०६ स्नातक-धर्म-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

स्नातकव्रतप्रकरणम् — ५

न स्वाध्यायविरोध्यर्थम् ईहेत न यतस् ततः ।
न विरुद्धप्रसङ्गेन संतोषी च भवेत् सदा ॥ १.१२९ ॥

स्वाध्यायाधिगमविरोधिनम् अर्थं नेच्छेत् । तदविरोधिनम् अपि यतस् ततो नेहेत, यतस् ततो निषिद्धआद् दातुर् इत्य् अर्थः । न च विरुद्धेन कर्मणा द्यूतादिना प्रसङ्गेन च गीतादिना । प्रसङ्ग आसक्तिः । तद्धेतुत्वाद् गीतादिः प्रसङ्गः । अथ वा प्रसङ्गो ऽनिष्टाषत्तेः, [१७०] यद्य् अस्मै नैतद् ददमीदं मे ऽनिष्टम् एष करिष्यतीत्य् एवं भयजननरूपः । यथोत्पन्नेन च संतोषी संतुष्टो भवेत् । अत्र च मनुः ।

संतोषं परम् आस्थाय सुखार्थं संयतो भवेत् ।
संतोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥

अत्र च प्रकरणे प्रतिवाक्यम् इदं कार्यम् इदं वर्जनीयम् इति प्रतिपादनद्वारेण तद्विषयः संकल्प इदं करिष्ये नेदं करिष्य इति मनोव्यापाररूपो व्रतशब्दवाच्यो विधीयते । “तस्य व्रतम्” इत्य् उपक्रम्य श्रुताव् एषां विधानात् । अत एव वसिष्ठः- “अथातः स्नातकस्य व्रतानि” इत्य् आरभ्यैतानि विहितवान् । एते च संकल्पाः समावर्तनानन्तरम् एव कार्याः स्नातकं प्रति विहितत्वात् ॥ १.१२९ ॥

यतो ऽर्थ ईहितव्यस्तम् आह ।

राजान्तेवासियाज्येभ्यः सीदन्न् इच्छेद् धनं क्षुधा ।

क्षुधाअवसीदन् राजादीनाम् अन्यतमाद् धनम् इच्छेत् । प्रतिग्रहादिना लिप्सेत । राजग्रहणं विशुद्धस्य दातुर् उपलक्षणार्थम् ।

दम्भिहैतुकपाषण्डिबकवृत्तींश् च वर्जयेत् ॥ १.१३० ॥

लोकवशीकरनार्थं धर्मकारी दम्भी, हेत्वाश्रयणेन श्रुतिस्मृत्युक्तधर्मदूषयिता युक्तिबलेन सर्वत्रसंशयकारी च हैतुकः, वेदबाह्यागमविहितकारी पाषण्डी । उक्ताश्रमव्यतिरिक्तश् च बकस्य वृत्तिर् एव वृत्तिर् यस्य स बकवृत्तिः । एतान् वर्जयेत् । एभिर् न संव्यवह्रेयुर् इत्य् अर्थः । मनुः ।

पाषण्डिनो विकर्मस्थान् बैडालव्रतिकाञ् शठान् ।
हैतुकान् बकवृत्तींश् च वाङ्मात्रेणापि वर्जयेत् ॥

निषिद्धकारिणो विकर्मस्थान् । बैडालव्रतिकादीन् स एवाह ।

धर्मध्वजी सदालुब्धश् छद्मिको लोकदांभिकः ।
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधिकः ॥
यस्य दर्मधव्जो नित्यं सुराध्वज इवोच्छ्रितः ।
प्रच्छन्नानि च पापानि बैडालं नाम तद्व्रतम् ॥
अधोदृष्टिनैकृतिकः स्वार्थसाधनतत्परः ।
शठो मिथ्याविनीतश् च बकवृत्तिर् उदाहृतः ॥

शठः स्तब्धः । [१७१] अत्र विष्णुधर्मेषु पृष्टपाषण्डिलक्षणं कथंचित् पाषण्डिदर्शनसंलापस्पर्शनप्रायश्चित्तसंजातजिज्ञासं दाल्भ्यं प्रति पुलस्त्यं उवाच ।

श्रुतिस्मृत्युदितं धर्मं वर्णाश्रमविभागजम् ।
उल्लङ्घ्य ये प्रवर्तन्ते स्वेच्छया कूटयुक्तिभिः ॥
विकर्माभिरता मूढा युक्तिप्रागल्भ्यदुर्मदाः ।
पाषण्डिनस् ते दुःशीला नरकार्हा नरधमाः ॥
तांस् तु पाषण्डिनः पापान् विकर्मस्थांश् च मानवान् ।
बैडालव्रतिनश् चैव नित्यम् एव च नापलपेत् ॥
संभाष्यैताञ् शुचिषदं चिन्तयेद् अच्युतं बुधः ।
शरीरम् अन्तःकरणोपघातैर् वाचश् च विष्णुर् भगवान् अशेषम् ।
शमं नयन्त्व् अस्तु ममेह शर्म पापाद् अनन्ते हृदि संनिविष्टे ॥
अन्तः शुद्धिं बहिः शुद्धिं शुद्धो ऽन्तर् मम यो ऽच्युतः ।
स करोत्व् अमले तस्मिञ् शुचिर् एवास्मि सर्वदा ॥
बाह्योपघाताद् अनघो विद्वांश् च भगवान् अजः ।
शुद्धिं नयत्व् अनन्तात्मा विष्णुश् चेतसि संस्थितः ॥
एतत् संभाष्य जप्तव्यं पाषण्डिभिर् इहाधमैः ।
नमः शुचिपदे चोक्त्वा सूर्यं पश्येच् च वीक्षितैः ॥

तथा ।

पाषण्डिनो दुराचारा दुष्टान्नगुणवादिनः ।
असंस्कृतान्नभोक्तारो व्रात्याः संस्कारवर्जिताः ॥
पाषण्डाः पापकर्माणो दाम्भिकाः शठबुद्धयः ।
वर्णसंकरकर्तारो धर्मव्याजोपजीविनः ॥
निःशौचा वक्र्मतयो नान्यद् अस्तीति वदिनः ।
एवंविधास् ते सन्मार्गाद् वेदप्रोक्ताद् बहिष्कृताः ॥
क्रियाकलापं निन्दन्त ऋग्यजुःसमलक्षणम् ।
आत्मानं च परांश् चैव कुर्वन्ति नरकस्थितौ ॥
तेषां दर्शनसंभाषस्पर्शनानि नरैः सदा ।
परित्याज्यानि दृष्टे च प्रोक्तं संभाषणे तथा ॥
संस्पर्शे च बुधः स्नात्वा शुद्धे(ध्ये)च् छुचिषदं स्मरन् ।
अधमानां सदैवैषाम् आलापस्पर्शनं त्यजेत् ॥

[१७२] प्राकृतो ऽपि जनः किं तु यः सदाचारपालकः ।

यतस् ते वैदिकं कर्म निन्दन्त्य् अकृतबुद्धयः ॥
पाषण्डिनाम् अशेषाणाम् अप्रीतिर् वेदकर्मणि ।
ते ह्य् अधोगामिनः प्रोक्ता आसुरं भावम् आश्रिताः ॥

तथा ।

तन्मोहितानाम् अचिराद् विवेको याति संक्षयम् ।
क्षीणज्ञाना विकर्माणि कुर्वन्त्य् अहर् अहर् नराः ॥
निजवर्णात्मकं धर्मं परित्यज्य विमोहिताः ।
धर्मबुद्ध्या ततः पापं कुर्वन्त्य् अज्ञानमोहिताः ॥
ज्ञानावलेपश् तत्रैव ततस् तेषां प्रजायते ।
सुहृद्भिर् वार्यमाणास् ते पण्डितैश् च दयालुभिः ॥
प्रयच्छन्त्य् उत्तरं मूढाः कूटयुक्तसमन्वितम् ।
ततस् ते स्वयम् आत्मानम् अन्यं चल्पमतिं नरम् ॥
विकर्मणां योजयन्तश् च्यावयन्ति स्वधर्मतः ॥

विष्णुपुराणम् ।

क्रियाहानिर् गृहे यस्य मसम् एकं प्रजायते ।
तस्यावलोकनात् सूर्यं पश्येत मतिमान् नरः ॥
किं पुनर् यस् तु संत्यक्तत्रयीः (यिः) सर्वात्मना द्विजः ।
पाषण्डियोगिभिः पापैर् वेदवादविरोधिभिः ॥
पाषण्डिनो विकर्मस्थान् बैडालव्रतिकाञ् शठान् ।
हैतुकान् बकवृत्तींश् च वाङ्मात्रेणापि नार्चयेत् ॥
बुधैर् आलापसंसर्गसहास्याश् चातिपापिभिः ।
पाषण्डिभिर् दुराचरैस् तस्मात् तान् परिवर्जयेत् ॥
एते नग्नास् तथा ख्याता दृष्ट्वा श्राद्धोपघातकाः ।
एषां संभाषनात् पुण्यं दिनम् एकं प्रणश्यति ॥
एतान् पाषण्डिनः पापान् नित्यम् एव तु नालपेत् ।
पुण्यं नश्यन्ति संभाषाद् एतेषां तद्दिनोद्भवम् ॥

स्कन्दपुराणे ।

कृतघ्नं मानवं दृष्ट्वा नारकेष्व् अपि कुत्सितम् ।
शुद्ध्यर्थं देवि द्रष्टव्याः सोमानलदिवाकराः ॥

सोमादीनां यथासंभवं विकल्पः ॥ १.१३० ॥

शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः ।

शुक्लवस्त्रधरो भवेत् । तथा नीचकेशादिश् च भवेत् । नीचानि कृत्तानि केशश्मश्रुनखानि यस्य स तथोक्तः । तथा शुचिः प्रयतः सर्वदा स्यात् । गौतमः- “न रक्तम् उल्बणम् अन्य्द्धृतं वा वसो बिभृयात् । निर्णिज्य तु कामम्” । अन्यधृतं तु प्रक्षाल्य कामं बिभृयाद् इत्य् अर्थः । मानवे ऽपरो विशेषः ।

न जीर्णमलवद्वासा भवेच् च विभवे सति ।

तथा ।

उपानहौ च वासश् च धृतम् अन्यैर् न धारयेत् ।
उपवीतम् अलंकारं छत्रं कनकम् एव च ॥

विष्णुपुराणे ।

सदानुपहतं वस्त्रं प्रशस्त्राश् च तथौषधीः ।
गारुडानि च रत्नानि बिभृयात् प्रयतो नरः ॥

मार्कण्डेयपुराणे ।

न चापि रक्तवासाः स्याच् चित्रासितधरो ऽपि वा ।
न च कुर्याद् विपर्यासं वाससोर् न च भाषणे ॥
वर्ज्यं च विदशं वस्त्रम् अत्यन्तोपहतं च यत् ॥

महाभारते ।

अन्यद् एव भवेद् वासः शयनीये ऽन्यद् एव तु ।
अन्यद् रथ्यासु देवानाम् अर्चायाम् अन्यद् एव हि ॥
न भारादर्शने ऽश्नीयान् नैकवासा न संस्थितः ॥ १.१३१ ॥

भार्यां पश्यंस् तया च दृश्यमानस् तथैकवासाश् च तिष्ठन् नाश्नीयात् ॥ १.१३१ ॥

न संशयं प्रपद्येत नाकस्माद् अप्रियं वदेत् ।
नाहितं नानृतं चैव न स्तेनः स्यान् न वार्धुषी ॥ १.१३२ ॥

संशयं जीवनसंशयं न प्रपद्येत । अथ वा निश्चिते ऽर्थे संशयम् अतिशङ्कां न कुर्यात् । अप्रियम् अहितम् । अनृतं च शास्त्रीयकारणं विना न वदेत् । स्तेनो वा वार्धिषी वा न स्यात् । मनुः ।

नाविनीतैर् व्रजेद् धुर्यैर् न चक्षुर्व्याधिपीडितैः ।
न भिन्नशृङ्गाक्षिखुरैर् न वालधिविरूपितैः ॥
नातिकाल्यं नातिसायं नातिमध्यंदिने स्थिते ।
नाज्ञातेन च संगच्छेन् नैको न वृषलैः सह ॥
**गवां च यानं पृष्ठेन सर्वदैव विगर्हितम् ॥ [१७४]

विष्णुः- “न रात्रौ वृक्षमूलम् अधितिष्ठेत् । न सूनाबन्धनागारौ न वृथ च नदीं तरेत् । न देवताभ्यः पितृभ्यश् चोदकम् अप्रदाय कूलम् अधितिष्ठेत् । न कूपम् अवलोकयेत् । न लङ्घयेत् । नैको ऽध्वानं प्रपद्येत । नाधार्मिकैः सार्धं न द्विषद्भिः । न संध्ययोर् नासंनिहितपानीयं नातितूर्णं न संततम्” । बौधायनः- “न पतितेन स्त्र्या चाध्वानं व्रजेत्” । विष्णुपुराणे ।

वर्षातपादिषु छत्री दण्डी रात्र्यटवीषु च ।
शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत् ॥
नोर्ध्वं न तिर्यग् दूरं वा निरीक्षण् पर्यटद् बुधः ।
युगमात्रं महीपृष्ठं नरो गच्छेद् विलोकयन् ॥

तथा ।

न दुष्टं यानम् आरोहेत् कूलच्छायां न संश्रयेत् ।
नैकः शून्याटवीं गच्छेन् न च शून्ये गृहे वसेत् ॥

देवीपुराणे ।

नासहायो व्रजेद् रात्रौ नोत्पथे न चतुष्पथे ॥

आपस्तम्ब- “न श्रोत्रियम् अनभिभाष्य व्यतिव्रजेद् अरण्यं न स्त्रियम्” । पैठीनसिः- “न गोब्राह्मणाग्न्यन्तरेण व्यपेयात् । अनुज्ञाप्य वा व्रजेत् । यमः-

संनिकृष्टाव् अधीयानौ यो ऽन्तरा व्रजति द्विजः ।
स भासरासभानां च योनिं न व्रजति पापकृत् ॥ इति ।

“नाकस्माद् अप्रियं वदेत्” इत्य् उक्तम्, तत्प्रसङ्गाद् अन्यद् अप्य् उच्यते । तत्र “दोषाः” इत्य् अनुवृत्तौ देवलः- “तत्र परुषवचनम् अपवादः पैशुन्यम् अनृतं वृथालापो निष्ठुरम् इति वाङ्मयाश् च षट् । परेषां देशकुलजातिविद्याशिल्परूपवृत्तावारपरिच्छदशरीरकर्माजीवनानां तत् प्रत्यक्षं दोषवचनम् ।

यच् चान्यत् क्रोधसंत्रासजननं निन्दितं वचः ।
परुषं तच् च विज्ञेयं तथान्यच् च तथाविधम् ॥
चक्षुष्मान् इति लुप्ताक्षं चण्डालं ब्राह्मणेति च ।
प्रशंसानिन्दनं द्वेषात् परुषात् तद् विशिष्यते ॥
वृषलं वृषलेत्य् उक्त्वा पतितं पतितेति वा ।
सत्येनापि च दोषः स्यान् मिथ्या द्विगुणभाग् भवेत् ॥

तेषाम् एव परुषवचनानां प्रोक्षम् उदाहरणम् अपवादः । गुरुनृपनिबन्धुभर्तृमित्रसकाशे [१७५] ऽर्थोपघातार्थं दोषोपाख्यापनं पैशुन्यम् । अनृतं द्विविधम्- असत्यं विसंवादश् चेति । तत्र दृष्टश्रुतानुमितानाम् अन्यथा वचनम् असत्यम् । प्रागभ्युपगतानाम् असंप्रवर्तनं विसंवादः” इति ।

रागाद् द्वेषाद् भयाल् लोभाद् दाक्षिण्याच् छङ्कया ह्रिया ।
दम्भात् प्रमादतश् चापि नरस्योत्पद्यते ऽनृतम् ॥
परप्राणोपघाताच् च परद्रव्यापहारतः ।
विशिष्टो ऽनृतवादस् तु न वृथा कथनादिषु ॥
तस्माद् अनृतहेतूंस् तान् नात्मन्य् उत्पादयेत् क्वचित् ।
उत्पन्नान् वा प्रशमयेत् कारणैस् तद्विघातिभिः ॥
देशराजप्रवादाच् परार्थपरिकल्पनात् ।
नर्महासप्रसङ्गाच् च विज्ञेयं व्यर्थभाषणम् ॥
गुह्याङ्गनाङ्गसंज्ञानां वचनं निष्ठुरं विदुः ।
यद् अन्यद् वा वचो नीचं स्त्रीपुंसोर् मैथुनाश्रयम् ॥
इत्य् एवं षड्विकल्पस्य दुष्टवाक्यस्य भाषणम् ।
इह चामुत्र तत् त्यक्त्वा नाना(न)र्थम् अधिगच्छति ॥
हिताहितं मनुष्याणां केवलं वचसि स्थितम् ।
तस्मात् संयोजयेद् वाचम् अप्रमत्तः परीक्ष्य च ॥
दुश्चिकित्स्यतमं पश्चाद् दुरुक्तं हि वचो भवेत् ।
क्षिप्रं विनिपतेच् चापि वचनं दोषसंहितम् ॥

अत्र यमः ।

प्रत्यक्षं वा परोक्षं वा पतितं यदि पश्यति ।
प्रत्यादेशो न कर्तव्यो रक्षेद् आत्मानम् आत्मना ॥

केनापि प्रमाणेन विदितं पतितं न प्रत्यादिशेत्, न कथयेद् इत्य् अर्थः । तत्संयोगाद् आत्मानं रक्षेत् ।

यानि मिथ्याभिशस्तानां पतन्त्य् अश्रूणि रोदनात् ।
तानि पुत्रान् पशून् घ्नन्ति तूर्णं मिथ्याभिशंसिनाम् ॥

दक्षः ।

अनृतं पारदार्यं च तथाभक्ष्यस्य भक्षणम् ।
अगम्यागमनं चैव् हिंसा स्तेयं तथैव च ॥
अश्रौतधर्माचरणं मैत्रधर्मबहिष्कृतम् ।
**एतानि नव कर्माणि निषिद्धानि विवर्जयेत् ॥ [१७६]

मैत्रं मैत्री । बहिष्करणं त्यागः । देवलः ।

गृहे पररहस्यानि नैवोपशृणुयात् क्वचित् ।
न ब्रूयात् पररन्ध्राणि प्रकाशे जनसंसदि ॥

यमः ।

नैव ब्रूयान् न शृणुयाद् दुष्टवाक्यं कथंचन ।
ब्राह्मणानां विशेषेण कदचिद् अपि केनचित् ॥
दुष्टवाक्यं न वक्तव्यं ब्राह्मणानां कथंचन ।
तूष्णीम् आसीत निन्दायां न ब्रूयात् किंचिद् उत्तरम् ॥
ब्राह्मणानां परीवादं नैव कुर्यान् न कारयेत् ।
यद् ब्राह्मणेषु कुशलं तद् एवाशु समाचरेत् ॥
ब्राह्मणानां परीवादो निन्दा यत्र प्रवर्तते ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततो ऽन्यतः ॥ १.१३२ ॥

किं च ।

दाक्षायणी ब्रह्मसूत्री वेणुमान् सकमण्डलुः ।

दाक्षायणं सुवर्णम्, ब्रह्मसूत्रं यज्ञोपवीतम्, वेणुर् वंशः । एतद्वान् कमण्डलुसहितश् च भवेत् । मनुः ।

वैणवीं धारेयद् यष्टिं सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥

वेदो दर्भमुष्टिः । रौक्मे सौवर्णे । लौगाक्षिः- “अनुपसृष्टं सुवर्णं धारयेत्” । अनुपसृष्टं कालिकारहितम् । बौधायनः- “स्नातको ऽन्तर्वासाः सोत्तरीयं वैणवं दण्डं धारयेत् सोदकं च कमण्डलुम् । द्वे यज्ञोपवीते उष्णीषम् अजिनम् उपर्य् उपानहौ छत्रं च” ।

अपि च ।

कुर्यात् प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन् ॥ १.१३३ ॥

देवादीन् प्रदक्षिणं कुर्यात् । दक्षिणहस्तभागे कुर्वन् गच्छेद् इत्य् अर्थः । मनुः ।

मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् ।
प्रदक्षिंअं प्रकुर्वीत प्रज्ञातंश् च वनस्पतीन् ॥

मृदम् उद्धृताम् । मार्कण्डेयः ।

चतुष्पथं नमस्कुर्यात् प्रख्यातांश् च वनस्पतीन् ।
मङ्गल्यानि च सर्वाणि पथि कुर्यात् प्रदक्षिणम् ॥
अमङ्गल्यानि वामानि कर्तव्यानि विजानता ॥ इति ।
औषधानि नियुक्तानि धान्यं कृष्णं च यद् भवेत् ।
कार्पासं च तृणं सुष्कं शुष्कगोमयम् एव च ॥
इन्धनं च तथाङ्गारं यत्र सर्पौ तथाशुभौ ।
अभ्यक्तो मलिनः पाण्डुस् तथा नग्नश् च मानवः ॥
मुक्तकेशो गदार्तश् च कषायाम्बरधारकः ।
उन्मत्तकस् तथा षण्डो दीनश् चाथ नपुंसकम् ॥
अयः पङ्कं तथा चर्म केशाबन्धनम् एव च ।
तथैवोद्धृतसाराणि पिण्याकदीनि यानि च ॥
चण्डालश्वपचाद्याश् च नरा बन्धनपालकाः ।
वधकाः पापकर्माणो गर्भिणी स्त्री तथातुरः॥
तुषभस्मकपालास्थिभिन्नभाण्डानि यानि च ।
रिक्तानि चैव भाण्डानि मृतं साक्रन्दम् एव च ॥
एवमादीनि चान्यानि अशस्तान्य् अभिदर्शने ।
अशस्तो वाद्यशब्दश् च भिन्नभैरवझर्झरः ॥
एहीति पुरतः शब्दः शस्यते न तु पृष्टतः ।
गच्छेति पश्चाद् धर्मज्ञ पुरस्तात् तु विगर्हितः ॥
क्व यासि तिष्ठ मा गच्छ किं ते तत्र गतस्य च ।
अन्ये शब्दाश् च ये ऽनिष्टास् ते विपत्तिकराः स्मृताः ॥
ध्वजादिषु तथा स्थानं क्रव्यादीनां विगर्हितम् ।
स्खलनं वाहनानां च वस्त्रसंघस् तथैव च ॥
निर्गच्छतश् च द्वारादौ शिरस्य् आहननं भवेत् ।
छत्रध्वजादिवस्त्राणां पतनं चाशुभं भवेत् ॥
वायुश् च कर्कशो रूक्षः सर्वदिग्भ्यः समुत्थितः ।
प्रतिलोमस् तथा नीचो विज्ञेयो भयकृद् द्विजः ॥
अनुकूलो मृदुः स्निग्धः सुखस्पर्शः शुभावहः ।
क्रूरा रूक्षस्वराश् चण्डाः क्रव्यादाश् च विगर्हिताः ॥

