०५ गृहस्थ-धर्म-प्रकरणम्

अथ सटीकयाज्ञव्ल्क्यस्मृतौ

गृहस्थधर्मप्रकरणम् (४)

सभार्यस्य गृहस्थस्य धर्मेष्व् अधिकार इति भार्यापरिग्रहं सप्रसङ्गम् अभिधायाधुना गृहस्थधर्मान् आह ॥

[१२१]

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥ १.९७ ॥

स्मार्थं गृह्योक्तं कर्म वैवाहिके विवाहसंस्कृते ऽग्नौ कुर्वीत प्रत्यहं नित्यम् । गृही गृहवान् । गृहशब्दो ऽयं भार्याम् आचष्टे, न शालाम् । “विवाहाग्नौ” इति वदन् विवाहकर्मणाग्नौ को ऽप्य् अतिशयो गृह्यकर्मानुकूल जायत इति दर्शयति । न ह्य् अन्यथा विवाहागौ कर्मसंपत्तिर् भवति । अग्नेः प्रतिक्षणं प्रध्वंसितत्वा(सित्वा)त् । विवाहसंस्कारस्य स्थायितया तद्विशिष्टो विवाहाग्निर् भवति स्थायी । ततश् च नष्टो ऽसौ वैवाहिककर्मणोत्पद्य इति सूचितं भवति । तत्र विवाहसंस्कारकारणान्य् आह कात्यायनः ।

विवाहाग्निं सभार्थश् चेत् सीमाम् उल्लङ्घ्य गच्छति ।
होमकालात्यये तस्य पुनराधानम् इष्यते ॥
अरण्योः क्षयनाशाग्निदाहेष्व् अग्निं समाहितः ।
पालयेद् उपशान्ते ऽस्मिन् पुनराधानम् इष्यते ॥

मरीचिः ।

दूरस्थे ऽपि यदाकस्माद् धोमलोपः प्रजायते ।
कर्तव्यं पुनराधानं प्रायश्चित्तं न विद्यते ॥

प्रवसति यजमाने समारूढाग्निविषयम् एतत् । बौधायनः- “अमेध्याभाधाने समारोप्य निर्मथित्वा पवमानेष्टिः” । वैतानाग्न्विषयम् एतत् । “विवाहाग्निश् चेद् अरणिमांस् तथा पूर्ववन् निर्मथ्य तदा पवमानेष्टिर् देवताभ्यश् चरून् पूर्णाहुतीर् वा कुर्यात् । अनरणिश् चेल् लौकिकम् अग्निम् आनीय चरुप्रवृत्तिं कुर्यात् ।

अचोदितेन पाकेन कृतेनोद्धरणेन वा ।
लौकिको ऽग्निः स विज्ञेयः पुनर् आधानम् अर्हति ॥

दायविभागकालाहृते चाग्नौ गृह्यं कर्म कुर्वीत” । दायः पितृधनम् । आहृत आहितः । श्रौतम् अग्निहोत्रादिकर्म वैतानिकेषु गार्हपत्यादिष्व् अग्निषु कुर्वीत । एतच् च कल्पसूत्रगृह्यशास्त्रेभ्यः प्राप्तम् एवानूद्यते, धर्मशास्त्रपुराणविहितानां ग्रहयज्ञादिकर्मणां वैवाहिकश्रौताग्निसंबन्धनिवृत्त्यर्थम् । [१२२] कात्यायनः ।

निक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजं तथा ।
प्रवसेत् कार्यवान् विप्रो वृथैव न चिरं क्वचित् ॥
मनसा नैत्यकं कर्म प्रवसन्न् अप्य् अतन्द्रितः ।
उपविश्य शुचिः सर्वं यथाकालम् उपाचरेत् ॥ इति ।

हारीतः- “नाग्निवेलयोः प्रवसेत् पर्वसु च” । अग्निवेलयोर् अग्निहोत्रवेलयोर् इत्य् अर्थः । प्रायायुकादिम् अधिकृत्य लौगाक्षिः- “सायम् आहुतिं हुत्वा तदैव प्रातर् आहुतिं जुहुयात्” । मैत्रायणीयपरिशिष्टम्- “ऋषयो ह स्म प्रायायुका आसंस्ते ऽग्निहोत्रेणातप्यंस् ते समस्तहोमान् अपश्यन्न् अथो द्विरात्राय त्रिरात्राय षड्रात्रायाष्टरात्रायार्धमासायाग्निहोत्रम् आजुहुवुः । तस्माद् यायावर आमयाव्य् आर्तो वार्धमासायाग्निहोत्रं जुहुयात् । पक्षादौ पर्वणो ऽन्ते च सायं च प्रातर् एव च चतुर्दश चतुर्गृहीतानि सकृदुन्नयनम् एका समित् सकृद्धोमः सकृत्पाणिमार्जनम् इत्य् एवं प्रातः” । अस्यार्थः — ऋषयः प्रायायुकाः प्रवासशीला अग्निहोत्रेण स्वकाले क्रियमाणेन हेतुनाता(त)प्यन्न् आपद्धर्मम् अपैक्षन्त ते समस्तहोमान् एकदैव प्रयोज्यान् अपश्यन् । तत्र पक्षान्त्यद्विरात्रे त्रिरात्रे षड्रात्रे पक्षे ऽर्धमासकाले ये होमास् तान् सकृद् एव जुहुवुः । तस्माद् अन्यो ऽपि प्रवासी व्याध्यार्तो वार्धमासहोमं कुर्यात् । तस्य प्रयोगः — पक्षादौ यजनीये ऽहनि साम्यं चतुर्दश चतुर्गृहीतानि सकृद् उन्नयति । उपलक्षणार्थं चैतत् । यथागामिनः पक्षस्यान्ते यथापार्वणम् औपवसथ्यम् अहस् ततः पूर्वसायंकालहोमो ऽन्तिमेन सायंहोमेन व्याप्तो भवति । तथा चतुर्गृहीतसंख्यं संपादयेत् । एवम् औपवस्थ्यस्याह्नः प्रातःकालस्य योमव्याप्तिसंपादिका चतुर्गृहीतसंख्या प्रातर्होमसमये कार्या । प्रायेण चतुर्दशसंख्या तथा भवतीति तद्ग्रहणं कदचित् तु त्रयोदशसंख्या पञ्चदशसंख्या वा यथा स्याद् इत्य् उपलक्षणम् ।

प्रायायुक्तम् अधिकृत्य श्रुतिः- “यावतीर् वाहुतीर् होष्यन्त् स्यात् तावन्ति चतुर्गृहीतानि सकृद् उन्नयेत्” ॥ १.९७ ॥

[१२३] शरीरचिन्तां निर्वर्त्य कृतशौचविधिर् द्विजः ।

प्रातःसंध्याम् उपासीत दन्तधावनपूर्विकाम् ॥ १.९८ ॥

शरीरचिन्तां शरीरस्य सामयत्वनिरामयत्वविषयां चिन्तां निर्वर्त्य कृतशौचक्रियो द्विजातिर् गृही प्रातःसंध्यां दन्तधावनपूर्विकाम् उपासीत । दन्तानां धावनं शोधनं तत्पूर्वं यस्याः सा दन्तधावनपूर्विका । अत्र ब्रह्मचारिणो विहिता संध्या गृहस्थं प्रत्य् अपि सा प्राप्ता । तस्या दन्तधावनपूर्व्कत्वम् अनेन विधीयते । शङ्खः- “ब्राह्मे मुहूर्ते तूत्थाय मूत्रप्रीषोत्सर्गं कुर्यात्” । ब्रह्माण्डपुराणे ।

प्रतिश्रयाद् दक्षिणपश्चिमेन क्षिप्रं गत्वा क्षेपमात्रं शरस्य ।
कुर्यात् पुरीषं तु शिरो ऽवगुण्ठ्य न तु स्पृशेज् जातु शिरः करेण ॥

अङ्गिराः ।

कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् ।
विण्मूत्रं तु गृही कुर्याद् यद् वा कर्णे समाहितः ॥
उत्थाय पश्चिमे यामे रात्रेर् आचम्य चोदकम् ।
अन्तर्धाय तृणैर् भूमिं श्रः प्रावृत्य वाससा ॥
वाचं नियम्य यत्नेन निष्ठीवोच्छ्वासवर्जितः ।
कुर्यान् मूत्रपुरीषं तु शुचौ देशे समाहितः ॥

दक्षः ।

उषःकाले तु संप्राप्ते शौचं कुर्याद् यथार्थवत् ।
ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् ॥

वृद्धपराशरः ।

मुखे पर्युषिते नित्यं भवत्य् अप्रयतो नरः ।
तस्मात् सर्वप्रयत्नेन भक्षयेद् दन्तधावनम् ॥

कात्यायनः ।

उत्थाय नेत्रे प्रक्षाल्य शुचिर् भूत्वा समाहितः ।
परिजप्य च मन्त्रेण भक्षयेद् दन्तधावनम् ॥
आयुर् बलं यशो वर्चः प्रजापशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वं मे देहि वनस्पते ॥ इति ।

मार्कण्डेयः ।

प्रक्षाल्य भक्षयेत् पूर्वं प्रक्षाल्यैव च संत्यजेत् ।
उदङ्मुखः प्राङ्मुखो वा कषायतिक्तकण्टकम् ॥
कनिष्ठाग्रसमस्थौल्यं सुकूर्वं द्वादशाङ्गुलम् ।
**प्रातर् भुक्त्वा च यतवाग् भक्षयेद् दन्तधावनम् ॥ [१२४]

गर्गः ।

दशाङ्गुलं तु विप्राणां क्षत्रियाणां नवाङ्गुलम् ।
अष्टाङ्गुलं तु वैश्यानां शूद्राणां सप्तसंमितम् ॥
चतुरङ्गुलमात्रं तु नारीणां नात्र संशयः ।
प्राङ्मुखस्य धृतिः सौख्यं शरीरारोग्यम् एव च ॥
दक्षिणेन तथा कुष्ठं पश्चिमेन पराजयः ।
उत्तरेण गवां नाशः स्त्रीणां परिजनस्य च ॥

विष्णुः- “न पालाशं दन्तधावनम् अद्यान् न चैव श्रेष्मातकारिष्टविभीतकधवधन्वनजम् । न कोविदारशमीपीलुपिप्पलेङ्गुदगुग्गुलुजम् । न बन्धूकनिर्गुण्ठीशिग्रुबिल्वकतिन्दुकजम् । न पारिभद्रवाल्मीकमोचक्यशल्मलीशणजम् । न मधुरं नाम्लं नोर्ध्वशुष्कम् । न सुशिरं न पूतिगन्धि न पिच्छलम्” । मोचक्यं दकलीजम् इत्य् अर्थः । व्यासः ।

प्रतिपद्दर्शषष्ठीषु नवम्यां दन्तधावनम् ।
पर्णैर् अन्यत्र काष्ठैस् तु जिह्वोल्लेखैस् तृणैश् च वा ॥
कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलसंमितम् ।
कनिष्ठकाग्रवत्स्थूलं पर्वार्धकृतकूर्चकम् ॥
दन्तधावनम् उद्दिष्टं जिह्वोल्लेखनिका तथा ।
शुद्ध्यर्थं प्रातर् उत्थाय भक्षयेद् दन्तधावनम् ॥
श्राद्धे यज्ञे च नियमान् नाद्यात् प्रोषितभर्तृका ॥

श्राद्धकर्तुर् निषेधो ऽयं न भोक्तुः ।

अलाभे दन्तकाष्ठानां निषिद्धायां तथा तिथौ ।
अपां द्वादशगण्डूषैर् विदध्याद् दन्तधावनम् ॥

पुराणम् ।

प्रतिपद्दर्शषष्ठीषु चतुर्दश्यष्टमीषु च ।
नवम्यां भानुवारे च दन्तकाष्ठं विवर्जयेत् ॥

यमः ।

चतुर्दश्यष्टमी दर्शः पूर्णिमा संक्रमो रवेः ।
क्षुरस्त्रीतैलमांसानि दन्तकाष्ठं विवर्जयेत् ॥

उशना- “न दन्तकाष्ठं पाटयेन् नाङ्गुलीभिर् दन्तान् प्रक्षालयेत्” । स्मृत्यन्तर ।

पालाशं काकुभं दार्भं नैवाद्यद् दन्तधावनम् ।
**अद्याच् चेन् निष्कृतिं तस्य वच्मि गाम् अवलोकयेत् ॥ [१२५]

कात्यायनः ।

यथाहनि तथा प्रातर् नित्यं स्नायाद् अतन्द्रितः ।
दन्तान् प्रक्षाल्य नद्यादौ गेहे वै तद् अमन्त्रवत् ॥

अमन्त्रवद् इति मन्त्रविस्तरनिषेधपरम् । यतो ऽयम् एवाहाह् ।

अलप्त्वाद् धोमकालस्य बहुत्वात् स्नानकर्मणः ।
प्रातः संक्षेपतः स्नानं होमलोपो विगर्हितः ॥
अत्यन्तमलिनः कायो नवछिद्रसमन्वितः ।
स्रवत्य् एष दिवा रात्रौ प्रातःस्नानं विशोधनम् ॥
प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत् ॥

विष्णुः ।

य इच्छेद् विपुनान् भोगांश् चन्द्रसूर्यग्रहोपमान् ।
प्रातःस्नायी भवेन् नित्यं द्वौ मासौ माघफाल्गुनौ ॥

यमः ।

प्रातःस्नायी च सततं द्वौ मासौ माघफाल्गुनौ ।
देवान् पितॄन् समभ्यर्च्य सर्वपापैः प्रमुच्यते ॥ १.९८ ॥
हुत्वाग्नीन् सूर्यदै(दे)वत्याञ् जपेन् मन्त्रान् समाहितः ।

श्रौतस्मार्ताग्निहवनं स्वशास्त्रानुसारेणानुष्ठाय स्वशाखाधीतान् सूर्यदै(दे)वत्यान् मन्त्रान् समाहित एकाग्रमना जपेत् । नृसिंहपुराणे ।

पूर्वां संध्यां सनक्षत्राम् उपक्रम्य यथाविधि ।
सावित्रीम् अभ्यसेत् तावद् यावद् आदित्यदर्शनम् ॥
तत आवसथं प्राप्य होमं कुर्यात् सदा बुधः ।
संध्याकर्मावसाने तु स्वयं होमो विधीयते ॥
स्वयंहोमफलं यत् स्यात् तद् अन्येन न लभ्यते ।
ऋत्विक्पुत्रो गुरुर् भ्राता भागिनेयो ऽथ विट्पतिः ॥
एतैर् एव हुतं यत् स्यात् तद् धुतं स्वयम् एव तु ॥

विऋपतिर् जामाता । श्रौते त्व् आधानर्त्विजां मध्य एको ऽन्तेवासि वा जुहुयात् । तहाह आश्वलायनः- “स्वयं पर्वणि वा जुहुयात् । ऋत्विजाम् एक इतरं कालम् अन्तेवासी वा” । मनुः ।

नैव कन्या न युवतिर् नाल्पविद्यो न बालिशः ।
होता स्याद् अग्निहोत्रस्य नार्तो नासंस्कृतस् तथा ॥

यत् तु शौनकवचनम्, [१२६] “पाणिग्रहणादि गृह्यं परिचरेत् स्वयं पत्न्य् अपि वा पुत्रः कुमार्य् अन्तेवासी वा”, तद् वैतानविषयेण मानवेन न विरुध्यते, गृह्यविषयत्वात् तस्य । एवम् अनाम्ना(माम्ना)तदक्षिणानि ऋत्विजैव कार्याणि । अनाम्नातदक्षिणानि स्वयम् आपद्य् ऋत्विजा । कात्यायनः ।

असमक्षं तु दम्पत्योर् होतव्यं नर्त्विगादिना ।
भवेद् अप्य् असमक्षं तु तयोर् हुतम् अनर्थकम् ॥

वराहपुराणे ।

उदयान् निःसृतं सूर्यं यस् तु भक्त्या नरो द्विजः ।
दध्यक्षताञ्जलीभिस् तु तिसृभिः पूजयेच् छुचिः ॥
तस्य भावप्रसन्नस्य ह्य् अशुभं यत् समार्जितम् ।
तत्क्षणाद् एव निर्दग्धं भस्मी भवति तस्य तत् ॥

दक्षः ।

देवकार्यं ततः कृत्वा गुरुमण्डलदर्शनम् ।
देवकार्यस्य सर्वस्य पूर्वाह्णस् तु विधीयते ॥

विष्णुपुराणम् ।

स्वाचारांश् च ततः कुर्यात् पुमान् केशप्रसाधनम् ।
आदर्शाञ्जनमङ्गल्यदूर्वाद्यालभनानि च ॥

ब्रह्माण्डपुराणे ।

स्वम् आत्मानं घृते पश्येद् यदीच्छेच् चिरजीवितम् ।

कात्यायनः ।

पापिष्ठं दुर्भगं मत्तं नग्नम् उत्कृत्तनासिकम् ।
प्रातर् उत्थाय यः पश्येत् तत् कलेर् उपलक्षणम् ॥
श्रोत्रियं सुभगं गां च ह्य् अग्निम् अग्निचितं तथा ।
प्रातर् उत्थाय यः पश्येद् आपद्भ्यः स प्रमुच्यते ॥
वेदार्थान् अधिगच्छेच् च शास्त्राणि विविधानि च ॥ १.९९ ॥

