०३ विवाह-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

विवाहप्रकरणम्

सर्वसाधारणत्वेन ब्रह्मचारिप्रकरणम् उक्तम् । अधुनावसरप्राप्ता गृहस्थधर्मा उच्यन्ते । ते च,

_ अपत्नीको नरो भूप कर्मयोग्यो न जायते ।_

_ ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्र ऽपि वा नृप ॥_

_ पत्नी धर्मार्थकामानां कारणं प्रवरं नृणाम् ॥_ [७४]

इत्यादिदर्शनाद् भार्यया विना न भवन्ति । सा च स्नानोत्तरकालभाविनीत्य् आह ।

गुरवे तु वरं दत्वा स्नायाद् वा तदनुज्ञया ।
वेदं व्रतानि वा पारं नीत्वा ह्य् उभयम् एव वा ॥ १.५१॥

पूर्वोक्तेन न्यायेन वेदं व्रतान्य् उभयं वा पारं नीत्वा समाप्य स्नायात् । एतेषां च पक्षाणां शक्तिकालाद्यपेक्षया व्यवस्था । यदि भिक्षाटनाद्यशक्तो व्याधिततया राजदैविकाद्यभिभवासमर्थः, तदा वेदं केवलं व्रतान्य् एव वा केवलानि समाप्य स्नायात् । अत एव विद्यास्नातको व्रतस्नातको विद्याव्रस्नातको इति त्रैविध्यं स्मर्यते । अतस् तस्य स्नानपरिणयनोत्तरकालम् अध्ययनसमापनं तदर्थज्ञानं वा । अत एव वक्ष्यति,

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।

इति प्रक्रम्य,

वेदार्थान् अधिगच्छेत् तु शास्त्राणि विविधानि च ॥ इति ।

वेदार्थज्ञानं चावशयं कार्यम् । तथा च व्यासः ।

न वेदपाठमात्रेण संतोषं कारयेद् द्विजः ।
पाठमात्रावसानो हि पङ्के गौर् इव सीदति ॥
यथा पशुर् भारवाही न तस्य लभते फलम् ।
द्विजस् तथार्थानभिज्ञो न वेदफलम् अश्नुते ॥
वेदस्याध्ययनं सर्वं धर्मशास्त्रस्य चापि यत् ।
अजानतो ऽर्थं तत् सर्वं तुषाणां ख(क)ण्डनं यथा ॥
यो ऽधीत्य विधिवद् वेदं वेदार्थं न विचारयेत् ।
स सान्वयः शूद्रसमः पात्रतां न प्रपद्यते ॥
अधीत्य यत् किंचिद् अपि वेदार्थाधिगमे रतः ।
स्वर्गलोकम् अवाप्नोति धर्मानुष्ठानविद् धि सः ॥
श्रुतहीनम् अधीते यन् नेह नामुत्र तद् भवेत् ।
श्रुतं तु केवलम् अपि समुद्दाराय कल्पते ॥
समुच्चितं स्तोकम् अपि श्र्तुआधीतं विशिष्यते ।
त्रयाणाम् अपि वर्णानां केवलाध्ययनाद् द्विजात् ॥
ज्ञानं कर्म च संयुक्तं मुक्त्यर्थं कथितं यथा ।

[७५] अधीतश्रुतसंयुक्तं तथा श्रेष्ठं न केवलम् ॥

पाठमात्रार्दितान् नित्यं द्विजातींश् चार्थवर्जितान् ।
पशून् इव च तान् प्राज्ञो वाङ्मात्रेणापि नार्चयेत् ॥
ऋक्पादम् अप्य् अधीत्यादौ न्यायतस् तु तदर्थवित् ।
विशिष्यते श्रुतं यस्माद् गरीयो धर्मसाधनम् ॥

श्रुतिश् च ।

स्थाणुर् अयं भारहारः किलाभूद् अधीत्य वेदं न विजानाति यो ऽर्थम् ।
यो ऽर्थज्ञ इत् सकलं भद्रम् अश्नुते नाकम् एति ज्ञानविधूतपाप्मा ॥

शुष्कवृक्षं स्थाणुम् आहुः । स यथारोपिततृणादिभाराक्रान्तो भवति, न च भरभृतिं भारभोगं वा चेतयमानो लभते, केवलं भाराधारभावाज् जन्तुर् एव भारभाग् भवति, तथायं भवति — यो वेदाध्ययनेन धारणावसानेन कदर्थितात्मापि तदभिधेयं कर्मावबोधादि प्रधानप्रयोजनानुरञ्जितविध्यर्थवादमन्त्रनामधेयादिविभागेन न जानाति तज्ज्ञाने ऽप्य् अद्याप्य् अयतमानः । य इदानीं निष्पन्नार्थावबोधः सो ऽधिकृतत्वात् कर्मपारिपूर्ण्यात् प्रमादेशु प्रायश्चित्तजागरणाच् च स्वकर्मनैपुण्याच् च साकल्येन पुण्यफलं कुशलं दृष्टम् अश्नुते । नाकं च सत्यलोकान्तम् अदृष्टपुष्ट्या प्राप्नोत्य् अर्थज्ञानजनितानुषङ्गिकधर्मांशेन क्षपितदृष्टादृष्टगतपरिपन्थिनाशनादिदोषदूषकोपात्तदूरित इति । तथा ।

उत त्वः पश्यन् न ददर्श वाचम् उत त्वः शृण्वन् न शृणोत्य् एनाम् ।
उतो त्वस्मै तन्वं विसस्रे जायेव पत्य उशसी सुवासाः ॥

अस्यार्थः- अपि खल्व् एकः पश्यन्न् अपि न पश्यति, अपि खल्व् एकः शृण्वन्न् अपि न शृणोति, एनाम् अविद्वान् वाचं महार्थाम् । उतो त्वस्मै तन्वं विसस्रे तनुं विवृणुते जायेव पत्य उशती सुवासाः । तद् यथा जाया पत्ये कामयमाना सुवासाः स्वम् आत्मानं विवृणुते, एवं वाग् वाग्विदे स्वम् आत्मानं विवृणुते । मनुश् च,

यद् अधीतम् अविज्ञातं निगदेनैव शब्द्यते ।
अनग्नाव् इव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥

इत्यादि । अपि च स्मार्तस्य गृह्यादिपरिज्ञानमात्रापेक्षितत्वान् न च तत्परिज्ञानम् अन्यशास्त्रश्रवणादिना [७६] न भवति । तस्य कर्मक्रमाद्यवबोधमात्रापेक्षितत्वात् । यदि शास्त्रान्तरश्रवणाद् विना सर्वत्र नाधिक्रियते, तदाग्निकार्यादाव् अप्य् अनधिकारो ब्रह्मचारिणः स्यात् । तेन यद् यत् करोति तत् तज् ज्ञात्वा न युगपज् ज्ञात्वेति । तस्माज् ज्ञात्वा चानुष्ठानम् इत्य् अयम् अपि विधिः परिगृहीतो भवति । कथं स्नायाद् इत्य् आह- गुरवे पूर्वोक्ताय वरम् अभिलषितं कात्यायनाद्युक्तम्- “गौर् ब्राह्मणस्य वरो ग्रामो राजन्यस्याश्वो वैश्यस्य” इत्यादि गुर्वर्थाहरणशक्तादिविषयम्, तदन्यादिविषयम्-

धान्यं वासांसि शाकं च गुरवे प्रीतिम् आहरेत् ।

इत्यादि मन्वादिलक्षितं वा दत्वा, तदनुज्ञया वादत्तवरो ऽपि । अत एव गौतमः- “विद्यान्ते गुरुर् अर्थेन निमन्त्र्यः कृतानुज्ञात(न)स्य वा स्नानम्” इति । वेदपारनयनं समुच्चय एव वेदाध्ययनस्य तदर्थज्ञानेन सह । अत एव “वेदम् अधीत्य च्छन्दोविषयान् अर्थान् बुद्ध्वा स्नायात्” इति स्मर्यते । मनुर् अपि ।

तपोविशेषैर् विविधैर् व्रतैश् च विधिचोदितैः ।
वेदः कृत्स्नो ऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ इति ।

अधिगन्तव्यो ग्रन्थतो ऽर्थतश् चेति दर्शयति । व्रतैश् च पूर्वोक्तैर् वर्जयेन् मधुमांसगन्धमाल्यानी(सानी)इत्यादिप्रतिपादितैः । ततश् च यद् उक्तं भट्टेन,

तस्माद् गुरुकुले तिष्ठन् मधुमांसादि वर्जयन् ।
जिज्ञासेनाविरुद्धत्वाद् धर्मम् इत्य् अवगम्यते ॥

इति, तद् अनेन विरुध्यते, तेषां समावर्तनाधिकत्वात् । अत एव,

अग्नीन्धनं भैक्षचर्यम् अधःशय्यां गुरोर् हितम् ।
आ समावर्तनात् कुर्यात् कृतोपनयनो दिव्जः ।

इति नियम्यते । न च,

गुरुगेहाद् अनावृत्तः स्नातको हि न कथ्यते ।

इति स्नाने समावर्तनभ्रान्तिः कार्या,

गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि ।
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥

इति भेदस्मरणात् । स्नातकश् च मन्वादिभिः प्रदर्शितः ।

तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
**स्रग्विणं तल्प आसीनम् अर्हयेत् प्रथमं गवा ॥ इति ।। [७७]

तं स्नातकं दारसंग्रहाभिमुखतया प्रतीतं पितुर् ब्रह्मदायहरम्, ब्रह्म वेदः । अनेन तस्याध्ययनयोगः ख्याप्यते । दायो रिक्थम् । अनेन तस्य योग्यस्त्वम् उच्यते । अन्यथा सर्वर्णापुत्रो ऽप्य् अन्यायवृत्तो न लभते केषाम् इति तदभावः । पितुर् द्रव्याभावे प्रतिग्रहादिनाप्य् अवाप्य पाणिग्रहणं कर्तव्यं पाणिग्रहणादि गृह्यं परिचरेत् । अन्यथा पाकयज्ञादेर् असिद्धः, तस्य द्रव्यमूलत्वात् । अत एव गौतमः- “द्रव्यादानं विवाहसिद्ध्यर्थम्” इति । स्रग्विग्रहणं विभूषणप्राप्त्यर्थम् । तल्पं शयनम् । तत्रस्थम् अर्हयेत् पूजयेत् प्रथमं गवा । गोशब्देन मधुपर्कं लक्षयति, “ऋत्विजो वृत्वा मधुपर्कम् आहरेत् स्नातकायोपस्थिताय राज्ञे च” इति स्मरणात् । स च गां वेदयते कुरुतेति कारयिष्यन्न् उत्सृजेत्य् उत्प्रेक्षन्न् इति द्विधा भवति । स्नातकश् च नवधा भिद्यते, संकल्पभेदात् । तथाह मनुः ।

सांतानिकं यक्ष्यमाणम् अध्वगं सार्ववेदसम् ।
गुर्वर्थपितृमात्रर्थस्वाध्यायार्थ्युपतापिनः ।
नवैतान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभैक्षुकान् ॥ १.५१ ॥

ततः किम् इत्य् आह ।

अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियम् उद्वहेत् ।
अनन्यपूर्विकां कान्ताम् असपिण्डां यवीयसीम् ॥ १.५२ ॥

नैव विप्लुतं ब्रह्मचर्यं यस्य । विप्लुतिः स्खलनम् । तत्संभवे तु प्रायश्चित्ती न त्व् अविवाह्यः किं त्व् अयं विशेषः । यदि स्नानाद् अधो विप्लुतस् तदावकीर्णिप्रायश्चित्तम्,

अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् ।

इति स्मरणात् । स्नानाद् ऊर्ध्वं यदि पुनस् तदा सामान्यम्,

मद्यपासत्यवृत्ता च प्रतिकूला च या भवेत् ।
व्याधिता चाधिवेत्तव्या ॥

तथा,

भार्यायै पूर्वमारिण्यै दत्वाग्नीन् अन्त्यकर्मणि ।
पुनर् दारक्रियां कुर्यात् ॥

इत्यादिस्मरणदर्शणात् प्राप्तस्य पुनर् विवाहस्य विप्लुतब्रह्मचर्यत्वापत्तेर् अप्राप्तिर् मा [७८] प्रसाङ्क्षीद् इत्य् अत्राविप्लुतब्रह्मचर्य इति पदं पूर्वत्र स्नानकर्तुर् विशेषणीयम् । लक्षणैर् युक्ताम् । लक्षणानि बाह्याभ्यन्तराणि । बाह्यानि कायस्वरादिगतानि । यथाह मनुः ।

अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुलोमकेशदशां मृद्वङ्गीं चारुभाषिणीम् ॥ इति ।

दशां दशनाम् इत्य् अर्थ इति । लक्षण्याम् इत्य् एतस्माद् एव विपरीतो तु त्याज्या, यथा ।

नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं नो रोगिणीम् ।
नालोमिकां नातिलोम्नीं न वाचाटां न पिङ्गलाम् ॥ इति ।

तथा नामतो ऽपि वर्ज्या, यथा वा ।

देवनाम्नीं नदीनाम्नीं शैलगन्धर्वनामिकाम् ।
ऋक्षवृक्षनदीनाम्नीं दारार्थे परिवर्जयेत् ॥ इति ।

यथा ।

नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।
न पक्ष्यहिपुष्पनाम्नीं न विभीषणनामिकाम् ॥

यदा पुनर् अभ्यन्तराणि सूक्ष्मानि भवन्ति तदा आश्वलायनोक्ता परीक्षा कार्या, तत्र “बुद्धिरूपलक्षणसंयुक्ताम्” इत्य् उक्त्वा स्वयम् एव चोद्यं कृतम् “लक्षणानि दुर्ज्ञानानि” इत्, तस्योत्तरम्- “अष्टौ पिण्डान् कृत्वा, ऋतम् अग्रे प्रथमम् जज्ञे ऋते सत्यं प्रतिष्ठितम् । यदि च कुमार्य् अभिजाता तद् इयम् इह प्रतिपद्यतां यत् सत्यं तद् दृश्यताम् इति पिण्डान् अभिमन्त्र्य कुमारीं ब्रूयाद् एषाम् एकं गृहाणेति । क्षेत्राच् चेद् उभयतः सत्याद् गृह्णीयाद् अन्नवत्य् अस्याः प्रजा भविष्यतीति विद्यात् । गोष्ठात् पशुमती । वेदिपुरीषाद् ब्रह्मवर्चस्विनी । अविनाशिनो ह्रदात् सर्वसंपन्ना । देवनात् कितवी । चतुष्पथाद् विप्रवाजिनी । इरिणाद् अधन्या । श्मशानात् पतिघ्नी” इति । अनन्यपूर्विकां नैवान्यस्मै या पूर्वं दत्ता । एतच् च वाग्दत्ताविषयं वेदितव्यं न संस्कृताविषयम्, तस्याः पुनर्बूत्वात् । यथाह मनुः ।

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
**ताम् अनेन विधानेन निजो विन्देत देवरः ॥ [७९]

न च तत्र दानं निवृत्तम् इत्य् आशङ्कनीयम्,

अद्भिर् वाचा च दत्तायां म्रियेतादौ वरो यदि ।
न च मन्त्रोपनीता स्यात् कुमारी पितुर् एव सा ॥

इति वसिष्ठस्मरणात् । एवं बलाद् अपहृतायाम् अपि वेदितव्यम्,

बलाद् अपहृता मन्त्रैर् अपि न संस्कृता ।
अन्यस्मै विधिवद् देया यथा कन्या तथैव सा ॥

