०८ द्रव्य-शुद्धि-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

द्रव्यशुद्धिप्रकरणम् (७)

अधुना द्रव्यशुद्ध्युपायविधिप्रकरणम् आरभते । द्रव्यस्य दोषापगमः शुद्धिः । [१५३] अपेतदोषं हि द्रव्यं शुद्धम् इत्य् उच्यते । शास्त्रेण च काकादिसंपृक्तं द्रव्यं प्रक्षालनाच् छुध्यतीति कथ्यते । तेन तत्रापि काकादिसम्पर्कजनितदोषापगम एव शुद्धिशब्देन वाच्यः । न च प्रत्यक्षगम्यो दोष इति शुद्धिविधानान्यथानुपपत्त्या काकादियोगात् को ऽपि द्रव्ये दोषो भवतीति परिकल्प्यते । तदपगमोपायो नानाविधः प्रोक्षणप्रक्षालनादिः शास्त्रेण विधीयत इति । अशुद्धेन द्रव्येण न संव्यवहारः पुरुषेण साध्यः किं तु शोधितेनैवेति शुद्धिविधिबलाद् एव कल्प्यते । तच् च कर्पटकपालादिना द्रव्यखण्डेनापि यदि व्यवहारसिद्धिर् अस्ति तदा तद् अपि यथाविधि शोध्यम् । एवं च यच्छास्त्रकारैर् उच्यते प्रोक्षणादिना द्रव्यं शुचिताम् इयात् प्रयतं भवति शुध्यतीत्यादि, तत्र तत्र पुरुषव्यापार एव लाक्षणिको विधेयः, पुरुषस् तथा कुर्याद् यथा द्रव्यं शुचि स्याद् इत्य् अर्थः । अशुद्धेन द्रव्येण संव्यवहारतः पुरुषस्याशुचिता विहितकर्मकर्तृत्वयोग्यत्वप्रतिबन्धरूपा प्रत्यवायान्तरहेतुभूता च जायते । तस्याश् च प्रत्यवायकरताम् आह मनुः ।

लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः ।
स विनाशं व्रजत्य् आशु सूचको ऽशुचिर् एव च ॥ इति ।

तत्र द्विविधा शुद्धिः — शरीरशुद्धिर् बाह्यद्रव्यशुद्धिश् च । तत्र बाह्यद्रव्यशुद्धिं तावद् आह ।

सौवर्णराजताब्जानाम् ऊर्ध्वपात्रग्रहाश्मनाम् ।
शाकरज्जुमूलफलवासोविदलचर्मणाम् ॥ १.१८२ ॥
पात्राणां चमसानां च वारिणा शुद्धिर् इष्यते ।
चरुस्रुक्स्रुवसस्नेहपात्राण्य् उष्णेन वारिणा ॥ १.१८३ ॥

सुवर्णस्य विकारः सौवर्णः, रजतस्य विकारो राजतम् । अब्जं शङ्खशुक्त्यादि । ऊर्ध्वपात्रं माहावीरादि । ग्रहा ऐन्द्रवायवादिपात्राणि । अश्मानः पाषानाः । विदलं वेणुदलम् । पात्राणि बृस्यादीनि स्नेहरहितानि । चमसा ऊर्ध्वपात्रव्यतिरिक्तानि दारवाणि सोमपात्राणि । प्रसिद्धम् अन्यत् । एषां वारिणा शुद्धिः शौचम् इष्यते । प्रक्षालनरूपा चेयं शुद्धिः, प्रोक्षणरूपा तु स्फ्यादिपात्रविषयत्वेन पृथग् एव वक्ष्यति । चरुर् मृन्मयं भाण्डम् । स्रुग् जुह्वादिः । स्रुवः प्रसिद्धः । एतदादीनि सस्नेहान्य् आज्यलिप्तान्य् उष्णेन वारिणा प्र्क्षालनाच् छुध्यन्ति । उच्छिष्टादिनरस्पृष्टानां चैषां शुद्धिः । यद् आह देवलः ।

[२५४] उच्छिष्टाशुचिसंस्पृष्टम् अद्रवं शुध्यते ऽम्भसा ।

सद्रवं चाभिशुध्येत स्नेहगन्धविवर्जितम् ॥ इति ।

अशुचिर् अत्रोत्सृष्टमूत्रादिर् न तु काकादिः । यतः काकमुखसंस्पृष्टपात्रस्य शुद्ध्यन्तरम् आह शङ्खः- “कृणशकुनिमुखावमृष्टं निर्लिखेच् छ्वापदमुखावमृष्टं पात्रं न तत् प्रयुञ्जीत” इति । सौवर्णादेर् अलेपस्यैषा शुद्धिः । तथा च मनुः ।

निर्लेपं काञ्चनं भाण्डम् अद्भिर् एव विशुध्यति ।
अब्जम् अश्ममयं चैव राजतं चानुपस्कृतम् ॥

अनुपस्कृतं ताम्रादिना यन् न संस्पृष्टम् । तैजसानां मूत्राद्युपघाते बौधायन आह- “तैजसानां मूत्रपुरीषशुक्रासृक्कुणपवासितानाम् आवर्तनम् अल्पसंसर्गे तु परिलेखनम् । स्पर्शमात्रोपघाते त्रिःसप्तकृत्वो भस्मना परिमार्जनम् । अतैजसानाम् एवंभूतानाम् उत्सर्गः” । आवर्तनम् अग्निसंयोगेन द्रवीकरणम् । अत्र हारीतोक्तो विशेषः- “अद्भिः काञ्चनरजतशङ्खशुक्तीनां तद्गुणवर्जस्नेहवैवर्ण्योपहतानां यवगोधूमकलायमाषमसूरमुद्गगोमयचूर्णैर् धावनम् । अम्ललवणाभ्यां ताम्राणाम् । भस्मना कांस्यानाम् । षाणतैलसिकताघर्षणैः कार्ष्णायसानाम् । शिलावधर्षणमार्जनैर् मणिमयानाम्” । यवादिचूर्णानि तुल्यार्थत्वाद् विकल्पन्ते । उदकं तु सर्वैः शोधनद्रव्यैः समुच्चीयते । लोहतैक्ष्ण्यसाधनं षाणम् । आपस्तम्बः ।

गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च ।
शुध्यन्ति दशभिः क्षारैः श्वकाकोपहतानि च ॥

क्षारो भस्म । स्वल्पकालोपघातविषयम् एतत् । शङ्खः ।

सूतिकोच्छिष्टभाण्दस्य सुरामद्यहतस्य च ।
त्रिः सप्तमार्जनाच् छुद्धिर् न तु कांस्यस्य तापनम् ॥

कांस्यव्यतिरिक्तानां तैजसानां सूतिकोच्छिष्टादिके स्वल्पकालोपघाते यवचूर्णादिभिर् एकविंशतिकृत्वो मार्जनाद् एव शुद्धिर् न तु कांस्यस्य तापनम् । अर्थात् कांस्यव्यतिरिक्तानां तापनम् अपि कार्यम् इति गम्यते । [२५५] तथा ।

ब्रह्मक्षत्रविशां चैव सकृत्संमार्जनाच् छुचिः ।

द्विजोच्छिष्टयुक्तं तैजसं सकृत्संमार्जनाच् छुध्यतीत्य् अर्थः ।

चतुर्थेन तु यद् भुक्तं चतुर्भिस् तत्र मार्जनम् ।
अग्नौ प्रक्षिप्य गृह्णीयाद् धस्तौ प्रक्षाल्य यत्नतः ।
गोशृङ्गेण तु संस्पृष्टं तत् पात्रं शुचिताम् इयात् ॥

कांस्यव्यतिरिक्ततैजसपात्रविषयम् इदम् । मनुः ।

तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
भस्मनाद्भिर् मृदा चैव शुद्धिर् उक्ता मनीषिभिः ॥

तैजसानि हैमादीनि । तद् उक्तम् ।

हेम ताम्रं च रजतं कांस्यायस्त्रपुसीसकाः ।
एते च तैजसाः प्रोक्ता धातवस् तैजसोद्भवाः ॥ इति ।

शङ्खः ।

उष्णोदकेन कांस्यस्य सीसस्य त्रपुणस् तथा ।
क्षारेण शुद्धिं कांश्यस्य लोहस्य च विनिर्दिशेत् ॥
लोहानां दाहनाच् छुद्धिर् भस्मना गोमयेन वा ।
दहनात् खननाद् वापि शैलानाम् अम्भसापि वा ॥
काष्ठानां तक्षणाच् छुद्धिर् मृद्गोमयजलैर् अपि ॥

महति दोषे दहनं खननं च द्वितीयम् अल्पदोषे । बौधायनः- “तैजसानां पात्राणां गोशकृद्भस्मभिः परिमार्जनम् अन्यतमेन वा” । उशना- “सुवर्णरजतताम्रत्रपुसीसकांस्यानाम् अद्भिर् एव भस्मसंयुक्ताभिस् तैजसानां चोच्छिष्टानां भस्मना त्रिः प्रक्षालनम् । कनकमणिरजतशङ्खशुक्त्युपलानां वज्रविदलरज्जुचर्मणां चाद्भिः शौचम् । मृत्पात्रशस्त्राणाम् अग्नाव् उत्तापनम्” । काश्यपः- “सिकताभिर् दन्तशृङ्गशङ्खशुक्तिमणीनाम्” । यमः ।

रजतस्य सुवर्णस्य ताम्रस्य त्रपुणस् तथा ।
रीत्ययःकांस्यसीसानां भस्मना शौचम् इष्यते ॥

ऋष्यशृङ्गः ।

मुक्ताफलप्रवालानां शुद्धिः प्रक्षालनेन तु ।
अब्जानां चैव भाण्डानां सर्वस्याश्ममयस्य च ॥

विष्णुः- “ताम्ररीतिरपुसीसमयानाम् अम्लोदकेन” । स्मृत्यन्तरम् ।

भस्मना शुध्यते कांस्यं सुरया यन् न लिप्यते ।
सुरामूत्रपुरीषैस् तु शुध्यते तापलेखनैः ॥

[२५६] ताम्रम् अम्लेन शुध्येत् तु न चेद् आमिषलेपितम् ।

आमिषेण तु यल् लिप्तं पुनर्दाहेन शुध्यति ॥

आदिपुराणात् ।

सुवर्णरूप्यशङ्खाश्मशुक्तिरत्नमयानि च ।
कांस्यायस्ताम्ररैत्यानि त्रपुसीसमयानि च ॥
निर्लेपानि विशुध्यन्ति केवलेन जलेन तु ।
शूद्रोच्छिष्टानि शुध्यन्ति त्रिधा क्षाराम्लवारिभिः ॥