वेदार्थान् अधिगच्छेद् इत् साध्यस्य निर्देशः । शास्त्राणि विविधानीति साधनस्य । शास्त्राण्य् अधिगच्छेद् वेदार्थान् अधिगन्तुम् इति वाक्यार्थो भवति । एवं च वेदार्थाधिगमोपायभूतानाम् एव निगमनिरुक्तव्याकरणमीमांसादीनां शास्त्राणां परिग्रहो न बौद्धशास्त्रादीनाम् । अत एव तदधिगमम् उपपातकत्वेन वक्ष्यति । स्मृत्यर्थो वेदार्थशब्देनैव गृहीतः । वेदार्थानुष्ठानत्वात् तदधिगमस्य वेदादिधारणम् अर्थसिद्धम् । अत एवोपपातकवर्गे “अधीतस्य च नाशनम्” इति वक्ष्यति । दक्षः ।

वेदस्वीकरणं पूर्वं विचारो ऽभ्यसनं जपः ।
**तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥ [१२७]

अत एव मनुः ।

बुद्धिवृद्धिकारण्य् आशु धन्यानि च हितानि च ।
नित्यं शास्त्राण्य् अवेक्षेत निगमांश् चैव वैदिकान् ॥
वेदस्य पारं गत्वा तु भूयो भूयस् तम् अभ्यसेत् ।
शास्त्रं च विमलं कुर्यान् न चाधीत्य त्यजेत् पुनः ॥

नियमाः पदार्थनिर्णयहेतवो निघण्टुप्रभृतयः ॥ १.९९ ॥

उपेयाद् ईश्वरं चैव योगक्षेमार्थसिद्धये ।

योगो ऽपेक्षितलाभः, क्षेमस् तद्रक्षणम् । योगक्षेमार्थसिद्ध्यर्हम् ईश्वरं तत्प्रयोजनसंपादनसमर्थम् उपेयाद् उपगच्छेत् । गौतमः- “योगक्षेमार्थम् ईश्वरम् अधिगच्छेन् नान्यम् अन्यत्र देवगुरुधार्मिकेभ्यः” । मनुः ।

दैवतान्य् अधिगच्छेत् तु धार्मिकांश् च द्विजोत्तमान् ।
ईश्वरं चैव रक्षार्थं गुरून् एव च पर्वसु ॥
स्नात्वा देवान् पित्रॄंश् चैव तर्पयेद् अर्चयेत् तथा ॥ १.१०० ॥

मधय्ंदिने यथाविधि स्नात्वा यथाविधि देवान् पितॄंस् तर्पयेत् । चकाराद् ऋषीन् मनुष्यांश् च । तथा देवादीन् अर्चयेत् पूजयेत् । शङ्खः ।

नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ।
क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्तितम् ॥
अस्नातस् तु पुमान् नार्हो जप्याग्निहवनादिषु ।
प्रातःस्नानं तदर्थं तु नित्यस्नानं प्रकीर्तितम् ॥
चण्डालशवयूपादि स्पृष्ट्वास्नातां रजस्वलां ।
स्नानार्हस् तु यतः स्नाति स्नानं नैमित्तिकं हि तत् ॥
पुष्प(प्य)स्नानादिकं यत् तु दैवज्ञविधिचोदितम् ।
तद् धि काम्यं समुद्दिष्टं नाकामस् तत् प्रयोजयेत् ॥
जप्तुकामः पवित्राणि अर्चिर्ष्यन् देवताह् पितॄन् ।
स्नानं समाचरेद् यस् तु(त्तु) क्रियाङ्गं तत् प्रकीर्तितम् ॥
मलापकर्षणं नाम स्नानम् अभ्यङ्गपूर्वकम् ।
मलापकर्षणार्था तु प्रवृत्तिस् तस्य नान्यथा ॥

[१२८] सरःसु देवखातेषु तीर्थेषु च नदीषु च ।

क्रियास्नानं समुद्दिष्टं स्नानं तत्र क्रिया मता ॥

स्नानम् एतत् । क्रिया कार्यतया विहितेत्य् अर्थः ।

तत्र काम्यं तु कर्तव्यं यथावद् विधिचोदितम् ।
नित्यं नैमित्तिकं चैव क्रियाङ्गं मलकर्षणम् ॥
तीर्थाभावे तु कर्तव्यम् उष्णोदकपरोदकैः ।
स्नातस्य वह्नितप्तेन तथैव परवारिणा ॥
शरीरशुद्धिर् विज्ञेया न तु स्नानफलं लभेत् ।
अद्भिर् गात्राणि शुध्यन्ति तीर्थ्स्नानाद् भवेत् फलम् ॥
सरःसु देवखातेषु तीर्थेषु च नदीषु च ।
स्नानम् एव क्रिया यस्मात् स्नानं पुण्यतमं स्मृतम् ॥

दक्षः ।

चतुर्थे तु तथा भागे स्नानार्थं मृदम् आहरेत् ।
तिलपुष्पकुशादीनि स्नानं वा कृत्रिमे जले ॥
मृत्तिका सप्त न ग्राह्या वल्मीके भूषिकास्थले ।
अन्तर्जले श्मशाने च वृक्षमूले सुरालये ॥
परस्नानावशिष्टा च श्रेयस्कामैः सदा बुधैः ॥

अष्टधा विभक्तस्याह्नश् चतुर्थभागे मृदाहरणं कुर्याद् इत्य् अर्थः । शातातपः ।

शुचौ देशे तु संग्राह्या शर्कराश्मादिवर्जिता ।
रक्ता गौरी तथा श्वेता मृत्तिका त्रिविधा स्मृता ॥

योगयाज्ञवल्क्यः ।

शृणुष्व वक्ष्यते स्नानं सर्वपापप्रणाशनम् ।
मृत्तिकां गोमयं दर्भान् पुष्पाणि सुरभीणि च ॥
आहरेद् यावदर्थानि स्नानार्थं प्रयतः शुचिः ।
गत्वोदकान्तं विधिवत् स्थापयेत् तु पृथक् क्षितौ ॥
त्रिधा कृत्वा मृदं तां तु गोमयं तु विचक्षणः ।
अधमोत्तममध्यानाम् अङ्गानां क्षालनं तु तैः ॥
भागैः पृथक् पृथक् कुर्यात् क्षालने मृदसंकरः ॥

दक्षः ।

मलापकर्षणं पार्श्वे मन्त्रतस् तु जले स्मृतम् ।
संध्यास्नानं तूभयतः स्नानदेशाः प्रकीर्तिताः ॥

पार्श्वे तटे । [१२९] शौनकः ।

नदीतीरे शुचौ देश आहरेन् मृत्तिकां कुशान् ।
प्रयतो मृदम् आदाय दूर्वापामार्गगोमयान् ॥
एकदेशे ततः कुर्यान् मृदा स्नानं ततः परम् ॥

वसिष्ठः ।

मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस् तथोपरि ।
अधश् च तिसृभिः कायः षड्भिः पादौ तथैव च ।
क्षालयेत् सर्वकायं तु द्विर् आचम्य यथाविधि ॥

शौनकः- “गायत्र्यादित्या अव हि ख्यातातो देवा इत् मृदम् अभिमन्त्रयेत्” । गायत्र्या ऋष्यादि प्रसिद्धम् । आदित्या अव हि ख्यातेति त्रित ऋषिः । आदित्या देवता । जगती छन्दः । “आदित्या अव हि ख्याताधि कुलाद् इव स्पशः । सुतीर्थम् अर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुऊतयो व ऊतयः” । अतो देवा इति मेधातिथिऋषिः । विष्णुर् देवता । गायत्री छन्दः । “अतो देवा अवन्तु नो यतो विष्णुर् वि चक्रमे । पृथिव्याः सप्त धामभिः । ततः “यत इन्द्र,” “स्वस्तिदा विशस्पतिः,” “वि रक्षो वि मृधः,” “इदं सु मे जनितः” इति मृदं प्रतिमन्त्रं प्रतिदिशं क्षिपेत् पूर्वादिक्रमेण । ततो यत इन्द्रेति भर्ग ऋषिः । इन्द्रो देवता । बृहती छन्दः ।

यत इन्द्र भयामहे ततो नो अभयं कृधि ।
मघवञ् छग्धि तव तन् न ऊतिभिर् वि द्विषो वि मृधो जहि ॥

स्वस्तिदा विशसो भारद्वाजऋषिः । इन्द्रो देवता । अनुष्टुप् छन्दः ।

स्वस्तिदा विशस्पतिर् वृत्रहा विमृधो वशी ।
वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
वि मन्युम् इन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥

इदं सु मे विमद ऋषिः । इन्द्रो देवता । त्रिष्टुप् छन्दः ।

इदं सु मे जरितरा चिकिद्धि प्रतीषं शापं नद्यो वहन्ति ।
लोपाशः सिंहं प्रत्यञ्चमत्साः क्रोष्टा वराहं विरतक्त कक्षात् ॥

वसिष्ठः ।

ततः संमार्जनं कुर्यान् मृदा पूर्वं तु मन्त्रवत् ।
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरा ॥
उद्धृतासि वराहेण कृष्णेन शतबाहुना ।

[१३०] मृत्तिके त्वां च गृह्णामि प्रजया च धनेन च ॥

मृत्तिके ब्रह्मदत्तासि काशपेनाभिमन्त्रिता ।
मृत्तिके हर मे पापं यन् मया दुष्कृतं कृतम् ॥
मृत्त्के देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ॥

अश्वक्रान्त इत्यादीनां यज्वक ऋषिः । मृत्तिका देवता । अनुष्टुप् धन्दः ।

पुनश् च गोमयेनैवम् अग्रम् अग्रम् इति ब्रुवन् ।
अग्रम् अग्रम् चरन्तीनाम् ओषधीनां वने वने ॥
तासाम् ऋषभपत्नीनां पवित्रं कायशोधनम् ।
त्वं मे रोगांश् च शोकांश् च पापं च नुद गोमय ॥

अग्रम् अग्रम् इति विश्वामित्र ऋषिः । गोमयो देवता । अनुष्टुप् छन्दः ।

काण्डात् काण्डात् इति द्वाभ्याम् अङ्गम् अङ्गम् उपस्पृशेत् ।

दूर्वयेति शेषः ।

काण्डात् काण्डात् प्ररोहन्ती परुषः परुषः परि ।
एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥
या शतेन प्रतनोषि सहस्रेण विरोहसि ।
तस्यास् ते देवीष्टके विधेम हविषा वयम् ॥ इति ।

अग्निर् ऋषिः । दूर्वा देवता । अनुष्टुप् धन्दः । तथा ।

अपाछमयकिल्बिषम् अपकृत्यम् अपोर् अपः (?) ।
अपामार्ग त्वम् अस्माकम् अप दुःस्वप्न्यं(प्नियं)सुव ॥

इति सिन्धुद्वीपदृष्टयापामार्गदेवतयानुष्टुभा मार्गेणाङ्गम् अङ्गम् उपस्पृशेत् । शौनकः- “अथ हिरण्यशृङ्गयापो देवरिप्स्वन्तर् इत्य् अप उपस्थाय सुमित्रा न इत्य् अपः स्पृष्ट्वा दुर्मित्रा इति बहिः क्षिपेत्” । हिरण्यशृङ्गयेति दीर्घतपा ऋषिः । इन्द्रो देवता । त्रिष्टुप् छन्दः । आपो देवीर् उपह्वय इति मेधातिथिर् ऋषिः । आपो गायत्री । अप्स्व् अन्तरिति शुनःशेपः, सुमित्रा न इति दुर्मित्रा इति च वामदेवः, आपो देवताः । यजुषी छन्दः । ततः,

इन्द्रशुद्धादयश् चापः प्रविश्य मनसा जपेत् ।
तत्रैव गायेत् सामानि अपि वा व्याहृतीर् जपेत् ॥
**शिवेन मेति(मा) जपित्वेदम् आप इत्य् अप आप्लवेत् ॥ [१३१]

आपो अस्मान् इति शेषः । “या सूर्य इति समापयेत् । ऽतरत् स मन्दी,ऽ ऽसमुद्रज्येष्ठा,ऽ इति सूक्ताभ्यां यत् किं चेदम् इमं मे गङ्ग इति पावनम्” । कुशैर् इति शेषः । तत्र — “एतो न्व् इन्द्रम्” इति ऋचस् तिरश्चीनाङ्गिरस इन्द्रो ऽनुष्टुप् । शिवेन मा चक्षुषेत्य् अग्निः । आपो जगती । इदम् आप इत्य् अम्बरीषः सिन्दुद्वीप आपो ऽनुष्टुप् । आपो अस्मान् इति वामदेव आपस् तिष्टुप् । याह् सूर्यो रश्मिभिर् वसिष्ठ आपस् त्रिष्टुप् । [तरत् स मन्दीर् इति गायत्री । समुद्रज्येष्ठा इति चतुर् ऋचं सूक्तम् ।वसिष्ठ आपस् त्रिष्टुप् ।] यत् किंचेदम् इति वसिष्ठो वरुणस् त्रिष्टुप् । इमं मे गङ्ग इति सिन्धुक्षित् प्रैयमेधो नद्यो जगती । ततः,

स्नात्वाचान्तो वारिमध्ये त्रिः पठेद् अघमर्षणम् ।

“ऋतं च” इति तृचा(चेना)घमर्षणम् । अस्या अघमर्षण ऋषिः । भाववृत्तम् । अनुष्टुप् । चतुर्विंशतिमतात् ।

स्नानाद् अनन्तरं तावत् तर्पयेत् पितृदेवताः ।
उत्तीर्य पीषयेद् वस्त्रं संध्याकर्म ततः परम् ॥

पुराणात् ।

नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानम् उच्यते ।
तर्पणं तु भवेत् तस्य अङ्गत्वेन प्रकीर्तितम् ॥

कार्ष्णाजिनिः ।

नाभिमात्रे जले स्थित्वा चिन्तयेद् गतमानसः ।

तर्पयेच् चेति शेषः । नृसिंहपुराणम् ।

पित्रर्षि(तॄषि)गणदेवादीन् अद्भिः संतर्पयेत् ततः ।
देवान् देवगणांश् चैव मुनीन् मुनिगणान् अपि ॥
पितॄन् पितृगणांश् चैव नित्यं संतर्पयेत् ततः ।
दद्यात् सर्वग्रहेभ्यश् च ऋषिभ्यश् च जलं ततः ॥
कृतापसव्यः स्वधया पितृभ्यस् तदनन्तरम् ॥

पुराणात् ।

तर्पणं देवतानां तु कृत्वा वै प्राङ्मुखः शुचिः ।
अधिकारी भवेत् पश्चात् पितॄणां तर्पणे सदा ॥

योगयाज्ञवल्क्यः ।

अतो ऽन्यथा चेत् सव्येन तिलान् कृत्वा विचक्षणः ।
दक्षिणे पितृतीर्थेन जलं सिञ्चेद् यथाविधि ॥

अतः स्थलस्थतर्पणात् । अन्यथा जलथतर्पण इत्य् अर्थः । तथा च स्मृत्यन्तरम् ।

[१३२] बाहुं पूर्णं तिलैः कृत्वा जलथस् तर्पयेत् पितॄन् ।

स्थलस्थेन न कर्तव्यं पितॄणां तृप्तिम् इच्छता ॥
मुक्तहस्तेन दातव्यं न मुद्रां तत्र दर्शयेत् ॥

मुद्रा प्रदेशिन्यङ्गुष्ठाग्रसंयोगः । व्याघ्रः ।

उभाभ्याम् अथ हस्ताभ्याम् उदकं यः प्रयच्छति ।
स मूढो नरकं यात् कालसूत्रम् अवाक्शिराः ॥

यमस् तु ।

द्वौ हस्तौ युग्मतः कृत्वा पूरयेद् उदकाञ्जलिम् ।
गोशृङ्गमात्रम् उद्धृत्य जलमध्ये जलं क्षिपेत् ॥

अत्र व्यवस्थाम् आह कार्ष्णाजिनिः ।

श्राद्धे विवाहकाले तु पाणिनैकेन दीयते ।
तर्पणे तूभयेनैव विधिर् एष पुरातनः ॥ इति ।

अथ वा आश्वलायनीया दक्षिणेनैकहस्तेन कुर्युर् दक्षिणं प्रतीयाद् अनादेश इति परिभाषाबलात् । गोबि(भि)लः ।

शुक्लैस् तु तर्पयेद् देवान् मनुष्याञ् शबलैस् तिलैः ।
पितॄंस् तु तर्पयेत् कृष्णैस् तर्पयंस् तु सदा द्विजः ॥
अङ्गस्थैर् यद् तिलैः कुर्याद् देवतापितृतर्पणम् ।
रुधिरं तद् भवेत् तोयं प्रदाता किल्बिषी भवेत् ॥
रोमसंस्थांस् तिलान् कृत्वा यस् तु तर्पयेत् पितॄन् ।
पितरस् तर्पितास् तेन रुधिरेण मलेन च ॥

ततश् चालोमकाङ्गस्ततिलैस् तर्पणं न दोषाय । स्थलतर्पणविषयम् एतत् । मरीचिः ।

तिलानाम् अप्य् अभावे तु सुवर्णरजतान्वितम् ।
तदभावे निषिञ्चेत् तु दर्भैर् मन्त्रेण वा पुनः ॥
सप्तभ्यां रविवारे च गृही जन्मदिने तथा ।
भृत्यपुत्रकलत्रार्थी न कुर्यात् तिलतर्पणम् ॥
पक्षयोर् उभयोर् जन्मसप्तम्यां निशि संध्ययोः ।
विद्यापुत्रकलत्रार्थी तिलान् पञ्चसु वर्जयेत् ॥
निम्बस्य भक्षणं तैलं तिलैस् तर्पणम् अञ्जनम् ।
**सप्तम्यां नैव कुर्वीत ताम्रपात्रे च भोजनम् ॥ [१३३]

