०७ भक्ष्याभक्ष्य-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

भोज्याभोज्यभक्ष्याभक्ष्यप्रकरणम् ॥ ६ ॥

अधुना भोज्याभोज्यभक्ष्याभक्ष्यप्रकरणम् आरभते । तत्राभोज्यान्य् आह ।

अग्निहीनस्य नान्नम् अद्याद् अनापै ॥ १.१६० ॥

सत्य् अप्य् अधिकारे श्रौतस्मार्ताग्निपरिग्रहम् अकुर्वत उत्सृष्टाग्नेश् चान्नम् अनापदि न भुञ्जीत ॥ १.१६० ॥

कदर्यबद्धचौराणां क्लीबरङ्गावतारिणाम् ।
वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम् ॥ १.१६१ ॥
चिकित्सकातुरक्रुद्धपुंश्चलीमत्तविद्विषाम् ।
क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥ १.१६२ ॥
अवीरस्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् ।
शस्त्रविक्रयकर्मारतन्तुवायश्ववृत्तिनाम् ॥ १.१६३ ॥
नृशंसराजरजककृतघ्नवधजीविनाम् ।
चैलधावसुराजीवसहोपपतिवेश्मनाम् ॥ १.१६४ ॥
एषाम् अन्नं न भोक्तव्यं सोमविक्रयिणस् तथा ।

[२३८]

कदर्यादीनां सोमविक्रयिणश् चान्नं न भोक्तव्यम् । कदर्यो यो लोभाद् विद्यमानम् अपि धनं न भुङ्क्ते न च ददाति । तद् उक्तम् ।

आत्मानं धर्मकृत्यं च पुत्रदारांश् च पीडयन् ।
लोभाद् यः पितरौ भृत्यान् स कदर्य इति स्मृतः ॥

बद्धो निगडितः । चौरः स्तेनः । क्लीबः पण्डः । रङ्गावतारी नटादिः । वैणो वीणावादनजीवी, वेणुच्छेदनजीवी वा । अभिशस्तः पापकारित्वेनाधिक्षिप्तः । वार्धुष्यं निषिद्धवृद्ध्युपजीवनम् । तेन च तद्वांल् लक्ष्यते । आत्मस्तुतिपरनिन्दाकर्ता वा वार्धुषिकः । तथा च विष्णुः ।

यस् तु निन्देत् परं जीवं प्रशंसत्य् आत्मनो गुणान् ।
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥ इति ॥

गणिका वेश्या । गणः सङ्घः । तदन्नम् अन्यस्याभोज्यम् । दीक्षी दीक्षितः, तस्य च प्राग् अग्नीषोमीयवपाहोमाद् अभोज्यान्नता । तथा च श्रुतिः- “अशितव्यं वपायां हुतायाम्” इति । आपस्तम्बस् तु “पूर्वम् अपि वपाहोमाद् यज्ञार्थे द्रव्ये पृथक् कृते यद् अवशिष्टं तद् दीक्षितस्यापि भोक्तव्यम्” इत्य् आह । दीक्षितः क्रीतराजकः । अग्नीषोमीयसंस्थायाम् एव वपायां हुतायां दीक्षितस्य भोक्तव्यम् । “यज्ञार्थे वा निर्दिष्टे शेषाद् भुञ्जीरन्” इति ब्राह्मणम् इति । चिकित्सकश् चिकित्सावृत्तिः । असम्यक्चिकित्सक इतरो ऽपि । आतुरो रोगार्तः । क्रुद्धः कुपितः । पुंश्चली व्यभिचारिणी । मत्तो धनादिना । विप्राद् अन्यो मद्येन वा । विद्विट् शत्रुः । क्रूरः स्थिरक्रोधः । उग्रः परदुःखोत्पादनपटुः । क्षत्रियाच् छूद्रायाम् उत्पन्नो वा । पतितो ब्रह्महत्यादिकर्ता स्तेनाद् अन्यः, तस्य चौरशब्देन संगृहीततात् । अथ वा पतिताद् अन्यश् चौरशब्देनोच्यते । व्रात्यः पतितसावित्रीकः । दाम्भिकः ख्यातिलाभादिप्रयोजनधर्मानुष्ठानः । उच्छिष्टभोजी परोच्छिष्टभोजनशीलः । अवीरा पतिपुत्ररहिता । स्वर्णकारः प्रसिद्धः । स्त्रीजितः स्त्रीपरतन्त्रः । ग्रामयाजको ऽनेकयाजकः । शस्त्रविक्रयी खड्गादिविक्रयजीवी । कर्मारो लोहकारः । तन्तुवायो वस्त्रस्यूतस्य कर्ता, पाटितवस्त्रसंधायको वा । श्ववृत्तवान् सेवकः । यद् वा शुनां वृत्तं वर्तनम् अस्ति यस्मिन् स श्ववृती श्ववल् लुब्धक इत्य् अर्थः । स चानिषुचार्य् एवाभोज्यान्न इत्य् आह गौतमः- “मृगयुर् अनिषुचारी” इति । इषुचारिणस् तु भोज्यम् इत्य् आह विष्णुः- “न मृगयोर् इषुचारिणः परिवर्ज्यम् अन्नम्” इति । नृशंसो घातकः । राजा भूपो न तु क्षत्रियः । रजको वस्त्रादिरागकर्ता । कृतघ्न [२३९] उपकारनाशकः । वधजीवी प्राणिवधेन यो जीवति । चैलधावो वस्त्रप्रक्षालकः । सुराजीवः सुराजीविकः । सहोपपतिवेश्मा निजभार्याजारसहितगृहः । सोमविक्रयी सोमलताविक्रयी ।