क्षारादिद्रव्यत्रित्वात् त्रिधात्वम् । मार्जनं तु दशकृत्व एव । वचनान्तरवशात् ।

सूतिकाशवविण्मूत्ररजस्वलहतानि च ।
प्रक्षेप्तव्यानि तान्य् अग्नौ यद् यद् यावत् सहेद् अपि ॥

यद् द्रव्यं यावन्तम् अग्निप्रक्षेपं सहते यावताग्निप्रक्षेपेण न नश्यति तावन्तं कुर्याद् इत्य् अर्थः । अल्पोपघातविषयम् एतत् । शातातपः ।

सुवर्णं रजतं ताम्रं त्रपु कृष्णायसं तथा ।
रीतिकासीसलोहानि शुध्यन्त्य् अश्मप्रघर्षणात् ॥

विष्णुः- “विण्मूत्ररेतःशवरक्तलिप्तम् आवर्तनोल्लेखनतापनैर् वा । त्रिःसप्तकृत्वः परिमार्जनेन भस्मादिना शुध्यति तैजसं हि” । तैजसानां रेतोविण्मूत्रासृक्कुणपादिभिश् चण्डालसूतिकोदक्यापतितादिभिश् च चिरम् उपहतानाम् आवर्तनम् । तदल्पकालोपहतानां परिलेखनं ततो ऽप्य् अल्पकालोपहतानां प्रतापनम् । स्पर्शमात्रोपहतानाम् एकविंशतिकृत्वो भस्मादिभिर् मार्जनं प्रतिमार्जने(नं) च प्रक्षालनम् । अङ्गिराः ।

गण्डूषं पदशौचं च यः कुर्यात् कांस्यभाजने ।
षण्मासं भुवि निक्षिप्य पुनश् चाकारम् आदिशेत् ॥

शातातपः ।

गवाघ्रातेषु कांस्येषु शूद्रोच्छिष्टेषु वा पुनः ।
दशभिर् भस्मभिः शुद्धिः श्वकाकोपहतेषु च ॥

हारीतः ।

संहतानां तु पात्राणां यद्य् एकम् उपहन्यते ।
तस्यैव शोधनं प्रोक्तं न तु तत्स्पृष्टिनाम् अपि ॥

शङ्खः ।

मलं संयोगजं तज्जं यस्य येनोपहन्यते ।
तस्य तच्छोषणं प्रोक्तं सामान्यं द्रव्यशुद्धिकृत् ॥

यस्य शोध्यस्य स्वभावजं संयोगजं वा मलं येन भस्मादिना द्रव्येणोपहन्यते तस्य तच्छोधकं भवतीत्य् अर्थः । [२५७] बौधायनः- “दारुमयानां पात्राणाम् उच्छिष्टसमन्वारब्धानाम् अवलेखनम् । उच्छिष्टलेपोपहतानाम् अवतक्षणं मूत्रपुरीषरेतःप्रभृतिभिर् उत्सर्गः” । शूद्राद्युच्छिष्टसमन्वारब्धानाम् इत्य् अर्थः । अवलेखनं शस्त्रादिना घर्षणम् । यमः ।

यदि मूत्रपुरीषाभ्यां रेतसा रुधिरेण वा ।
चैलं समुपहन्येत अद्भिः प्रक्षालयेत् तु तत् ॥
यद्य् अम्भसा न शुध्येत् तु वस्त्रं चोपहतं दृढम् ।
छेदनं तस्य दाहो वा यन्मात्रम् उपहन्यते ॥

प्रचेताः- “चैलानाम् उपहतानाम् उत्स्वेदनं गन्धलेपापनयनं तन्मात्रच्छेदनं वा” । पुरीषादिलिप्तवस्त्रविषयम् एतत् । व्यासः ।

वस्त्रं मृदम्भसा शुध्येद् रज्जुवैदलम् एव च ।
रज्ज्वादिकं चातिदुष्टं त्याज्यं तन्मात्रम् एव च ॥

वैदलं वेणुवेत्रनडादिमयं शूर्पादि । ब्रह्मपुराणम् ।

प्रत्यहं क्षालयेद् वस्त्रं दैवे पित्र्ये च कर्मणि ।
शवविण्मूत्रशुक्रैस् तु दूषितं च मृदम्बुभिः ॥
शोध्यादौ शोधनीयं च गोमूत्रक्षारवारिभिः ।
रज्जुवल्कलपात्राणां चमरालाबुचर्मणाम् ॥
कृत्वा शौचं ततः शुद्धिर् गोवालैर् घर्षणं ततः ।
कौशेयाविकयोर् देयं रजताक्तंजलं लघु ॥
सुवर्नाक्तं तथा दद्यात् क्षौमाणां चाथ वाससाम् ॥

कृत्वा शौचं नि(चमि)त्यम् अनुवर्तते । अङ्गिराः ।

शौचं महार्घरोमाणां वाय्वग्न्यर्केन्दुरश्मिभिः ।
रेतःस्पृष्टं शवस्पृष्टम् आविकं न प्रदुष्यति ॥

आविकस्यापि महार्घत्वं विशेषणम् । बोधायनः ।

आत्मशय्यासनं वस्त्रं जायापत्यं कमण्डलुः ।
शुचीन्य् आत्मन एतानि परेषाम् अशुचीनि च ॥

हारीतः- “यानशयनान्य् अपरिहार्याण्य् एके मन्यते । तन् न वर्णविशेषाच् छुक्लमलिनसंसर्गदर्शनात् पापसंसर्गयोगाच् च तस्मात् पृथक्शौचाच् छ्रेयांसः” इति । अस्यार्थः — पतिताद्युपहतानि तथाधोवर्णोपहतान्य् उत्तमवर्णैर् यानशयनादीन्य् [२५८] अपरिहार्याणीति पूर्वपक्षम् अभिधाय तन् नेत्यादिना सिद्धान्तितम् । धर्मशास्त्रेषु वर्णानाम् उत्तराधरभावेन विशेषदर्शनात् । तथा पातकोपपातककारिभिर् मलिनैस् तद्रहितानां शुक्लानां तुल्यशय्यादियोगेन संसर्गस्य प्रायश्चित्तनिमित्ततयाभिधानाद् अकृतैन्सो ऽपि मलिनसंसर्गे पापोत्पत्तिदर्शनात् । यथा व्याधितसंसर्गे नीरोगस्यापि रोगादयो दृश्यन्ते तद्वद् अत्रापि । तस्मात् पृथक्शय्यादिवशेन पृथक्शौचत्वम् श्रेय इति । पुनर् हारीतः- “स्वानुपपत्तौ शुच्यन्तर्धाय समामनन्ति संस्पर्से सचैलं स्नानम् एवं ह्य् आह । आसनं शयनं यानम् अन्तर्धाय समाचरेत्” । अस्यार्थः — स्वकीयशय्याद्यलाभे कम्बलादिना शुद्धेन तद् अन्तर्धायोपयोक्तव्यम् । ततः पतितादेः शय्यादिस्पर्शे सचैलं स्नानम् इति । शौचाधिकारे शङ्खलिखितौ- “सर्वेषाम् आपो मृदरिष्टेङ्गुदबिल्वतण्डुलसर्षपकल्कक्षारगोमूत्रगोमयादीनि शौचद्रव्याणि । अहतानां प्रोक्षण्म् इत्य् एके” । अहतं यन्त्रनिर्मुक्तम् । वायुपुराणात् ।

अरिष्टैश् च तथा बिल्वैर् इङ्गुदैश् चर्मणाम् अपि ।
वैदलानां च सर्वेषां चर्मवच् छौचम् इष्यते ॥

तथा ।

तथा चर्मास्थिदारूणां शृङ्गाणां चावलेखनम् ।
मणिवज्रप्रवालानां मुक्ताशङ्खोपलस्य च ॥
सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ।
स्याच् छौचं सर्ववर्णानाम् आविकानां च सर्वशः ॥

सिद्धार्थका गौरसर्षपाः । कल्को जलमिश्रं चूर्णम् । स्मृत्यन्तरम् ।

न्यग्रोधोदुम्बराश्वत्थाः प्लक्षश् चैव चतुर्थकः ।
जम्ब्वाम्रामलकाश् चैव इत्य् एते चर्मशोधकाः ॥

विष्णुः- “मणिमयम् अश्ममयम् अब्जं सप्तरात्रं महीनिखननेन मूत्रपुरीषाद्युपहतानाम् एतत् । शृङ्गदन्तास्थिमयं तक्षणेन दारवं मृमयं च जह्यात् । तथा कार्पासिकानां च भस्मना समुदाहृतम्” । यमः ।

कृष्ंआजिनानां बिल्वैश् च बालानां मृद्भिर् अम्भसा ।
**गोमूत्रेणास्थिदन्तानां क्षौमाणां गौरसर्षपैः ॥ [२५९]

बौधायनः- “कृषाजिनानां बिल्वतण्डुलैः” । पैठीनसिः- “कृष्णाजिनानां गौरसर्षपै रौरवबस्ताजिनानां बिल्वतण्डुलैः” । काश्यपः- “तृणकाष्ठरज्जुमुञ्जजतुचर्मवेणुविदलफलपत्रवल्कलादीनां चैलवच् छौचम् । मृद्दारुचर्मणाम् अत्यन्तोपहतानां त्यागः । असंस्कृतायां भूमौ न्यस्तानां प्रक्षालनम् । परोक्षाहृतानाम् अभ्युक्षणम् । एवं क्षुद्रसमिधाम् असंस्कृतामेध्याद्युपहतानाम् एकपुरुषोद्धार्याणाम्” ॥ १.१८३ ॥

स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् ।
प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् ॥ १.१८४ ॥

स्प्यादीनाम् अनोऽन्तानां यज्ञाङ्गभूतानाम् अशुचिस्पृष्टानां प्रोक्षणम् एव शुद्धिः । तथा यज्ञाङ्गभावम् अन्तरेणापि बहूनां राशीकृतानां धान्यवाससाम् अशुचिस्पृष्टानां प्रोक्षणम् एव शुद्धिः । यच् चर्मणां प्रक्षालनम् उक्तं तच् चण्डालादिस्पृष्टानाम् इदम् । शूद्रादिस्पृष्टानां बहुत्वेन चानेकपुरुषोद्धार्यत्वं लक्ष्यते । अत एव बौधायनो ऽनेकपुरुषोद्धार्याणाम् अल्पतरम् अशुचित्वं दर्सयति- “संहतानां काष्ठादीनां प्रक्षाल्यावशोषणं चण्डालादिस्पर्शे पुरुषवाह्याद् अर्वाक् । ऊर्ध्वं त्व् अनेकपुरुषोद्धार्ये दारुशिले भूमिसमे” इति । लौगाक्षिः ।

चण्डालादिपरामृष्टं प्रोक्षणाद् बहु शुध्यति ।
अल्पं प्रक्षालयेद् धान्यं तण्डुलं तु परित्यजेत् ॥

