०२ ब्रह्म-चारि-प्रकरणम्

तत्र ब्रह्मचारिप्रकरणम्

धर्मान् वक्तुं तदधिकारिणो वर्णान् द्विजांश् चाह ।

ब्रह्मक्षत्रियविट्शूद्रा वर्णास् त्व् आद्यास् त्रयो द्विजाः ।

ब्राह्मणक्षत्रियवैश्यशूद्राः प्रत्येकं वर्णसंज्ञा भवन्ति । ब्राह्मणक्षत्रियवैश्यास् तु प्रत्येकं द्विजसंञा ज्ञेयाः ॥

निषेकाद्याः श्मशानान्तास् तेषां वै मन्त्रतः क्रियाः ॥ १० ॥

तेषां द्विजानां गर्भाधानाद्याः प्रेतकर्मपर्यन्ताः क्रिया मन्त्रैः कार्याः । शूद्रस्य तु यावद् उक्तम् उपनयनान्तसंस्कारानुवृत्तौ यमः ।

शूद्रो ऽप्य् एवंविधः कार्यो विना मन्त्रेण संस्कृतः ।
न केनचित् समसृजच् छन्दसा तं प्रजापतिः ॥

सृष्ट्वानुपनीतवान् । अतो नोपनेय इत्य् अर्थः । यच् छ्रुतिः- “गायत्र्या ब्राह्मणम् असृजत । त्रिष्टुभा राजन्यम् । जगत्या वैश्यम् । न केनचिच् छन्दसा शूद्रम् । असंस्कार्यो विज्ञायते” । असंस्कार्यो ऽनुपनेयः । ब्रह्मपुराणम् ।

विवाहमात्रसंस्कारं शूद्रो ऽपि लभतां सदा ।

मात्रशब्दान् मन्त्राणां व्यावृत्तिः पूर्वसंस्काराणां वा । तदा च विकल्पः । विहितत्वाद् अपि तेषाम् । जातूकर्ण्यः-

इष्टापूर्तौ द्विजातीनां धर्मौ सामासिकौ मतौ ।
अधिकारी भवेच् छूद्रः पूर्तधर्मेण वैदिके ॥

महाभारतम् ।

एकाग्निकर्म हवनं त्रेतायां यश् च हूयते ।
अन्तर्वेद्यां च यद् दानम् इत्ष्टम् इत्य् अभिधीयते ॥
वापीकूपतडागादि देवतायतनानि च ।
अन्नप्रदानम् आरामः पूर्तम् इत्य् अभिधीयते ॥

अन्नदानग्रहणम् अयज्ञाङ्गोपलक्षणम् । तथा च जातूकर्ण्यः ।

ग्रहोपरागे यद् दानं सूर्यसंक्रमणेषु च ।
द्वादश्यादौ च यद् दानं पूर्तम् इत्य् अभिधीयते ॥ १० ॥

गर्भादानादीन् संस्कारान् गृह्यविहितस्वरूपान् अपि कालविशेषसंबन्धितया सार्धश्लोकद्वयेनाधुना विधत्ते ।

गर्भाधानम् ऋतौ पुंसः सवनं स्पन्धात् पुरा ।
षष्ठे ऽष्टमे वा सीमन्तो मास्य् एते जातकर्म च ॥ ११ ॥
अहन्य् एकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठे ऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥ १२ ॥
एवम् एनः शमं याति बीजगर्भसमुद्भवम् ।

गर्भ आधीयते ऽनेन कर्मणेति गर्भाधानम्, तद् ऋतौ कायम् इत्य् अन्यतः सिद्धम् । एवं प्राग् गर्भचननात् पुंसः सवनं पुंसवनाख्यं कर्म । षष्ठे ऽष्टमे वा गर्भमासे सीमन्तः सीमन्तोन्नयनम् । एते आगते जातकर्मअहन्य् एकादशे नाम धेयम् इति शेषः । एकादशादिसंख्या जन्मनः, तस्य प्रकृतत्वात् । चतुर्थे मासि निष्क्रमणम्, सूर्याचन्द्रमसौ द्रष्टुं बहिः प्रसरणम् । षष्ठे मास्य् अन्नप्राशनम्चूडा शिखा सा येषां कुले यस्मिन् वर्षे तथा यत्संख्या कार्यतया स्मर्यते तदनतिक्रमेण कर्तव्या, यथाकुलधर्मं केशवेशान् कारयेद् इति गृह्यप्रसिद्धा । एवं कृतेषु संस्कारेषु एनः पापं बीजगर्भोत्थं शाम्यति । बीजं शुक्रशोणितम् । गर्भो जठरान्तरस्थितो देहः । तेन जठरवासो लक्ष्यते । एनो ऽत्राप्रायत्यम्, मातुः पीताशनादेर् उत्पन्नम् इत्य् अर्थः । एतच् च चातुर्वर्ण्याभिप्रायम्, न द्विजातिमात्रविषयम् । तथा सत्य् उपनयनं विधाय वाच्यं स्यात् । देवलः ।

चित्रकर्म यथानेकैर् अङ्गैर् उन्मील्यते शनैः ।
ब्राह्मण्यम् अपि तद्वत् स्यात् संस्कारैर् विधिपूर्वकैः ॥

अत एव मनुर् द्विजात्यभिप्रायेणोपनयनं विधायाह ।

गार्भैर् होमैर् जातकर्मचौडमौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकं चैनो द्विजानाम् अपमृज्यते ॥

एवम् एनःशान्त्या प्रयुज्यमाना एते संस्काराः पुंसवनात् परे पित्रभावे पितृस्थानीयेन पित्र्व्यादिना कार्या इति सिद्धम् । अत्र घर्भाधादिवद् ऋत्वादयः कालविशेषा अय् अनूद्यन्ते इति शास्त्रविहितानां कालान्तराणां न निवर्तकाः किं तु तदुपलक्षकाः । तत्र शास्त्रान्तराणि विशेषाभिधायकानि लक्ष्यन्ते । तत्र हारीतः ।

सकृत् संस्कृतसंस्काराः सीमन्तेन द्विजस्त्रियः ।
यं यं गर्भं प्रसूयन्ते स सर्वः संस्कृतो भवेत् ॥

सीमन्तोन्नयने बैजवापगृह्यम्- “आपूर्यमाणपक्षे यदा पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्” । देवलः ।