प्रसङ्गाद् अन्यद् अप्य् उच्यते । भविष्यत्पुराणम् ।
अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमन्त्रितम् ।
तथैव वृषलस्यान्नं ब्राह्मणेन निमन्त्रितम् ॥

पैठीनसिः- “सांवत्सरघाण्टिकग्रामकूटान्नं विषम् । तथा परिवित्तिपरिविद्धानविद्धप्रजननवृषलीपतिदिधिषूपतिपुनर्भूपुत्राणां रुधिरम्” । सांवत्सरो नक्षत्रजीवी । घाण्टिको घण्टाशिल्पः । तद् उक्तम्- “राज्ञां संबोधसमये घण्टाशिल्पास् तु घाण्टिकाः” । ग्रामकूटकः प्रसिद्धः । परिवित्त्यादीनां लक्षणं श्राद्धप्रकरणे लक्ष्यते । विद्धप्रजननो विद्धलिङ्गः । यमः ।

चक्रोपजीवी गान्धर्वः कितवस् तस्करस् तथा ।
ध्वजी दारोपजीवीच शूद्राध्यापकयाजकौ ॥
कुलालश् चित्रकर्मा च वार्धुषी चर्मविक्रयी ॥

चक्रोपजीवी शाकटिकः । गान्धर्वो गायनः । ध्वजी मद्यविक्रयी । तथा ।

यथा जलं निर्गमनेष्व् अपेयं नदीगतं तत् पुनर् एव पेयम् ।
तथान्नपानं विधिपूर्वम् आगतं द्विजातिपात्रान्तरितं न दुष्यति ॥

निर्गमनानि रथ्योदकप्रवाहाः ।

ब्राह्मणस्य सदाश्नीयात् क्षत्रियस्य तु पर्वसु ।
प्रकृतेषु च वैश्यस्य न शूद्रस्य कदाचन ॥

प्रकृतेषूत्सवेषु च ।

तथा राजभृतस्यान्नं चौरस्यान्नं तथैव च ।
सूतके मृतके चान्नं स्वर्गस्थम् अपि पातयेत् ॥
अवलिप्तस्य मूर्खस्य दुष्टवृत्तस्य दुर्मतेः ।
अन्नम् अश्रद्दधानस्य यो भुङ्क्ते भ्रूणहा तु सः ॥

आतित्यपुराणे ।

विष्णुं जामातरं मन्येत् तस्य मन्युं न कारयेत् ।
अप्रजायां तु कन्यायां नाश्नीयात् तस्य वै गृहे ॥
**गान्धर्वे चैव राजन्यः कुर्याद् वै गमनागमम् ॥ [२४०]
ब्र(ब्रा)हमदेयां न वै कन्यां दत्वाश्नीयात् कदाचन ।
अथ भुञ्जीत मोहाद् यः पूयाशी नरके वसेत् ॥

ब्राह्मादिविवाहचतुष्टयपरिणीता ब्राह्मदेया । वसिष्ठः ।

श्रद्दधानस्य भोक्तव्यं चौरस्यापि विशेषतः ।
न त्व् एवं बहुयाज्यस्य यश् चोपनयते बहून् ॥

अभोज्यम् इत्य् अनुवृत्ताव् आपस्तम्बः- “यश् च सर्वान् वर्जयेत सर्वान्नाशी च” । शङ्खलिखितौ- “भीतावगीतरुदिताक्रन्दितावाक्रुष्टक्षुतपरिभुक्तविस्मितोन्मत्तावधूतराजपुरोहितान्नानि वर्जयेत्” । कदर्याद्यन्नभोजने मनुः प्रायश्चित्तम् आह ।

भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या क्षपणं त्र्यहम् ।
मत्या भुक्त्वाचरेत् कृच्छ्रं रेतो विण्मूत्रम् एव च ॥

अतिकृच्छ्रे कृच्छ्रशब्दः, “एषाम् अन्नभोजनेष्व् अतिकृच्छ्रः” इत् शङ्खवचनात् ॥ १। १६१–१६४ ॥

गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ॥ १.१६५ ॥
पिशुनानृतिनोश् चैव तथा चाक्रिकबन्दिनाम् ।
अनर्चितं वृथामांसं केशकीटसमन्वितम् ॥ १.१६६ ॥
शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ।
उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् ॥ १६७ ॥

गोघ्रातादिकम् अन्नं वृथामांसं च वर्जयेत् । शकुनः पक्षी । पिशुनो दोषसूचकः । अनृती मिथ्यावादी । चाक्रिकस् तैलिकः । अभिशस्तपतितचाक्रिकतैलिक इति भेदस्मरणाच् छाकटिको वा । वन्दी स्तावकः । अनर्चितम् अवज्ञादत्तम् । वृथामांसं श्राद्धादिप्रयोजनशून्यं मांसम् । शुक्तं कालवशाद् अलम् । पर्युषितम् अन्येद्युः सिद्धम् । उच्छिष्टं भुक्त्वा(क्ता)वशिष्टम् । संघुष्टं को भोक्ष्यत इत्य् अभिक्रुष्टम् । पर्यायान्नं क्रमान्नं रविदिने ऽस्य सोमदिने ऽस्य गृहे भोक्तव्यम् इति । पर्याचान्तम् इति पाठे पर्याचान्तं बाहुलङ्घितम् । श्वग्रहणं काकादीनां प्रदर्शनार्थम् । पतितग्रहणं चण्डालादीनाम् । [२४१] भविष्यत्पुराणम् ।

जातिदुष्टं क्रियादुष्टं कालाश्रयविदूषितम् ।
संसर्गाश्रयदुष्टं च सहृल्लेखं स्वभावतः ॥