सातिशयबहुत्वविषयम् एतत् । अत्र धान्यं सतुषं सस्यमात्रं तण्डुलप्रतियोगित्वात् । तण्डुलादीनां च त्यागो ऽत्यल्पानाम् । बौधायनः ।

व्रीहयः प्रोक्षणाद् अद्भिः शाकमूलफलानि च ।
तन्मात्रस्यापहाराद् वा निस्तुषीकरणेन वा ॥

चण्डालादिस्पर्शे ऽनेकपुरुषहार्याणां व्रीहीणां प्रोक्षणम् । मूत्रादिसंसर्गे तन्मात्रापहारः । अशुचिपांस्वादिद्रव्यसंयोगे निस्तुषीकरणम् । विष्णुः- “असिद्धस्यान्नस्य यन्मात्रम् उपहन्यते तन्मात्रम् उत्सृज्य शेषस्य खण्डनप्रक्षालने कुर्यात्” । अल्पद्रव्यविषयम् एतत् । “प्रोक्षणपर्यग्निकरणावगाहनैर् व्रीहियवगोधूमानां विमर्शनप्रोक्षणैः फलीकृतानां निघर्षणदलनप्रोक्षणैः शमीधान्यानाम्” । [२६०] अयम् अर्थः — अनेकपुरुषोद्धार्याणां व्रीहियवगोधूमानां यथाक्रमं प्रोक्षणपर्यग्निकरणावगाहनैः शुद्धिः । अवगाहनं प्रक्षालनम् । व्रीह्यादितण्डुलानां फलीकृतानाम् अल्पानां विमर्शनेन । अनेकपुरुषोद्धार्याणां तु प्रोक्षणेन । खण्डनेन शुक्लीकरणं फलीकरणम् । कराभ्यां घर्षणं विमर्शनम् । शमीध्यान्यानां कोशीधान्यानां मुद्गादीनाम् अनेकपुरुषोद्धार्याणां निघर्षणेन । ततो ऽल्पानां दलनेन । अनेकपुरुषोद्धार्याणां तु प्रोक्षणेन । विमर्शनम् एव विघर्षणम् । यत् तु “तण्डुलांस् तु परित्यजेत्” इति तद् अल्पपरिमाणविषयम् । आदिपुराणात् ।

गृहदाहे समुत्पन्ने विपन्ने पशुमानुषे ।
अभोज्यस् तद्गतो व्रीहिर् धातुद्रव्यस्य संग्रहः ॥
मृन्मयेनावरुद्धानाम् अधोभुवि च तिष्ठताम् ।
यवमाषतिलादीनां न दोषं मनुर् अब्रवीत् ॥
ततः संक्रममाणाग्नौ स्थाने स्थाने च दह्यते ।
न च प्राणिवधो यत्र केवलं गृहदीपनम् ॥
तत्र द्रव्याणि सर्वाणि गृह्णीयाद् अविचारयन् ॥

षट्त्रिंशन्मतात् ।

शयनासनयानानि द्रव्यं च बहु संहतम् ।
चण्डालादिभिर् अप्य् एतत् स्पृष्टं संप्रोक्षणाच् छुचिः ॥
तूलिकाम् उपधानं च पुष्परक्ताम्बरं तथा ।
शोषयित्वातपे किंचित् करैः संमार्जयेत् पुनः ॥
पश्चाच् च वारिणाभ्युक्ष्य विनियुञ्जीत कर्मणि ।
तान्य् अप्य् अतिमलिष्ट्ःआनि अन्यैः शोध्यानि शोधनैः ॥

उपधानम् उच्छीर्षकम् । कुसुम्भपुष्पादिना रक्तं पुष्परक्तम् । तच् चाम्बरं पुष्परक्ताम्बरम् । शङ्खः- “शयनासनयानानां संहतवच् छौचम्” ॥ १.१८४ ॥

तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् ।

दारुप्रभृतीनां मूत्राद्युपहतानां मृदादिभिर् लेपगन्धापनयनाशक्तौ तक्षणम् उपहतावयवापनयनं शुद्धिः । अस्थिग्रहणं शङ्खदन्तादेर् उपलक्षणम् । तथा च मनुः ।

क्षौमवच् छङ्खशृङ्गाणाम् अस्थिदन्तमयस्य च ।
**शुद्धिर् विजानता कार्या गोमूत्रेणोदकेन च ॥ [२६१]

अस्थिमयम् अश्वपार्श्वादि । फलसंभुवां बिल्वनारीकेनालाबुप्रभृतिफलमयानां गोवालैर् घर्षणं शुद्धिः । गोपुच्छाग्ररोमाणि गोवालाः । यमः ।

अलाबुदारुपात्राणां वैदलानां तथैव च ।
अत्यन्तोपहतानां च परित्यागो विधीयते ॥
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥ १.१८५ ॥

यज्ञसाधनीभूतानां दार्वादिमयानां पात्राणां यथाविधि प्रोक्षणप्रधावनतक्षणरूपां शुद्धिं कृत्वा दक्षिणेन पाणिना संसर्गश् च कार्यः । अयं च विशेषो यज्ञ्कर्माणि क्रियमाण एव ॥ १.१८५ ॥

सोषैर् उदकगोमूत्रैः शुध्यत्य् आविककौशिकम् ।
सश्रीफलैर् अंशुपट्टं सारिष्टैः कुतपं तथा ॥ १.१८६ ॥
सगौरसर्षपैः क्षौमं पुनःपाकेन मृन्मयम् ।

ऊषः क्षारमृत्तिका । ऊषमृत्तिकासहितैर् उदकगोमूत्रैः प्रक्षाल्यमानम् आविकम् ऊर्णामयं कौशेयं च शुध्यति । कौशिकं कोशोद्भवं त्रस्रीमयम् इत्य् अर्थः । उदकगोमुत्रैर् अपि बहुवचनं दोषानिघाते ऽपि बहुकृत्वो ऽपि क्षालनप्राप्त्यर्थम् । उक्तप्रकारेणापेतदोषस्य पुनः केवलोदकेन धावनार्थं च । सश्रीफलैः सबिल्वैर् उदकगोमूत्रैर् अंशुपट्टं नेत्रपट्टम् । अरिष्टं निम्बं तत्सहितैर् उदकगोमूत्रैः कुतपं पार्वतीयच्छागरोममयं कम्बलवसनम् । अरिष्टं फेनिलफलम् । गौरसर्षपसहितैर् उदकगोमूत्रैः क्षौमम् अतसीमयं वस्त्रम् । मृन्मयं तु भाण्डं पुनःपाकेन । शुध्यतीति प्रत्येकम् अभिसंबध्यते । चण्डालादिस्पर्शे तु परित्यागः । तथा च स्मृत्यन्तरम् ।

चण्डालादैर् उपस्पृष्टं धान्यं वस्त्रम् अथापि वा ।
प्रक्षालनेन शुध्येत् तु परित्यागान् महीमयम् ॥ इति ।

उदकगोमूत्रयोः कार्यभेदात् समुच्चयः । पुरीषाद्युपहतानां वस्त्राणाम् इयं शुद्धिः । अन्येषां तु प्रोक्षणादिः । देवलः ।

ऊर्णाकौशेयकुतपाः क्षौमपट्टदुकूलजाः ।
अल्पशौचा भवन्त्य् एते शोषणप्रोक्षणादिभिः ॥
**तान् एवामेध्यसंयुक्तान् क्षालयेच् छोधनैः स्वकैः ॥ [२६२]

हारीतः- “सर्ववाससां प्लावेनेन शुद्धिः” । सर्वेषाम् आविककौशेयादीनाम् । मलेन लिप्तानाम् इयं शुद्धिः । अङ्गिराः- “उदश्विद्वल्मीकमृत्सर्षपैश् चोर्णामयानाम् । स्नेहसक्तुकुल्माषोन्मर्दनैर् गुरूणाम् ऊर्णामयानाम्” । उदश्वित् तक्रम् । ऊर्णा मेषरोमाणि । विष्णुः- “पद्माक्षैर् मृगरोमिकाणां तथा पुस्तकानाम् अभ्युक्षणम्” । षट्त्रिंशन्मतात् ।

कुसुम्भकुङ्कुमै रक्तं तथा लाक्षारसेन च ।
प्रोक्षणेनैव शुध्येत् तु चण्डालस्पर्शने तथा ॥

इदं च यदि प्रक्षालने सत्य् अत्यन्तरागनाशस् तदा वेदितव्यम् । हारीतः- “क्षारोषाभ्यां कार्पासशणमयानां पुत्रजीवकारिष्टैः क्षौमवरोर्णानां पुत्रजीवकोदश्विद्भ्याम् अजिनानां चैलवच् चर्मणां शुद्धिः । दृतीनां रञ्जनम्” । दृतिश् चर्ममयम् उदकादिभाण्डम् । उदकेन समुच्चयः सर्वेषां शोधनद्रव्याणाम् । शङ्खः- “चैलानां मृद्भस्मगोमूत्रक्षारोदकैः । चैलवद् धान्यानां पक्षचामरचर्मतृणवालवल्कवेत्रजानां च” । गौतमः- “चैलवद् रज्जुविदलचर्मणाम् उत्सर्गो वा” इति । उत्सर्गस् त्याग उपहतभागस्य । आपस्तम्बः ।

स्नानं दानं तपो होमः पितृयज्ञश् च तर्पणम् ।
पञ्च तस्य वृथा यज्ञा नीलवस्त्रस्य धारणात् ॥
मृते भर्तरि या तु स्त्री नीलवस्त्रं विधारयेत् ।
तावद् भर्ता वसेत् तस्या नरके नात्र संशयः ॥
स्त्रीणां क्रीडार्थसंयोगे शयनीये च दुष्यति ॥

ब्रह्मपुराणे ।

वस्त्रं विण्मूत्रशुक्रैस् तु दूषितं च मृदम्बुभिः ।
शोध्यादौ शोधनीयं च गोमूत्रक्षारवारिभिः ॥
रज्जुवल्कलपात्राणां चमसालाबुचर्मणाम् ।
कृत्वा शौचं ततः शुद्धिर् गोवालैर् घर्षणं पुनः ॥

काश्यपः- “तृणकाषृअरज्जुभूर्जशणक्षौमचीरचर्मवेणुविदलपत्रवल्कलदीनां चैलव्च् छौचम्” । [२६३] मनुः ।

मद्यैर् मूत्रपुरीषैर् वा श्लेष्मपूयास्रुशोणितैः ।
संस्पृष्टं नैव शुध्येत् तु पुनःपाकेन मृन्मयम् ॥

उशना- “मृन्मयानाम् उच्छिष्टलिप्तानां मार्जनम् उच्छिष्टस्पृष्टानां प्रोक्षणम्” ॥ १.१८६ ॥

कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ॥ १.१८७ ॥

कारुः शिल्पी रजकतन्तुवायादिः । तद्धस्तकृतं द्रव्यं शुचीत्य् अर्थः । अयं चाशुचित्वापवादः । तेनावरजातीयानाम् अपि कारूणां शिल्पक्रियया द्रव्यम् उत्पादयतां संस्कुर्वतां वा प्रत्यवायहेतुभावः प्रसक्तो ऽनेन निवार्यते । तेन रजकसेवकादिभिः संकृतानां वस्त्रादीनां कुविन्दसूपकारादिभिश् चोत्पाद्यमानानां द्रव्याणां शुचित्वम् एवेति वाक्यतात्पर्यम् । ततश् च येनान्नादिना द्रव्येण शिल्पिसृष्टेन विना द्रव्योत्पत्तिसंस्कारौ न भवतः, तद् अपि शुध्यत्य् एव यथा वस्त्रोत्पत्तौ खलिः । अत एव शङ्खः- “कारुहस्तः शुचिस् तथाकरात् तद्द्रव्याणि प्रोक्षितानि” इति । आकरो द्रव्योत्पत्तिस्थानम् । तद्द्रव्याणि चाकरद्रव्याणि तुरीवेमखलिप्रभृतीनि । पैठीनसिर् विशेषम् आह ।

आकराः शुचयः सर्वे वर्जयित्वा सुराकरम् । इति ।

पण्यं विक्रेयद्रव्यम् । तच् च प्रसारितम् एव शुचि । तथा च मनुः- “पण्यं यच् च प्रसारितम्” इति । तस्य चानेकपण्यग्राहकपुरुषसंसर्गादिनिमित्तो ऽशुचिभावो ऽनेनापोद्यते । भैक्षं भिक्षासमूहः । तच् च यतिब्रह्मचातिगतम् एव शुचि । तद् आह मनुः ।

ब्रह्मचारिगतं भैक्षं नित्यं मेध्यम् इति स्थितिः ।

ब्रह्मचारीति विहितिअभिक्षावृत्तिपुरुषोपलक्षणार्थम् । भिक्षावृत्त्यधिकारिण आह मनुः ।

सांतानिकं यक्ष्यमाणम् अध्वगं सार्ववेदसम् ।
गुर्वर्थपितृमात्रर्थस्वाध्यायार्थ्युपतापिनः ॥
नवैतान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभैक्षुकान् ॥

सांतानिकः संतानप्रयोजनः । सार्ववेदसो दत्तसर्वस्वः । उपतापी रोगी । अन्ये प्रसिद्धाः । यावतैवोपघातेन रथ्याप्रसर्पणादिकेन विना भैक्षं न सिध्यति, तन्मात्रस्यापवादो ऽयम् । अत एव तदतिरिक्तोपघाते शुद्धिम् आह वसिष्ठः ।

[२६४] चरन्न् अभ्यवहार्येषु उच्छिष्टं यदि संस्पृशेत् ।

भूमौ निधाय तद् द्रव्यम् आचम्य प्रचरेत् पुनः ॥ इति ।

यस्योपहतस्याचनाच् छुद्धिस् तद् इहोच्छिष्टशब्देनोच्यते । अभ्यवहार्यशब्दाच् च भैषमात्रविषयम् एतत् । किं तु परिवेषणादिविषयम् अपि । यत् तु मनुनोक्तम्,

उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन ।
अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥

इति, तद् वस्त्राद्यपरद्रव्यविषयम् । योषिन्मुखं तथा शुचीत्य् अर्थः । रतिविषयम् एतत् । यच् छङ्खः,

नारीणां चैव वत्सानां शकुनीनां शुनां मुखम् ।
रतौ प्रस्रवणे वृक्षे मृगयायाम् सदा शुचि ॥ इति

यथासंख्यम् अन्वयः । वृक्षे वृक्षस्थितफलपातने सकुनीनां शकुना(न्या)दीनां मुखं शुचि । तद् उच्छिष्टम् अपि फलं भोक्तव्यम् इत्य् अर्थः ॥ १.१८७ ॥

भूशुद्धिर् मार्जनाद् दाहात् कालाद् गोक्रमणात् तथा ।
सेकाद् उल्लेखनाल् लेपाद् गृहं मार्जनलेपनात् ॥ १.१८८ ॥

भूशुद्धिहेतवो मार्जनादयो व्यस्ताः समस्ताश् च । यथोपघातं मार्जनं शलाकाहस्तकेन पांश्वाद्यपनयः । दाहस् तृणकाष्ठादेस् तत्र दहनम् । कालो गन्दार्द्रताद्यपनयनपर्यन्तः । गोक्रमणं गोभिर् आक्रमणम् । गवां तत्र निवसनम् इति यावत् । तद् उक्तं मनुना- “गवां च परिवासेन भूमिः सुध्यति” इति । सेको जलस्य पञ्चगव्यस्य वा प्रक्षेपः । उल्लेखनं खननम्, दुष्टभागापनयनं च । लेपनं गोमयेन सोदकेन । गृहं तु श्वादिस्पृष्टं मार्जनाल् लेपनाच् च । शुध्यतीति शेषः । गृहस्य भुवो ऽनन्यत्वेन तच्छुद्धिविधानेनैव शुद्धत्वसिद्धौ पृथग्वचनम् उपघाताभावे ऽपि तस्य मार्जनं लेपनं च प्रत्यहं कार्यम् एव, अन्यथा तद् अशुद्धं स्याद् इति ज्ञापनार्थम् । देवलः ।

यत्र प्रसूयते नारी म्रियते दह्यते ऽपि वा ।
चण्डालाध्युषितं यच् च यत्रारिष्टादिसंगतिः ॥
एवं कश्मलभूयिष्ठा भूर् अमेध्या प्रकीर्तिता ।
श्वसूकरखरोष्ट्राद्यैः संस्पृष्टा दुष्टतां व्रजेत् ॥
**अङ्गारधूमकेशास्थिभस्मादैर् मलिना भवेत् ॥ [२६५]

एवम् अमेध्यदुष्टमलिनसंज्ञा निर्दिश्य भूमेर् व्यवस्थया शुद्धिम् आह ।

खननाद् दहनाच् चैव उपलेपनधावनात् ।
पर्जन्यवर्षनाच् चैव शौचं पञ्चविधं स्मृतम् ॥
पञ्चधा वा चतुर्धा वा भूर् अमेध्या विशोध्यते ॥

ऊनसंख्यापक्षे ऽन्त्यावलोपः । श्मशानभुवः पञ्चभिः शुद्धिः । तद् अन्यस्या अमेध्याया वर्षणवर्जितैश् चतुर्भिः ।

दुष्टा द्विधा त्रिधा वापि शोध्यते मलिनैकधा ।

चिरकालं दुष्टाया उपलेपनान्तैस् त्रिभिर् अल्पदुष्टाया उल्लेखनदाहाभ्याम् । चिरकालं मलिनाया उल्लेखनेनैव । यमः ।

खननात् पूरणाद् दाहाद् अभिवर्षणलेपनात् ।
गोभिर् आक्रमणात् कालाद् भूमिः शुध्यति सप्तभिः ॥

पूरणं खाताया उपरि मृद उपवापः प्रक्षेप इति यावत् । तथा ।

अरथ्या वसुधा मेध्या ग्राममध्ये क्वचित् क्वचित् ।
सर्वत्र वसुधा मेध्या यत्र लोपो न दृश्यते ॥

बौधायनः- “घनाया उपघाते भूमेर् उपलेपनम् । सुषिरायाः कर्षणम् । क्लिन्नाया मेध्यम् आहृत्य प्रच्छादनम्” । मेध्यां मृदम् आहृत्य प्रच्छादयेद् इत्य् अर्थः । तथा ।

गोचर्ममात्रम् अब्बिन्दुर् गोः शोधयति पातितः ।
समूढम् असमूढं वा यत्र लेपो न दृश्यते ॥

अब्बिन्दुर् उदकबिन्दुर् गोः पृथिव्या यावति भूभाग एकादश गाव उपविशन्ति तावद् गोचर्म तन्मात्रं शोधयति । संवर्तः ।

गृहशुद्धिं प्रवक्ष्यामि अन्तःस्थशवदूषणे ।
प्रोत्सृज्य मृमयं भाण्डं सिद्धम् अन्नं तथैव च ॥
गृहाद् अपास्य तत् सर्वं गोमयेनोपलेपयेत् ।
गोमयेनोपलिप्याथ छागेनाघ्रापयेद् बुधः ॥
ब्राह्मणैर् मन्त्रपूतैश् च हिरण्यकुशवारिणा ।
सर्वम् अभ्युक्षयेद् वेश्म ततः शुध्यत्य् असंशयम् ॥

बौधायनः- “उद्बद्धशवोपघाते वेश्मनो भित्तितक्षणं सूर्यरश्म्यनुप्रवेशो ऽग्निज्वालाभिमर्शनं वा” । [२६६] मरीचिः ।

गृहेष्व् अजातिसंवेशे शुद्धिः स्याद् उपलेपनात् ।
संवासो यदि जायेत दाहतापौ विनिर्दिशेत् ॥
धान्यानि सर्वबीजानि गुडादिरस एव च ।
कुसुम्भकार्पासम् अथो शुध्येद् वार्यग्निशोधनात् ॥

अजातिश् चण्डालादिः । संवासश् चिरसंवसनम् । [दाहो] दीपनं ज्वलनम् । वार्यग्निशोधनम् । वारिणाभ्युक्षणेनाग्निना पर्यग्निकरणेनेति द्रष्टव्यम् । बौधायनः- “अनेकपुरुषोद्धार्ये दारुशिले भूमिसमे इष्टकाश् च शङ्कुलीकृताः । सुधादिप्रतिबद्धाः । एतानि भूमिसमानि” । चण्डालादिस्पर्शे भूमिशुद्धिवद् एषां शुद्धिः कार्येत्य् अर्थः ॥ १.१८८ ॥

गोघ्राते ऽन्ने तथा केशमक्षिकाकीटदूषिते ।
सलिलं भस्म मृद् वापि प्रक्षेप्तव्यं विशुद्धये ॥ १.१८९ ॥

गवा प्रयत्नत उपात्तगन्धे तथा केशादिसंयोगदूषिते समुद्धृतोपहतभागे ऽन्ने सलिलादीनाम् एकं शुद्धये प्रक्षिपेत् । मक्षिकाशब्देनात्र नीलमक्षिकोच्यते । तथा च बौधायनः- “अथ हविर्दोषान् व्याख्यस्यामः । यथैतन् नीलमक्षिकाशातिकामत्कुणाश् चैलशिरसो यूतिकेति” । आशातिका मक्षिका या विष्ठाक्रिमिहेतुः । कीटो ऽत्रामेध्यसर्पी । तथा च आपस्तम्बः- “यस्मिंश् चानेकशः स्याद् अन्यद् वा मेध्यम् अमेध्यैर् अवमृष्टं कीटो वामेध्यसर्पी” इति । यत् तु शातातपवचनम्,