सकृच् च संस्कृता नारी सर्वगर्भेषु संस्कृता ।

अत एव पारस्करः- “अथ पुंसवनवत् सीमन्तोन्नयनं प्रथमगर्भे” इति । सीमन्तोन्नयनं प्रथमगर्भे ऽभिधत्ते । पुंसवनं तु प्रतिगर्भम् आवर्तेत । अथ पुंसवनानवलोभनम्, तत्र आश्वलायनगृह्यम्- “उपनिषदि गर्भलम्भने पुंसवनम् अनवलोभनं च । यदि नाधीयात् तृतीये गर्भे मासे तिष्येणोपोषितायाः स्वरूपवत्साया गोर् दधति द्वौ द्वौ माषौ यवं च दधिप्रसृतेन प्राशयेत् । किं पिबसि किं पिबसीति पृष्ट्वा पुंसवनम् इति त्रिः प्रतिजानीयात् । एवं त्रीन् प्रसृतान् । अथास्य मण्डलागारच्छायायां दक्षिणस्यां नासिकायाम् अजिताम् ओषधिं नस्तः करोति । प्रजावज् जीवपुत्राभ्यां वै हेतुकप्राजापत्यस्य स्थालीपाकस्य हुत्वा हृदयदेशम् अस्या आलभेत । यत् ते सुसीमे हृदये हितम् अन्तः प्रजापतौ । मन्ये ऽहम् अन्तर् विद्वांसम् आह पौत्रम् अघं नियाम्” इति । “अपश्यं त्वा मनसा दीध्यानः” इत्यादि प्रजावान् मन्त्रः । “अग्निर् ऐतु प्रथमः” इत्यादि जीवपुत्रा मन्त्राः । “तृतीये मासि सीमन्तं तिष्ये वा श्रवणेन” इति सांक्यायनम् । जातकर्मणि ब्रह्मपुराणोक्तो विशेषः ।

देवाश् च पितरश् चैव पुत्रे जाते द्विजन्मनाम् ।
आयान्ति यस्मात् तद् अहः पूज्यं पुण्यं च सर्वदा ॥
तत्र दद्यात् सुवर्णं च भूमिं गां तुरगं रथम् ।
छत्रं छागं च माल्यं च तिलान् वेश्म धनं बहु ॥
जातश्राद्धे प्रदद्याच् च पक्वान्नं ब्राह्मणेष्व् अपि ॥ इति ।

एतच् च नाभिच्छेदात् प्राक्, नोर्ध्वम् । तथा च हारीतः- “जाते कुमारे पितॄणाम् आमोदात् पुण्यं तद् अहस् तस्मात् तिलपूर्णानि पात्राणि सहिरण्यानि ब्राह्मणान् आहूय पितृभ्यः स्वधां कुर्यात् । प्रजापतये च प्राङ् नाभिच्छेदात् संस्कारपुण्यार्थान् कुर्वन्ति । छिन्नायाम् अशौचम्” इति । ज्योतिःशास्त्रात् ।

मृदुध्रुवचरक्षिप्रभेषु वारत्रये शुभे ।
गुरौ शुक्रे ऽथ वा केन्द्रे जातं कर्म च नाम च ॥

भानि नक्षत्राणि । भविष्यत्पुराणम् ।

नामधेयं दशम्यां च केचिद् इच्छन्ति पार्थिव ।
द्वादश्याम् अपरे रात्र्यां मासे पूर्णे तथा परे ॥
अष्टादशे ऽहनि तथा वदन्त्य् अन्ये मनीषिणः ।
पुण्ये तिथौ मुहूर्ते च नक्षत्रे च गुणान्विते ॥ इति ।

गृह्यपरिशिष्टम्- “जननाद् दशरात्रे व्युष्टे शतरात्रे संवत्सरे वा नामध्यकरणम्, अशौचे तु व्यतिक्रान्ते नामकर्म विधीयते” । नायं नियमः, “नामधेयं दशम्याम्” इत्यादिवचनविरोधात् । अतो विकल्प [२७] एव । स्वगृह्यापेक्षया चैतद् व्यवस्था । एवं च “अहन्य् एकादशे द्वादश्यां वास्य कारयेत्” इत्यादि विवक्षितार्थम् एव, नाशौचान्तोपलक्षणार्थम् । तेनाशौचे ऽपि तत्कार्यम् । शङ्खलिखितौ- “दशम्याम् उत्थाप्य पिण्डवर्धनं पितॄणां तत्र सांनिध्यम् इति श्रुतेर् ब्राह्मणो ऽग्नाव् आहुतिं दत्वा पितृन् अनुमान्य ब्राह्मणान् भोजयित्वा तद् अहर् एव नामकरणं कुर्यात् । अन्यो वा कुलवृद्धश् चतुरक्षरं द्व्यक्षरं वा घोषवद् आद्यन्तरत्नस्थं पुंसाम् ईकारान्तं स्त्रीणाम् एवं कृते नाम्नि शुचि तत् कुलं भवति” । सूतिकां पूर्वं शय्यात उत्थाप्य दशम्यां तिथौ दशमे ऽहनीत्य् अर्थः । पिण्डवर्धनं पूजा, तत्स्वरूपं च — ब्राह्मणः पूर्वम् आहुतिं हुत्वा पितॄन् अनुमान्याभ्युदयश्राद्धेन पूजयित्वा, कवर्गादीनां तृतीयादयो वर्णा यरलवहाश् च घोषवन्तः । तेषां मध्ये यकारादयश् चतस्रो ऽन्तस्थाः । ते नाम्नो ऽन्तर्मधे कार्याः । शेषास् तु घोषवन्तो नामादौ । बैजवापः- “पिता नाम करोत्य् एकाक्षरं व्यक्षरं त्र्यक्षरं चतुरक्षरम् अपरिमितं वा कृतं कुर्यान् न तद्धितम् । ईकारान्तं स्त्रियै” । यमः ।

शर्मा देवश् च विप्रस्य वर्मा त्राता च भूभुजः ।
भूतिर् दत्तश् च वैश्यस्य दासः शूद्रस्य कारयेत् ॥

एतान्य् उत्तरपदानि समासरूपस्य नाम्नः कार्याणि । पूर्वपदनियमम् आह मनुः ।

माङ्गल्यं ब्राह्मणस्य् स्यात् क्षत्रियस्य बलान्वितम् ।
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥

तथा ।

स्त्रीणां सुखोद्यम् अक्रूरं (?) विस्पष्टार्थं मनोहरम् ।
माङ्गल्यं दीर्घवर्णान्तम् आशीर्वादाभिधानवत् ॥

निष्क्रमणे यमोक्तो विशेषः ।

ततस् तृतीये कर्तव्यं मासि सूर्यस्य सूर्यस्य दर्शनम् ।

वृद्धशातातपः ।

प्राक्चूडाकरणाद् बालः प्राग् अन्नप्राशनाच् छिशुः ।

[२८] कुमारस् तु स विज्ञेयो यावन् मौञ्जीनिबन्धनम् ॥

शिशोर् अभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् ।
रजस्वलादिसंस्पर्शे स्नातव्यं तु कुमारकैः ॥

