०४ वर्ण-जाति-विवेक-प्रकरणम्

[वर्णजातिविवेकप्रकरणम्]

उक्तविवाहासु पतिसवर्णासु तदसवर्णासु चोत्पन्नानां तथा स्वैरिणीषु प्रतिलोमोत्पन्नानां संव्यवहारोपयोगिसंज्ञापरिज्ञानाय प्रकरणम् आरभ्यते ।

सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥ १.९० ॥

सवर्णाभ्यां दम्पतिभ्यां जनिताः पुत्रास् ताभ्यां समनजातयो भवन्ति । पुत्रग्रहणम् अपत्यमात्रपरम् । अनिन्द्येषु विवाहेषूढायाम् उत्पन्नाः पुत्राः संतानस्य ब्रह्मवर्चसादिगुणवृद्धिहेतवो भवन्ति । अत्र मनुः ।

ब्राह्मादिषु विवाहेषु चतुर्ष्व् एवानुपूर्वशः ।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसंमताः ॥
रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः ।
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥
इतरेषु च शिष्टेषु नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥

ब्राह्मणविषयम् एतत् ।

अनिन्दितैः स्त्रीविवाहैर् अनिन्द्या भवति प्रजा ।
निन्दितैर् निन्दिता नॄणां तस्मान् निन्द्यान् विवर्जयेत् ॥ १.९० ॥

अनुलोमजान् आह ।

विप्रान् मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।
अम्बष्ठः शूद्र्यां निषादो जातः पारशवो ऽपि वा ॥ १.९१ ॥

ब्राह्मणात् क्षत्रियादिषु भार्यासु मूर्धावसिक्ताम्बष्ठनिषादसंज्ञकाः पुत्रा भवन्ति । निषादस्य पारशव इति च संज्ञा परा । गौतमः- “अनुलोमानन्तरैकान्तरद्व्यन्तरासु जाताः सवर्णाम्बष्ट्ःओग्रविषाददौष्मन्तपाराशवाः (?) । असवर्णभार्योत्पन्ना अनुलोमजाः । ब्राह्मणस्यानन्तरा क्षत्रिया । तस्यां तेनोत्पन्नः सवर्णः । क्षत्रियाद् अनन्तरायां वैश्यायाम् अम्बष्ठः । वैश्यात् तदनन्तरायां शूद्रायाम् उग्रः । ब्राह्मणाद् एकान्तरायां वैश्यायां निषादः । क्षत्रियाद् एकान्तरायां शूद्रायां दौष्मन्तः । ब्राह्मणाद् द्व्यन्तरायां शूद्रायां पारशवः” इति । अत्र संज्ञाविकल्पे न विरोधः कार्यः । विष्णुः- “समानवर्णासु पुत्राः समानवर्णा एव भवन्ति । अनुलोमास् तु मातृसवर्णाः” ॥ १.९१ ॥

वैश्याशुद्र्योस् तु राजन्यान् माहिष्योग्रौ सुतौ स्मृतौ ।
वैश्यात् तु करणः शूद्र्यां विन्नास्व् एष विधिः स्मृतः ॥ १.९२ ॥

क्षत्रियाद् वैश्यायां जातो माहिष्यः, शूद्रायाम् उग्रः । वैश्याच् छूद्रायां करणः । “सवर्णेभ्यः सवर्णासु” इत्यादिना य उक्तो विधिः स विन्नासु परिणीतासु स्मृतो मुनिभिः । अविन्नास्व् अपि जातानां क्षेत्रजादिपुत्राणां वर्णत्वाभ्युपगमाद् विन्नास्व् इति शास्त्रविहितपुत्रोत्पत्तिप्रकारोपलक्षणार्थम् । यत एव तेषां ब्राह्मणत्वम् अस्ति अत एव- “ब्राह्मणा ऋत्विजः” इत्य् अभिधाय “शबलेयबाहलेयपुत्रिकापुत्रपरक्षेत्रसमोढकानीनानुजावरद्विप्रवरान् परिहाप्य” इति बौधायनः परक्षेत्रोत्पन्नानां पर्युदासम् आह । यत् तु देवलेनोक्तम्,

द्वितीयेन तु यः पित्रा सवर्णायां प्रजायते ।
अवरीट इति ख्यातः शूद्रधर्मा स जातितः ॥

तथा,

व्रतहीनास् त्व् असंस्कार्याः सवर्णास्व् अपि ये सुताः ।
उत्पादिताः सवर्णेन व्रत्या इत् बहिष्कृताः ॥

इति, तच् छास्रस्वीकृतक्षेत्रजकानीनसहोढगूढोत्पन्नपौनर्भवव्यतिरिक्तनियोग-व्यभिचारोत्पन्नपुत्रविषयम् । एते च मूर्धावसिक्तादयो न क्षत्रियादिभ्यो भिन्नाः । किं तु तत्तद्ब्राह्मणादिजनितोपाधिभेदान् मूर्धावसिक्तादिनामभेदभाजो भवन्ति । यद् आह शङ्खः- “ब्राह्मणेन क्षत्रियायाम् उत्पन्नः क्षत्रिय एव भवति । क्षत्रियेण वैश्यायां वैश्य एव । वैश्येन शूद्रायां शूद्र एव” इति ॥ १.९२ ॥

प्रतिलोमजानां नामान्य् आह ।

ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहकस् तथा ।
शूद्राज् जातस् तु चण्डालः सर्वधर्मबहिष्कृतः ॥ १.९३ ॥
क्षत्रिया मागधं वैश्याच् छूद्रात् क्षत्तारम् एव च ।
शूद्राद् आयोगवं वैश्या जनयामास वै सुतम् ॥ १.९४ ॥

