नरः शास्त्रं किंचित् कुर्याच् छुभाशुभम् ।
भवेच् छतगुणं तद् वै विज्ञाननिरतस्य वै ॥
एवं विधानतो वाच्यं वाचकेन विपश्चिता ।
तपः शमात्मकं भोगस्वर्गादिफलसाधकम् ॥
शनैर् विभोध्य वै वाच्यम् अध्यात्मादि च यद् भवेत् ।
क्रुद्धोत्किं युद्धसंक्षोभं (?) धारावर्तेन वाचयेत् ॥
सरागललितैर् वाक्यैर् वाचयेद् वृद्धसंगमे ।
नानावृत्तानुरूपेण लालित्येन च वाचयेत् ॥
सर्गाध्यायसमाप्तौ च कथापर्यन्त एव वा ।
प्रशस्तपदसंयोगे कुर्याद् इति विरामणम् ॥
समाप्ते वाचने ऽभीष्टं स्तूये(स्तुया)द् एवं विचक्षणः ।
अवधार्य जगच्छान्तिम् अन्ते शान्त्युदकं स्पृशेत् ॥
सदेहसुश्रुतं भूयाद् अस्तु व्याख्याननित्यता ।
लोकः प्रवर्ततां धर्मे राजा चास्तु जयी सदा ॥
धर्मबान्धवसंपन्नो गुरुश् चास्तु निरामयः ।
इति प्रोच्य यथायातं गन्तव्यं च विभाव्य तैः ॥
शिष्यैः परस्परं शास्त्रं चिन्तनीयं विचक्षणैः ।
कथावस्तुप्रसङ्गेन नानाव्याख्यानुभावनैः ॥
युक्तिभिश् च स्मरेद् व्याख्यां चिह्नैश् चापि स्वयंकृतैः ।
एवं दिने दिने व्याख्यां शृणुयान् नियतो नरः ॥
समग्रशास्त्रश्रवणेन पुंसां श्रद्धाप्रधानं भवतीह चेतः ।
रागं च शास्त्रात्मकम् अभ्युपैति दोषाश् च नाशं निखिलेन यान्ति ॥
यथाकथंचिच् छृणुयान् न शास्त्रम् अशद्धयोदाहृतधर्मसंघः ।

[४०२] ततः समाप्ताव् अथ शास्त्रसर्गैः कथोदये वापि विनीतबुद्धिः ॥

शक्त्यार्चयेद् वाचकम् अग्र्यम् एवं गुरुं च भक्त्या पितृवत् त्रिकार्थी ॥

धर्मार्थकामास् त्रिकः ।

एष विद्याप्रदानस्य प्रधानो विधिर् उच्यते ।
अनेनैव विधानेन ब्राह्मणे शीलशालिनि ॥
प्रबोधयति धीयुक्त युक्तिज्ञे वेदवेदिनि ।
विन्यसेच् च शुभं शास्त्रं महापुण्यजिगीषया ॥

वेदवेदिनि लब्धवेद इत्य् अर्थः ।

धनैर् वा विपुलैर् दक्षयेद् गुरुं कृत्वा सुतर्पितम् ।
अध्यापयेच् छुभाण् शिष्यान् अभिजातान् सुमेधसः ॥
एवं विद्याप्रदानं तु सर्वदानोत्तमं स्मृतम् ।
सर्वदा सर्ववर्णानां नरकप्लवम् उत्तमम् ॥

प्लव उत्तारः ।

अनेन विधिना दत्वा विद्यां पुण्यपरो नरः ।
यत् फलं त्व् अश्वमेधानां शतस्याशु कृतस्य वै ॥
राजसूयसहस्रस्य सम्यग् इष्टस्य यत् फलम् ।
तत् फलं लभते मर्त्यो विद्यादानेन भाग्यवान् ॥
सर्वसस्यसुसंपूर्णां सर्वरत्नोपशोभिताम् ।
ब्राह्मणेभ्यो महीं दत्वा ग्रहणे चन्द्रसूर्ययोः ॥
यत् फलं लभते मर्त्यो विद्यादानेन तत् फलम् ।
यावद् अक्षरसंख्यानं विद्यते शास्त्रसंश्रये ॥
तावद् वर्षसहस्राणि स्वर्गे विद्याप्रदो वसेत् ।
यायत्यः पङ्क्तयस् तत्र पुस्तके ऽक्षरसंमिताः ॥
तावतो नरकात् कुल्यान् उद्धृत्य नयते दिवि ।

कुल्या वंश्याः ।

यावच् च पत्रसंख्यानं विद्यते पुस्तके नरः ।
तावद् वर्षसहस्राणि सकुलो मोदते दिवि ॥
यावच् च पातकं तेन कृतं जन्मशतैर् अपि ।
तत् सर्वं नश्यते तस्य विद्यादानेन देहिनः ॥

[४०३] स जातो मनुजो लोके स धन्यः स च कीर्तिमान् ।

यो विद्यादानसंपर्कप्रसक्तः पुरुषोत्तमः ॥
यथाविभवतो विद्याद् विद्यां शाठ्यविवर्जितः ।
याति पुण्यमयांल् लोकान् अक्षयान् भोगभूषितान् ॥
ये ऽपि पत्रमषीपात्रलेखनीसंपुटादिकम् ।
दद्युः शास्त्राभियुक्ताय ते ऽपि विद्याप्रदायिनाम् ॥
यान्ति लोकाञ् शुभान् मर्त्याः पुण्यलोका महाधियः ।
इति विद्याप्रदानस्य महाभाग्यं प्रकीर्तितम् ॥
श्रुत्वैतत् पातकैर् मुक्तो नियतं सप्तजन्मजैः ॥