ब्रह्मपुराणे ।

मातापित्रोर् अथोच्छिष्टं बालो भुञ्जन् भवेत् सुखी । इति ।

दक्षः ।

जातमात्रः शिशुस् तावद् यावद् अष्टौ समा गतः ।
स हि गर्भसमो ज्ञेयो व्यक्तिमात्रप्रकाशितः ॥
भक्ष्याभक्ष्ये तथापेये वाच्यावाच्ये तथानृते ।
अस्मिन् काले न दोषः स्यात् स यावन् नोपनीयते ॥

एतद् अभक्ष्यभक्षणापेयपानानुमननं मातापित्रोर् उच्छिष्टमात्रविषयं न तु जतिभ्रंशकराद्यभक्षापेयान्नपानविषयम्, संस्काराद्यनर्हत्वप्रसङ्गात् । दृश्यते हि स्मृतिषु प्राचुर्येण “वसन्ते ब्राह्मणम् उपनयीत ग्रीष्मे राजन्यं शरदि वैश्यम्” इत्यादिनानुपहतजात्याद्याश्रयणेनैवोपनयनादीति । पुराणम् ।

चतुर्थे मासि कर्तव्यं शिशोश् चन्द्रस्य दर्शनम् ।
द्वादशे ऽहनित् राजेन्द्र शिशोर् निष्कर्मणं गृहात् ॥
चतुर्थे मासि कर्तव्यं तथान्येषां मतं विभो ॥

अन्नप्राशने विशेषम् आह यमः ।

ततो ऽन्नप्राशनं षष्ठे मासि कार्यं यथाविधि ।
अष्टमे वापि कर्तव्यं यद् वेष्टं मङ्गलं कुले ॥

शङ्खः- “संवत्सरे ऽन्नप्राशनम् अर्धर्संवत्सर इत्य् एके” । लौगाक्षिः- “षष्ठे मास्य् अन्नप्राशनं दन्तेषु जातेषु” । मार्कण्डेयः ।

देवतापुरतस् तस्य धात्र्य् उत्सङ्गगतस्य च ।
अलंकृतस्य दातव्यम् अन्नं पात्रे ऽथ काञ्चने ॥
मध्वाज्यकनकोपेतं प्राङ्मुखं प्राशयेच् छिशुम् ।
कृतप्राशम् अथोत्सङ्गाद् धात्री बालं समुत्सृजेत् ॥
देवाग्रतो ऽथ विन्यस्य शिल्पभाण्डानि सर्वशः ।
शास्त्राणि चैव शस्त्राणि ततः पश्येत् तु लक्षणम् ॥
प्रथमं यत् स्पृशेद् बालस् ततो भाण्डं स्वयं तदा ।
जीविका तस्य बालस्य तेनैव तु भविष्यति ॥

[२९] सर्वैः स्वजन्मदिवसे स्नातैर् मङ्गलवारिभिः ।

गुरुदेवाग्निविप्राश् च पूजनीया विशेषतः ॥
स्वनक्षत्रं च पितरस् तथा देवः प्रजापतिः ।
प्रतिसंवत्सरं यत्नात् कर्तव्यश् च महोत्सवः ॥

पितृपूजा श्राद्धम् । विष्णुधर्मोत्तरे ।

जन्मनक्षत्रगे सोमे शिरःस्नातेन यत्नतः ।
पूजा सोमस्य कर्तव्या नक्षत्रस्य तथात्मनः ॥
श्राद्धं कुर्यात् प्रयत्नेन वह्निब्राह्मणतर्पणम् ।
सुराणाम् अर्चनं केशवस्य विशेषतः ।
सर्वस्व् आलंकृतिस् तिष्ठेद् धौतव्साश् च मानवः ।
निर्मलानि च धार्याणि दन्तकेशनखानि च ॥

चौले यमो विशेषम् आह ।

तथा संवत्सरे पूर्णे चूडाकर्म विधीयते ।
द्वितीये वा तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥

शङ्खलिखितौ- “तृतीये वर्षे चूडाकर्म पञ्चमे वा” । लौगाक्षिः- “तृतीयस्य वर्षस्य भूयिष्ठे गते चूडाः कारयेत् । दक्षिणतः कपूजा वसिष्ठानाम् उभयतो ऽत्रिकश्यपानां मुण्डा भृगवः पञ्चचूडा अङ्गिरसो वाजिम् एकमङ्गलार्थम् । शिखिनो ऽन्ये यथाकुलधर्मं वा । शुद्धपक्षस्य पुण्याहे पर्वणि वा” । कपूजा चूडा । वाजिः केशपङ्क्तिः । व्यासः ।

नक्षत्रे ऽपि न कर्तव्यं यस्मिञ् जातो भवेन् नरः ।
न भद्रपदयोः कार्यं नैवाग्नेयेषु भारत ॥
दारुणेषु च सर्वेषु दूष्टतारां तु वर्जयेत् ।
ज्योतिषे यानि चोक्तानि तानि सर्वाणि कारयेत् ॥
वारं शनैश्चरादित्यसोमानां रात्रिम् एव च ।
तिथिं प्रतिपदं रिक्तां विष्टिं चैव विवर्जयेत् ॥

[३०] अश्विनीश्रवणस्वातिचित्रातिष्याः पुनर्वसुः ।

धनिष्ठारेवतीज्येष्ठा मृगहस्तेषु कारयेत् ॥
शुभेष्व् अंशककेन्द्रेषु शुभेषु करणेषु च ।
क्षौरं प्रातः प्रकुर्वीत आयुर्बलविवर्धनम् ॥
हस्तान् त्रयं मृगशिरः श्रवणान् त्रयं च
पूषाश्विशक्रगुरुभानि पुनर्वसू च ।
क्षौरे तु कर्मणि हितान्य् उदयेक्षणे वा
युक्तानि चोडुपतिना यदि शस्ततारा ॥ ११–१२ ॥
तूष्णीम् एताः क्रियाः स्त्रीणां विवाहस् तु समन्त्रकः ॥ १३ ॥

एता हि जातकर्माद्याः क्रियाः स्त्रीणाम् अमन्त्रकाः विवाहः पुनः समन्त्रकाः । गृह्यविहितानां संस्काराणाम् इह परामर्शात् तत्र च तदङ्गानाम् अप्य् उपदेशात् साङ्गानां तूष्णींभावो वेदितव्यः । अत एव मनुः ।

अमन्त्रिका तु कार्येयं स्त्रीणाम् आवृद् अशेषतः ।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥

आवृत् क्रिया । अशेषतः साङ्गा । यथाक्रमम् इति वचनात् संस्कारेषु क्रमानतिक्रमो विधेय इति दर्शयति । तदतिक्रमे सर्वप्रायश्चित्तं कारयेत् । कालातिक्रमे कात्यायन आह ।