इति तेनैवोक्तत्वात् । एतच् च प्रायश्चित्तोतरकालं वेदितव्यम् । कान्तां स्नातकस्य कमनीयत्वान् मनोनयनानन्ददायिनीम् । एतच् च मङ्गलादिनिराकरणेन विधीयते, “यत्र मनःसक्तिस् ताम् उद्वहेत्” इत् विधानात् । असपिण्डानां सापिण्ड्यं वक्ष्यति । यवीयसीं जन्मतः प्रमाणतो ऽपीत्य् एके । वसिष्ठः- “गृहस्थो विनीतक्रोधहर्षो गुरुणानुज्ञातः स्नात्वासमानार्षेयीम् अस्पृष्टमैथुनाम् अवरवयसं सदृशीं भार्यां विन्देत” । गृहस्थ इत् भाविनि भूतवद् उपचारस् तद्धर्मप्राप्त्यर्थः । तेनाकृतदारो ऽपि गार्हस्थ्यसंकल्पवान् आश्रमान्तरान् निवृत्तो गृहस्थधर्मेष्व् अधिक्रियते । न च “ब्रह्मचारी भूत्वा गृही भवेद् गृही भूत्वा वनी भवेद् वनी भूत्वा प्रव्रजेत्” इति नियम्यते, अनियमेनाश्रमान्तरस्वीकारदर्शनात् । तथा च नृसिंहपुराणम् ।

गुरवे दक्षिणां दत्वा सा (स) यम् इच्छेत् तम् आवसेत् ।
विरक्तः प्रव्रजेद् विद्वान् ॥ इति ।

विष्णुपुराणं च ।

गृहीतविद्यो गुरवे दत्वाथ गुरुदक्षिणाम् ।
गार्हस्थ्यम् इच्छन् भूपाल कुर्याद् दारपरिग्रहम् ॥
ब्रह्मचर्येण वा कालं कुर्यात् संकल्पपूर्वकम् ।
गुरोः शुश्रूषणं कुर्यात् तत्पुत्रादेर् अथापि वा ॥
वैखानसो वापि भवेत् परिव्राड् अथ वेच्छया ॥ इति ॥ १.५२ ॥

विशेषान्तराण्य् आह ।

अरोगिणीं भ्रातृमतीम् असमानार्षगोत्रजाम् ।
पञ्चमात् सप्तमाद् ऊर्ध्वं मातृतः पितृतस् तथा ॥ १.५३ ॥

अरोगिणीम् अदीर्घरोगोपसृष्टाम् । भ्रातृमतीं पुत्रिकात्वभयात् । यथाह मनुः ।

[८०] यस्यास् तु न भवेद् भ्राता न विज्ञायेत् वा पिता ।

नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥

इत्य् अनेन गुप्तापि पुत्रिका भवति । न केवलं या परिभाष्य दीयते-

अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति ।

इति रतिपुत्रफला भार्या यदि पुत्रो ऽन्यस्य भवति तदैकाङ्गवैकल्यम् । पुत्रिकां वक्ष्यति । असमानार्षगोत्रजाम् इत्य् [समानार्षजाम्?] असमानगोत्रजाम् इति [च्?] वेदितव्यम् । ततश् च सगोत्रायाः सगोत्रत्वेनैव निषेधो न समानार्षापेक्षया । एवं समानार्षापि स(न) गोत्रम् अपेक्षते । अत एव गौतमः- “असमानप्रवरैर् विवाहः” इति । समानता च नामतः संख्यातश् च समुच्चयेन भवति न तद्वैषम्ये । यत्रापि संख्यासाम्य। एकस्य द्वयोर् वान्यत्वं तत्राप्य् असमानतैव । यत्र पुनर् आङ्गिरसाम्बरीषयौवनाश्वेति मान्धाताम्बरीषयौवनाश्वेति विकल्पेन ऋषयो भवन्ति तत्रापि वर्ज्या, समत्वस्य पाक्षिकत्वात् । न चासमानार्षग्रहणं गोत्रविशेषणम् । “असमानप्रवरैर् विवाहः” इति भेदस्मरणात्,

परिणीय सगोत्रां तु समानप्रवरां तथा ।
त्यागं कृत्वा द्विजस् तस्यास् ततश् चान्द्रायणं चरेत् ॥

इति पृथक्प्रायश्चित्ताच् च । त्यागश् चोपबोगस्य न तु तस्याः । तथाह सुमन्तुः- “मातुलसुतां पैतृष्वसेयीं समानार्षगोत्रां च परिणीय चान्द्रायणं चरेत् । परित्यज्यैनां बिभृयात्” इति, एतच् चामतिपूर्वं(र्वे) वेदितव्यम् । “सगोत्रां चेद् अमत्योपगच्छेद् भातृवद् एनां बिभृयात् प्रजातां चेत् कृच्छ्राब्दपादं चरेत्” इति बौधायनः । मतिपूर्वे गुरुतरम् । यथाह गौतमः- “मातृपितृयोनिसंबद्धागस् तेन नास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः” इति । मनुर् अपि ।

ज्ञातित्वेनानुपेयास् ताह् पतति ह्य् उपयन्न् अधः ॥ इति ।

ततश् च पतितोत्पन्नः पतितो भवतीति लभ्यत एव । ननु सगोत्रनिराकरणेनैव सपिण्डनिषेधे प्राप्ते किम् इति भेदेनाधस्तने श्लोके “असपिण्डां यवीयसीम्” [८१] इत्य् उक्तम् । । एतत् तत्संततिजाया निराकरणार्थम् । इतरथासमानार्षगोत्रजा तत्स्त्रीसंततिजा परिणेया भवेत् । एषा चासपिण्डता मातृपक्षे ऽपि वेदितव्या । यथाह मनुः ।

असपिण्डा च या मातुर् असगोत्रा च या पितुः ।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥

नैव सपिण्डा मातुर् या । चकारात् पितुश् च । “असगोत्रा च या” इत्य् एतावत्य् उच्यमाने यत् पितुर् ग्रहणं करोति तत् क्षेत्रिकापुत्राभिप्रायेण । अन्यथा

यस्य ते बीजतो जातास् तस्य ते नेतरस्य तु ।

इति तत् सगोत्राया विवाह्यत्वं स्यात् । सा प्रशस्ता, क्व, दारकर्मणि, यद् दारैर् विना न भवति । तच् च वचनाद् एव मा भूद् इत्य् आह — मैथुने, मिथुननिर्वर्त्ये यद् एकैकस्य निर्वर्त्य न भवति पाकयज्ञादिकम् । अत एव आपस्तम्बः- “पाणिग्रहणाद् धि सहत्वं कर्मसु” इति । सहग्रहणं बलीवर्दवत् समानाधिकार इति दर्शनार्थम् । ततश् च भर्त्रासौ भर्तव्याहं दानादिकं निर्वर्तयामि त्वम् अपि संकल्पं कुर्विति, तयापि तथैव कार्यम् अन्यथा दोष इति सहाधिकारः । अतश् चैकफलभोक्तृत्वं फलान्तरोद्द्भूतिबाधश् च । “असपिण्डा च या मातुः” इति मातुलादिसुतापरिणयनिषधः । मातुः सपिण्डत्वात् ।

पञ्चमात् सप्तमाद् ऊर्ध्वं मातृतः पितृतस् तथा ।

इति मातृकुलान् मातामहप्रभृतीन् पञ्च पुरुषान् अतीत्योद्वाहः कार्यः कर्तव्य इत्य् अर्थः । एवं सप्त पितृकुलात् । अत्र “न भार्यां विन्देत” इत्य् अधिकारे विष्णुः- “मातृतस् त्व् आ पञ्चमात् पुरुषात् पितृतश् चासप्तमात्” इति । ननु “असपिण्डाम्” इत्य् उक्तम् एव किम् अर्थं पुनर् उच्यते “सप्तमात् पितृतः” इति । सत्यम् । किं तु बैजिनो ऽपि सप्तमाद् इति नियमार्थम् । यथाह गौतमः- “ऊर्ध्वं तु सप्तमात् पितृबन्धुभ्यो बैजिनश् च मातृबन्धुभ्यः पञ्चमात्” इति । नारदो ऽपि ।

सप्तमात् पञ्चमाद् अर्वाग् बन्धुभ्यः पितृमातृतः ।
अविवाह्या सगोत्रा च समानप्रवरा तथा ॥

पैठीनसिश् च- “असमानार्षेयीं कन्यां वरयेत् । पञ्च मातृतः परिहरेत् । सप्त पितृतः । त्रीन् मातृतः पञ्च पितृतो वा” इति । अत्र च समानजातीये पञ्च । असमानजातीये त्रीन् इति व्यवस्थितो विकल्पः । न च सप्तमे पञ्चमे वा भवति विवाह्या । यथा,

सप्तमे पञ्चमे चैव येषां वैवाहिकी क्रिया ।
ये च संतानजास् ते ऽपि पतिताः शूद्रतां गताः ॥

इति विष्णुः । किं च यद्य् असमानगोत्रत्वान् मातुलसुतापरिणयनं तदा मातृष्वसा(सृ)दुहितुर् अपि स्यात्, समानन्यायात् । एतद् यदि स्मृतीनाम् एव केवलानां प्रामाण्यम् । यावता शिष्टस्यापि प्रामाण्यम् । यथाह मनुः ।

वेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश् चैव साधूनां वेदवित् स्मृतिशीलता ॥

व्यतिरेकेण साधूनाम् आचारं दर्शयति येन तस्य शास्त्रविरोधे ऽपि प्रामाण्यं स्यात् । इतरथा शीलं चेष्टितम् आचारश् चैव साधूनाम् इति भेदेन ग्रहणं न स्यात् । साधवश् च दर्शिताः ।

न्यायेनाधिगतो यैस् तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ इति ।

न च तत्र वेदविदो न सन्ति न च तैर् एतन् न चरितम् । यथा च बौधायनेन स्पष्टम् एवंविधस्याचरस्य प्रामाण्यं दर्शितम्- “पञ्चविधा विप्रतिपत्तिः । दक्षिणतो ऽनुपनीतेन भार्यया च सह भोजनं पर्युषितभोजनम् उच्छित्ष्टभोजनं पितृष्वसा(सृ)मातुलदुहितृपरिणयनम् इति । तथोत्तरतः पञ्च । ऊर्णाविक्रयः शीधुपानम् उभयतोदद्भिर् व्यवहार आयुधीयकं समुद्रयानम् इति । इतर इतरस्मिन् कुर्वन् दुष्यतीतर इतरस्मिन् देशे प्रामाण्याद् इत्य् आचारबलेनैव प्रामाण्यम् उक्तं स्यात् । एतद् यद्य् अनन्तरं न ब्रूयान् मिथ्यैतद् इति गौतमः । उभयं त्व् एतन् नाद्रियेत । शिष्टस्मृतिविरोधात्” इति । स्मृतिविरोधश् च दर्शितः- “ऊर्ध्वं मातृबन्धुभ्यः पञ्चमात्” इति । “शिष्टः पुनर् अकामात्मा” इति वसिष्ठस्मरणात् । न शिष्टाः कामकारेण शास्त्रविरोधे प्रवर्तन्ते । [८३] गौतमग्रहणम् एकवाक्यप्रतिपादनार्थम्, अनिराकरणात् । तथा च वसिष्ठः- “देशकुलाचारा आम्नायाविरुद्धाः प्रमाणम्” इति । आम्नायो वेदः । तदविरोधो ऽस्तीति चेत्, नैतत्, भगिन्यादिगमने ऽपि तदविरोधदर्शनाद् अतिप्रसक्तेः । तस्मान् नान्धपरम्परया न्यायागतस्य व्यवहारस्य प्रामान्यम् । यद् अपि,

आयाहीन्द्र पतिभिर् ईऌएतेभिर् यज्ञम् इमं नो वाजसातौ जुषस्व ।
तृप्तां जहुर् मातुलस्येव ते तव भगः पैतृष्वसेयीम् अपाम् इवौघः ॥

इति तन्मन्त्राणाम् अविधायकत्वे सत्य् अपि परिणयननिराकरणम् द्योत्यते । कथम् । कश्चित् प्रार्थ्यते । आयाहीन्द्रास्मदीयं यज्ञम् अन्यैर् अपि सोमपतिभिर् ईऌइतेभिः स्तोत्रार्हैः सह । आगत्य च वाजसातौ सोमरूपान्नभोजनप्रस्तावे जुषस्व । सोमम् इति संबध्यते । एवं प्रार्थ्येन्द्रस्तुत्यर्थं स्वरूपानुवादं करोति — ये ते सोमपतयो भवता सहायातास् ते सकृत्सोमपानेन तृप्ताः सन्तः सोमं जहुस् त्यक्तवन्तः । किम् इव, यथा पैतृषवसेयीं भगिनीं भार्यात्वेनात्यन्तानभिलषणीयां त्यजन्ति स्वकीयमातुलस्य संबन्धायोग्यतया, तद्वद् भवदुद्देशेन सोमं त्यक्त्वन्तो निराकाङ्क्षतया । तव पुनर् अयं सोमभागो ऽपाम् इवौघः सातत्येनाकर्मसमाप्तेर् इति । ततश् चानेन प्रतिषेधो दर्शितः । यद् अपि श्रुतौ- “तृतीयं पुरुषं गच्छामहे” इति । तद् अपि स्नुग्व्यूहनपरत्वेनान्यार्थत्वा(व्)त् } अपि च “प्रजापतिः स्वां दुहितरम् अभिध्यायत् तस्यां रेतो ऽवाकिरत्” इत्यादिश्रवणाद् अतिप्रसक्तिं करोति । प्रायश्चित्तदर्शनाच् च ।

पैतृषवसेयीं भगिनीं स्वस्रीयां मतुर् एव च ।
मातुश् च भ्रातुर् आप्तां च गत्वा चान्द्रायणं चरेत् ॥ इति ।

भगिनीग्रहणं संदेहनिरासार्थम् । न चापरिणीताविषयत्वम् आशङ्कनीयम् । येनानन्तरं वक्ति ।

एतास् तिस्रस् तु भार्यार्थं नोपयच्छेत बुद्धिमान् ।
ज्ञातित्वेनानुपेयास् ताः पतति ह्य् उपयन्न् अधः ॥ इति ।

तथा कन्यादातुर् अपि नियमो ऽस्ति, यथाह आपस्तम्बः- “सगोत्रेभ्यो दुहितरं न प्रयच्छेन् मातुश् च योनिसंबन्धेभ्यः पितुश् च सप्तमात्” इति, प्रायश्चित्तस्मरणाच् च ।

मातुलस्य सुताम् ऊढ्वा मातृगोत्रां तथैव च ।
**समानप्रवरां चैव द्विजश् चान्द्रायणं चरेत् ॥ इति ॥ [८४]

मातृगोत्रग्रहणं पितृसगोत्रवन् निराकरणार्थम्, जन्यजनकसंबन्धस्योभयस्योभयत्राविशिष्टत्वात् । शातातपो ऽपि ।

एकगोत्रां विवाह्यैव समानप्रवरां तथा ।
मातुलस्य सुतां चैव भुक्त्वा चान्द्रायणं चरेत् ॥ इति ।

यदा चेत्थं तदा न कुतश्चिद् भ्रान्तिबुद्धिर् व्याख्यानात् तत्प्रवृत्तेर् वा संदेहः कार्यः शास्त्रस्य विविक्तत्वात् ॥ १.५३ ॥

दशपूरुषविख्याताच् छ्रोत्रियाणां महाकुलात् ।
स्फीताद् अपि न संचारिरोगदोषसमन्वितात् ॥ १.५४ ॥