षट्त्रिंशन्मतात् ।

गजाश्वरथपृष्ठे तु नाव्यङ्गे चेष्टकाचिते ।
न तर्पयेत् पितॄन् देवान् न स्थलस्थः स्थले क्वचित् ॥

हारीतः ।

आर्द्रवासा जले कुर्यात् तर्पणाचमनं जपम् ।
शुष्कवासाः स्थले कुर्यात् तर्पणाचमनं जपम् ॥

विष्णुः ।

स्थले स्थित्वा जले यस् तु प्रयच्छेद् उदकं नरः ।
नोपतिष्ठति तद्वारि पितॄणां तन् निरर्थकम् ॥
यथाशुचि स्थलं वा स्याद् उदके देवताः पितॄन् ।
तर्पयेत् तु यथाकामम् अप्सु सर्वं प्रतिष्ठितम् ॥

कार्ष्णाजिनिः ।

देवतानां पितॄणां च जले दद्याज् जलाञ्जलिम् ।
असंस्कृतप्रमीतानां स्थले दद्याज् जलं पुनः ॥

ततश् च स्थलस्थितेनासंस्कृताय जलाञ्जलिर् देय इत्य् अपि ज्ञेयम् ।

स्नानवस्त्रं ततः पीड्यं पुनर् आचमनं चरेत् ।
ये चैवास्मत्कुले जाता अपुत्रा गोरजा मृताः ॥
ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥

इति वस्त्रनिष्पीडनमन्त्रः । हारीतः ।

जलार्द्रवासाः स्थलगो य आचामेन् नराधमः ।
वस्त्रनिश्चोतनं तस्य प्रेतास् तत्र पिबन्ति हि ॥

दक्षः ।

स्नात्वाचामेद् यदा विप्रः पादौ कृत्वा जले स्थले ।
उभयोर् अप्य् असौ शुद्धस् ततः कार्यक्षमो भवेत् ॥

व्याघ्रः ।

जलाशयाद् व्रजेत् तीव्रम् आपो अस्मान् ऋचं पठन् ।
ततो वस्त्रद्वयं शुद्धं गृहीत्वा द्विर् उपस्पृशेत् ॥

जाबालिः ।

स्नात्वा संगृह्य वस्त्रं च जङ्घे शोध्ये मृदम्भसा ।
स्नानं कृत्वार्द्रवासास् तु विण्मूत्रं कुरुते यति ॥
प्राणायामत्रयं कृत्वा पुनः स्नानेन शुध्यति ॥

गोबि(भि)लः ।

स्नातो न मार्जयेद् अङ्गं नापसव्येन पाणिना ।
न च निर्ध्(धू)नयेत् केशान् आचामेन् नैव चोत्थितः ॥

व्यासः ।

न चानुलिम्पेद् अस्नातो वासो ऽप्य् एवं न निर्धुनेत् ।
आर्द्र एव तु वासांसि स्नात्वा सेवेत मानवः ॥

[१३४] यत् स्नानवस्त्रेण मुखं विमृज्यते स्नात्वा च यत् खादति दन्तधावनम् ।

अन्योन्यपृष्टेन यदोपलिप्यते (?) तद् एति कृत्वा प्रजहाति लक्ष्मीः ॥

सत्यव्रतः ।

ऊर्ध्वपुण्ड्रो मृदा शुभ्रो ललाटे यस्य दृश्यते ।
चण्डाले ऽपि स शुद्धात्मा पूज्य एव न संशयः ॥

व्यासः ।

आदाय परया भक्त्या गङ्गातीरोद्भवां मृदम् ।
यश् चर्चयति गात्राणि तस्य धर्मो महान् भवेत् ॥

उशनाः

स्नात्वा शिरो नावधुनेन् नाङ्गेभ्यस् तोयम् उद्धरेत् ।
न च पूर्वध्तं वासो न तैलं न वसां स्पृशेत् ॥

योगयाज्ञवल्क्यः ।

अभावे धौतवस्त्रस्य शाणक्षौमाविकानि च ।
कुतपं योगपट्टं वा द्विवासा येन तद् भवेत् ॥

कुतपः कम्बलः । उत्तरीयविषयम् एतत् । तथा ।

यो ऽसौ विस्तरशः प्रोक्तो स्नानस्य विधिर् उत्तमः ।
असामर्थ्यान् न् कुर्याच् चेत् तत्रायं विधिर् उच्यते ॥
स्नानम् अन्तर्जलं चैव मार्जनाचमने तथा ।
जलाभिमन्त्रणं चैव तीर्थस्य परिकल्पनम् ॥
अघमर्षणसूक्तेन त्रिर् आवृत्तेन नित्यशः ।
स्नानाचरणम् इत्य् एतद् उपदिष्टं महात्मभिः ॥

तथा ।

असामर्थ्याच् छरीरस्य कालशक्त्याद्यपेक्षया ।
मन्त्रस्नानाद् इतः सप्त केचिद् इच्छन्ति सूरयः ॥
मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यम् एव च ।
वारुणं मानसं चैव सप्त स्नानान्य् अनुक्रमात् ॥
आपोहिष्ठादिभिर् मान्त्रं मृदालम्बश् च पार्थिवम् ।
आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् ॥
यत् तु सातपवर्षेण तद् दिव्यं स्नानम् उच्यते ।
वारुणं चावगाहं तु (हस् तु) मानसं विष्णुचिन्तनम् ॥
शस्तस्नानं समुद्दिष्टं मन्त्रस्नानात् क्रमेण तु ।
कालाद् देशाद् असामर्थ्यात् सर्वं तुल्यफलं स्मृतम् ॥

[१३५] मानसं प्रवरं स्नानं केचिद् इच्छन्ति सूरयः ।

आत्मतीर्थप्रशंसायां व्यासेन पठितं यतः ॥

तथा ।

शं न आपस् तु द्रुपदाद् आपोहिष्ठाघमर्षणम् ।
एतैश् चतुर्भिर् ऋङ्मन्त्रैर् मन्त्रस्नानम् उदाहृतम् ॥
अप्रायत्ये समुत्पन्ने स्नानम् एव तु कारयेत् ।
पूर्वोद्दिष्टैस् तथा मन्त्रैर् अन्यथा मार्जनं भवेत् ॥

जाबालः ।

अशिरस्कं भवेत् स्नानं स्नानाशक्तौ तु कामिकम् ।
आर्द्रेण वाससा वापि मार्जनं दैहिकं विदुः ॥

कात्यायनः ।

मासद्वयं श्रावणादि सर्वा नद्यो रजस्वलाः ।
तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः ॥
धनुःसहस्राण्य् अष्टौ च गतिर् यासां न विद्यते ।
न ता नदीशब्दवहा गर्तास् ते परिकीर्तिताः ॥
उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च ।
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते ॥
स्वर्धुन्य् अम्भःसमानि स्युः सर्वाण्य् अम्भांसि भूतले ।
कूपस्थान्य् अपि सोमार्कग्रहणे नात्र संशयः ॥

स्वर्धुनी गङ्गा । देवलः ।

राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु ।
स्नानदानादिकं कुर्युर् निशि काम्यव्रतेषु च ॥
नद्याम् अस्तमये स्नानं वर्जयेत् तु सदा बुधः ।
नद्यां स्नात्वा नदीम् अन्यां न प्रशंसेत् तु धर्मवैत् ॥

मनुः ।

न स्नानम् आचरेद् भुक्त्वा नातुरो न महानिशि ।
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥

नारायणः ।

उप्वीती बद्धशिखः समागम्य यथागमम् ।
पवित्रापाणिर् ॐकारं यज्ञेशं मनसा स्मरेत् ॥
प्रातःसंध्याविधानेन छन्द आर्ष च दैवतम् ।
स्मृत्वा चायम्य च प्राणान् आचामेद् धर्भपाणिना ॥
आपः पुनन्तु मन्त्रेण आपो हि ष्ठेति मार्जनम् ।

[१३६] प्रक्षिप्य चाञ्जलिं सम्यग् उद् उ त्यं चित्रम् इत्य् अपि ।

तच् चक्षुर् देव इति च हंसः शुचिष्द् इत्य् अपि ॥
एवं जपेद् ऊर्ध्वबाहुः सूर्यं पश्यन् समाहितः ।
गायत्र्या तु यथाशक्ति ह्य् उपस्थाय दिवाकरम् ॥
नोच्चैर् जप्यं बुधः कुर्यात् सावित्र्या च विशेषतः ॥ इति

बृहस्पतिः ।

मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनम् ।
अव्यग्रत्वम् अनिर्वेदो जपसंपत्तिहेतवः ॥ १.१०० ॥

ब्रह्मयज्ञम् आह ।

वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।
जपयज्ञार्थसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ १.१०१ ॥

वेदान् ऋग्वेदादीन् अथर्ववेदपुराणानीतिहासान् भारतादीन् विद्याम् आध्यात्मिकीम् अध्यात्मसंबन्धिनीम् । उपनिषद्ग्रन्थम् इत्य् अर्थः । शक्तितो यथाशक्ति जपेत्जपयज्ञार्थसिद्ध्यर्थं ब्रह्मयज्ञसिद्ध्यर्थम् । अध्यात्मविद्यायाः पृथग् उपादानं प्राधान्यार्थम् । वेदेत्य् उक्ते ऽथर्वग्रहणं वृत्तपूरणार्थम् । तथाङ्गिरसाम् उपलक्षणार्थम् । श्रुतौ “यद् अथर्वाङ्गिरसो मेदसः कुल्याः” इति श्रवणात् । मनुः ।

अपां समीपे नियतो नैत्यकं विधिम् आस्थितः ।
सावित्रीम् अप्य् अधीयीत गत्वारण्यं समाहितः ॥
आदाव् आरभ्य वेदं तु स्नात्वोपर्य् उपरि क्रमात् ।
यद् अधीते ऽन्वहं शक्त्या स स्वाध्याय इति स्मृतः ॥

शौनकः- “प्राग् वोगग् वा ग्रामान् निष्क्रम्याप उत्प्लुत्य यज्ञोपवीत्य् अक्लिन्नवासा दर्भाणां महद् उपस्तीर्य प्राक्कूलानां तेषु प्राङ्मुख उपविश्योपस्थानं कृत्वा दक्षिणोत्तरौ पाणी संधाय सपवित्रपाणिर् द्यावापृथिव्योः संधिम् ईक्षमाणः संमील्य यथा वा युक्तम् आत्मानं मन्येत तथा युक्तो ऽधीयीत स्वध्यायम् । ॐपूर्वा व्याहृतीः सावित्रीम् अन्वाह पच्छो ऽर्धर्चशः सर्वाम् इति तृतीयाम्” । युक्तः समाहितः । तथा- “स यावन् मन्येत तावद् अधीत्य्(त्यै)तया परिदधाति नमो ब्रह्मण इति” । परिधानशब्दान् निरभ्यासो भवति । [१३७] बृहस्पतिः ।

स चार्वाक् तर्पणात् कार्यः पश्चाद् वा प्रातर् आहुतेः ।
वैश्वदेवावसाने वा नन्यद् एति निमित्ततः ॥

सः, ब्रह्मयज्ञ इत्य् अर्थः । मनुः ।

नैत्यके नास्त्य् अनध्ययो ब्रह्ममन्त्रं हि तत् स्मृतम् ।
ब्रह्माहुतिहुतं पुण्यम् अनध्यायवषट्कृतम् ॥

तथा ।

वेदोपकरणे चैव स्वाध्याये चैव नैत्यके ।
नानुरोधो ऽस्त्य् अनध्याये होममन्त्रेषु चैव हि ॥

वेदोपकरणं वेदाङ्गम् । आपस्तम्बः- “अथ यदि वातो वा वायात् स्तनयेद् वा विद्योतते वा विस्फूर्जेद् वैकाम् ऋचम् एकं वा यजुर् एकं वा सामाभिव्याहरेत् । भूर् भुवः स्वः सत्यं तपः श्रअद्धायां जुहोमीति वैतत् ते नो हैवास्यैतद् अहः स्वाध्यायतपाप्तो भवति” । अत्र च वातो वायाद् इत्याद्यनध्यायोपलक्षणम् । ब्रह्मयज्ञानन्तरं देवादितर्पणं कार्यम् । तथा च बृहस्पतिः ।

ब्रह्मयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ।
जप्त्वा वा प्रणवं वापि ततस् तर्पणम् आरभेत् ॥
वसित्वा वसनं शुक्लं स्थले विस्तीर्णबर्हिषि ।
विधियज्ञस् तर्पणं कुर्याण् न पात्रे तु कदाचन ॥
पात्राद् वा मूलम् आदाय शुभे पात्रान्तरे क्षितौ ।
जलपूर्णे ऽथ वा गर्ते न स्थले तु विबर्हिषि ॥

योगयाज्ञवल्क्यः ।

यद्य् उद्धृतं निषिञ्चेत तिलान् संमिश्रयेज् जले ।
अन्यथा वामहस्ते तु ततस् तर्पणम् आचरेत् ॥

तथा ।

अन्वारब्धेन सव्येन नाम्ना गोत्रेण चाप्य् अथ ।
आवाह्य पूर्ववन् मन्त्रैर् आस्तीर्य च कुशाञ् शुभान् ॥
प्रागग्रेषु सुरान् देवान् दक्षिणाग्रेषु वै पितॄन् ।
**सव्यं जानु तथान्वाच्य पाणिभ्यां दक्षिणामुखः ॥ [१३८]

पूर्ववन् मन्त्रैः पूर्व(र्व्ं) याज्ञवल्क्यसंहितायां श्राद्धप्रकरण उक्तैः “विश्वे देवास आगत” “उशन्तस् त्वा” इत्याद्युक्तैः (दिभिः) ।

विश्वे देवास आगत शृणुता म इमं हवम् ।
एदं बर्हिर् निषीदत ॥
उशन्तस् त्वा हवामह उशन्तः समिधीमहि ।
उशन्नुशत आ वह पितॄन् हविषे अत्तवे ॥ इति ।

कात्यायनः ।

देवांस् तु देवतीर्थेन तर्पयेद् अक्षतोदकैः ।\

व्यासः ।

एकैकम् अञ्जलिं देवा द्वौ द्वौ तु सनकादयः ।
अर्हन्ति पितरस् त्रींस् त्रीन् स्त्रियस् त्व् एकैकम् अञ्जलिम् ॥

लिखितः- “उभाभ्याम् अपि हस्ताभ्यां संवृताङ्गुष्ठकाभ्यां प्राङ्मुखो यज्ञोपवीती प्रागग्रैः कुशैर् देवतातर्पणं देवतीर्थेन कुर्यात्” । योगयाज्ञवल्क्यः ।

ब्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं प्रजापतिम् ।
देवांश् छन्दांसि वेदांश् च ऋषींश् चैव तपोधनान् ॥
आचार्याश् चैव गन्धर्वान् आचार्यतनयांस् तथा ।
संवत्सरं सावयवं देवीश् चाप्सरसस् तथा ॥
तथा देवान् नगान् नागान् सागरान् पर्वतांस् तथा ।
सरितो ऽथ मनुष्यांश् च यक्षान् रक्षांसि चैव हि ॥
पिशाचांश् च सुपर्णांश् च भूतान्य् अथ पशूंस् तथा ।
वनस्पतींश् चौषधीश् च भूतग्रामं चतुर्विधम् ॥

विष्णुसमुच्च्यात् ।

ततः कृत्वा निवीतं तु यज्ञसूत्रम् अतन्द्रितः ।
प्राजापत्येन तीर्थेन मनुष्यांस् तर्पयेत् पृथक् ॥

कार्ष्णाजिनिः ।

सनकश् च सनन्दश् च तृतीयश् च सनातनः ।
कपिलश् चासुरिश् चैव वोढः पञ्चशिखस् तथा ॥
एते ब्रह्मसुताः सप्त मनुष्याः परिकीर्तिताः ॥

पद्मपुराणात् ।

मरीचिम् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठं च भृगुं नारदम् एव च ॥

बौधायनः- “अथ दक्षिणतः प्राचीनावीती पितॄन् स्वधा नमस् तर्पयामि । पितामहान् स्वधा नमस् तर्पयामि । प्रपितामहान् स्वधा नमस् तर्पयामि । मातॄः स्वधा नमस् तर्पयामि” इत्यादि । [१३९] तथा- “अनुतीर्थम् अप उपसिञ्चति ऊर्जं वहन्तीर् अमृतं घृतं मधु पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत तृप्यत तृप्यत” इत्यादि । पुराणात् पुनर् अवसानाञ्जलिमन्त्रः ।

ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः ।
तेषां हि दत्तम् अक्षय्यम् इदम् अस्तु तिलोदकम् ॥

मत्स्यपुराणे ।

देवासुरास् तथा यक्षा नागा गन्धर्वराक्षसाः ।
पिशाचा गुह्यकाः सिद्धाः कूष्माण्डास् तरवः खगाः ॥
जलेचरा भूनिलया वाय्वाधाराश् च जन्तवः ।
तृप्तिम् एते प्रयान्त्व् आशु मद्दत्तेनाम्बुनाखिलाः ॥
नरकेषु च सर्वेषु यातनासु च ये स्थिताः ।
तेषाम् आप्यायनायैतद् दीयते सलिलं मया ॥
ये ऽबान्धवा बान्धवा वा ये ऽन्यजन्मनि बान्धवाः।
ते तृप्तिम् अखिला यान्तु यश् चास्मत्तो ऽभिवाञ्छति ॥