देवतानां विपर्यासे जुहोतिषु कथं भवेत् ।
सर्वं प्रायश्चित्तं हुत्वा क्रमशो जुहुयात् पुनः ॥
संस्काराश् च वियुज्येरन् स्वकालश् च कथंचन ।
हुत्वा तद् एव कर्तव्यं तद् भूप पातयेद् अधः ॥

सर्वप्रायश्चित्तं लौगाक्षिर् आह- “सर्वाणि प्रायश्चित्तानि मनोज्योतिर् इति सप्तभिः” । गोभिलश् चौलाधिकारे- “एतयैवावृता स्त्रियास् तूष्णीं मन्त्रेण तु होमः” । मार्कण्डेयः ।

प्राप्ते ऽथ पञ्चमे वर्षे अप्रगुप्ते जनार्दने ।
षष्ठीं प्रतिपदं चैव वर्जयित्वा तथाष्टमीम् ॥
रिक्तां पञ्चदशीं चैव सौरभौमदिनं तथा ।
एवं सुनिश्चिते काले विद्यारम्भं तु कारयेत् ॥

*[३१* पूजयित्वा हरिं लक्ष्मीं देवीं चैव सरस्वतीम् ।

स्वविद्यासूत्रकारांश् च स्वां विद्यां च विशेषतः ॥
एतेषाम् एव देवानां नाम्ना तु जुहुयाद् धृतम् ।
दक्षिणाभिर् द्विजेन्द्राणां कर्तव्यं चत्र पूजनम् ॥
प्राङ्मुखो गुरुर् आसीनो वारुणाशामुखं शिशुम् ।
अध्यापयेत प्रथमं द्विजाशीर्भिः सुपूजितम् ॥
ततः प्रभृत्य् अनध्यायान् वर्जनीयान् विवर्जयेत् ।
अष्टमीद्वितयं चैव पक्षान्ते च दिनद्वयम् ॥
अशौच इन्द्रयात्रायां भूकम्पे राहुदर्शने ।
व्यतीपाते चाहोरात्रम् उल्कापाते तथैव च ॥

स्मृत्यन्तरम् ।

मातृकान्यासं गणितं च कुमारं शिक्षापयेत् ॥ १३ ॥
गर्भाष्टमे ऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञाम् एकादशे सैके विशाम् एके यथाकुलम् ॥ १४ ॥

उपनेतारं प्रत्युपनेयस्य प्रयोजकव्यापार उपनायनम् । तच् चोपनयनाद् अन्यद् एव । अत एवाह बुधः ।

गर्भाष्टमे वर्षे वसन्ते ब्राह्मण आत्मानम् उपनाययेत् । इति ।

इमम् एव च विधिम् आश्रित्य शौनको मन्त्रं विधत्त- “जान्व् अन्वाच्योपसंगृह्याधीहि भोः सावित्रीं भो अनुब्रूहि” इति । गर्भाद् अष्टमो गर्भाष्टमः, गर्भसहचरितो ऽब्दो गर्भस् तद्(म)पेक्ष्याष्टम इति ल्यब्लोपे पञ्चमी । उपनयनस्याप्य् अयम् एव कालः शौनकेनोक्तः- “अष्टमे वर्षे ब्राह्मणम् उपनयेद् गर्भाष्टमे चैकादशे क्षत्रियं द्वादशे वैश्यम्” इति ।

अथ काम्या उपनयनकालाः । तत्र मनुः ।
ब्रह्मचर्चसकामस्य कार्यं विप्रस्य पञ्चमे ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनो ऽष्टमे ॥

ईहा चेष्टा । [३२] गौतमः- “उपनयनम् अष्टमे पञ्चमे नवमे वा । काम्यं गर्भादिसंख्यावर्षाणाम् उपनयनस्याष्टमं वर्षं नित्यः कालो नवमं पञ्चमं च काम्यः” । आपस्तम्बः- “सप्तमे ब्रह्मवर्चसकामम् अष्टम आयुष्कामं नवमे तेजस्कामं दशमे ऽन्नादिकामम् एकादश इन्द्रियकामं द्वादशे पशुकामम्” । अत्रोपनयीतेत्य् अनुषङ्गः । पुराणात् ।

नष्टे चन्द्रे ऽस्तगे शुक्रे निरंशे चैव भास्करे ।
कर्तव्यं नोपनयनं नानध्याये गलग्रहे ॥

राशेः प्रथमभागस्थितसूर्यो निरंशः । चतुर्थी सप्तमी नवमी त्रयोदशी गलग्रहः ।

हस्तान् त्रये पुष्यधनिष्ठयोश् च पौष्णाश्विसौम्याद् इति विष्णुम् एषु ।
शस्ते तिथौ चन्द्रबलोपयुक्ते कार्यो द्विजानाम् उपनायनो विधिः ॥

गोभिलः- “यद् अहर् उपोष्यन् माणवको भवति प्रग एवैनं तदहन् भोजयन्ति । कुशलीकारयन्ति । आप्लावगन्त्य् अलं कुर्वन्ति । अहतेन वाससाच्छदयन्ति” । प्रगे प्रातर् इत्य् अर्थः । शङ्खः- “पयोयवाग्वामिक्षाहारः क्रमशस्त्रयाणाम् उपनयनाह्नि गर्भाधानादिषु संस्कारेषु दश दश विप्रा भोज्याः” । यद् आह कात्यायनः ।

गर्भाधानादिसर्वेषु ब्राह्मणान् भोजयेद् दश ॥ १४ ॥
उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदम् अध्यापयेद् एनं शौचाचारांश् च शिक्षयेत् ॥ १५ ॥

यथाविध्य् उपनयनकर्मणा शिष्यम् अनुशासनीयं प्रत्यासन्नं कृत्वा गुरुर् आचार्यो व्याहृतिपूर्वकं वेदम् अध्यापयेच् छौचाचारांश् च ग्राहयेत् । गुरुग्रहणात् पितैवोपनयनादि [३३] कुर्याद् इति गमयति । तस्य योग्यताविरहे चान्य आचार्यः स्यात् । उपनयनेन च शिष्यस्याचार्यं प्रति संबन्धविशेषात्मिका प्रत्यासत्तिः क्रियते । न तु देशसंनिकर्षात्मिकैव । उपनेतृगुणान् आह आपस्तम्बः- “तमसो वा एष तमः प्रविशति यद् अविद्वान् उपनयते यच् चाविद्वान् इति ब्राह्मणानाम् । तस्माद् अभिजनविद्यासमुपेतं समाहितं संस्कर्तारम् ईप्सेत” । यैश् चाविद्वान् उपनयते सो ऽपि तमः प्रविशतीत्य् अर्थः । गायत्र्यदिप्रधानं चोपनयनम् । यद् आह कात्यायनः- “गात्र्या ब्राह्मणम् उपनयीत त्रिष्टुभा राजन्यम् । जगत्या वैश्यं सर्वेषां वा गायत्रीम्” । अनुब्रूयाद् इति शेषः । लौगाक्षिः- “तत् सवितुर् वरेण्यम् इति ब्राह्मणस्य । तां सवितुर् इति राजन्यस्य । विश्वा रूपाणीति वैश्यस्य । ॐ भूर् भुवः स्वर् इत्य् उक्त्वा तत् सवितुर् वरेण्यम् इति सावित्रीं त्रिर् आह पच्छोऽर्धर्चशः सर्वाम् अन्ततः” । महाव्याहृतिसंख्याम् आह मनुः ।