इति नन्दिपुराणे विद्यादानविधिः ।

अथ मत्स्यपुराणे कल्पदानम् ।

कल्पानुकीर्तनं वक्ष्ये सर्वपापप्रणाशनम् ।
यस्यानुकीर्तनाद् एव वीरपुण्येन युज्यते ॥
प्रथमः श्वेतकल्पस् तु द्वितीयो नीललोहितः ।
वामदेवस् त्र्तीयस् तु ततो राथन्तरो ऽपरः ॥
रौरवः पञ्चमः प्रोक्तः षष्ठः प्राण इति स्मृतः ।
सप्तमस् तु बृहत्कल्पः कन्दर्पो ऽष्टम उच्यते ॥
सत्यो ऽथ नवमः प्रोक्त ईशानो दशमः स्म्र्तः ।
व्यान एकादशः प्रोक्तस् तथा सारस्वतो ऽपरः ॥
त्रयोदश् उदानस् तु गारुडो ऽथ चतुर्दश ।
कौर्मः पञ्चदशः प्रोक्तः पौर्णमासी प्रजापतेः ॥
षोडशो नारसिंहस् तु समानस् तु ततो ऽपरः ।
आग्नेयो ऽष्टादशः प्रोक्तः सोमकल्पस् ततः परः ॥
मीनकल्प इति प्रोक्तस् तत् पुमान् इति चापरः ।
वैकुण्ठश् चापरस् तस्य लक्ष्मीकल्पस् तथापरः ॥
चतुर्विंशस् ततः प्रोक्तः सावित्रीकल्पसंज्ञितः ।
पञ्चविंशतमो घोरो वाराहस् तु ततो ऽपरः ॥
सप्तविंशस् तु वैराजो गौरीकल्पस् ततः परः ।
माहेश्वरस् ततः प्रोक्तस् त्रिपुरं यत्र घातितम् ॥

[४०४] पितृकल्पस् तथान्ते तु या कुहूर् ब्रह्मणः स्मृता ।

इत्य् अयं ब्राह्मणो मासः सर्वपापप्रणाशनः ॥
आदाव् एव हि माहात्म्यं यस्मिन् यस्मिन् विधीयते ।
तस्य कल्पस्य तन्नाम विहितं ब्रह्मणा पुरा ॥
यस् तु दद्याद् इमान् कृत्वा हैमान् पर्वणि पर्वणि ।
ब्रह्मविष्णुपुरे कल्पं मुनिभिः पूज्यते दिवि ॥
सर्वपापक्षयकरं कल्पदानं ततो भवेत् ।
मुनिरूपांस् ततः कृत्वा दद्यात् कल्पान् विचक्षणः ॥

इति मात्स्य कल्पदानम् ।

अथादेयानि ।

तत्र दक्षः ।

सामान्यं याचितं न्यस्तम् आधिर् दाराश् च तद्धनम् ।
अन्वाहितं च निक्षेपः सर्वस्वं चान्वये सति ॥
आपत्स्व् अपि न देयानि नव वस्तूनि पण्डितैः ।
यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः ॥

सामान्यं साधारणम् । याचितकं परकीयं कार्यसिद्ध्यर्थम् आनीतम् । न्यस्तनिक्षिप्तयोर् भेदो द्वितीयो ऽध्याये वक्ष्यते । दाराः कलत्रम् । तद्धनं स्त्रीधनम् । अन्यस्मै दातुम् अन्येन यद् अर्पितं तद् अन्वाहितम् । कात्यायनः ।

विक्रयं चैव दानं च न देयाः स्युर् अनिच्छवः ।
दाराः पुत्राश् च सर्वस्वम् आत्मनैव तु योजयेत् ॥

योजयेत् संधयेद् इत्य् अर्थः ।

आपत्काले तु कर्तव्यं दानं विक्रयम् एव वा ।
अन्यथा नैव कर्तव्यम् इति शास्त्रस्य निश्चयः ॥

शातातपः ।

वेदविक्रयनिर्विष्टं स्त्रीषु यच् चार्जितं धनम् ।
अदेयं पितृदेवेभ्यो यच् च क्लीबाद् उपागतम् ॥

निर्विष्टं प्राप्तम् । स्त्रीषु विक्रीतास्व् इति शेषः । क्लीबान् नपुंसकात् । तथा ।

द्रव्येणन्यायलब्धेन यः करोत्य् और्ध्वदैहिकम् ।
न स तत् फलम् आप्नोति तस्यार्थस्य दुरागमात् ॥

यमः ।

सुवर्णं रजतं ताम्रं यतिभ्यो यः प्रयच्छति ।
न स तत् फलम् आप्नोति तत्रैव परिवर्तते ॥

[४०५] पक्वम् अन्नं गृहस्थस्य वानप्रस्थस्य गोरसः ।

वृत्तिश् च भैक्षवृत्तिभ्यो न देयं पुण्यम् इच्छता ॥

वृत्तिः क्षेत्रादिका । भैक्षवृत्तयो ब्रह्मचारिपरिव्राजकाः ।

न शूद्राय हविर् दद्यात् स्वस्ति क्षीरं तिलान् मधु ।
न शूद्रात् प्रतिगृह्णीयात् तेषाम् अन्यन् निवेदयेत् ॥