योगयाज्ञवल्क्यः ।

कव्यवाड् अनलः सोमो यमश् चैवार्यमा तथा ।
अग्निष्वात्ताः सोमपाश् च तथा बर्हिषदो ऽपि च ॥
यदि स्याज् जीवपितृक एतान् विद्यात् तदा पितॄन् ।
येभ्यो वापि पिता दद्यात् तेभ्यो वापि प्रदापयेत् ॥
वसून् रुद्रांस् तथादित्यान् नमस्कारस्वधान्वितान् ।
एतांश् चैव प्रमीतांश् च प्रमीतपितृको द्विजः ॥

तर्पेयेद् इति शेषः । कव्यावाहम् अनलं तर्पयामीति प्रयोगः । असमर्थस्य संक्षेपतर्पणम् आह विष्णुपुराणम् ।

आ ब्रह्मस्तम्बपर्यन्तं जगत् तृप्यत्व् इति ब्रुवन् ।
दद्यात् पयोञ्जलींस् त्रींस् तु कुर्वन् संक्षेपतर्पणम् ॥

योगयाज्ञवल्क्यः ।

निष्पीड्य स्नानवस्त्रं तु प्रक्षाल्य प्रयतः शुचिः ।
देवानाम् अर्चनं कुर्याद् ब्रह्मादीनाम् अमत्सरः ॥
विष्णुर् ब्रह्मा च रुद्रश् च विष्णुर् देवो दिवाकरः ।
तस्मात् पूज्यतमं नान्यम् अहं मन्ये जनार्दनात् ॥ \

[१४०] दद्यात् पुरुषसूक्तेन यः पुष्पाण्य् अप एव वा ।

अर्चितं स्याज् जगद् इदं तेन सर्वं चराचरम् ॥

पूजायाम् असमर्थस्यैतत् । ब्रह्मयज्ञानन्तरं नृसिंहपुराणे ।

ततो ऽर्घ्यं मानवे दद्यात् तिलपुष्पजलान्वितम् ।
उत्क्षिप्य मूर्धपर्यन्तं हंसः शुचिषद् इत्य् अपि ॥
जले देवं नमस्कृत्य ततो गृहगतः पुनः ।
विधेः पुरुषसूक्तस्य तत्र विष्णुं समर्चयेत् ॥

हंसः शुचिषद् इति वामदेव ऋषिः । जगती छन्दः । सूर्यो देवता । तथा ।

अप्स्व् अग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च ।
षट्स्व् एतेषु हरेः सम्यगर्चनं मुनिभिः स्मृतम् ॥
अग्नौ क्रियावतां देवो दिवि देवो मनीषिणाम् ।
प्रतिमास्व् अल्पबुद्धीनां योगिनां हृदये हरिः ॥
आप आयतनं तस्य तस्मात् तासु सदा हरिः ।
तस्य सर्वगतत्वाच् च स्थण्डिले भावितात्मनः ॥
अ(आ)नुष्टुभस्य सूक्तस्य त्रिष्टुभ(ब)न्तस्य देवता ।
पुरुष्ō यो जगद्बीजम् ऋषिर् नारायणः स्मृतः ॥
प्रथमां विन्यसेद् वामे द्वितीयां दक्षिणे करे ।
तृतीयां वामपादे तु चतुर्थीं दक्षिणे न्यसेत् ॥
पञ्चमीं वामजानौ तु षष्ठीं वै दक्षिणे न्यसेत् ।
सप्तमीं वामकुक्षौ तु अष्टमीं दक्षिणे न्यसेत् ॥
नवमीं नाभिमध्ये तु दशमीं हृदये तथा ।
एकादशीं कण्ठदेशे वामबाहौ तु द्वादशीम् ॥
त्रयोदशीं दक्षिणे तु आस्यदेशे चतुर्दशीम् ।
अक्ष्णोः पञ्चदशीं चैव षोडशीं मूर्ध्नि विन्यसेत् ॥
एवं न्यासविधिं कृत्वा पश्चाद् ध्यानं समाचरेत् ।
आद्ययावाहयेद् देवम् ऋचा तु पुरुष्ōत्तमम् ॥
द्वितीययासनं दद्यात् पाद्यं चैव तृतीयया ।

[१४१] अर्घ्यं चतुर्थ्या दातव्यं पञ्चम्याचमनीयकम् ॥

षष्ठ्या स्नानं प्रदातव्यं सप्तम्या वस्त्रम् एव च ।
यज्ञोपवीतम् अष्टम्या नवम्या त्व् अनुलेपनम् ॥
पुष्पं दशम्या दातव्यम् एकादश्या तु धूपकम् ।
द्वादश्या दीपकं दद्यात् त्रयोदश्या निवेदनम् ॥
चतुर्दश्या नमस्कारं पञ्चदश्या प्रदक्षिणम् ।
अर्चयित्वा तु देवेशं षोडश्या च विसर्जनम् ॥
स्नाने वस्त्रे च नैवेद्ये दद्याद् आचमनीयकम् ।
षण्मासात् सिद्धिम् आप्नोति एवम् एव समर्चयन् ॥
ध्येयः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासनसंनिविष्टः ।
केयूरवान् कनककुण्डलवान् किरीटी
हारी हिरण्मयवपुर् धृतशङ्खचक्रः ॥ इति ।

योगयाज्ञवल्क्यः ।

एवं संपूज्य देवेशं क्षणं ध्यात्वा निरञ्जनम् ।
ततो ऽवलोकयेद् अर्कं हंसः शुचिषद् इत्य् ऋचा ॥
स याति ब्रह्मणः सद्म स्नात्वेक्षित्वा न यात्य् अधः ॥

नरसिंहपुराणे ।

अष्टाक्षरेण देवेशं नरसिंहं तथा स्वयम् ।
गन्धपुष्पादिभिर् नित्यम् अर्चयेद् अच्युतं नरः ॥
सर्वार्थदायी मन्त्रो ऽयं सर्वपापहरः परः ।
सर्वदुःखहरः श्रीमान् सर्वशान्तिकरः स्मृतः ॥
अष्टाक्षरस्य मन्त्रस्य ऋषिर् नारायणः स्मृतः ।
छन्दश् च देवी गायत्री परमात्मा च देवता ॥
गन्धपुष्पादिसकलम् अनेनैव निवेदयेत् ।
प्रतिमाभ्यर्चितो विष्णुः प्रीतो भवति तत्क्षणात् ॥
किं तस्य बहुभिर् मन्त्रैः किं तस्य बहुभिर् मखैः ।
ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥

पुराणात् ।

शिवं भास्करम् अग्निं च केशवं कौशिकीम् अपि ।
**तायिनं चार्चयेन् नैति देवलोकाद् अधो गतिम् ॥ [१४२]

कौशिकी दुर्गा । तायी बुद्धः ॥ १.१०१ ॥

ब्रह्मयज्ञम् उक्त्वा महायज्ञान् आह ।

बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियाः ।
भूतपित्रमरब्रह्ममनुष्याणां महामखाः ॥ १.१०२ ॥

बलिकर्म भूतयज्ञः । स्वधा पितृयज्ञः । पितृभ्यो ऽन्नादिदानं स्वधाशब्देनोपलक्ष्यते । लौकिके ऽग्नाव् उ(औ)पासने वा सायं प्रातर् अत्र होमो देवयज्ञः । स्वाध्यायो ऽध्ययनविशेषो ब्रह्मयज्ञः । अतिथिपूजनं मनुष्ययज्ञः । एषाम् एव संज्ञान्वयम् आह मनुः ।

अहुतं च हुतं चैव तथा प्रहुतम् एव च ।
ब्राह्मं हुतं प्राशितं च पञ्च यज्ञाः प्रकीर्तिताः ॥
जपो ऽहुतो हुतो होमः प्रहुतो भौतिको बलिः ।
ब्राह्मं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ॥ १.१०२ ॥
देवेभ्यश् च हुताद् अन्नच् छेषाद् भूतबलिं हरेत् ।

देवेभ्यो ऽन्नेष्टौ हव्यं हुतशेषाद् अन्नाद् भूतेभ्यो बलिं हरेत् । अन्नम् अत्र पक्वम् । तथा ।

शालाग्नौ विपचेद् अन्नं लौकिके वापि नित्यशः ।
यस्मिन्न् एव पचेद् अन्नं तस्मिन् होमो विधीयते ॥
लौकिके वैदिके वापि हुतोत्सृष्टे जले क्षितौ ।
वैश्वदेवः प्रकर्तव्यः पञ्चसूनापनुत्तये ॥

आश्वलायनः- “अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयात्” । कात्यायनः ।

हविष्येषु यवा मुख्यास् तदनु व्रीहयः स्मृताः ।
माषकोद्रवगौरादीन् सर्वालाभे ऽपि वर्जयेत् ॥

आपस्तम्बः- “न क्षारलवणहोमो विद्यते । परान्नसंसृष्टस्य हविष्यस्य होमः । उदीचीनं भस्मापोह्य तस्मिञ् जुहुयात् । तद्धुतम् अहुतम् अग्नौ भवति” इति । तस्यार्थः — क्षारलवनपरान्नसंसृष्टहविष्येण होमो ऽग्नौ न कार्यः । “आर्या अन्नसंस्कर्तारः स्युः । हासं श्वासं क्षवथुम् अभिमुखो ऽन्नं वर्जयेत् । [१४३] केशान् अङ्गं वासश् चालभ्याप उपस्पृशेत् । आर्याधिष्ठिता वा शूद्राः संस्कर्तारः स्युः” । तथा- “परोक्षम् अन्नं संस्कृतम् अग्नाव् अधिश्रित्याद्भिः प्रोक्षेत् तद् एव पवित्रम् इत्य् आचक्षते” । दक्षः ।

पञ्चमे च तथा भागे संविभागो यथार्हतः ।
पितृदेवमनुष्याणां कीटानां चोपदिश्यते ॥

व्यासः ।

वैश्वदेवं प्रकुर्वीत स्वशाखाविहितं ततः ।
संस्कृतान्नैर् हविष्यैश् च हविष्यव्यञ्जनान्वितैः ॥
तैर् एवान्नैर् बलिं दद्याच् छेषम् आप्लाव्य वारिणा ।
कृतापसव्यः स्वधया सर्वं दक्षिणतो हरेत् ॥

आपस्तम्बः- “बलीनां तस्य देशसंस्कारो हस्तेन परिमृज्यावोक्ष्य न्युप्य पश्चात् परिषेचनम्” ॥

अन्नं भूमौ श्वचण्डालवायसानां विनिक्षिपेत् ॥ १.१०३ ॥

श्वादीनाम् अन्नं भूमौ निक्षिपेत् । चण्डालशब्दः पतितादिपरिग्रहार्थः । तथा च मनुः ।

शुनां च पतितानां च श्वपचां पापरोगिणाम् ।
वायसानां क्रिमीणां च शनकैर् निक्षिपेद् भुवि ॥

अत्र पतितग्रहणं कपालपाण्यादिपरिग्रहार्थम् । तथा च ब्रमाण्डपुराणम् ।

पूर्वं देवैर् जिता दैत्याः संग्रामाच् च पराजिताः ।
कपालपाणयो जग्मुः केचिन् नग्नव्रतास् ततः ॥
केचिन् मुण्डास् त्व् अञ्जिताक्षाः कषायवसनास् ततः ।
सान्त्व(त्व)ताश् च दुराचाराः शौचारारबहिष्कृताः ॥
नरास्थिकेशसंछन्नाः केचिद् व्याजेन दानवाः ।
अनाश्रमी व्रतस्थश् च जटी मुण्डी वृथा च यः ॥
प्रायश्चित्तादिकं यश् च मूल्येन कथयेन् नरः ।
निर्घृणो भिन्नमर्यादो नास्तिको वेदनिन्दकः ॥
रोगिणां व्रतिनां यश् च सत्रिणां वाथ निन्दकः ।
ऋषीणाम् अथ देवानां निन्दत्य् आत्मानम् एव यः ॥

[१४४] प्रख्यापयति यो विप्रो नाभिमानश् च वेदयेत् ।

कितवो मद्यपश् चैव क्रतूनां क्रयविक्रयी ॥
वणिग् वार्धुषिको ग्रामप्रेषकः पिशुनस् तथा ।
अगारदाही गरदः कुण्डाशी सोमविक्रयी ॥
सामुद्रकृच् छिद्रकृच् च तैलिकः कूटकारकः ।
गुरोश् चालीकनिर्बन्धी गुरोर् वञ्चयिता खलः ॥
मत्तश् चोज्झितवेदश् घातको गुरुतल्पगः ।
संकरस्त्रीरतो बन्धुर् नारीणां लम्पटस् तथा ॥
निक्षेपहारी मायावी तथा कायचिकित्सकः ।
क्रीणन् यो निन्दते(ति) द्रव्यं विक्रीणंश् च प्रशंसति ॥
स्त्रीबालब्राह्मणानां च हन्ता गोघ्नः प्रपञ्चवान् ।
वर्णसंकरकृद् यश् च कारुकश् च विकर्मकृत् ॥
स्वजातिधर्मसंत्यागी परकर्मरतश् च यः ।
पिबेच् छुक्रं च य पुंसां स च दुष्टो मुखेभगः ॥
एते दैत्याः समाख्याता न तु सृष्टाः स्वयंभुवा ।
यज्ञेषु रक्षसां भागो देय इत्य् एव संस्मरन् ॥
विघ्नेभ्यो भूतिमद्भ्यश् च तेभ्यो दद्याद् गृहाद् बलिम् ।
ब्राह्मणः स्यात् कृतयुगं पितरस् तत्र देवताः ॥
त्रेतायुगं क्षत्रियश् च तत्र पूज्याश् च देवताः ।
विज्ञेयं द्वापरं वैश्यस् तत्र बुद्धस् तु पूज्यते ॥
शूद्रः कलियुगं तत्र पूज्याः पाषण्डिजातयः ॥ इति ।

भूतबलिदाने मन्त्रः ।

ये भूताः प्रचरन्ति दिवा नक्तं बलिम् इच्छन्तो वितुदस्य प्रेष्याः ।
तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर् दधातु ॥ इति ।

व्यासः ।

ऐन्द्रवारुणवावव्या याम्या वै नैरृतास् तथा ।
वायसाः प्रतिगृह्णन्तु इमं पिण्डं मयार्पितम् ॥
श्वानौ द्वौ शाव(श्याम)शबलौ वैवस्वतकुलोद्भवौ ।
**दत्वानेन विधानेन बलिं पश्चाद् उपस्पृशेत् ॥ [१४५]

अन्नहोमप्रभृति श्वादिभ्यो ऽन्नप्रक्षेपपर्यन्तं वैश्वदेवाख्यं कर्म सायं प्रातः कर्तव्यम् । यद् आह मनुः ।

सायम् अन्नस्य सिद्धस्य पत्न्य् अमन्त्रं बलिं हरेत् ।
वैश्वदेवं हि नामैतत् सायं प्रातर् विधीयते ॥

कर्तॄणां पुंसाम् अलाभे पत्नी वैश्वदेवं मन्त्ररहितं कुर्यात् । बलिग्रहणं वैश्वदेवोपलक्षणार्थम् । तथा च गौतमः ।

सायं प्रातर् वैश्वदेवः कर्तव्यो बलिकर्म च ।
अनश्नतापि सततम् अन्यथा किल्बिषी भवेत् ॥

तस्य प्रातर् उपक्रमः सायम् अपवर्गः । यद् आह लौगाक्षिः- “दिवाचरेभ्यो भूतेभ्य इति दिवा । नक्तंचरेभ्यो भूतेभ्य इति नक्तम्” ॥ १.१०३ ॥

अन्नं पितृमनुष्तेभ्यो देयम् अप्य् अन्वहं जलम् ।

अन्नं पित्रादिभ्यो ऽन्वहं प्रतिदिनं देयम् । पुत्रिकापुत्रेण तु मातामहादिभ्यस् त्रिभ्यो द्व्यामुष्यायणैस् तूभयेभ्यः । तद् आय व्याघ्रः ।

दद्यान् मातामहश्राद्धं नियमात् पुत्रिकासुतः ।
उभयोर् अथ संबन्धात् (?) कुर्यात् स उभयोर् अपि ॥

अस्याम् उत्पन्नम् अपत्यं तव मम स्वधाकरं भवत्व् इति कन्यादातुर् वरेण सह संप्रतिपत्तौ कृतविवाहायाः पुत्र उभयसंबद्धः । मनुष्येभ्यो ऽतिथिभ्यो ऽन्वहं प्रतिदिनं देयम् । अन्वहम् इति प्रत्येकम् अभिसंबध्यते । अन्नाभावे जलम् । अत्रान्वहम् इति विधीयते ऽन्यद् अनूद्यते । मनुः ।

कुर्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन वा ।
पयोमूलफलैर् वापि पितृभ्यः प्रीतिम् आहरन् ॥

लघुहारीतः ।

नित्यश्राद्धम् अदैवं स्याद् अर्घ्यपिण्डादिवर्जितम् ।

मत्स्यपुराणे ।

नित्यं तावत् प्रवक्ष्यामि अर्घ्यावाहनवर्जितम् ।
अदैवं तद् विजानीयात् पार्वणं पर्वसु स्मृतम् ॥