ब्राह्मण्यां क्षत्रियवैश्यशूद्रेभ्यो यथाक्रमं सूतवैदेहचण्डाला भवन्ति । एषां मध्ये चण्डालः सर्वधर्मबहिष्कृतः । सर्वेषां वर्णानां ये धर्मास् ते सर्वधर्माः, तेष्व् अनधिकारी, न पुनः सर्वेषु धर्मेष्व् अनधिकारीत्य् अर्थः । यत् आह देवलः-

“स्वजातिशोधनं सर्वप्रणामस् तितिक्षा व्यवहारशुद्धिर् अपरावमानं
स्वभृत्यपोषणं स्वकर्मानुष्ठानं प्रधानकर्मवर्जनम्
इति चण्डालधर्माः” ।

ततश् च वर्णधर्मः प्रधानकर्म, स्वकर्म स्वकीयवृत्तिः।

क्षत्रिया वैश्यान् मागधं जनयति, शूद्रात् क्षत्तारम् । वैश्या स्त्री शूद्राद् आयोगवम् । एताभिः संज्ञाभिः शास्त्रान्तरे संव्यवहाराः । तत्र मनुः ।

सूतानाम् अश्वसारथ्यम् अम्बष्ठानां चिकित्सनम् ।
वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ॥
मत्स्यघातो निषादानाम् आयोगव्यस्य लक्षणम् ।

तथा,

ब्राह्मणार्थे गवार्थे वा देहत्यागो ऽनुपस्कृतेः ।
स्त्रीबालाभ्यवपत्तौ च बाह्यानां सिद्धिकारणम् ॥

उपस्कारो मूलग्रहणम् । अभ्यवपत्तिर् अनुग्रः ॥ १.९३–९४ ॥

माहिष्येण करण्यां च रथकारो प्रजायते ।

उक्तो माहिष्यः । वैश्याच् छूद्रायाम् उत्पन्ना करणी । तस्यां माहिष्योत्पन्नो रथकारो भवति । वैदिककर्माधिकारित्वाद् अस्य संकीर्णयोनीनां मध्ये पृथगभिधानम् । तथा च शङ्खः- “क्षत्रियवैश्यानुलोमानन्तरोत्पन्ननो रथकारस् तस्येज्यादानोपनयनसंस्कारक्रियाः [अश्वप्रतिष्ठारथसूत्रवासुविद्याध्ययनवृत्तिता च” इति ] ॥

असत्सन्तस् तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥ १.९५ ॥

हीनवर्णेनोत्कृष्टवर्णायां जनिताः प्रतिलोमजाः । उत्तमवर्णेन हीनवर्णायां परिणीतायां उत्पन्ना अनुलोमजाः । तत्र प्रतिलोमजा असन्तो ऽसाधवः, वर्णबाह्या (?) इत्य् अर्थः । अनुलोमजास् तु सन्तः साधवः, मातृसमानवर्णत्वात् क्षत्रियादिधर्माधिकारिणो भवन्ति ॥ १.९५ ॥

जात्युत्कर्षो युगे ज्ञेयो सप्तमे पञ्चमे ऽपि वा ।

युगं जायापतोर् युग्यम् । तत्र सप्तमे पञ्चमे ऽपि वा पितृसमानवर्णभावो ज्ञेयः । एतच् चानुलोमजस्त्रीविषयम्, तस्यां भार्यात्वसंभवात्, न तु प्रतिलोमजाविषयम्, [१२०] तस्या वर्णबाह्यत्वेनाजायात्वात् । गुणापेक्षो विकल्प उदाहरणम् । उत्तमवर्णेन हीनवर्णायाम् उत्पन्ना सा(या) स्त्री सोत्तमवर्णाद् अनिषिद्धमार्गेण स्त्रियं जनयति । साप्य् एवं साप्य् एवम् इति सप्तमे स्त्रीपुंसयुगले जातम् अपत्यं समानवर्णं पित्रा भवति ॥

व्यत्यये कर्मणां साम्यम्

ब्राह्मणक्षत्रियादीनां यानि वृत्तिरूपाणि कर्माणि तेषां व्यत्यये व्यतिक्रमे य्था ब्राह्मणस्य क्षत्रियवृत्तिं वैश्यवृत्तिं वोपजीवतो जाताः पुत्रपौरादयो यदि ताम् एव वृत्तिम् उपजीवन्ति तदा सप्तमे पञ्चमे वा जातम् अपत्यम् उपजीव्यमानसंबन्धिवर्णात्मकं भवति ॥

पूर्वचच् चोत्तराधरम् ॥ १.९६ ॥

पूर्ववद् वर्णसंकरवद् वृत्तिसंकरस्याप्य् उत्तराधरं वेदितव्यम् । भावप्रधानो ऽयं निर्देशः । ततश् चोत्तरत्वम् अधरत्वं वा वेदितव्यम् इत्य् अर्थः । आनुलोम्येन वृत्तिसंकरस्योत्तरत्वम् । यथाह वसिष्ठः- “आजीवन्तः स्वधर्मेणानन्तरां पापीयसीं वृत्तिम् आतिष्ठेरन्” इति । वृत्तिसंकरे प्रातिलोम्यम् अधरम् । यथा—वैश्यस्य क्षत्रवृत्तुपजीवनं क्षत्रियस्य ब्राह्मणवृत्त्युपजीवनम् । अत एव “वृत्तिम् आतिष्ठेरन्” इत्य् अनुवृत्तौ वसिष्ठः- “न तु कदाचिज् जायसी” इति ॥ १.९६ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वय-

प्रभूतश्रीमदपरादित्यदेवविरचिते याज्ञवल्कीयशास्त्रनिबन्धे

वर्णजातिविवेकप्रकरणम् ॥ ३ ॥