स्वतीति न ब्रूयाद् इत्य् अर्थः । एतच् च प्राक्प्रणामात् । तथा च स्मृत्यन्तरम् ।

अप्रणामगते शूद्रे न ब्रूयात् स्वस्ति कुत्रचित् । इति ।

तेषां क्षीरादीनां क्रयार्थम् अन्यद् द्रव्यं शूद्राय निवेदयेत् । अङ्गिराः ।

बहुभ्यो न प्रदेयानि गौर् गृहं शयनं स्त्रियः ।
विभक्तदक्षिणा ह्य् एता दातारं तारयन्ति हि ॥

विभक्तः पृथग्भूत एक इति यावत् । तत्संबन्धिन्यो दक्षिणा विभक्तदक्षिणाः । क्वचित् पाठः ।

विभक्तदक्षिणा ह्य् एते दातारं न भजन्ति हि । इति ।

तस्यार्थः — एते प्रतिग्रहीतारः कृतदक्षिणाविभागा दातारं न भजन्ति दानफलनिमित्ततयेति ।

एका ह्य् एकस्य दातव्या न बहुभ्यः कथंचन ।
सा तु विक्रयम् आपन्ना दहत्य् आसप्तमं कुलम् ॥

एका गौर् द्विबहुभ्यो दत्ता विक्रयम् आपद्यते । तत्रायं दतुर् दोषः ।

देवतानां गुरूणां च मातापित्रोस् तथैव च ।
पुण्यं देयं प्रयत्नेन नापुण्यं चोदितं क्वचित् ॥

पापं देवतया न क्वचिद् विहितम् इत्य् अर्थः । ननु च पुण्यम् अन्यस्मै न शक्यं दातुम् अन्येन सह तस्य स्वस्वामिभावापादनासंभवात् । न च ब्रह्मदानाभयदानवद् यथाकथंचित् संबन्धमात्रं तद् दानम् इति वाच्यम् । संप्रदानस्य पुण्यस्य च संबन्धमात्रम् अशक्यं यतः । मैवम् । वचनप्रामाण्याद् देयस्य पात्रस्य च संबन्धः पुण्यं फलं ददाति पात्रं तत् फलं भुङ्क्त इत्य् एवम् आत्मा कल्प्यते । तद् अन्यथानुपपत्त्या दीयमानात् पुण्यात् पात्रे पुण्यान्तरोदयः फलभोगानुगुणः परिकल्प्यते । यत् तु न्यायविद्भिर् उक्तम् — शास्त्रफलं प्रयोक्तरीति । तत् प्रथमपुण्योदयविषयम् । द्वितीयादिधर्मोत्पत्तिस् तु वचनप्रामाण्याद् अप्रयोक्तर्य् अपि कल्प्यत एवेति ।

न केवलं पापदानम् अविहितं निषिद्धं च । तथा च यमः ।

[४०६] कल्मषं ब्राह्मणो दत्वा दाता यात्य् अशुभां गतिम् ।

विनिर्मोकविनिर्मुक्तः पन्नगेन्द्रः क्षतो यथा ॥

नन्दिपुराणे ।

पापदः पापम् आप्नोति नरो लक्षगुणं सदा ।
पुण्यदः पुण्यम् आप्नोति शतशो ऽथ सहस्रशः ॥
तथा पात्रविशेषेण दानं स्याद् उत्तरोत्तरम् ।
गुरुमातृपितृब्रह्मवादिनां दीयते तु यत् ॥
तल् लक्षगुणितं विद्यात् पुण्यं वा पापम् एव वा ।

शातातपः ।

प्रश्नपूर्वं तु यो दद्याद् ब्राह्मणाय प्रतिग्रहम् ।
स पूर्वं नरकं याति ब्राह्मणस् तदनन्तरम् ॥

इदं पठेत्यादेशः प्रश्नः ।

मा ददस्वेति यो ब्रूयाद् गवाग्निब्राह्मणेषु च ।
तिर्यग्योनिशतं गत्वा ब्राह्मणेष्व् अभिजायते ॥ १.२१२ ॥

इदानीम् अददतो ऽपि दानफलप्राप्त्युपायम् आह

प्रतिग्रहसमर्थो ऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां तान् स प्राप्नोति पुष्कलान् ॥ १.२१३ ॥

प्रतिग्रहसमर्थो ऽपि पात्रभूतो ऽपि सन् यो गोभूहिरण्यादि न प्रतिगृह्णाति स गवादिदानशीलानां ये लोकास् तान् पुष्कलान् अविकलान् प्राप्नोति ॥ १.२१३ ॥

सर्वाप्रतिग्रहे प्राप्ते क्वचिद् अपवादम् आह

कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः ।
मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥ १.२१४ ॥

कुशादिकं दीयमानं न प्रत्याख्येयम् । बृष्टा यवा धानाः । मनुः ।

शय्यां गृहान् कुशान् गन्धान् आपः पुष्पं मणीन् दधि ।
मत्स्यान् धानाः पयो मांसं शाकं चैव न निर्णुदेत् ॥

तथा ।

एधोदकं मूलफलम् अन्नम् अभ्युद्धृतं च यत् ।
सर्वतः प्रतिगृह्णीयान् मध्व् अथाभयदक्षिणाम् ॥

अभयदक्षिणाम् अभयदानम् इत्य् अर्थः । अङ्गिराः ।

खलक्षेत्रगतं धान्यं वापीकूपगतं जलम् ।
अभोज्याद् अपि तद् ग्राह्यं यच् च गोष्ठगतं पयः ॥