[१७८] अप्रशस्ते तथा ज्ञेये परिवेश(ष)प्रवर्षणे ।

दृष्टे निमित्ते प्रथमम् अमङ्गल्यविनाशनम् ॥
शंकरं संस्तुयाद् विद्वांस् तथैव मधुसूदनम् ।
द्वितीयं तु ततो दृष्टे प्रतीपं प्रविशेद् गृहम् ॥

सहजं नपुंसकम् । पुमान् एव कारणान्तराड् अपेतपुंस्त्वः षण्डः ।

अथेइष्टानि प्रअवक्ष्यामि मङ्गलानि तथानघ ।
श्वेताः सुमनसः श्रेष्टाः पूर्णकुंभस् तथैव च ॥
जलजानि च पुष्पाणि मांसं मत्याश् च भार्गव ।
गावस् तुरङ्गमातङ्गौ बद्ध एकपशुस् त्व् अजः ॥
त्रिदशाः सुहृदो विप्रा ज्वलितश् च हुताशनः ।
गणिकाश् च महाभाग दूर्वा चार्द्रं च गोमयम् ॥
रुक्मं रूप्यं तथा ताम्रं सर्वरत्नानि चाप्य् अथ ।
ओषधयो ऽपि च धर्मज्ञ वचा सिद्धार्थकास् तथा ॥
नृवर्धमानयानं च भद्रपीठं तथैव च ।
खड्गं चक्रं पताकां च मृदम् आयुधम् एव च ॥
राजलिङ्गानि सर्वाणि शवं रुदितवर्जितम् ।
घृतं दधि पयश् चैव फलानि विविधानि च ॥
स्वस्तिकं वर्धमानं च नद्यावर्तं सकौस्तुभम् ।
नद्यश् च चित्रविन्यस्ता मङ्गलानि पराणि च ॥
अक्षताश् च तथा मुख्यास् तथा दर्पणम् एव च ।
अञ्जनं रोचना चैव भृङ्गारं माक्षिकं तथा ॥
शङ्खम् इक्षुस् तथा भक्ष्या वाचश् चैव तथा शुभाः ।
वादित्राणां शुभः शब्दो गम्भीरश् च मनोहरः ॥
गान्धारषड्जऋषभा ये च शब्दास् तथा स्वराः ।
मेधाः शस्ताः शुभाः स्निग्धा गजबृंहितशब्दिताः ॥
अनुलोमा तडिच्छस्ता शक्रचापं तथैव च ।
अनुलोमा ग्रहाः शस्ता दिक्पतिस् तु विशेषतः ॥
आस्तिक्यं श्रद्दधानत्वं तथा पूज्याभिपूजनम् ।

[१७९] शस्त्रान्य् एतानि धर्मज्ञ यच् च स्यान् मनसः शुभम् ॥

मनसस् तुष्टिर् एवात्र परं व्रजनकारणम् ।
एकतः सर्वलिङ्गानि मनसस् तुष्टिर् एकतः ॥
यानोत्सुकत्वं मनसः प्रहर्षः सुस्वप्नलाभो विजयप्रवादः ।
मङ्गल्यसिद्धिप्रवणं मनश् च ज्ञेयानि नित्यं विजयावहानि ॥

आरूढनरं यानं नृवर्धमानम् । देवस्नानार्थं पीठं भद्रपीठम् । नन्द्यावर्तादयः सुवर्णदार्वादिकृताः संनिवेशा ज्योतिःशास्त्रवास्तुविद्याप्रसिद्धाः । विष्णुः- “व्यङ्गं दृष्ट्वा निवर्तेत विरक्तमुण्डजटिलवामनप्रव्रजितांश् च लवणरज्जुनिगडांश् च । वीणाचन्दनार्द्रशाकोष्णीषालंकारकुमारीस् तु प्रस्थानकाले ऽभिनन्देत्” इति ॥ १.१३३ ॥

न मेहेत नदीछायावर्त्मगोष्ठाम्बुभस्मसु ।

नद्यादिषु मेहनं मूत्रपुरीषोत्सर्गं न कुर्यात् । नद्याम् अनुदकायाम् । सोदकायां पुनर् अम्बुग्रहणाद् एव निषेधः सिद्धः । छायायां लोकोपजीव्यायाम् । तथा च वसिष्ठः- “न नद्यां मेहनं कुर्यान् न पथि न च भस्मनि । न गोमये न कृष्टे नोप्ते न शाद्वलोपजीव्यच्छायासु” । गोष्ठो गोव्रजः । तथा मनुः ।

न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ।
न फालकृष्टे न जले न चित्यां न च पर्वते ॥
न जीर्णदेवायतने न वल्मीके कदाचन ।
न ससत्त्वेषु गर्तेषु न गच्छन् न पथि स्थितः ॥
न नदीतीरम् आसाद्य न च पर्वतमस्तके ॥

पर्वतग्रहणे सत्य् अपि यत् पर्वतमस्तकग्रहणं तद् अत्यन्तापदि मस्तकाद् अन्यत्रानुग्रहार्थम् । यमस् तु ।

तुषाङ्गारकपालानि देवतायतनानि च ।
राजमार्गश्मशानानि क्षेत्राणि च खलानि च ॥

देवलः- “न चत्वरोपद्वारयोर् मूत्रपुरीषे कुर्यात् । न कृष्टक्षेत्रे न सस्यपूर्णे न यज्ञभूमौ न यज्ञियानां वृक्षाणाम् अधस्तात्” । [१८०] विष्णुः- “नोषरे न पराशुचौ । नोद्यानोदकसमीपयोः । नाकाशे मूत्रपुरीषे कुर्यात्” । शङ्खलिखितौ- “नासंवृते मूत्रपुरीषे उत्सृजेत् । न सान्तर्वासा न निर्वासाः” ।

न प्रत्यग्न्यर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ॥ १.१३४ ॥

अग्न्यादीन् प्रति अग्न्याद्यभिमुखस् तान् पश्यन् व न मेहेत् । तथा च गौतमः- “न वाय्वग्निविप्रादियापो देवता गाश् च प्रति पश्यन् वा मूत्रपुरीषामेध्यान्य् उदस्येत् । नैता देवताः प्रति पादौ प्रसारयेत्” । यमः ।

प्रत्य् आदित्यं न मेहेत न पश्येद् आत्मनः सकृत् ।
दृष्ट्वा सूर्यं निरीक्षेत गाम् अग्निं ब्राह्मणं तथा ॥
प्रत्य् अदित्यं प्रत्य् अनिलं प्रति गां च प्रति द्विजम् ।
प्रति सोमं प्रति जलं प्रति संध्ये च नित्यशः ॥
हन्ति मेहयतः प्रज्ञां प्रति पन्थानम् एव च ।
मेहयन्ति य एतांश् च ते भवन्ति गतायुषः ॥

आपस्तम्बः- “न सोपानत्को मूत्रपुरीषे कुर्यात्” ॥ १.१३४ ॥

किं च ।

नेक्षेतार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ १.१३५ ॥

सूर्यं विवस्त्रां स्त्रीं स्त्रियम्, तथा संबद्धमैथुनाम्, मूत्रं पुरीषं च न पश्येत् । अशुचिश् चेद् राहुतारकाश् च । मनुः ।

नेक्षेतोद्यन्तम् आदित्यं नास्तं यान्तं कदचन ।
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥

विष्णुः- “नादित्यम् ईक्षेत वाससातिरोहितं न चादर्शजलाद्युपगतम्” । हारीतः- “न नग्नां स्त्रियं पुरुषं वा वीक्षेत नोदयास्तमयौ चन्द्रार्कौ” । गौतमः- “न नग्नां परयोषितम् ईक्षेत” । आश्वलायनः- “न नग्नां स्त्रियम् ईक्षेतान्यत्र मैथुनात्” । स्वभार्याविषयम् एतत् । मनुः ।

नाश्नीयाद् भार्यया सार्धं नैनाम् ईक्षेत चाश्नतीम् ।
क्षुवन्तीं जृम्भमाणां वा न चासीनां यथासुखम् ॥

[१८१] नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम्

न पश्येत् प्रसुवन्तीं वा तेजस्कामो द्विजोत्तमः ॥

विष्णुः- “न क्रुद्धस्य गुरोर् मुखम् ईक्षेत । न तैलोदकयोः स्वां छायां न मलवत्यादर्शे न पत्नीं भोजनसमये न स्त्रियं नग्नां कंचन मेहमानं न चालानभ्रष्टं कुञ्जरं न च विषमस्थं वृषादियुद्धं नोन्मत्तं न मत्तम्” । देवलः-

पतितव्यङ्गचण्डालोच्छिष्टान् वा नावलोकयेत् ।
अनुदृष्टिगतैर् एतैर् असंभाषो नृणां वरम् ॥ १.१३५ ॥
अयं मे वज्र इत्य् एवं सर्वं मन्त्रम् उदीरयन् ।
वर्षत्य् अप्रावृतो गच्छेत् स्वपेत् प्रत्यक्शिरा न च ॥ १.१३६ ॥

देवे वर्षत्य् अप्रावृतशिराः “अयं मे वज्रः पाप्मानम् अपहनत्” इति मन्त्रम् उच्चारयन् गच्छेत् । प्रत्यक्शिराः स्वापं च वर्जयेत् ॥ १.१३६॥

अपि च ।

ष्ठीवनासृक्शकृन्मूत्रविषाण्य् अप्सु न निक्षिपेत् ।
पादौ प्रतापयेन् नाग्नौ न चैनम् अभिलङ्घयेत् ॥ १.१३७ ॥

ष्ठीवनं मुखेन त्यज्यमानं लालादि, असृग् रुधिरम्, शकृत् पुरीषम्, मूत्रविषे प्रसिद्धे । रेतांसीति पाठे रेतो ऽपि प्रसिद्धम् । एतान्य् उदके न संक्षिपेत् । पादप्रतापनाभिलङ्घने अग्निं प्रति न कुर्यात् । यमः ।

चैत्यवृक्षं न वा छिन्द्यान् नाप्सु श्लेष्माणम् उत्सृजेत् ।
न शुक्रं न विषं मूत्रं न पुरीषं न लोहितम् ॥
नास्थिभस्मकपालानि न केशान् न च कण्टकान् ॥

चितौ भवो वृक्षश् चैत्यः । [चितिः] श्मशानम् । मनुः ।

नाग्निं मुखेनोपधमेन् नग्नां नेक्षेत च स्त्रियम् ।
नामेध्यं प्रक्षिपेद् अग्नौ न च पादौ प्रतापयेत् ॥
अधस्तान् नोपदध्याच् च न चैनम् अभिलङ्घयेत् ।
न चैनं पादतः कुर्यान् न प्राणाभाधम् आचरेत् ॥

कात्यायनः ।

जुहूषंश् च हुते चैव पाणिसूर्मीस्फ्यदारुभिः ।
न कुर्याद् अग्निधमनं न कुर्याद् व्यजनादिना ॥

[१८२] मुखेनैव धमेद् अग्निं मुखाद् एव व्यजायत ।

नाग्निं मुखेनेति च यल् लौकिकं योजयन्ति तत् ॥

विष्णुः- “नासृङ् न विषम् अग्नौ प्रक्षिपेत्” । देवलः ।

अग्नौ न प्रक्षिपेद् अग्निम् अद्भिर् न शमयेत् तथा ॥

आपस्तम्बः- “अग्निं नाप्रयत आसीदेद् इषुमात्राद् इत्य् एके खट्वायां च नोपदध्यात्” । गौतमः- “नाग्निम् अपश् च युगपद् धारयेत्” ॥ १.१३७ ॥

अपि च

जलं पिबेन् नाञ्जलिना शयानं न प्रबोधयेत् ।
नक्षैः क्रीडेत धर्मघ्नैर् व्याधितैश् च न संविशेत् ॥ १.१३८ ॥

सव्यदक्षिणौ हस्तौ युक्ताव् अञ्जलिः । तेन जलं न पिबेत् । शयानं निद्रितं न प्रबोधयेत् । अक्षैर् न क्रीडेत् । धर्मघ्नैः पतितादिभिर् व्याधितैश् च पुरुषैः सह न संविशेत् । अत्र च संवेशनं संकरोपलक्षणार्थम् । अत एव मनुः ।

न संविशेत पतितैर् न चण्डालैर् न पुक्कसैः ।
न मूर्खैर् नावलिप्तैश् च नान्त्यैर् नान्त्यवसायिभिः ॥
सहासनं भोजनं च पतितैः सह वर्जयेत् ।
उपपातकिभिश् चान्यैः कुर्वद्भिः कर्म निन्दितम् ॥

क्रीडाग्रहणं व्यसनमात्रोपलक्षणार्थम् । तथा च मनुः ।

न नृत्येन् नैव गायेच् च न वादित्राणि वादयेत् ।
नास्फोटयेन् न क्ष्वेडेच् च न च रक्तं विरागयेत् ॥

रक्तम् अनुरक्तम् । अनिषिद्धे ऽर्थे न विरागयेत् । विरागयुक्तं न कुर्याद् इत्य् अर्थः । तथा ।

न कुर्वीत वृथा चेष्टां न वार्यञ्जलिना पिबेत् ।
नोत्सङ्गे भक्षयेद् भक्ष्यं न जातु स्यात् कुतूहली ॥

नित्ययोगे ऽतिशये वा प्रत्ययः ॥ १.१३८ ॥

किं च

विरुद्धं वर्जयेत् कर्म प्रेतधूमं नदीतरम् ।
केशभस्माङ्गारजलकपालेषु न संस्थितम् ॥ १.१३९ ॥

[१८३]

आयुरारोद्यादिविरुद्धं कर्म प्रेतधूमं नदीतरणं च केशादिष्व् अवस्थानं च वर्जयेत् । मनुः ।

बालातपं प्रेतधूमं वर्ज्यं भिन्नं तथसनम् ।
न च्छिन्द्यान् नखरोमाणि दन्तैर् नोत्पाटयेन् नखान् ॥
न मृल्लोष्टं न मृद्नीयान् न छिन्द्यत् करजैस् तृणम् ।
न कर्म निष्फलं कुर्यान् नायत्याम् असुखोदयम् ॥
लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः ।
स विनाशं व्रजत्य् आशु सूचको ऽसुचिर् एव च ॥

आयतिः परिणामः । कर्मशब्देनत्र संकल्प उच्यते । तस्य निष्फलतां मिथ्यात्वं संकल्पितानुष्ठानरूपं न कुर्यात् । लोष्टमर्दनादिषु ताच्छील्यं वर्ज्यम् । तथा ।

न संहताभ्यां पाणिभ्यां कण्डूयेतात्मनः शिरः ।
न स्पृशेच् चैनद् उच्छिष्टो न च स्न्यायद् विना ततः ॥

ततः शिरसा विनेत्य् अर्थः ।

केशग्रहान् प्रहारांश् च शिरस्य् एतानि वर्जयेत् ।
शिरःस्नातश् च तैलेन नाङ्गं किंचिद् उपस्पृशेत् ॥

तैलेन शिरःस्नातस् तेनैव तैलेन नाङ्गं किंचिद् उपस्पृशेद् इत्य् अन्वयः । अथ वान्येनापि तैलेन तद् अहर् अङ्गं नोपस्पृशेत् । विष्णुः- “न संहताभ्यां पाणिभ्यां शिर उदरं च कण्डूयेत” । नदीतरणं चात्र बाहुभ्यां सांशयिकप्लवेन [च] वर्जयेत् । तथा च मनुः- “न बहुभ्यां नदीं तरेत्” । वसिष्ठः- “नावं च सांशयिकीं नाधिरोहेत्” । मनुः ।

अधितिष्ठेन् न केशांश् च भस्मास्थिकपालिकाः ।
न कार्पासास्थि न तुषान् दीर्घम् आयुर् जिजीविषुः ॥

तथा ।

उद्वर्तनम् अपस्थानं (?) भक्तं विण्मूरम् एव च ।
श्लेष्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत् तु कामतः ॥

विष्णुः- “न चतुष्पथम् अधितिष्ठेन् न रात्रौ वृक्षमूलं न शून्यालयं न सूनाबन्धनागारम्” । गौतमः- “अमेध्यं नधितिष्ठेत्” । शङ्खलिखितौ- “नाहेः पदम् अधितिष्ठेत् । न तृणशर्कराकूटेषु तिष्ठेत्” । पदं सथानम् । [१८४] आपस्तम्बः- “पाणिसमूहं ब्राह्मणस्य नाप्रोक्षितम् अधितिष्ठेत्” । ब्राह्मणेन पाणिनोपलिप्तम् अप्रोक्षितं नधितिष्ठेद् इत्य् अर्थः ॥ १.१३९ ॥

किं च

नाचक्षीत धयन्तीं गां नाद्वारेण विशेत् क्वचित् ।
न राज्ञः प्रतिगृह्णीयाल् लुब्धस्योच्छाश्त्रवर्तिनः ॥ १.१४० ॥

धयन्तीं वत्सं पाययन्तीं गां परस्मै नाचक्षीत न कथयेत् । द्वारं विहाय ग्रामं न प्रविशेत् । लुब्धस्य सति धने व्ययम् अकुर्वाणस्योच्छास्त्रवर्तिनो ऽतिक्रान्तशास्त्रस्य च राज्ञो धनं न प्रतिगृह्णीयात् । बौधायनः- “गां पाययन्तीं न पर्स्मै ब्रूयात्” । मनुः ।

अद्वारेण च नातीयाद् ग्रामं वा वेश्म वावृतम् ।

गौतमः- “न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत । संभाष्य पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन सह वा संभाषेत । अधेनुं धेनुंभव्येति ब्रूयात् । अभद्रं भद्रम् इति ब्रूयात् । कपालं भगालम् इति । मणिधनुर् इतीन्द्रधनुः । गां धयन्तीं परस्मै नाचक्षीत । न चैनां वारयेत्” । विष्णुः- “न परक्षेत्रे चरन्तीं गाम् आचक्षीत नोत्पातं प्रदर्शयेत्” । मनुः- “कुलाकुलं रहस्यार्थं संचरेन् नानिमित्तितः” । कुलं गृहम् । वसिष्ठः- “नावृतो यज्ञं गच्छेद् यदि व्रजेत् प्रदक्षिणं पुनर् आव्रजेत्” । गौतमः- “न यज्ञम् अवृतो गच्छेद् दर्शनाय तु कामम्” । मनुः- “नमस्कर्तुं व्रजेत् कामं दिदृक्षुर् यज्ञकर्म वा” ॥ १.१४० ॥

प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः ।
दुष्टा दशगुणं पूर्वात् पूर्वाद् एते यथोत्तरम् ॥ १.१४१ ॥

प्रतिग्रहविषये सूनिप्रभृतीनां यो य उत्तरः स पूर्वस्माद् दशगुणदोषो भवति । [१८५] अतस् तत्प्रतिग्रहो दशगुणदोषो भवति । अतस् तत्प्रतिग्रहं वर्जयेत् । सूना प्राणिवधस्थानम्, तद्वान् सूनी प्राणिघतकः । चक्री तैलिकः । ध्वजी सुराविक्रयी । परहृदयं विवशयतीति वेश्या । यद् वा वेशेन जीवतीति वेश्या । वेशः शृङ्गारः । नराधिपो राजा । स च पूर्वोक्तविशेषण एव दुष्टः, तदीयस्य प्रतिग्रहस्य निषिद्धत्वात् । तथा च मनुः ।

दश सूनासहस्राणि यो वाहयति सौनिकः ।
तेन तुल्यः स्मृतो राजा घोरस् तस्य प्रतिग्रहः ॥
यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छाश्त्रवर्तिनः ।
स पर्यायेण यातीमान् नरकान् एकविंशतिम् ॥
तामिस्रम् अन्धतामिस्रं महारौरवरौरवौ ।
नरकं कालसूत्रं च महानरकम् एव च ॥
संजीवनं महावीचिं तापनं संप्रतापनम् ।
संघातं च सकाकोलं कुड्मलं पूतिमृत्तिकम् ॥
लोहशङ्कुम् ऋबीसं च पन्थानं शल्मलां नदीम् ।
असिपत्रवनं चैव लोहचारकम् एव च ॥
एतद् विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः ।
न राज्ञः प्रैगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः ॥ १.१४१ ॥

अध्ययनविध्यङ्गान्य् आह

अध्यायानाम् उपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥ १.१४२ ॥

अधीतन्त इति अध्यायाः स्वाध्यायाः । तेषां संस्कारकम् उपाकर्माख्यं कर्म श्रावण्यां पौर्णमास्यां कार्यम् । चन्द्रमसा युक्तः श्रवणो नक्षत्रं यस्यां सा श्रावणी । अथ वा श्रवणे नक्षत्रे सप्तम्यर्थे श्रवणशब्दाद् एनप्रत्ययः । अथ वा श्रावणस्य पञ्चम्यां हस्ते नक्षत्रे चोपाकर्म कार्यम् ओषधिभावे सति । ओषधीनां व्रीहिप्रभ्र्तीनां भवः प्रादुर्भावो ऽङ्कुरोदय इति यावत् । एतच् च विशेषणं श्रावणीश्रवणयोर् अपि ग्राह्यम् । यदा श्रावण्यां न प्रादुर्भावस् तदा भाद्रपदश्रवणेन कार्यम् । अत्र मनुः ।

[१८६] श्रावण्यां प्रौष्ठपद्यां वाप्य् उपाकृत्य यथाविधि ।

युक्तश् छन्दांस्य् अधीयीत मासान् विप्रो ऽर्धपञ्चमान् ॥

धन्दांस्य् उपाकृत्य तान् एव पञ्चमान् एव मासान् अधीयीत । अर्धः पञ्चमो मसो येषां ते तथोक्ताः । उपाकर्मप्रभृति सार्धांश् चतुरो मासाञ् शुक्लकृष्णपक्षेषु निरन्तरं स्वाध्यायम् अधीयीतेत्य् अर्थः । पुराणात् ।

उपाकर्मणि चोत्सर्गे यथाकालं समेत्य च ।
ऋषीन् दर्भमयान् कृत्वा पूजयेत् तर्पयेत् ततः ॥

तथा ।

गौतमादिन् ऋषीन् सप्त कृत्वा दर्भमयान् द्विजः ।
पूजयित्वा यथाशक्ति तर्पयेद् ऋचम् उद्धरेत् ॥

गृहस्थस्यापि ग्रहणाध्ययनाधिकारं ज्ञापयितुं तत्प्रकरणे ऽध्ययनविधिः । अत एव शौनकः- “समवृत्तो ब्रह्मचारिकल्पेन यथान्यायम् इतरे । जायोपेयेत्य् एके” इति ॥ १.१४२ ॥

उत्सर्जनविधिम् आह

पौषमसस्य रोहिण्याम् अष्टकायाम् अथापि वा ।
जलान्ते छन्दसां कुर्याद् उत्सर्गं विधिवद् बहिः॥ १.१४३ ॥