ॐकारपूर्विकास् तिस्रो महाव्याहृतयो ऽव्ययाः ।
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥

मुखम् आरम्भः । ततश् च न महाव्याहृतय एवाध्यापनारम्भे प्रयोक्तव्याः । किं तु प्रणवो गायत्री च । एतच् च प्रथमाध्यापनप्रारम्भे न त्व् अहर् अहः, मुखम् इति व्यपदेशात् । प्रणवमहाव्याहृतित्रिकं च स्वरूपतो मनुर् आह ।

अकारं चाप्य् उकारं च मकारं च प्रजापतिः ।
वेदत्रयान् निरवहद् भूर् भुवः स्वर् इतीति च ॥

गायत्रीम् अपि विशेषत आह ।

[३४] त्रिभ्य एव तु वेदेभ्यः पादं पादम् अदूदुहत् ।

तद् इत्य् ऋचो ऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥

तथा ।

अध्येष्यमाणं तु गुरुर् नित्यकालम् अतन्द्रितः ।
अधीष्व भोर् इति ब्रूयाद् विरामो ऽस्त्व् इति चारमेत् ॥
अध्येष्यमाणस् त्व् आचान्तो यथाशास्त्रम् अतन्द्रितः ।
ब्रह्माञ्जलिकृतो ऽध्याप्यो लघुवासा जितेन्द्रियः ॥

ब्रह्माञ्जलिं स एवाह ।

संहत्य हस्ताव् अध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ १५ ॥

शौचात् प्राचीनम् आचारं तावद् आह ।

दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ।
कुर्यान् मूत्रपुरीषे तु रात्रौ चेद् दक्षिणामुखः ॥ १६ ॥

अहनि संध्ययोश् चोदङ्मुखो रात्रौ दक्षिणामुखो वाम(दक्षिण)कर्णारोपितयज्ञोपवीतो मूत्रपुरीषाव् उत्सृजेत् । मनुः ।

तिरस्कृत्योच्चरेत् काष्ठं पत्रं लोष्टं तृणानि वा ।
नियम्य प्रयतो वाचं संवीताङ्गो ऽवगुण्ठितः ॥

काष्ठादिभिर् भूमिम् अन्तर्धाय मलम् उत्सृजेद् इत्य् अर्थः । संवीताङ्गः प्रावृताङ्गः । अवगुण्ठितः प्रावृतशिराः । यमः ।

शिरः प्रावृत्य कुर्वीत शकृन्मूत्रविसर्जनम् ।
अयज्ञियैर् अनार्द्रैश् च तृणैर् आच्छाद्य मेदिनीम् ॥
प्रत्यङ्मुखस् तु पूर्वाह्णे ऽपराह्णे प्राङ्मुखस् तथा ।
उदङ्मुखस् तु मध्याह्ने निशायां दक्षिणामुखः ॥

मनुः ।

छायायाम् अन्धकारे वा रात्राव् अहनि वा द्विजः ।
यथासुखमुखः कुर्यात् प्राणबाधमयेषु च ॥

अङ्गिराः ।

उत्थाय पश्चिमे यामे रात्रेर् आचम्य चोदकम् ।
अन्तर्धाय तृणैर् भूमिं शिरः प्रावृत्य वससा ॥
वाचं नियम्य यत्नेन ष्ठीवनोच्छ्वासवर्जितः ।
कुर्यान् मूत्रपुरीषे च शुचौ देशे समाहितः ॥ १६ ॥

[३५] शौचम् आह ।

गृहीतशिश्नश् चोत्थाय मृद्भिर् अभ्युद्धृतैर् जलैः ।
गन्धलेपक्षयकरं शौचं कुर्याद् अतन्द्रितः ॥ १७ ॥

यथा मलसंसर्गो न भवति तथा वामहस्तेन शिश्नं गृहीत्वोत्थाय देशान्तर उपविश्य कमण्डल्वादिन्ओद्धृतजलैर् मृद्भिश्गन्धलेपक्षयकरं मलगन्धहरं शौचम् अनलसः कुर्यात् । भारद्वाजः ।

अथापकृष्य विण्मूत्रं काष्ठलोष्टतृणादिना ।
शौचं यथार्थवत् कुर्याद् दृढं विधृतमेहनः ॥

मेहनं लिङ्गम् । पुराणात् ।

मार्जनं वामहस्तेन वीरणाद्यैर् अयज्ञियैः ।

देवलः ।

आ शौचान् नोत्सृजेच् छिश्नं प्रस्रावोच्चारयोः स्वयम् ।

विवस्वान् ।

रत्निमात्रं जलं त्यक्त्वा कुर्याच् छौचम् अनुद्धृते ।
पश्चात् तु शोधयेत् तीर्थम् अन्यथा न शुचिर् भवेत् ॥

यमः ।

नाहरेन् मृत्तिकां विप्रः कूलात् ससिकतात् तथा ।
तथा वापीतडागेषु नाहरेद् बाह्यतो मृदम् ॥
आहरेज् जलमध्यात् तु परतो मणिबन्धनात् ॥

पुराणात् ।

वल्मीकान् मूषिकोत्खातान् मृदम् अन्तर्जलात् तथा ।
शौचावशिष्टां गेहाच् च नादद्याल् लेपसंभवाम् ॥
[अन्तः प्रान्यवपन्नां च हलोत्खातां न कर्दमात् । ]

[वापीकूपादिव्यतिरिक्तविषयो ऽअन्त्रजलमृत्तिकाप्रतिषेधः ] । भारद्वाजः ।

नोषरान् न श्मशानाच् च न मृदं मूषकस्थलात् ।
न मार्गान् न जलाज् जातु नादद्यात् कुड्यतः क्वचित् ॥

देवलः ।

धर्मविद् दक्षिणं हस्तं नाधःशौचे नियोजयेत् ।
तथैव वामहस्तेन नाभेर् ऊर्ध्वं न शोधयेत् ॥