[४०७] विच्छिन्नेष्व् अथ पक्षेषु हविःष्व् आग्रा(ग्र)यणेषु च ।

इष्टिं त्व् अधिकृतां कुर्यात् सुकृतं च न लोपयेत् ॥

पक्षशब्देन पक्षान्ते विहितानि कर्माणि लक्ष्यन्ते । इष्टिं त्व् अधिकृतां कुर्याद् इति यागम् उद्दिश्य याचेतेत्य् अर्थः । न चैवं सुकृतं लुप्यते ।

पक्वान्नवर्जं विप्रेभ्यो गोदानं क्षत्रियाद् अपि ।
वैश्यात् तु सर्वधान्यानि शूद्राद् ग्राह्यं न किंचन ॥

अभोज्यविप्रादिविषयम् एतत् । [यत् तु]

यत् तु क्षेत्रगतं धान्यं खले वाथ गृहाद् बहिः ।
सर्वकालं ग्रहीतव्यं शूद्रेभ्यो ऽप्य् अङ्गिरोमतम् ॥
संस्कारैः शुध्यति ह्य् एवं धान्यं तेन शुचि स्मृतम् ।
तस्माद् आमं ग्रहीतव्यं मृतसूत्यन्तरेष्व् अपि ॥

इति, तद् आपद्विषयम् ॥ १.२१४ ॥

अयाचिताहृतं ग्राह्यम् अपि दुष्कृतकर्मणः ।
अन्यत्र कुलटाशण्ढपतितेभ्यस् तथा द्विषः ॥ १.२१५ ॥

अयाचितम् अप्रार्थितम् आत्मानं प्रति दातुम् आनीतं कुलटादिवर्जितस्य दुष्कृतकारिणो ऽपि ग्राह्यम् । कुलटा स्वैरिणी स्त्री । मनुः ।

आहृताम् उद्यतां भिक्षां पुरस्ताद् अप्रचोदिताम् ।
मेने प्रजापतिर् ग्राह्यम् अपि दुष्कृतकर्मणः ॥
नाश्नन्ति पितरस् तस्य दश वर्षाणि पञ्च च ।
न च हव्यं वहत्य् अग्निर् यद् ताम् अभ्यवपद्यते ॥
चिकित्सककृतघ्नानां शल्यहन्तुस् तु वार्धुषेः ।
शण्ढस्य कुलटायाश् च उद्यताम् अपि वर्जयेत् ॥

भिक्षाशब्देनात्र पक्वान्नम् उपलक्ष्यते । यमः ।

चिकित्सकस्य मृगयोर् वेश्यायाः कृतकस्य च ।
षण्ढनर्तकयोर् एव उद्यतां परिवर्जयेत् ॥

वसिष्ठः ।

शस्त्रं विषं सुरा चाप्रतिग्राह्याणि ॥ १.२१५ ॥

[४०८]

ब्राह्मणस्य निमित्तान्तरेण सर्वतः प्रतिग्रहम् आह ।

देवातिथ्यर्चनकृते गुरुभृत्यार्थम् एव च ।
सर्वतः प्रतिगृह्णीयाद् आत्मवृत्त्यर्थम् एव च ॥ १.२१६ ॥

इति दानप्रकरणम् ॥ ८ ॥

देवार्चनाद्यर्थं सर्वतः क्षत्रियादितो ऽपि गृह्णीयात् । सकलावश्यककर्मोपलक्षणं चैतत् । आत्मवृत्तिः शरीरधारणमात्रम् । न तु तृप्तिः । यद् आह विष्णुः ।

गुरून् भृत्यांश् चोज्जिहीर्षन्न् अर्चिष्यन् देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान् न तु तृप्येत् स्वयं ततः ॥
एतेष्व् अपि च कार्येषु समर्थः सन् प्रतिग्रहे ।
नादद्यात् कुलटाशण्ढपतितेभ्यस् तथा द्विषः ॥

अङ्गिराः ।

गुर्वर्थम् ऐतिथीनां वा भृत्यानां च विशेषतः ।
शूद्रान्नं प्रतिगृह्णीयान् न तु भुङ्क्ते स्वयं ततः ॥

यमः ।

कूपारामप्रपाकारी तथा वृक्षप्ररोपकः ।
कन्याप्रदः सेतुकारी स्वर्गम् आप्नोत्य् असंशयम् ॥
तडागे यस्य पानीयं सततं खलु तिष्ठति ।
स्वर्गलोकगतिस् तस्य नात्र कार्या विचारणा ॥
येषां तडागानि शुभाः प्रपाश् चारामाश् च कूपाश् च प्रतिश्रयाश् च ।
अन्नप्रदानं मधुरा च वाणी तेषाम् अयं चैव परश् च लोकः ॥

विश्णुः- “अथ कूपकर्तुस् तत्प्रवृत्ते पानीये दुष्कृतार्धं नश्यति । तदुत्सर्गकृन् नित्यतृप्तो वारुणं लोकम् अश्नुते । नालप्रदः सदा तृप्तो भवति । वृक्षरोपयितुर् वृक्षाः परलोके पुत्रा भवन्ति । वृक्षप्रदस्य वृक्षाः पसूनैर् देवान् प्रीणयन्ति । फलैश् चातिथींश् छायया चाभ्यागतान् देवे वर्षत्य् उदकेन पितॄन् । सेतुकृत् स्वर्गम् आप्नोति” । तथा ।