दन्तधावनम् अङ्गुल्या प्रत्यक्षलवणं तथा ।
मृत्तिकाभक्षणं चैव गोमांसाशनवत् स्मृतम् ॥

इति, तद् रोगप्राप्तकेवलमृद्भक्षणविषयम् । यत् तु गौतमेनोक्तम्- “नित्यम् अभोज्यं केश्कीटावपन्नम्” इति, तद् अकृतसलिलादिप्रक्षेपविषयम् । केशग्रहणं नखदेर् उपलक्षणम् । तथा च बौधायनः- “केशकीटनखरोमाखुपुरीषाण्य् अन्ने दृष्ट्वा तन्मात्रम् अन्नं परित्यज्याद्भिः संप्रोक्ष्य भस्मना संस्पृष्टस्य पुनः प्रशस्तवचसानुगृह्णीयाद् ॐ भूर् बुवः स्वर् ओम् इत्य् उपरिष्टाअद् ध्यात्वा पुनर् एव भुञ्जीत” । यमः ।

मक्षिकाकेशम् अन्ने तु पतितं यदि दृश्यते ।

[२६७] मूषकस्य पुरीषं वा क्षुतं यच् चावधूनितम् ॥

भस्मना स्पृष्टम् अश्नीयाद् अभ्युक्ष्य सलिलेन वा ।
अवक्षुतं केशपतङ्गकीटैर् उदक्यया वा पतितैश् च दृष्टम् ।
अलातभस्माम्बुहिरण्यभागैः संस्पृष्टम् अन्नं मनुर् आह भोज्यम् ॥

अवधूतं यदुपरि वस्त्रावधूननं कृतम् । अवक्षुतं यदुपरि क्षवयुः क्रियते । शातातपः ।

केशकीटयुताघ्रातं मक्षिकोपहतं च यत् ।
क्लीबाभिशस्तपतितैः सूतिकोदक्यनास्तिकैः ॥
दृष्टं वा स्याद् यद् अन्नं तु तस्य निष्कृतिर् उच्यते ।
अभ्युक्ष्य किंचिद् उद्धृत्य तद् भुञ्जीताविशेषतः ॥
भस्मना वापि संस्पृश्य संस्पृशेद् उदकेन वा ।
सुवर्णरजताभ्यां वा भोज्यं घ्रातम् अजेन वा ॥

केशकीटयुतं वाघ्रातं वा गवादिनापि वेति विग्रहः । हारीतः- “अनिष्टगन्धोपघ्रातश्रवणदर्शने केशकीटपिपीलिकादिभिर् अन्नाद्यस्योपघातेन काञ्चनरजतभस्मताम्रवैडू(दू)र्यगोवालाजिनदर्भाणाम् अन्यतमेनाद्भिः संस्पृष्टमन्त्रप्रोक्षणपर्यग्निकरणम् आदित्यदर्शनात् पूतं भवति” । बौधायनः- “सिद्धहविषां महतां च वायसप्रभृत्युपहतानां तद्देशपिण्डम् उद्धृत्य पवमानः स्व(सुव)र्जन इत्येतेनाभ्युक्षणम् । मधूदके पयोविकारे च पात्रात् पात्रान्तरनयनेन शौचम् । एवं तैलसर्पिषी । उच्छिष्टसमन्वारब्धे तूदके ऽवधायोपयोजयेत्” । पराशरः ।

शृतं द्रोणाधिकस्यान्नं श्वकाकैर् उपघातितम् ।
अत्याज्यं तस्य शुद्ध्यर्थं ब्राह्मणेभ्यो निवेदयेत् ॥
कर्तव्यं वचनं तेषाम् अन्नसंस्कारकर्मणि ।
श्वकाकाद्यवलीढं तु त्यक्त्वा लालासमन्वितम् ॥
गायत्र्यष्टसहस्रेण मन्त्रपूतेन वारिणा ।
भोज्यं तत् प्रोक्षितं विप्रैः पर्यग्निकृतम् एव च ॥

जमदग्निः ।

शृतान्नं द्रोणमात्रस्य श्वकाकाद्युप्घातितम् ।
ग्रासम् उद्धृत्याग्नियोगात् प्रोक्षणात् तत्र शोधनम् ॥

[२६८] अन्नम् ऐकाहिकं पक्वं श्वकादाद्युपघातितम् ।

केशकीटावपन्नं च तद् अप्य् एवं विशुध्यति ॥
क्रीतस्यापि विनिर्दिष्टम् एवम् एव मनीषिभिः ।
न द्विः पक्वं पर्युषितं शुकाद्य् एवं कदाचन ॥

द्रोणं पञ्चाशदधिकं पलशतद्वयम् । ऐकाहिकान्नशुद्धिर् अल्पधनपुरुषविषया । पराशरः ।

काकश्वाद्युपलीढं तु द्रोणान्नं न विवर्जयेत् ।
ग्रासम् उद्धृत्य तन्मात्रं यत् तु लालाकृतं भवेत् ॥
होमोदकेन वाभ्युक्षेद् राजतेनाम्बुनाथ वा ।
अग्निज्वाल्पसंस्पर्शात् सुवर्णमधुसर्पिषाम् ॥
विप्राणां मन्त्रघोषेण पूतं भोज्यं च तद् भवेत् ।
श्ववायसगवाश्वादैर् जग्धम् अन्नं तु तद् भवेत् ॥
स्नेहो वा गोरसो वापि तत्र शुद्धिः कथं भवेत् ।
अन्नं परित्यजेत् तत्र स्नेहस्य पचनेन तु ॥
अश्वत्थलतया शुद्धिर् गोरसस्य विधीयते ॥

ऐकाहिकान्नापेक्षयाल्पान्नविषयम् एतत् । स्नेहगोरसयोर् द्रोषाद् अल्पयोः पाकादिशुद्धिः । बौधायनः- “त्वक्केशनखाखुपिरीषाणि दृष्ट्वा तद्देशपिण्डान्नम् उद्धृत्याद्भिर् अभ्युक्ष्य भस्मनावकीर्याभिघार्य पुनर् अभिप्रोक्ष्य वाचा प्रशस्तं संवाद्य भुञ्जीत” ॥ १.१८९ ॥

त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।
भस्माद्भिः कांश्यलोहानां शुद्धिः प्लावो द्रवस्य च ॥ १.१९० ॥

गोघ्रातकेशाइदूषितानां त्रपुप्रभृतीनां क्षारोदकाम्लोदकाभ्यां केवलवारिणा च क्षालनं शुद्धिः । कांस्यलोहानां तु भस्माद्भिः । उपघातानुसारेण क्षाराम्लोदकयोर् विकल्पसमुच्चयौ । केवलं तु वारि समुच्चीयते । एवं सर्वत्र द्रव्यशुद्धौ । क्षारो भस्म । कांस्यस्य गवाघ्राताद्युपघातवतो भस्ममार्जने संख्याविशेषम् आह आपस्तम्बः ।

गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यत्नतः ।
**शुध्यन्ति दशभिः क्षारैः श्वकाकोपहतानि च ॥ [२६९]

द्रवस्य क्षीरादेर् गोघ्राताद्युपहतस्य प्लावो ऽद्भिस् तदाधारधाण्डस्य पूरणं बहिरवसेकपर्यन्तम् । तथा च ब्रह्माण्डपुराणम् ।

द्रवद्रव्याणि भूरीणि परिप्लाव्यानि चाम्भसा ।
सस्यानि व्रीहयश् चैव शाकमूलफलानि च ॥
त्यक्त्वा तु दूषितं भागं प्लाव्यान्य् अथ जलेन च ॥

एषा शुद्धिर् गोरसस्यैव । तथा च शङ्खः ।

श्रपणं घृततैलानां प्लावनं गोरसस्य तु ।
भाण्डानि प्लावयेद् अध्भिः शाकमूलफलानि च ॥
सिद्धम् अन्नं तथा सर्पिः क्षीरं च दधि चाम्बु च ।
एतेषाम् अवलीढानां तेजसा शुद्धिर् इष्यते ॥
काकमार्जारनकुलसर्पमूषकपक्षिभिः ।
संस्कृतं तु यदा ह्य् अन्नम् अवलिह्येत केनचित् ॥
सुवर्णवर्णताम्रोल्कैर् गोवालै रजतेन वा ।
स्पृष्टम् एकतरेणापि भोज्यं घ्रातम् अजेन वा ॥

तथा- “घृतदधिपयस्तक्राणाम् आकरभाण्डस्थितानाम् दोषः” । तथा ।

आघारदोषे तु नयेत् पात्रात् पात्रान्तरं द्रवम् ।
घृतं तु पायसं क्षीरं तथैवेक्षुरसो गुडः ॥
शूद्रभाण्डस्थितं तक्रं तथा मधु न दुष्यति ॥

तेजसा शुद्धिः पर्यग्निकरणम् । एषा च शुद्धिः सर्पिषि पाकेन समुच्चीयते । क्षीरादिषु प्लावनेन । सुवर्णवर्णत्वं ताम्रस्य विशेषणम् । इयं च शुद्धिः केशादिदोषम् उद्धृत्य कार्या । दुष्टद्रव्याणाम् उत्पवनादिशुद्ध्यन्तरम् आह लौगाक्षिः ।

पयोदधिविकारादि शुचि पात्रान्तरस्थितम् ।
प्लावनोत्पवनाभ्यां च पर्यग्निकरणेन च ॥

उत्पवनं वस्त्रादिना गालनम् । यमः ।

आममासं घृतं क्षौद्रं स्नेहाश् च फलसंभवाः ।
म्लेच्छभाण्डस्थिता दूष्या निष्क्रान्ताः शुचयः स्मृताः ॥

तथा ।

देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेषु च ।

[२७०] काकैः श्वभिश् च संस्पृष्टम् अन्नं तन् न विवर्जयेत् ।

तन्मात्रं अन्नम् उद्धृत्य शेषं संस्कारम् अर्हति ॥

देवद्रोणी देवयात्रा । तन्मात्रम् उपहतमात्रम् । देवद्रोणीग्रहणं बह्वन्नोपलक्षणर्थम् । प्रसङ्गाद् अनुग्रहान्तराण्य् अप्य् उच्यन्ते ।

तीर्थे विवाहे यात्रायां संग्रामे देशविप्लवे ।
नगरग्रामदाहे च स्पृष्टास्पृष्टिर् न दुष्यति ॥