शातातपः ।

आर्द्रामलकमात्रास् तु ग्रासा इन्दुक्षये स्मृताः ।
तथैवाहुतयः सर्वाः शौचार्थे चैव मृत्तिकाः ॥

[३६] एका लिङ्गे करे सव्ये तिस्रो द्वे हस्तयोर् द्वयोः ।

मूत्रशौचं समाख्यातं शुक्रे तु द्विगुणं भवेत् ॥

मनुः ।

एका लिङ्गे गुदे तिस्रस् तथा वामकरे दश ।
उभयोः सप्त दातव्या मृदः शुद्धिम् अभीप्सता ॥
एतच् छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं स्याद् वनस्थानां यतीनां च चतुर्गुणम् ॥

दक्षः ।

अर्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता ।
द्वितीया च तृतीया च तदर्धेन प्रकीर्तिता ॥

एवम् अपि गन्धलेपक्षयो यदि न भवेत् तदा मृदो ऽधिका ग्राह्याः परिमाणतः संख्यातो वा । तत्र अङ्गिराः ।

प्रथमा प्रसृतिर् ज्ञेया द्वितीया तु तदर्धिका ।
तृतीया मृत्तिका ज्ञेया त्रिभागकरपूरणी ॥

वसिष्ठः ।

पञ्चापाने दशैकस्मिन्न् उभयोः सप्त मृत्तिकाः ॥

शङ्खः ।

मेहने मृत्तिकाः सप्त लिङ्गे द्वे परिकीर्तिते ।
एकस्मिन् विंशतिर् हस्ते द्वयोर् ज्ञेयाश् चतुर्दश ॥

मेहणः(नं) पायुः । ब्रह्मचारिविषयम् एतत् । हारीतः- “दश सव्ये षट् पृष्ठे सप्तोभाभ्यां तिसृभिः पादौ पर्क्षालयेत्” । वृद्धपाराशरः ।

उपविष्टस् तु विण्मूत्रं कर्तुं यस् तन् न विन्दति ।
स कुर्याद् अर्धशौचं तु स्वस्य शौचस्य सर्वदा ॥

[गन्धलेपक्षये सत्य् अप्य् अर्धमिता संख्या पूरणीया] । यद् आह दक्षः ।

न्यूनाधिकं न कर्तव्यं शौचशुद्धिम् अभीप्सता ।
प्रायश्चित्तेन युज्येत विहितातिक्रमे कृते ॥
यथाविधिकृते शौचे गन्धश् चेन् नापगच्छति ।

तत्राह मनुः ।

यावन् नापैत्य् अमेध्याक्तो गन्धो लेपश् च तत्कृतः ।
तावन् मृद् वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥

मनसस् तुष्ट्यभावे तु देवल आह ।

**यावन् न शुद्धिं मन्येत तावच् छौचं विधीयते । [३७]

ब्रह्मपुराणात् ।

आद्यन्तयोस् तु शौचानाम् अद्भिः प्रक्षालनं स्मृतम् ।
अशेषलेपनाशाय भावशुद्धय एव च ॥

आदिपुराणात् ।

स्त्रीशूद्रयोर् अर्धमानं प्रोक्तं शौचं मनीषिभिः ।
दिवाशौचस्य निश्य् अर्धं पथि पादो विधीयते ॥
आर्तः कुर्याद् यथाशक्ति शक्तः कुर्याद् यथोदितम् ॥ १७ ॥
अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः ।
प्राग् वा ब्राह्मेण तीर्थेन द्विजो नित्यम् उपस्पृशेत् ॥ १८ ॥

अनुपहते देशे प्राङ्मुख उदङ्मुखो वोपविश्यान्तर्जानु पाणिना ब्राह्मेण तीर्थेन द्विजन्मा सर्वदावाचेत् । गौतमः- “शुचौ देश आसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा यज्ञोपवीत्य् आ मणिबन्धनात् पाणी प्रक्षाल्य वाग्यतो हृदये स्पृशंस् त्रिचतुर्था अप आचामेत् । पादौ चाभ्युक्षेत् । खानि चोपस्पृशेत् । शीर्षण्यानि मूधनि च दद्यात्” । आच(चा)मेद् इत्य् अनुवृत्तौ स्मृत्यन्तरम् ।

कूर्परान्तः करौ कृत्वा प्राङ्मुखो वाप्य् उदङ्मुखः ।
पार्ष्णी चासंस्पृशन्न् अद्भिः प्रकृतिस्थाभिर् एव च ॥

कूर्परे जानुनी । वृद्धपाराशरः ।

कृत्वाथ शौचं प्रक्षाल्य पादौ हस्तौ च मृज्जलैः ।
निबद्धशिख आसीनो द्विज आचामम् आचरेत् ॥
कृत्वोपवीतं सव्ये ऽंसे वाङ्मनःकायसंयतः ॥

देवलः ।

प्रथमं प्राङ्मुखं स्थित्वा पादौ प्रक्षालयेच् छनैः ।
उदङ्मुखो वा दैवत्ये पैतृके दक्षिणामुखः ॥
शिखां बद्ध्वा वसित्वा द्वे निर्णिक्ते वाससी शुभे ।
तूष्णीं भूत्वा समाधाय न क्रुध्यन् न विलोकयन् ॥
न गच्छन् न शयानश् च न ह्वलन् न प्रामृशन् ।
न हसन् नैव जल्पंश् च नात्मानं चैव वीक्षयन् ॥

[३८] केशान् नीवीम् अधःकायम् अस्पृशन् धरणीम् अपि ।

यदि स्पृशति चैतानि भूयः प्रक्षालयेत् करम् ॥
इत्य् एवम् अद्भिर् आजानु प्रक्षाल्य चरणौ पृथक् ।
हस्ताव् आ मणिबन्धाभ्यां पश्चाद् आसीत संयतः ॥
अथाम्बु प्रथमात् तीर्थाद् दक्षिणात् त्रिः पिबेत् समम् ।
अशब्दम् अनवस्रावम् अबहिर्जाव् अबुद्बुदम् ॥

न हलन् न चलन् । मणिबन्धः ब्रह्मतीर्थमूलम् । प्रथमं तीर्थं ब्राह्मतीर्थम्, दक्षिनाद् दक्षिणकराद् इत्य् अर्थः । भारद्वाजः ।

संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ।
मुक्ताङ्गुष्ठकनिष्ठे तु शेषेणाचमनं चरेत् ॥
माषमज्जनमात्रास् तु संगृह्य त्रिः पिबेद् अपः ।
आयतं पूर्वतः कृत्वा गोकर्णाकृतिवत् करम् ॥