कूपारामतडागेषु देवतायतनेषु च ।
पुनःसंस्कारकर्ता च लभते मौलिकं फलम् ॥

नन्दीपुराणे ।

यो वापीम् अथ कूपं वा देशे तोयविवर्जिते ।
खनयेत् स नरो याति बिन्दौ बिन्दौ शतं समाः ॥
देवैर् एकत्वम् अतुलं तृष्णाक्षुद्वर्जितस् तथा ।
तडागकर्ता वसते सवर्गे युगचतुष्टयम् ॥

[४०९] यत्र विप्रो ऽथ गौर् एका पायिनी सलिलं क्वचित् ।

तडागं तादृशं कृत्वा स्वर्गे दश् युगान् वसेत् ॥

तथा ।

यो वापीम् अग्निसाक्ष्ये च विधिवत् प्रतिपादयेत् ।
कोणेषूदककुम्भस्थान् समुद्रान् अर्च्य श्रद्धया ॥
चतुरश् चतुरन्ता तु तेन दत्ता मही भवेत् ।
तत्संनिधौ द्विजान् अर्च्य विधिवत् पानभोजनैः ॥
स याति वारुणं लोकं दिव्यकामसमन्वितम् ।

मत्स्यपुराणे- “मत्स्य उवाच —

शृणु राजन् महाबाहो तडागादिषु यो विधिः ।
प्राप्य पक्षं शुभं शुक्लम् अतीते चोत्तरायणे ॥
पुण्ये ऽह्नि विप्रैः कथिते कृत्वा ब्राह्मणवाचनम् ।
प्राग् उदक्प्रवणे देशे तडागस्य समीपतः ॥
चतुर्हस्ता शुभा वेदिश् चतुरश्रा चतुर्मुखी ।
तथा षोडशहस्तः स्यान् मण्डपश् च चतुर्मुखः ॥
वेद्याश् च परितो गर्ता रत्निमात्रास् त्रिमेखलाः ।
नव सप्ताथ वा पञ्च योनिवक्त्रान्विता नृप ॥
विततस्तिमात्रा योनिः स्यात् प्राक्सप्ताङ्गुलिनिःसृता ।
गर्ताश् च तत्र हस्ताः स्युस् त्रिपर्वोच्छ्रितमेखलाः ॥
सर्वतः सर्ववर्णाः स्युः पताकाध्वजसंयुताः ।
अश्वत्थोदुम्बरप्लक्षवटशाखाकृतानि तु ॥
मण्डपस्य प्रतिदिशं द्वाराण्य् एतानि कारयेत् ।
शुभास् तत्राष्ट होतारो द्वारपालास् तथाष्ट वै ॥
अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः ।
सर्वलक्षणसंपूर्णा मन्त्रवन्तो जितेन्द्रियाः ॥
कुलशीलसमायुक्ताः स्थापकाः स्युर् द्विजोत्तमाः ।
प्रतिगर्ते तु कुलशा यज्ञोपकरणानि च ॥
व्यजनं चामरं शुभ्रं ताम्रपात्रं सुविस्तरम् ।
ततस् त्व् अनेकवर्णाः स्युर् बलयः प्रतिदैवतम् ॥

[४१०] आचार्यः प्रक्षिपेद् भूमाव् अनुमन्त्र्य विचक्षणः ।

त्रिरत्निमात्रो यूपः स्यात् क्षीरवृक्षविनिर्मितः ॥
यजमानप्रमाणं वा संस्थाप्यो भूतिम् इच्छता ।
हेमालंकारिणः कार्याः पञ्चविंशतिऋत्विजः ॥
कुण्डलानि च हैमानि केयूरकटकानि च ।
तथाङ्गुलीपवित्राणि वासांसि विविधानि च ॥
दक्षयेच् च समं सर्वान् आचार्यं द्विगुणं पुनः ।
दद्याच् छयनसंयुक्तम् आत्मनश् चापि यत् प्रियम् ॥
सौवर्णौ कूर्ममकरौ राजतौ मत्स्यडुण्डुभौ ।
ताम्रौ कुलीरमण्डूकौ वायसः शिशुमारकः ॥
एवम् आसाद्य तान् सर्वान् आदाव् एव विशांपते ।
शुक्लमाल्याम्बरधरः शुक्लमाल्यानुलेपनः ॥
सर्वौषध्युदकस्नातः स्नापितो वेदपुंगवैः ।
यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः ॥
पश्चिमं द्वारम् आश्रित्य प्रविशेद् यागमण्डपम् ।
ततो मङ्गलशब्देन भेरीणां निनदेन च ॥
रजसा मण्डलं कुर्यात् पञ्चवर्णेन तत्त्ववित् ।
षोडशारं ततश् चक्रं पद्मगर्भं चतुर्मुखम् ॥
चतुरश्रं च परितो वृत्तं मध्ये सुशोभनम् ।
वेद्याश् चोपरि तत् कृत्वा ग्रहलोकपतिंस् ततः ॥
विन्यसेन् मन्त्रतः सर्वान् प्रतिदिक्षु विचक्षणः ।
झषादीन् स्नपयेन् मध्ये वारुणं मन्त्रम् आश्रितः ॥
ब्रह्माणं च शिवं विष्णुं तत्रैव स्थापयेद् बुधः ।
विनायकं च विन्यस्य कमलाम् अम्बिकां तथा ॥
शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत् ततः ।
पुष्पभक्षफलैर् युक्तम् एवं कृत्वाधिवासयेत् ॥
कुम्भांश् च रत्नगर्भाश् च वासोभिर् अभिवेष्ट्य च ।
पुष्पगन्धैर् अलंकृत्य द्वारपालान् समन्ततः ॥
पठध्वम् इति तान् ब्रूयाद् आचार्यस् त्व् अभिपूजयेत् ।
बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ ॥