पुष्येण युक्ता पौर्णमासी पौषी सा यस्मिन् मासि स पौषः । तस्य रोहिण्यां चन्द्रयुक्तायां तस्यैव चाष्टकायां कृष्णाष्टम्याम् इत्य् अर्थः । जलान्ते जलसंनिधौ ग्राह्माद् बहिश् छन्दसां वेदानाम् उत्सर्गं परित्यागं कुर्यात् । अत्र छन्दोभिस् तदध्ययनं लक्ष्यते । येन प्रकारेणोपाकर्मप्रभृति शुक्लकृष्णपक्षेषु वेदाध्ययनं कृतं तत्प्रकारम् इदानीं परित्यजेत्, न तु सर्वात्मना । अत एव मनुः ।

अतः परं तु छन्दांसि शुक्लेषु नियतः पठेत् ।
वेदाङ्गानि रहस्यं च कृष्णपक्षेषु संपठेत् ॥

इत्य् उत्सर्गानन्तरं कर्माध्ययने प्रकारान्तरम् उक्तवान् । उत्सर्गश् च यथाविधि यथागृह्यशास्त्रात् कर्तव्यः । अत्र च मनुः ।

पुष्ये तु छन्दसां कुर्याद् बहिर् उत्सर्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे ऽहनि ॥

श्रावण्यां यद्य् उपाकरणं तदोत्सर्जनं पौषस्य शुक्लप्रतिपदि पूर्वाह्णे । अथ प्रोष्ठपद्यां तदा माघस्य ॥ १.१४३ ॥

[१८७]

उपाकर्मण्य् उत्सर्गे च कृते ऽध्ययनकालविधिशेषत्वेन दिनविशेषपर्युदसम् आह

त्र्यहं प्रेतेष्व् अनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशखाश्रोत्रिये तथा ॥ १.१४४ ॥

त्र्यहम् अहोरात्रत्रयम् अनध्यायो ऽध्ययनवर्जनं कार्यम् । अत्र निमित्तं शिष्यर्त्विग्गुरुबन्धुषु प्रेतेष्व् इति । गुरुर् आचार्यो ग्राह्यः । तथा च मनुः ।

त्रिरात्रम् आहुर् आशौचम् आचार्ये संस्थिते सति । इति ।

बन्धवो ऽत्रासपिण्डाः, सपिण्डेषु दशाहादिविधानात् । उपाकर्मोत्सर्गयोः कृतयोस् त्रिरात्रम् अनध्याय इत्य् अनुषङ्गः । मनुस् तूत्सर्गे पक्षिणीम् एकाहं त्रिरात्रं च विकल्पेनानध्यायम् आह ।

यथाशास्त्रं तु कृत्वैवम् उत्सर्गं विधिवद् बहिः ।
विरमेत् पक्षिणीं रात्रिं यद् वाप्य् एकम् अहर्निशम् ॥ इति ।

स्वशाखायाः श्रोत्रियो ऽध्येतरि मृते तथा त्र्यहम् अनध्याय इत्य् अर्थः । आपस्तम्बः- “श्रावण्यां पौर्णमास्याम् अनध्यायम् उपाकृत्य मासं प्रदोषे नाधीयीत । तथा प्रवचनयुक्तो वर्षाशरदं मौथुनं वर्जयेत् । तथोपाकरणादि । आ उत्सर्जनाद् अध्यापयितुर् नियमो लोभसंहरणं मांसं श्राद्धं मैथुनं वर्जयेत् । ऋताव् एव जायां यायात्” । समावृत्तविषयम् एतत् । अत एव शौनकः- “अधीयीत समावृत्तो ब्रह्मचारिकल्पेन यथान्यायम् इतरे जायोपेयेत्य् एके, प्राजापत्यं तत्” इति । तज्जायोपगमनं प्राजापत्यम् इत्य् अर्थः ॥ १.१४४ ॥

[१८८]

किं च

संध्यागर्जितनिर्घातभूकम्पोल्कानिपातने ।
समाप्य वेदं द्युनिशम् आरण्यकम् अधीत्य च ॥ १.१४५ ॥

सायं प्रातः संध्ययोर् मेघध्वनाव् असंध्ययोर् अपि निर्घाते भूमिचलन उल्कापाते वेदाध्ययनं समाप्यारण्यकवेदभागं चाधीत्य द्युनिशम् अहोरात्रम् अनध्यायः कार्यः । हारीतः- “सायंसंध्यास्तनिते रात्रिं नाधीयीरन् । प्रातःसंध्यास्तनिते चाहोरात्रम्” । आपस्तम्बः- “संधावनु स्तनिते रात्रिम् । स्वप्नपर्यन्तं विद्युति । उपव्युषं यावता गां कृष्णां रोहिणीम् इति शम्याप्रासाद् विजानीयाद् एतस्मिन् काले विद्योतमाने सप्रदोषम् अहर् अनध्यायः । दह्रे ऽपररात्रे स्तनयित्नुना । ऊर्ध्वम् अर्धरात्राद् इत्य् एके” । अस्यार्थः- संधावनु अहोरात्रसंधिलक्षिते काले स्तनिते मेघध्वनौ रात्रिम् अन्तरां नधीयीत । स्वप्नपर्यन्तं स्वप्नवर्जनान्तं यावत् । आन्याय्याद् उत्थानाद् इत्य् अर्थः । उपव्युषम् अपव्युषसि विद्युति द्योतमानायाम् । अथ वा शम्याप्रासपरिमिते देशे स्थिता गौः कृष्णा लोहितेति वा विज्ञायते । यदापररात्रे द्योतमानायां विद्युति प्रदोषसहितम् अहर् अनध्यायः । दह्रे ऽल्पे ऽपररात्रे स्तनयित्नुना गर्गितेन निमित्तेन सप्रदोषम् अहर् अनध्यायः । अथ वोर्ध्वम् अर्धरात्रात् स्तनयित्नौ जाते सप्रदोषम् अहर् अनध्याय इति । मनुस् तु निर्घागादिष्व् आकालिकम् अनध्यायम् आह ।

निर्घाते भूमिचलने ज्योतिषां चापसर्जने ।
एतान् आकालिकान् विद्याद् अनध्यायान् ऋताव् अपि ॥

ऋताव् अपि वर्षास्व् अपीत्य् अर्थः । आकालिको निमित्तसमयपर्यन्तः । तथा ।

चौरौर् उपप्लुते ग्रामे संभ्रमे चाग्निकारिते ।
आकालिकम् अनध्यायं विद्यात् सर्वाद्भुतेषु च ॥ इति ।

ततश् चाकालिकाहोरात्रयोर् विकल्पः । एवं कल्पान्तरेष्व् अपि । यमः ।

शक्रध्वजनिमित्तेषु उल्कापाते तथैव च ।
**अनध्यायस् त्रिरात्रं तु भूमिकम्पे तथैव च ॥ [१८९]

वसिष्ठः- “उल्काविद्युत्समासे त्रिरात्रम् उल्काविद्युत्सज्योतिषम् अपर्ताव् आकालिकम्” । उल्कायां वसन्ते वर्षासु विद्युति दृष्टायाम् सज्योतिषम् अनध्यायः । दिवेत्य् अर्थः । अपर्ताव् उक्ताद् ऋत्तोर् अन्यत्र विद्युत्य् उल्कायां वा द्योतमानायाम् अकालिके द्वितीये ऽहनि दर्शनकालं यावद् अनध्यायाः कर्तव्य इत्य् अर्थः ॥ १.१४५ ॥

अपि च

पञ्चदश्यां चतुर्दश्याम् अष्टम्यां राहुसूतके ।
ऋतुसंधिषु भुक्त्वा वा श्राद्दिकं प्रतिगृह्य वा ॥ १.१४६ ॥

शुक्लकृष्णयोः पक्षयोः पञ्चदश्यां चतुर्दश्याम् अष्टम्यां च तथा राहुसूतके चन्द्रसूर्योपगाग ऋतुसंधिषु ऋतूनां वसन्तादीनां परस्परसंधिषु श्राद्धिकं भुक्त्वा प्रतिगृह्य चाहोरात्रम् अनधायः कार्यः । राहुसूतकं राहुदर्शनम् । श्राद्धसंबद्धं श्राद्धिकम् । तत्पक्वं भुक्त्वामं च प्रतिगृह्याहोरात्रं नाधीयीत । नृसिंहपुराणात् ।

महानवम्यां द्वादश्यां भरण्याम् अपि चैव हि ।
तथाक्षततृतीयायां शिष्यान् नाध्यापयेद् द्विजः ॥
माघमासे तु सप्तम्यां रथाख्यायां तु वर्जयेत् ।
नीयमानं शवं दृष्ट्वा महीस्थं वा द्विजोत्तमः ॥

महानवमी, अश्वयुक्शुक्लपक्षस्य । महाद्वादशी कार्तिकशुकपक्षस्य । भरणी प्रोष्ठपद्यनन्तरा । अक्षततृतीया वैशाखशुक्लपक्षस्य । रथाख्या सप्तमी माघशुक्लपक्षस्य । नाधीयीतेय् अनुवृत्तौ गौतमः- “कार्तिकीफाल्गुन्याषाधीपौर्णमसीस् तिस्रो ऽष्टकास् त्रिरात्रम् अनत्याम् एके” । उक्तपौर्णमासीप्रभृतित्रिरात्रम् इत्य् अर्थः । अष्टकाशब्देनाष्टकाकर्माङ्गभूतं सप्तम्यादित्रिरात्रम् उपलक्ष्यते । अन्त्याष्टका माघी । ताम् एवानध्ययननिमित्ताम् एक आहुः । पाइठीनसिः- “पौषप्रभृतयः कृष्णे भवा तिस्रो ऽष्टका मार्गशीर्षप्रभृतय इत्य् एके” । शौनकस् तु- “हेमन्तशिशिरयोश् चतुर्णाम् अपरपक्षाणाम् अष्टमीष्व् अष्टकाः” इत्य् आह । शातातपः-

पञ्चदश्यां चतुर्दश्याम् अष्टकासु महोत्सवे ।
**प्रदोषे च त्रयोदश्याम् अष्टम्यां प्रतिपद्य् अपि ॥ [१९०]
मेधाकामस् त्रयोदश्यां चतुर्दश्यां च सर्वदा ।
सप्तम्यां च प्रदोषेषु न स्मरेन् नापि कीर्तयेत् ॥

मनुः ।

प्रतिगृह्य द्विजो विद्यान् एकोद्दिष्टस्य केतनम् ।
त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश् च सूतके ॥
यावद् एकानुदिष्टस्य गन्धो लेपश् च तिष्ठति ।
विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेत् ॥

केतनं निमन्त्रणम् । एकानुदिष्टम् एकोद्दिष्टम् । एवं च राहुसूतक एकाहत्रिरात्रयोर् विकल्पः । राहुसूतकं राहुदर्शनम् । अत एव हारीतः- “उपाध्याये राजनि च मृते श्रोत्रिये च मृते सब्रह्मचारिणि च चन्द्रारकयो राहुदर्शने शक्रध्वजपतन आचार्ये च मृते त्रिरात्रम्” इति ॥ १.१४६ ॥

किं च

पशुमण्डूकनकुलश्वाहिमार्जारमूषकैः ।
कृते ऽन्तरे त्व् अहोरात्रं शक्रपाते तथ्ōच्छ्रये ॥ १.१४७ ॥

अन्तरं शिष्योपाध्याययोर् मध्यतो गमनम् । तस्मिन् पशुमण्डूकदिभिः कृते ऽहोरात्रम् अनध्यायः । मध्यगमनात् प्रभृति सूर्योदयं यावद् इत्य् अर्थः । तथा शक्रपाते शक्रोच्छायोपलक्षिते काले । प्रोष्ठपद्यनन्तरं भरण्यां श्रक्रपातः । प्रोष्ठपदस्यैव शुक्लद्वादश्यां शक्रोच्छ्रायः । तद् आह गर्गः ।

सिंहं गते दिनकरे सितचारुपक्षे हर्याद्यपादम् उपगच्छति वै शशाङ्के ।
उत्तिष्ठते विविधमन्दिरवृन्दवन्द्यो याम्यां ततो दिशि निषीदति वज्रपाणिः ॥ इति ।

अत्र च हरिशब्देन हरिदैवतं श्रवणम् उपलक्ष्यते । तद् अपि च प्रदर्शनार्थम् । यतः स एवाह ।

द्वादश्यां तु सिते पक्षे मासि प्रोष्ठपदे तथा ।
सक्रम् उत्थापयेद् राजा विस्वश्रवणवासवे ॥ इति ।

विश्वशब्देन वैश्वदेवम् उत्तराषाढानक्षत्रम् उपलक्ष्यते । वासवशब्देन वसुदैवतं धनिष्ठानक्षत्रम् । तेन द्वादश्याम् एव शक्रोच्छ्रायः । गौतमः- [१९१] “अन्तरागमने पुनर् उपसदनम् । श्वनकुलमण्डुकमार्जाराणां त्र्यहम् उपवासो विप्रवासश् च । प्राणायामो घृतप्राशनं चेतरेषाम् । श्मशानाध्ययने चैवम्” । येन केनचिद् अन्तरा गमने कृत उपसदनं कार्यम् । उपसदनं च पाणिना पाणिम् उपसंगृह्येत्यादिना यत् प्रत्यहं विहितं तद् एव पुनः कर्तव्यम् । श्वाद्यन्तरागमने त्रिरात्रम् उपवासः । त्र्यहं च विवसेद् इति । यत् तु वसिष्ठः- “अधीयानानाम् अन्तरागमने ऽहोरात्रम् अभोजनम् । त्रिरात्रम् अनभिषेको विवासा(स)श् चान्योन्येन श्वमार्जारनकुलशीघ्रगाणां त्व् अहोरात्रम्” इत्य् आह, तत् त्रिरात्रोपवासासमर्थविषयम् । प्राणायामो घृतप्राशनं चेतरेषाम् इति । श्वादिव्यतिरिक्तानाम् अन्तरागमन इत्य् अर्थः ॥ १.१४७ ॥

किं च

श्वक्रोष्टुगर्दभोलूकसामबाणार्तविःस्वने ।
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥ १.१४८ ॥
देशे ऽशुचाव् आत्मनि च विद्युत्स्तनितसंप्लवे ।
भुक्त्वार्द्रपाणिर् अम्भोऽन्तर् अर्धरात्रे ऽतिमारुते ॥ १.१४९ ॥
पांसुवर्षे दिशां दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहम् आगते ॥ १.१५० ॥
खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे ।
सप्तत्रिंशद् अनध्यायान् एतांस् तात्कालिकान् विदुः ॥ १.१५१ ॥

श्वादीनां निःस्वने शब्दे श्रूयमाणे तत्कालम् अनध्यायः । क्रोष्टा गोमायुः । उलूको ऽमङ्गल्यपक्षी । बाणो वीणाविशेषः । आर्तो दुःखितः । श्वादयः प्रसिद्धाः । तथामेध्यादीनाम् अन्तिके संनिधाने । अन्त्यः शुद्रान् निष्कृष्टः । तथा देशस्यात्मनश् चाशौचे, तथा विद्युत्संप्लवे । संप्लवः पुनः पुनर् भवनम् । तथा भुक्त्वा यावद् आर्द्रपाणिः । तथाम्भसो मध्ये, अर्धरात्रे रात्रेर् मधमे यामद्वये च, तथातिमारुते ऽतिशयेन वाति वायौ । तथा पांसुवर्षे ऽद्बुतविशेषे दिशां दाहे च तथा संध्ययोः, तथा नीहारे धूमिकायां, भीतौ च चौरादिकृतायाम् । तथा घावतो ऽनध्यायः । तथा पूतिगन्धे, तथोक्तलक्षणे शिष्टे गृहम् आगते, खरादीनाम् आरोहणे च । यानं रथादि । इरिणम् ऊषरम् । एताञ् श्वक्रोष्टुप्रभृतिनिःस्वनादिनिमित्तान् सप्तत्रिंशद् अन्धायांस् तात्कालिकान् निमित्तकाले कर्तव्यान् विदुर् मुनयः । अत्र विशेषः । तथा मनुः ।

[१९२] सामध्वनाव् ऋग्यजुषी नाधीयीत कदाचन ।

अनध्यायानुवृत्तौ बौधायनः- “नृत्यगीतवादित्ररुदितशब्देषु तावन्तं कालम् आर्तौ च” । आपस्तम्बः- “श्मशाने सर्वतः शम्याप्रासात् । श्मशानवच् छूद्रपतितौ समानागार इत्य् एके । शूद्रायां तु प्रेक्षणप्रतिप्रेक्षणयोर् अनध्यायः । ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन् संभाषितुं ब्राह्मणेन संभाष्य तया संभाषेत संभाष्य तु ब्राह्मणेनैव संभाष्याधीयीत” । यमः ।

श्लेष्मान्तकस्य छायायां शल्मलेर् मधुकस्य च ।
कदाचिद् अपि नाध्येयं कोविदारकपित्थयोः ।

तथा ।

न संग्रामे न सेनायां विवादे कलहे तथा ।

हारीतः- “ब्राह्मणागमने ऽर्घ्यादीनि दत्वानुज्ञाप्याधीयीरन्” । तथा ।

न वृक्षस्थो न तीर्थस्थो न चाप्सु न सभासु च ।
बहुसंकीर्णमधे च नाधीयीत कचाचन ॥
शयानः प्रौढपादश् च कृत्वा चैवावसक्थिकाम् ।
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यम् एव च ॥

तथा ।

श्वखरोष्ट्रे च रुदति पङ्क्तौ न च पठेद् द्विजः ।
नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजे ऽपि वा ॥

तथा ।

रुधिरे च स्रुते गात्राच् छस्त्रेण च परिक्षते ।

गौतमः- “ऊर्ध्वं भोज्नाद् उत्सवे प्राधीतस्य निशायां चतुर्मुहूर्तं नित्यम् एके नगरोत्सवे । उपनयनाद् ऊर्ध्वं भोजनाद् अहोरात्रम् अनध्यायः प्राधीतस्याध्ययने प्रथमं प्रवृत्तस्य भोजनाद् ऊर्ध्वम् अनुत्सवे ऽपि पूर्ववद् अनध्यायः” । निशायां चतुर्मुहूर्तम् । एतच् च त्रयोदश्याम् । तथा च उशना- “त्रयोदश्यां प्रथमांश् चतुरो मुहूर्तान् नाधीयीत” । तस्यानध्याय इत्य् अनुवृत्तौ वसिष्ठः- “मिथुनव्यपेतायां च शय्यायां वाससा च मिथुनव्यपेतेनानिर्णिक्तेन” इति । सर्वे चैते ऽनध्याया धर्मनैपुणकामेन विद्यानैपुणकामेन च वर्जनीयाः, प्रत्यवायाविशेषात् । तथा च यमः ।

[१९३] छिद्रान्य् आहुतिर् द्विजातीनाम् अध्यायान् मनीषिणः ।

छिद्रेभ्यः स्रवति ब्रह्म ब्राह्मणेन यद् अर्जितम् ॥
आयुः प्रजां पशून् मेधां कृन्तामि सुकृतं च यत् ।
अनध्यायेष्व् अभ्यसतो ब्रह्म व्याहरतस् तथा ॥

यत् तु मनुवचनम्,

द्वाव् एव वर्जयेन् नित्यम् अनध्यायौ प्रयत्नतः ।
स्वाध्यायभूमिं चाशुद्धाम् आत्मानं चाशुचिं द्विजः ॥

इति, तद् ब्रह्मयज्ञाध्ययनविषयम्, तत्प्रकरणाधीतवचनमूलत्वात् । ब्रह्मयज्ञं प्रकृत्य हि तैत्तिरीयकाः समामनन्ति- “तस्य वा एतस्य यज्ञस्य द्वाव् अनध्यायौ यद् आत्माशुचिर् यद् देशः” इति ॥ १.१४८–१५१ ॥

एवम् अनध्यायान् उक्त्वा प्रकृतम् आह

देवर्त्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः ।
नाक्रामेद् रक्तविण्मूत्रष्ठीवनोद्वर्तनानि च ॥ १.१५२ ॥

देवादीनां छायां रक्तादीनि च नाक्रामेन् नाधितिष्ठेत् । ऋत्विगाचार्ययोः स्नातकोपादानेनैव ग्रहणसिद्धौ पृथगुपादानात् स्नातकशब्दो ऽचिरसमावृत्ते वर्तते । यद् वा ऋत्विगाचार्याभ्याम् अन्यस्नातकस्य छायायाम् अनाक्रमण(ं?) मन्तव्यम् । देवा देवप्रतिमाः । ष्ठीवनं मुखप्रच्युतं लालादि । उद्वर्तनम् अङ्गोत्सादनद्रव्यम् । अत्र मनुः ।

देवतानां गुरो राज्ञः स्नातकाचार्ययोस् तथा ।
नाक्रामेत् कामतश् छायां बभ्रुणो दीक्षितस्य च ॥

बभ्रु कपिलं गवादि यमः ।

देवद्विजगुरुप्राज्ञस्नातकाचार्यमन्त्रिणाम् ।
नाक्रामेत् क्रामतश् छायां कपिलस्य च गुरोर् अपि ॥
स्वां तु नाक्रामेच् छायां क्लीबेन पतितेन च ।
चण्डालेन द्विषद्भिश् च नित्यं रोगान्वितेन च ॥

विष्णुः- “ब्राह्मणदेवगुरुबन्धुदीक्षितानां छायां नातिक्रामेत्” । प्रसङ्गाद् अन्यद् अप्य् उच्यते, तत्र मनुः ।

मध्यंदिने च रात्रौ च श्राद्धं भुक्त्वा च सामिषम् ।
**संध्ययोर् उभयोश् चैव न सेवेत चतुष्पथम् ॥ [१९४]

तथा ।

वैरिणं नोपसेवेत सहायांश् चैव वैरिणः ।
अधार्मिकं तस्करं च परस्यैव च योषितम् ॥

शङ्खलिखितौ- “नोद्धतकुहकैः सहैकतस् तिष्ठेत्” ॥ १.१५२ ॥

किं च

विप्राहिक्षत्रियात्मानो नावज्ञेयाः कथंचन ।

विप्रसर्पक्षत्रिया आत्मा च नावमन्तव्याः । अत्र मनुः ।

क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
नावमन्येत वै भूष्णुः कृशान् अपि कदाचन ॥
एतत् त्रयं हि पुरुषान् निर्दहत्य् अवमानितम् ।
तस्माद् एतत् त्रयं नित्यं नावमन्येत बुद्धिमान् ॥
नात्मानम् अवमन्येत पूर्वाभिर् असमृद्धिभिः ।
आत्मानं न शपेद् रोषान् निरुक्को न स्वपेद् दिवा ॥
न नक्तं विलिखेद् भूमिं गाश् च रात्रौ न संस्पृशेत् ॥

तथा ।

ब्राह्मणान् नृपतीन् वृद्धान् स्वांश् च शान्ताञ् शिशून् अपि ।
नाक्रोशेन् नावमन्येत पूजयेद् दैवतं तथा ॥

किं च ।

आ मृत्योः श्रियम् आकाङ्क्षेन् न किंचिन् मर्मणि स्पृशेत् ॥ १.१५३ ॥

यावज्जीवं स्रियम् अन्विच्छेत् । ततश् च तां दुर्लभां मत्वा तदुपायानुष्ठाने मन्दादरेण न भवितव्यम् इति तात्पर्यार्थः । तथा च कम् अपि शत्रुम् उदासीनं वा मर्मणि न स्पृशेत् । परदोषप्रकाशनं वर्जयेद् इत्य् अर्थः । तथा च मनुः ।