दश पूरुषा मातृतः पञ्च पितृतश् च ख्याता यस्मिन् कुले तस्मात् कन्या ग्राह्येति नियम्यते । यथा आश्वलायनः- “कुलम् अग्रे परीक्षेत मातृतः पितृतश् च” इति । इदम् अपरं विशेषणं श्रोतियाणां महाकुलात् । “श्रोत्रियश् छन्दो ऽधीते” (पाण् ५.२।८४) इत्य् अध्ययनश्रुतेन श्रोत्रियो भवतीति श्रुतं लक्ष्यति । माहाकुलात् पुत्रपौत्रपशुदासीग्रामादिस्मृद्धाद् इति । एवं सर्वप्राप्तौ सत्याम् अपवादम् आह — स्फीताद् अपि न ग्राह्या संचारिरोगान्वितात् । संचारिणः शुक्रशोणितानुयाता रोगाः कुष्ठार्शःप्रभृतयः[तैः], दोषैश् च निष्पुरुषत्वादिभिर् अन्वितात् । अत एव मनुः ।

महान्त्य् अपि समृद्धानि गोऽजाविधन्धान्यतः ।
स्त्रीसंबन्धे दशेमानि कुलानि परिवर्जयेत् ॥ इति ।
हीनक्रियं निष्पुरुषं निश्छन्दोलोमशार्शसम् ।
क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च ॥ इति ।

हीनक्रियं यथाविहितगर्भाधानादिक्रियारहितम् । निष्पुरुषं कन्याजन्मादिबहुलम् । निश्छन्दो वेदाध्ययनरहितम् । लोमशमत्युल्बणलोमयुक्तम् । अर्शसमर्शोव्याधियुक्तम् । हारीतो पि- “श्वित्रिकुष्ठ्युदरियक्ष्मामयाव्यल्पायुरनार्श(रर्श)स(सा) [नार्षेया] ब्रह्मसमानार्षेयं चेत्य् एतान्य् अपतितान्य् अपि कुलानि वर्जनीयानि भवन्ति । कुलानुरूपाः प्रजाः सम्भवन्तीत्य् आदितः षट् । अयज्ञियत्वाद् अनार्षेयम् । अदैवत्वाद् अब्रह्म । एककुलत्वात् समानार्षेयम् इति । [८५] तस्मात् सप्त पितृतः परीक्ष्य पञ्च मातृतो नग्निकां श्रेष्ठां भ्रातृमतीं भार्यां विन्देत । तस्मात् कुलनक्षत्रविज्ञानोपपन्नां वरयेत्” । आमयावि अत्रोकेतरसंचारिरोगवत् । अत्र च श्वित्र्यादीनि षड् वर्जनीयानि । अत्र हेतुः — कुलानुरूपाः प्रजा भवन्तीति । अनार्षेयम् अस्मर्यमाणगोत्रप्रवरम् । तस्य च वर्ज्यत्वम् अयज्ञियत्वात् । अयज्ञियत्वं च यज्ञेष्व् अस्मर्यमाणगोत्रप्रवरस्यानधिकारात् । अब्रह्माविद्यमानवेदाध्ययनम् । तद्वर्ज्यत्वे हेतुः — अदैवत्वाद् इति, दैवकर्मशून्यत्वात् । “नग्निका दशवर्षा” इत् भविष्यत्पुराणम् । यमश् च ।

चतुर्दश कुलानीमान्य् अविवाह्यानि निर्दिशेत् ।
अनार्षेयं ब्राह्मणानाम् ऋत्विजां च विवर्जयेत् ॥
अत्युच्चम् अतिह्रस्वं च अतिवर्णं च वर्जयेत् ।
हीनाङ्गम् अतिरिक्ताङ्गम् आमयाविकुलानि च ॥
श्वित्रिकुष्ठिकुलादीनां कुर्याद् विपरिवर्जनम् ।
सदा कामकुलं वर्ज्यं लोमशानाम् च यत् कुलम् ।
अपस्मारिकुलं यच् च यच् च पाण्डुकुलं भवेत् ॥

ऋत्विजो ऽत्र निन्द्ययाजकाः । कामकुलं कामप्रधानकुलम् । अतिवर्णम् अतिकृष्णम् अतिगौरं वा ॥ १.५४ ॥

किं च

एतैर् एव गुणैर् युक्तः सवर्णः श्रोत्रियो वरः ।
यत्नात् परीक्षितः पुंस्त्वे युवा धीमाञ् जनप्रियः ॥ १.५५ ॥

एतैर् एव गुणैः पूर्वोक्तैर् युक्तो दोषैश् च वर्जितो वरो भवति । सवर्ण उत्कृष्टो वा यदि श्रोत्रियो भवति । यत्नात् परीक्षितः पुंस्त्वे पुरुषार्थस्य तन्मूलत्वात् । परीक्षा च नारदोक्ता ।

परीक्ष्यः पुरुषः पुंस्त्वे निजैर् एवाङ्गलक्षणैः ।
पुमांश् चेद् अविकल्पेन स कन्यां लब्धुम् अर्हति ॥
सुबद्धजत्रुजान्वस्थिसुबद्धांसशिरोरुहः ।
स्थूलघाटस् तनूजत्वगविलग्नगतिस्वरः ॥
रेतो ऽस्य प्लवते वाप्सु ह्रादि मूत्रं च फेनिलम् ।
पुमान् स्याल् लक्षणैर् एभिर् विपरीतस् तु षण्डकः ॥

[८६] चतुर्दसविधः पअण्डः शास्त्रे दृष्टो मनीषिभिः ।

चिकित्स्यश् चाचिकित्स्यश् च तेषाम् उक्तो विधिः क्रमात् ॥
निसर्गषण्डो वध्रश् च पक्षपण्डस् तथैव च ।
अभिशापाद् गुरो रोगाद् देवक्रोधात् तथैव च ॥
ईर्ष्यापण्डश् च सेव्यश् च वातरेता मुखेभगः ।
आक्षिप्तम् ओघबीजौ च शालीनो ऽन्यापतिस् तथा ॥
तत्राद्यावप्रतीकारौ पक्षाख्यं मासम् आचरेत् ।
अनुक्रमात् त्रयस्यास्य कालः संवत्सरः स्मृतः ॥
ईर्ष्यापण्डादयो ये ऽन्ये चत्वारः समुदाहृताः ।
त्यक्तव्यास् ते पतितवत् क्षतयोन्यापि च स्त्रिया ॥
आक्षिप्तम् ओघबीजाभ्यां कृते ऽपि पतिकर्मणि ।
पतिर् अन्यस् ततो नार्या वत्सरार्धं प्रतीक्ष्य तु ॥
शालीनस्यापि घृष्टस्त्रीसंयोगाद् भ्रश्यति द्वि(ध्व)जः ।
तं हीनविषयं तु स्त्री वर्षं क्षिप्त्वान्यम् आश्रयेत् ॥
अन्यस्यां यो मनुष्यः स्याद् अमनुष्यः स्वयोषिति ।
लभेत सान्यं भर्तारम् एतत् कार्यं प्रजापतेः ॥
अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनो नराः ।
क्षेत्रं बीजवते देयं नाबीजी क्षेत्रम् अर्हति ॥

सुबद्धं सुश्लिष्टम्, जत्रु ग्रीवास्कन्धयोः संधिः । घाटा ग्रीवापश्चाद्भागः । निसर्गपण्डो लिङ्गवृषणहीन एवोत्पन्नः । वध्रश् चालिताण्डः । पक्षपण्डो यस्य पक्षान्तरिता रतिशक्तिः । गुरोर् अभिशापाद् एव, देवक्रोधाद् एव देवनिन्दाजनितक्रोधात् । ईर्ष्यापण्डः स्वस्त्रीविषय ईर्ष्यास्तम्भितरेताः । सेव्यः स्त्रिया बहुप्रकारं सेव्यमानो जातरिरंसः । वातरेता यस्य रतान्ते लिङ्गेन वातनिःसरणमात्रम् । मुखेभगः, यः परमुख एव भगकार्यं करोति । आक्षिप्तरेता विसर्गसमये यस्य रेतः प्रत्यक्प्रवर्तते । मोघबीजो यस्य गर्भादानसमर्थं रेतो न भवति । शालीनो यस्य धृष्टस्त्रीसंनिपाताल् लिङ्गपातो भवति । अन्यापतिः — यस्य भार्याव्यतिरिक्तायाम् एव योषिति पुंस्त्वम् । मासम् आचरेत्, मासं यावत् प्रतीक्षेत । [८७] [एतेभ्यः पूर्वज्ञातेभ्यो न कन्या देया (यदि त्व् अज्ञानाद् दद्याच् चिकित्स्येषु चिकित्सां यावत् प्रतीक्षेत ।] अचिकित्स्यत्वे दत्वाच्छिद्यान्यस्मै देया ।) युवा न वृद्धः । धीमान् अभ्रान्तचित्तः, सर्वस्य चित्तमूलत्वात् । अत एव “बुद्धिमते कन्याम् उपयच्छेत्” इत्य् उक्तम् । जनप्रियो न विरक्तजनः, दृष्टादृष्टस्य तन्मूलत्वात् । गौतमो ऽपि- “विद्याचारित्रबन्धुशीलसंपन्नाय दद्यात्” इति ॥ १.५५ ॥

किं च

यद् उच्यते द्विजातीनां शूद्रादारोपसंग्रहः ।
नैतन् मम मतं यस्मात् तत्रात्मा जायते स्वयम् ॥ १.५६ ॥

यद् उच्यते चतस्रो भार्या ब्राह्मणस्य तिस्रो राज्ञो द्वे वैश्यस्येति शूद्रादारोपसंग्रहः । नैव मम तन्मतम् । किम् इति । यस्माद् अयं तत्र जायते स्वयं तस्माज् जाय भवति, “यद् अस्यां जायते पुनः” इति श्रुतेः । मनुर् अपि ।

हीनजातिं स्त्रियं मोहाद् उद्वहन्तो द्विजातयः ।
कुलान्य् एव नयन्त्य् आशु ससंतानानि शूद्रताम् ॥ इति ।

तथा ।

शूद्रां शयनम् आरोप्य ब्राह्मणो यात्य् अधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्याद् एव हीयते ॥ इति ।

यत् पुनर् उक्तम्,

न ब्राह्मणक्षत्रिययोर् आपद्य् अपि हि तिष्ठतोः ।
कस्मिंश्चिद् अपि वृत्तान्ते शूद्रा भार्योपदिश्यते ॥

इति, तत् तयोर् अत्यन्तप्रतिषेधार्थं न वैश्यादिप्राप्त्यर्थम् ॥ १.५६ ॥

अनुकल्पक्रमम् आह ।

तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्रियविशां भार्याः स्वा शूद्रजन्मनः ॥ १.५७ ॥

यदा पुनरुक्तलक्षणा सवर्णा नास्ति पूर्वा च विनष्टा[न] चानाश्रमिणा स्थातव्यं न चाश्रमान्तरे ऽधिक्रियते सामर्थ्यड् बहुधनो बालापत्यश् च तदा तस्याम् अवस्थायां तिस्रो द्वे एका च ब्राह्मणक्षत्रियविशां भार्या वर्णानुपूर्व्येण स्वा शूद्रस्य सवर्णा पुनश् चतुर्थी मुख्या स्थितैव । यथाह मनुः ।

शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।

[८८] ते च स्वा चैव राज्ञः स्युर् ताश् च स्वा चाग्र्यजन्मनः ॥

कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमशो ऽवराः ॥ इति ।

कामतः प्रवृत्तानां न धर्मतः, अत एव ता जघन्याः । क्रमशो न व्युत्क्रमेण, व्युत्क्रमे च दोषो मनुना दर्शितः ।

शूद्रावेदी पतत्य् अत्रेर् उतथ्यतनयस्य च ।
शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः ॥ इति ।

अत्रिगौतमयोर् इदं मतं शूद्रावेदी पतति वेदनमात्रेणैव । शौनकस्य सुतोत्पत्त्या, तस्यापत्येनेति भृगोः । तच् च व्युत्क्रमेणेति द्रष्टव्यम् । इतरथा,

चतुस्त्रिद्व्येकभागी ना वर्णशो ब्राह्मणात्मजा ।

इति भागविभागौ न स्याताम् । न च तत्प्राधान्यं श्राद्धादिदानेषु कार्यम्,

दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।
नाश्नन्ति पितरस् तस्य न च स्वर्गं स गच्छति ॥

इति वचनात् ॥ १.५७ ॥

विवाहान् आह

ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता ।
तज्जः पुनात्य् उभयतः पुरुषान् एकविंशतिम् ॥ १.५८ ॥

ब्राह्मो नाम विवाहो ब्राह्मनानां उचित इति । तस्मिन्न् आहूय पूर्वोक्तलक्षणं वरं वरो(रे) वरयितव्यः अ(व्ये ऽ)र्थित्वे ज्ञाते शक्त्यालंकृत्य कन्या दीयते । मनुर् अपि ।

आच्छाद्य चार्हयित्वा च श्रुतशीलवते स्वयम् ।
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥ इति ।
देवलो ऽपि ।

ततो विनीतां कल्याणीं कन्यां कुलवयोन्विताम् ।
अलंकृत्यार्हते दद्याद् विवाहो ब्राह्म उच्यते ॥

यमश् च ।

अद्भिर् या दीयते कन्या ब्रह्मदायेति तां विदुः ॥

ब्रह्मदायेतिसाम्ज्ञा श्राद्धे पङ्क्तिपावनत्वव्यवहारार्थम् । तस्यां जातः पुनात्य् उभयत्र मातापितृकुले पुरुषान् एकविंशतिम् । यदि यथोक्तकारी भवति । तथा च गौतमः- “पुनन्ति साधवः पुराः” इति । अत्र मनुः ।

दश पूर्वापरान् वंश्यान् आत्मानं चैकविंशकम् ।
**ब्राह्मीपुत्रः सुकृतकृन् मोचयत्य् एनसः पितॄन् ॥ [८९]

सुकृतं विहितकरणं प्रतिषिद्धवर्जनं चोच्यते । आश्वलायनः- “तस्यां जातो द्वादशावरान् द्वादश परान् पुनात्य् उभयतः” इति ॥ १.५८ ॥

यज्ञस्थऋत्विजे दैवः

विवाह इत्य् अनुवर्तते, दीयते शक्त्यलंकृतेति च । ऋत्विजे यज्ञं कुर्वते दक्षिणात्वेन यथाशक्त्य् अलंकृत्य कन्या दीयत एव दैवो विवाहः ॥

आदायार्षस् तु गोद्वयम् ।

वराद् गोमिथुनं गृहीत्वा तस्मै यथाशक्त्य् अलंकृत्य कन्या दीयत इत्य् एष आर्षो विवाहः । शौनकः- “गोमिथुनं दत्वोपयच्छेत स आर्षः” इति ।

अनयोः फलम् आह ।

चतुर्दश प्रथमजः पुनात्य् उत्तरजश् च षट् ॥ १.५९ ॥

प्रथमविवाहजातो दैवविवाहोत्पन्नः सप्त पूर्वान् सप्तावरान् पुरुषान् पुनाति । उत्तर आर्षो विवाहस् तज्जस् त्रीन् पूर्वांस् त्रीन् अवरान् इत्य् एवं षट् पुरुषान् पुनाति ॥ १.५९ ॥

सहोभौ वरतां धर्मम् इत्य् उक्त्वा दीयते ऽर्थिने ।
स कायः

उभौ सह धर्मं चरताम् इत्य् एवं कन्यावराव् उक्त्वा यथाशक्त्य् अलंकृत्य कन्या कन्यार्थिने दीयते यत् स कायः प्राजापत्यो विवाहः ।