कात्यायनः ।

अप्य् एकम् आशयेद् विप्रं पितृयज्ञार्थसिद्धये ।
अदैवं नास्ति चेद् अन्यो भोक्ता भोज्यम् अथापि वा ॥
अभ्युद्धृत्य यथाशक्ति किंचिद् अन्नं यथाविधि ।
पितृभ्यो ऽथ मनुष्येभ्यो दद्याद् अहर् अहर् द्विजः ॥
**पितृभ्य इदम् इत्य् उक्त्वा स्वधाकारं च कारयेत् ॥ [१४६]

अदैवम् इत्यन्तम् एकं वाक्यम् । नास्ति चेद् अन्य इत्य् अपरम् । देवलः ।

अघृतं भोजयन् विप्रः स्वगृहे सति सर्पिषि ।
परत्र निरयं घोरं गृहस्थः प्रतिपद्यते ॥
मिष्टम् अन्नं स्वयं भुक्त्वा पश्चात् कदशनं लघु ।
ब्राह्मणं भोजयन् विप्रो निरयं विरम् आवसेत् ॥

शातातपः ।

भूतयज्ञस् तथा श्राद्धं नित्यं त्व् अतिथितर्पणम् ।
क्रमेणानेन कर्तव्यं स्वाध्याध्ययनं सदा ॥

नित्यम् इति श्राद्धविशेषणम् । प्रचेताः ।

नाग्नौकरणं नावाहनं न पिण्डा न विसर्जनम् ।
अनुव्रज्या दक्षिणा च त्रिभ्यश् चातिथिकल्पनम् ॥

त्रिभ्यश् चाधिकस्य विप्रस्याधिगतस्यातिथित्वं कल्प्यम् । मार्कण्डेयपुराणम् ।

कुर्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन वा ।
पितॄन् उद्दिश्य विप्रांस् तु भोजयेद् विप्रम् एव वा ॥

नारायणः ।

नियुज्यैकम् अनेकं वा श्रोत्रियं प्राङ्मुखं सदा ।
निवीती तद्गतमना ऋषीन् ध्यायन् समाहितः ॥
आसनं चार्घ्यदानं च भुक्तवद्वाचनं ततः ।
स्वशक्त्या चान्नम् उद्धृत्य हन्तेत्य् एवं प्रकल्पयेत् ॥
स्वाध्यायं चान्वहं कुर्यान् न पचेद् अन्नम् आत्मने ॥ १.१०४ ॥

स्वशाखाध्ययनं स्वाध्यायो न तु स्वशाखैव, तस्या अकार्यत्वात् । ततश् च स्वशाखाध्ययनम् अन्वहम् अनुदिनं कुर्यात् । ब्रह्मयज्ञस्यैतत् पुनर् वचनम् अन्वहम् इति गुणविधानार्थम् । तथात्मार्थम् अन्नं न पचेत् । अत्रात्मनः कैवल्यं विवक्षितम् । तेन देवादीनाम् आत्मनश् च कृते पाको न दोषाय । यद् आह मनुः ।

देवातिथिभृत्यानां पितॄणाम् आत्मनश् च यः ।
न निर्वपति पञ्चानाम् उच्छ्वसन् न स जीवति ॥

एवं च ।

अघं स केवलं भुङ्क्ते यः पचत्य् आत्मकारणात् ।

इति स्ववाक्येनाविरोधः । अत एव श्रुतिः- “केवलाघो भवति केवलादी” इति ॥ १.१०४ ॥

बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः ।
संभोज्यातिथिभृत्यांश् च दम्पत्योः शेषभोजनम् ॥ १.१०५ ॥

[१४७]

बालादीन् अतिथींश् च भोजयित्वा भुक्तावशिष्टं दम्पती भुञ्जीयाताम् । असामर्थ्याद् बालस् तथा वृद्धः, परिणीता कन्या पितृगृहे स्थिता स्ववासिनी, गर्भपुष्ट्यर्थं गर्भिणी क्षीणत्वाद् आतुरो वचनाद् अतिथिर् गृहव्यापारसाधकत्वाद् भृत्याः । मनुः ।

सुवासिनीः कुमारीश् च रोगिणो गर्भिणीस् तथा ।
अतिथिभ्यो ऽग्र एवैनान् भोजयेद् अविचारयन् ॥
अदत्वा तु य एतेभ्यः पूर्वं भुङ्क्ते ऽविचक्षणः ।
स भुञ्जानो न जानाति श्वगृध्रैर् जग्धिम् आत्मनः ॥

श्वभिर् गृध्रैश् चात्मानं भक्ष्यमाणं न जानातीत्य् अर्थः । ततश् च बालप्रभृतिभिः सह भोजनं न प्रत्यवायायेति ॥ १.१०५ ॥

अपोशानेनोपरिष्टाद् अधस्ताच् चैव बुञ्जता ।
अनग्नम् अमृतं चैव कार्यम् अन्नं द्विजन्मना ॥ १.१०६ ॥

अपोऽशानेय् उपनेता माणवकं प्रेष्यति । तेन च प्रेषेण तदर्थो ऽत्र लक्ष्यते — अपोशानेनेति । ततश् चापोशानेन भोजनाद् ऊर्ध्वं पुरस्ताच् च क्रियमाणेनान्नम् अनग्नम् अमृतं च द्विजातिना कार्यम् । वृद्धशातातपः ।

परिधानम् अपोशानं पूर्वम् आच्छादनं परम् ।
भवत्य् अन्नम् अनग्नं हि सोत्तरीयं तथामृतम् ॥

बौधायनः ।

उपलिप्ते समे स्थाने शुचौ श्लक्ष्णसमन्विते ।
चतुरश्रं त्रिकोणं तु वर्तुलं चार्धचन्द्रकम् ॥
कर्तव्यम् आनुपूर्व्येण ब्राह्मणादिषु मण्डलम् ॥

ब्रह्मपुराणे ।

अन्नं दृष्ट्वा प्रणम्यादौ प्राञ्जलिः कथयेत् ततः ।
अस्माकं नित्यम् अस्त्व् एतद् इति भक्त्याथ वन्दयेत् ॥

बौधायनः- “सर्वावश्यकावसरेषु प्रक्षालितपाणिपादो ऽप आचम्य शुचौ संव्र्त्ते देशे प्राङ्मुख उपविश्योद्धृतम् आह्रियमाणं भूर् भुवः स्वर् ओम् इत्य् उपस्थाय वाचं यच्छेन् न्यस्तं तु महाव्याहृतिभिः । प्रदक्षिणम् अन्नम् उदकं परिषिच्य सव्येन पाणिनाविमुञ्चन्न् अमृतोपस्तरणम् असीति पुरस्ताद् अपः पीत्वा पञ्चान्नेन प्राणाहुतीर् [१४८] जुहोति श्रद्धायां प्राणे निविष्टो ऽमृतं जुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाहा” । अपाने व्यान उदाने समाने निविष्ट इत्यादि यथालिङ्गम् अनुषङ्गः । “एवं पञ्चान्नेन तूष्णीं भूयो व्रतयेत् । प्रजापतिं मनसा ध्यायेत् । अथाप्य् उदाहरन्ति-

आसीनः प्राङ्मुखो ऽश्नीयाद् वाग्यतो ऽन्नम् अक्त्सयन् ।
अस्कन्दयंस् तन्मनाश् च भुक्त्वाग्निं समुपस्पृशेत् ॥

हुतानुमन्त्रणम् ऊर्ध्वहस्तः समाचरेत् । श्रद्धायां निविश्यामृतं हुतं शिवो मा शिवम् आविश प्राणम् अन्नेनाप्यायस्व” । श्रद्धायाम् अपाने श्रद्धायां व्याने श्रद्धायाम् उदाने श्रद्धायां समाने निविश्येत्यादि यथालिङ्गम् अनुषङ्गः । “ब्रह्मणि म आत्मामृतत्वायेत्य् अक्षरेणात्मानं योजयेत् । सर्वत्र क्रतुयाजिनाम् आत्मयाजी विशिष्यते । स एवम् एवाह रहः सायं प्रातर् जुहुयाद् अद्भिर् वा सायम्” । तथा ।

ब्रह्मचारी गृहस्थश् च यो ऽनश्नंस् तु तपश् चरेत् ।
प्राणाग्निहोत्रलोपेन अवकीर्णी भवेत् तु सः ॥

“अन्यत्र प्रायश्चित्तात् प्रायश्चित्ते तद् एव विधानम्” । प्रायश्चित्ते तद् एव विधानम् इति, प्रायश्चित्ते कर्तव्यम् इत्य् अर्थः । “अथाप्य् उदाहरन्ति —

अन्तरा प्रातराशं च सायमाशं तथैव् च ।
सदोपवासि भवति यो न भुङ्क्ते कदाचन ॥”

आपस्तम्बः- “आचम्य चोर्ध्वं पाणी धारयेद् आ प्रोदकीभावात् । ततो ऽग्निम् उपस्पृशेत्” । प्रगतम् उदकं याम्यां तौ प्रोदकौ । हारीतः- “न कार्ष्णायसे मृन्मये वाश्नीयात्” । विष्णुः- [१४९] “न गोब्राह्मणोपरागे ऽश्नीयात् । न राजव्यसने प्रवसितश् चाग्निहोत्री यदाग्निहोत्रं कुतं मन्येत तदाश्नीयात् । यदा कृतं मन्येत वैश्वदेवम् अपि पर्वणि च यदा पर्वकृतं मन्येत । नाश्नीयाच् चाजीर्णे नार्धरात्रे न मध्याह्ने न संध्ययोः । नार्द्रवासा नैकवासा न नग्नो न भिन्नासनगतो न शयनगतो न भिन्नभाजने नोद्धृतस्नेहं न दिवा धाना न रात्रौ तिलसंबद्धं दधि न सक्तून् न कोविदारवटपिप्पलशणशाकं नादत्वा नाहुत्वा नार्द्रपादो नानार्द्रकरमुखश् च नोच्छिष्टो घृतम् आदद्यात् । न चन्द्रार्कतारका निर्तीक्षेत न मूर्धानं स्पृशेत् । स्रग्व्य् अनुलिप्तश् च न निःशेषकृत् स्याद् अन्यत्र दधिमधुसर्पिःपयःसक्तुपललोदकेभ्यः ।

नाश्नीयाद् भार्यया सार्धं नाकाशे न तथोत्थितः ।
बहूनां प्रेक्षमाणानां नैकस्मिन् बहवस् तथा ॥
शून्यालये वह्निगृहे देवागारे कथंचन ॥

ताम्ररजतसुवर्णशङ्खस्फटिकाश्मनां भिन्नम् अभिन्नम् इत्य् अदोषः” । मार्कण्डेयः ।

न्यस्तपात्रस् तु भुञ्जीत पञ्च ग्रासान् महामुने ।
शेषम् उद्धृत्य भोक्तव्यं श्रूयताम् अत्र कारणम् ॥
विप्रुषां चोपसंस्पर्शः पादचैलरजस् त्व् अधः ।
मुखेन भुङ्क्ते विप्रो ऽपि पित्रर्थे न तु लिप्यते ॥

पैतृके भोजने भूमिपात्रप्रतिष्ठापनं न लेपनीयम् इत्य् अर्थः । विष्णुपुराणे ।

अश्नीयात् तन्मना भूत्वा पूर्वं तु मधुरं रसम् ।
लवणाम्लौ तथा मध्ये कटुतिक्तादिकांस् तथा ॥
प्राग् द्रव्यं पुरुषो ऽश्नीयान् मध्ये न कठिनाशनः ।
अन्ते पुनर् द्रवाशी तु बलारोग्ये न मुञ्चति ॥

शातातपः ।

विद्यमानेन हस्तेन ब्राह्मणो ऽज्ञानदुर्बलः ।
तोयं पिबति वक्त्रेण श्वासौ जायेत नान्यथा ॥
उद्धृत्य वामहस्तेन यस् तोयं पिबति द्विजः ।
सुरापानेन तत्तुल्यं मनुर् आह प्रजापतिः ॥
हस्तौ प्रक्षाल्य गण्डूषं यः पिबेद् अविचक्षणः ।
सदेवांश् च पितॄंश् चैव आत्मानं चैव घातयेत् ॥

गण्डूषो भोजनान्नचुलकः । [१५०] ब्रह्मपुराणे ।

यस् तु पाणितले भुङ्क्ते यस् तु फूत्कारसंयुतम् ।
प्रसृताङ्गुलिभिर् यश् च तस्य गोमांसवच् च तत् ॥
नाजीर्णे भोजनं कुर्यात् स्याच् चेन् नातिबुभुक्षितः ।
हस्त्यश्वरथयानोष्ट्रप्रासादस्थो न भक्षयेत् ॥
श्मशानाभ्यन्तरस्थो वा देवालयगतो ऽपि वा ।
शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥
नार्द्रवासा नार्द्रशिरा न वायज्ञोपवीतवान् ।
न प्रसारितपादो न पादारोपितपादकः ॥
नावसक्तिकसंस्थश् च न च पर्यङ्किकास्थितः ।
न वेष्टितशिराश् चापि नोत्सङ्गकृतभाजनः ॥
नैकवस्त्रो दुष्टमध्ये सोपानत्कः सपादुकः ।
न चर्मोपरि संस्थश् च चर्मवेष्टितपार्श्ववान् ॥
ग्रासशेषं च नाश्नीयात् पीतशेषं पिबेन् न च ।
शाकमूलफलेक्षूणि दन्तच्छेदेन भक्षयेत् ॥
सेचयेन् नान्नम् अन्नेन विक्षिप्तं पात्रसंस्थितम् ।
बहूनां भुञ्जतां मध्ये न चाश्नीयात् त्वरान्वितः ॥
वृथा न विकिरेद् अन्नं नोच्छिष्टः कुत्रचिद् व्रजेत् ॥

शङ्खः- “नानियुक्तो ऽग्रासनं गच्छेत् । नाग्रासनस्थः प्रथमम् अश्नीयात् । नाधिकं दद्यान् न प्रतिगृह्णीयात्” । बृहस्पतिः ।

न स्पृशेद् वामहस्तेन भुञ्जानो ऽन्नं कदाचन ।
न पादं न शिरो बस्तिं न पदा भाजनं स्पृशेत् ॥

आपस्तम्बः- “मनाग् भुञ्जीत तथा प्रासादकृतभूमौ भुञ्जीत” । देवलः ।

भुक्तोच्छिष्टं समादाय सर्वस्मात् किंचिद् आचमेत् ।
उच्छिष्टभागधेयेभ्यः सोदकं निर्वपेद् भुवि ॥

अत्र मन्त्रः ।

रौरवे ऽपुण्यनिलये पद्मार्बुदनिवासिनाम् ।
प्राणिनां पूर्वभूतानाम् अक्षय्यम् उपतिष्ठताम् ॥ इति ।
भुक्त्वाचामेद् यथोक्तेन विधानेन समाहितः ।
**शोधयेन् मुखहस्तौ च मृद्भिर् घर्षणैर् अथ ॥ [१५१]

व्यासः ।

अद्भिः प्राणान् समालभ्य नाभिं पाणितलेन च ।
भुक्त्वा चैव प्रतिष्ठेत न चाप्य् आर्द्रेण पाणिना ॥
आचान्तो ऽप्य् अशुचिस् तावद् यावत् पात्रम् अनुद्धृतम् ।
उद्धृते ऽप्य् अशुचिस् तावद् यावन् नोन्मृज्यते मही ॥

विष्णुपुराणे ।

स्वस्थः प्रशान्तचित्तस् तु कृतासनपरिग्रहः ।
अभिष्टदेवतानां तु कुर्वीत स्मरणं नरः ॥
अग्निर् आप्यययन् धातुं पार्थिवं पवनेरितः ।
दन्तावकाशं नभसा जरयत्वस्तु मे मुखम् ॥
अन्नं बलाय मे भूमेर् अपाम् अग्न्यनिलस्य च ।
भवत्व् एतत् परिणतौ ममास्तु विहितं सुखम् ॥
प्राणापानसमानानाम् उदानव्यानयोस् तथा ।
अन्नं पुष्टिकरं चास्तु ममास्तु विहितं सुखम् ॥
अगस्तिर् अग्निर् वडवानलश् च भुक्तं मयान्नं जरयन् त्व् अशेषम् ।
सुखं च मे तत् परिमाणसंभवं यच्छन्त्व् अरोगो मम चास्तु देहे ॥
विष्णुः समस्तेन्द्रियदेहभेदप्रधानभूतो भगवान् यथैकः ।
सत्येन तेनान्नम् अशेषम् अन्तराद् आरोग्यदो मे परिणामम् एतु ॥
विष्णुर् अत्ता तथैवान्नं परिणामश् च वै यथा ।
सत्येन तेन मद्भुक्तं जीर्यत्व् अन्नम् इदं तथा ॥
इत्य् उच्चार्य स्वहस्तेन परिमृज्य तथोदरम् ।
अनायासप्रदायीनि कुर्यात् कर्माण्य् अतन्द्रितः ॥
नाद्यात् सूर्यग्रहात् पूर्वम् अह्नि सायं शशिग्रहात् ।
ग्रहकाले च नाश्नीयात् स्नात्वाश्नीयाच् च मुक्तयोः ।
स्नात्वा दृष्ट्वा परे ऽहन्य् अद्याद् ग्रस्तास् तमितयोस् तथा ॥