हीनाङ्गान् अतिरिक्ताङ्गान् विद्याहीनान् वयोऽतिगान् ।
रूपद्रविणहीनांश् च जातिहीनांश् च नाक्षिपेत् ॥ १.१५३ ॥

अपि च

दूराद् उच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् ।

दूरतो गृहाद् उच्छिष्टादीनि प्रक्षिपेत् ॥

किं च

श्रुतिस्मृत्युदितं सम्यङ् नित्यम् आचारम् आचरेत् ॥ १.१५४ ॥

तथाचारो नाम लौकिककर्माश्रयः पुरुषनिःश्रेयसोपकारस्य विधिः [१९५] प्रतिषेधो वा । तत्र श्रुतिविहिता आचारा गोलक्षणप्रभृतयः । यथा कर्तरी कर्णकर्तव्य इत्यादयः । आचारविषयाणि तु स्मृतिवाक्यानि प्रदर्श्यन्ते । तत्र व्यासः ।

श्रीकामः सर्वदा स्नानं कुर्वीतामलकैर् नरः ।
सप्तमीं पञ्चमीं चैव पर्वकालं विवर्जयेत् ॥

पर्वात्रामावास्या । यद् आह स एव ।

अमावास्यानवम्योश् च सप्तम्यां च विशेषतः ।
धात्रीफलानि यत्नेन दूरतः परिवर्जयेत् ॥

धात्री — आमलकी । तथा ।

सप्तम्यां न स्पृशेत् तैलं नीलवस्त्रं न धरयेत् ।
न धात्र्यामलकैः स्नायान् न कुर्यात् कलहं नरः ॥
वीर्यहानिः प्रजाहानिर् यशोहानिस् तथैव च ।
हन्त्य् एतत् त्रितयं यस्मात् तस्माद् धात्रीं विवर्जयेत् ॥

तथा ।

षष्ठ्य् अष्टमी पञ्चमी पक्षद्वयचतुर्दशी ।
अत्र संनिहितं पापं तैले मांसे क्षुरे भगे ॥
षष्ट्यां तैलम् अनायुष्यम् अष्टम्यां पिशितं तथा ।
चतुर्दर्श्यां कामभोगम् अमावास्या क्षुरक्रिया ॥
मांसाशने पञ्चदशी तैलाभ्यङ्गे चतुर्दशी ।
अष्टमी ग्राम्यधर्मे च ज्वलन्तम् अपि पातयेत् ॥

ग्राम्यधर्मो मैथुनम् ।

तैलं न संस्पृशेद् आमं वृक्षादींश् छेदयेन् न च ।
पक्षादौ च रवौ षष्ठ्यां विरिक्तायां तथा तिथौ ॥
दशम्यां तैलम् अपृष्ट्वा न स्नायाद् अविचक्षणः ।
चत्वारि तस्य नश्यन्ति आयुः प्रज्ञा यशो धनम् ॥
मोहात् प्रतिपदं षष्ठीं कुहूं रक्तां तथा तिथिम् ।
तैलेनाभ्यज्यमानस् तु चतुर्भिर् अपहीयते ॥
पञ्चमीं दशमीं चैव पौर्णमासीं त्रयोदशीम् ।
तृतीयां चैव यस् तैलं नरः समुपसेवते ॥
अभ्यङ्गात् स्पर्शनाद् वापि भक्षणाच् च तथैव च ।
**चतुर्णां तस्य वृद्धिः स्याद् धनापत्यबलायुषाम् ॥ [१९८]

वृद्धमनुः ।

आहारं मैथुनं निद्रां संध्याकाले विवर्जयेत् ।
कर्म वाध्ययनं वापि तथा दानप्रतिग्रहौ ॥
आहाराद् व्याधिम् आप्नोति गर्भो रौद्रश् च मैथुनात् ।
स्वपनः स्याद् अलक्ष्मीकः कर्म चैवात्र निष्फलम् ॥
अध्येता नरकं याति दानान् नाप्नोति तत्फलम् ।
प्रतिग्रही भवेत् पापी तस्मात् संध्यासु वर्जयेत् ॥

शातातपः ।

अमा वै सोमवारेण रविवारेण सप्तमी ।
चतुर्थी भौमवारेण विषुवत्सदृशं फलम् ॥
अमावास्या भवेद् वारो यदा भूमिसुतस्य वै ।
जाह्नवीस्नानमात्रेण गोसहस्रफलं भवेत् ॥

वृद्धवसिष्ठः ।

सर्वेषाम् एव वर्णानां सूतकं राहुदर्शने ।
सचैलं च भवेत् स्नानं सूतकान्नं च वर्जयेत् ॥

सूतकान्नं राहुसूतकान्नम् । तथा ।

त्रिदशाः स्पर्शसमये तृप्यन्ति पितरस् तथा ।
मनुष्या मध्यकाले च मोक्षकाले च राक्षसाः ॥

स्पर्शकाल एव देवपितृदै(दे)वत्यं कर्म कुर्याद् इत्य् अर्थः । तथा ।

प्रच्छन्नानि च दानानि ज्ञानं च निरहंकृतम् ।
तपांसि च सुगुप्तानि तेषां फलम् अनन्तकम् ॥

तथा ।

एका गौः स्वस्थचित्तस्य आतुरस्य च यच्छतम् ।
सहस्रं म्रियमानस्य तच् च तानि च तत्समम् ॥

तथा ।

कनकाश्वतिला नागा दासीगृहमहीरथाः ।
कन्यका कपिला चेति महादानानि वै दश ॥
दत्वा यो ऽनुस्मरेद् दानं प्रतिगृह्य च याचते ।
उभौ तौ नरकं यातः प्रतिग्राहकयाचकौ ॥

अनुस्मरणं पश्चात्तापः । तथा ।

सर्वत्र गुणवद्दानं श्वपाकादिष्व् अपि स्थितम् ।
देशे काले विधानेन पात्रे दत्तं विशेषतः ॥

[१९९] असतो ऽपि समादाय साधुभ्यो यः प्रयच्छति ।

धनस्वामिनम् आत्मानं स तारयति दुस्तरात् ॥

तथा ।

द्वाव् एवाप्सु प्रवेष्टवौ गले बद्ध्वा महाशिलाम् ।
धनवन्तम् अदातारं दरिद्रं चातपस्विनम् ॥

तथा ।

उपावृत्तस्य पापेभ्यो यस् तु वासो गुणैः सह ।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः ॥
पुष्पालंकारवस्त्राणि गन्धमाल्यानुलेपनम् ।
उपवासे न दुष्येत् तु दन्तधावनवर्जितम् ॥
उपवासे तथा श्राद्धे न खादेद् दन्तधावनम् ।
दन्तानां काष्ठसंयोगो हन्ति सप्त कुलानि वै ॥

ततश् च पत्रादिनोपवासे दन्तधावनं कार्यम् । श्राद्धे भोक्ता च न तु काष्ठेन । देवलः ।

ब्रह्मचर्यं तथा शौचं सत्यम् आमिषवर्जनम् ।
व्रतेष्व् एतानि चत्वारि वरिष्ठानीति निश्चयः ॥
स्त्रीणां तु प्रे(वी)क्षनात् स्पर्शात् ताभिः संकथनाद् अपि ।
निष्यन्दते ब्रह्मचर्यं न दारेष्व् ऋतुसंक्रमात् ॥

अत्रायम् अर्थः- स्त्रीणां परस्त्रीणां वीक्षणात् स्वभावेन चित्तेनेत्य् अर्थः । ताभिर् अन्यस्त्रीभिर् एव संकथनात् संयोगप्रलापाच् च ब्रह्मचर्यं दशम्याद्युपवासनिमित्तं निष्यन्दते नश्यतीत्य् अर्थः । न दारेष्व् ऋतुसंक्रमाद् इति । दारेषु वीक्षणात् स्पर्शात् संकथनात् स्वगृहव्यवहारकथाप्रपञ्चाच् च तद् ब्रह्मचर्यं न नश्यति, तथर्तुसंक्रमात् । संक्रमणं संतानोत्पादनार्थं संभोग ऋतोः संक्रमस् तस्माद् अपि व्रतादौ सेव्यमानाद् ब्रह्मचर्यं न निष्यन्दते न नश्यतीति । स्वदारेषु वीक्षणादेर् ब्रह्मचर्यनिष्यन्दाभाव उपवासेष्व् असिधाराव्रतनिमित्तत्वाद् इति ।

असकृज्जलपानाच् च ताम्बूलस्य च भक्षणात् ।
उपवासः प्रदुष्येत् तु दिवा स्वापाच् च मैथुनात् ॥

मैथुनं चात्रर्तुकालव्यतिरिक्तविषयम् ।

सायम् आद्यन्तयोर् अह्नोः सायं प्रातश् च मध्यमे ।
धर्मोपवासी कुर्वीत नैव भकचतुष्टयम् ॥

धर्मग्रहणं प्रायश्चित्तस्य व्युदासार्थम् ।

[२००] दशम्याम् एकभक्तस् तु मांसमैथुनवर्जितः ।

एकादश्याम् उपवसेत् पक्षयोर् उभयोर् अपि ॥
गृहीत्वौदुम्बरं पात्रं वारिपूर्णम् उदङ्मुखः ।
उपवासं तु गृह्णीयाद् यद् वा संकल्पयेद् बुधः ॥
देवतास् तस्य तुष्यन्ति कामितं तस्य सिध्यति ।
अन्यथा तु वृथा मर्त्याः क्लिश्यन्ति स्वल्पबुद्धयः ॥

औदुम्बरं ताम्रम् । यद् वोपवासाद् अन्यद् व्रतं संकल्पयेद् इत्य् अर्थः ।

एकादश्यां निराहारो भूत्वाहम् अपरे ऽहनि ।
भोक्ष्यामि पुण्डरीकाक्षः गतिर् मम भवाच्युत ॥

पुराणात् ।

केशवो मार्गशीर्षे स्यात् पौषे नारायणः स्मृतः ।
माधवो माघमासे तु गोविन्दः फाल्गुने तथा ॥
चैत्रे मासे भवेद् विष्णुर् वैशाखे मधुसूदनः ।
त्रिविक्रमो ज्येष्ठमास आषाढे वामनो भवेत् ॥
श्रावणे श्रीधरो ज्ञेयो कृषीकेशस् ततः परम् ।
पद्मनाभश् चाश्वयुजे ततो दासोदरो मतः ॥
सर्वेष्व् एव तु मसेषु नरकारिर् मलिम्लुचे ।
श्रीर् वै वागीश्वरीकान्ताक्रियाशक्तिविभूतयः ॥
इच्छा प्रीती रतिश् चैव माया धीर् महिमेति च ।
एताभिः शक्तिभिः शुक्लद्वासशीषु सह क्रमात् ॥
वासुदेवो द्वादशसु पूजनीय उपोषितैः ।
तथैव कृष्णपक्षे तु शक्तियुक्तो ऽर्च्यते द्विजैः ॥
कृष्णो ऽनन्तो ऽच्युतश् चक्री वैकुण्ठो ऽथ जनार्दनः ।
उपेन्द्रो यज्ञपुरुषो वासुदेवस् तथा हरिः ॥
योगीश्वरो द्वादशमः(कः) पुण्डरीकाक्ष एव च ।
रुक्मिणी च प्रिया प्रीतिः शक्तिः सिद्धिश् च पञ्चमी ॥
तथा श्रीर् महिमा लक्ष्मीः कान्तिश् च नवमी मता ।
प्राप्तिः प्राकाम्यसंज्ञा च लघिमा द्वादशी स्मृता ॥

तथा ।

उच्चारयेद् व्रतस्यान्ते देवस्य पुरतः स्थितः ।
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ॥

[२०१] प्रसादाभिमुखो भूत्वा ज्ञानचक्षुःप्रदो भव ।

यज् जन्मनः प्रभृति देहलयान्तम् अज्ञः पापं करोमि वपुषा मनसा च वाचा ।
क्लेशोपतापितमतिस् त्रिपदैस् त्रिरूपं तन् नाशयाच्युत मम व्रतसुप्रसन्न ॥
अज्ञानान्धेन यत् किंचिन् मया खण्डं व्रतं कृतम् ।
भगवंस् त्वत्प्रसादेन तद् अखण्डम् इहास्तु मे ॥
यथाखण्डं जगत् सर्वं त्वम् एव पुरुषोत्तम ।
तथा खण्डम् अखण्डं मे व्रतं भवतु केशव ॥ इति ।

तथा ।

न शङ्खेन पिबेत् तोयं नाश्नीयात् कूर्मसूकरौ ।
एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ॥

एतत् पुत्रवद्गृहिव्यतिरिक्तविषयम् । यत उक्तं स्मृत्यन्तरे ।

कृष्णपक्षे तु संक्रान्त्यां ग्रहणे वापि पुत्रवान् ।
उपवासं न कुर्वीत सुतबन्धुधनक्षयात् ॥

मत्स्यपुराणात् ।

दिनक्षये ऽर्कसंक्रान्त्यां ग्रहणे चन्द्रसूर्ययोः ।
उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः ॥

कूर्मपुराणात् ।

संक्रान्त्यां कृष्णपक्षे च रविशुक्रदिने तथा ।
एकादश्यां न कुर्वीत उपवासं सपारणम् ॥

इत्यादि । यत् तु,

ब्रह्महा स सुरापः स्यात् स्वस्तेयी गुरुतल्पगः ।
विवेचयति यो मोहाद् एकादश्यौ सितासिते ॥

इति पुराणवचनम्, यत् तु (च्च) विष्णुधर्मोत्तरे,

अतिक्रामति यो मोहाद् एकादश्याउ सितासिते ।
उपवासे स मूढात्मा विष्णुलोकं न पश्यति ॥

इति, यच् च मत्स्यपुराणम्,

एकादश्यां निराहारो यो भुङ्क्ते द्वासशीदिने ।
शुक्ले वा यदि वा कृष्णे तद्व्रतं वैष्णवं महत् ॥

इति, तत् पुत्रवद्गृहस्थव्यतिरिक्तविषयम् । यथा कृष्णैकादश्यादौ पुत्रवतो गृहस्थस्यानधिकारः, तथा दिनक्षये ऽपि । तद् उक्तं कूर्मपुराणे ।

[२०२] द्वौ तिथ्यन्ताव् एकवारे यस्मिन् स्यात् स दिनक्षयः ।

तस्मिन् स्नानं जपो होमो नोपवासो गृहाश्रमे ॥

प्रक्रान्तैकादशीव्रतस्यासामर्थ्ये वराहपुराणम् ।

असामर्थ्ये शरीरस्य व्रते च समुपस्थिते ।
कारेयेद् धर्मपत्नीं वा पुत्रं वा नियमान्वितम् ॥

एकादशीव्रतं सूतके मृतके ऽपि न त्याज्यम् । यत् उक्तं तत्रैव ।

परमापदम् आपन्नो हर्षे वा समुपस्थिते ।
सूतके मृतके चैव न त्याज्यं द्वादशीव्रतम् ॥

तथा ।

सूतके ऽपि नरः स्नात्वा प्रणम्य मनसा हरिम् ।
एकादश्यां न भुञ्जीत व्रतम् एवं न लुप्यते ॥
द्वादश्यां तु तथा भुक्त्वा सूतकान्ते जनार्दनम् ।
पूजयित्वा विधानेन भोजयेच् च द्विजोत्तमम् ॥
मृतके ऽपि न भुञ्जीत एकादश्यां सदा नरः ।
द्वादश्यां तु समश्नीयात् स्नात्वा विष्णुं प्रणम्य च ॥

एकादशीव्रतस्य कथंचिद् अतिक्रमे यत् कार्यं तद् वराहपुराण एवोक्तम् ।

एकादशी विप्लुता चेत् परतो द्वादशी स्थिता ।
उपोष्या द्वादशी तत्र यदीच्छेत् परमं पदम् ॥

विप्लुता केनापि हेतुनातिक्रान्तोपवासा । नित्यं चैकादशीव्रतम् इति तत्रैवोक्तम् ।

एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ।
एकादश्यां तु भुञ्जानो विष्णुलोकं न पश्यति ॥ इति ।

काम्यस्याप्य् असमापने दोषम् आह ।

परिगृह्य व्रतं सम्यग् एकादश्याम् उपोषणम् ।
न समापयते यस् तु स याति नरकं नरः ॥

व्रतान्तरे ऽप्य् आह ।

यो गृहीत्वा व्रतं मोहाद् एकादश्यादिकं नरः ।
न समापयते तस्य गतिः गतिः पापीयसी भवेत् ॥

अनुत्पन्नपुत्रेणाविशेषेणैवैकादशीव्रते प्रक्रान्ते सति पुत्रे जाते प्रतिषिद्धोपवासरेषु यत् कर्तव्यं तद् उक्तं वायुपुराणे ।

[२०३] उपवासनिषेधे तु भक्ष्यं किंचित् प्रकल्पयेत् ।

न दुष्यत्य् उपवासेन उपवासफलं भवेत् ॥

भक्ष्यप्रकल्पनम् इति (मपि) तत्रैवोक्तम् ।

नक्तं हविष्यान्नम् अनोदनं वा फलं तिलाः क्षीरम् अथाम्बु वाज्यम् ।
यत् पञ्चगव्यं यदि वापि वायुः प्रशस्तम् अत्रोत्तरम् उत्तरं च ॥

नक्तं चा(च) नियत एव काले कार्यम्,

यदा तु पाङ्मुखी छाया पुरुषाद् द्विगुणा भवेत् ।
तदा नक्तं विजानीयाद् अनक्तं त्व् अन्यथा भवेत् ॥

इति स्मृत्यन्तरदर्शनात् । यद् अपि स्मृत्यन्तर्म् उक्तम् (?),

एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ।
वनस्थयतिधर्मो ऽयं शुक्लाम् एव सदा गृही ॥

इति, तत्रापि गृहिशब्दः पुत्रवद्गृहिविषयः, पूर्वोक्तवचनानुरोधात् । वनस्थादिशब्दः प्रदर्शनार्थः । तेनापुत्रं गृहिणम् अपि संगृह्णाति । दिनक्षयविशेषे नक्तविधिम् आह ।

एकादशी कला मात्रा द्वादशी च क्षयं गता ।
क्षीणा सा द्वादशी ज्ञेया नक्तं तत्र विधीयते ॥

पुत्रवद्गृहिविषयश् चायं नियमः । अपुत्रस् तूपवसेद् एव । तद् उक्तं पुराणे ।

एकादशी द्वादशी च रात्र्यन्ते च त्रयोदशी ।
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥ इति ।
दशम्य् एकादशी विद्धा द्वादशी च क्षयं गता ।
नक्तं तत्र प्रकुर्वीत नोपवासो विधीयते ॥

अयम् अर्थः — एकादशीदिने दशमी विद्यते द्वादशीदिने तु नैकादशी त्रयोदशीदिने च न द्वादशी तत्र नक्तं कुर्यान् नोपवासम् इति । इति श्लोकद्वय एक एव विषयो ऽपुत्रवत्पुत्रवद्गृहिभेदेनोक्त इति विचार्यम् । यदा पुनः संपूर्णैकादशी भूत्वा द्वितीयदिने पुनर् भवेत् । तृतीयदिने च द्वादशी तदा पूर्वाम् एकादशीं हित्वा द्वितीयाम् उपवसेत् । यद् उक्तं स्मृत्यन्तरे,

[२०४] कला काष्ठापि द्वादस्या यदि याद् अपरे ऽहनि ।

द्वादश द्वादशीह्(र्ह)न्ति पूर्वस्याम् पारणे कृते ॥ इति ।

अस्मिन्न् एव विषये यदि तृतीये ऽहनि द्वादशी न दृश्यते तदा गृहिणः पूर्वस्याम् एकादश्याम् उपवासः । यतेर् उत्तरस्याम् । यद् उक्तं पुराणे,

संपूर्णैकादशी यत्र प्रभाते पुनर् एव सा ।
उत्तरां तु यतिः कुर्यात् पुर्वाम् उपवसेद् गृही ॥

अस्मिन्न् एव विषये यतेः पारणानुग्रहं स्मरति ।

संपूर्णैकदशी यत्र प्रभाते पुनर् एव सा ।
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥ इति ।

तथा च स्कन्दपुराणे ।

कलाप्य् एकादशी यत्र द्वादस्यनुगता भवेत् ।
दिनक्षये ऽपि सा पूज्या यतीनाम् उत्तमा तिथिः ॥

यद् अपि बौधायनेनोक्तम्,

कलाप्य् एकादशी यत्र परतो द्वादशी भवेत् ।
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥ इति,
एकादशीं कलायुक्ताम् उपोष्य द्वादशीं नरः ।
त्रयोदश्यां तु यो भुङ्क्ते विष्णुसायुज्यम् ऋच्छति ॥

इति, तद् अपि यतिविषयम् एव, विष्णुसायुज्यफलश्रवणात् । क्रतुशतपुण्यविधानं तु स्तुतिपरं न स्वार्थविधिपरम् । यद् अपि स्कन्दपुराणे ।

दिनक्षये ऽर्कसंक्रान्त्यां ग्रहणे चन्द्रसूर्ययोः ।
उपवासस् तु कर्तव्यो विष्णुसायुज्यम् इ(ऋ)च्च्छति ॥

इति, तद् अपि पुत्रवद्गृहिव्यतिरिक्तमुमुक्षुपुरुषविषयम् । एकस्मिन्न् एव श्लोके चैते श्लोकास् त्रयोदशीपारणनिषेधसूचकाः पुत्रवतो गृहस्थस्येति ज्ञेयम् । इति अत्र गृहस्थयतिव्यव्स्था । यद् अपि कूर्मपुराणे,

द्विस्पृग् एकादशी यत्र तत्र संनिहितो हरिः ।
ताम् एवोपवसेत् कामम् अकामो विष्णुतत्परः ॥

इति, तद् अपि पूर्वेण समानविषयम् । ये तु पुत्रिणो गृहिणस् तेषाम् अस्यां नक्तविधिर् इत्य् अनुसंधेयम् । दशमीं द्वादशीं च या स्पृशति सा द्विस्पृक् । [२०५] यत् तु नारदेनोक्तम्,

दशमीशेषसंयुक्ताम् उपोष्य द्वादशीं किल ।
संवत्सरकृतेनेह नरो धर्मेण मुच्यते ॥

इति, तथा,

दशम्यनुगता यत्र तिथिर् एकादशी भवेत् ।
तत्रापत्यविनाशः स्यात् परेत्य नरकं व्रजेत् ॥

इति, तद् द्वितीये ऽहन्य् एकादश्यां सत्यां वेदितव्यम् । तदभावे तु पुत्रवतां गृहिणां दशमीविद्धैकादश्यां नकम् अन्येषाम् उपवास इत्य् उक्तं भवेत् । अत एव महाभारतम् ।

दशमीशेषसंयुक्ता गान्धार्या समुपोषिता ।
तस्याः पुत्रशतं नष्टं तस्मात् तां परिवर्जयेत् ॥

शल्यपरिहारे तु फलम् अविकलम्,

विशल्या द्वादशी यत्र तत्र संनिहितो हरिः ।
उपोष्यैकाम् अपि हि तां गर्भवासं न पश्यति ।