तस्य फलम् आह ।

पावयेत् तज्जः षड्वंश्यान् सह चात्मना ॥ १.६० ॥

तस्यां जातः षट्पूर्वान् षड् अपरान् पुरुषान् आत्मानं च त्रयोदशं पावयेत् । अत्र देवलः ।

एते विवाहाश् चत्वारो धर्म्यास् तोयप्रधानिकाः ।
अशुल्का ब्राह्मणार्हाश् च तारयन्ति द्वयोः कुलम् ॥
चतुर्ष्व् एतेषु दत्तायाम् उत्पन्नास् तनयाः स्त्रियाम् ।
दातुः प्रतिग्रहीतुश् च पुनन्त्य् आ सप्तमं कुलम् ॥ इति ॥ १.६० ॥
आसुरो द्रविणादानात्

वराद् द्रविणम् आदायात्मार्थं कन्यार्थं च पित्रादिभिर् यत् कन्यार्पणं क्रियते स आसुरो विवाहः ।

[९०] गान्धर्वः समयान् मिथः ।

कन्यावरयोर् अन्योन्यसमयात् त्वं मे भार्या त्वं मे पतिर् इत्य् एवंरूपाद् दाननिरपेक्षाद् यः कन्यास्वीकारः स गान्धर्वो विवाहः ।

राक्षयो युद्धहरणात्

युद्धेन कन्याबन्धूञ् जित्वा यत् कन्याहरणं कन्यास्वीकारः स राक्षसो विवाहः ।

पैशाचः कन्यकां छलात् ॥ १.६१ ॥

कन्यकां छलाद् अपहृत्य यत् स्वीकरोति स पैशाचो विवाहः । केचित् पठन्ति “कन्यकाछलात्” इति । तस्यार्थः — कन्याछलनात् तत्स्वीकारः पैशाचो विवाह इति । एते ऽष्टौ विवाहाः । विवाहशब्दो यद्य् अपि कन्यायाः सप्तपदातिक्रमेण(मणे) मुख्यस् तथापि ऋत्विज्यायात् (?) तत्तद्गृह्यादिशास्रविहितभार्यात्वसाधके कर्मसमुदाये वर्तते । स च समुदाय उपाधिभेदाद् ब्राह्मादिव्यपदेशं लभते । तदुपाधित्वेनैव दानविवाहशब्दयोः सामानाधिकरण्यम् । यथा- “अलंकृत्य कन्याम् उदकपूर्वं दद्याद् एष ब्राह्मो विवाहः” इति । न पुनर् एव विवाहशब्दार्थः । तथा सति हि- “उदगयन आपूर्यमाणे पक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः” इत्य् उक्त्वा यद् उक्तम्, “तेषां पुरस्ताच् चतस्र आज्याहुतीर् जुहुयात्” इति, तन् नोपपद्यते । न हि कन्यादानात् पुरस्ताद् एता आहुतयः सन्ति । तस्माद् दानविवाहयोर् भेदात् तदभिधानयोः पदयोः सामानाधिकरण्यम् उपचारेणैव व्याख्येयम् । यत एव दानं न विवाहो ऽत एव गान्धर्वादिषु विवाहेषु दानम् अन्तरेणैवोपयमनं कन्यास्वीकारात्मकं विवाहत्वेनाह शौनकः- “मिथः समयं कृत्वोपयच्छेत स गान्धर्वः” । मिथः परस्परं कन्यावरावहं ते भर्ता त्वं मे भार्येति संप्रतिपत्तिं कृत्वा [९१] कन्याम् उपगच्छेत स्वीकुर्याद् इति तस्यार्थः । ततो ऽत्र दानं न विद्यते विवाहस् तु भवति । अस्य च विवाहान्तरेभ्यो भेदको धर्मः कन्यावरयोर् मिथः संप्रतिपत्तिः । एवं राक्षसपैशाचयोर् अपि ववाहत्वं कन्यादानरहितम् एव द्रष्टव्यम् । युद्धं छलनं च तयोर् भेदकौ धर्मौ । तद् आह- “हत्वा भित्त्वा च शीर्षाणि रुदतीं रुदद्भ्यश् च राक्षसः” । तथा पैशाचम् अपि मनुर् आह ।

सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।
स पापिष्ठो विवाहानां पैशाचः कथितो ऽष्टमः ॥

एवम् उपयमनपाणिग्रहणशब्दवत् परिणयनशब्दो ऽपि दण्डिन्यायेनैव कर्मसमुदाये शास्त्रेषु प्रयुज्यते । एषां विवाहानां मध्ये ऽयम् अस्य धर्म्यो वर्णस्यायम् अधर्म्य इत्य् आह मनुः ।

षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरो ऽवरान् ।
विट्शूद्रयोस् तु तान् एव विद्याद् धर्म्यान् अराक्षसान् ॥

ब्राह्मादीन् गान्धर्वपर्यन्तान् विवाहान् षड्ब्राह्मणस्य धर्माद् अनपेतान् विद्यात् । अवरान् पश्चाद् उक्तान् आसुरादीन् पैशाचान्तांश् चतुरो विवाहान् क्षत्रियस्य । वैश्यशूद्रयोर् अपि तान् एव राक्षसवर्जितान् विद्याज् जानीयाद् इत्य् अर्थः । एषाम् अपि मध्ये प्रशस्तान् आह ।

चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।
राक्षसं क्षत्रियस्यैकम् आसुरं वैश्यशूद्र्योः ॥

ब्राह्मो दैव आर्षः प्राजापत्यश् चेति चत्वारो विवाहा ब्राह्मणस्य प्रशस्ताः । आसुरगान्धर्वौ तु न प्रशस्तौ, न निन्दितौ । क्षत्रियस्य पुना राक्षस एकः प्रशस्तः । आसुरगान्दह्र्वौ तु पूर्ववत् । वैश्यशूद्रयोस् त्व् आसुर एकः प्रशस्तः । गान्धर्वस् तु पूर्ववत् । पैशाचः पुनः सर्ववर्णानां निन्दित एव,

स पापिष्ठो विवाहानां पैशाचः कथितो ऽष्टमः ।

इत्य् अविशेषस्मृतेः । यत् तु मनुनैवोक्तम्,

क्षत्रस्य चतुरो ऽवरान् ।
**विऋशूद्रयोस् तु तान् एव विद्याद् धर्म्यान् राक्षसान् ॥ [९२]

इति, तत् पैशाचस्य ब्राह्मणाद् अन्येषां वर्णानाम् अत्यन्तापद्य् अनुग्रहार्थम् । तस्माद् ब्राह्मणस्यापद्य् अपि पैशाचानुग्रहो नास्तीति सिद्धम् ॥ १.६१ ॥

प्राणिर् ग्राह्यः सवर्णासु गृह्णीयात् क्षत्रिया शरम् ।
वैश्या प्रतोदम् आदद्याद् वेदने त्व् अग्र्यजन्मनः ॥ १.६२ ॥

सवर्णायाम् उह्यमानायां वरेण तस्याः पाणिर् ग्राह्यः । क्षत्रिया ब्राह्मणेनोह्यमाना शरं गृह्णीयात् । य(त)था तस्याः पाणिम् इव तं शरं वर उपाददीत । वैश्या तु विप्रेण क्षत्रियेण वा परिणीयमाना प्रतोदं बलीवर्दखेदनम् आददीत । अग्यजन्मशब्द उत्कृष्टवर्णमात्रपरः । मनुः ।

वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥ १.६२ ॥

कन्याप्रदानाधिकारिणस् तत्क्रमं चाह ।

पिता पितामहो भ्राता सकुल्यो जनजी तथा ।
कन्याप्रदः पूर्वनाशे प्रक्ष्तिस्थः परः परः ॥ १.६३ ॥

पित्रादीनां क्रमपरिपठितानां पूर्वस्य पूर्वस्याभावे सत्य् अप्रकृतिस्थत्वे तू(चो)त्तर उत्तरः प्रकृतिस्थः कन्याप्रदो भवति । अविप्लुतबुद्धिः प्रकृतिस्थः । अप्रक्ष्तिस्थेन पित्रापि कृतं कन्याप्रदानम् अकृतम् एव । यद् आह नारदः ।

स्वतन्त्रो ऽपि हि यत् कार्यं कुर्याद् अप्रकृतिं गतः ।
तद् अप्य् अकृतम् एव स्याद् अस्वातन्त्र्यस्य हेतुतः ॥

स्वतन्त्रो ऽपि पितृत्वादिना स्वातन्त्र्यार्हो ऽपि यद्य् अप्रकृतिस्थत्वेन परतन्त्रो भवति तदा तत्कृतं कार्यं वाग्दत्तादिकर्माकृतं वेदितव्यम् । तथा ।

पिता दद्यात् स्वयं कन्यां भ्राता वानुमते पितुः ।
मातामहो मातुलश् च सकुल्यो बान्धवस् तथा ॥
मात्र(ता)भावे तु सर्वेषां प्रकृतौ यदि वर्तते ।
तस्याम् अप्रकृतिस्थायां दद्युः कन्यां स्वजातयः ॥

विष्णुः- “पिता पितामहो भ्राता सकुल्यो मातामहो माता च । इति कन्याप्रदाः पूर्वाभावे प्रकृतिस्थः परः परः” इति ॥ १.६३ ॥

अप्रयच्छन् समाप्नोति भ्रूणहत्याम् ऋताव् ऋतौ ।

कन्यायाः प्रदाताधिकारी ताम् अददद् गर्भहत्यां प्रत्युत समाप्नोति संपूर्णा प्राप्नोति । यत् तु मनुप्रवचनम्,

कामम् आ मरणात् तिष्ठेद् गृहे कन्यर्तुमत्य् अपि ।
न त्व् एवैनां प्रयच्छेत् तु गुणहीनाय कर्हिचित् ॥

इति, तद् गुणवद्वरसंभवे गुणहीनाय न न दातव्येत्य् एवंपरं न तु कन्यर्तुदर्शनम् अदोष इत्य् एवमर्थम् । तथा हि सति वचनान्तर्विरोधः । तथा च काश्यपः ।

पितुर् गेने तु या कन्या रजः पश्येद् असंस्कृता ।
भ्रूणहत्या पितुस् तस्याः सा कन्या वृषली स्मृता ॥

वृषली धर्मानधिकारिणी ।

यस् तु तां वरयेत् कन्यां ब्राह्मणो ज्ञानदुर्बलः ।
अश्राद्धेयम् अपाङ्क्तेयं तं विद्याद् वृषलीपतिम् ॥

कन्यया चाहम् ऋतुमतीति बान्धवेभ्यो निवेदयितव्यम् इत्य् आह नारदः ।

कन्या नर्तुम् उपेक्षेत बान्धवेभ्यो निवेदयेत् ।
न चेत् प्रदद्युस् तां भर्त्रे ते स्युर् ब्रह्महभिः समाः ॥ इति ।

अत्र संवर्तः ।

माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ।
त्रयस् ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥
गम्यं त्व् अभावे दातॄणां कन्या कुर्यात् स्वयं वरम् ॥ १.६४ ॥

दातॄणां पित्रादीनाम् अभावे स्वयम् एव कन्या गम्यं गमनार्हं सवर्णम् उत्कृष्टवर्णं वा पातित्यादिदोषरहितं वरं भर्तारं कुर्यात् । एतच् च प्राग्रजोदर्शनात् । दृष्टे तु तस्मिन् पित्रादिषु सत्स्व् अपि स्वयम् अपि कन्या वरं कुर्यात् । न पित्रादिशासनम् अपेक्षेत । यद् आह बौधायनः ।

त्रीणि वर्षाण्य् ऋतुमती काङ्क्षेत पितृशासनम् ।
ततश् चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ॥
अविद्यमानं(ने) सदृशं(शे) गुणहीनम् अपि व्रजेत् ॥

सदृशो गुणवान् । यत् तु विष्णुनोक्तम्,

ऋतुत्रयम् अपास्यैव कन्या कुर्यात् स्वयं वरम् ।

इति, तद् गुणवरलाभे सति द्रष्टव्यम् । तदलाभे तु वर्षत्रयम् उपासनीयम् । [९४] अत्र मनुः ।

अलंकारं नाददीत पित्र्यं कन्या स्वयंवरा ।
मातृकं भ्रातृदत्तं वा स्तेयं स्याद् यदि तं हरेत् ॥

वरम् अपि प्रति स एवाह ।

पित्रे च दद्याच् छुल्कं तु कन्याम् ऋतुमतीं हरन् ।
स हि स्वाम्याद् अतिक्रामेद् ऋतूनां प्रतिरोधनात् ॥

शुल्कं मूल्यम् ॥ १.६४ ॥

सकृत् प्रदीयते कन्या हरंस् ताम् चोरदण्डभाक् ।
दत्ताम् अपि हरेत् पूर्वाच् छ्रेयांश् चेद् वर आव्रजेत् ॥ १.६५ ॥

पित्रादिना कन्या सकृद् एव देया तां दत्वापहरन् वक्ष्यमाणेन कन्यास्तेयदण्डेन युज्यते । यस्मै वाचा दत्ता ततो ऽन्यश् चेत् प्रशस्तस्ततरो लभ्यते ततस् तस्मै देया न तु पूर्वस्मै । तत्र गौतमः- “प्रतिश्रुत्याधर्मसंयुक्ताय न दद्यात् (?)” इति । नारदः ।

स्त्रीपुंसयोश् च संबन्धाद् वरणं प्राग् विधीयते ।
वरणाद् ग्रहणं पाणेः संबन्धो ऽयं त्रिलक्षणः ॥

वरणं पाणिग्रहणम् उपभोगश् चेति त्रिविधः संबन्धः ।

तयोर् अनियतं प्रोक्तं वरणाद् दोषदर्शनात् ।
पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् ॥
तेषां निष्ठा तु विद्वद्भिर् विज्ञेया सप्तमे पदे ॥

अस्यार्थः — तयोः कन्यावरयोर् अनियतम् अनियमः । वृतापि न परिणीयते वाग्दत्तापि न प्रदीयत इत्य् एवंरूपः, तस्य कालं कारणं च वक्तुम् उक्तम् — वरणाद् दोषदर्शनाद् इति । वरणाद् ऊर्ध्वं कन्यावरयोर् अन्योन्यदोषदर्शनाद् अनियमो भवति । वरणाद् इति सावधारणं वचनम् । वरणाद् एवोर्ध्वं न विवाहाद् इत्य् अर्थः । अत्र हेतुः — “पाणिग्रहणिका मन्त्राः” इति । तैर् मन्त्रैर् उत्पादितभार्यात्वरूपसंस्कारायाः परित्यागो न युक्त इति । तथा ।

प्रतिगृह्य तु यः कन्यां वरो देशान्तरं व्रजेत् ।
त्रीन् ऋतून् समतिक्रम्य कन्यान्यं वरयेद् वरम् ॥

कात्यायनः ।

वरयित्वा तु यः कश्चित् प्रणश्येत् पुरुषो यदा ।
**रक्तागमांस् त्रीन् अतीत्य कन्यान्यं वरयेद् वरम् ॥ [९५]

वाग्दत्ताविषयम् एतद् वाक्यद्वयम् । रक्तागमो रजोदर्शनम् ।

प्रदाय गच्छेच् छुल्कं यः कन्यायाः स्त्रीधनं तथा ।
धार्या सा वर्षम् एकं तु देयान्यस्मै विधानतः ॥

एतद् अपि प्राग् विवाहाद् द्रष्टव्यम् । वसिष्ठः ।

अद्भिर् वाचा च दत्तायां म्रियेतादौ वरो यदि ।
न च मन्त्रोपनीता स्यात् कुमारी पितुर् एव सा ॥ इति ।

न च मन्त्रोपनीता मन्त्रवता विवाहकर्मणोपनीता प्राप्ता, संस्कृता न भवतीत्य् अर्थः । कात्यायनः ।