जातिदुष्टादीनाम् उदाहरणान्य् आह ।

लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।
वार्ताकनालिकालाबु उपेयाज् जातिदूषितम् ॥
न भक्षयेत् क्रियादुष्टं यद्दृष्टं पतितैः पृथक् ।
कालदुष्टं च विज्ञेयं ह्य् अस्तनं चिरसंस्थितम् ॥
दधि भक्ष्यं विकारेषु मधुवर्जं तद् इष्यते ।
सुरालशुनसंस्पृष्टं पीयूषादिसमन्वितम् ॥
संसर्गदुष्टम् एतद् धि शुद्रोच्छिष्टवद् आचरेत् ।
शूद्रोच्छिष्टं तु विज्ञेयं पूर्वं शूद्रेषु दर्शितम् ॥
विचिकित्सा तु हृदये यस्मिन्न् अन्ने प्रजायते ।
सहृल्लेखं तु विज्ञेयं पुरीषं तु स्वभावतः ॥
रसदुष्टं विकाराद् धि रसस्येति निदर्शनात् ।
पायसक्षीरपूपादि तस्मिन्न् एव दिने यथा ॥

अलाबुर् अत्र दीर्घालाबोर् इतरः । दीर्घस्य श्राद्धार्हत्वात् । अदीर्घस्य जातिदुष्टस्य पलाण्डुवन् निन्दितस्य श्राद्देयत्वानुपपत्तेः । अत एव,

अलाबुं ग्रीवकं चाणुं कर्करीं त्रपुसीं तथा ।

इति दीर्घालाबोः श्राद्धार्हत्वात् । इतरस्य च “पिप्पलीसमुकमृषभूस्तृणासुरीसर्षपसुरस-कूष्माण्डालाबुवार्ताकपालक्यातण्डुलीयककुसुम्भपिण्डमूलकमहिषीक्षीराणि वर्जयेत्” इत्य् अश्राद्देयत्वम् । हारीतः ।

पलाण्डुं लशुनं शुक्तं निर्यासांश् चेति सर्वशः ।
कुध्वन्दुं श्वेतवार्ताकं कुम्भाण्डं च न भक्षयेत् ॥

कुम्भाण्डो दाडिमसदृशः फलविशेषः । देवलः ।

न बीजान्य् उपयुञ्जीत रोगापत्तिम् ऋते बुधः ।
**फलान्य् एषाम् अनन्तानि बीजानां हि विनाशयेत् ॥ [२४२]

वसिष्ठः- “उच्छिष्टम् अगुरोर् अभोज्यं स्वम् उच्छिष्टम् उच्छिष्टोपहतं च” । आपस्तम्बः- “अप्रयतोपहतम् अन्नम् अप्रयतं न त्व् अभोज्यम् । यस्मिंश् चान्ने केशः स्याद् अन्यद् वामेध्यम् अमेध्यैर् अवमृष्टं कीटो वामेध्यसेवी । मूषकलाङ्गं वा पदा वोपहतं सिचा वा शुना वापात्रेण वा दृष्टं सिचा वोहपतं दास्या वा नक्तम् आहृतं भुञ्जानं वा यत्र शूद्र उपस्पृशेद् अनर्हद्भिर् वा समानपङ्क्तौ भुञ्जानेषु वा यत्रानुत्थायोच्छिष्टं प्रयच्छेद् आचामेद् वा कुत्सयित्वा वा यत्रान्नं दद्युर् मनुष्यैर् अवघ्रातम् अन्यैर् वामेध्यैः” । अस्यार्थः — अप्रयतेनाशुचिना पुरुषेण स्पृष्टम् अन्नम् अशुचि भवति, न पुनस् तद् अभोज्यम् । अप्रयतस्यान्नस्याग्न्यधिश्रयणमद्भिर् वा प्रोक्षणम्, हिरण्येन वा छागमुखेन वा स्पर्शनं प्रयतत्वं करोति । अशुचिशूद्रस्पृष्टं त्व् अभोज्यम् एव । मूषकला मूषपुरीषम् । मूषो मूषकस् तदङ्गं वा पुच्छादि यस्मिन् अन्ने तद् अभोज्यम् इति वाक्यपरिसमाप्तिः । सिचा वस्त्रान्तेनोपहतं दस्या दासेन वा नक्तम् आहृतम् । देवलः ।

अवलीढं श्वमार्जारध्वाङ्क्षकुक्कुटमूषकैः ।
भोजने नोपयुञ्जीत तद् अमेध्यं हि सर्वतः ॥
विशुद्धम् अपि चाहारं मक्षिकाक्रिमिजन्तुभिः ।
केशरोमनखैर् वापि दूषितं परिवर्जयेत् ॥

ब्रह्मपुराणात् ।

उच्छिष्टेन तु शूद्रेण संस्पृष्टः परिवेषकः ।
द्रव्यहस्तश् च यत् किंचिद् दद्यात् तच् च न भक्षयेत् ॥

तथा ।

शूद्रभुक्तावशिष्टं तु नाद्याद् भाण्डस्थितं त्व् अपि ।

वसिष्ठः ।

घृतं वा यदि वा तैलं विप्रो नाद्यान् नखस्रुतम् ।
यमस् तद् अशुचि प्राह तुल्यं गोमांसभक्षणैः ॥

तथा ।

हस्तदत्ताश् च ये स्नेहा लवणं व्यञ्जनानि च ।
दातारं नोपतिष्ठन्ति भोक्त्का भुङ्क्ते तु किल्बिषम् ॥
तस्माद् अन्तरितं देयं वर्णेनैव तृणेन वा ।
प्रदद्यान् न तु हस्तेन नायसेन कदाचन ॥