इति तत्र स्मरणात् । यस् तु त्रयोदश्यां पारणनिषेधो यथा कूर्मपुराणे तावत्,

एकादश्याम् उपोष्यैव द्वादश्यां पारणं स्मृतम् ।
त्रयोदश्यां न तत् कुर्याद् द्वादशद्वादशीक्षयात् ॥

स्कन्दपुराणे,

उपोष्यैकादशीं यस् तु तर्योदश्यां तु पारणम् ।
करोति तस्य नश्यन्ति द्वादश्यो द्वादशैव तु ॥

इत्यादिः, स गृहिविषयः । त्रयोदशीपारणं यत्रैकादश्याम् आश्रीयमाणायां प्रसज्यते तां गृही नोपवसेद् इति तस्यार्थः । अत एवोक्तम् ।

उत्तरां तु यतिः कुर्यात् पूर्वाम् उपवसेद् गृही । इति ।

यस् तु त्रयोदशीपारणविधिः, यथा तावद् बौधायनीये,

कलाप्य् एकादशी यत्र परतो द्वादशी भवेत् ।

इत्यदिः, स ब्रह्मचारिवनस्थविषयः । एकादशीद्वैधे सति द्वितीयैकादशी व्रात्यादिना कार्येति तस्य तात्पर्यम् । त्रयोदशीपारणनिषेधश् चोदयव्यापिन्यां द्वादश्याम् असत्यां वेदितव्यः, न पुनस् तस्यां सत्याम् अपि त्रयोदशीसमये पारणनिवारणपरः । तथा सत्य् अदृष्टार्थः स्यात् । अन्यथा पुनर् एकादशीद्वैधे सत्य् एकस्यां गृहिणोपवसः कार्य इत्य् अपेक्षितार्थविधायकः सन् दृष्टार्थः । [२०६] मार्कण्डेयः ।

एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन दानेन न निर्द्वादशिको भवेत् ॥

अत्रैकभक्तादिविधानम् उपवासासमर्थं प्रतिषिद्धोपवासं वा प्रति द्रष्टव्यम् । पुत्रवतो गृहिणो यस्याम् एकादश्यां कृष्णपक्षार्कसंक्रान्तिदिनक्षयवशाद् उपवासो विषिद्धस् तस्याम् अपि कृच्छ्राद्यनुषङ्गप्राप्तौ न निषिध्यते । यद् आह स्मृतिमीमांसायां जैमिनिः,

आदित्ये ऽहनि संक्रान्तौ ग्रहणे चन्द्रसूर्ययोः ।
उपवासो न कर्तव्यो गृहिणा पुत्रिणा तथा ॥
तन्निमित्तोपवासस्य निषेधो ऽयम् उपाहृतः ।
नानुषङ्गकृतो ग्राह्यो यतेर् नित्यम् उपोषणम् ॥ इति ।

तन्निमित्तोपवासस्येत्य् अयंशब्दः प्रकृतत्वाद् एकादशीविषयः, न शुद्धादित्या(त्य)दिनादिविषयः । आदित्यदिनसंक्रान्त्योर् एकादश्युपवासनिषेधं प्रति निमित्तत्वेनात्रोपादाद् ध्य् अप्रकृतत्वम् । राहुदर्शनस्य त्व् एकादश्याम् असंभवात् पृथग् एवोपवासनिषेधहेतुत्वम् । तन् न कृच्छ्राद्यनुषङ्गप्राप्तोपवासकृतो निषेधो ऽत्र ग्राह्यः । यतः परिव्राजकस्य नित्यम् अनिषिद्धम् उपोषणम् ।

  • अन्ये पुनर् अन्यथा पठन्ति वर्णयन्ति च-

आदित्ये ऽहनि संक्रान्तौ ग्रहणे चन्द्रसूर्ययोः ।
पारणं चोपवासं च न न कुर्यात् पुत्रवान् गृही ॥

तन्निमित्तोपवासस्यादित्यवाराभि(दि)निमित्तस्योपवासस्य निषेधो नैकादशीनिमित्तस्यावर्जनीयादित्यवाराद्यनुषङ्गगतस्य । यस्मान् नित्यम् एकादश्याम् उपोषणम् इति । अत्र व्याख्यायते — आदित्ये ऽहनीत्यादिवाक्यम् एकादश्युपवासप्रकरणपठितम् असति विरोधे प्रकरणं बाधित्वा व्याख्येयम् । हेतुश् चोपवासनित्यत्वरूपो न समञ्जसः । यतो नित्यस्यापि षोडशिग्रहणादेर् दृश्यते प्रतिषेधः । न चास्य नञः प्रसज्यप्रतिषेधत्वम् । किं तु पर्युदासवृत्तित्वम् । तथा सत्य् उपवासविधिनैकवाक्यता । प्रतिषेधे तु नानावाक्यत्वम् । तस्मात् सदृशवस्तुपरिग्रहकारी पर्युदासः । अपि च —

प्रधानत्वं विधौ यत्र प्रतिषेधे ऽप्रधानता ।
**पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥ [२०७]

यथाब्राह्मणम् आनय ।

अप्राधान्यं विधौ यत्र प्रतिषेधे प्रधानता ।
प्रसज्यप्रतिषेधो ऽयं क्रियया सह यत्र नञ् ॥

यथाश्राद्धभोजी । पर्युदासवृत्तिश् चैवं व्याख्येया । पुत्रवद्गृहिव्यतिरिक्त आदित्यवारादियुक्तायाम् एकादश्याम् उपवसेत् । अथ वा पुत्रवान् गृहस्थ उपवासाद् अन्यत् तदा व्रतं कुर्याद् इति । एवं च तस्याम् आदित्यदिनादियुक्तायाम् एकादश्याम् उपवासविधिर् एव नस्तीति “न कुर्यात् पुत्रवान् गृही” इत्य् अनेन प्रतिपाद्यते । यथा “दीक्षितो न ददाति न जुहोति” इति न पुनर् विहितः सन् प्रतिषिध्यते । तस्मात् पूर्वैव व्याख्या ज्यायसी । यत् तु हारीतेनोक्तम्,

त्रयोदश्यां यदा न स्याद् द्वादशी घटिकाद्वयम् ।
दशम्यैकादशी मिश्रा सैवोपोष्या सदा तिथिः ॥

इति, यद् अपि ऋष्यशृङ्गेणोक्तम्,

पारणाहे न लभ्येत द्वादशी कलयापि चेत् ।
तदानीं दशमीविद्धाप्य् उपोष्यैकादशी तिथिः ॥

इति, यद् अपि मत्स्यपुराणम्,

एकादशी दशाविद्धा परतो ऽपि न वर्धते ।
गृहिभिर् यतिभिश् चैव सैवोपोष्या सदा तिथिः ॥

इति, तत् सर्वम् अपुत्राणां गृहिणाम् उपवासविधायकं वचनजातं द्रष्टव्यम् । सपुत्राणां पुनर् अस्मिन् विषये नक्तविधिः पर्दर्शित एव । कूर्मपुराणम् ।

कांस्यं मांसं मसूरं च चणकं कोरदुषकान् ।
शाकं मधु परान्नं च उपावत्स्यन् विवर्जयेत् ॥

उपावत्स्यन्न् उपवसन्न् इत्य् अर्थः । कांस्यं कांस्यपात्रे भोजनम् । ततश् च दशम्याम् एतद् व्रतम् । मत्स्यपुराणम् ।

कांस्यं मांसं सुरां क्षौद्रं तैलं वितथभाषणम् ।
व्यायामं प्रवासं च दिवा स्वप्नम् अथाञ्जनम् ॥
तिलपिष्टं मसूरं च द्वादशैतानि वैष्णवः ॥

त्यजेद् इति शेषः ।

कांस्यमांसपरकीयभोजनक्षारतैलमधुमद्यमैथुनम् ।
द्वादशीषु परिवर्जयन् नरः कंससूदनतनौ निलीयते ॥

विष्णुः- “मार्गशीर्षशुक्लैकासश्याम् उपोषितो द्वादश्यां भगवन्तं वासुदेवम् अभ्यर्चयेत् । पुष्पधूपानुलेपनदीपनैवेद्यैर् वह्निब्राह्मणतर्पणैश् च व्रतम् एतत् संवत्सरं पूर्णं कृत्वा पापेभ्यः पूतो भवति । यावज्जीवं कृत्वा श्वेतद्वीपम् आप्नोति । उभयपक्षे द्वादशीत्य् एवं संवत्सरेण स्वर्गलोकं प्राप्नोति । यावज्जीवं विष्णुलोकम्” । तथा ।

पञ्चदशी पौर्णमासी पञ्चमीद्वादशीद्वयम् ।
संवत्सरम् अभुञ्जानः सततं विजितेन्द्रियः ॥
मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति ॥

पुराणात् ।

चैत्राषाढाश्वयुक्पौषद्वादश्यः सितपक्षगाः ।
एता विशिष्टा उभयद्वादश्यो नामतः स्मृताः ॥

तथा ।

माघमासस्य शुक्ला या द्वादशी परमा तिथिः ।
भीमसेनद्वादशी सा द्वादशीभ्यो विशिष्यते ॥

यमः ।

अयने विषुवे चैव चन्द्रसूर्यग्रहे तथा ।
कृतोपवासाः सलिलं सर्वपापैः प्रमुच्यते ॥
कृतोपवासाः सलिलं ये युगादिदिनेषु च ।
दास्यन्त्यन्नादिसहितं तेषां लोका महोदयाः ॥
दृश्येते सहितौ यस्यां दिवि चन्द्रबृहस्पती ।
पौर्णमासी तु महती प्रोक्ता सांवत्सरेण सा ॥
तस्यां दानोपवासाद्यम् अक्षयं परिकीर्तितम् ।
तथैव द्वादशी शुक्ला या स्याच् छ्रवणसंयुता ॥

सांवत्सरो ज्योतिर्वित् । स्मृत्यन्तरे ।

मासाख्यर्क्षे चन्द्रगुरू तस्मात् पञ्चदशे रविः ।
पूर्णिमा जीववारे तु महाशब्दा तु सा तिथिः ॥
हरिक्षेत्रे च गङ्गायां समुद्रे नैमिषे तथा ।
महाशब्दतिथौ स्नानं दानं श्राद्धम् अनन्तकम् ॥

अथ श्रीश्रवणद्वादशीनिर्णयः ।

यदा च शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् ।
तदा सा तु महापुण्या द्वादशी विजया स्मृता ॥

[२०९] यदान्यस्याम् अपि तिथौ शुभायां श्रवणं भवेत् ।

होमस् तत्रोपवासश् च सहस्राश्वफलप्रदः ॥
श्रवणे संगमाः पुण्याः कुरुक्षेत्रसमा मताः ।
वेशेषाद् बुधसंयुक्ते तृतीयायां विशेषतः ॥
बुधश्रवणसंयुक्ता तृतीया यदि लभ्यते ।
तत्र दानोपवासाद्यम् अक्षयं परिकीर्तितम् ॥
श्रवणेन सिता तत्र द्वादशी लभ्यते क्वचित् ।
उपोष्यैकादशीं तत्र द्वादश्याम् अर्चयेद् धरिम् ॥
याः काश्चित् तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः ।
तास्व् एव तद् व्रतं कुर्याच् छ्रवणद्वादशीं विना ॥

श्रवणद्वादश्यां विहितम् एकादश्यां कुर्याद् इत्य् अर्थः । तथा च मत्स्यपुराणम् ।

द्वादश्यां शुक्लपक्षे तु नक्षत्रं श्रवणं यदि ।
उपोष्यैकादशीं तत्र द्वादश्याम् अर्चयेद् धरिम् ॥

एतच् चैकादश्यविद्धायां श्रवणद्वादश्यां वेदितव्यम् । तद्विद्धा तु द्वादश्यैवोपोष्या । तद् उक्तं तत्रैव ।

द्वादशी श्रवणास्पृष्टा स्पृशेद् एकादशीं यदि ।
स एव वैष्णवो योगो विष्णुशृङ्खलसंज्ञितः ॥
तस्मिन्न् उपोष्य विधिवन् नरः संक्षीणकल्मषः ।
प्राप्नोत्य् अनुत्तमां सिद्धिं पुनरावृत्तिदुर्लभाम् ॥

शवणास्पृष्टा श्रवणसंयुक्ता । श्रवणाशब्दः स्त्रीलिङ्गो ऽप्य् अस्ति । श्रवण(णा)स्पृष्टेति वदन् स्वल्पे ऽपि श्रवणयोगे द्वादश्युपवासादियोग्या भवतीति गमयति । तथा च मत्स्यपुराणम् ।

द्वादशी श्रवणास्पृष्टा कृत्स्ना पुण्यतमा स्मृता ।
न तु सा तेन संयुक्ता तावत्य् एव प्रशस्यते ॥

एकादशीरहितापि श्रवणद्वादश्य् उपोष्या । यद् आह मार्कण्डेयः ।

श्रवणर्क्षसमायुक्ता द्वादशी यदि लभ्यते ।
**उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम् ॥ इति । [२१०]

अयम् अनुपक्रान्तैकादशीव्रतविधिः । तदुपक्रमे त्व् एकादश्याम् एवोपवासः । द्वादश्यां तु पूजामात्रविधिः । तद् उक्तम् ।

असमाप्ते व्रते पूर्वे नैव कुर्याद् व्रतान्तरम् ॥ इति ।

यस् तूपवासद्वयासमर्थस् तं प्रति भविष्योत्तरे विहितम् ।

उपोष्य द्वादशीं पुण्यां विष्णुऋक्षेण संयुताम् ।
एकादश्यो(श्यु)द्भवं पुण्यं नरः प्राप्नोत्य् असंशयम् ॥
एवम् एकादशीं मुक्त्वा द्वादशीं समुपोषयेत् ।
पूर्वोपवासनं पुण्यं नरः प्राप्नोत्य् असंशयम् ॥

न हि श्रवणद्वादश्यां पारणासंभवाच् चोपवासजो दोषः ।

एकादशीम् उपोष्यैव द्वादशीं समुपोषयेत् ।
न चात्र विधिलोपः स्याद् उबहोर् दैवतं हरिः ॥

इति विष्णुशृङ्खलपक्षे पुनर् एकस्माद् एवोपवासाच् छ्रवणद्वादशीव्रतकार्यं च प्रसङ्गात् सिध्यति । विष्णुरहस्यम् ।

द्वादश्याम् उपवासो ऽत्र त्रयोदश्यां तु पारणम् ।
निषिद्धम् अपि कर्तव्यम् आज्ञेयं पारमेश्वरी ॥

तथा ।

श्रवणेन समायुक्ता मासि भाद्रपदे हि या ।
द्वादशी सा महापुण्या नाम्ना तु विजया स्मृता ॥
तस्यां स्नातो विधानेन सर्वतीर्थफलं लभेत् ।
अर्चयित्वाच्युतं भक्त्या लभेत् पुण्यं दशाब्दिकम् ॥ इति

तथा श्रीजन्माष्टमीविचारः ।

प्राजापत्यर्क्षसंयुक्ता या स्यान् नभसि चाष्टमी ।
मुहूर्तम् अपि लभ्येत उपोष्या सा महाफला ॥

प्राजापत्यर्क्षं रोहिणी । नभसि श्रावणे । तथा ।

मुहूर्तम् अप्य् अहोरात्रे यस्मिन् युक्तैव लभ्यते ।
अष्टमीं रोहिणीम् ऋक्षं सुपुण्यां ताम् उपावसेत् ॥

अत्राष्टम्याः प्राधान्यम् । रोहिणी तु तद्विशेषणम् । न च सातत्येन [२११] नक्षत्रयोगो ऽत्रापेक्षणीयः । मुहूर्तम् अपीति वचनात् । न च सप्तमीविद्धाप्य् एषा त्याज्या । तद् उक्तं भविष्यत्पुराणे ।

कार्या विद्धापि सप्तम्या रोहिणीसहिताष्टमी ।
तत्रोपवासं कुर्वीत तिथिभान्ते च पारणम् ॥ इति ।

अस्यार्थः — यदि सप्तमी मुहूर्तमात्रं परतो रोहिण्याल्पकालव्याप्ताष्टमी द्वितीयदिने तु नैवाष्टमी रोहिणी च कंचित् कालं विद्यत एव, तदा सप्तमीविद्धाष्टमी कार्या । पारणं तु नवमीदिने नक्षत्रे व्यतीत इत् । यदा पुनर् द्वितीयदिने ऽल्पम् अपि कालम् अष्टमी विद्यते तदा सप्तमीविद्धाष्टमी त्याज्या । तद् उक्तं पद्मपुराणे ।

वर्जनीया प्रयत्नेन सप्तमीसंयुताष्टमी ।
अविद्धायां स कृष्णायां जातो देवकिनन्दनः ॥
पूर्वविद्धा यथा नन्दा वर्जिता श्रवणान्विता ।
तथाष्टमी पूर्वविद्धा सऋक्षापि हि वर्जिता ॥
पूर्वविद्धाष्टमी या तु उदये प्रथमे ऽहनि ।
मुहूर्तेनापि संयुक्ता संपूर्णा साष्टमी भवेत् ॥
सप्तमीसंयुताष्टम्यां भूत्वा ऋक्षं द्विजोत्तम ।
प्राजापत्यं द्वितीये ऽह्नि मुहूर्तं वै भवेद् यदि ॥
तदा व्रतं द्वितीये ऽह्नि प्रोक्तं व्यासादिभिः पुरा ॥ इति ।

पूर्वविद्धाष्टमीति । अष्टमीदिने त्रुटिमात्रेणापि सप्तम्या विद्धा सूर्योदयस्पृष्टाष्टमी चेत् स्यान् नाष्टमीत्वेन ग्राह्या । नवमीदिने घटिकाद्वयम् अपि चेत् स्यात् सैव परिपूर्णाष्टमी भवेद् इत्य् अर्थः । भविष्तत्पुराणम् ।

अष्टम्यां चाथ रोहिण्यां न कुर्यात् पारणं क्वचित् ।
हन्यात् पुरा कृतं कृट्स्नम् उपवासार्जितं फलम् ॥
तिथिर् अष्टगुणं हन्ति नक्षत्रं च चतुर्गुणम् ।
तस्मात् प्रयत्नतः कुर्यात् तिथिभान्ते च पारणम् ॥

भान्तो नक्षत्रान्तः । [२१२] तथा ।

जयन्त्याम् उपवासश् च महापातकनाशनः ।
स कार्यः सुमहाभक्त्या पूजनीयश् च केशवः ॥

श्रावणकृणाष्टमी रोहिणीयुक्ता जयन्ती ॥

इति श्रीजन्माष्टमीनिर्णयः ॥

मार्कण्डेयः ।

सिंहादित्ये कृष्ण(शुक्ल?)पक्षे चतुर्थ्यां चन्द्रदर्शनम् ।
मिथ्याभिदूषणं कुर्यात् तस्मात् पश्येन् न तं तदा ॥

पुराणात् ।

शुक्लाष्टम्यां तु माधस्य दद्याद् भीष्माय यो जलम् ।
संवत्सरकृतं पापं तत्क्षणाद् एव मुञ्चति ॥
वैयाघ्रपद्यगोत्राय सांकृत्यप्रवराय च ।
अपुत्राय ददाम्य् एतत् सलिलं भीष्मवर्मणे ॥
कृत्वा नीराजनं राजा बलवृद्ध्यै यथाबलम् ।
शोभनं खञ्जनं पश्येज् जलगोष्ठादिसंनिधौ ॥
न रक्तं खञ्जनं पश्येन् न पीतं कृष्णम् एव वा ।
पूर्णस्वस्तिकभद्राणां पश्येद् अन्यतमं न्र्पः ॥

पद्मपुराणात् ।

तुलामकरमेषेषु प्रातःस्नायी सदा भवेत् ।
ब्रह्मचर्यं हविष्यान्नं महापातकनाशनम् ॥

तथा ।

तुलायां तिलतैलेन सायंसंध्यासमागमे ।
अष्टाङ्गदीपं यो दद्यान् मासम् एकं निरन्तरम् ॥
सम्यक् श्रीपतये भक्त्या स श्रिया न वियुज्यते ।
दामोदराय नभसि तुलायां लोहया सह ॥
प्रदीपं तु प्रयच्छामि नमो ऽनन्ताय वेधसे ॥

इति दीपदानमन्त्रः । नभस्य् आकाश इत्य् अर्थः । तथा ।

कार्त्तिके नवमी शुक्ला पितॄणाम् उत्सवाय सा ।
तस्यां स्नानं हुतं दत्तम् अनन्तफलदं भवेत् ॥

लिङ्गपुराणात् ।

अष्टम्यां च चतुर्दश्यां यः शिवं संशितव्रतः ।
मुमुक्षुः पूजयोन्नित्यं स लभेतेप्सितं फलम् ॥

विष्णुः ।

सूर्यग्रहणतुल्या च शुक्ला माधस्य सप्तमी ।
**अरुणोदयवेलायां तस्यां स्नानं महाफलम् ॥ [२१३]

तथा ।

माघमासस्य सप्तम्याम् उदयत्य् एव भास्करे ।
विधिवत् तत्र च स्नानं महापातकनाशनम् ॥

तथा ।

पुनर्वसौ बुधोपेता चैत्रमाससिताष्टमी ।
स्रोतःसु विधिवत् स्नात्वा वाजपेयफलं लभेत् ॥
अशोकैर् अर्चयेद् उग्रम् अशोककलिकां पिबेत् ॥

उग्रः शिवः ।

चैत्रे मासि सिताष्टम्यां ये पिबन्ति पुनर्वसौ ।
अशोकस्याष्टकलिकां न ते शोकम् अवाप्नुयुः ॥
त्वाम् अशोक शिवाभीष्टं मधुमां(मा)ससमुद्भवम् ।
पिबामि शोकसंत्यक्तं माम् अशोकं सका कुरु ॥।

इति पानमन्त्रः । तथा ।

चैत्रकृष्णचतुर्दश्याम् अङ्गारकदिनं यदा ।
पिशाचत्वं पुनर् न स्याद् गङ्गायां स्नानम् अभोजनम् ॥

मार्कण्डेयः ।

एकादश्यां सिते पक्षे ऋक्षं चैव पुनर्वसुः ।
नाम्ना सा विजया ख्याता तिथीनाम् उत्तमा तिथिः ॥
एकादश्यां सिते पक्षे पुष्यर्क्षं यदि सत्तम ।
द्वादश्यां वा तदाशेषपपक्षयकरं द्वयम् ॥

व्यासः ।

शुक्लपक्षे तृतीयायां चतुर्थ्यां चैव भारत ।
पञ्चम्यां कृष्णपक्षस्य स्नातः किम् अनुशोचते ॥
शुक्ले वा यदि वा कृष्णे चतुर्थी वा चतुर्दशी ।
भौमवारेण पुण्यासौ सोमवारे कुहूर् यथा ॥