[४११] सामगौ पश्चिमे स्थाप्याव् उत्तरेण त्व् अथर्वणौ ।

उदङ्मुखो दक्षिणतो यजमान उपाविसेत् ॥
यजध्वम् इति तान् ब्रूयाद् धोतृकान् पुनर् एव च ।
उत्कृष्टमन्त्रजप्येन तिष्ठध्वम् इति जापकान् ॥
एवम् आमन्त्र्य तान् सर्वान् पर्युक्ष्याग्निं च मन्त्रवित् ।
जुहुयाद् वारुणैर् मन्त्रैर् आज्यं च समिधस् तथा ॥
ऋत्विग्भिश् चैव होतव्यं वारुणैर् एव सर्वशः ।
ग्रहेभ्यो विधिवद् धुत्वा तथेन्द्रायेश्वराय च ॥
मरुद्भ्यो लोकपालेभ्यो विधिवद् विश्वकर्मणे ।
रात्रिसूक्तं च रौद्रं च पावमानं सुमङ्गलम् ॥
जपेरन् पौरुषं सूक्तं पूर्वतो बह्वृचः पृथक् ।
शार्ङ्गं रौद्रं च सौम्यं च कूष्माण्डं जातवेदसम् ॥
सौरं सूक्तं जपेरंस् ते दक्षिणेन यजुर्विदः ।
वैराजं पौरुषं सूक्तं सौपर्णं रौद्रसंहिताम् ॥
शैशवं पञ्चनिधनं गायत्रं ज्येष्ठसाम च ।
वामदेव्यं बृहत्साम रौरवं सरथन्तरम् ॥
गवां व्रतं विकीर्णं च रक्षोघ्नं च यशस् तथा ।
गायन्ति सामगा राजन् पश्चिमद्वारम् आश्रिताः ॥
अथर्वणश् चोत्तरतः शान्तिकं पौष्टिकं तथा ।
जपेरन् मनसा देवम् आश्रित्य वरुणं प्रभुम् ॥
पूर्वेद्युर् अभितो रात्राव् एवं कृत्वाधिवसनम् ।
गजाश्वरथावल्मीकसङ्गमह्रदगोकुलात् ॥
मृदम् आदाय कुम्भेषु प्रक्षिपेच् चत्वरात् तथा ।
रोचनां च ससिद्धार्थां गन्धान् गुग्गुलुम् एव च ॥
स्नपनं तस्य कर्तव्यं पञ्चरत्नसमन्वितैः ।
पूर्वं कर्तुर् महामन्त्रैर् एवं कृत्वा विधानतः ॥
एवं क्षपाम् अतीवाह्य विधियुक्तेन कर्मणा ।
तत्र प्रभाते विमले संजाते तु शतं गवाम् ॥

[४१२] ब्राह्मणेभ्यः प्रदातव्यम् अष्टाषष्टिर् अथापि वा ।

पञ्चाशद् वाथ षट्त्रिंशत् पञ्चविंशतिर् एव च ॥
ततः सांवत्सरैः प्रोक्ते शुद्धलग्ने सुशोभने ।
वेदशब्दैः सगन्धर्वैर् वाद्यैश् च विविधिअः शुभैः ॥
कनकालंकृतां कृत्वा जले गाम् अवतारयेत् ।
सामगाय च सा देया ब्रह्मणाय विश्ंपते ॥
पात्रीम् आदाय सौवर्णी पञ्चरत्नसमन्विताम् ।
ततो निक्षिप्य मकरं मत्स्यादींस् तांश् च सर्वतः ॥
भृतां चतुर्भिर् विप्रैश् च वेदवेदाङ्गपारगैः ।
महानदीजलोपेतां दध्यक्षतविभूषिताम् ॥
उत्तराभिमुखीं न्युब्जां जलमध्ये तु कारयेत् ।
अथर्वणेन साम्ना च पुनर् माम् एत्य् ऋचेति च ॥
आपो हि ष्ठेति मन्त्रेण क्षिप्त्वागत्य च मण्डपम् ।
पूजयित्वा सदस्यां तु बलिं दद्यात् समन्ततः ॥
पुनर् दिनानि होतव्यं चत्वारि मुनिसत्तम ।
चतुर्थीकर्म कर्तव्यं देयास् तत्रापि शक्तितः ॥
दक्षिणा राजशार्दूल वरुणं संस्मरेत् ततः ।
कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च ॥
ऋत्विग्भ्यस् तु समं दत्वा मण्डपं विभजेत् पुनः ।
हेमपात्रीं च शय्यां च स्थापकाय निवेदयेत् ॥
ततः सहस्रं विप्राणाम् अथ वाष्टशतं तथा ।
भोजयेत यथाशक्ति पञ्चाशद् वाथ विंशतिम् ॥
एवम् एव पुराणेषु तडागविधिर् उच्यते ।
कूपवापीषु सर्वासु तथा पुष्करिणीषु च ॥
एष एव विधिर् दृष्टः प्रतिष्ठासु तथैव च ।
मन्त्रतस् तु विशेषः स्यात् प्रासादोद्यानभूमिषु ॥
अयं त्व् अशक्ताव् अर्धेन विधिर् दृष्टः स्वयंभुवा ।
स्वल्पेष्व् एवाग्निवत् कार्यं वित्तशाठ्याद् ऋते नृभिः ॥