स्मृत्यन्तरम् ।

भुक्त्वाङ्गुलितलं घृष्ट्वा नेत्रयोर् यत् प्रदीयते ।
अचिरेणैव तद् वारि तिमिराणि व्यपोहति ॥

तथा ।

शर्यातिं च सुकन्यां च च्यवनं शक्रम् अश्विनौ ।
भोजनान्ते स्मरेन् नित्यं चक्षुरोगैर् बाध्यते ॥ १.१०६ ॥

[१५२]

अतिथित्वे तु वर्णानां देयं शक्त्यानुपूर्वशः ।

ब्राह्मणादीनां वर्णानाम् अतिथिभावे सति ब्राह्मणादिक्रमेण ते भोजयितव्याः, यदि शक्नुयात् । अशक्तस्य ब्राःमणातिथिभोजनं नियतम् । यद् आह बौधायनः- “अथातः पञ्च महायज्ञास् तान्य् एव महासत्राणि, देवयज्ञः पितृयज्ञो ब्रह्मयज्ञो भूतयज्ञो मनुष्ययज्ञ इत्य् अहर् अहर् देवेभ्यः स्वाहा कुर्याद् ओदपाराद् अथैनं पितृयज्ञं समाप्नोति । अहर् अहः स्वाध्यायम् अधीयीता प्रणवाद् अथैनं ब्रह्मयज्ञं समाप्नोति । अहर् अहर् भूतेभ्यो बलिं हरेद् आ पुष्पेभ्यो ऽथैनं भूतयज्ञं समाप्नोति । अहर् अहर् ब्राह्मणेभ्यो ऽन्नं दद्याद् आ मूलफलशाकेभ्यो ऽथैनं मनुष्ययज्ञं समाप्नोति” । अतश् चातिथिपूजाया अकरणे निन्दा ब्राह्मणातिथिपूजनाकरणविषयैव । यद् आह विष्णुः ।

अतिथिर् यस्य भग्नाशो गृहस्थस्य तु गच्छति ।
तस्मात् सुकृतम् आदाय दुष्कृतं तु प्रयच्छति ॥

अत एव मनुः क्षत्रियादीनाम् इच्छयातिथ्यं कार्यम् इत्य् आह ।

यदि त्व् अतिथिधर्मेण क्षत्रियो गृहम् आव्रजेत् ।
भुक्तवत्सु तु विप्रेषु कामं तम् अपि भोजयेत् ॥
वैश्यशूद्राव् अपि प्राप्तौ कुटुम्बे ऽतिथिधर्मिणौ ।
भोजयेत् सह भृत्यैस् ताव् आनृशंस्यं प्रयोजयन् ॥ इति ।

आनृशंस्यम् अनैष्ठुर्यम् ॥

अप्रणोद्यो ऽतिथिः सायम् अपि वाग्भूतृणोदकैः ॥ १.१०७ ॥

सायमगतो ऽतिथिर् अप्रणोद्यो ऽप्रत्याख्येयः । आशयितव्य इत्य् अर्थः । यद् आह मनुः ।

अप्रणोद्यो ऽतिथिः सायं सूर्योढो गृहमेधिना ।
काले प्राप्तस् त्व् अकाले वा नास्यानश्नन् गृही वसेत् ॥ इति ।

अशनाभावे तु वाग्भूतृणोदकैर् अप्य् अप्रणोद्यः । अप्य् एतैर् आतिथ्यं कुर्याद् इत्य् अर्थः । तथा च आपस्तम्बः- “काले स्वामिन्नाव् अन्नार्थिनं न प्रत्याचक्षीयाताम् अन्नाभावे भूमिर् उदकं तृणानि कल्याणी वाग् इत्य् एतानि” ॥ १.१०७ ॥

सत्कृत्य भिक्षवे भिक्षा दातव्या सव्रताय च ।

[१५३]

भिक्षवे यतये सव्रताय ब्रह्मचारिणे च सत्कृत्य पूजयित्वा भिक्षा देया । ग्रासपरिमितम् अन्नं भिक्षा । नृसिंहपुराणे ।

भिक्षां च भिक्षवे दद्यात् परिव्राड्ब्रह्मचारिणे ।
अकल्पितान्नाद् उद्धृत्य सर्वव्यञ्जनसंयुतम् ॥
अकृते वैश्वदेवे तु भिक्षार्थं गृहम् आगते ।
उद्धृत्य वैश्वदेवार्थं भिकां दत्वा विसर्जयेत् ॥

गौतमः- “स्वस्तिवाच्य भिक्षादानम् अप्पूर्वम्” अप्पूर्वम् उदकपूर्वम् । यतिविषयम् एतत् । मार्कण्डेयपुराणे ।

ग्रासप्रमाणा भिक्षा स्याद् अग्रं ग्रासचतुष्टयम् ।
अग्रं चतुर्गुणं तत् तु हन्तकारं विदुर् बुधाः ॥
भोजनं हन्तकारं वा अग्रं भिक्षाम् अथापि वा ।
अदत्वा तु न भोक्तव्यं यथाविभवम् आत्मनः ॥

नित्यश्राद्धातिथ्याभ्यां कर्मान्तरम् एतत् । विष्णुः- “भिक्षुकाभावे चाग्रं गोभ्यो दद्याद् अग्नौ वा प्रक्षिपेत् । भुक्ते ऽप्य् अन्ने विद्यमाने न भिक्षुकं प्रत्याचक्षीत” । गृहस्थेन भुक्ते ऽप्य् अन्ने तस्मिन् विद्यमान् इत्य् अर्थः । चकाराद् गोग्रासादिसंग्रहः । यद् आह ऋष्यशृङ्गः ।

गवां ग्रासं च कुर्वीत नित्यम् एव दिने दिने ।

महाभारते ।

घासमुष्टिं परगवे सान्नं दद्यात् तु यः सदा ।
अकृत्वा स्वयम् आहारं स्वर्गलोकं स गच्छति ॥

ब्रह्मपुराणे ।

सौरभेय्यः स्वर्गहिताः पवित्राः पुण्यराशयः ।
प्रतिगृह्णन्तु मे ग्रासं गावस् त्रैलोक्यमातरः ॥
दद्याद् अनेन मन्त्रेण गवां ग्रासं सदैव हि ।
गवां कण्डूयनं घासं ग्रासम् आह्निकम् एव वा ॥
दत्वा भवेन् नृणां पुण्यं गोप्रदानसमं नृणाम् ॥

भिक्षादानं नैवेदादिदानोपलक्षणम् । यद् ब्रह्मपुराणम् ।

विप्रेभ्यश् चाथ तद् देयं ब्रह्मणे यन् निवेदितम् ।
वैष्णवं सात्वतेभ्यश् च भस्माङ्गेभ्यश् च शांभवम् ॥
सौरं गोभ्यश् च शाक्तेभ्यो देवीभ्यो यन् निवेदितम् ।

[१५४] स्त्रीभ्यश् च देयं मातृभ्यो यद् यत् किंचिन् निवेद्यते ॥

भूतप्रेतपिशाचेभ्यो यत् तद् भूमौ निधापयेत् ॥
भोजयेच् चागतान् काले सखिसंबन्धिवान्धवान् ॥ १.१०८ ॥

सखा मित्रम् । संबन्धिनः श्वशुरविवाह्यादयः । बान्धवा मातृपक्ष्याः । एतान् भोजनकाले प्राप्तान् भोजयेत् । भुक्तवति गृहस्थे प्राप्तान् प्रति मनुर् आह ।

इतरान् अपि सख्यादीन् संप्रीत्या गृहम् आगतान् ।
प्रकृत्यान्नं यथाशक्ति भोजयेत् सह भार्यया ॥

अतश् च वाक्याद् गम्यते भुक्तवति भर्तरि भार्या भुञ्जीतेति ॥ १.१०८ ॥

महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।
सत्क्रियान्वासनं स्वादुभोजनं सूनृतं वचः ॥ १.१०९ ॥

महान्तम् उक्षाणं बलीवर्दं तदलाभे ऽजं श्रोत्रियाय मधुपर्कार्हाय गृहम् आगतायोपकल्पयेत् पचेत् संस्कुर्याद् इति यावत् । तथा च श्रुतिः- “अतिथिर् वा एष एतस्यागच्छति यः सोमः क्रीतस् तस्माद् एतद् यथा राज्ञे वा ब्राह्मणाय वा महोक्षं वा महाजं वा पचेत् तद् उ ह मानुषम्” इति । तथा च बह्वृचब्राह्मणम्- “यावन्तः खलु वै राजानम् अनुयन्ति तेभ्यः सर्वेभ्य आतिथ्यं क्रियते ऽग्निं मन्थन्ति सोमे राजन्य् आगते तद् यथैवादो मनुष्यराज आगते ऽन्यस्मिन् वार्हत्य् उक्षाणं वा वेहतं वा क्षदन्त एवम् एवास्मा एतत् क्षदन्ते यद् अग्निं मन्थन्त्य् अग्निर् ह देवानां पशुः” । ततश् च यः कश्चिद् आह श्रोतिर्यायोपकल्पयेद् वाचा प्रतिपादयेन् न तु हिंस्याद् इति, तच् छ्रुतिविरुद्धम् । न “न हिंस्यात् सर्वभूतानि” इति निषेधो मधुपर्काङ्गभूतां हिंसाम् उपसंक्रामत्य् अग्नीषोमीयहिंसाम् इव । अत एव मनुः।

मधुपर्के च सोमे च पितृदैवतकर्मणि ।
अत्रैव पशवो हिंस्या नान्यत्रेत्य् अब्रवीन् मनुः ॥

तथा च गृह्यकृच् छौनकः- “आचान्तोदकाय गां वेदयन्ते हतो मे पाप्मा पाप्मा मे हत इत् जपित्व्ॐ कुरुतेति कारयिष्यन् माता रुद्राणां दुहिता वसूनाम् इति जपित्वोम् उत्सृजतेत्य् उत्स्रक्ष्यन् नामाम्सो मधुपर्को भवर्ति” । [१५५] अत्र महोक्षमहाजोपकल्पनमुखेन मधुपर्को विधीयते । तथा सत्क्रिया पूजा, अन्वासनं तस्मिन्न् उपविष्ट उपवेशनम् । स्वादुभोजनं सर्पिष्मद् अन्नम् । तथा च वसिष्ठः- “अथाप्य् उदाहरन्ति — क्षत्रियायाभ्यागताय सर्पिष्मद् अन्नम् पचतीति” । सूनृतं वचः कल्याणी वाग् इत्य् एतानि कर्तव्यानि ॥ १.१०९ ॥

प्रतिसंवत्सरं त्व् अर्घ्याः स्नातकाचार्यपार्थिवाः ।
प्रियो विवाह्यश् च तथा यज्ञं प्रत्य् ऋत्विजः पुनः ॥ १.११० ॥

प्रत्यब्दं स्नातकादयो ऽर्घ्या मधुपर्केण पूज्याः । स्नातकः समावृत्तः । आचार्य उक्तलक्षणः । पार्थिवो राजन्यः । प्रियो मनोज्ञः । विवाह्यः स्नुषाया जामातुश् च पिता । ऋत्विज उक्तलक्षणाः । ते सांवत्सरिकमधुपर्कपूजिताः प्रतियज्ञं पुनर् अर्घ्याः । चकारः श्वशुरादिपरिग्रहार्थः । तथा च शौनकः- “ऋत्विजो वृत्वा मधुपर्कम् आहरेत् । स्नातकायोपस्थिताय राज्ञे चाचार्यश्वशुरपितृव्यमातुलानां च” इति । अत्र चोपथितग्रहणात् स्नातकादयो गृहम् आगता एवार्हणीया इति गम्यते । स्नातकपार्थिवादीनां श्रोत्रियत्वे सत्य् अर्हणम्, अन्यथा

महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।

इति विरोधः स्यात् ॥ १.११० ॥

अतिथौ श्रोत्रिये च यथा वर्तितव्यं तथोक्तम् । अधुना तयोर् लक्षणम् आह ।

अध्वनीनो ऽतिथिर् ज्ञेयः श्रोत्रियो वेदपारगः ।

तथा च मनुः ।

एकरात्रं हि निवसन्न् अतिथिर् ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते ॥

यश् च यथाविधि वेदाध्ययनस्य पारं गतवान् स श्रोत्रियः । वेदशब्देनात्र स्वशाखोच्यते । तथा च आपस्तम्बः- “धर्मेण वेदानां चैकैकम् अधीत्य श्रोत्रियो भवति” । अध्येतृभेदेनैकम् इति वीप्सोपपत्तिः । अत एव बौधायनः- “एकां शाखाम् अधीत्य श्रोत्रियो भवति” इति ॥

मान्याव् एतौ गृहस्थस्य ब्रह्मलोकम् अभीप्सतः ॥ १.१११ ॥

[१५६]

एताव् अतिथिश्रोत्रियौ ब्रह्मलोककामेन गृहस्थेन मान्यौ पूज्यौ । नित्यस्याप्य् अस्यानुषङ्गिकं फलम् एतद् इति वचनसामर्थाद् गम्यते । श्रोत्रियस्य स्नातकपार्थिवत्वादिविशिष्टस्य मधुपर्करूपम् अर्हणम् उक्तं श्रोत्रियत्वमात्रेणातिथित्वमात्रेण वा विशिष्टस्य माननम् अनेन फलाय विधीयत इत्य् अनुसंधेयम् ॥ १.१११ ॥

किं च

परपाकरुचिर् न स्याद् अनिन्द्या मन्त्रणाद् ऋते ।

अनिन्द्यम् आमन्त्रयितारं वर्जयित्वा परस्यान्नं नाभिलषेत् । कात्यायनः- “अनिन्द्येनामन्त्रितो नापक्रमेत् । आमन्त्रितो वान्यद् अन्नं न प्रतिगृह्णीयात् ॥

वाक्पाणिपादचापल्यं वर्जयेच् चातिभोजनम् ॥ १.११२ ॥

वागादीनां चापल्यम् असंयतत्वं वर्जयेत् । अत्र गौतमः- “न शिश्नोदरपाणिपादचक्षुर्वाक्चापलानि कुर्यात् । अतिभोजनं च वर्जयेत्”, अनारोग्यादिहेतुत्वात् । तथा च मनुः ।

अनारोग्यम् अनायुष्यम् अस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्माट् तत् परिवर्जयेत् ॥

ब्रह्मपुराणे ।

कुर्यात्क्षीरान्तम् आहारं न तु पश्चात् पिबेद् दधि ।
जठरं पूरयेद् अर्धम् अन्नैर् भागं जलेन च ॥
वायोः संचरणार्थाय चतुर्थम् अवशेषयेत् ॥ १.११२ ॥
अतिथिं श्रोत्रियं तृप्तम् आ सीमान्तम् अनुवर्जेत् ।

अतिथिं श्रोत्रियं च तृप्तं सन्तम् आ सीमान्तं यावद् अनुव्रजेत् । त्रिविधा सीमा — वास्तुसीमा, ग्रामसीमा, क्षेत्रसीमेति । सा चानुव्रजनीयगुणापेक्षया व्यवस्थापनीया । यद् आह मनुः ।

आसनावसथौ शय्याम् अनुव्रज्याम् उपासनम् ।
उत्तमेषूत्तमं कुर्याद् धीने हीनं समे समम् ॥ इति ।

गच्छतो ऽनुव्रज्योक्ता । यदि कुतो ऽपि हेतोर् निवसति तदा यत् कार्यं तद् आह शङ्खः- [१५७] “सहासीत प्रदोषे ऽनुज्ञाप्य शयीत पूर्वं प्रतिबुध्येत प्रस्थितम् अनुव्रजेत् । समभ्यनुञ्जातो निवर्तेत” ॥

अहःशेषं समासीत शिष्टैर् इष्टैश् च बन्धुभिः ॥ १.११३ ॥

अहःशेषम् अवशिष्टदिनभागं शिष्टैर् उक्तलक्षणैर् इष्टैः प्रियैश् च बन्धुभिश् च संबन्धिभिर् आसीत । तत्र दक्षः ।

भुक्त्वा तु सुखम् आस्थाय तद् अन्नं परिणामयेत् ।
इतिहासपुराणाभ्यां षष्ठसप्तमकौ नयेत् ॥
अष्टमे लोकयात्रा तु बहिः संध्या ततः परम् ॥ इति ॥

लोकयात्रा लोकस्थितिः ॥ १.११३ ॥

उपास्य पश्चिमां संध्यां हुत्वाग्नींस् तान् उपास्य च ।
भृत्यैः परिवृतो भुक्त्वा नातितृप्त्याथ संविशेत् ॥ १.११४ ॥

पश्चिमां सायं संध्यां यथाविधि उपास्य वन्दित्वाग्नीन् वैतानान् औपासनं वा विधिवद् धुत्वा तान् उपास्याराध्य तद्दै(द्दे)वत्यम् अमन्त्रजपादिना भृत्यैः पुत्रादिभिः परिवृतः समावृतो ऽनतितृप्त्या भुक्त्वावश्यककार्यान्तरं कृत्वा संविशेत्, स्वापार्थं शय्यायाम् अङ्गयष्टिं विन्यसेत् । दक्षः ।

होमो भोजनकालश् च यश् चान्यद् गृहकृत्यकम् ।
कृत्वा चैव ततः पश्चात् स्वाध्यायं किंचिद् आचरेत् ॥
प्रदोषपश्चिमौ यामौ वेदाभ्यासेन तौ नयेत् ।
यामद्वयं शयानस् तु ब्रह्मभूयाय कल्पते ॥