तथा ।

अमा वै सोमवारेण रविवारेण सप्तमी ।
चतुर्थी भौमवारेण विषुवत् सदृशं फलम् ॥
सिनीवाली कुहूर् वापि यदि सोमदिने भवेत् ।
गोसहस्रफलं दद्यात् स्नानं वै मौनिना कृतम् ॥
द्विजेन्द्रसुतसंयुक्ता परिपूर्णा सिताष्टमि ।
तस्यां नियमकर्तारो न स्युः खण्डितसंपदः ॥

द्विजेन्द्रसुतः सोमसुतः । बुध इति यावत् । [२१४] तथा ।

बृहस्पतिद्वितीयायां शुक्लायां विधिपूजनम् ।
कृत्वा नक्तं समश्नीयाल् लभेद् भूमिम् अभीप्सिताम् ॥

विधिर् ब्रह्मा, तत्पूजनं च गायत्र्या कार्यम् । अथ प्रसङ्गात् खण्डतिथिविषयाणि कानिचिद् वाक्यानि लिख्यन्ते । तत्र प्रतिपादादितिथिषु यान्य् अवश्यकार्याणि कर्माणि तानि तासां द्वैविध्ये सति किं सूर्योदयव्यपिनीषु कार्याणि किं वा तदस्तमयव्यापिनीष्व् इति संशये पक्षद्वये ऽप्य् अनुग्राहकाणि कानिचिद् वाक्यानि दृश्यन्ते । यद् आह देवलः ।

यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः ।
सा तिथिः सकला ज्ञेया स्नानदानजपादिषु ॥
यां तिथिं समनुप्राप्य उदयं याति भास्करः ।
सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु ॥
आगतां तिथिम् उत्सृज्य तिथिशेषं न योजयेत् ।
ज्वलन्तम् अग्निम् उत्सृज्य न हि भस्मनि हूयते ॥

एतद्विरोधपरिहाराय विष्णुधर्मोत्तरे शिवगीताः ।

एकादश्य् अष्टमी षष्ठी द्वितीया च चतुर्दशी ।
त्रयोदशी अमावास्या उपोष्याः स्युः परान्विताः ॥

अत्र कृष्णपक्षस्यैव त्रयोदशीचतुर्दश्यौ ग्राह्ये । तथा च निगमः ।

षष्ठ्य् अष्टमी तथा दर्शः कृष्णपक्षे त्रयोदशी ।
एताः परयुताः पूज्याः पराः पूर्वयुतास् तथा ॥

परा उत्तराः । ततश् च षष्ठ्यादीनां यथासंख्यं पराः सप्तमीनवमीचतुर्दशीप्रतिपदो भवन्ति । तथा ।

एकादश्य् अष्टमी षष्ठी शुक्लपक्षे चतुर्दशी ।
पूज्याः परमेण संयुक्ताः ॥

परेण तिथिनेत्य् अर्थः । तथा ।

युग्माग्नियुगभूतानां षण्मुन्योर् वसुरन्ध्रयोः ।
रुद्रेण द्वादशी युक्ता चतुर्दश्या च पूर्णिमा ॥

[२१५] प्रतिपत्स्व् अप्य् अमावास्या तिथ्योर् युग्मं महाफलम् ।

एतद् व्यस्तं महादोषं हन्ति पुण्यं पुराकृतम् ॥

अत्र तिथ्योर् युग्मम् इत्य् अभिधानाद् युग्माग्न्यादिशब्दा द्वितीयातृतीयादितिथिविशेषोपलक्षणार्था विज्ञायन्ते । ततश् च युग्माग्न्योर् द्वितीयातृतीययोर् युग्मभूतानां चतुर्थीपञ्चम्योर् युग्मम् इत्य् एवं तिथियुग्मनिर्देशो द्रष्टव्यः । एवं च सति दशमीशुक्लत्रयोदशीशुक्लप्रतिपदां पूर्वोत्तरतिथियुग्मानि त्याज्यानि भवन्ति । यच् च देवलवचनम्- “यां तिथिं समनुप्राप्य” इत्यादि तद् यासां तिथीनां द्वितीयादीनाम् उत्तरतिथिविद्धानाम् उपादेयत्वम् उक्तं तद्विषयं ग्राह्यम् । यच् च तेनैवोक्तम्,

यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः ।

इति, तद् अपि यास् तिथयः पूर्वतिथिविद्धाः सत्यो ग्राह्यास् तद्विषयम् । यच् च बौधायनेनोक्तम्,

सा तिथिस् तद् अहोरात्रं यस्याम् अभ्युदितो रविः ।
वर्धमानस्य पक्षस्य ह्रासे ऽप्य् अस्तमयं प्रति ॥

तत् परविद्धत्वेन पूजानां द्वितीयादितिथीनाम् उदयव्यापिनीनाम् उपादेयत्वम् अनूद्य तासाम् एव क्षयगामित्वेनोदयव्यापित्वे ऽसति पूर्वविद्धत्वे ऽप्य् उपादेयतां विधत्ते । यदा पुनर् द्वितीयादिविहितं कर्म समग्रम् उदयव्यापिद्वितीयादौ कर्तुम् अशक्यं तद्विपरीतायां च शक्यं तदा किं कार्यम् इत्य् अपेक्षिते भविष्यत्पुराणम् ।

व्रतोपवासस्नानादौ घटिकैका यदा भवेत् ।
उदये सा तिथिर् ग्राह्या विपरीतापि पैतृके ॥ इति ।

यत् तु मार्कण्देयेनोक्तम्,

शुक्लपक्षे तिथिर् ग्राह्या यस्याम् अभ्युदितो रविः ।
कृष्णपक्षे तिथिर् ग्राह्या यस्याम् अस्तमितो रविः ॥

इति, तत्र शुक्लपक्षशब्देन देवकार्यम् उपलक्ष्यते, तस्य प्रायः शुक्लपक्षे विहितत्वात् । कृणपक्षशब्देन च पितृकार्यम् । देवकार्यं च यद् (?) उदयव्यापिन्यां विधीयते तत् प्रतिषिद्धतिथिवेधानतिक्रमेण ग्राह्यम् । पितृकार्ये पुनर् अपराह्णव्यापिनी वेधविधिम् अनादृत्यैव ग्राह्या । यत् स्मृत्यन्तरे,

मध्याह्नव्यापिनी या स्यात् तिथिः पूर्वा परापि वा ।
तत्र कर्माणि कुर्वीत वृद्धिह्रासाव् अकारणम् ॥ इति ।

इदं चैकोद्दिष्टविषयम्, तस्य मध्याह्ने विहितत्वात् । “श्राद्धादाव् आपराह्णिकी” इति वचनात् पैतृके कर्मणि तिथिवेधो न दुष्यतीति गम्यते । अत एवओपवासयोग्यतां वेधविशेषे तिथिविशेषाणाम् आह गार्ग्यः । [२१६]

एकादश्य् अष्टमी षष्ठी पूर्णमासी चतुर्दशी ।
अमावास्या तृतीया च ता उपोष्याः परान्विताः ॥

पारिशेष्याद् अन्याः पूर्वविद्धा एवोपवासे ग्राह्या इति गम्यते । यत् तु निगमवाक्यम्- “युग्माग्नियुगभूतानि” इत्यादौ पौर्णमासीतृतीययोः पूर्वविद्धयोर् उपादेयत्वम् उक्तम्, तद् एकादश्य् अष्टमीत्यादिगार्ग्यवचनाविरोधेनोपवासव्यतिरिक्तकर्मविषयं ग्राह्यम् । चतुर्दश्याश् च शुक्लाया एव परविद्धायाः पूज्यता । यद् आह बौधायनः ।

एकादश्य् अष्टमी षष्ट्ःई शुक्लपक्षे चतुर्दशी ।
पूज्याः परेण संयुक्ताः पराः पूर्वेण संयुताः ॥ इति ।

कृष्णचतुर्दशी तु परविद्धा हेयैव,

एतद् व्यस्तं महादोषं हन्ति पुण्यं पराकृतम् ।

इति वचनसामर्थात् । द्वितीयादितिथीनां पूर्वतिथिवेधे सति द्वितीये ऽहन्य् अवश्यं षष्ठ्यादितिथिर् निःसरतीति तादृशे विषये नागादिवेधो हेय इत्य् एवंपरम् । यदा तु स्वल्पया पञ्चम्यादिकया तिथ्या षष्ठ्यादिविद्धापि षष्ठ्यादिर् उपादेया । काम्यान्य् अपि कर्माणि प्रक्रान्तानि सन्त्य् आवश्यकान्य् एव । एवं च सति द्वादशाष्टादशादिशब्दाः षष्ठ्यादीनां परविद्धत्वसंभवज्ञापनार्था न विवक्षितस्वार्था इत्य् एवं विधेयम् । “दिक्पञ्चदशाभिस् तथा” इत्य् अत्र दिग् इति दशमीत्य् अर्थः । नक्षत्रे तूपवसनीये किम् अस्तमयव्यापि तद् ग्राह्यम् अन्यथा वेति संशये शंकरगीताः ।

उपोषितव्यं नक्षत्रं यस्मिन्न् अस्तम् इयाद् रविः ।
यत्र वा युज्यते ना(रा)म निशीथं शशिना सह ॥ इति ।

एतच् च तिथिविशेषयोगानपेक्षे नक्षत्र एवोपोषितव्ये द्रष्टव्यम् । यत्र तु नक्षत्रयुक्ता तिथिस् तिथियुक्तं वा नक्षत्रं कर्माङ्गतया विहितं तत्रोदयप्रभृति सातत्येन तद्योगो ऽपेक्षणीयो रोहिण्यष्टमीं श्रवणद्वादशीं च विहाय । ततश् चायम् अर्थः सिद्धो भवति — आवश्यकव्रतादिकर्मकाले लभ्यमाना तिथिर् निषिद्धवेधा हेया । उपादेयवेधा तु कर्मकालाव्यापिन्य् अपि स्वीकार्येति । नित्यं नैमित्तिकं च कर्मावश्यकं प्रक्रान्तं च सदावश्यकम् एव । प्रक्रम्यमाणं तु तत् संकल्पकालव्यापिन्याम् [२१७] एव विहितायां तथावारम्भणीयम्, संकल्पस्यैव व्रतत्वात् । स चौचित्यात् प्रातर् एव कार्यः । मनुः ।

वेदोतितं स्वकं कर्म नित्यं कुर्याद् अतन्द्रितः ।
तद् धि कुर्वन् यथाशक्ति प्रप्नोति परमां गतिम् ॥

नित्यम् अकाम्यम् इत्य् अर्थः । पर्मा गतिर् मुक्तिः । कर्म च परमात्मज्ञानसहितं क्रियमाणं मुक्तये कल्पत इति व्याख्येयम्, वचनान्तरवशात् । तथा ।

इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।
अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥

तथा ।

अग्निहोत्रं च जुहुयाद् आद्यन्ते द्युनिशोः सदा ।
दर्शने(र्शेन) चार्धमासान्ते पूर्णमासेन चैव हि ॥
सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजो ऽध्वरैः ।
चतुर्षु चतुर्षु मसेषु चातुर्मास्यादियागैः ।
पशुना ह्य् अयनस्यान्ते समान्ते सौमिकैर् मखैः ॥

अह्नोर् निशायाश् चाद्यन्ताव् अग्निहोत्रप्रयोगं प्रति कालत्वेन विधानाद् योग्याव् इति ताभ्यां स्वसंबन्धी पूर्व उत्तरश् च काल उपलक्षितो ऽत्र विधीयते । अत एवापराह्णे सायंहोमस्योपक्रमः । प्रदोषे तु समाप्तिः । उदितहोमिनां पुनरुदित आदित्ये । एवम् अर्धमासान्तस्याप्य् अत्यन्तसूक्षमत्वाद् दर्शपूर्णमसप्रयोगसमर्थकाललक्षकत्वम् । अत एव कल्पसूत्रकाराः ।

पक्षान्ता उपवस्तव्याः पक्षादयो ऽभियष्टव्याः । इति ।

पक्षान्तः पञ्चदशी, पक्षादिः प्रतिपत् । तत्रोपवासस् तीर्थस्नानाग्न्यन्वाधानादिकर्मकलापः पाणिसंस्पर्शनादिप्रयोगो ऽभीज्या । एतच् च प्रतिपत्पञ्चदश्योः सूर्योदयास्तमयव्यापित्वे सति तथा कृष्णशुक्लप्रतिपदोश् चन्द्रस्यादर्शनपूर्णोदयवत्त्वे सति द्रष्टव्यम् । यदा पुनर् एकस्मिन्न् एवाहनि पूर्णश् चन्द्र उदेति न दृश्यते वा तदा तद् अहर् एव यागः । यद् आह आपस्तम्बः- “यद् अहः पुरस्ताच् चन्द्रमाः पूर्न उत्सर्पेत् तां पूर्णमासीम् उपवसेच् छ्वः पूरितेति वा” । तथा- “यद् अहर् न दृश्यते तद् अहर् अमावास्या वा श्वो न द्रष्टार इति वा” इति । यदप्य् (यद्यप्य्) उपवासश् चन्द्रमसं वाविज्ञाय संपूर्णं वा विज्ञायाग्नीन् अन्वदधातीयादिभिर् [२१८] वचनैश् चन्द्रादर्शनसंपूर्णोदयवत्य् अहनि विहितः । तथापि यागस्य प्रधान्यात् तत्काले दर्शनादिभिर् यथा न बाध्यते तथोपवसथस्य कालो ग्राह्यः, “अङ्गगुणविरोधे च तादर्थ्यात्” इत् न्यायात् । तस्माद् अतिक्षये तिथीनां यस्मिन्न् एवाहोरात्रे चन्द्रस्यादर्शनं पूर्णोदयो वा भवति तदादृश्यमाने चन्द्रमस्यमावास्योपवासः । यदा तु दिनद्वयव्यपि चन्द्रादर्शनं पूर्णोदयो वा भवति तत्रैव वा विषये प्रतिपत्पञ्चदाश्योर् दिवा संधिश् चत् स्यात् तदा पूर्वेद्युर् उपोष्य दिवासंधिमत्य् अहनि यष्टव्यं नोत्तरेद्युश् चन्द्रदर्शनादियुक्ते ऽपि संधिमत्य् अहनीज्यया हि संधिसंनिधिर् अनुगृहीतो भवति । चन्द्रादर्शनादियुक्तोत्तरेद्युर् इष्टौ च विप्रकृष्टः । विप्रकृष्टश् च (-ष्टाच् च) यागकालात् संनिकृष्टो यागकालो ज्यायान् । “दिवासंधियुक्तायां हविषा पौर्णमास्यां यजेतामावस्यम् (?) अमावास्यायां यजेत” इति श्रुतिः । पूर्णमास्यमावास्याशब्दौ हि पञ्चदश्योः प्रसिद्धौ न तु प्रतिपदि । अत एव “संधिम् अभितो यजेत” इति श्रुत्यन्तरम् । अभित उबहत इत्य् अर्थः । तत्र दिवासंधौ संधेः पूर्वत्र यागो रात्रिसंधौ तूत्तरत्र पूर्वह्णे । सर्वेष्व् अपि च पक्षेषु यागः प्रातःकाल एव, “अथ प्रातः प्रातर्हुते ऽग्निहोत्रे” इत्यादिवक्यात् । अत एव बौधायनः- “अत्रोदाहरन्त्य् ऊर्ध्वं मध्यरात्रात् पूर्णमस्यां चन्द्रमाः पूर्यते । स एतं चापररात्रं पूर्णो भवति । सर्वं चाहर् उत्तरस्या रात्रेर् आ मध्यरात्राद् अथामावास्यायाम् औपवसथ्ये ऽहन्य् ऊर्ध्वं मध्यंदिनाच् चन्द्रमसादित्यो रभते स एवं चापराह्णं न भवति । सर्वां च रात्रिम् उत्तरस्य चाह्न आ मध्यंदिनाद् एतं संधिम् अभितो यजेत” इति । अस्यार्थः — अत्रोदाहरन्ति श्रुतिम् इति शेषः । पूर्णमास्याम् इति विषयनिर्देशः । ऊर्ध्वं मध्यरात्राच् चन्द्रमाः पूर्यते पूर्णमासी प्रवर्तत इत्य् उक्तं भवति । सैतम् अपररात्रम् अनन्तरं च सर्वम् अहर् उत्तरस्या रात्रेर् आ मध्यरात्राद् अनुवर्तते ततो विच्छिद्यते सो ऽयं रात्रिसंधिर् उक्तः । अथामावास्याविषय्ते । औपवसथीये(थ्ये) ऽहनित् यागदिनात् पूर्वेद्युर् ऊर्ध्वं मधंदिनाच् चन्द्रमसादित्यो रभते ऽमावास्या प्रवर्तते । सैतम् अपराह्णम् अनन्तरां सर्वां रात्रिम् उत्तरस्याह्न आ मध्यंदिनाद् अनुवर्तते । ततः प्रतिपद् भवति । स एष दिवासंधिर् एतं रात्रिसंधिम् [२१९] अभिव्याप्य संधेः पूर्वेद्युर् अग्नीन् अन्वाधायोत्तरेद्युर् यजेत । तथैतं दिवासम्धिम् अभिलक्ष्य तदहः प्रातर् यजत इति । एवं श्रुतिम् उदाहृत्य तद्गतौ मध्यरात्रमधंदिनशब्दौ व्याख्यातुम् आह- “रात्रिर् हि पूर्णमास्यां संधेया भवत्य् अहर् अमावस्यायाम्” इति । तेन श्रुतिगतौ मध्यरातमधंदिनशब्दौ रात्रिसंधिदिवासंध्योर् उपलक्षकौ न विवक्षिताव् इति प्रतिपदितं भवति । अनयोश् च पूर्णमास्यमावास्याविषयश्रुत्योः प्रदर्शनार्थत्वं वक्तुम् उत्तरं सूत्रम्- “द्वे पौर्णमास्यौ द्वे अमावस्ये पूर्वां पूर्वां । पौर्णमासीम् उत्तराम् उत्तराम् अमावस्याम्”। इति । अयम् अर्थः — रात्रिसंधिदिवासंधिमत्यौ द्वे पूर्णमास्यौ । तत्र दिवासंधिः पूर्वामावास्या पूर्णमासी वा, रात्रिसंधिस् तूत्तरा । तत्र पूर्वामावास्योक्ता न तु पूर्णमासी ताम् उपमाव्याजेनाह — पूर्वां पूर्वां पूर्णमासीम् इति । अयम् अर्थः — पूर्वाम् अवावास्याम् इव पूर्वाम् पौर्णवासीं जानीयाद् इति । ततश् च दिवासंधिम् अस्यां पूर्णमास्यां यागः पूर्वेद्युर् उपवास इति सिद्धम् । तथोत्तरा पूर्णमास्य् उक्ता न त्व् अमावास्या तां पूर्णमासीं निरूपयन्न् आह- उत्तराम् उत्तराम् अमावास्याम् इति । उत्तरां पूर्णमासीम् इत्वोक्ताम् उत्तराम् अमावास्यां जानीयाद् इति । ततश् च रात्रिगतम् अमावास्याप्रतिपत्संधिम् उपवासयागयोर् मध्ये कुर्याद् इत्य् अर्थः । एवं तावत् संधिसंनिधिर् एवानुग्राह्यो न तूपवसथस्य चन्द्रादर्शनसंपूर्णोदयकालत्वम् इति बौधायनमतम् ।

  • केचित् तु कल्पसूत्रकारा दिवासंधिमत्य् अहन्य् उपवासः कार्यः । उत्तरेद्युश् च यागः । यदि तस्मिन्नहनि चन्द्रस्यादर्शनं संपूर्णोदयो वा स्याद् इत्य् आहुः । तत्रोभाव् अपि शस्त्रार्थाव् अविशेषात् । किं तु यत्सूत्रप्रत्ययेन ये ऽनुतिष्ठन्ति तेषां तद् उक्त एव शास्त्रार्थ उदितानुदितशास्त्रार्थव्द् इति । पिण्डपितृयज्ञे तु यद् औपवसथ्य एवाहनि नापराह्णे ऽमावास्यास्ति तदा संदेहः । किम् औपवसथ्य एवाहनि स कार्य उत यजनीय इति । तत्र केचिद् आहुः- “तस्मात् पूर्वेद्युः पितृभ्यः क्रियत उत्तरम् अहर् देवान् यजन्ते । पितृभ्य एतद् यज्ञं निष्क्रीय यजमानः प्रतनुते” इत्यादिश्रुतिवाक्यबलात्, तथाग्न्याधानं प्रकृत्य “अथापराह्णे पिण्डपितृयज्ञेन चरन्ति” इति कल्पसूत्रकारवचनाद् औपवस्थ्य एवाहनि कार्य इति । यत् पुनः [२२०] “अमावास्यायाम् अपराह्णे पिण्डपितृयज्ञेन चरन्ति” इति वचनम्, तत्रामावास्याशब्द औपवसथ्यदिनोपलक्षणार्थो ऽन्यथा पूर्वोक्तवचनविरोधः स्याद् इति ।

  • तद् असत् । न ह्य् अमावास्यायाम् अपराह्ण इत्य् अत्रामावास्याशब्द औपवसथ्यम् अहर् उपलक्षयतीति । किं च न प्रमाणम् अस्ति । अत्र ह्य् अमावास्याशब्दार्थो ऽङ्गत्वेन विधीयते । न च विधौ लक्षणोचिता । तस्मात् “पूर्वेद्युः पितृभ्यः क्रियते” इत्य् अत्र पूर्वेद्युःशब्दो ऽनुवादको ऽर्थवादत्वात् । अनुवदकस्य यथाप्राप्तिलक्षणाश्रयणम् अदोषः । तेन पूर्वेद्युःशब्दो ऽमावास्याम् उपलक्षयति, तस्याम् एव पितृयज्ञस्य विहितत्वात् । भवति चामावास्या संपूर्णा सती यजनीयदिनापेक्षया पूर्वेद्युःशब्दबोध्या । यच् च “अथापराह्णे पिण्डपितृयज्ञेन चरन्ति” इति, तद् औपवसथ्ये ऽहन्य् अपराह्णव्याप्य् अमावास्याविषयं ग्राह्यम् । “भूते कव्यादिकी क्रिया” इत्य् एतद् अपि तद्विषयम् एव, न पुनः शुद्धचतुर्दश्युपवासदिनविषयम्, अमावास्याविधायकदिनश्रुतिविरोधात् । तस्माच् छुद्धचतुर्दश्युपवासपक्षे यजनीय एवाहन्य् अपराह्णे ऽमावास्यायां दक्षिणाग्निम् उद्धृत्य पिण्डपितृयज्ञः कार्यः । क्रमस् त्व् अग्न्यन्वाधानेन सह तस्य न कॢप्तः । अङ्गत्वे ऽपि न कॢप्त एव यतः कालादिविशिष्टतया प्राप्तेषु पदार्थेषु क्रमः कल्प्यते । अत एव “अमावस्यायां पूर्वेद्युर् वेदिं करोति” इति वेदिप्रकर्षे ततः प्राचां पदार्थानाम् अप्रतिकर्ष इति । मनुः ।

न शूद्राय मतिं दद्यान् नोच्छिष्टं न हविष्कृतम् ।
न चास्योपदिशेद् धर्मान् न चास्य व्रतम् आदिशेत् ॥
यो ह्य् अस्य धर्मम् आचष्टे यश् चैवादिशति व्रतम् ।
सो ऽसंवृतं नाम तमः सह तेनैव गच्छति ॥