[४१३] प्रावृट्कालस्थितं तोयम् अग्निष्टोमसमं स्मृतम् ।

शरत्कालस्थितं यत् स्याद् अमुष्यफलदायकम् ॥
वाजपेयातिरात्राभ्यां हेमन्ते शिशिरे स्थितम् ।
अश्वमेधसमं प्रोक्तं वसन्तसमये स्थितम् ॥
ग्रीष्मे ऽपि यत् स्थितं तोयं राजसूयाद् विशिष्यते ।
एतान् महाराज विशेषधर्मान् करोति यो ऽग्र्यामलशुद्धबुद्धिः ।
स याति रुद्रालयम् आशुपूतः कल्पान् अनेकान् दिवि मोदते च ॥
अनेकलोकान् समहस्तपादीन् भुक्त्वा परार्धद्वयम् अङ्गनाभिः ।
सहैव विष्णोः परमं पदं तत् प्राप्नोति तद् योगबलेन भूयः ॥

परार्धलक्षणम् उक्तम् ।

एकं दश शतं चैव सहस्रम् अयुतं तथा ।
लक्षं च नियुतं चैव कोटिर् अर्बुदवृन्दके ॥
खर्वं निखर्वं शङ्खं च पद्मं सागरम् एव च ।
अन्त्यं मध्यं परार्धं च क्रमेण परिकीर्तिताः ॥
स्थानान्य् अष्टादशैतानि दशभिर् गणयेत् पुमान् ।

इति मात्स्य तडागप्रतिष्ठाविधिः ।

बह्वृचगृह्यपरिशिष्टम् ।

अथातो वारुणो विधिः । वापीकूपतडागसेतुयज्ञं व्याख्यास्यामः । पुण्ये तिथिकरणे शुभे नक्षत्रे वा प्राचीं दिशं गत्वा प्राक्प्रवणम् उदक्समीपे ऽग्निम् उपसमाधाय वारुणं चरुं श्रपयित्वाज्यभागान्तं कृत्वाज्याहुतीर् जुहुयात् । समुद्रज्येष्ठा [र्व् ५.४।१६] इति त्सृभिः प्रत्यृचं ततो हविषाष्टाभिर् जुहुयात् । तत् त्वा यामि ब्रह्मणा वन्दमान विद्वान् [र्व् १.२।१५] इति पञ्च । त्वं नो अग्ने वरुणस्य विद्वान् [र्व् ४.१।४] इति द्वे । इमं मे वरुण श्रुधि [र्व् १.२।१९] इति च । स्विष्टकृतं च नवमं नव वै प्राणाः प्राणा वा आपस् तस्माद् अपो नवभिर् जुहोति । मार्जनान्ते धेनुम् अवतारयेद् अव्तीर्यमानाम् अनुमन्त्रयेतेदं सलिलं पवित्रं कुरुष्व शुद्धाः पूरा अमृताः सन्तु नित्यं तारयन्ती तीर्थाभिषिक्तं [४१४] लोकालोकं तरति तीर्यत इति पुच्छाग्रे स्वयं लग्नो ऽन्वारब्ध उत्तीर्य आपो अस्मान् मातरः शुन्धयन्तु [र्व् ७.६।२४] इत्य् अथापराजितायां दिश्य् उत्थापयेत् । सूयवसाद् भगवती हि भूया [र्व् २.३।२१] इति । हिं कृतं चेद् धिं कृण्वती वसुपत्नी वसूनाम् इति । सचेलघण्टां काञ्चनशृङ्गीं वृषभप्रजां रौप्यखुरां कांस्योपदोहां विप्राय दद्याद् इतरां वा शक्त्या दक्षिणां तत उत्सर्गं कुर्यात् । देवपितृमनुष्याः प्रीयन्ताम् इति । यद् वोत्सृजेत्य् आह शौनको ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयेत ॥

अथ वृक्षविधिः ।

तत्र मत्स्यपुराणे ।

पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु ।
तडागविधिवत् सर्वम् आसाद्य जगतीश्वर ॥
ऋत्विग्मण्डपसंभारम् आचार्यश् चापि तद्विधः ।
पूजयेद् ब्राह्मणांस् तद्वद् धेमवस्त्रानुलेपनैः ॥
सर्वौषध्युदकैः सिक्तान् पिष्टातकविभूषितान् ।
वृक्षान् माल्यैर् अलंकृत्य वासोभिर् अभिवेष्टयेत् ॥
सूच्या सौवर्णया कार्यं तद्वद् धेमशलाकया ।
फलानि सप्त चाष्टौ वा कालधौतानि कारयेत् ॥

कालधौतानि रूप्यमयाणीत्य् अर्थः ।

प्रत्येकं सर्ववृक्षाणां वेद्यन्तान्य् अधिवासयेत् ।
धूपो ऽत्र गुग्गुलुः श्रेष्ठस् ताम्रपात्रैर् अधिष्ठितान् ॥
सर्वधान्यस्थितान् कृत्वा वस्त्रगन्धानुलेपनैः ।
कुम्भान् सर्वेषु वृक्षेषु स्थाप्यित्वा नरेश्वरः ॥
सहिरण्यान् अशेषांस् तान् कृत्वा बलिनिवेदनम् ।
यथावल् लोकपालानाम् इन्द्रादीनां विधानतः ॥
वनस्पतेर् अधीवासम् एवं कार्यं द्विजातिभिः ।
ततः शुक्लाम्बरधरां सौवर्णकृतशेखराम् ॥