हारीतः ।

आर्द्रवासाः स्थलस्थस् तु यद्य् आचामेन् नराधमः ।
वस्त्रनिश्चोतनं तस्य देहात् प्रेताः पिबन्ति हि ॥
कुर्याद् आचमनं नित्यं प्राङ्मुखो वाप्य् उदङ्मुखः ।
जलस्थो वा स्थस्थो वा द्वयोर् वा समवस्थितः ॥
जलस्थो जलकार्येषु स्थलस्थः स्थलकर्मसु ।
उभयोस् तूभयस्थस् तु कर्मस्व् अधिकृतो भवेत् ॥

गोभिलः ।

जानुभ्याम् ऊर्ध्वम् आचम्य जले तिष्ठन् न दुष्यति ।
ताभ्याम् अधस् तथा तिष्ठन् नाच(चा)मेन् न विचक्षणः ॥

लिखितः- “उद्धृत्य परीक्षिताभिर् अक्षाराभिर् अशृताभिर् अबुद्बुदाभिर् अशूद्राशुद्ध्येकपाण्यावर्जिताभिर् आच(चा)मेत्” । अद्भिर् इति शेषः । आपस्तम्बः- “भूमिगतास्व् अप्स्व् आचम्य प्रयतो भवति । यं वा पूयते शुचाचमयेत् । न वर्षदारास्व् आच(चा)मेत् । न प्रदरोदके” । [३९] अप आच(चा)मेद् इत्य् अनुवृत्तौ वसिष्ठः- “प्रदराद् अपि या गोस् तर्पणसमर्थाः । न गन्धरसदुष्टाभिर् याश् च स्युर् अशुभागमाः” । प्रदरो गर्तः । प्रचेताः ।

अनुष्णहीनशीताभिः पूताभिर् वस्त्रचक्षुषा ।
हृद्गाभिर् अफेनाभिस् त्रिश् चतुर् वाद्भिर् आचमेत् ॥ १.१८ ॥

ब्रह्मतीर्थस्य लक्षणम् आह प्रसङ्गात् तीर्थान्तराणां च ।

कनिष्टादेशिन्यङ्गुष्ठमूलान्य् अग्रं करस्य च ।
प्रजपतिपितृब्रह्मदेवतीर्थान्य् अनुक्रमात् ॥ १.१९ ॥

कनिष्ठामूलं प्रजापतितीर्थम्, प्रदेशिनीमूलं पितृतीर्थम्। अङ्गुष्ठमूलं ब्रह्मतीर्थम्, हस्ताग्रं देवतीर्थम् च जानीयात् । कनिष्ठा ह्रस्वाङ्गुलिः । देशिणी तर्जनी । अङ्गुष्ठः प्रसिद्धः । हारीतः- “ब्राह्मेण तीर्थेन चाच(चा)मेत् । आवपनहोमतर्पणानि प्राजापत्येन कुर्यात् । मार्जनाचमनबलिकर्मभोजनानि दैवेन । पित्रर्थानि पित्र्येण । प्रतिग्रहम् आग्नेयेन” । आग्नेयं पाणिमध्ये । आवपनं निर्वापः । केशानां मार्जनम्, न प्रोक्षणम् । मार्कण्डेयपुराणात् ।

नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् ।
प्राजापत्येन तीर्थेन यच् च किंचित् प्रजापतेः ॥

भविष्यपुराणे ।

कमण्डलूपस्पर्शनं दधिप्राशनम् एव च ।
सोमतीर्थेन राजेन्द्र सदा कुर्याद् विचक्षणः ॥
लाजहोमं तथा दोहं प्राजापत्येन कारयेत् ॥

योगयाज्ञवल्क्यः ।

अङ्गुष्ठमूले ब्राह्मं स्याद् दैवं त्व् अङ्गुलिमूर्धनि ।
प्राजापत्यं तु मूले स्यान् मध्ये सौम्यं प्रतिष्ठितम् ॥

मध्ये तलमध्य इत्य् अर्थः ॥ १.१९ ॥

त्रिः प्राश्यापो द्विर् उन्मृज्य कान्य् अद्भिः समुपस्पृशेत् ।

त्रीन् वारान् अपः पीत्वा वारद्वयं मुखं संमृज्य छिद्राण्य् अद्भिः संस्पृशेत् । [४०] देवलः ।

द्विस् तथाङ्गुष्ठमूलेन परिमृज्यात् ततो मुखम् ।
नाग्राङ्गुल्या न पृष्ठैर् वा परिमृज्यात् कथंचन ॥

अद्भिस् तु प्रकृतिस्थाभिर् हीनाभिः फेनबुद्बुदैः ॥ १.२० ॥
ह्र्त्कण्ठतालुगाभिस् तु यथासंख्यं द्विजातयः ।
शुध्येरन् स्त्री च शूद्रश् च सकृत् स्पृष्टाभिर् अन्ततः ॥ १.२१ ॥

अद्भिर् अविकृताभिः फेनबुद्बुदरहिताभिर् हृदयकण्ठतालुगामिनीभिर् यथासंख्यं ब्राह्मणक्षत्रियवैश्याः शुध्यन्ति । स्त्रीशूद्रौ तु मुखस्यान्तेनौष्ठद्वयेनैकवारं स्पृष्टाभिः । तथा चाचमनीयं यथा हृदयंगमा भवन्ति । दक्षः ।

प्रक्षाल्य हस्तौ पादौ च त्रिः पिबेद् अम्बु वीक्षितम् ।
संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात् ततो मुखम् ॥

अलोमकौ चौष्ठौ संवृत्येत्य् अर्थः । यमः ।

रात्राव् अनीक्षितेनैव शुद्धिर् उक्ता मनीषिणाम् ।
उदकेनातुराणां च तथोष्णेनोष्णपायिनाम् ॥

उष्णपायिनो दीक्षिताः । पुराणम् ।

दक्षिणं तु करं कृत्वा गोकराकृतिवत् पुनः ।
त्रिः पिबेद् ईक्षितं तोयम् आस्यं द्विः परिमार्जयेत् ॥
आदौ शिरस् तथाभ्युक्ष्य तिसृभिर् मुखम् आलभेत् ।
यथोक्तविधिना खानि ततः स्पृष्ट्वा तु शुध्यति ॥

तिसृभिर् अङ्गुलिभिर् इत्य् अर्थः । मनुः ।

त्रिर् आचामेद् अपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् ।
खानि चोपस्पृशेद् अद्भिर् आत्मानं शिर एव च ॥

दक्षः ।

मध्यमाभिर् मुखं पूर्वं तिसृभिः समुपस्पृशेत् ।
अङ्गुष्ठदेशिनीभ्यां च नासिके तदनन्तरम् ॥
**अङ्गुष्ठानामिकाभ्यां च चक्षुषी समुपस्पृशेत् । [४१]
कनिष्ठाङ्गुष्ठयोः श्रोत्रं नाभिम् अङ्गुष्ठकेन च ।
तलेन हृदयं स्पृष्ट्वा सर्वाभिः शिर एव तु ।
बाहू चाग्रेण संस्पृश्य ततः शुद्धो भवेन् नरः ॥