ब्रह्मपुराणे ।

एकेन पाणिना दत्तं शूद्राद् अन्नं न भक्षयेत् ।

[२४३] घृतं तैलं च लवणं पानीयं पायसं तथा ॥

भिक्षा च हस्तदत्तापि न ग्राह्या यत्र कुत्रचित् ॥

शङ्खलिखितौ- “नापणीयम् अन्नम् अश्नीयात् । न द्विः पक्वं न पर्युषितम् अन्यत्र रागचरुषाडवदधिगुडदधिगोधूमयवपिष्टविकारेभ्यः” । शङ्खः ।

अपूपाः सक्तवो धानास् तक्रं दधि घृतं मधु ।
एतत् पण्येषु भोक्तव्यं भाण्डलेपो न चेद् भवेत् ॥

आपस्तम्बः ।

द्वाव् एवाश्रमिणौ भोज्यौ ब्रह्मचारि गृही तथा ।
मुनेर् अन्नम् अभोज्यं स्यात् सर्वेषां लिङ्गिनां तथा ॥
सूतके मृतके भुङ्क्ते गृहीते शशिभास्करे ।
छायायां हस्तिनो भुङ्क्ते न भूयः पुरुषो भवेत् ॥ १.१६५–१६७॥

शूद्रविशेषान्नभोजननिषेधार्थम् आह

शूद्रेषु दासगोपालकुलमित्रावसूरिणः ।
भोज्यान्ना नापितश् चैव यश् चात्मानं निवेदयेत् ॥ १.१६८ ॥

शूद्रेष्व् इति निर्धारणे सप्तमी । तेन शूद्राणां मध्ये दासादयो भोज्यान्नाः । नान्ये शूद्राः । दासः क्रीतादिः । गोपालो गवां पाता । कुलं स्वक्षेत्रकर्षकः । तथा च देवलः ।

स्वदासो नापितो गोपः कुम्भकारः कृषीवलः ।
ब्राह्मणैर् अपि भोज्यान्नाः पञ्चैते शूद्रयोनः ॥

यद् वा कुलस्य मित्रं कुलमित्रम् । कुलं वंशः । मित्रं प्रसिद्धम् । अवसूरी संभूय समुत्थायितया सहकर्षकः । नापितः प्रसिद्धः । यश् च शूद्रो ऽक्रीत एव द्विजायात्मानं वा वाङ्मनःकायकर्मभिर् निवेदयति ददाति । दासादयो यदीयास् तस्यैव ते भोज्यान्नाः । हारीतः ।

कुलमित्रं कुलपुत्रो भैक्ष्यदः शिष्यकः सुहृत् ।
भवेद् यस्य सुखं लाभे भये त्राता च यो भवेत् ॥
एते शूद्रेषु भोज्यान्ना मनो यत्र विभाव्यते ॥

कुलं कर्षकस् तत्पुत्रः कुलपुत्रः । सुहृन्मित्रम् । विभाव्यते प्रसीदति । उक्तव्यतिरिक्तशूद्रविषये मनुर् आह ।

[२४४] नाद्याच् छूद्रस्य पक्वान्नं विद्वान् आश्राद्धिनो द्विजः ।

आददीतामम् एवास्माद् अवृत्ताव् एकरात्रिकम् ॥

अश्राद्धी श्राद्धानर्हो ऽसच्छूद्र इति यावत् । कानिचित् पक्वान्नान्य् अन्येषां भोज्यानि । यथा सुमन्तुर् आह ।

गोरसं चैव सक्तूंश् च तैलं पिण्याकम् एव च ।
अपूपान् भक्षयेच् छूद्राद् यश् चा (यच् चा)न्यत् पयसा कृतम् ॥

तथा ।

कटु पक्वं स्नेहपक्वं पायसं दधिसक्तवः ।
एतान्य् अशूद्रान्नभुजो भोज्यानि मनुर् अब्रवीत् ॥

अशूद्रान्नभुजो द्विजस्य । अङ्गिराः ।

स्वपात्रे यच् च विन्यस्तं दुग्धं तच् छुचि नित्यशः ।
पात्रान्तरगतं ग्राह्यं शूद्रात् स्वगृहम् आगतम् ॥
शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि ।
निवृत्तेन न भोक्तव्यं शूद्रान्नं तद् अपि स्मृतम् ॥

निवृत्तेन शूद्रान्नभोजनान् निवृत्तेनेत्य् अर्थः । विष्णुपुराणे ।

संप्रोक्ष्य विद्वान् गृह्णीयाच् छूद्रान्नं गृहम् आगतम् ।

शङ्खः ।

गृहाश्वरथभूम्यर्थे गवार्थे च विशेषतः ।
श्रोत्रियेणापि भोक्तव्यं शूद्रान्नं तु यमो ऽब्रवीत् ॥

दक्षः ।

शूद्रान्नरसपुष्टाङ्गस् त्व् अधीयानो ऽपि नित्यशः ।
जुह्वन् वापि जपन् वापि गतिम् इष्टां न विन्दति ॥

वसिष्ठः ।

शूद्रान्नेनोदरस्थेन मैथुनं यो ऽधिगच्छति ।
यस्यान्नं तस्य ते पुत्रा अन्नाच् छुक्रं प्रवर्तते ॥

हारीतः ।

शूद्रान्नेन् तु भुक्तेन जठरस्थेन यो मृतः ।
स वै खरत्वम् उष्ट्रत्वं शूद्रत्वम् उपगच्छति ॥

अङ्गिराः ।

षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् ।
स च जीवन् भवेच् छूद्रो मृतः श्वा चाभिजायते ॥

एवं च सति यः शूद्रान्नभोजनानुग्रहः स आपद्विषय एव ज्ञेयः ॥ १.१६८ ॥

पर्युषितं न भोक्तव्यम् इत्य् अस्यापवदम् आह

अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंभृतम् ।
अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥ १.१६९ ॥