पूर्वदत्ता तु या कन्या अन्येनोढा यदा भवेत् ।
संस्कृतापि प्रदेया स्याद् यस्मै पूर्वं प्रतिश्रुता ॥

चेद् गुणवत्तर इति शेषः ॥ १.६५ ॥

अनाख्याय ददद् दोषं दण्ड्य उत्तमसाहसम् ।

कन्याप्रदः कन्यदोषं स्वयं जानन् वरेणाविदितं तस्य च प्रत्यक्षायोग्यम् अकथयित्वा तस्मै यदि प्रयच्छति तदासाव् अशीतिपणसहस्रं दण्ड्यः । कन्यादोषं नारद आह ।

दीर्घकुत्सितरोगार्ता व्यङ्गा संस्पृष्टमैथुना ।
धृष्टान्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥

सुमन्तुः- “कन्या कुत्सितान्यजातिकर्मशीला व्याध्युपहता परिणीता यद्य् अक्षतयोनिः स्यात् परित्यक्तव्या” । क्षतयोनिस् तु भर्तव्या पोषणीयैव । यत् तु नारदेनोक्तम्,

यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति ।
तस्य कुर्यान् नृपो दण्डं पूर्वसाहसचोदितम् ॥

इति, एतत् त्यागनिमित्तदोषव्यतिरिक्तविषयम् । पणशतद्वयं सप्तत्यधिकं पूर्वसाहसः । अत्र मनुः ।

विधिवत् परिगृह्यापि त्यजेत् कन्याम् अनिन्दिताम् ।
व्याधितां विप्रदुष्टां च छद्मना चोपपादिताम् ॥

विविधं प्रकर्षेण च दुष्टां विप्रदुष्टां । वरत्यागहेतून् दोषान् आह नारदः ।

उन्मत्तः पतितः क्लीबो दुर्भगस् त्यक्तबान्धवः ।
**कन्यादोषौ च यौ पूर्वाव् एष दोषगणो वरे ॥ [९६]

दीर्घकुत्सितरोगित्वं व्यङ्गता च पूर्वदोषौ ।

अदुष्टां च त्यजन् दण्ड्यः

अदुष्टां त्यागदोषरहितां कन्यां त्यजन्न् उत्तमसाहसं वरो दण्ड्यः । अत्र नारदः ।

प्रतिगृह्य तु यः कन्याम् अदुष्टाम् उत्सृजेन् नरः ।
विनेयः सो ऽन्यकामो ऽपि कन्यां ताम् एव चोद्वहेत् ॥

विनेयो दण्ड्यः \

दूषयंस् तु मृषा शतम् ॥ १.६६ ॥

अशस्तेयं कन्येति मिथ्या वदन् पणशतं दण्ड्यः । यत् तु विष्णुनोक्तम्- “अदुष्टां दुष्टाम् इति ब्रुवन्न् उत्तमसाहसं दण्ड्यः” इति तद् अपरिणेयत्वापादकदोषाभिधानविषयम् इति ॥ १.६६ ॥

पुनर्भूलक्षणम् आह ।

अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः ।

या कृतविवाहा सती क्षतयोनिर् अक्षतयोनिर् वा कौमारेण भर्त्रा भर्त्रन्तरेण वा यथाविधि पुनर् उह्यते सा पुनर्भूः । यथाह मनुः ।

सा चेद् अक्षतयोनिः स्याद् गतप्रत्यागतापि वा ।
पौनर्भवेन भर्त्रासौ पुनः संस्कारम् अर्हति ॥

अस्यार्थः — क्लीबपतितोन्मत्तादिपरिणीतेषु जीवत्स्व् अदुष्टे वा भर्तरि मृते यम् अन्यं पतिं विन्दते स पौनर्भनो भर्ता । तेन पुनर् वैवाहिकविधिसंस्कृता पुनर्भूः । यद् वा क्लैब्यादिदोषरहितं पोषणादिसमर्थं कौमारं पतिम् उत्सृज्यान्यैः सह सुरतम् आचर्य पुनः पूर्वम् एव पतिं परिगृह्णाति सा गतप्रत्यागता क्षतयोनिश् च । स च भर्ता पौनर्भवः । पुनर्भूद्वयस्य चास्य स्वरूपं वसिष्ठ आह- “पुनर्भूर् या कौमारं भर्तारम् उत्सृज्यान्यैः सह चरित्वा पुनस् तस्यैव कुऋउम्बम् आविशति सा पुनर्भूर् भवति । या वा क्लीबं पतितम् उन्मत्तं भर्तारम् उत्सृज्यान्यं पतिं विन्दते । मृते वा सा पुनर्भूर् भवति” इति । तस्मात् पुनःसंस्कृतत्वं पुनर्भूलक्षणम् ।

स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥ १.६७ ॥

या पतिं परित्यज्य सवर्णम् अन्यं रागतो विवाहं विनैवोपभोगायाश्रयेत् सा [९७] स्वैरिणी । स्वैरिणीग्रहणं तद्वैलक्षण्येन पुनर्भूज्ञानाय । तज्ज्ञापनं च पौनर्भवस्य भर्तुः पुत्रस्य च ज्ञापनार्थम् ॥ १.६७ ॥

पुनर्भूप्रसङ्गात् क्षेत्रजपुत्रोत्पत्तिविधानम् आह ।

अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋताव् इयात् ॥ १.६८ ॥
आ गर्भसंभवाद् गच्छेत् पतितस् त्व् अन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रज्ञः स भवेत् सुतः ॥ १.६९ ॥

मृते जीवति पत्यौ वा गर्भाधानाक्षमे स्त्रियम् अनपत्यां पुत्रकामां तदुत्पत्तियोग्यां गुरुभिः प्रजोत्पत्त्यर्थम् (?) अनुज्ञातो भर्तुर् ज्येष्ठः कनिष्ठो वा भ्राता वा तदलाभे तत्सपिण्डः सगोत्रो वा ताम् अत्य(भ्य)क्तसर्वाङ्ग ऋतुकाले गच्छेत् । गर्भे जाते निवर्तेत । उक्तप्रकारातिक्रमेण गच्छन् पतितो भवेत् । इत्थमुत्पन्नः पुत्रः क्षेत्रजसंज्ञो भवति । अत्र च बृहस्पतिः ।

उक्त्वा नियोगो मनुना निषिद्धः स्वयम् एव तु ।
युगह्रासाद् अशक्यो ऽयं कर्तुं सर्वैर् विधानतः ॥
तपोज्ञानसमायुक्ताः कृते त्रेतायुगे नराः ।
द्वापरे च कलौ नॄणां शक्तिहानिर् विनिर्मिता ॥
अनेकधा कृताः पुत्रा ऋषिभिर् ये पुरातनैः ।
न शक्यास् ते ऽधुना कर्तुं शक्तिहीनतया नरैः ॥

मनुः ।

क्षेत्रजादीन् सुतान् एतान् एकादश यथोदितान् ।
पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिणः ॥
य एते ऽभिहिताः पुत्राः प्रसङ्गाद् अन्यबीजजाः ।
यस्य ते बीजतो जातास् तस्य ते नेतरस्य तु ॥

अथ ब्रह्मपुराणम् ।

मृते भर्तरि या नारी त्यक्तवत्य् अथ तं स्वयम् ।
सवर्णाञ् जनयेद् गर्भं भर्तुः पौनर्भवं सुतम् ॥
यदि सा बालविधवा बालात् त्यक्ताथ वा क्वचित् ।
तदा भर्तुस् तु संस्कार्या गृहीता येन केनचित् ॥
त्यक्ता भर्तृगृहं गच्छेद् यदि दोषं विना पुनः ।
भ्रत्रा सा संस्कृत(स्कर्त)व्या च प्रायश्चित्तादिभिः क्रमात् ॥

[९८] स्त्रीणां पुनर् विवाहस् तु देवरात् पुत्रसंततिः ।

स्वातन्त्र्यं च कलियुगे कर्तव्यं न कदाचन ॥
यतः पातकिनो लोके नराः सन्ति कलौ युगे ॥ इति ॥ १.६८–६९ ॥

व्यभिचारिणीं प्रति यत् कार्यं तद् आह ।

हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।
परिभूताम् अधः शय्यां वासयेद् व्यभिचारिणीम् ॥ १.७० ॥

धने च धर्मे च निरस्तैश्वर्यां मलिनशरीरवस्त्रां देहधारणसमर्थान्नमात्रोपजीविनीम् क्षितिशायिनीं च कृत्वा व्यभिचारिणीं गृहैकदेशे वसयेत् । अत्र मनुः ।

विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्याद् एकविश्मनि ।
यत् पुंसः परदारेषु तच् चैनां चारयेद् व्रतम् ॥

नारदः ।

व्यभिचारे स्त्रिया मौण्ड्यम् अधः शयनम् एव च ।

कृतप्रायश्चित्ता तु संव्यवहार्या भवति,

कृतनिर्णेज्नांश् चैव न जुगुप्सेत् कर्हिचित् ।
इति मनुवचनात् ॥ १.७० ॥

स्त्रीप्रशंसाम् आह ।

सोमः शौचं ददौ स्त्रीणां गन्धर्वश् च शुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्य् अतः ॥ १.७१ ॥

सोमो देवः स्त्रीणां शुचित्वं दत्तवान् । गन्धर्वश् च कल्याणीं गिरम् । पावकः सर्वयज्ञार्हत्वम् । अतो हि ता मेध्या यज्ञार्हा योषितः । हिशब्दः प्रसिद्धौ ॥ १.७१ ॥

व्यभिचार ऋतौ शुद्धिर् गर्भे त्यागो विधीयते ।
गर्भभर्तृवधे चासां तथा महति पातके ॥ १.७२ ॥

व्यभिचारे सत्य् आसां रजोदर्शने शुद्धिर् भवति । एतच् च मानसे व्यभिचारे । यद् आह मनुः- “रजसा स्त्री मनोदुष्टा” इति । ततश् च रजोदर्शनात् प्राग् असंव्यवहार्या । संव्यवहाराय प्रायश्चित्तं कारयितव्या । यद् आह वसिष्ठः- “मनसा भर्तुर् अभिचारे त्रिरात्रं यवकं क्षीरौदनं वा भुञ्जानाधः शयीत । ऊर्ध्वं त्रिरात्राद् अप्सु निमग्ना गाय्त्र्या अष्टशतेन शिरोभिइर् जुहुयात् । पूता भवतीति विज्ञायते” इति । [९९] गर्भे त्यागो विधीय इति शूद्रगर्भविषयम् । यद् आह वसिष्ठः ।

ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण संगताः ।
अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥ इति ।

स्वस्या गर्भस्य भर्तुर् वा वधे भर्त्रा बन्धुभिश् चासां त्यागः कार्यः । चकारः शास्त्रान्तरोक्तत्यागहेतुसंग्रहार्थः । अत्र मनुः ।

ऋतुस्नाताथ या नारी भर्तारं नोपगच्छति ।
तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं तु विवासयेत् ॥

वसिष्ठः ।

चतस्रस् तु परित्याज्याः शिष्यगा गुरुगा च या ।
पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥

शिष्यो ऽत्र भर्तृशिष्यः । गुरुः पिता । जुङ्गितः पतितः, प्रतिलोमजो वा ।

त्रीणि स्त्रियाः पातकानि लोके धर्मविदो विदुः ।
भर्तुर् वधो भ्रूणहत्या स्वस्य गर्भस्य पातनम् ॥

तस्यास् त्यागकारणेषु महापातकेषु स्त्रीपुरुषसाधारणेषु, प्रातिस्विकेषु तु स्त्रियास् त्यागहेतुषु शिष्यगमनादिषु सर्वात्मना त्याग इति । अथ वायम् अर्थः — व्यभिचारे सति यदि रजोदर्शनात्मकम् ऋतुप्रवृत्त्या गर्भावनिश्चये शुद्धिः शुद्धिहेतुः प्रायश्चित्तक्रिया कार्या । गर्भे तु व्यभिचारनिमित्ते व्यभिचारिण्यास् त्यग एव न प्रायश्चित्तम् । न केवलं तस्मिन् गर्भे किं तु स्वकीयस्य यथा कथंचिद् उपात्तस्य गर्भस्य स्वभर्तुश् च वधे त्यागो न प्रायश्चित्तम् । महापातके तु त्यागो ऽभिहितो विशेष इति । महापातकेषु स्त्रीपुरुषसाधारणेषु सत्सु संभोगसंस्पर्शसंभाषणसहाधिकारविषयस् त्यागः कार्यः, न पुनर् गृहान् निर्वासनरूपः । यद् आह मनुः ।

एतम् एव विधिं कुर्याद् योषित्सु पतितास्व् अपि ।
वस्त्रान्नम् आसां देयं तु वसेयुस् तु गृहान्तिके ॥ इति ॥ १.७२ ॥

अधिवेदनीया आह ।

सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्य् अप्रियंवदा ।
स्त्रीप्रसूश् चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ १.७३ ॥

[सुरापीप्रभृतयो ऽधिवेदनीयाः। एवंविधसु भार्यासु भार्यान्तरं कर्तव्यम् [१००] इति यावत् । सुरापी मद्यपी । सुराशब्देनात्र मद्यं प्रतिपाद्यते न सुरा । तत्पानं हि महापातकत्वात् त्यागस्यैव हेतुः स्यात्, नाधिवेदनमात्रस्य । अत एव मनुः ।

मद्यपासत्यवृत्ता च प्रतिकूला च या भवेत् ।
व्याधिता चाधिवेत्तव्या हिंस्रार्थग्नी च सर्वदा ॥

व्याधिता दीर्घरोगा । धूर्ता प्रतारिका । वन्ध्या ऽनपत्या । अर्थघ्नी, अर्थनाशिका । अप्रियंवदा परुषभाषिणी । स्त्रीजननी चाधिवेत्तव्या । एतासु विद्यमानास्व् अपि भार्यान्तरं परिणेयम् इत्य् अर्थः । अत्र मनुः ।

वन्ध्याष्टमे ऽधिवेत्तव्या दशमे तु मृतप्रजा ।
एकादशे स्त्रीजननी सद्यस् त्व् अप्रियवादिनी ॥

तथा ।

या रोगिणी स्यात् तु हिता संपन्ना चैव शीलतः ।
सानुज्ञाप्याधिवेत्तव्या नावज्ञेया कथंचन ॥

रोगिणीग्रहणम् अप्रजसं स्त्रीप्रजां चोपलक्षयति । अत एव स्मृत्यन्तरम् ।

व्याधितां स्त्रीप्रजां वान्ध्याम् उन्मत्तां विगतार्तवाम् ।
अदुष्टां लभते त्यक्तुं तीर्थतो न तु धर्मतः ॥

तीर्थः योनिः । एतच् चाकामविषयम् । यत् पुनर् आपस्तम्बेनोक्तम्- “धर्मप्रजासंपन्ने दारे नान्यान् कुर्वीत । अन्यतरापाये कुर्वीत । प्राग् अग्न्याधेयाद् आधाने हि सती कर्मभिः संबध्यते” इति, तत्र प्राग् अग्न्याधेयाद् इति न विधिः, किं त्व् औचित्यप्राप्तानुवादः । अत एवाह बौधायनः- “एतयैव यजेत दारव्यतिक्रम ऋत्विग्व्यतिक्रमे च” इति । एतया पवित्रेष्ट्या शास्त्रीयाधिवेदननिमित्तम् अन्तरेण यद् अधिवेदनं स दारव्यतिक्रमः । तस्मिन्न् एव निमित्ते यजेत न चैतत् प्राग् अग्न्याधेयाद् उपपद्यते, त्रेतासाध्यत्वात् । तेनाहिताग्नेर् अधिवेदनम् अस्तीति सिद्धम् । प्राग् अन्याधेयाद् अधिवेदने द्वितीयादिकाप्य् अग्निहोत्रादिभिः कर्मभिर् अधिकारितया संबध्यते । यद् आह आपस्तम्बः- “आधाने हि सती कर्मभिः संबध्यते” इति । [१०१] यत् तु विष्णुवचनम्,