आपस्तम्बः- “सदा निशायां दारान् प्रत्य् अलंकुर्वीत” । दारशब्देनात्र ज्येष्ठा सद्भार्योच्यते । तां प्रय् एवात्मानम् अलंकुर्वीत । नान्यां प्र्तीत्यर्थः । विष्णुः- “नार्द्रपादः स्वप्यान् नोत्तरापरशिरा न नग्नो नानुवंशं नाकाशे न पालाशे शयने न पञ्चदारुकृते न गजभग्नकृते न च्छिन्ने नाग्निप्लुष्टे न घटसिक्तद्रुमजे न श्मशानशून्यालयदेवतायतनेषु न चपलमध्ये नारिमध्ये न [१५८] धान्यगोगुरुहुताशनसुराणाम् उपरि नोच्छिष्टो न दिवा स्वप्यात् । न संध्यायां न सभस्मनि देशे नार्द्रे न पर्वतमस्तके” । उशना- “न तैलाभ्यक्तशिराः स्वपेत् । नादीक्षितः कृष्णचर्मणि” । कृष्णो ऽत्र हरिणः ॥ १.११४ ॥

ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेद् आत्मनो हितम् ।

रात्रेर् उपान्त्यो मुहूर्तो ब्राह्मः, तस्मिन्न् उत्थाय निद्रां हित्वात्मनो हितं चिन्तयेद् विमृशेत् । श्रेयश् च त्रिवर्गात्मकम् । यद् आह मनुः ।

धर्मार्थाव् उच्यते श्रेयः कामार्थौ धर्म एव च ।
अर्थ एवेह वा श्रेयांस् त्रिवर्ग इति तु स्थितिः ॥

धर्माथकामास् त्रिवर्गः । तथैतच् च श्रेयो ऽद्येत्थं मया साधनीयम् इति चिन्तयेत् परिभावयेत् ।

ब्राह्मे मुहूर्ते भुध्येत धर्मार्थाव् अनुचिन्तयेत् ।
कायक्लेशांश् च तन्मूलान् वेदतत्त्वार्थम् एव च ॥

व्यासः ।

किं नु मे स्याद् इदं कृत्वा किं नु मे स्याद् अकुर्वतः ।
इति संचिन्त्य कार्याणि धीरः कुर्वीत वा न वा ॥
उत्थ्यायोत्थाय बोद्धव्यं किम् अद्य सुकृतं कृतम् ।
दत्तं वा दापितं वापि वाक्सत्या वापि भाषिता ॥
उत्थायोत्थाय बोद्धव्यं महद् भयम् उपस्थितम् ।
मरणव्याधिशोकानां किम् अद्य निपतिष्यति ॥
यस्यां रात्र्यां व्यतीतायां न किंचिच् छुभम् आचरेत् ।
तम् एव वन्ध्यं दिवसम् इति विद्याद् विचक्षणः ॥
धर्मार्थकामान् स्वे काले यथाशक्ति न हापयेत् ॥ १.११५ ॥

धर्माङ्गभूते काले धर्मं कुर्यात् । न तद्भाध(धे)नार्थकामौ । एवं धर्माविरुद्धे ऽर्थकाले [१५९] ऽर्थम् एव । तथा तदुभयानवरुद्धे काले कामम् । इत्थं यथाशक्ति धर्मार्थकामेभ्यो न हापिता भवन्ति । तथा च गौतमः- “न पूर्वाह्णमधाह्नान् अफलान् कुर्याद् यथाशक्ति धर्मार्थकामेभ्यस् तेषु तु धर्मोत्तरः स्यात्” । मनुः ।

परित्यजेद् अर्थकामौ स्यातां धर्मविवर्जितौ ।
धर्मं चाप्य् असुखोदर्कं लोकसंक्रुष्टम् एव च ॥ १.११५ ॥

मान्यत्वनिमित्तानि सक्रमकान्य्(ण्य्) आह ।

विद्याकर्मवयोबन्धुवित्तैर् मान्या यथाक्रमम् ।
एतैः प्रभूतैः शूद्रो ऽपि वार्धके मानम् अर्हति ॥ १.११६ ॥

विद्यादिभिस् तद्वन्तो वयोबन्धुवित्तैर् यथानिर्देशकर्मं मान्या भवन्ति । कर्मवयोबन्धुवित्तविद्भिर् विद्यावान् मान्यो वयोबन्धुवित्तवद्भिः कर्मवान् बन्धुवित्तवद्भ्यां वयस्वान् । एवं वित्तवता बन्धुमान् न पुनर् अन्यथा । विद्या पुराणन्यायेत्य् अत्रोक्ता । कर्म विहितक्रिया । वयो मानयितृवयोऽपेक्षयाधिकम् । बन्धवो ज्ञातयः । वित्तम् अर्थः । एतैर् युक्ता द्विजा मान्या भवन्ति । विद्यादिमतां समवाये यथाक्रमं क्रमानतिक्रमेण मानः कार्यः, पूर्वं पूर्वम् उत्तराद् गरीय इत्य् अर्थः । एतैः कर्मादिभिर् गुणैः प्रत्येकं प्रभूतैर् युक्तो वार्धके सति शूद्रो नमस्कारव्यतिरिक्तं मानम् अर्हति । वार्धकम् अत्राशीतेर् उत्तरम् । यद् आह गौतमः- “शूद्रो ऽप्य् अशीतिको वरः” इति । तथा जातिर् अपि मान्यत्वहेतुर् इत्य् आह स एव- “वित्तबन्धुकर्मजातिविद्यावयांसि मान्यानि परबलीयांसि । श्रुतं तु सर्वेभ्यो गरीयस् तन्मूलत्वाद् धर्मस्य” । जातिर् मान्यत्वकारणम् । उत्कृष्टगुणविद्यायुक्तस् तु हीनजातिर् अप्य् उत्कृष्टजातेर् मान्यो भवति । यद् आह मनुः ।

वित्तं बन्धुर् वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद् यद् उत्तरम् ॥
पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।
यत्र स्युः सो ऽपि मानार्हः शूद्रो ऽपि दशमीं गतः ॥

वर्षशतस्योत्तमो दशमो भागो दशमी । संख्यातो भूयांसि, प्रकर्षतो गुणवन्ति । [१६०] तेन जातिम् अनादृत्य बहुविद्यो ऽल्पविद्येन मान्यः । प्रकृष्टविद्यश् चाप्रकृष्टविद्येन । एवं कर्मादिष्व् अपि ॥ १.११६ ॥

वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम् ।
पन्था देयो नृपस् तेषां मान्यः स्नातस् तु भूपतेः ॥ १.११७ ॥

वृद्धो दशमीस्थः, “चक्रिणो दशमीस्थस्य्” इति [स्मृतिः] । वयसो ऽन्तिमावस्था दशमी । भारी भारवान् । नृपो राजन्यः । स्नातः स्नातकः । स्त्रीरोगिणौ प्रसिद्धौ । वरः कन्याम् उद्वोढुं प्रवृत्तः । चक्री शकटवाहकः । एषां पन्था देयः । पथि मिलितेष्व् एतेषु मार्गाद् अपसर्तव्यम् इति । पथि तेषां। समवेतानां नृपो मान्यः । नृपस्य च स्नातको मान्यः स चेद् ब्राह्मणः । यद् आह आपस्तम्बः- “राज्ञः पन्था ब्राह्मणेन समेत्य तु ब्राह्मणस्यैव पन्था यानस्य भाराभिनिहितस्यातुरस्य स्त्रिया इति सर्वैर् दातव्यो वर्णज्यायसां चेतरैर् वर्णैर् अशिष्टपतितमत्तोन्मत्तानाम् आत्मस्वस्त्ययनार्थेन सर्वैर् एव दातव्यः” इति । स्त्री चात्र गर्भिणी ज्ञेया । यद् आह बौधायनः ।

पन्था देयो ब्राह्मणाय गवे राज्ञे ह्य् अचक्षुषे ।
वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥

शङ्खलिखितौ- “पन्था देयो बालप्रव्रजितविद्याशिल्पगुणप्रकृष्टेभ्यः” इति ॥ १.११७ ॥

इज्याध्ययनदानानि वैश्यस्य क्ष्त्रियस्य च ।
प्रतिग्रहो ऽधिको विप्रे याजनाध्यापने तथा ॥ १.११८ ॥

इज्यादिकर्माणि वैश्यक्षत्रिययोः, चकाराद् विप्रस्यापि धर्मसाधनानि । प्रतिग्रहादीनि तु विप्रस्यैव वृत्तिसाधनानि । अधिकत्वं प्रतिग्रहादेर् अप्य् असाधारण्यम् । ब्राह्मणस्यैव प्रतिग्रहादिर् इत्य् अर्थह् । अत एव विप्र इति विषयसप्तमी । अनन्यत्रभा(न्यभा)वश् च विष्यः । अतो ब्राह्मणस्यैव प्रतिग्रहादिवृत्तित्रयम् । यत् पुनः- “अब्राह्मणाद् अध्ययनम् आपत्काले विधीयते” इति, तद् अध्यापनमात्रकर्तृत्वम् अब्राह्मणस्याभ्यनुजानाति, न तु वृत्तित्वम् अपि । अत एवानन्तरम् आह मनुः ।

**अनुव्रज्या च शुश्रूषा यावद् अध्ययनं गुरोः । इति । [१६१]

अनुव्रज्यैव शुश्रूषेत्य् अर्थः । अब्राह्मणो ब्राह्मणस्य यावद् अध्ययनं तावद् एव गुरुः । पश्चाद् ब्राह्मण एवाध्यापितो गुरुः । यद् आह गौतमः- “आपत्कल्पो ब्राह्मणस्याब्राह्मणाद् विद्योपयोगस् तदनुगमनं शुश्रूषा । समाप्ते ब्राह्मणो गुरुः” इति । एवं च- “अजीवन्तः स्वधर्मेणानन्तरां पापीयसीं वृत्तिम् आतिष्ठेरन् न तु कदाचिज् ज्यायसीम्” इति वसिष्ठवचनम्(नं ना)समञ्जसं भवति । इज्याधयनम् इत्य् अत्रेज्याग्रहणेन दानाध्ययनव्यतिरिक्ता द्विजातिधर्मा लक्ष्यते ॥ १.११८ ॥

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।

प्रधानं मुख्यं क्ष्त्रिये प्रजानां परिपालनम् । प्रधानं प्रजापरिपालनाख्यं कर्म धर्महेतुत्वाच् च । वक्ष्यति हि — पुण्यषड्भागम् आदत्त इत्यादिना प्रसङ्गतः पुण्यषड्भागस्यार्थषड्भागस्य चोपादानम् इति ॥

कुसीदं कृषिवाणिज्ये पाशुपाल्यं विशः स्मृतम् ॥ १.११९ ॥

कुसीदं स्वर्णादेर् वृद्ध्युपजीवनम् । कृषिः प्रसिद्धा । वाणिज्यं वणिक्कर्म । ततश् च धान्यादि स्मर्धं गृहीत्वा महार्घं दीयत इति वाणिज्यम् । पाशुपाल्यं पशुरक्षणम् । तत् सर्वं वैश्यस्य मुख्यं वृत्तिकर्म ॥ १.११९ ॥

शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग् भवेत् ।
शिल्पैर् वा विविधैर् जीवेद् द्विजातिहितम् आचरेत् ॥ १.१२० ॥

शूद्रस्य द्विजशुश्रूषा मुख्या वृत्तिः । ब्राह्मणशुश्रूषा तु धर्मो ऽपि । यद् आह मनुः ।

विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते ।
यद् अतो ऽन्यद् धि कुरुते तद् भवेत् तस्य विष्फलम् ॥

विशिष्टम् उत्कृष्टम् । धर्मवृत्तिहेतुत्वात् । निष्फलं धर्मरहितम् इत्य् अर्थः । ततश् च क्षत्रियवैश्यसेवा शूद्रस्य वृत्त्यर्थैव । तद् आह स एव ।

शूद्रस् तु वृत्तिम् आकाङ्क्षन् क्षत्रम् आराधयेद् यदि ।
धनिनं चाप्य् उपाराध्य वैश्यं शूद्रो जिजीविषुः ॥

[१६२] स्वर्गार्थम् उभयार्थं वा ब्राह्मणं न विरोधयेत् ।

या तु ब्राह्मणशब्दस्य सा ह्य् अस्य कृतकृत्य्ता ॥

द्विजैश् च तस्य यथाशक्ति वृत्तिर् विधेयेत्य् आह स एव ।

प्रकल्प्यते ऽस्य तैर् वृत्तिः स्वकुटुम्बाद्य् अथार्हतः ।
शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ॥
उच्छिष्टम् अन्नं दातव्यं जीर्णानि वसनानि च ।
पुलाकाश् चैव धान्यानां जीर्णाश् चैव परिच्छदाः ॥

अपुष्टतण्डुलानि धान्यानि पुलाकाः । परिच्छद उपकरणं । तया द्विजशुश्रूषया न जीवंस् तदा वणिग् भवेत् । वणिज्यया जीवेद् इत्य् अर्थः । शिल्पैर् वा विविधैश् चित्रकर्मादिभिर् जीवेत्,

अश्क्नुवंस् तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।
पुत्रदारात्यये प्राप्ते जीवेत् कारुककर्मभिः ॥

इति च स्मरणान्तरात् । तथा- “यादृशेन कर्मणा क्रियमाणेन द्विजातिशुश्रूषानर्हो न भवति तानि कर्माणि प्रचरणीयानि । यैः प्रचरितैः शुश्रूष्यन्ते द्विजातयस् तानि शिल्पानि कारुकर्माणि च” इति, तत्रापि द्विजातिहितम् आचरणीयम् । तथा च देवलः- “शूद्रधर्मो द्विजातिशुश्रूषा पापवर्जनं कलत्रादिपोषणं कर्षणपशुपालनभारोद्वहनपण्यव्यवहारचित्रकर्मनृत्तगीत-वेणुवीणामुरजमृदङ्गवादनानि” इति । शूद्राधिकारे नरसिंहपुराणम् ।

अयाचितः प्रदाता स्यात् कृषिं वृत्त्यर्थम् आश्रयेत् ।
पुराणं शृणुयाच् चैव नरसिंहस्य पूजनम् ॥

महाभारते ।

दूराच् छूद्रेणोपचर्यो ब्राह्मणो ऽग्निर् इव ज्वलन् ।
संस्पृश्य परिचर्यस् तु वैश्येन क्षत्रियेण च ॥

पुराणश्रवणविधौ भविष्यत्पुराणे ।

शूद्राणां पुरतो वैश्या वैश्यानां क्षत्रियास् तथा ।
क्षत्रियाणां तथा विप्राः शृण्वन्त्य् एकाग्रतः स्थिताः ॥ १.१२० ॥

शूद्रवृत्तीर् अभिधाय धर्मम् आह

भार्यारतिः शुचिर् भृत्यभर्ता श्राद्धक्रियापरः ।
नमस्कारेण मन्त्रेण पञ्च यज्ञान् न हापयेत् ॥ १.१२१ ॥

भार्यायाम् एव रतिर् यस्य स यथोक्तः । अनेन च भार्याव्यभिचारपरिहारो धर्मत्वेनास्य विधीयते । शुचिः शास्त्रीयशौचकर्ता स्यात् । भृत्यभर्ता भृत्यानां पुत्रकलत्रादीनां पोषकः । श्राद्धक्रियापरः श्राद्धानुष्ठाननिष्ठः । उक्तान् पञ्च यज्ञान् नमस्कारात्मकेन मन्त्रेण कुर्यात्, पुनर् अनधीतमन्त्रत्वेन तान् हापयेत् त्यजेत् । मन्त्रशब्दो ऽत्र सकलमन्त्रकार्यनमस्कारविनियोगार्थः । अन्यथा समानार्थतया स्वाहाकारस्वधाकारयोर् एव कार्ये स्यात् । ननु च शूद्रो ऽनग्निः कथम् अग्निसाध्यकर्माधिकारी स्यात् । न चास्य विवाहाग्निर् अस्तीति वाच्यम् । शूद्रस्य विवाहहोमाभावात् । न ह्य् अमन्त्रको ऽस्ति होमः । न च शूद्रो मन्त्रवान् । नमस्कारश् च पञ्चयज्ञेष्व् एव मन्त्रकारे विधीयते । न विवाहे ऽपि । तस्माद् अग्निसाध्येषु कार्येष् वक्तव्यो ऽस्याधिकारहेतुः । उच्यते — अनग्नेर् अपि शूद्रस्य वैश्वदेवादिकर्माणि लौकिके ऽग्नौ कार्याणि तं प्रत्य् एवेह विहितत्वात् । यथा निषादस्थपतीष्टिः । किंचिद् द्विजातीनाम् अपि वैश्वदेवकर्म न विवाहाग्निनियतं किं पुनः शूद्रस्य । यत् तु गौतमेन शूद्रम् अधिकृत्योक्तम्- “पाकयज्ञैः स्वयं यजेतेत्य् एके”, तल् लौकिकाग्निविषयम् ॥ १.१२१ ॥

अधुना सर्ववर्णसाधारणं धर्मम् आह ।

अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः ।
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ १.१२२ ॥

अहिंसाविहितवधवर्जनम् । सत्यं यथार्थवचनम् । तच् च भूतहितम् एव योज्यम्, “सत्यं भूतहितं प्रोक्तम्” इति व्यासवचनात् । सत्यम् अपि प्रियम् एव वाच्यम्,