[२४५]

अन्नं घृतादिस्नेहाक्तं सच् चिरकालसंस्थितं पर्युषितं च भोज्यम् । गोधूमादिविकारा अस्नेहा अपि पर्युषिता भोज्याः । यमः ।

शुक्तानि हि द्विजो ऽन्नानि न भुञ्जीत कदाचन ।
प्रक्षालितानि निर्दोषान्य् आपद्धर्मो यदा भवेत् ॥
मसूरमाषसंयुक्तं तथा पर्युषितं च यत् ।
तत् तु प्रक्षालितं कृत्वा भुञ्जीत ह्य् अभिधारितम् ॥

तथा ।

अपूपाश् च करम्भाश् च धानावटकसक्तवः ।
शाकं मांसं च यूषं च सूपं कृसरम् एव च ॥
यवागूर् यावकं चैव यच् चान्यत् स्नेहसंयुतम् ।
सर्वं पर्युषितं भोज्यं शुक्तं चेत् परिवर्जयेत् ॥
गुडादिद्रव्यसंयुक्तं वर्ज्यं पर्युषितं दधि ।
तथैव पानकादीनि मध्वाज्यरचितानि च ॥
राजमाषाः स्थूलमुद्गास् तथा वृषयवाशकौ ।
मसूराः शतपुष्पाश् च कुसुम्भं श्रीनिकेतनम् ।
सस्यान्य् एतान्य् अभक्ष्याणि न च देयानि कस्यचित् ॥ इति ।

ब्रह्मपुराणे मसूरस्याप्य् अभक्ष्यत्वेन निर्देशः । ततश् च श्राद्धे कलायवन्मसूरभक्षणे न विकल्पः । देवलः ।

नाश्नीयात् पायसं नक्तं भुक्तं चेन् न स्वपेन् निशि ।
न क्षीरम् उत्सृजेत् प्राप्तं पवित्रं हि पयः स्मृतम् ॥

तथा ।

दधि भक्ष्यं शुक्तम् अपि यच् चैवं दधिसंभवम् ।
कन्दमूलफलैः पुष्पैः शस्तैः शुक्तासवं तु यत् ॥
अविकारि भवेन् मेध्यम् अभक्ष्यं तद्विकारकृत् ।

“कन्दमूलफलैः पुष्पैः” इत्यादिः । अयम् अर्थः — यच् छुक्तं कन्दादिभिः कृतं सत्पानं तद् यदि मोहादिविकारकरं न भवति तदा भक्षणीयम् । स्मृत्यन्तरम् ।

सफला कुम्भिका यस्य गृहे भवति नित्यशः ।
तस्मात् तु काञ्चिका ग्राह्या नेतरस्मात् कदाचन ॥

तथा ।

न भक्षयेद् दारनालं फलमूलविवर्जितम् ॥ १.१६९ ॥

किं च

[२४६]

संधिन्यनिर्दशावत्सागोपयः परिवर्जयेत् ।
औष्ट्रम् ऐकशफं स्त्रैणम् आरण्यकम् अथाविकम् ॥ १.१७० ॥

संधिनी वृष्टभोपगता । अनिर्दशा प्रसवप्रभृत्यनिर्गतदशरात्रा । अवत्सा मृतवत्सा । आसां गवां प्रत्येकं पयो वर्जयेत् । औष्ट्रम् उष्ट्त्रिकायाः । ऐकशफम् एकशपाया वडवादेः । स्त्रिणं स्त्रियाः । आरण्यकम् आरण्यानाम् एण्यादीनाम् । आविकम् अव्याः । पयो वर्जयेद् इति प्रत्येकम् अभिसंबध्यते । वसिष्ठः- “गोमहिष्यजानाम् अनिर्दशानां पयः” । वर्ज्यम् इति शेषः । मनुः ।

आरण्यानां च सर्वेषां मृगाणां महिषीं विना ।

पयो वर्ज्यम् इति शेषः । स्त्रैणम् इति स्त्रीग्रहणम् अजेतरद्विस्तनीनाम् उपलक्षणार्थम् । तथा च शङ्खः- “सर्वासां द्विस्तनीनां क्षीरम् अभोज्यम् अजावर्ज्यम्” इति । क्षीरवर्जने तद्विकारस्यापि वर्जनं वेदितव्यम् । यत आह शङ्खः ।

क्षीराणि यान्य् अभक्ष्याणि तद्विकाराशने बुधः ।
सप्तरात्रं व्रतं कुर्यात् प्रयत्नेन समाहितः ॥

व्रतं गोमूत्रयावकम् । हारीतः- “स्यन्दिनी वृषस्यन्ती तस्याः पयो न पिबेद् ऋतुमद् भवति” । गौतमः- “स्यन्दिनीयमसूसंधिनीनां च” । क्षीरं न पिबेद् इति शेषः । स्यन्दिनी स्वतःस्रवत्क्षीरा । यमसूर्यमलवत्सा । बौधायनः- “क्षीरम् अपेयं विवत्साया अन्यवत्सायाश् च” । ब्रह्मपुराणात् ।

घृतात् फेनं घृतान् मण्डं पेयूषम् अथ चार्द्रगोः ।
सगुडं मरिचाक्तं तु तथा पर्युषितं दधि ॥
शीर्णं तक्रम् अपेयं च नष्टास्वादं च फेनवत् ।
प्रमादाद् भिक्षितैर् एभिर् वने पक्षव्रतं चरेत् ॥

पेयूषं नवप्रसूताक्षीरम् । तच् च यावद् आर्द्रतानुवर्तते । आर्द्रता सरजस्कता । शीर्णं स्फुटितम् । आपस्तम्बः ।