तीर्थादिसाध्यकर्ममात्रानुग्रहो ऽयम् । शातातपः ।

गोकुले कन्दुशालायां तैलयन्त्रेक्षुयन्त्रयोः ।
अमीमांस्यानि शौचानि स्त्रीषु बालान्तरेषु च ॥

वृद्धशातातपः ।

तापनं घृततैलानां प्लवनं गोरसस्य च ।
तन्मात्रम् उद्धृतं शुध्येत् कठिनं तु पयो दधि ॥
अविलीनं तथा सर्पिर् विलीनं तपनेन तु ॥ १.१९० ॥
अमेध्याक्तस्य मृत्तोयैः शुद्धिर् गन्धापकर्षणात् ।

अमेध्येनाक्तस्य लिप्तस्य द्रव्यस्य मृत्तोयैर् अमेध्यगन्धापकर्षणे सति शुद्धिर् भवति । शुद्ध्यन्तरविधाव् अप्य् एतत् कर्तव्यम् । गन्धग्रहणात् स्नेहलेपयोर् ग्रहणम् । अत एव देवलः ।

प्रलेपस्नेहगन्धानाम् अशुद्धौ व्यपकर्षणम् ।
शौचलक्षणम् इत्य् उक्तं मृदम्भोगोमयादिभिः ॥

अमेध्यम् आह स्मृत्यन्तरम् ।

दूषितं वर्जितं दुष्टं कश्मलं चेति लिङ्गिनाम् ।
चतुर्विधम् अमेध्यं च सर्वं व्यक्यास्यते पुनः ॥
शुच्य् अप्य् अशुचिसंस्पृष्टं द्रव्यं दूषितम् उच्यते ।
अभक्ष्यभोज्यपेयानि वर्जितानि पर्चक्षते ॥
त्यक्तः पतितचण्डालौ ग्रामसूकरकुक्कुटौ ।
श्वा च नित्यं विवर्ज्याः स्युः षद् एते धर्मतः समाः ॥
स्रवणः सूतकी सूती मत्तोन्मत्तरजस्वलाः ।

[२७१] मृतबन्धुदुष्टश् च वर्ज्या ह्य् अष्टौ स्वकालतः ॥

स्वेदास्रुबिन्दवः फेनो निरस्तं नखरोम च ।
आर्द्रं चर्मासृग् इत्य् एतद् दुष्टम् आहुर् मनीषिणः ॥
मानुषास्थि शवो विष्ठा रेतोमूत्रार्तवानि च ।
कुणपं पूयम् इत्य् एतत् कश्मलं चेत्य् उदाहृतम् ॥
दूषितैः प्रोक्षितेनापि शुद्धिस् तूक्ता विधानतः ।
दुष्टैर् मार्जनसंस्कारैः कश्मलैः सर्वथा भवेत् ॥

देवलश् च ।

मानुषास्थि शवं विष्ठा रेतोमुत्रार्तवं वसा ।
स्वेदास्रु दूषिका श्लेष्मा मद्यं चामेध्यम् उच्यते ।\

मनुः ।

वसा शुक्रम् असृङ् मज्जा मूत्रं विट् कर्णविट् नखाः ।
श्लेष्मास्त्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥

कर्णविट् कर्णमलः । एषां च देहाच् च्युतानाम् एवामेध्यतेति स एवाह- “देहाच् चैव मलाश् च्युताः” इति । यस् तु भस्मादिभिः सह मृदो विकल्प उक्तः सो ऽमेध्याक्तव्यतिरिक्तविषयः । अत्र कात्ययनोक्तो विशेषः ।

प्राणिनाम् अपि शौचार्थे जलेन प्राङ् मृदा ततः ।
तच् च मूत्रपुरीषाक्ते कार्यम् अन्यत्र वारिणा ॥

मूत्रपुरीषग्रहणं सकलशारीरमलोपलक्षणार्थम् । तथा च मनुः ।

विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्य् आदेयम् अर्थवत् ।
दैहिकानां मलानां च शुद्धिषु द्वादशस्व् अपि ॥

अर्थवद् इति गन्धलेपक्षयकरम् इत्य् अर्थः । अत्र कर्णविट्प्रभृतिषूत्तरेषु षट्सु मलेषु मृद्ग्रहणं वैकल्पिकम्,

आददीत मृदो ऽपश् च षत्सु पूर्वेषु शुद्धये ।
उत्तरेषु तु षट्स्व् अद्भिः केवलाभिर् विशुध्यति ॥

इति स्मृत्यन्तरवचनात् । शुद्धिविकल्पस्य व्यवस्थाम् आह बौधायनः ।

देशं कालं तथात्मानं द्रव्यम् द्रव्यप्रयोजनम् ।
उपपत्तिम् अवस्थां च ज्ञात्वा शौचं समाचरेत् ॥
वाक्शस्तम् अम्बुनिर्णिक्तम् अज्ञातं च सदा शुचि ॥ १.१९१ ॥

[२७२]

वाक्शस्तादि सदा शुचि । शुद्धम् इदम् इति ब्राह्मणैर् अभिहितं वाक्शतम् । अम्बुना प्रोक्षितं प्रक्षालितं वाम्बुभिर् निर्णिक्तम्, यद् उपहतम् इति न विज्ञातं तद् अज्ञातं तत्र शुद्धिः । यत्र शुद्धिविशेषो न विहितस् तत्रैतत् ॥ १.१९१ ॥

शुचि गोतृप्तिकृत् तोयं प्रकृतिस्थं महीगतम् ।

गोतृप्तिकृद् गोस् तृष्णां शमयितुं समर्थम् । प्रकृतिस्थं स्वाभाविकरूपरसगन्धम् । महीगतं भुवि स्थितं च यत् तोयं तच् छुचि शुद्धम् । मनुः ।

आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर् भवेत् ।
अव्याप्ताश् चेद् अमेध्येन गन्धवर्णरसान्विताः ॥

देवलः ।

अविगन्धा रसोपेता निर्मलाः पृथिवीगताः ।
अक्षीणाश् चैव गोपानाद् आपः शुद्धिकराः स्मृताः ॥
उद्धृता वा प्रशस्ताः स्युः शुद्धैः पात्रैर् यथाविधि ।
एकरात्रोषितास् तास् तु त्यजेद् अपः समुद्धृताः ॥

तथा ।

अक्षोभ्याणि तडाकानि नदीवापीसरांसि च ।
चण्डालाद्यशुचिस्पर्शे तीर्थतः परिवर्जयेत् ॥
अक्षोभ्याणाम् अपाम् नास्ति प्रस्रुतानां च दूषणम् ।
स्तोकानाम् उद्धृतानां च दोषैर् दुष्टत्वम् उच्यते ॥

तीर्थम् अवतरणमार्गः ।

बृहस्पतिः ।

मृतपञ्चनखात् कूपाद् अत्यन्तोपहतात् तथा ।
अपः समुद्धरेत् सर्वाः शेषं वस्त्रेण शोधयेत् ॥
वह्निप्रज्वालनं क्र्त्वा कूपे पक्वेष्टकाचिते ।
पञ्चगव्यं न्यसेत् पस्चान् नवतोयसमुद्भवे ॥

हारीतः ।

वापीकूपतडाकेषु मानुषं शीर्यते यदि ।
अस्थिचर्मविनिर्मुक्तं दूषितं श्वखरादिभिः ।
उद्धृत्य तज् जलं सर्वं शोधनं परिमार्जनम् ॥

देवलः ।

श्वसृगालखरोष्ट्रैश् च क्रव्याद्भिश् च जुगुप्सितम् ।
**उद्धरेद् उदकं सर्वं पञ्च पिण्डान् मृदस् तथा ॥ [२७३]

आपस्तम्बः ।

उपानच्छ्लेष्मविण्मूत्रस्त्रीरजो मद्यम् एव च ।
एभिर् विदूषिते कूपे कुम्भानां षष्टिम् उद्धरेत् ॥

विष्णुः ।

जलाशयेष्व् अथालयेषु स्थावरेषु महीतले ।
कूपवत् कथिता शुद्धिर् महत्सु च न दूषणम् ॥
भूमिष्ठम् उदकं पुण्यं वैऋष्ण्यं यत्र गोर् भवेत् ।
अव्याप्तं चेद् अमेध्येन तद्वद् एव शिलागतम् ॥
सोमसूर्यांशुपातेन मारुतस्पर्शनेन च ।
गवां मूत्रपुरीषेण शुध्यन्त्य् आप इति स्मृतम् ॥

स्वल्पतरोपघातविषयम् एतत् । यमः ।

प्रपास्व् अरण्ये घटगं च कूपे द्रोण्यां जलं कोशगतास् तथापः ।
ऋते ऽपि शूद्रात् तद् अपेयम् आहुर् आपद्गतः काङ्क्षितवत् पिबेत् तु ॥

अस्यार्थः — यद्य् अपि शूद्रव्यतिरिक्तवर्णसंबन्धि प्रपादि तथापि तद्गतजलम् अनापद्य् अपेयम् । आपदि तु पेयम् एव । प्रपा जलसत्रशालाः । ताश् चेद् अरण्यगा गृहाद् अन्यत्रेत्य् अर्थः । घटगं घटस्थम् । द्रोणी अश्मादिमयी सर्वार्थजलपात्री । कोशो दृतिः । मनुः ।

अजा गावो महिष्यश् च ब्राह्मण्यश् च प्रसूतिकाः ।
दशरात्रेण शुध्यन्ति भूमिष्ठं च नवोदकम् ॥

ब्रह्मपुराणे ।

नवखातजलं गावो ब्राह्मण्यश् छागयोनयः ।
शुध्यन्ति दिवसैर् एव दशभिर् नात्र संशयः ॥

कात्यायनः ।

अपो निशि न गृह्णीयाद् गृह्णन्न् अपि कदाचन ।
विवृत्याग्निम् उपर्य् आसां धाम्नोधाम्न इतीरयन् ॥

आपदि रात्रौ यदि गृह्णीयाद् अग्निम् उपरि धारयन् दाह्मोधाम्न इति मन्त्रं पठन् गृह्णीयात् । शातातपः ।

अन्त्यैर् अपि कृते कूपे सेतौ वाप्यादिके तथा ।
तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं न विद्यते ॥

यमः ।

चण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम् ।
गोमूत्रयावकाहारस् त्रिरात्रेणैव शुध्यति ॥

तथा ।

मार्गं मांसं श्वचण्डालक्रव्यादादिनिपातितम् ॥ १.१९२ ॥

श्वादिभिर् निपातितस्य मृगादेर् मांसं तथा स्याच् छुचीत्य् अर्थः । क्रव्यादा व्याघ्रादयः ॥ १.१९२ ॥

[२७४]

रश्मिर् अग्निर् अजश् छाया गौर् अश्ववसुधानिलाः ।
विप्रुषो मक्षिका स्पर्शे वत्सः प्रस्रवणे शुचिः ॥ १.१९३ ॥