अग्निहोत्रादियज्ञेषु द्वितीया न सहाचरेत् ।
अन्यथा निष्फलं तस्य स्विष्टैः क्रतुशतैर् अपि ॥

इति, तज्ज्येष्ठायाम् अदुष्टायां सत्यां केवलद्वितीयासहाधिकारविषयम् । असवर्णद्वितीयाविषयं वा । यद् वाहिताग्निपरिणीतद्वितीयाविषयं । एतद्विषयम् एतद् अपि ।

प्रथमा धर्मपत्नी स्याद् द्वितीया रतिवर्धिनी ।
दृष्टम् एव फलं तत्र नादृष्टम् उपपद्यते ॥ इति ।

यत् तु द्वितीयभार्यापरिग्रहे पुनराधानवचनम्, तत् पूर्वभार्यायाम् अधर्मसंपन्नायां मृतायां वेति वेदितव्यम्, न तु द्वितीयविवाहमात्र इत् । मनुः ।

अधिविन्ना तु या नारी निर्गच्छेद् रुषिता गृहात् ।
सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ॥

पित्रादिकुलसंनिधाव् इत्य् अर्थः ॥ १.७३ ॥

अधिविन्ना तु भर्तव्या महद् एनो ऽन्यथा भवेत् ।

स्वगृहे पितृगृहे वा वसन्तीति शेषः ॥

यत्रानुकूल्यं दम्पत्योस् त्रिवर्गस् तत्र वर्धते ॥ १.७४ ॥

धर्मार्थकामास् त्रिवर्गः । स दम्पत्योर् आनुकूल्ये संप्रतिपत्तौ वर्धते, अतस् तदर्थं यतितव्यम् इति तात्पर्यार्थः । मोक्षो ब्रह्मयज्ञस्यैव गृहस्थस्य न सर्वस्येत्य् अभिप्रायेणोक्तं त्रिवर्ग इति ॥ १.७४ ॥

मृते जीवति वा पत्यौ या नान्यम् उपगच्छति ।
सेह कीर्तिम् अवाप्नोति मोदते चोमया सह ॥ १.७५ ॥

वाशब्दः समुच्चये । अतिरोहितम् अन्यत् । नित्यस्यापि पत्यव्यभिचारस्यानुषङ्गिकं फलम् एतद् उच्यते । पतिर् अपि भार्यां न व्यभिचरेद् इति मनुर् आह ।

अन्योन्यस्याव्यभिचारो भवेद् आमरणान्तिकः ।
एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥ इति ।

उभयोर् अव्यभिचारविधिर् नित्यः, तदतिक्रमे प्रायश्चित्तस्मरणात् ॥ १.७५ ॥

[१०२] आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् ।

त्यजन् दाप्यस् तृतीयांशम् अद्रव्यो भरणं स्त्रियाः ॥ १.७६ ॥

आज्ञाकारित्वादिगुणोपेतां भार्यां परित्यजन् धनस्य तृतीयांशं तस्यै दाप्यः । राज्ञेति सामर्थाद् गम्यते । भरणमात्रपर्याप्तधनस् तु भरणमात्रम् । स्त्रिया इति चतुर्थ्यर्थे षष्ठी ॥ १.७६ ॥

स्त्रीभिर् भर्तृवचः कार्यम् एष धर्मः परः स्त्रियाः ।

भार्याभिर् भर्तृवचसो ऽर्थः कार्यः । तत्करणं दृष्टप्रयोजनायोपयोगतां साधयति, स्वयं धर्मश् च भवति । न चान्यैः स्त्रीधर्मैस् तुल्यो ऽयम् । येन तैर् विकल्पेत । किं तु तत उत्कृष्टस् तेनैतदनुरोधेनैवान्यधर्मकरणम् । अत एव तद्विरोधिनो ऽधर्मान् निषेधति मनुः ।

नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्य् उपोषितम् ।
पतिं शुश्रूषते यत् तु तेन स्वर्गे महीयते ॥ इति ।

भर्तृशुश्रूषणेनाविरुद्धं व्रतादि पत्यनुज्ञया कार्यम् । यद् आह शङ्खः- “कामं भर्तुर् अनुज्ञया व्रतोपवासादीनाम् आरम्भः” इति, एतद् अप्रोषितभर्तृकाविषयम् । यतः प्रोषितभर्तृकां विष्णुधर्मेषु स्त्रियम् अधिकृत्य,

भर्तर्य् एवं प्रवसिते त्यक्तव्या पतिना शुभा ।
कुर्वीताराधनं नारी उपवासादिना हरेः ॥

इति श्रुतादि दृश्यते । शुभास्खलितचरित्रा ॥

आ शुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः ॥ १.७७ ॥

पतिश् चेन् महापातकी तदा प्रयश्चित्तापवर्गं यावत् प्रतिक्ष्यः । महापातकयुक्तो न शुश्रूष्य इत्य् अर्थः । एतच् च विवाहोत्तरकालं भर्तुः पातित्ये सति द्रष्टव्यम् । विवाहात् पूर्वं पतितेनोढापि न भार्या शास्त्रीयोद्वाहाभावात् ॥ १.७७ ॥

लोकानन्त्यदिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः ।
यस्मात् तस्मात् स्त्रियः सेव्याः कर्तव्याश् च सुरक्षिताः ॥ १.७८ ॥

लोकाश् चानन्त्यं च द्यौश् चेति समाहारे द्वन्दः । ततः षष्ठ्येकवचनम् । [१०३] तच् च लोकप्राप्त्यानन्त्यप्राप्तिद्युप्राप्तयो यथासंख्यं पुत्रपौत्रप्रपौत्रकैर् भवन्ति । यस्माद् एवं तस्मात् पुत्रादिहेतवः स्त्रियः सेव्या ऋतुकाले कर्तव्याश् च सुरक्षिताः । व्यभिचारपरिहाराय रक्षाविधानाच् च गमयति व्यभिचारोत्पन्नैर् नैतत् फलं जन्यते इति । तथा च श्रुतिः ।

अप्रमत्ता रक्षथ तन्तुम् एतम् आ वः क्षेत्रे परे बीजान्य् अवाप्सुः ।
जनयितुः पुत्रो भवति सांपराये मोघं वेत्ता कुरुते तन्तुम् एतम् ॥ इति ।

द्युशब्दश् चात्र सूर्यलोके वर्तते । तथा च मनुः ।

पुत्रेण लोकाञ् जयति पौत्रेणानन्त्यम् अश्नुते ।
अत पुत्रस्य पौत्रेण व्रध्नस्याप्नोति विष्टपम् ॥

ब्रध्नः सूर्यः । पितरं प्रति विवाहितायाः पुत्रोत्पत्तेस् तत्पितृपितामहगामि फलम् इदं श्राद्धस्येव पुत्रं प्रति विहितस्य पित्रादितृप्तिः ॥ १.७८ ॥

एवं पुत्रस्य श्रेयस्करत्वे ऽभिहिते तज्जननोपायम् आह ।

षोडशर्तुर् निशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् ।

रजोदर्शनप्रभृतिषोडशाहोरात्रात्मकः स्त्रीणाम् ऋतुर् गर्भग्रहणकालः । तं कालं प्रसिद्धम् अनूद्य विदधाति “तस्मिन् युग्मासु संविशेत्” इति । संविशेत् पुत्रं जनयितुम्, “लक्षण्यं जनयेत् सुतम्” इति वाक्यशेषात् । तथा च मनुः ।

युग्मासु पुत्रा जायन्ते स्त्रियो ऽयुग्मासु रात्रिषु ।
तस्माद् युग्मासु पुत्रार्थी संविशेद् आर्तवे स्त्रियम् ॥ इति ।
ब्रह्मचार्य् एव पर्वण्य् आद्याश् चतस्रस् तु वर्जयेत् ॥ १.७९ ॥

ब्रह्मचार्य् एव मैथुनविमुख एव पर्वणि पञ्चदशीद्वये भवेत् । “ऋतुकालाभिगामी स्यात्,” “यथाकामी भवेद् वापि” इति प्रसक्ते स्त्र्युपगमने पर्वपर्युदासो ऽयम् । ब्रह्मचार्य् एव पर्वणीति पर्वग्रहणं तिथ्यन्तराणि शास्त्रान्तरपर्युदस्तानि संगृह्णाति । तत्र मनुः ।

अमावस्याम् अष्टमीं च पौर्णमासीं चतुर्दशीम् ।
ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ॥

अत्रामावास्याशब्दसाहचर्याच् चतुर्दश्यष्टमीशब्दौ सितासितपक्षयोश् चतुर्दश्यष्टम्याव् आहतुः, न त्व् ऋतौ । अपिशब्दाद् अनृताव् अप्य् एतास् तिथयो वर्ज्याः । तथा, ऋतोर् आद्याश् चतस्रो रात्रीर् वर्जयेत् । [१०४] तथा च मनुः ।

तासाम् आद्याश् चतस्रस् तु निन्दितैकादशी तथा ।
त्रयोदशी च शेषाः स्युः प्रशस्ता दश रात्रयः ॥

एकादशीत्रयोदश्याव् ऋतोर् न पक्षस्य । अत्र शङ्खलिखितौ- “न दिवा मैथुनं व्रजेत् क्लीबा अल्पवीर्याश् च दिवा प्रसूयन्ते ऽल्पायुषश् च । तस्माद् एतत् परिवर्जयेत्” इति । अनृताव् अप्य् एतत् । यद् आह आपस्तम्बः- “गृहमेधिनो व्रतम् — अहन्य् असंवेशनम् । नाष्टमीचतुर्दशीपञ्चदशीषु स्त्रियम् उपेयात् । न श्राद्धे भुक्त्वा न दत्वा नोपनिमन्त्रितः श्राद्धे न व्रती न दीक्षितश् च । न देवायतनश्मशानशून्यालयेषु न वृक्षमूलेष् न दिवा न संध्ययोर् न मलिनां न मलिनो नाभ्यक्तां न रोगार्तां न रोगार्तो न हीनाङ्गी तथैव् च वयोधिकां नोपेयाद् गर्भिणीं नारीं दीर्घम् आयुर् जिजीविषुः” । व्रतं प्रायश्चित्तम् । गर्भिण्याम् इच्छन्त्यां न दोषः । तथा च वसिष्ठः- “अपि च काठके प्रवचने विज्ञायते । अपि नः श्वो विजनिष्यमाणाः पतिभिः सह शयताम् इति स्त्रीणाम् इन्द्रदत्तो वरः” इति । बौधायनः ।

यस् तु पाणिगृहीताया आस्ये गच्छति मैथुनम् ।
तस्येह निष्कृतिर् नास्तीत्य् एवम् आह प्रजापतिः॥

हारीतस् तु चतुर्थ्यां गर्भाधानम् इच्छति- “चतुर्थे ऽहनि स्नातायां युग्मासु वा गर्भादानवद् उपेतब्रह्मगर्भं स ददाति” इति । ततश् विहितप्रतिषिद्धत्वाच् चतुर्थ्यां स्त्र्युपगमनं वैकल्पिकम् । व्यवस्थितविकल्पश् चायम् । रजोनिवृत्तौ चतुर्थ्यां विधिः । तदनिवृत्तौ प्रतिषेधः । तथा च मनुः ।

रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला । इति ।

साध्वी गर्भाधानादिविहितकर्मयोग्येत्य् अर्थः । देवलः ।

यौगपद्ये तु तीर्थानां विप्रादिक्रमशो व्रजेत् ।
रक्षणार्थम् अपुत्रां वा ग्रहणक्रमशो ऽपि वा ॥

योनिशब्दलक्षितस्यर्तोर् (?) अनेकभार्यासु यौगपद्ये वर्णक्रमेण वा विवाहक्रमेण वा भार्यां संगच्छेद् अपुत्रां वाग्रम् इत्य् अर्थः । [१०५] आपस्तम्बः- “मिथुनीभूय च तया सह न रात्रिं शयीत” । वृद्धशातातपः ।

ऋतौ तु गर्भशङ्कित्वात् स्नानं मैथुनिनः स्मृतम् ।
अनृतौ तु स्त्रियं गत्वा स्नानं मूत्रपुरीषवत् ॥
द्वाव् एताव् अशुची स्यातां दम्पती शयनं गतौ ।
शयनाद् उत्थिता नारी शुचिः स्याद् अशुचिः पुमान् ॥

भर्तुः शौचम् आपादयन्तीति शेषः । गौतमः- “न मिथुनीभूय शौचं प्रति विलम्बेत” ॥ १.७९ ॥

एवं गच्छन् स्त्रियं क्षामां मधां मूलं च वर्जयेत् ।
सुथ इन्दौ सकृत् पुत्रं लक्षण्यं जनयेत् पुमान् ॥ १.८० ॥

आहारलाधवादिना स्त्रियं क्षामां कृत्वा मघामूले विहाय नक्षत्रान्तरे सुस्थे चन्द्र उक्तप्रकारेण सकृद् ऋतौ गच्छन् प्रशस्तलक्षणयुक्तं पुत्रं जनयेत् । चन्द्रसौस्थित्येन च ज्योतिःशास्त्रयुक्तं पुत्रजन्मप्रदं तत्कालीनं ग्रहसंस्थानं लक्ष्यते ।

प्रसङ्गाद् रजस्वलाव्रतानि कथ्यन्ते । तत्र पैठीनसिः- “त्रिरात्रं मलवद्वस्त्रधारणम् । न स्नायान् नाभ्यञ्ज्यान् न नखान् निकृन्तेन् न रज्जुं सृजेन् न दन्तान् धावेन् न स्रजं धारयेन् न गन्धान् सेवेत न वृष्याणि न खर्वेण पिबेत्” इति । वृष्याणि वीर्यवर्धकानि द्रव्याणि । खर्वो वामहस्तः । वसिष्ठः- “त्रिरात्रं रजस्वलाशुचिर् भवति । सा नाञ्ज्यान् नाभ्यञ्ज्यान् नाप्सु स्नायाद् अधः शयीत न दिवा स्वाप्यात् । नाग्निं स्पृशेत् । न रज्जुं सृजेन् न मांसम् अश्नीयान् न ग्रहान् निरीक्षेत न हसेन् न किंचिद् आचरेन् न खर्वेण नाञ्जलिना पिबेत् । पाक्षिकम् । अञ्जलिना वा पिबेद् इति श्रुतेः । लोहितायसेन वा” । लोहितायसं ताम्रम् । एतच् च व्रतजातं त्रिरात्राशौचनिमित्तायां रजःप्रवृत्तौ द्रष्टव्यं न रजोमात्रप्रवृत्तौ । तत्र या रात्रिस् त्रिरात्राशुचित्वनिमित्तं भवति, ताम् आह अत्रिः ।

रजस्वला यदि स्नाता पुनर् एव रजस्वला ।
अष्टादशदिनाद् अर्वाग् अशुचित्वं न विद्यते ॥