सत्यं भूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यम् अप्रियम् ।
प्रियं च नानृतं ब्रूयाद् एष धर्मः सनातनः ॥

इति मनुवचनात् । अस्तेयम् अदत्तास्वीकारः । शौचम् अभक्ष्यपरिहारादि । तथा ।

शौचं तु द्विविधं प्रोक्तं बाह्यम् आभ्यन्तरं तथा ।
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस् तथान्तरम् ॥

इन्द्रियनिग्रहो निषिद्धेभ्यो विषयेभ्य इन्द्रियानां निवारणम् । दानं [१६४] प्रत्युपकानानपेक्षया पात्रे स्वधनप्रतिदानम् । दमो निषिद्धान् मनोव्यापारोपरमः । दया भूतहितैषित्वम् । क्षान्तिः क्षमा कोपवर्जनम् । “क्षमा द्वंद्वसहिष्णुत्वम्” इति स्मृत्यन्तरम् । दमः क्षंआर्जवं दानम् इति तु पाठे — आर्जवम् अकौटिल्यम्, समचित्तता वा, “आर्जवं समचित्तता” इति वचनान्तरात् । सर्वेषाम् एव वर्णानाम् अहिंसादि प्रत्येकं धर्मसाधनं भवति, तेषाम् एवात्र प्रकृतत्वात् । धर्मो ऽत्रापूर्वात्मको ऽभिमतः । अत्र व्यासः ।

आनृशंस्यम् अहिंसा च प्रसादः संविभागिता ।
श्राद्धकर्मातिथेयं च सत्यम् अक्रोध एव च ॥
स्वेषु दारेषु संतोषः शौचं नित्यानसूयता ।
आत्मज्ञानं तितिक्षा च धर्मः साधारणो नृप ॥

तथा ।

सत्यं दमस् तपः संतोषो ह्रीः क्षमार्जवम् ।
ज्ञानं शमो दया ध्यानम् एष धर्मः सनातनः ॥
सत्यं बूतहितं प्रोक्तं मनसो दमनं दमः ।
तपः स्वधर्मवर्जित्वं शौचं संकरवर्जनम् ॥
संतोषो विषयत्यागो ह्रीर् अकार्यनिवर्तनम् ।
क्षमा द्वन्द्वसहिष्णुत्वम् आर्जवं समचित्तता ॥
ज्ञानं तत्त्वार्थसंबोधः शमश् चित्तप्रशान्तता ।
दया भूतहितैषित्वम् एष धर्मः सनातनः ॥

बृहस्पतिः।

दया क्षमानसूया च शौचानायासमङ्गलम् ।
अकार्पण्यम् अस्पृहत्वं सर्वसाधारणानि तु ॥
परे वा बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा ।
आपन्ने रक्षितव्यं तु दयैषा परिकीर्तिता ॥
ब्राह्मो चाध्यात्मिके चैव दुःखे चोत्पादिते क्वचित् ।
न कुप्यति न वा हन्ति सा क्षमा परिकीर्तिता ॥
न गुणान् गुणिनो हन्ति स्तौति मन्दगुणान् अपि ।
नान्यदोषेषु रमते सानसूया प्रकीर्तिता ॥
अभक्ष्यपरिहारश् च संसर्गश् चाप्य् अनिन्दितैः ।
स्वधर्मे च व्यवस्थानं शौचम् एतत् प्रकीर्तितम् ॥

[१६५] शरीरं पीड्यते येन सुशुभेनापि कर्मणा ।

अत्यन्तं तन् न कर्तव्यम् अनायासः स उच्यते ॥
प्रशस्ताचरणं नित्यं नाप्रशस्तप्रवर्तनम् ।
एतद् धि मङ्गलं प्रोक्तम् ऋषिभिस् तत्त्वदर्शिभिः ॥
स्तोकाद् अपि प्रदातव्यम् अदीनेनान्तरात्मना ।
अहन्य् अहनि यत् किंचिद् अकार्पण्यं तद् उच्यते ॥
यथोत्पन्नेन संतोषः कर्तव्यो ह्य् अन्नवत् तु वा ।
परस्याचिन्तयित्वार्थं सास्पृहा परिकीर्तिता ॥

शरीरम् अत्यन्तं पीडयते येन तन् न कर्तव्यम् इत्य् अर्थः ॥ १.१२२ ॥

वयोबुद्ध्यर्थवाग्वेशश्रुताभिजनकर्मणाम् ।
आचरेत् सदृशीं वृत्तिम् अजिह्माम् अशठां तथा ॥ १.१२३ ॥

वयः शरीरावस्था बाल्ययौवनादिः । बुद्धिः प्रज्ञा । अर्थो वित्तम् । वाग् भाषणम् । वेशो वस्त्रकचादिविन्यासः । श्रुतं गुरुतः पुराणादिविद्याधिगमः । अभिजनः कुलम् । कर्म योगादि । एषां वृत्तिं स्थितिं सदृशीं परस्परानुरूपाम् अमत्सराम् अजिह्माम् अकुटिलाम् अशठां वाचरेत् । एतद् उक्तं भवति — वयःकर्मार्थश्रुताभिजनानां प्रत्येकम् अनुरूपवेशभाषणबुद्धिवृत्तिः कार्येति । तथा च बृहस्पतिः ।

यथा विद्या यथा कर्म यथा वित्तं यथा वयः ।
जनस् तथैव वर्तेन वेशादिभिर् अनुद्धतः ॥ १.१२३ \

एवं प्रसङ्गेनाभिधाय प्रकृतं द्विजं प्रत्य् आह ।

त्रैवार्षिकाधिकान्नो यः स सोमं हि पिबेद् द्विजः ।

वर्षत्रयं यावद् भृत्यभरणपर्याप्ताद् अन्नाद् अधिकं यस्य विद्यते स द्विजः सोमं पिबेत् । सोमेन यजेतेत्य् अर्थः । मनौ तु विशेषः ।

यस्य त्रैवाषिकं भक्तं पर्याप्तं भृत्यतृप्तये ।
अधिकं वापि विद्येत स सोमं पातुम् अर्थति ॥
अतस् त्व् अल्पीयसि द्रव्ये यः सोमं पिबति द्विजः ।
**स पीतसोमपूर्वो ऽपि न तस्याप्नोति तत् फलम् ॥ [१६६]

नित्यसोमयागविषयम् एतत् । यत आह विष्णुः- “त्रैवार्षिकान्नः प्रत्यब्दं सोमेन यजेत । अभावे वैश्वनर्या” इति । ननु “द्वादश रात्रीर् दीक्षितो भृतिं चिन्वीत” इति विधिसामर्थ्याद् याचितेनैव ऋत्विजां भृतिः कार्येति व्यर्थस् त्रैवार्षिकाधिकान्नो य इति वचनारम्भः । मैवम् । एतद्वाक्यारम्ब्यसामर्थाद् एवैतद् गम्यते — भिक्षमाणस्यालाभे ऽल्पलाभे वा पूर्वार्जितेनापि धनेन यथोक्तं दक्षिणादानं कार्यं न पुनर् अदानम्, दक्षिणाल्पदानं वेति । यत् तु कल्पसूत्रादौ श्रुतौ च “दातव्यैव यज्ञे दक्षिणा भवत्य् अल्पिकापि” इत्यादिवचनम्, तत्रैवार्षिकान्नेनाधिकारिणा प्रारब्धे क्रतौ विनष्टे पूर्वार्जिते धने भिक्षितस्य चापर्याप्तौ द्रष्टव्यम् । अथ वा सदस्य् अप्रसर्पकात्रेयादिभ्यो दानं ब्राह्मणभोजनं च प्रागर्जितेनैव धनेन कार्यं न तु याचितेन । तस्य दक्षिणादान एव नियोगाद् इत्य् अर्थवान् नियमाय वाक्यारम्भः ।

प्राक्सौमिकीः क्रियाः कुर्याद् यस्यान्नं वार्षिकं भवेत् ॥ १.१२४ ॥

सोमयागानुष्ठानात् प्राग् याः क्रिया अगनिहोत्राद्यास् ताः सति वार्षिके भृत्यभरणसमर्थे ऽन्ने कार्याः । एतच् च काम्यविषयं न नित्यविषयं तच् छ्रुतिविरोधप्रसङ्गात् ॥ १.१२४ ॥

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश् च चातुर्मास्यानि चैव हि ॥ १.१२५ ॥
एषाम् असंभवे कुर्याद् इष्टिं वैश्वानरीं द्विजः ।

संवत्सरे संवत्सरे सोमयागः कर्तव्यः । पशुयागश् चायने ऽयने । तथाग्रयणेष्टिर् नवैर् व्रीहिभिः श्यामाकैर् यवैश् च कुर्यात् । “सस्यान्ते नवसस्येष्ट्या” इत्य् अत्र च सस्यशब्देन शरद्वसन्तौ लक्ष्येते । प्रायेण हि तर(स्य) शरद्वसन्तयोः पुराणयोर् अन्तो भवतीति । अत एव आश्वलायनः- “यदा वर्षस्य तृप्तः स्याद् अथाग्रयणेन यजेत” इति । एतच् च व्रीह्याग्रयणविषयम् । यवाग्रयणं तु वसन्त एव । तत्रैव हि तेषां नवत्वम् । श्यामाकाग्रयणं शरदि वर्षासु वा । उभयत्र तेषां नवत्वात् । तथा चातुर्मास्यानि स्वकाले कर्तव्यानि । “अथ चातुर्मास्यानि चैत्र्यां पौर्णमास्यां फाल्गुन्याम्” इति लौगाक्षिः । एतावता सोमयागादीनि कर्माण्य् [१६७] अनूद्याल्पधनत्वेनैषाम् असंभवे तत्कार्ये वैश्वानरीं वैश्वानरदै(दे)वत्याम् इष्टिं कुर्याद् इति विदधाति । इष्टिशब्दः सोमकार्ये क्रियमाणायाम् अपि वैश्वानर्यां श्रौतवैश्वानरेष्ट्यङ्गवर्गप्राप्त्यर्थः । अन्यथा “तत्कार्यापत्त्या तद्धर्मलाभः” इति इति न्यायात् सौमिकधर्मप्राप्तिः स्यात् । स्मार्तत्वेन वा स्मार्तीतिकर्तव्यता स्यात् । यत् तु मनुवाक्यम्,

इष्टिं वैश्वानरीं नित्यं निर्वपेद् अब्दपर्यये ।
कॢप्तानां पशुसोमानां निष्कृत्यर्थम् असंभवे ॥

इति, तद् अपि सोमादिकार्य एवेष्टिं विदधाति । न तु पश्चात्करणप्रायश्चित्ततया निष्कृतिशब्दस्तु(श्रु?)तेर् निष्कृतिसंभवेनावश्यकर्तव्यताम् इष्टेर् आचष्टे । अत एवानन्तरम् आह ।

आपत्कल्पेन यो धर्मं कुरुते ऽनापदि द्विजः ।
स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥
विश्वैश् च देवैः साध्यैश् च ब्राह्मणैश् च महर्षिभिः ।
आपत्सु मरणाद् भीतैर् विधेः पर्तिनिधिः कृतः ॥ इति ।

अतश् च वैश्वानरीयेष्टिः प्रैनिधिर् न तु प्रायश्चित्तम् इति गम्यते । अत्र चैषाम् इति सोमादीनां चातुर्मास्यान्तानां परामर्शो न तु पशुसोमयोर् एव, प्रकरणाविशेषात् । यत् तु मनुनोक्तम्- “कॢप्तानां पशुसोमानाम्” इति, तत् प्रदर्शनार्थम्, अन्यथा बहुवनानुपपत्तेः । सोमादीनां प्रत्येकसंभवभेदेनेष्टिः प्रयोज्या द्रव्याभावात् पाश्चात्यसंभवे वैश्वानरी न तु हेत्वन्तरात् । तथा च शङ्खः ।

त्रैवार्षिकाधिकान्नस् तु पिबेत् सोमम् अतन्द्रितः ।
इष्टिं वैश्वानरीं कुर्यात् तथैवाल्पधनो द्विजः ॥ इति ॥ १.१२५ ॥
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ १.१२६ ॥

अधिकारिणं प्रति सर्वाङ्गोपसंहारी प्रयोगविधिः शक्याङ्गोपसंहारी च । तत्र शक्याङ्गोपसंहारिणः प्रयोगविधेर् यद् विषयीभूतं कर्म तद् धीनकल्पम् । यत्र तत्फलप्रदं काम्यं कर्म तद् धीनकल्पं न कार्यम् । अत्र हेतुः सति द्रव्ये फलप्रदम् इति । द्रव्ये सति फलप्रदं यस्माद् भवति । द्रव्यशब्दः सर्वाङ्गोपलक्षणार्थः । सति द्रव्ये सति सर्वाङ्गानुष्ठाने कर्म फलप्रदं भवति यस्मात् । अत्र च फलप्रदशब्दः [१६८] सकृच् चारितः काकाक्षिन्यायेन हेतुहेतुमद्भ्यां सह संबध्यते । फलप्रदं कर्म हीनकल्पं न कार्यम् । सति द्रव्ये तत् फलप्रदं भवति । [तथा च मनुः-

प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेनु(न) वर्तते ।
न सांपरायिकं तस्य दुर्मतेर् विद्यते फलम् ॥ ]

अत्र च सति द्रव्य इति प्रथमकल्पसामर्थ्योपलक्षणार्थम् ॥ १.१२६ ॥

चण्डालो जायते यज्ञकरणाच् छूद्रभिक्षितात् ।
यज्ञार्थं लब्धम् अददद् भासः कको ऽपि वा भवेत् ॥ १.१२७ ॥

यो यज्ञार्थं शूद्राद् भिक्षेत स प्रेत्य चण्डालो भवति । तथा च मनुः ।

न यज्ञार्थं धनं शूद्राद् विप्रो भिक्षेत धर्मवित् ।
यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥
ये शूद्राड़् अभिगम्यार्थं ह्य् अग्निहोत्रम् उपासते ।
ऋत्विजस् ते हि शूद्रस्य ब्रह्मवादिषु गर्हिताः ॥
तेषां सततयज्ञानां वृषलान् उपसेविनाम् ।
पदा मस्तकम् आक्रम्य दाता दुर्गाणि संतरेत् ॥

शूद्राद् धनम् उअपादायाग्नीन् य उपाधत्ते तद्विषयम् एतद् वाक्यद्वयम् । तथा च यज्ञार्थं लब्धं धनं समग्रं यज्ञोपयोगि यो न करोति स भासः काको वा भवेत् । भासः पक्षिविशेषः । अत्र मनुः ।

यज्ञार्थम् अर्थं भिक्षित्वा यो न सर्वं प्रयच्छति ।
स याति भासतां विप्रः काकतां वा शतं समाः ॥ १.१२७ ॥
कुसूलकुम्भीदान्यो वा त्र्याहिको ऽश्वस्तनो ऽपि वा ।
जीवेद् वापि शिलोञ्छेन श्रेयान् एषां परः परः ॥ १.१२८ ॥

कुसूलं कोष्ठिका तत्परिमितम् एव धानं यस्य स कुसूलधान्यः, कुसूलाद् ऊनपरिमाणं धान्यावपनं कुम्भी तत्परिमाणधान्यो वा गृहस्थो भवेत् । त्र्यहनिर्वाहपर्याप्तम् [१६९] एव धानं यस्य स त्र्याहिकः, स वा स्यात् । अश्वस्तननिर्वाहधान्यं विद्यते यस्य सो ऽश्वस्तनः, स वा स्यात् । परित्यक्तव्रीह्यादिइकणश उ(णिशो)पादानं शिलम् । पतितै(कै)ककण(स्योपादान]म् उञ्छम् । शिलं चोञ्छं च शिलोञ्छम्, तेन वा जीवेत् । एषाम् उक्तवृत्तिमतां परः परः पूर्वस्मात् पूर्वस्माच् छ्रेयान्, अतिशयेन प्रशस्तः । स्वर्गादिलोकजयकारणम्, धर्मातिशयवत्त्वात् । अत्र च मनुः ॥

कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।
त्र्यहैहिको वापि भवेद् अश्वस्तनिक एव वा ॥
चतुर्णाम् अपि चैतेषां द्विजानां गृहमेधिनाम् ।
ज्यायान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥
षट्कर्मको भवेत् तेषां त्रिभिर् अन्यः प्रवर्तते ।
द्वाभ्याम् एकश् चतुर्थस् तु ब्रह्मसत्त्रेण जीवति ॥

षट्कर्मशब्देन यजनयाजनादीनि ब्राह्मणकर्माणि निर्दिशति तदन्तर्गतस्य प्रतिग्रहादिवृत्तित्रयस्य विधानार्थम् । त्रिभिर् अन्यः प्रवर्तत इति कुम्भीधान्यस्यापि वृत्तित्रयविधिः । द्वाभ्याम् एक इति त्र्यहैहिकस्य याजनाध्यापनानुज्ञा । प्रतिग्रहो ऽपि कुत्सिताद् अपि स्याद् इति तद्वर्जनम् । चतुर्थो ऽश्वस्तनः स ब्रह्मसत्त्रेणाध्यापनेन जीवेद् इति । एवं च ब्राह्मणस्यैव कुसूलधान्यत्वादयो धर्माः । न ह्य् अन्यस्य प्रतिग्रहादिवृत्तिसंभवः ॥ १.१२८ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेद्रजीमूतवाहनान्ययप्रभूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मशास्त्रनिबन्धे

गृहस्थधर्मप्रकरणम्