रश्मिः सूर्यादिप्रभा । अजश् छागः । रज इति वा पदच्छेदः । तथाग्नी रज इति पाठः कार्यः । प्रसिद्धम् अन्यत् । छाया निषिद्धव्यतिरिक्ता । वसुधा च श्मशानादिव्यतिरिक्ता । विप्रुषः सुसूक्ष्मा जलकणाः । तासां च शुचिजलप्रभवानाम् अपि चण्डालाद्यङ्गसङ्गिना वायुना नीयमानानाम् अशुचित्वाशङ्कायां शुचित्वविधिर् अयम् । रश्म्यादिस्पर्शे तु शुचिर् इति वाक्यार्थः । मक्षिकाग्रहणम् अवर्जनीयस्पर्शानां दंशमशकादीनाम् उपलक्षणार्थम् । तथा वत्सः प्रस्रवण ऊधःस्थक्षीरस्य स्तनात् प्रत्यानयने शुचिः । यमः ।

आसनं शयनं यानं स्त्रीमुखं कुतपं क्षुरम् ।
न दूषयन्ति विद्वांसो यज्ञेषु चमसं तथा ॥
गौर् अश्वो विप्रुषश् छाया मक्षिकाः शलभाः शुकाः ।
अजो हस्तीरणच्छत्रं रश्मयश् चन्द्रसूर्ययोः ॥
भूमिर् अग्नी रजो वायुर् आपो दधि घृतं पयः ।
सर्वाण्य् एतानि शुद्धानि स्पर्शे मेध्यानि नित्यशः ॥

शङ्खः- “धूमाग्निरजांसि वायुवीरितानि सुद्धानि” । ब्रह्मपुराणे ।

स्वदाराणां रतौ वक्त्रं शिशोश् च प्रसवे शुचि ।

देवलः ।

अजाश्वा मुखतो मेध्या गावो मेध्यास् तु पृष्ठतः ।
तरवः पुष्पिता मेध्या ब्राह्मणाश् चैव सर्वतः ॥

शिवधर्मोत्तरे ।

विप्रो गौर् मक्षिका स्वेदः छायाग्निः सूर्यरश्मयः ।
रजो भूर् वायुर् आपश् च मेध्यानि स्पर्शने सदा ॥

तथा ।

स्नातश् च विप्रश् चास्नातश् छागगोमक्षिकास् तथा ।
दुष्टभूमेश् च संलग्नास् तेषां सूर्यांशुमारुताः ॥
चण्डालपतितच्छाया स्पर्शे दुष्टा तु नो भवेत् ॥

तथा ।

शुद्धौ विप्रस्य द्वौ पादौ मार्जारस्य तु सर्वदा ॥

तथा ।

ग्रामयाजी पर्वकारो भृतकाध्यापकस् तथा ।
विक्रीणाति च यो वेदं तीर्थयज्ञतपांसि च ॥

[२७५] अयाज्ययाजी भृतको नित्यं शूद्रोपदेशकृत् ।

अन्यदोषैस् तु रहितः पूज्यः स्याद् वेदपारगः ॥

अन्यदोषाः सुरापानदयः । तथा ।

चण्डालपतितच्छाया स्पर्शे दुष्टा तु नो भवेत् ।
भस्म क्षौद्रं सुवर्णं सदर्भाः कुतपास् तिलाः ॥

पतितचण्डालयोर् गोपुच्छ्परिमितदेशाद् विप्रकृष्टदेशस्थयोश् छायानुग्रहो ऽयम् ।

अपामार्गशिरीषार्काः पद्मान्य् आमलका मणिः ।
माल्यानि सर्षपा दूर्वाः सदा भद्राः प्रियङ्गवः ॥
अक्षताःसिकता लाजा हरिद्रा चन्दनं यवाः ।
पलाशखदिराश्वत्थतुलसीधातकीवटाः ॥
एतान्य् आहुः पवित्राणि ब्रह्मज्ञा हव्यकव्ययोः ।
पौष्टिकानि मलघ्नानि शोधनानि च देहिनाम् ॥
तेष्व् आपो गोशकृन् मृच् च पवित्राणि विशेषतः ।
अप्राप्तव्यवहारश् च दूतो दारोन्मुखो व्रती ॥
मक्षिकाः सततं धाना भूमिस् तोयं हुताशनः ।
आत्मशय्यासनं यानं जायापत्यं कमण्डलुः ॥

तथा ।

अजाविगोमहिष्यश् च न दुष्यन्ति कदाचन ।
अकश्मलैः समिद्धो ऽग्निर् दुर्मनुष्यैर् अदूषितः ॥
सर्वेषाम् अप्य् अशौचानां समर्थः शोधनाय सः ।
द्रव्याणाम् अग्निदग्धानां मेध्यत्वम् उपजायते ॥
ज्वालाभिः स्पृष्टमात्राणां शुचित्वं नियतं भवेत् ।
अग्नेर् वृषलभुक्तस्य ग्रहणं नास्त्य् अनापदि ॥
श्वपाकवृषलौ भोक्तुं ब्राह्मणाग्निं तु नार्हतः ।
वृषलाग्नेर् अमेध्याग्नेः सूतकाग्नेश् च कर्हिचित् ॥
पतिताग्नेश् चिताग्नेश् च शिष्टैर् ग्रहणं स्मृतम् ॥

अप्राप्तव्यवहारो बालः । वृषलश् चण्डालः । ब्रह्मपुराणे ।

ग्रामाद् दण्डशतं मुक्त्वा (?) नगराच् च चतुर्गुणम् ।
**भूमिः सर्वत्र शुद्धान्या यत्र लेपो न द्ēश्यते ॥। [२७६]

चतुर्विंशत्यङ्गुलो हस्तः । हस्तचतुष्टयं दण्डः ॥ १.१९३ ॥

अजाश्वं मुखतो मेध्यं न गौर् न नरजा मलाः ।

अजा अश्वाश् चेत्य् उभयं मुखतो मुखप्रदेशे मेध्यं शुद्धम् । गौर् मुखप्रदेशे मेध्या न भवति । नरशरीरजा वसाशुक्रादयो मलाः स्वरूपेणैवामेध्याः । बृहस्पतिः ।

पादौ शुची ब्राह्मणानाम् अजाश्वस्य मुखं शुचि ।
गवां पृष्ठानि मेध्यानि सर्वगात्राणि योषिताम् ॥

यमः ।

पृष्ठतो गौर् अजः स्कन्धे सर्वतो ऽश्वः शुचिस् तथा ।
गोः पुरीषं च मूत्रं च सर्वं मेध्यम् इति स्थितिः ॥

पृष्ठशब्दो ऽत्र मुखव्यतिरिक्तविषयः । यद् आह बौधायनः ।

मुखवर्जं तु गौर् मेध्या मार्जारश् चङ्क्रमे शुचिः ॥

अजाश्वयोर् मुखं संयोगाद् द्रव्यान्तरशोधकत्वेन मेध्यम् उच्यते । स्पर्शमेध्यता तु तयोः सर्वाङ्गविषयैव ॥

पन्थानस् तु विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ १.१९४ ॥

चण्डालादिस्पृष्टा अपि पन्थानः सोमसूर्यरश्मिभिर् मारुतेन च स्पृष्टाः शुचयो भवन्ति ॥ १.१९४ ॥

मुखजा विप्रुषो मेध्यास् तथाचमनबिन्दवः ।
श्मश्रु चास्यगतं दन्तसक्तं त्यक्त्वा ततः शुचिः ॥ १.१९५ ॥

मुखजा विप्रुषो लालायाः सूक्ष्माः कणास् ता अमेध्या न भवन्ति । तथाचमनबिन्दवः । आस्यगतं च श्मश्रु नामेध्यम् । दन्तसक्तं दन्तलग्नं यत् किंचित् तत् त्यक्त्वा पुमाञ् शुचिः। वसिष्ठः- “न मुख्या विप्रुष उच्छिष्टं कुर्वन्ति । न चेद् अङ्गे निपतन्ति” । मनुः ।

स्पृशन्ति बन्दवः पदौ य आचामयतः परान् ।
भौमिकैस् ते समा ज्ञेया न तैर् अप्रयतो भवेत् ॥

आपस्तम्बः- “न श्मश्रुभिर् उच्छिष्टो भवति । अन्तरास्ये सद्भिर् यावन् न हस्तेनोपस्पृशति । य आस्याद् बिन्दवः पतन्त उपलभ्यन्ते तेष्व् आचमनं विहितम् । ये भूमौ न तेष्व् आच(चा)मेद् इत्य् एके” । वसिष्ठः- “न श्मश्रुगतो लेपः” इति । [२७७] उच्छिष्टं करोतीति शेषः । तथा ।

दन्तवद् दन्तसक्तेषु यच् चाप्य् अन्तर्मुखे भवेत् ।
आचान्तस्यावशिष्टं स्यान् निगिरन्न् एव तच् छुचिः ॥

आचमननिवृत्त्यर्थ एवकारः । गौतमः- “दन्तश्लिष्टेषु दन्तवद् अन्यत्र जिह्वाभिमर्शनात् प्राक् च्युतेर् इत्य् एके । च्युतेष्व् आस्राववद् विद्यान् निगिरन्न् एव तच् छुचिः” । ततश् च दन्तसक्तस्य त्यागनिगरणयोर् विकल्पः । आस्रावो मुखोदकम् । शङ्खः- “दन्तवद् दन्तलग्नेषु रसवर्जम् अन्यत्र जिह्वाभिमर्शनात्” । रसवर्जं रसोपलम्भवर्जम् इत्य् अर्थः । देवलः ।

भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत् ।
दन्तलग्नम् असंहार्यं लेपं मन्येत दन्तवत् ॥
न तत्र बहुशः कुर्याद् यत्नम् उद्धरणे पुनः ।
भवेद् अशौचम् अत्यर्थं तृणवेधाद् व्रणे कृते ॥

भोजनानन्तरं दन्तलग्नं त्यक्त्वाचामेद् भोजनाद् अन्यत्र नेति व्यवस्था । भोजनानन्तरम् अपि यद् दन्तलग्नम् अशक्योद्धरणं न तदुद्धर्णे पुनः पुनर् यतितव्यम् । यतस् तृणेषीकया दन्तमूले रक्तस्रावाद् अशौचभूयस्त्वम् । अत्रिः ।

मधुपर्के च सोमे च अप्सु प्राणाहुतीषु च ।
नोच्छिष्टस्य भवेद् दोषस् त्व् अत्रेश् च वचनं यथा ॥

मधुपर्कादिषूच्छिष्टस्य । मन्त्रोचारविषयम् एतत् । आचमनं तु सोमाद् अन्यत्र कार्यम् एव । “न सोमेनोच्छिष्टा भवन्ति” इति श्रुतिस् तन्निवर्तिका । षट्त्रिंशन्मते ।