[१०६] एकोनविंशतेर् अर्वाग् एकाहं स्यात् ततो द्व्यहम् ।

त्रिंशत्प्रभृत्य् उत्तरेषु त्रिरात्रम् अशुचिर् भवेत् ॥

एषा च दिनसंख्या स्नानदिनपूर्विका, “स्नातायाः” इति वचनात् । यत् तु,

चतुर्दशदिनाद् अर्वाग् अशुचित्वं न विद्यते ।

इत्य् स्मृत्यन्तरम्, तेन सहर्तुप्रवृत्तिस्वभाववशाद् व्यवस्थाम् आश्रित्याविरोधः कार्यः । पुंसा स्वस्य बलाधानम् अपि कर्तव्यम् । यथाह बृहस्पतिः ।

स्त्रियाः शुक्रे ऽधिके स्त्री स्यात् पुमान् पुंसो ऽधिके भवेत् ।
तस्माच् छुक्रप्रवृद्ध्यर्थं वृष्यं स्निग्धं च भक्षयेत् ॥
लघ्वाहारां स्त्रियं कुर्याद् एवं संजनयेत् सुतम् ॥ १.८० ॥

अधुना ऋ(ऽनृ)तुगमननिमित्तम् आह ।

यथाकामी भवेद् वापि स्त्रीणां वरम् अनुस्मरन् ।
स्वदारनिरतश् चैव स्त्रियो रक्ष्या यतः स्मृताः ॥ १.८१ ॥

स्त्रीणां कामम् इच्छाम् अनतिक्रमन्न् अनृताव् अपि गच्छेत् । यतः स्त्रीणाम् इन्द्रदत्तो वरः । उक्तम् इन्द्रं स्त्रियश् च प्रकृत्य तैत्तिरीयके- “ता अब्रुवन् वरं वृणामहा ऋत्व् इयात् प्रजां विन्दामहै कामम् आ विजनितोः संभवामेति तस्माद् ऋत्व् इयात् स्त्रियः प्रजां विन्दन्ते कामम् आ विजनितोः संभवन्ति वारेवृतं ह्य् आसाम्” इति । स्वदार(रा)व्यभिचारी भवेत् । स्त्रियो व्यभिचाराद् रक्षणीया यतः स्मृताः । तद्रक्षणं च पत्युर् अव्यभिचारित्वेन स्त्रीषु यथाकामित्वेन च भवति । वाशब्दो ऽनृतुगमनं वैकल्पिकम् आह । ततश् चागच्छतो ऽपि स्त्रीरक्षणसामर्थं यस्यासाव् ऋताव् एव गच्छेत् । तस्य च फलातिशयं वसिष्ठ आह- “ऋतौ च गच्छन् विधिवच् च जुह्वन् न ब्राह्मणश् च्यवते ब्रह्मलोकात्” इति । इतरस् तु यथाकामी भवेत् ॥ १.८१ ॥

भर्तृभातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः ।
बन्धुभिश् च स्त्रियः पूज्या भूषणाच्छदनाशनैः ॥ १.८२ ॥

[१०७]

भर्त्रादिभिर् भूषणवस्त्रान्नदानैः स्त्रियो माननीयाः । एतच् चावश्यकम् । अस्याकरणे प्रत्यवायम् आह मनुः ।

यत्र नार्यः प्रपूज्यन्ते रमन्ते तत्र देवताः ।
यत्रैतास् तु न पूज्यन्ते सर्वास् तत्राफलाः क्रियाः ॥
जामयो यानि गेहानि शपन्त्य् अप्रतिपूजिताः ।
तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥ इति ।

जामयो भगिन्यः । एतच् च स्नुषादुहित्राद्युपलक्षणम् । यद् आह बृहस्पतिः ।

भर्त्रा पत्नी समभ्यर्च्या वस्त्रालंकारभूषणैः ।
उत्सवे पितृमातृभ्यां श्वश्रूश्वशुरबन्धुभिः ॥

भूषणादीनां समुच्चयो भर्तृविषय इतरविषयौ तु विकल्पसमुच्चयौ यथासामर्थ्यम् ॥ १.८२ ॥

स्त्रीधर्मान् आह ।

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।
कुर्याच् छ्वशुरयोः पादवन्दनं भर्तृतत्परा ॥ १.८३ ॥

उपस्करो गृहोपकरणं दर्वीपीठि(ठ)रादिः । संयतः संक्षिप्त उपस्करो यया सा संयतोपस्करा, दक्षा शीघ्रकारिणी, हृष्टा यथोत्पन्नेन द्रव्येण संतुष्टा, असद्व्ययपराङ्मुखी च भवेत् । श्वश्रूश्वशुरयोश् च पादवन्दनं कुर्यात् प्रत्यहम् । भर्तृतत्परा भर्तृप्रधाना । अत्र विष्णुः- “अथ स्त्रीधर्माः । भर्तुः समानव्रचारित्वं श्वश्रूश्वशुरगुरुदेवतातिथीनां पूजनं सुसंयतोपस्करतामुक्तहस्तता सुगुप्तभाण्डता मूलक्रियास्व् अनभिरतिर् मङ्गलाचारतत्परता” । मूलक्रिया वशीकरणम् । तथा पृथ्वीं प्रति लक्ष्मीवाक्यम् ।

नारीषु नित्यं सुविभूषितासु पतिव्रतासु प्रियवादिनीषु ।
अमुक्तहस्तासु सुतान्वितासु सुगुप्तभाण्डासु बलिप्रियासु ॥
सुस्पष्टवेषासु जितेन्द्रियासु कलिव्यपेतास्व् अविलोलुपासु ।
**धर्मव्यपेक्षासु दयान्वितासु स्थिता सदाहं जगतां विधात्रि ॥ [१०८]

शङ्खः- “नानुक्ता ग्रान् निर्गच्छेत् । नानुत्तरीया । न त्वरितं व्रजेत् । न परपुरुषम् अभिभाषेतान्यत्र वणिक्प्रव्रजितवृद्धवैद्येभ्यः । न नाभिं दर्शयेत् । आ गुल्फाद् वासः परिदध्यात् । न स्तनौ विवृतौ कुर्यात् । न हसेद् अनपावृतम्, न भर्तारं न तद्बन्धून् वा विद्विषेत् । न गणिकाधूर्ताव्यभिचारिणीप्रव्रजितेक्षणिकामायामूलकुहिकाकारिकादुःशीलादिभिः सहैकत्र तिष्ठेत् । संसर्गेण हि चारित्रं दुष्यतीत्य् आदिशन्ति” इति । व्यासः ।

द्वारोपवेशनं नित्यं गवाक्षावेक्षणं तथा ।
असत्प्रलापो हास्यं च दूषणं कुलयोषिताम् ॥

मनुः ।

पानं दुर्जनसंसर्गः पत्या च विरहो ऽटनम् ।
स्वप्नो ऽन्यगेहे वासश् च नारीसंदूषणानि षट् ॥ १.८३ ॥

किं च ।

क्रीडाशरीरसंस्कारं समाजोत्सवदर्शनम् ।
हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ॥ १.८४ ॥

क्रीडा द्यूतादिक्रिया, शरीरसंस्कारः स्नानानुलेपनादिः । समाजो जनमेलकः । उत्सवः कौमुदीप्रभृतिः । तयोर् दर्शनम् । हास्यं परगृहे यानम् एतत् सर्वं प्रवसिते भर्तरि त्यजेत् । अत्र शङ्खलिखितौ- “प्रेङ्खाताण्डवविहारवित्रदर्शनाङ्गरागोद्यानयानविवृतासनोत्कृष्ट-पानभोजनकन्दुकक्रीडनगन्धमाल्यालंकारदन्तधावनाञ्जनादर्शप्रसाधनानाम् अस्वतन्त्राणां प्रोषितभर्तृकाणां कुलस्त्रीणाम् अनारम्भः ।

विधाय प्रोषिते वृत्तिं जीवेन् नियमसंस्थिता ।
प्रोषिते त्व् अविधायैव जीवेच् छिल्पैर् अगर्हितैः ॥”

जीवनार्थं वृत्तिं विधाय प्रोषिते भर्तरि सति तद्भार्या तया वृत्त्या स्वल्पाहररूपं नियमम् आस्थाय जीवेत् । ताम् अविधाय प्रोषिते जीवेच् छिल्पैर् अगर्हितैर् इति । यैर् न गर्हा जायते तैर् एव शिल्पैर् जीवेद् इत्य् अर्थः ॥ १.८४ ॥

रक्षेत् कन्यां पिता विन्नां पतिः पुत्रस् तु वार्धके ।
अभावे ज्ञातयस् तेषां स्वातन्त्र्यं न क्वचित् स्त्रियाः ॥ १.८५ ॥

[१०९]

कन्यां कुमारीं पिता रक्षेत्, पालयेत् । विन्नां परिणीतां पतिःवार्द्धके तु पुत्रःतेषां पित्रादीनाम् अभावे ज्ञातयो बान्धवा रक्षेयुः । एवम् उक्ते ऽपि पारतन्त्र्ये यः स्वातन्त्र्यनिषेधः सो ऽसत्सु ज्ञातिषु राजपारतन्त्र्यविध्यर्थः । तथा च स्मृत्यन्तरम् ।

पक्षद्वयावसाने तु राजा भर्ता प्रभुः स्त्रियाः ।
स तस्या भरणं कुर्यान् निगृह्णीयात् पथश् च्युताम् ॥ इति ॥ १.८५ ॥
पितृमातृसुतभ्रातृश्वश्रूश्वसुरमातुलैः ।
हीना न स्याद् विना भर्त्रा गर्हणीयान्यथा भवेत् ॥ १.८६ ॥

भर्तारं विना वर्तमाना पित्रादीनाम् अन्यतमेन रहिता न स्यात् । यदि स्याच् छिष्टगर्हणीया भवेत् । पूर्वेण वाक्येन पित्रादिभिः स्त्रीरक्षा कार्येत्य् उक्तम् । अनेन भर्तुर् असंनिधौ पित्रादिरहिता स्त्री न भवेद् इति विधीयते ॥ १.८६ ॥

उक्तानां स्त्रीधर्माणां फलम् आह ।

पतिप्रियहिते युक्ता स्वाचारा संयतेन्द्रिया ।
इह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ १.८७ ॥

प्रियं च हितं च प्रियहिते । सा पत्युः प्रियहितयोर् उद्युक्तोक्तस्त्रीधर्मचारिणी संयतेन्द्रिया च सात्र लोके कीर्तिमती भवति, प्रेत्य च सर्वोत्कृष्टां लोकगतिम् अवाप्नोति । समन्तरसुखदं कर्म प्रियम् । परिणतिसुखदं हितम् । अत्र मनुः ।

दानात् प्रभृति या तु स्याद् यावद् आयुः पतिव्रता ।
सा भर्तृलोकम् आप्नोति यथैवारुन्धती तथा ॥

बृहस्पतिः ।

आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥

मृते मरणं तेन महाग्निप्रवेशनेनैव । यथाह अङ्गिराः ।

सर्वासाम् एव नारीणाम् अग्निप्रपतनाद् ऋते ।
नान्यो धर्मो हि विज्ञेयो मृते भर्तरि कर्हिचित् ॥
यावन् नाग्नौ दहेद् देहं मृते पत्यौ पतिव्रता ।
तावन् न मुच्यते नारी स्त्रीशरीरात् कथंचन ॥
सद्वृत्तभावाश्रितभर्तृकाणां स्त्रीणां वियोगक्षतकातराणाम् ।
**तासां प्रभावस्तिमिते गते कं नाग्निप्रवेशाद् अपरो ऽस्ति मार्गः ॥ [११०]

अस्तमिते प्रभौ भर्तरि, कं गते स्वर्गं गते मृते भर्तरि । हारीतः ।

मृते भर्तरि या नारी धर्मशीला दृढव्रता ।
अनुगच्छति भर्तारं शृणु तस्यास् तु यत्फलम् ॥
तिस्रः कोट्यो ऽर्धकोटी च यानि लोमानि मानवे ।
तावन्त्य् अब्दसहस्राणि स्वर्गलोके महीयते ॥
मन्त्रग्राही यथा सर्पं बलाद् उद्धरते बिलात् ।
तद्वद् भर्तारम् आदाय मृतं याति तपोबलात् ॥
मातृकं पैतृकं चैव यत्र कन्या प्रदीयते ।
कुलत्रयं पुनात्य् एषा भर्तारं यानुगच्छति ॥

व्यासः ।

पूर्वं मृता हरेद् अग्निम् अन्वारूढा हरेद् अघम् ।
भर्तुर् धनम् अभावे तु जीवन्ती सत्सु बन्धुषु ॥
ब्रहघ्ने वा कृतघ्ने वा मित्रघ्ने यच् दुष्कृतम् ।
भर्तुः पुनाति सा नारी तम् आदाय मृता तु या ॥

आदायालिङ्ग्येत्य् अर्थः । अत एव कल्पसूत्रकारो भर्तृशरीरेण सह संवेशनम् आह- “उत्तरतः पत्नीं सह संवेशयन्ति” इति ।

दयितं यान्यदेशस्थं वृत्तं श्रुत्वा पतिव्रता ।
समारोहति दीप्ते ऽग्नौ तस्याः शक्तिं निबोधत ॥

वृत्तं मृतम् इत्य् अर्थः ।

यदि प्रविष्टो नरके बद्धपाशैः सुदारुणैः ।
संप्राप्तो यातनास्थानं गृहीतो यमकिंकरैः ॥
तिष्ठते विवशो दीनो वेष्ट्यमानः स्वकर्मभिः ।
व्यालग्राही यथा सर्पं बिलाद् गृह्णात्य् अशङ्कितम् ॥
तद्वद् भर्तारम् आदाय दिवं याति तपोबलात् ।
तत्र सा भर्तृपरमा स्तूयमानाप्सरोगणैः ॥
मोदते पतिना सार्धं यावद् इन्द्राश् चतुर्दश ॥

मोदते पतिना सार्धम् इति वचनात् सह पत्या स्वर्गोपभोगः पत्नीगाम्य् एव फलम् इति तत्कृतस्याग्निप्रवेशस्य फलम् अकर्ता भर्ता भुङ्क्त इत् विरोधः सुपरिहा(ह)रः । [१११] यस् तु भर्तरि सुखसमवायः, स भर्तृगताद् एव धर्मात् । तत्प्रतिबन्धकं पापं पत्नीकृतो धर्म उद्धरति । न च प्रतिबन्धकोद्धारकः कार्यपरः । यस् तु पत्युः पापक्षयः पत्नीकृतस्य धर्मस्य फलम् इति श्रूयते तस्यापि न मुख्यो ऽर्थः, किं तु गौणः, क्षय इव क्षयः पत्नीधर्मेण पतिपापस्यानन्तरं फलदानप्रतिबन्धरूपः । बृहस्पतिः ।

शरीरार्धं स्मृता जाया पुण्यापुण्यफले समा ।
अन्वारूढा जीवती(न्ती) च साध्वी भर्तुर् हिताय सा ॥

अन्वारोहणं च काम्यत्वाद् अनित्यम् । अत एव विष्णुः- “मृते भर्तरि ब्रह्मचर्यं तदन्वारोहणं वा” इति । न चान्वारोहणस्मृतीनां “तस्माद्(दु) ह न पुरायुषः स्वःकामी प्रेयात्” इति श्रुतिविरोधो वाच्यः, भिन्नविषयत्वात् । सामान्येन श्रुतिः स्वेच्छया मरणं निषेधति । स्मृतिस् तु मृते भर्तरि वह्निप्रवेशमरणविशेषं विधत्ते । अतो भिन्नविषयत्वाद् अविरोधः । “स्वर्गकामो यजेत,” “यावज्जीवम् अग्निहोत्रं जुहुयात्” इत्य् एवमादिकया श्रुत्या सामान्यविषयया न विरोधः। तथा च ब्रह्मपुराणम् ।