व्रतं प्रायश्चित्तम् । यमः ।

वृषलाध्यापकश् चैव वृषलाध्यापितश् च यः ।
ताव् उभौ नरके घोरे वसेतां शरदां सतम् ॥
शङ्खलिखितौ- “कृसरपायसापूपसांसदधिमधुघृतकृष्णाजिनानि शूद्रेभ्यो न दद्यान् नोपस्कृतं किंचिद् अन्यत्र प्रकृतात्” । आपस्तम्बः- “नाब्राह्मणायोच्छिष्टं प्रयच्छेत् । दन्तांस्थप्त्वा तद् एतस्मिन्न् अवधाय प्रयच्छेत्।” । [२२१] दन्तांस्थप्त्वा दन्तैर् अवलिख्य तद् दन्तलग्नम् अन्नम् उच्छिष्टे विधाय प्रयच्छेद् इत्य् अर्थः । तथा क्रोधादीन् भूतदाहीयान् दोषान् वर्जयेत् । तान् स एवाह- “भूतदाहीयान् दोषान् उदाहरिष्यामः क्रोधो हर्षो [रोषो] लोभो मोहो दम्भो द्रोहो मृषोद्यम् अत्याशपरिवादावसूयाकाममन्युरानात्म्यम् अयोगः” इति । तत्र पित्रादिष्व् अननुशासनीयेषु कोपः क्रोधः । हर्षो गर्वः । अनुशासनीयेषु कोपो रोषः । विहितधनव्ययपराङ्मुखत्वं लोभः । अन्यायार्जनं च । अविवेको मोहः । अत्याशो ऽत्यशनम् । मनुः शोकः । आनात्म्यं नैरात्म्यबुद्धिः । विहितेष्व् असमाधिर् अयोगः । हारीतः- “औदररैतसकामजक्रोधजार्थजान् अग्नीन् यथावन् नियच्छेत् । औदरात् सर्वकामकर्मेन्द्रियभावदोषाः संभवन्ति । यैर् उपस्पृष्टो सत्त्वशुद्धिर् इत्य् आचार्याः । अथ पौंस्नात् साहसाद् रेतस् तस्य बीजं तद् अनृताव् उत्सर्गे दोषः स्याद् ऋताव् उत्सर्गे तद् ब्रह्मचर्येण व्याख्यातम् । तद् एवादिप्रकृतत्वाज् जगतः प्रथमं संकल्पात् कामः संभवत्य् आशयात् प्रवर्तते । स्नेहाग्निर् बध्नाति स इच्छालक्षणो नैकविधः कामो येनाभिभूतो ऽतृप्त एव कामानां लोके ह्य् अनेकजन्मसंसारे कामावर्ते निमज्जति । स एको ऽनलः कामः । कामो हि भगवान् वैश्वानर इति श्रुतिः । तस्य संकल्पो नियमनम् । स व्याख्यातः । कामगीतौ चात्र श्लोकौ भवत-
प्रवृत्तौ वा निवृत्तौ वा सर्वतः प्रतिभूर् अहम् ।
सर्वार्थेषु यथार्थो ऽहं मदृते नास्ति किंचन ॥
यो मां यथार्थं सर्वार्थे सर्वभूतेषु पश्यति ।
सो ऽध्वनः पारम् आप्नोति नेतरे कामवादिनः ॥ इति ।
क्रोधाग्निना परिभूतः स्वेषाम् अप्य् अबहुमतो ऽनभिगमनीयो ऽविश्वसनीयश् च भवति । कार्याकार्यवाच्यावाच्यानि न वितर्कयति । हितवादिनो गुरून् अतिक्रामत्य् आविष्टः प्रेतलोकायात्मानं गमयति । तत्र घोरां निरयप्रायां यातनाम् अनुभूय क्रूरक्रव्यादासु तिर्यग्योनिषु जायते । तत्र सर्वासां प्रजानां वाच्यो भवति । क्रमशो मनुष्यतां प्राप्य [२२२] सर्वजनविद्विष्टताम् उपैति । क्रोधो हि तमोरूपः । तस्य क्षमा नियमनम् । स व्याख्यातः । लोभाग्निनाभिभूतः पुण्यार्थेष्व् (?) उपयुज्यमानम् अतिक्रामन्तम् आत्मानं मन्यते । असद्वित्तानाम् अप्य् उपादानम् इच्छति । तत्रार्थानुषङ्गात् सो ऽपि तिर्यग्योनिषु जायते । लोभो हि तमोरूपः । तस्य संतोषो नियमनम् । सो ऽपि व्याख्यातः । एवं ह्य् आह ।
औदरो रैतसश् चाग्निः कामजः क्रोधजो ऽर्थजः ।
एते वै निर्जिता येन स वै पञ्चतपाः स्मृतः ॥
वचोवेगं मनसः क्रोधवेगं जिह्वावेगं चोदरोपस्थवेगम् ।
एतान् वेगान् धरयेद् यस् तु विप्रस् तं वै ब्रूयुर् ब्रह्मिष्ठं वा मुनिं वा ॥”

पौंस्नात् पुरुषव्यापारात् । साहसाद् बलोद्भवात् । तस्य पुंसः । तदनृताव् इति । तत् तस्माद् एवं तद्ब्रह्मचर्येणेति । तद् एवेति । पर्वापर्वसाधारणं स्वदारगमनरूपम् आद्यं तद् एव पर्ववर्जनरूपं द्वितीयम् । एवम् ऋतुगमननियमात्मकं तृतीयम् ऊर्ध्वरेतस्कत्वं चतुर्थम् । संकल्पो विषयसौन्दर्यज्ञानम् । कामो विषयेच्छा । आशयः पौनःपुन्येन भावनम् । नष्टं नाशम् । उपयुङ्क्त आकाङ्क्षते । विष्णुः ।

त्रिविधं नरकस्येह द्वारं नाशनम् आत्मनः ।
कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं त्यजेत् ॥

आपस्तम्बः- “मनसा वाचा घ्राणेन चक्षुषा श्रोत्रेण त्वक्शिश्नोदरारम्भनानास्रवान् परिवृञ्जानो ऽमृतत्वाय कल्पते” । मनःप्रभृतीनाम् आरम्भाणां व्यापारान् आस्रावान् पुरुषः सङ्गहेतून् परिवृञ्जानः परित्यजन्न् अमृतत्वाय मुक्तये कल्पते समर्थो भवति । देवलः- “अथातः पापदोषान् मनोवाक्शरीरजान् व्याख्यास्यामः । तत्र मोहरागद्वेषमानलोभमदशोकममत्वाहंकारभयहर्षमोघचिन्ताश् चेति द्वादश मानसाः ।

तेषां च त्रिविधो मोहः संभवः सर्वपाप्मनाम् ।
अज्ञानं संशयज्ञानं मिथ्याज्ञानम् इति त्रिकम् ॥
विज्ञानं सर्वविद्यानाम् अर्थानां स्वयम् ऊहनम् ।
दोषैर् अदर्शनं चेति ज्ञानम् अज्ञानम् अन्यथा ॥
अश्रेयःश्रेयसोर् मध्ये भ्रमणं संसयो भवेत् ।
मिथ्याज्ञानम् इति प्राहुर् अहिते हितदर्शनम् ॥

[२२३] भवत्य् अधर्माद् अज्ञानम् अविद्या तच् च संशयः ।

उभाभ्याम् अन्यथाज्ञानं पापिष्ठम् उपजायते ॥
अज्ञानाद् दुःखसंप्राप्तिः संशयाद् बध्यते पुनः ।
मिथ्याज्ञानात् पतत्य् एवं मूढस् तामिस्रयोनिषु ॥

मनुः ।

आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् ।
न हिंस्याद् ब्राह्मणं गाश् च सर्वांश् चैव तपस्विनः ॥
ब्राह्मणायावगूर्यैव द्विजातिर् वधकाम्यया ।
शतं वर्षाणि तामिस्रे नरके परिवर्तते ॥
ताडयित्वा तृणेनापि संरम्भान् मतिपूर्वकम् ।
एकविंशतिम् आजातीः पापयोनिषु जायते ॥
अयुध्यमानस्योत्पाद ब्राह्मणस्यासृग् अङ्गतः ।
दुःखं सुमहद् आप्नोति प्रेत्याप्राज्ञतया नरः ॥
शोणितं यावतः पांसून् संगृह्णाति महीतलात् ।
तावन्त्य् अब्दसहस्राणि तत्कर्ता नरके वसेत् ॥
न कदाचिद् द्विजे तस्माद् विद्वान् अवगुरेद् अपि ।
न ताडयेत् तृणेनापि न गात्रात् स्रावयेद् असृक् ॥
अवगूर्य त्व् अब्दशतं सहस्रम् अभिहन्य तु ।
जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥

देवलः ।

नावगाहेद् अपो नग्नो वह्निं नाभिव्रजेत् पदा ।
शिरोऽभ्यक्तावशिष्टेन तैलेनाङ्गं न लेपयेत् ॥

वसिष्ठः- “नेष्टकाभिः फलानि शातयेत् । न फलेन फलम् । न कल्ककुहको भवेत्” ।

कल्को दम्भः । कुहको वशीकारादिस् तद्वान् न भवेद् इत्य् अर्थः ।

“न म्लेच्छभाषां शिक्षेत” । देवलः- “नावेक्षेताशुचिः कूपं घर्षयेन् न पदा पदम्” ।

तथा ।

सुहृन्मरणम् आर्तिं वा न स्वयं श्रावयेत् परान् ।
अतिभोगेन मित्राणि बालिश्यान् नैव पीडयेत् ॥
**दाक्षिण्याद् धि दरिद्रो ऽपि सहते मित्रपीडनम् ॥ [२२४]

मनुः ।

यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत् ।
यद् यद् आत्मवशं तु स्यात् तत् तद् यत्नेन सेवयेत् ॥
सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् ।
एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥
यत् कर्म कुर्वतो ऽस्य स्यात् परितोषो ऽन्तरात्मनः ।
तत् प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥

यत् कर्म धर्मम् इत्य् अर्थः । शङ्खलिखितौ ।

“आपत्स्व् अपि हि कष्टासु परस्वं कामयेत न ।
नाभक्ष्यं भक्षयेत् किंचिन् न पूर्वचरितं चरेत् ॥
नर्षिपितृदेवताः कीर्तयेत् ।

स्वकीयान् ऋषीन् इष्टदेवताः पितॄंश् च न कीर्तयेद् इत्य् अर्थः ।

“नागाधोदकम् अवगाहेत । न स्त्रियं विवसनाम् ईक्षेत । न पुरुषम् अन्यत्र
स्वाभाव्यात्” ।

स्वाभाव्याद् अकामत इत्य् अर्थः ।

“न पादेन पादं प्रक्षालयेत् । न दर्भैः परिमृज्यात् । न महाजनविरोधं कुर्यात् । न गोष्ठीभिः संबध्येत् । न गणबन्धुसमवायं प्रविशेत् । नायाज्यं याजयेत् । नानुयोगं प्रब्रूयात्” ।

अनुयोगो धनदानार्थम् अनुवाकम् अधीष्वेत्य् अध्ययनादेशः ।

“न ब्रह्मविक्रयम् इच्छेत् । न वाह्यमाने वाहय गाम् इति ब्रूयान् न परिषन्मध्ये स्वैरवाक् स्यात्” ।

परिषत्कार्यानुवादित्वं स्वैरवाक्त्वम् ।

“नानियुक्तो ऽग्रासनं गच्छेन् नाभ्यधिकं दद्यान् न प्रतिगृह्णीयात्” ।

भोज्यम्। इति शेषः ।

“नोन्मत्तमूकान् संस्कुर्यात्” ।

नोपनयीतेत्य् अर्थः ।

“न वधबन्धसमवायं गच्छेत्” ।

वधबन्धप्रयोजनं समवायं मेलकं न गच्छेत् ।

“न दावम्” ।

दावो वनवह्निः ।

“न दम्पत्योर् अन्तरम् । नर्षीणां प्रभवं न नदीनां न महात्मनाम्” ।

प्रभव उत्पत्तिस्थानम् । [२२५]

“न मद्यं दद्यात् । न प्रतिगृह्णीयात् । न धर्मं ख्यापयेत् । नाधर्मं संवृतं कुर्यात् । नापसव्यं परिदद्यात् । न भूमिं विलिखेत् । न पादेनाभिहन्यात् । नाङ्गमुखवादित्राणि कुर्यात् । न कूपश्वभ्राणि विलोकयेत् । न लोकविद्विष्टानि समाचरेत् । सर्वं विरुद्धं परिहरेत्” ।

हारीतः- “न गोर् मूत्रपुरीषाभ्याम् उद्विजेत् । न पथि शिखा विसृजेत्” ।

शिखाः केशाः ।

व्रीहिनिकषणतृणकुट्टनलोष्टचन्दनलेखनकरजदशनवीणावादनानि वर्जयेत् । आत्मस्तवावमानांश् च मद्यशुक्तविकारांश् च वर्जयेत् । न रक्ताम् अगन्धां स्रजम् आबध्नीयात् । अन्यत्र काञ्चनकमलकुवलेभ्यः । नाशुचिक्लिन्नपूतिभिर् दारुभिर् अग्निम् इन्धीत । नाग्निवेलयोः प्रवसेत् । पर्वसु चापत्सु प्रोषितो ऽग्निवेलायां वाग्यतस् तां प्रतिदिशं मनसा ध्यायेत् । अनुपस्थाय मन्त्रतो हुतं ज्ञात्वा प्रति व एना इत्य् उपस्थायाभिभाषेत ।
प्रति व एना नमसाहम् एमि सूक्तेन भिक्षे सुमतिं सुराणाम् ।
रराण ता मरुतो वेद्याभिर् निहेलो धत्त वि मुचध्वम् अश्वान् ॥
नादर्भम् अग्निं परिचरेत् । नायज्ञियैर् जुहुयात् । हुतशेषं ब्राह्मणाय दद्यात् । माषमसूरमधुमांसपरन्नमैथुनानि व्रत्ये ऽहनित् वर्जयेत् ।

व्रत्यम् अग्न्यन्वाधानदिनम् ।

नोच्चैर् निशायाम् अभिभाषेत । नोत्तरीयान्तरीयविनिमयं कुर्यात् । न देवगुरुब्राह्मणपरीवादं कुर्यात् । न चैषां दीयमानं प्रति वारयेत् । स्तेयिनो हि प्रमीताः पूर्वधनिनाम् उपकाराय जायन्ते । तस्मान् न स्तेयं कुर्यान् न कारयेत् । नावमन्येत ।
निन्दां मृत्युपदं प्राहुर् निकृतिं तमसः पदम् ।
सर्वभूतात्मभूतत्वाद् आर्जवं ब्रह्मणः पदम् ॥
पापाद् वोपसर्गाद् व्याधिसंक्रमणयोगात् सिद्ध्यदर्शनाच् च तस्मात् पृथक्शौचाः श्रेयांसः ।
आसनं शयनं यानम् अन्तर्धाय समाचरेत् ।
न चैकभोजनं प्राहुर् ब्राह्मणानां स्वकैर् अपि ॥

व्यासः ।

यूकामत्कुणदंशादीन् खादतः स्वात्मनस् तनुम् ।
**पुत्रवत् परिरक्षन्ति ते नराः स्वर्गगामिनः(णः) ॥ [२२६]

कालिकापुराणे ।

सोपानत्को देवगृहम् आरुहेद् यस् तु मानवः ।
स याति नरकं घोरं तामिस्रं नाम नमतः ॥

बृहस्पतिः ।

एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम् ।
भस्मना कृतमर्यादा न तेषां संकरो भवेत् ॥
अग्निना भस्मना चैव सलिलेन विशेषतः ।
द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर् विभिद्यते ॥ इति ।

हारीतः ।

शुचिं देवाश् च रक्षन्ति रक्षन्ति पितरः शुचिम् ।
शुचेर् बिभ्यति रक्षांसि ये चान्ये दुष्टचारिणः ॥
भ्रष्टशौचं नरं दृष्ट्वा प्रहिंसन्तीह रक्षसाः ।
यक्षाः पिशाचा भूतानि ये चाने ऽप्य् एवमादयः ॥
ज्ञानं दानं तपस् त्यागो मन्त्रकर्मविधिक्रियाः ।
मङ्गलाचारनियमाः शौचभ्रष्टस्य निष्फलाः ॥
द्वौ मासौ पाययेद् वत्सं तृतीये द्विस्तनं दुहेत् ।
चतुर्थे त्रिस्तनं शेषं यथान्यायं यथाबलम् ॥
नस्तनं दमनं बाले वाहनं च न शस्यते ।
वृद्धानां दुर्बलानां च प्रजापतिवचो यथा ॥

नस्तनं नासिकाभेदः । तथा ।

वृद्धान् नातिवदेज् जातु न च संप्रेषयेद् अपि ।
नासीनः स्यात् स्थितेष्व् एवम् आयुर् अस्य निरस्यति ॥

तथा ।

गृहे पारावता धन्याः शुका वै शारिकास् तथा ।
गृह एते प्रशस्ताः स्युस् तथा वै तैलपायिकाः ॥
उपदीपकाश् च गृध्राश् च कपोता भ्रमरास् तथा ।
निवसेरन् यदा तत्र शान्तिम् एव तदाचरेत् ॥
अमङ्गल्यानि चैतानि दिवाक्रोशो महात्मनाम् ।
महात्मनां च गुह्यानि वक्तव्यानि न कर्हिचित् ॥
पानीयस्य क्रिया नक्तं न कार्या भूतिम् इच्छता ।
भुक्त्वा प्रसाधनं वर्ज्यं वर्ज्याश् च निशि सक्तवः ॥
प्राङ्मुखः श्मश्रुकर्माणि कारयेत् तु सदा नरः ।
**उदङ्मुखो वा राजेन्द्र तथायुर् विन्दते महत् ॥ [२२७]

तथा ।

सुतस्त्रियाश् च शयनं सह भोज्यं च वर्जयेत् ।
आहारं मैथुनं निद्रां संध्यकाले विवर्जयेत् ॥
कर्म चाध्ययनं चैव तथा दानप्रतिग्रहौ ।
गोखरोष्ट्रं च नारोहेन् न च गच्छेद् दिवा स्त्रियम् ॥
स्नानं चङ्क्रमणं स्वप्नं दिग्वासा न समाचरेत् ॥

विष्णुः- “न सर्वशस्त्रैः क्रीडेत देवब्राह्मणशास्त्रमहात्मनां परिवादं वर्जयेत् । पर्वसु न तृणम् अपि च्छिन्द्यात्” । विष्णुपुराणम् ।

विरोधं नोत्तमैर् गच्छेन् नाधमैश् च सदा बुधः ।
विवादश् च विवाहश् च तुल्यरूपैर् नृपेष्यते ॥

स्मृत्यन्तरम् ।

मद्यविक्रयसंधानदानादानानि नाचरेत् ।

उशना ।

तिथिं पक्षस्य न ब्रूयान् न नक्षत्राणि निर्दिशेत् ।

आपस्तम्बः ।

संपादयति यो विप्रः स्नानं तीर्थफलं जपम् ।
संपादी बध्यते दोषैस् तस्य संपद्यते फलम् ॥

पैठीनसिः ।

अपेयं हि सदा तोयं रात्रौ मध्यमयामयोः ।
स्नानं चैव न कर्तव्यं तथैवाचमनक्रिया ॥
मत्तप्रमत्तोन्मत्तपतितैः सह संभाषं न कुर्वीत ।

प्रमत्तः प्रमादशीलः ।

नापुष्पितं वृक्षम् आरोहेत् । तथा नान्यस्मै दीयमानं प्रति वदेत् ॥

मार्कण्डेयः ।

बलिं स्नानभुवं चैव श्मशानबलिम् एव च ।
न गच्छेद् बन्धनागारं वध्यभूमिं च गर्हिताम् ॥
अन्तःपुरं वित्तगृहं परद्यूतगृहं तथा ।
नोर्ध्वजानुश् चिरं तिष्ठेद् वत्सतन्त्रीं च न लङ्घयेत् ॥
समाल्यो नाचरेत् स्नानं न द्विवासा विकारणम् ।

विकारणं निर्निमित्तम् ।

म्लेच्छवेशो न कर्तव्यो म्लेच्छभाषा तथैव च ॥
नासंवृतमुखः कुर्याद् ध्(घ्)आस्यं जृम्भां तथैव च ।
गोपयेज् जन्मनक्षत्रं धनसारं गृहे मलम् ॥

[२२८] वेगरोधो न कर्तव्यस् त्व् अन्यत्र क्रोधवेगतः ।

नोपेक्षितव्यो व्याधिः स्यान् मृत्युर् अल्पो ऽपि भार्गव ॥
न हुं कुर्याच् छवं पूर्वं बिभृयान् नाग्निवारिणी ॥

शङ्खलिखितौ- “नापो ऽग्निं चैकतो धारयेत्” । एकत एकस्मिन् हस्तपादौ । मार्कण्डेयः ।

न भुक्तमात्रस्यायस्येन् नीचसेवां च वर्जयेत् ।
पादं पदा च नाक्रामेन् न कण्डूयेन् न शोधयेत् ॥
वेदशास्त्रनरेन्द्राग्निदेवनिन्दां विवर्जयेत् ।
निरासनस्य सुप्तस्य तिष्ठतश् च तथैव च ॥
तथा भुक्तवतो नित्यं स्नातस्य रुषितस्य च ।
यात्रायुद्धोत्सुकस्यापि श्मश्रुकर्म विवर्जयेत् ॥
पुष्पाण्य् अकालरूढानि फलान्य् अपि तथैव च ।
विकारवच् च यत् किंचित् तत् प्रयत्नेन वर्जयेत् ॥

विकारवद् अद्भुतम् ।

दिवा कपित्थच्छायां च रात्रौ दधि शमीं तथा ।
कार्पासं दन्तकाष्ठं च शक्राद् अपि हरेच् छ्रियम् ॥
अष्टमीं च तथा षष्ठीं नवमीं च चतुर्दशीम् ।
वर्जयेच् छिरसो ऽभ्यङ्गं पर्वसंधिं तथैव च ॥
तथैवामलकैः स्नानं सप्तमीषु विवर्जयेत् ।
विना तु सततं स्नानं न स्नायाद् दशमीषु च ॥
अमावस्यासु सर्वासु नववस्त्रं न धारयेत् ।
गोगजाश्वाजपुच्छेषु खरस्य च विशेषतः ॥
यल् लग्नम् उदकं तस्माद् विप्रुषं दूरतस् त्यजेत् ।
शूर्पवातनखाग्राम्बु स्नानवस्त्रघटोदकम् ॥
मार्जनीरेणुकेशाम्बु हन्ति पुण्यं पुरा कृतम् ।
माल्यानुलेपनाद् अग्रं न प्रदद्यात् तु कस्यचित् ॥
अन्यत्र देवताविप्रगुरुभ्यो भृगुनन्दन ।
न गच्छेद् गर्भिणीं नारीं मलिनां सितमूर्धजाम् ॥
रजस्वलां भुक्तवतीं नायोनौ न बुभुक्षितः ।
न स्वपेद् येषु देशेषु तेषु देशेषु चाप्य् अथ ॥
**दीक्षितो वर्जयेद् यत्नात् कृत्वा श्राद्धं च मानवः । [२२९]