क्षत्रियश् चैव वृत्तस्थो वैश्यः शूद्रो ऽथ वा पुनः ।
**यः पिबेत् कापिलं क्षीरं न ततो ऽन्यो ऽस्त्य् अपुण्यकृत् ॥ [२४७]

भविष्यत्पुराणात् ।

कापिलं यः पिबेच् छूद्रो नरके स विपच्यते ।
हुतशेषं पिबेद् विप्र विप्रः स्याद् अन्यथा पशुः ॥

ब्रह्मपुराणात् ।

अपि प्रथानसमये रात्रौ न प्राशयेद् दधि ।
मधुपर्कप्रदानं च वर्जयित्वा तु कामतः ॥ १.१७० ॥

अपि च

देवतार्थं हविः शुग्रुलोहितान् व्रश्चनांस् तथा ।
अनुपाकृतमांसानि विड्जानि कवकानि च ॥ १.१७१ ॥

देवतार्थं नैवेद्यं हविश्चरुपुरोडाशादि प्राग् घोमाद् देवतार्थं हविस् तद्धवनार्थम् आत्तं वा । शिग्रुः सौभाञ्जनकः । लोहिता लोहितवर्णा वृक्षनिर्यासाः । व्रश्चना वृक्षच्छेदप्रभवा निर्यासा अलोहिता अपि । तथा च मनुः ।

लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस् तथा । इति ।

अनुपाकृतमांसानि देवाद्यर्थत्वेनानुपाकृतानाम् असंकल्पितानां पश्वादीनां मांसानि । विड्जानि विष्ठायां जातानि तण्डुलीयकादीनि । कवकानि चैत्यसंनिभानि । एतानि प्रत्येकं वर्जयेत् । बौधायनः ।

अमेध्यभूस्था ये वृक्षा उप्ताः पुष्पफलोपगाः ।
तेषां नैव प्रदुष्यन्ति पुष्पाणि च फलानि च ॥

अनेन चार्थाद् वृक्षव्यतिरिकान्य् अमेध्यभूप्ररूढानि वर्जयेद् इति प्रतिपादितं भवति ॥ १.१७१ ॥

किं च

क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान् ।
सारसैकशफान् हंसान् सर्वांश् च ग्रामवासिनः ॥ १.१७२ ॥
कोयष्टिप्लवचक्राह्वबलाकाबकविष्किरान् ।

क्रव्यम् अदन्ति ये पक्षिणस् ते गृध्राद्याः क्रव्यादपक्षिणः । क्रव्यम् आममांसम् । दात्यूहश् चातकः । प्रतुद्य भक्षयन्तीति प्रतुदाः श्येनाद्याः । एकशफा अश्वाद्याः । ग्रामवासिनः पारावतादयः । कोयष्टिः कोवकः (?) । प्लवेनैव वर्तनम् अस्येति प्लवः पारिप्लवादिः । विकीर्य विकीर्य भक्षयन्तीति विष्किराः । दात्यूहादय एकशफवर्जाः सर्वे पक्षिविसेषाः । एकशफाश् चाश्वादयस् तद्भक्षणं वर्जयेत् । अत्र ग्राम्याश्वादयः सप्त । [२४८] तथा च पैठीनसिः- “गौर् अविर् अजो ऽश्वो ऽश्वतरो गर्दभो मनुष्यश् चेति सप्त ग्राम्याः पशवः” । अत्राप्य् अविर् भक्षणीयः । तथा च हारीतः- “ग्राम्यारण्यानां पशूनाम् अश्नन्ति । अव्यजमेषमहिषहरिणखड्गरुरुवृषभऋश्यन्यङ्कुमहारण्यवासिनश् च वराहांस् तथा शशकशल्यकमेधागोधाकूर्मतित्तिरिमयूरवार्ध्रीणसलावककुकरकपिञ्जलान् सशल्कांश् च मत्स्यान्ययो(थो)पपन्नान् भक्षयेत्” । बहुशाखशृङ्गो मृग ऋश्यः, मृदुशृङ्ग एण इति प्रसिद्धः । न्यङ्कुः संबरसदृशः शृङ्गरहितः ॥ १.१७२ ॥

अपि च

वृथाकृसरसंयावपायसापूपशष्कुलीः ॥ १.१७३ ॥

पितृदेवप्रयोजनरहितं कृसरादिकं वर्जयेत् । तिलमुद्गमिश्रित ओदनः कृसरम् । संयावो गोधूमकणा घृतक्षीरपक्वाः । गोधूमविकाराः स्नेहपक्वाः शष्कुल्यः । प्रसिद्धम् अन्यत् । केवलात्मार्थपाकप्रतिषेधेनैव वृथाकृसरादिवर्जने सिद्धे तेषां पृथगुपादानं तद्भक्षणे प्रायश्चित्तविशेषप्राप्त्यर्थम् ॥ १.१७३ ॥

किं च

कलविङ्कं सकाकोलं कुररं रज्जुदालकम् ।
जालपादान् खञ्जरीटान् अज्ञातांश् च मृगद्विजान् ॥ १.१७४ ॥
चाषांश् च रक्तपादांश् च सौनं वल्लूरम् एव च ।
**मत्स्यांश् च **

कलविङ्को गृहचटको निगदेषूक्तः । तस्य ग्रामवासिनिषेधे सत्य् उभयचरत्वात् पुनर् ग्रहणम् । काकोलो द्रोणकाकः, “द्रोणकोकिलः” इति निगमात् । रज्ज्वादीन् दलयतीति रज्जुदालको वृक्षकुट्टकः । जालपादा हंसादिव्यतिरेकेणाज्ञाता मृगद्विजजाताः । अत्रापि कलविङ्कादयो ज्ञातमृगव्यतिरिक्ताः पक्षिविशेषाः । सौनं सूनागतं मांसम्, वल्लूरं शुष्कमांसम् । सौनवल्लूरे भक्ष्याणाम् अपि मृगादीनां वर्जनीये । मत्स्याः प्रसिद्धास् तान् वर्जयेत् ॥ १.१७४ ॥