ताम्बूले च फले चैव भुक्तस्नेहावशिष्टके ।
दन्तलग्नस्य संस्पर्शे नोच्छिष्टस् तु भवेन् नरः ॥
त्वग्भिः पत्त्रैर् मूलपुष्पैस् तृणकाष्ठमयैस् तथा ।
सुगन्धिभिस् तथा द्रव्यैर् नोच्छिष्टस् तु भवेद् द्विजः ॥ १.१९५ ॥
स्नात्वा पीत्वा क्षुते सुप्ते भुक्ते रथ्यापसर्पणे ।
आचान्तः पुनर् आचामेद् वासो विपरिधाय च ॥ १.१९६ ॥

स्नानादिषु कृतेषु द्विर् आचामेत् । पन्थानश् च विशुध्यन्तीति यद् उक्तं तच् चण्डालादिस्पृष्टानां तेषां स्प्रष्टुः स्नानादिनिवृत्त्यर्थम् । अत्र तु रथ्याप्रसर्पणमात्रे [२७८] द्विराचमनं विधीयत इत्य् अविरोधः । वासोविपरिधानं पुनर् अधोवस्त्रनिबन्धनम् । तथा च बौधायनः- “नीवीं विस्रस्य परिधायाप उपस्पृशेत्” इति । नीवी परिधानग्रन्थिः । आपस्तम्बः- “भोक्ष्यमाणस् तु प्रयतो ऽपि द्विर् आचामेत्” । प्रेचेताः- “मूत्रपुरीषोत्सर्गनिष्ठ्यूतशुक्तवाक्याभिधाने पुनर् उपस्पृशेत्” । शुक्तम् अनृतम् । पैठीनसिः- “कासश्वासागमे चत्वारश्मशानाक्रान्ताव् आचान्तः पुनर् आचामेत्” । चतु(त्व)रश् चतुष्पथः । षट्त्रिंशन्मतात् ।

होमे भोजनकाले च संध्ययोर् उभयोस् तथा ।
आचान्तः पुनर् आचामेद् अन्यत्र तु सकृत् सकृत् ॥

आचान्तः पुनर् आचामेद् इत्य् अनुवृत्तौ वसिष्ठः- “ओष्ठौ च संस्पृश्य यत्रालोमकौ” । विष्णुः- “क्षुत्वा भुक्त्वा सुप्त्वा भोजनाध्ययनेप्सुः पीत्वा निष्ठीव्य वासो विपरिधाय रथ्याम् आक्रम्य कृतमूत्रपुरीषः पञ्चनखास्थ्यस्नेहं स्पृष्ट्वा वाचामेच् चण्डालम्लेच्छसंभाषणे च नाभेर् अधस्तात् प्रबाहुषु च कायिकैर् मलैः सुराभिर् मद्यैर् वोपहतो मृत्तोयैस् तदङ्गं प्रक्षाल्यातन्द्रितः शुध्येत्” । आचम्येति शेषः । प्रबाहुः कराग्रम् । वाक्यान्तरप्रतिपन्नद्विराचमननिमित्तभावैः स्वापादिभिः साहचर्याद् एतान्य् अपि द्विराचमननिमित्तानि । व्यासः ।

आचान्तः पुनर् आचामेज् जपहोमार्जनेषु च ।

जपादिषु कार्येष्व् इत्य् अर्थः । आपस्तम्बः- “स्वप्ने क्षवथौ शिङ्घाणिकास्र्वालम्भे लोहितस्य केशानाम् अग्नेर् गवां ब्राह्मणस्य स्त्रियाश् चालम्भे महापथं च गत्वामेध्यं चोपस्पृश्याप्रयतं मनुष्यं नीवीं च परिधायोपस्पृशेत् । आर्द्रं वा शकृद् ओषधीर् बूमिं वा” । क्षवथुः क्षुतम् । शिङ्घाणिका नासा तस्या अलोमकप्रदेशालम्भे । अस्रु नेत्रजलम् । शकृद् गोशकृत् । तथा च बौधायनः- “नीवीं विस्रस्य परिधायाप् उपस्पृशेत् । आर्द्रं तृणं गोमयं भूमिं वा स्पृशेत्” इति । उपस्पर्शनम् आचमनम् । [२७९] वसिष्ठः- “रुदित्वाचान्तः पुनर् आचमेत्” । ब्रह्माण्डपुरानात् ।

निष्ठीवने तथाभ्यङ्गे भुक्त्वा विपरिधाय व ।
उच्छिष्टानां च संस्पर्शे तथा पादावसेचने ॥
उच्छिष्टस्य च संभाषाद् अशुच्युपहस्तस्य च ।
संदेहेषु च सर्वेषु शिखामोक्षे तथैव च ॥
विना यज्ञोपवीतेन नित्यम् एव त्व् उपस्पृशेत् ॥

विना यज्ञोपवीतेनावस्थानम् आचमननिमित्तम् ।

उष्ट्रस्यावशसंस्पर्शे दर्शने चान्त्यवासिनाम् ।
जिह्वा चैव संस्पृश्य दन्तसक्तम् उपस्पृशेत् ॥

अवशसंस्पर्शः प्रमादसंस्पर्शः । शक्यपरिहारं दन्तसक्तं जिह्वया स्पृष्ट्वोपस्पृसेद् इत्य् अर्थः । मार्कण्डेयपुराणे ।

देवार्चनादिकार्याणि तथा गुर्वभिवादनम् ।
कुर्वीत सम्यग् आचम्य तद्वद् अन्नभुजिक्रियाम् ॥

हारीतः- “स्त्रीशूद्रोच्छिष्टाभिभाषणे मूत्रपुरीषोत्सर्गदर्शने । देवताम् अभिगन्तुकाम आच(चा)मेत्” । षट्त्रिंशन्मतात् ।

मानुषास्थि वसां विष्ठाम् आर्तवं मूत्ररेतसी ।
मज्जानं शोणितं स्पृष्ट्वा परस्य स्नानम् आचरेत् ॥
स्वान्य् एतानि तु संस्पृश्य प्रक्षाल्याचम्य शुध्यति ।
उत्तीर्योदकम् आचामेद् अवतीर्य तथैव च ॥

हारीतः- “सुषुप्सुर् आचामेत् ।

रजकश् चर्मकृच् चैव व्याधजाजोपजीविनौ ।
निर्णेजकः सौनिकश् च नटः शौलूषकस् तथा ।
चक्री ध्वजी वध्यघाती ग्राम्यकुक्कुटसूकरौ ॥
एभिर् यद् अङ्गं स्पृष्टं स्याच् छिरोवर्जं द्विजातिषु ।
तोयेन क्षालनं कृत्वा आचान्तः प्रयता मताः ॥

रजको वस्त्रादीनां रागकर्ता । निर्णजकश् चैलधावकः । नटो जातिविशेषः । अनटो ऽपि रङ्गावतरणजीवी शौलूषः । पद्मपुराणात् ।

जपहोमप्रदानेषु पितृपिण्डोदकेषु च ।
समाप्तेष्व् आचमेद् विप्रः सर्ववस्तुषु चवणे ॥

[२८०] वर्णत्रयस्य संस्पर्शाद् आचम्य प्रयतो भवेत् ।

संस्पर्शे प्रतिलोमानां क्रियात्यागो विधीयते ॥
कारुकाणां च संस्पर्शे द्विजस्याचमनक्रिया ।
स्पर्शे तु प्रतिलोमानां प्राणायामो ऽधिको भवेत् ॥

कर्मप्रयोगकाल एतत् ।

विप्रो विप्रेण संस्पृष्ट उच्छिष्टेन कथंचन ।
आचम्यैव तु शुद्धः स्याद् आपस्तम्बो ऽब्रवीन् मुनिः ॥

स्मृत्यन्तरम् ।

चरेद् आचमनं स्पर्शे तत्प्राप्तिपापके द्विजः ।
वर्णानां न ब्राह्मणानां पवित्रं परमं हि ते ॥ इति ।

प्रजापतिः ।

उपक्रमे विशिष्टस्य कर्मणः प्रयतो ऽपि सन् ।
कृत्वा च पितृकर्माणि सकृद् आचम्य शुध्यति ॥

विशिष्टं विहितम् । शातातपः ।

अशुचिं संस्पृशेद् अन्य एक एव स दुष्यति ।
उत्सृष्टो ऽन्यो न दुष्तेत् तु सर्वद्रव्येष्व् अयं विधिः ॥

पराशरः ।

क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते ।
पतितानां च संभाषे दक्षिणे श्रवणं स्पृशेत् ॥

वृद्धशातातपः ।

वातकर्मणि निष्ठीव्य दन्तोत्सर्गे तथा क्षुते ।
पतितस्य च संलापे दक्षिणं श्रवणम् स्पृशेत् ॥

विहितानुष्ठानकालाद् अन्यत्रैतत् । चतुर्विंशतिमतात् ।

इक्षून्य् अम्बु फलं मूलं ताम्बूलं पय औषधम् ।
भक्षयित्वापि कर्तव्याः स्नानदानोदकक्रियाः ॥

स्मृत्यन्तरम् ।

द्राक्षादीनि फलानीक्षून् पयो मूलं घृतं दधि ।
ताम्बूलम् औषधं पत्रं हविर् भुक्त्वापि नाचमेत् ॥ १.१९६ ॥
रथ्याकर्दमतोयानि स्पृष्टान्य् अन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ १.१९७ ॥

रथ्यागताः कर्दमाः । तथा तोयानि । पक्वेष्टकाभिश् चितानि गृहादीनि अन्त्यादिस्पृष्टानि मारुतेनैव शुध्यन्ति । रथ्या मार्गः । कर्दमः पङ्कः । अन्त्यश् चण्डालादिः । प्रसिद्धम् अन्यत् । [२८१]

व्यासः ।

रथ्याकर्दमतोयानि नावः पथितृणानि च ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥

शङ्खः ।

रथ्याकर्दमतोयेन ष्ठीवनाद्येन वा त्व् अथ ।
नाभेर् ऊर्ध्वं नरः स्पृष्टः सद्यः स्नानेन शुध्यति ॥

यमः ।

सकर्दमं तु वर्षासु प्रविश्य ग्रामसंकरम् ।
जङ्घयोर् मृत्तिकास् तिस्रः पादयोर् द्विगुणाः स्मृताः ॥

एतच् च वाक्यद्वयं यत्र कर्दमे व्यवस्थितम् अमेध्यं रूपतो गन्धतश् च नोपलभ्यते तद्विषयम् इति ॥ १.१९७ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्कीयधर्मशास्त्रनिबन्धे ऽपरार्के

द्रव्यशुद्धिप्रकरणं समाप्तम् ॥ ७ ॥