दीक्षितो ऽनुन्मुक्तदीक्षः । पुराणात् ।

क्रियां यः कुरुते मोहाद् अनाचम्येह नास्तिकः ।
भवन्ति हि वृथा तस्य क्रियाः सर्वा न संशयः ॥

शातातपः ।

अजाविरेणुसंस्पर्शाद् आयुर् लक्ष्मीश् च हीयते ।
श्वकाकोष्ट्रखरोलूकसूकरग्राम्यपक्षिणाम् ॥

बैजवापः ।

रथाश्वगजधान्यानां गवां चैव रजः शुभम् ।
अप्रशस्तं समूहिन्यजाविरासभवाससाम् ॥

समूहिनी मार्जनी । षट्त्रिंशन्मतात् ।

प्रक्षाल्य हस्तौ गृह्णीयाद् ओषध्यमलके नरः ।
श्रसो मुण्डनं कृत्वा पुनः प्रक्षालयेत् तु तत् ॥

मनुः ।

मङ्गलाचारयुक्तः स्यात् प्रयतात्मा जितेन्द्रियः ।
जपेच् च जुहुयाच् चैव विनिपातो न विद्यते ॥
वेदम् एवाभ्यसेन् नित्यं यथाकालम् अतन्द्रितः ।
तं ह्य् अस्याहुः परं धर्मम् उपधर्मो ऽन्य उच्यते ॥
वेदाभ्यासेन सततं शौचेन तपसैव च ।
अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥
पौर्विकीं संसरञ् जातिं ब्रह्मैवाभ्यसते पुनः ।
ब्रह्माभ्यासेन चानन्तम् अजस्रं फलम् अश्नुते ॥
सावित्राञ् जातिहोमांश् च कुर्यात् पर्वसु नित्यशः ॥

जातिर् जन्म । सवितृदै(दे)वत्यान् दुरितशान्तिप्रयोजनान् आज्यहोमान् कृष्णशुक्लपञ्चदशीषु सदा कुर्याद् इत्य् अर्थः ।

अष्टकासु पितॄन् अर्चेन् नित्यम् अन्वष्टकासु च ।

स्वगृह्योक्तविधानेनेति शेषः । नित्यं सर्वदेत्य् अर्थः ।

अभिवाद्य च वृद्धांश् च दद्याच् चैवासनं स्वकम् ।
कृताञ्जलिर् उपासीत गच्छतः पृष्ठतो ऽन्वियात् ॥
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।
**द्वेषं स्तम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥ [२३०]

नास्ति दैवम् इति मतिर् यस्य स नास्तिकः । तस्य भावो नास्तिक्यम् । वेदेर्ष्याप्रामाण्याध्यवसायो निन्दा । देवतानां ब्रह्मादीनां कुत्सनं निन्दनम् । यथा — ब्रह्मा दुहितरम् अगात् । ईशो ब्रह्मणः शिरश् चिच्छेदेति । स्तम्भो ऽहंकाराद् अप्रणामः । मानो ऽहंकारः । क्रोधो ऽक्षमा । तैक्ष्ण्यं वाक्पारुष्यम् ।

अधार्मिको नरो यो हि यस्य चाप्य् अनृतं धनम् ।
हिंसारतिश् च यो नित्यं नेहासौ सुखम् एधते ॥
न सीदन्न् अपि धर्मेण मनो ऽधर्मे निवेशयेत् ।
अधार्मिकाणां पापानाम् आशु पश्यन् विपर्ययम् ॥
नाधर्मश् चरितो लोके सद्यः फलति गौर् इव ।
शनैर् आवर्तमानस् तु कर्तुर् मूलानि कृन्तति ॥
यदि नात्मनि पुत्रेषु नो चेत् पौत्रेषु नप्तृषु ।
न त्व् एवं हि कृतो धर्मः कर्तुर् भवति निष्फलः ॥
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशुद्रदम्भनम् ॥

धर्मच्छलेन प्रायश्चित्तं न कुर्याद् इत्य् अर्थः ।

अलिङ्गी लिङ्गवेशेन यो वृत्तिम् उपजीवति ।
स लिङ्गिनां हरत्य् एनस् तिर्यग्योनौ च जायते ॥

आश्रमिणो लिङ्गिनः । तेषां लिङ्गैर् दण्डादिभिः स्वयम् अलिङ्गी तद्वृत्तिं भिक्षाप्रतिग्राहादिकां य उपजीवति स आश्रमिणां पापं तिर्यग्योनिं चाश्नुते ।

यमान् सेवेत सततं न नित्यं नियमान् बुधः ।
यमान् पतत्य् अकुर्वाणो नियमान् केवलान् भजन् ॥
शौचम् इज्या तपो दानं स्वाध्यायोपस्थनिग्रहौ ।
व्रतोपवासौ मौनं च स्नानं च नियमा दश ॥
आनृशंस्यं क्षमा सत्यम् अहिंसा दम आर्जवम् ।
ध्यानं प्रसादो माधुर्यं मार्द्रवं च यमा दश ॥
न विस्मयेत् तपसा वदेद् दृष्ट्या च नानृतम् ।
नार्तो ऽप्य् अपवदेद् विप्रान् न दत्तं परिकीर्तयेत् ॥
यज्ञो ऽनृतेन क्षरति तपः क्षरति विस्मयात् ।
**आयुर् विप्रावमानेन दानं तु परिकीर्तनात् ॥ [२३१]

विस्मयः श्लाघा । एवमादिश्रुतिस्मृतिभ्य आचारो वेदितव्यः । सर्वश् च स्नातकेनावश्यं कार्यः । तद् आह मनुः ।

आचाराल् लभते ह्य् आयुर् आचाराद् ईपिसिताः प्रजाः ।
आचाराद् धनम् अक्षय्यम् आचारो हन्त्य् अलक्षणम् ॥
दुराचारो हि पुरुषो लोके भवति निन्दितः ।
दुःखभागी च सततं व्याधितो ऽल्पायुर् एव च ॥
सर्वलक्षणहीनो ऽपि सर्वदाचारवान् नरः ।
श्रद्दधानो ऽनसूयश् च शतं वर्षाणि जीवति ॥ १.१५४ ॥

किं च

गोब्राह्मणानलान्नानि नोच्छिष्टो न पदा स्पृशेत् ।

उच्छिष्टो गवादि न स्पृशेत् । अनुच्छिष्टो ऽपि पदा । उच्छिष्टो ऽत्राशुचिः । मनुः ।

स्पृष्ट्वैतानि शुचिर् नित्यम् अद्भिर् प्राणान् उपस्पृशेत् ।
गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥

प्राणशब्देनात्र तत्स्थानानि मूर्धन्यच्छिद्राणि श्रोत्रादीनि लक्ष्यन्ते । गात्रशब्देनाप्य् उरोमूर्धस्कन्धा उच्यन्ते । तत्स्पर्शस्याचमनप्रकरणे शुद्धिहेतुत्वदर्शनात् । शुद्ध्यर्थं चेदं प्राणादिस्पर्शनं विधीयते ॥

किं च

न निन्दाताडने कुर्यात्

परस्य निन्दां ताडनं च न कुर्यात् ।

अत्रापवादम् आह

पुत्रं शिष्यं च ताडयेत् ॥ १.१५५ ॥

शिक्षार्थम् अनयोस् ताडनानुग्रहो नान्यथा । तद् आह मनुः ।

परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत् ।
अन्यत्र पुत्राच् छिष्याद् वा शिक्षार्थं ताडयेत् तु तौ ॥

शिष्यः शासनीयः । पुत्रस्य पृथग्ग्रहणं गोबलीवर्दन्यायेन । अत एव विष्णुः- “शास्यं शासेत् ताडयेत्” इति शास्यशब्दम् एव प्रयुक्तवान् । अत्र नियमम् एवाह ।

अधोभागे शरीरस्य नोत्तमाङ्गे न वक्षसि ।
**अतो ऽन्यथा तु प्रहरन् पापयुक्तो भवेन् नरः ॥ [२३२]

शरीरस्याधोभागे नाभेर् अधस्तात् ताडयेत् । उत्तमाङ्गे शिरसि वक्षसि न ताडयेत् । अधोभागनियमेनैव शिरोवक्षसोर् व्यावृत्तिसिद्धौ तयोः पृथङ्निषेधस् ततो ऽन्यत्रोत्तरकाये पि ताडननुग्रहार्थः । अत एव विष्णुः- “शास्यं ताडयेत् तं तु वेणुदलेन रज्ज्वा वा पृष्ठत एव” इति । अन्यथा प्रहरन् गुरुर् अपि पापवान् स्यात् ॥ १.१५५ ॥

कर्मणा मनसा वाचा यत्नाद् धर्मं समाचरेत् ।

अत्र यत्नाद् इति विधीयते । अन्यद् अनूद्यते । तथा च सति कर्मणेतिपदम् अनुवाचकत्वाद् वाङ्मनःशब्दसाहचर्याच् च लक्षणया शरीरे वर्तते । ततश् चायम् अर्थो भवति — शरीरेण यं धर्मं तपश्चर्यादिकम् आचरेत्, यं च मनसा यागदानादिकम्, यं च वाचा वेदाध्ययनादिकम्, तं यत्नाद् आदरात् समाचरेत्, न प्रमाद्येद् इत्य् अर्थः । धर्मस्य सर्वपुरुषार्थहेतुत्वात् । अत एव मनुः ।

धर्मं शनैः संचिनुयाद् वल्मीकम् इव वप्रिकाः ।
न पुत्रदारं न ज्ञातिर् धर्मस् तिष्ठति केवलः ॥
एकः प्रजायते जन्तुर् एक एव विलीयते ।
एको ऽनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् ॥
मृतं शरीरं संत्यज्य काष्ठलोष्टसमं क्षितौ ।
विमुखा बान्धवा यान्ति धर्मस् तम् अनुगच्छति ॥
तस्माद् धर्मं सहायार्थं नित्यं संचिनुयाच् छनैः ॥

अत्रापवादम् आह ।

अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन् न तु ॥ १.१५६ ॥

अस्वर्ग्यम् अनामुष्मिकम् ऐहिकफलं लौकिकैर् विद्विष्टं निन्दितं धर्म(र्म्य)म् अपि शास्त्रविहितम् अपि नाचरेद् अभिचारादिकम् । विहितो हि बौधायनेनाभिचारः क्वचिद् इष्यते । यथा- “षट्स्व् अनभिचरन् पतति” इति । मनुर् अपि ।

क्षत्रियो बाहुवीर्येण तरेद् आपदम् आत्मनः ।
धनेन वैश्यशूद्रौ तु जपहोमैर् द्विजोत्तमः ॥
स्ववीर्याद् राजवीर्याच् च स्ववीर्यं बलवत्तरम् ।
**तस्मात् स्वेनैव वीर्येण निगृह्णीयाद् अरीन् द्विजः ॥ इति । [२३३]

तस्माद् अभिचारो मधुपर्कादौ गोवधो विध्वानियोगः शूद्राविवाह इत्यादयो ऽस्वर्ग्यत्वाल् लोकविद्विष्टत्वाद् विहिता अपि न कार्या विशेषेण कलियुगे । अत एव स्मरन्ति ।

गोपशुं देवरात् पुत्रं सत्रयागं कमण्डलुम् ।
सुराप्रयोगं भिक्षुं च न कुर्वीत कलौ युगे ॥

भिक्षुः परमहंसः । तथा ।

अक्षता नरमेधश् च गोयज्ञश् च कमण्डलुः ।
देवराच् च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ॥

अत एव मधुपर्के ऽनुकल्पस्मरणम् । यन् मार्कण्डेयः ।

माधुपर्किकपश्वर्थे ततो मात्रां निवेदयेत् ।
सहिरण्यं बीजपात्रं द्रविणेन सदैव तु ॥
पशुः कलौ न कर्तव्य इत्य् आह भगवान् भृगुः ॥

माधुपर्किकपशुर् अत्र गौर् एव । मधुपर्के “तस्मा असिपाणिर् गां प्राह” इत्यादौ गोहननक्रियानियोगादेः स्मरणात् कलौ गोहनन्स्य निषेधोपपत्तेश् च ॥ १.१५६ ॥

मातृपित्रतिथिभ्रातृजामिसंबन्धिमातुलैः ।
बालवृद्धातुराचार्यवैद्यसंश्रितबान्धवैः ॥ १.१५७ ॥
ऋत्विक्पुरोहितामात्यभार्यादाससनाभिभिः ।
विवादं वर्जयित्वा तु सर्वांल् लोकाञ् जयेद् गृही ॥ १.१५८ ॥

मात्रादिभिर् विवादं कलहं वर्जयित्वा सर्वान् भूरादींल् लोकाञ् जयति भुङ्क्ते । जामयो भगिनीप्रभृतयः स्ववासिन्यः । संबन्धिनो वैवाह्याः । वैद्यो भिषग् वेदविद्यावान् वा । संश्रित आश्रितः शिष्य इति यावत् । सनाभयः सपिण्डाः । अन्ये प्रसिद्धाः । मनुस् तूक्तविवादान् वर्जयतः सर्वपापक्षयम् आचार्यादिभिर् जितस्य च ब्रह्मलोकादिजयफलम् आह ।

बालवृद्धातुऐर् वैद्यैर् ज्ञातिसंबन्धिबान्धवैः ।
मातापितृभ्यां जामीभिर् भ्रात्रा पुत्रेण भार्यया ॥
दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥
एतांस् त्यजन् विवादांश् च सर्वपापैः प्रमुच्यते ।
एतैर् जितैश् च जयति सर्वांल् लोकान् इमान् गृही ॥

अत्र चैतैर् इति वक्ष्यमाणाचार्याभिप्रायम् ।

[२३४] आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः ।

अतिथिस् त्व् इन्द्रलोकेशो देवलोकस्य चर्त्विजः ॥
जामयो ऽप्सरसां लोके वैश्वदेवस्य बान्धवाः ।
संबन्धिनो ऽपां लोकस्य पृथिव्या मातृमातुलौ ॥
आकाशेशास् तु विज्ञेया बालवृद्धकृशातुराः ।
भ्रात ज्येष्ठः समः पित्रा भार्या पुत्रः स्विका तनुः ॥
छाया स्वो दासवर्गस् तु दुहिता कृपणं परम् ।
तस्माद् एतैर् अधिक्षिप्तः सहेतासंज्वरः सदा ॥

कृपाविषयः (?) । असंज्वरो ऽसंतप्तः ॥ १.१५७ ॥

अपि च

पञ्च पिण्डान् अनुद्धृत्य न स्नायात् परवारिषु ।

परकीयवारिभ्यः पञ्च पिण्डान् अनुद्धृत्य बहिर् अनुत्क्षिप्य तेषु स्नानं न कुर्यात् । अनेन चार्थाद् वक्ष्यमाणमुख्यस्नानाङ्गजलालाभे परवारिष्व् अपि पिण्डोद्धरणपूर्वकं स्नानं विधीयते । यानि तु जलानि स्वामिना यथाशास्त्रं परोपकारायोत्सृष्टानि तेभ्यः पिण्डा नोद्धर्तव्याः, परकीयत्वाभावात् । अत्र मनुः ।

परकीयनिपानेषु न स्नायाद् धि कदाचन ।
निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥

बौधायनः ।

न कदाचिद् बुधः स्नायात् परखाते जलाशये ।
अननुद्धृत्य कूपे वा मृत्पिण्डान् पञ्च सप्त वा ॥

इदानीं मुख्यानि स्नानाङ्गजलान्य् आह

स्नायान् नदीदेवखातह्रदेशु च सरःसु च ॥ १.१५९ ॥

नद्यादिषु स्नायात् । नदी स्रवन्ती । देवैः खातम् इति यत् स्मर्यते तद् देवखातम् । नदीजलम् अविच्छिन्नप्रवाहं ह्रदः । सरः स्थावरम् अकृत्रिमं जलम् । चकाराद् गर्तप्रस्रवणादिष्व् अपि । तथा च मनुः ।

नदीषु देवखातेषु ह्रदेषु च सरःसु च ।
स्नानं समाचरेन् नित्यं गर्तप्रस्रवणादिषु ॥

गर्तस्वरूपम् आह कात्यायनः ।

धनुःसहस्राण्य् अष्टौ च गतिर् यासां न विद्यते ।
**न ता नदीशब्दवहा गर्तास् ते परिकीर्तिताः ॥ इति । [२३५]

न ता आपो नदीशब्दवहा इत्य् अर्थः । पर्वतादेः स्तोको जलप्रवाहः प्रस्रवणम् । अत्र च प्राशस्त्यक्रमम् आह मार्कण्डेयः ।

भूमिष्ठम् उद्धृतात् पुण्यं ततः प्रस्रवणोदकम् ।
ततो ऽपि सारसं पुण्यं तस्मान् नादेयम् उच्यते ॥
तीर्थतोयं ततः पुण्यं नाङ्गं पुण्यं तु सर्वतः ॥

योगयाज्ञवल्क्यः ।

प्रभूते विद्यमाने तु उदके सुमनोहरे ।
नाल्पोदके द्विजः स्नायान् नदीं चोत्सृज्य कृत्रिमे ॥
त्रिरात्रफलदा नद्यो याः काश्चिद् असमुद्रगाः ।
समुद्रगास् तु पक्षस्य मासस्य सरितां पतिः ॥

त्रिरात्रफलदास् त्रिरात्रोपवासफलदा इत्य् अर्थः । एवं पक्षमासयोर् अपि । प्रसङ्गात् समुद्रस्नानादिविषयं किंचिद् उच्यते । तत्र स्मृत्यन्तरम् ।

अश्वत्थसागरौ चैव न स्प्रष्टव्यौ कदाचन ।
अश्वत्थं मन्दवारेषु सागरं पर्वणि स्पृशेत् ॥

मन्दः शनैश्चरः । पर्वामावास्या पूर्णमासी च । तथा ।

सिन्धोः सेतोः सरस्वत्या गङ्गायाः पुरुषोत्तमात् ।
नापर्वणि सरिन्नाथं स्पृशेद् अन्यत्र कुत्रचित् ॥

तथा ।

कर्तुं प्रवृत्तो विधिवत् स्नानश्राद्धादिकां क्रियाम् ।
कृत्तिं प्रत्यभिमन्त्र्येह क्षिपेत् पाषाणसप्तकम् ॥
पिप्पलादसमुत्पन्ने कृत्ते लोकभयंकरि ।
पाषाणं ते मया दत्तम् आहारार्थं प्रकल्पितम् ॥

व्यासः ।

अग्निश् च ते योनिरिला च देहो रेतोधा विष्णुर् अमृतं च नाभिः ।
एतद् ब्रुवन् पाण्डव सत्यवाक्यं ततो ऽवगाहेत पतिं नदीनाम् ॥
आजन्मशतसाहस्रं यत् पापं कुरुते क्वचित् ।
मुच्यते सर्वपापेभ्यः स्नात्वैवं लवणाम्भसि ॥
अन्यथा तु कुरुश्रेष्ठ देवयोनिर् अपां पतिः ।
कुशाग्रेणापि कौन्तेय न स्प्रष्टव्यो महोदधिः ॥

स्मृत्यन्तरम् ।

वपनं चोपवासं च सर्वतीर्थेषु करयेत् ।

मरीचिः ।

नभोनभस्ययोर् मध्ये सर्वा नद्यो रजस्वलाः ।
**तासु स्नानं न कुर्वीत देवर्षिपितृतर्पणम् ॥ [२३६]

मार्कण्डेय ।

आदित्यदुहिता गङ्गा प्लक्षजाता सरस्वती ।
रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञकाः ॥

कुरुक्षेत्रे या सरस्वती सा प्लक्षजाता । स्मृत्यन्तरात् ।

कालिन्दी गोमती गङ्गा पवित्रा देवनिर्मिता ।
सामान्याद् गुणयोगाच् च रजो नाभिभवत्य् अतः ॥

निगमः ।

गङ्गा धर्मद्रवः पुण्या यमुना च सरस्वती ।
अन्तर्गतरजोयोगाः सर्वाहेषु च चामलाः ॥

गार्ग्यः ।

प्रत्यावृत्ते ऽम्भसि स्नानं वर्ज्यं नद्यां द्विजातिभिः ।
तस्यां रजकतीर्थं च दशहस्तेन चोपरि ॥

निगमः ।

प्रतिस्रोतो रजोयोगो रथ्याजलनिवेशनम् ल्
गङ्गायां न प्रदुष्यन्ति स हि धर्मद्रवः स्वयम् ॥
याः शोषम् उपगच्छन्ति ग्रीष्मे कुसरितो भुवि ।
तासु स्नानं न कुर्वीत प्रावृष्य् अम्बुदर्शनात् ॥

योगयाज्ञवल्क्यः ।

अग्राह्यास् त्व् अग्रिमा आपो नद्याः प्रथमवेगितः ।
प्रक्षोभिताश् च केनापि पार्श्वतीर्थविनिःसृताः ॥

अग्रिमा नवाः । तथा च स्मृत्यन्तरम् ।

अजा गावो महिष्यश् च ब्राह्मण्यश् च प्रसूतिकाः ।
दशरात्रेण शुध्यन्ति भूमिष्ठं च नवोदकम् ॥

तीर्थं जलावतरणमार्गः । व्यासः ।

नद्या यच् च परिभ्रष्टं नद्या यच् च विवर्जितम् ।
गतप्रत्यागतं यच् च तत् तोयं परिवर्जयेत् ॥
नद्याम् अस्तमिते स्नानं वर्जयेत् सर्वदा नरः ।
नद्यां स्नातो नदीम् अन्यां न प्रशंसेत धर्मवित् ॥
अन्तर्धाय च न स्नायान् न च तीर्थे जलान्तरे ।
न मेहेत जलद्रोण्यां स्नातुं च न नदीं तरेत् ॥

अस्यार्थः — नदीतो भ्रष्टं नद्या विनिर्गत्य ततो विच्छिन्नं नद्या सह संगमार्थम् अभिप्रवृत्तं तद् असंगतं यत् तत् तया वर्जितम् आवर्ते गतप्रत्यागतम् । अन्तर्धाय वस्त्रादिना । तीर्थान्तरे च तीर्थान्तरजलेन न स्नायाद् इति ॥ १.१५९ ॥

किं च

परशय्यासनोद्यानगृहयानानि वर्जयेत् ।

[२३७] अदत्तानि

परशय्यादीनि परेणादत्तानि वर्जयेत् । तदुपजीवनं वर्जयेद् इत्य् अर्थः । उद्यानम् उपवनम् । प्रसिद्धम् अन्यत् । अत्र मनुः ।

यानशय्यासनान्य् अस्य कूपोद्यानगृहाणि च ।
अदत्तान्य् उपयुञ्जान एनसः स्यात् तुरीयभाक् ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रभूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्कीयधर्मशास्त्रनिबन्धे

स्नातकव्रतप्रकरणम् ॥ ५ ॥