[४१५] कांस्योपदोहां सौवर्णशृङ्गाभ्याम् अतिशालिनीम् ।

पयस्विनीं वृक्षमध्याम् उत्सृजेद् गाम् उदङ्मुखीम् ॥
ततो ऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः ।
ऋज्यजुःसाममन्त्रैर् वा वासुणैर् अभितस् तदा ॥
तैर् एव कुम्भैः स्नपनं कुर्युर् ब्राह्मणपुंगवाः ।
स्नातः शुक्लाम्बरधरो यजमानो ऽभिपूजयेत् ॥
गोभिर् विभवतः सर्वान् ऋत्विजस् तान् समाहितः ।
हेमसूत्रैः सकटकैर् अङ्गुलीयपवित्रकैः ॥
वासोभिः शयनीयैश् च तथोपस्करपादपैः ।
क्षीराभिषेचनं दद्युर् यावद् दिनचतुष्टयम् ॥
होमश् च सर्पिषा कार्यो यवैः कृष्णतिलैर् अपि ।
पलाशसमिधः शस्ताश् चतुर्थे ऽह्नि तथोत्सवः ॥
दक्षिणा च पुनस् तद्वद् देया तत्रापि शक्तितः ।
यद् यद् इष्टतमं तद्वत् तत् तद् दद्याद् अमत्सरः ॥
आचार्ये द्विगुणं दत्वा प्रणिपत्य क्षमापयेत् ।
अनेन विधिना यस् तु कुर्याद् वृक्षोत्सवं बुधः ॥
सर्वान् कामान् अवाप्नोति पदं चानन्त्यम् अश्नुते ।
यश् चैकम् अपि रजेन्द्र वृक्षं संस्थापयेद् बुधः ॥
सो ऽपि स्वर्गे वसेद् राजन् यावद् इन्द्रायुतत्रयम् ।
भूतान् भव्यांश् च मनुजांस् तारयेद् रोमसंमितान् ॥
परमां सिद्धिम् आप्नोति पुनरावृत्तिदुर्लभाम् ॥

विष्णुः ।

एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषम् उत्सृजेत् ॥

अथ वृषोत्सर्गविधिः ।

कार्तिक्याम् आश्वयुज्यां वा तत्रादाव् एव वृषभं परीक्षेत । जीववत्सायाः पयस्विन्याः पुत्रं सर्वलक्षणोपेतं नीलं लोहितं वा मुखपुच्छपादसर्वशुक्लं यूथस्याच्छादकं ततो गवां मध्ये सुसमिद्धम् अग्निं परिस्तीर्य पौष्णं चरुं पयसा श्रपयित्वा पूषा गा अन्वेतु नः । इह रडिर् इति च हुत्वा वृषभम् अयस्कारस् त्व् अङ्कयेत् । एकस्मिन् पार्श्वे चक्रेणापरस्मिञ् शूलेनाङ्कितम् । [४१६] हिरण्यवर्णा इति चतसृभिः शं नो देवीर् इति च स्नापयेत् । स्नातम् अलंकृतम् अलंकृताभिश् चतसृभिर् वत्सतरीभिः सार्धम् आनीय रुद्रान् पुरुषसूक्तं कूष्माण्डांश् च जपेत् । पिता वत्स इति च मन्त्रं वृषभस्य दक्षिणे कर्णे । इदं च,

वृषो हिअ भगवान् धर्मश् चतुष्पादः प्रकीर्तितः ।
वृणोमि तम् अहं भक्त्या स मे रक्षतु सर्वतः ॥

एतं युवानं परि वो ददामि तेन क्रीडन्तीश् चरत प्रियेण (त्स् ३.३।९) मा हा स्म हि प्रजया मा तनुभिर् मा रधाम द्विषते सोम राजन् ॥

वृषं वत्सतरीयुक्तम् ऐशान्याम् कारयेद् दिशि ।
होतुर् वस्त्रयुगं दद्यात् सुवर्णं कांस्यम् एव च ॥
अयस्कारस्य दातव्यं वेतनं मनसेप्सितम् ।
भोजनं बहुसर्पिष्कं ब्राह्मणांश् चात्र भोजयेत् ॥
उत्सृष्टो वृषभो यस्मिन् पिबत्य् अथ जलाशये ।
तर्पयित्वाखिलान् देवान् पितॄंस् तस्योपतिष्ठति ॥
शृङ्गेणोल्लिखते भूमिं यत्र क्वचन दर्पितः ।
पितॄणाम् अन्नदानं तत् प्रभूतम् उपतिष्ठति ॥

ब्रह्माण्डपुराणे ।

फलं वृषस्य वक्ष्यामि गदतो मे निबोधय ।
वृषोत्सृष्टः पुनात्य् एव दश पूर्वान् दशापरान् ॥
यत् किंचित् पिबते तोयम् अवतीर्णो नदीं वृषः ।
वृषस्पृष्टं पितॄणां तद् अक्षयं समुदाहृतम् ॥
येन येन स्पृशेत् तोयं लाङ्गूलादिभिर् अन्ततः ।
सर्वं तद् अक्षयं तस्य पित्ड्णां नात्र संशयः ॥
शृङ्गैः खुरैश् च यद् भूमिम् उल्लिखत्य् अनिशं वृषः ।
मधुकल्याः पितॄणां तु अक्षया हि भवन्ति ताः ॥
सहस्रनल्वमात्रेण तडागेन यथाविधि ।
तृप्तिस् तु या पितॄणां तु सा वृषेणेति कथ्यते ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्कीयधर्मशास्त्रनिबन्धे

दानप्रकरणं समाप्तम् ॥ ८ ॥