मृते भर्तरि सत्स्त्रीणां न चान्या विद्यते गतिः ।
नान्यद् भर्तृवियोगार्तिदाहप्रशमनं भवेत् ॥
निधायोरसि संशुद्धा प्रविशेज् जातवेदसम् ।
ऋग्वेदवादात् साध्वी स्त्री न भवेद् आत्मघातिनी ॥
त्र्यहाच् छौचे तु निर्वृत्ते श्राद्धं प्राप्नोति शाश्वतम् ॥

“इमा नारीर् अविधवाः” इत्यादयो वेदश्रुतयः । तस्माद् एताः स्मृतयः प्रमाणम् । न च “न हिंस्यात्” इत्य् अनेनान्वरोहणम् शक्यं निषेद्धुम् । अनेन हि हन्तुः सकाशाद् अन्यस्य हन्तव्यस्य हिंश प्रतिषिध्यते, न तु स्ववधरूपा । सा तु “तद्माद् उ ह न पुरायुषः” इत्य् अनेन निषिध्यते । इदं च सामान्यविषयत्वाद् विशेषविषययान्वारोहणस्मृत्या तद्व्यतिरिक्तस्ववधनिषेधकत्वेन संकोच्यत इत्य् उक्तम् । न च सामान्यविषयश्रुतिविरुद्धा स्मृतिर् अप्रमाणम् इति वाच्यम्, सामान्यविशेषरूपविषयभेदेन विरोधाभावात् । विषयाभेद एव हि विरोधो न तु [११२] विशेषविषयभेदे । ततश् च विशेषविषयया स्मृत्या स्वमूलभूता श्रुतिर् विशेषविषयैवानुमीयते । सा च सामान्यविषयश्रुतेर् बलीयसी सती तस्याः संकोचहेतुर् भवति । ननु च ब्राह्मण्या अन्वारोहणप्रतिषेधं स्मरन्ति, यथा तावत् पैठीनसिः ।

मृतानुगमनं नास्ति ब्राह्मन्या ब्रह्मशासनात् ।
इतरेषां तु वर्णानां स्त्रीधर्मो ऽयं परः स्मृतः ॥
उपकारं यथा भर्तुर् जीवन्ती न तथा मृता ।
करोति ब्राह्मणी श्रेयो भर्तुः शोकवती सती ॥

विराट् ।

अनुवर्तेत जीवन्तं न तु यायान् मृतं पतिम् ।
जीव(वे)द्भरुर् हितं कुर्यान् मरणाद् आत्मघातिनी ॥

अङ्गिराः ।

या स्त्री ब्राह्मणजातीया मृतं पतिम् अनुव्रजेत् ।
सा स्वर्तम् आत्मघातेन नात्मानं न पत्ं नयेत् ॥

व्याघ्रपात् ।

न म्रियेत समं भर्त्रा ब्राह्मणो शोकमोहिता ।
प्रव्रज्यागतिम् आप्नोति मरणाद् आत्मघातिनी ॥

प्रव्रज्या मैथुनादिभोगत्यागः । सत्यम् एवं स्मरन्ति किं तु । सत्यम् एवं स्मरन्ति किं तु स्मरान्तरेणैतेषां विषयो व्यवस्थाप्यते । यथाह उशनाः ।

पृथक्चितिं समारुह्य न विप्रा गन्तुम् अर्हति ।
अन्यासां चैव नारीणां स्त्रीधर्मो ऽयं परः स्मृतः ॥ इति

ततश् च ब्राह्मण्यनुगमननिषेधः पृथक्चितिसमारोहणविषयः । अत एव रामायणादौ ब्राह्मण्यादीनां स्वभर्तृशरीरालिङनपूर्वकं स्वशरीरदहनम् उपाख्यायते । अत एव कल्पसूत्रकारः प्रेतस्योत्तरतः पत्न्याः संवेशनम् अविशेषेण नित्यवद् विदधाति । देवरादिना तुत्थापनं तस्याः पुत्रकामनायां वा जीवलोककामनायां वा सत्याम् आहुः । किं च न ब्राह्मणीत्वेन निमित्तेनानुगमननिषेधो भवति । किं त्व् असौ ब्राह्मण्याः शोकनिमित्तकः । यत् तु वैराजम् आङ्गिरसं च वचनं ब्राह्मण्या अनुगमनमात्रप्रतिषेधकम् इव प्रतिभाति । तद्विशेषविषयैः प्रतिषेधैर् उपस्ंह्रियते । तस्माद् विधितः प्रवर्तमानाया ब्राह्मण्या अनुगमनाद् दोषो न विद्यते, शोकादिप्रवृत्तायास् तु भवत्य् एवेति ॥ १.८७ ॥

सत्याम् अन्यां सवर्णायां धर्मकार्यं न कारयेत् ।

[११३]

सवर्णायां सत्यां विद्यमानायां भार्यायाम् अन्याम् असवर्णां धर्मकार्यं न कारयेत् । तया सह धर्मं नाचरेद् इत्य् अर्थः । अभावे ऽपि (वे तु) सवर्णाया इतरयापि सहाचरेद् इत्य् अर्थसिद्धम् । अत एव शूद्रयैव सह धर्मानुष्ठाननिषेधम् आह वसिष्ठः- “कृष्णवर्णा वै रामा रमणायैव न धर्माय” इति । कृष्णवर्णा शूद्रा ॥

सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ॥ १.८८ ॥

सवर्णान् एकत्वे तु ज्येष्ठायां चादुष्टायां तया विना नेतरया सह धर्मम् आचरेत् । ज्येष्ठया तु सह कनीयस्यो ऽपि धर्मं कारयितव्याः । तथा च आपस्तम्बः- “धर्मप्रजासंपन्ने दारे नान्यान् कुर्वीतान्यतरापाये तु कुर्वीत । प्राग् अग्न्याधेयाद् आधाने हि सती कर्मभिः संबध्यते” इति । बौधायनः- “पत्नीनां सह संनहनम् इति स ह स्वाह बौधयन एकैकाम् एव संनह्येद् एकैकां गार्हपत्यम् ईक्षेअयेद् एकैकाम् आज्यम् अवेक्षयेत्” इत्यादि । कात्यायनः ।

नैकयापि विना कार्यम् आधानं भार्यया द्विजैः ।
अकृतं तद् विजानीयात् सर्वा न(ना)न्वारमन्ति यत् ॥

तस्माज् ज्येष्ठैव सहधर्मचारिणी नेतरेति व्याख्यानं कल्पसूत्रधर्मशास्त्रविरुद्धत्वाद् अनादरणीयम् । यत् तु विष्णुवचनम्,

अग्निहोत्रादियज्ञेषु द्वितीयां न सहाचरेत् ।
अन्यथा निष्फलं तस्य स्विष्टैः क्रतुशतैर् अपि ॥

इति, तद् असवर्णद्वितीयाविषयम्, सत्स्व् अग्निषु या परिणीता तद्विषयं वा । अग्निषु नष्टेषु पुनराधानं तस्या अधिकर्तृत्वाद् अग्निहोत्रादिषु सहाधिकारः । कात्यायनः ।

अग्निशिष्टादिशुश्रूषां बहुभार्यः सवर्णया ।
कारयेत् तद्बहुत्वे तु ज्येष्ठा यागर्हिता भवेत् ॥
या वा स्याद् वीरसूर् आसाम् आज्ञासंपादिनी च या ।
दक्षा प्रियंवदा शुद्धा ताम् अत्र विनियोजयेत् ॥
दिनक्रमेण वा कर्म यथाज्येष्ठम् अशक्तितः ।
विभज्य सह वा कुर्युर् यथाज्ञानम् अशाठ्यतः ॥

दक्षः ।

धर्मपत्नी समाख्याता निर्दोषा यदि सा भवेत् ।
दोषे सति न दोषः स्याद् अन्या कार्या गुणान्विता ॥ १.८८ ॥

[११४] दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ।

आहरेद् विधिवद् दारान् अग्नींश् चैवाविलम्बयन् ॥ १.८९ ॥

यया सहाग्न्याधानं ताम् उक्तवृत्तवतीं मृतां पतिर् वैतानैर् अग्निभिर् यथाविधि दाहयित्वासवर्णभार्यश् चेद् विधिवद् दानान् आहरेत्अग्नींश् चाविलम्बयन् । तत्र सवर्णदारालाभे शूद्रावर्जम् असवर्णयापि सहाधानादि कार्यम् । यद् आह विष्णुः ।

मृतायाम् अपि भार्यायां वैदिकाग्निं न हि त्यजेत् ।
उपाधिनापि तत् कर्म यावज्जीवं समापयेत् ॥

अस्यार्थः- वैदिकैर् मृतां पत्नीं संस्कृत्य न तान् परित्यजेत्, पुनर् आदधीत । सवर्णदारालाभविषये उपाधिनापि असवर्णयापि भार्यया यावज्जीवं कर्म समापयेद् इति । न पुनर् अयम् अर्थो मृतायाम् अपि भार्यायां वैदिको ऽग्निर् न त्याज्यः, न तेन ताम् दहेद् इति । यतस् तथा सति, “शवाग्नयो वा एते भवन्ति ये मृतायां भार्यायां भ्रियन्ते” इति काठकगृह्यश्रुतिविरोधो दुष्परिहा(ह)रः । तथा “उपाधिनापि तत् कर्म” इत्य् अस्य कुशमय्या काञ्चनमय्या वा पत्न्या कर्मसमाप्तिः कार्येति नार्थः, पत्न्या अप्रतिनिधेयत्वात् । यद् आह सत्याषाढः- “न स्वामित्वस्य भार्यायाः पुत्रस्य देशस्य कालस्याग्नेर् देवतायाः कर्मणः शब्दस्य च प्रतिनिधिर् विद्यते” इति । पत्न्याः क्रत्वर्थकर्मकारि रूपं तद् यद्य् अपि शक्यं प्रतिनिधातुम्, तथापि कुशादिमय्याः प्रतिकृतेस् तत्कार्यकार्त्वाभावान् न तत्प्रतिनिधित्वम् । न हि समीपस्थितिमात्रं पत्नीकार्यम् । किं तु फलीकरणाज्यावेक्षणादि तत्कार्यम् । तदाक्षिप्ता च समीपस्थितिः । तेन पूर्वोक्त एवास्यार्थो न्याय्यः । यत् पुनः,

अन्ये कुशमयीं पत्नीं कृत्वा तु गृहमेधिनः ।
अग्निहोत्रम् उपासन्ते यावज्जीवम् अतन्द्रितः ॥

इति वचनम्, तद् अग्निहोत्रस्तुत्यर्थम् एव न स्वार्थविधायकम् उक्द्ताद् धेतोः । [११५]

  • ननु च पुनराहृतानां दाराणामग्नोत्राद्यधिकारो ऽनुपपन्नो होतृहोमान्वारम्भणीयजन्यसंस्कारविरहात् । न च संस्कारार्थम् अन्वारम्भणीयादिकं स्वातन्त्र्येण शक्नोति भार्या कर्तुम्, तस्याः सहाधिकारनियमात् । नापि पतिः संस्कृतत्वात् । संस्कृतत्वं च तस्य संस्कारारम्भकाणाम् अन्वारम्भणीयादीनां क्रत्वङ्गभूतानाम् अनुष्ठितत्वात् । न ह्य् अन्वारम्भणीयादिसंस्कारवान् अन्वारम्भणीयादौ शास्त्रेण प्रयुज्यते । [तस्माद् अपत्नीकेनैवाग्निहोत्रम् आहर्तव्यम् । तथा च बह्वृचब्राह्मणम्] “तस्माद् अपत्नीको ऽग्निम् आहरे” इति । तद् अयुक्तम् । सर्वाः खलु श्रुतयः सपत्नीकस्याग्निहोत्रादि विदधति । बह्वृचब्राह्मणं स्तुतिपरत्वेनाप्य् उपपद्यते । किं च रजस्वलायां सूतिकायां च पत्न्याम् एतद् वचनम् “अपत्नीको ऽग्निम् आहरेत्” इति, न पुनर् अविद्यमानायां भार्यायाम् । एवं च सति न श्रुत्यन्तरविरोधः । नास्य वाक्यस्य विधायकत्वम् । तस्माच् छ्रुतिविरोधाभावात् “आहरेद् विधिवद् दारान्” इति स्मृतिवचनं प्रमाणम् एव । ततश् चैतद्वचनसामर्थात् पूर्वसंस्कारापभ्रंशकल्पनयान्वारम्भणीयादाव् अस्ति भर्तुर् अधिकार इत्य् आश्रयणीयम् । अत एव बौधायनः पुनर्दारक्रियाविषयम् आह- “ईजानस्य पुनर् आदधानस्य संनयेन् न संनयेद् इति । संनयेद् इत्य् एक आहुः । अथैक आहुर् न संनयेद् इति [श्रीरसंस्पर्शी ह यज्ञो भवति । यदैव पुनर् यजेताथ संनयेत्” इति] । अस्यार्थः- ईजानस्य कृतसोमयागस्य पत्न्यां मृतायाम् अप्य् अन्यस्यां चाहृतायाम् अग्नीन् आदधानस्याहितवतो ऽध्वर्युः संनयेन् न वेति संदेहम् उपक्रम्य पूर्वपक्षम् आह- संनयेद् इत्य् एक आहुः । तेषाम् अभिप्रायः- यद्य् अपि पत्न्याः सोमयागजन्यः सांनाय्याधिकारहेतुः संस्कारो नास्ति, तया सह सोमयागाकरणात् । तथापि तस्या यजमानं प्रति गुणभावाद् यजमानस्य च संस्कारवत्त्वात् संनयेद् एवेति ।

  • सिद्धान्तम् आह- “अथैक आहुर् न संनयेद् इति शरीरसंस्पर्शी ह यज्ञो भवति” इति । शरीरशब्देन च शरीर्य् आत्मा लक्ष्यते । यज्ञेन खलु सांनाय्यप्रयोगानुगुणः [११६] संस्कार आत्मन्य् आधीयते । न च यजमाने पत्न्यां च वर्तमानः सोमयागसंस्कारः सांनाय्ययागोपयोगी, न चाभिनवा पत्नी तत्संस्कारवतीति नैव संनेयम् । यदैव पुनः सोमेन यजेताथ संनयेद् इति ।

ततश् चोत्तरकर्मकर्तृत्वयोग्यतालक्षणसंस्काराधायकतया सोमयागतुल्यत्वाद् धोतृहोमान्वारम्भणीययोर् एषैव कल्पना युक्ता । तस्मात् कृताग्न्याधाना मृता पत्नी वैतानैर् अग्निभिः संस्कार्या । अविद्यमानधर्मानुष्ठानयोग्यभार्यश् चेत् तद्योग्यभार्यान्तरम् आहृत्याधानं कुर्याद् इतरस् त्व् आधानम् एवेति सिद्धम् । यत् तु,
द्वितीयां वै तु भार्यां यो दहेद् वैतानिकाग्निभिः ।
तिष्ठन्त्यां प्रथमायां तु सुरापानसमं हि तत् ॥

इति देवलवचनम्, तद् अकृताग्न्याधेयद्वितीयाविषयम् । अन्यथा “आहिताग्निम् अग्निभिर् दहन्ति” इति श्रुतिविरुद्धम् अप्रमाणं स्यात् । न च श्रुतिगत आहिताग्निशब्दः स्मृतुवशाद् विशेषविषयो भवतीति वाच्यम्, उपात्तोद्देश्यसमर्पकत्वेन विशेषं प्रत्य् अनपेक्षितत्वात् । “ग्रहं संमार्ष्टि” इति ग्रहशुतिवत् ॥ १.८९ ॥

**इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-श्रीमदपरादित्यदेवविरचिते **

याज्ञवल्कीयधर्मशास्त्रनिबन्धे विवाहप्रकरणम्