[१४९]

वर्जनीयतयोक्तानां [भक्षणे] प्रायश्चित्तम् आह

कामतो जग्ध्वा सोपवासस् त्र्यहं वसेत् ॥ १.१७५ ॥

संधिनीक्षीरादीनां मत्स्यान्तानां मध्ये ऽन्यतमं कामतो जग्ध्वा भक्षयित्वा त्रिरात्रम् उपवसेत् । अकामतस् त्व् एकाहम् “शेषेषूपवसेद् अहः” इति मनुस्मरणात् ॥ १.१७५ ॥

किं च

पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् ।
लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥ १.१७६ ॥

पलाण्डुः कन्दविशेषः । विड्वराहो ग्रामसूकरः । छत्राकं छत्रसदृशम् । ग्रामकुक्कुटलशुने प्रसिद्धे । गृञ्जनं कन्दविशेषः । गर्तेनक इत्य् उदीच्यां प्रसिद्धः । एतानि कामतः सकृद् भक्षयित्य्वा चान्द्रायणं चरेत् । मनुस् त्व् एषां कामतो भक्षणाभ्यासे पातित्यम् आह ।

छत्राकं विष्वराहं च लुशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ॥ इति ।

ततश् च सुरापानप्रायश्चित्तप्राप्तिः । अमतिपूर्वे त्व् अभ्यासे स एवाह ।

अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ।
यतिचान्द्रायणं चापि शेषेषूपवसेद् अहः ॥ इति ।

अमतिपूर्वे सकृद्भक्षणे शङ्ख आह- “लशुनपलाण्डुगृञ्जनविड्वराहग्रामकुक्कुटकुम्भीकभक्षणे द्वादशरात्रं पयः पिबेत्” इति । सकृद्भक्षणे ब्रह्मपुराणम् ।

लशुनं गृञ्जनं चैव पलाण्डुश् च परारिका ।
कन्या परारिका चान्या दीर्घपत्रं तद् उच्यते ॥
अलम्भ्सा च तुष्टैश् च (?) कृतनामा महौषधम् ।
गृञ्जनं यवनेष्टं च शशंसूर्यवनाश् च तत् ॥
सृसकं च सनाशाकं तुम्बुरं च गरेटकम् ।
अथ पूयनकं नाम लवतर्का च दारुणा ॥
त्रयोदशैतास् तस्यापि जातयश् चातिगर्हिताः ।
पिण्डोपमं तु खुक्खण्डं कवकं चैत्यसंनिभम् ॥
छत्राकं छत्रसदृशं त्रयं भूमिसमुद्भवम् ।

[२५०] नानाविधाः शाखिनो ये छत्राकं च तदुद्भवम् ॥

शस्त्रच्छेदेषु वृक्षाणां यश् चोद्भवति कुत्रचित् ।
त्वक्पर्यन्तेषु च रसो लोहितान्य् अङ्कुराणि च ॥
पलाण्डुप्रमुखैर् एभिः प्रमादाद् भक्षितैर् अपि ।
चान्द्रायणं चरेद् विप्रः कृच्छ्रं सान्तपनं तथा ॥
वनवासव्रतं मासं चरेद् वा सुसमाहितः॥

असमर्थादिविषयो विकल्पः । स्मृत्यन्तरम् ।

हरण्डुश् च पलाण्डुश् च लवतर्कः परारिका ।
गृञ्जनं यवनेष्टश् च पलाण्डोर् दश जातयः ॥ १.१७६ ॥
भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः ।
शशश् च मत्स्येष्व् अपि हि सिंहतुण्डकरोहिताः ॥ १.१७७ ॥
तथा पाठीनराजीवसशल्काश् च द्विजातिभिः ।

सेधादयः शशन्ताः पञ्चनखास् तथा मत्स्येष् मधे सिंहतुण्डकादयो मत्स्यविशेषाः द्विजातिभिर् भक्ष्याः । सामान्यतः प्रवृत्तो ऽयं पञ्चनखभक्षणनिषेधो मत्स्यभक्षणनिषेधश् च न तेषु विद्यत इत्य् अर्थः । सेधादीनां प्रसिद्धम् एव पञ्चनखत्वम् अनूद्यते ऽन्येषां पञ्चनखानां मांसम् अभक्ष्यम् इति ज्ञापनार्थम् । सेधा श्वावित् । स च श्वभक्षको व्याघ्रविशेषः । सेधा वल्लीसदृशः प्राणिविशेषः । शशकच्छपौ प्रसिद्धौ । शल्लकः शलली । द्विजातिग्रहणम् उपलक्षणार्थम् । तथा च देवलः ।

उक्तम् एतत् तु सर्वेषां भक्ष्याभक्ष्यम् अशेषतः ।
वर्णानां सानुलोमानां सस्त्रीणां च विशेषतः ॥ इति ।

वसिष्ठः- “श्वाविच्छल्यकशशकच्छपगोधाः पञ्चनखानां भक्ष्याः । अनुष्ट्रः पशूनाम् अन्यतोदन्ताश् च मत्स्यानां चाचेटगवयशिशुमारनक्रकुलीरा विकृतरूपाः स्रवशीर्षाश् च गौरगवयशरभाजाश् चानुदिष्टास् तथा धेन्वनडुहावपन्नदन्ताः” इत्यादि । अवपन्नदन्ता इत्य् अन्तम् अभिक्ष्य इत्य् प्रतिपदं संबन्धनीयम् । भक्ष्यौ धेन्वनडुहौ मेध्यौ वाजसि(स)नेयकैर् विज्ञायेते । खड्गे तु ववदन्ते ऽग्राम्यसूकरे च खड्गे तु विवदन्ते भक्ष्याभक्ष्यतयातो विकल्पः । स च व्यवस्थितः । श्राद्धे भक्ष्यो नान्यत्र । अग्राम्यसूकरो ऽरण्यसूकरः ॥ १.१७७ ॥

[२५१] अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जिते ॥ १.१७८ ॥

प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया ॥
देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक् ॥ १.१७९ ॥

उक्तं मांसानां भक्षणं वर्जनं चातः परं विधिनिमित्तं वक्ष्यमाणं शृणुध्वम् । तत्र प्राणात्ययादि मांशभक्षणे निमित्तं शाब्दं वर्जिते तु तदभाव आर्थम् । प्राणात्ययो व्याधिनिमित्तोऽन्नाभावनिमित्तश् च । तथा च मनुः ।

नियुक्तस् तु यथान्यायं यो मांसं नात्ति मानवः ।
स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥

नियुक्तो निमन्त्रितो दैवे श्राद्धे वा । तथा च यमः ।

आमन्त्रितस् तु यः श्राद्धे दैवे वा मांसम् उत्सृजेत् ।
यावन्ति पशुरोमाणि तावन् नरकम् ऋच्छति ॥

प्रोक्षितशब्देन निर्वर्तितपशुयागमांसम् उपलक्ष्यते । ततश् च पशुयाग इडारूपमांस ऋत्विग्यजमानैः कार्य एव । द्विजकाम्यया द्विजेच्छया । यं प्रति द्विजास् त्वया मांसं भक्षणीयम् इतीच्छन्ति स भक्षयेद् इत्य् अर्थः । देवपितृभ्यो दत्तस्य मांसस्य शेषम् अशेषम् अश्नीयात् । एषु निमित्तेषु खादन् मांसं न दोषभाग् भवति ॥ १.१७८–१७९ ॥

वर्जनविधिम् आह

वसेत् स नरके घोरे दिनानि पशुरोमभिः ।
संमितानि दुराचारो यो हन्त्य् अविधिना पशून् ॥ १.१८० ॥

अविधिनोक्तनिमित्तव्यतिरेकेण यो दुराचारो मांसं खादितुं पशुं हन्ति स पशुरोमसंमितानि दिनानि नरके वसेत् । अनेन च पशुवधस्य प्रतिषिद्धस्य नरकवासं प्रति निमित्तता बोध्यते । यथा “यो ऽपगुरातै शतेन यातयात्” इत्यादिना ब्राह्मणं प्रत्यवगूरणस्य यातनायाश् च साध्यसाधनसंबन्धः । तेन नेदम् अर्थवादमात्रं किं तु विवक्षितस्वर्थं वचनम् । अत्र मनुः ।

अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
**संस्कर्ता चोपहर्ता च खादकश् चेति घातकाः ॥ [२५२]

यमः ।

यस् तु खादति मांसानि प्राणिनां जीवितैषिणाम् ।
हतानां च मृतानां च यथा हन्ता तथैव सः ॥

तथा ।

धनेन चोपभोगेन वधबन्धेन वाप्य् अथ ।
त्रिविधस् तु वधो ज्ञेयो भोक्ता तत्रातिरिच्यते ॥

अथ महाभारते ।

चतुरो वार्षिकान् मासान् यो मांसं नात्ति मानवः ।
चत्वारि भद्रान्य् आप्नोति कीर्तिम् आयुर् यशो बलम् ॥

तथा ।

कौमुदं तु विशेषेण शुक्लं पक्षं नराधिप ।
वर्जयेन् मधु मांसानि धर्मो ह्य् अत्र विधीयते ॥

यमः ।

यजुषा संस्कृतं मांसम् भक्षयेत् तु यथाविधि ।
न भक्षयेद् वृथामांसं पृष्ठमांसं विवर्जयेत् ॥

पृष्ठमांसं पृष्ठसंधिमांसम् । ब्रह्मपुराणे ।

पशोश् च मार्यमाणस्य मांसं न ग्राहयेद् द्विजः ।
पृष्ठमांसं गर्भशय्यां शुष्कमांसम् अथापि वा ॥

नित्यम् अभोज्या इत्य् अनुवृत्तौ गौतमः- “उभयतोदन्ता अलोमानः केशिन एकशफाः कलविङ्कप्लवचक्त्रवाकहंसाः” । केशी चमरी ॥ १.१८० ॥

इदानीं विहितव्यतिरिक्तमांसभक्षणवर्जनस्य फलम् आह

सर्वान् कामान् अवाप्नोति हयमेधफलं तथा ।
गृहे ऽपि निवसन् विप्रो मुनिर् मांसविवर्जनात् ॥ १.१८१ ॥

गृहस्थो ऽपि सन् मांसविवर्जनान् मुनितुल्यो भवति । तापसो भवतीत्य् अर्थः । सर्वान् कामान् अश्वमेध्फलं च प्राप्नोति । अवाप्नोतीति वर्तमाना विभ्कक्तिर् विधिविभक्तित्वेन परिणामयितव्या यथा रात्रिसत्रे ॥ १.१८१ ॥

इति श्रीविध्याधरवंशप्रभवशेईशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रभूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्कीयधर्मशास्त्रनिबन्धे

[भोज्याभोज्य] भक्ष्याभक्ष्यप्रकरणम् ॥ ६ ॥