अङ्गुष्ठानन्त्रा देशिनी । अनामिका, उपकनिष्ठिका । तलं पाणिमध्यम् । वैयाघ्रपद्यः ।

स्रोतःस्थानानि सर्वाणि स्पृष्ट्वा स्पृष्ट्वा विशुध्यति ।
आचामन् ब्राह्मणो नित्यम् इत्य् आह भगवा भृगुः ॥
अङ्गुष्ठेन स्पृशेन् नाभिं संयुक्तेन कनिष्ठया ।
उरस्तलेनाङ्गुलिभिः शिरः पश्चात् तु पञ्चभिः ॥
अंसौ स्पृष्ट्वा कराग्रेण तोयं स्पृष्ट्वा समाहितः ।
संस्मृत्य पद्मनाभं च विप्रः सम्यग् विशुध्यत् ॥

भविष्यत्पुराणे ।

अङ्गुष्ठो ऽग्निर् महाबाहो प्रोक्तो वायुः प्रदेशिनी ।
अनामिका तथा सूर्यः कनिष्ठा चन्द्रमाः स्मृतः ॥
प्रजापतिर् मध्यमा तु ज्ञेया भरतसत्तम ॥

यमः ।

तावन् नोपस्पृशेद् विद्वान् यावद् वामेन संस्पृशेत् ।

जलम् इति शेषः ।

वामे हि द्वादशादित्या वरुणस् त्रिदशेश्वरः ॥

व्यासः ।

अनुद्धृताभिर् आचामेत् कामं तिष्ठन्न् अपि द्विजः ।
आतुरश् चेच् छयानो ऽपि पश्यन् भीतो दिशस् तथा ॥

स्मृत्यन्तरम् ।

ताम्राश्मनारिकेलाब्जवेणुकालाबुचर्मभिः ।
स्वस्तेनापि चाचामेत् सर्वदा शुचिर् एव सः ॥

न केवलम् अनिन्दितहस्तेनेत्य् अपिशब्दार्थः । बौधायनः- “पादप्रक्षालनाच् छेषेण न चाचामेद् यद्य् आचामेद् भूमौ स्रावयित्वाचामेत् । न सबुद्बुदाभिर् न सफेनाभिर् नोष्णाभिर् न क्षाराभिर् न विवर्णाभिर् न कलुषाभिः । न हसन् न जल्पन् न तिष्ठन् न विलोकयन् न प्रह्वो न प्रणतो न मुक्तशिखो नाबद्धकच्छो [४२] न बहिर्जानुर् न वेष्टितशिरा न बद्धकक्षो न त्वरमाणो नायज्ञोपवीतो न प्रसारितपादः शब्दम् अकुर्वन् त्रिर् अपो हृदयंगमाः पिबेत्” । देवलः ।

सोपानत्को जलस्थो वा मुक्तकेशो ऽपि वा द्विजः ।
उष्णीषी वापि नाचामेद् वस्त्रेणावेष्ट्य वा शिरः ॥

आपस्तम्बः- “न वर्षधारास्व् आचामेत्” । यमः ।

अपः करनखस्पृष्टा य आचामति वै द्विजः ।
सुरां पिबति स व्यक्तं यमस्य वचनं यथा ॥

तथा च ब्रह्माण्डपुराणात् ।

कण्ठं शिरो वा प्रावृत्य रथ्यापणगतो ऽपि वा ।
अकृत्वा पादयोः शौचम् आचान्तो ऽप्य् अशुचिर् भवेत् ॥

मरीचिः ।

न पादुकास्थो नाचित्तः शुचिः प्रयतमानसः ।
उपस्पृश्य द्विजा शुद्ध एव भवएत् तु सः ॥
भुक्त्वासनस्थो ऽप्य् आचामेन् नान्यकाले कदाचन ॥

प्रचेताः- “नान्तर्वासा न निर्वासा नाश्रु कुर्वन् नाचामेत्” । आपस्तम्बः- “नाग्न्युदकशेषेण वृथा कर्माणि कुर्वीत । आचामेद् वा भूमौ स्वावयित्वा वाचामेत्” । विष्णुः ।

न स्पृशन् न हसञ् जल्पन् न श्वचाण्डालदर्शने ।
नापवित्रकरः कश्चिद् ब्राह्मणो ऽप उपस्पृशेत् ॥
अपूतं तस्य तत् सर्वं भवत्य् आचमने तथा ॥

यमः ।

वामहस्तस्थिते दर्भे दक्षिणेनाचमेद् यदि ।
रक्तं तु तद् भवेत् तोयं पीत्वा चान्द्रायणं चरेत् ॥ १.२०–२१ ॥

उपनीतस्य क्रमप्राप्तां मध्यंदिनसंध्यां स्नानादिसहिताम् आह ।

स्नानम् अब्दैवतैर् मन्त्रैर् मार्जनं प्राणसंयमः ।
सूर्यस्य चाप्य् उपस्थानं गायत्र्याः प्रत्यहं जपः ॥ १.२२ ॥

स्नानम् आप्लावनम्, अब्देइवतैः, आपो हि ष्ठेत्य् एवमादिभिर् मन्त्रैः । मार्जनं स्वशिरःप्रोक्षणम्, प्राणायामः, सूर्योपस्थानं गायत्रीजपश् चेति प्रत्यहं मधंदिने [४३] कार्यम् । ब्रह्मचारिप्रकरणे विष्णुः- “अप्सु दण्डवन् मज्जनम्” । कात्यायनः ।

रक्षार्थं वारिणात्मानं परिक्षिप्य समन्ततः ।
शिरोसो मार्जनं कुर्यात् कुशैः सोदकबिन्दुभिः ॥

तत्रापोहिष्ठीयानाम् आर्षादिकम् आह योगयाज्ञवल्क्यः ।

सिन्धुद्वीपो भवेद् आर्षं गायत्रं छन्द एव च ।
आपश् च दैवतं प्रोक्तं विनियोगश् च मार्जने ॥

व्यासः ।

विप्रुषो ऽष्टौ क्षिपेद् ऊर्ध्वम् अधो यस्य क्षयाय जित् ।

आपो हि ष्ठेति तृ(त्र्यृ)चेन प्रतिपादं मार्जनं कार्यम् । तत्र यस्य क्षयाय जिन्वथेत्य् अधो भुवि क्षिपेत् । तथा,

मार्जनं जलमध्ये तु प्राणायामो यतस् ततः ।

जले व स्थले वेत्य् अर्थः । अथ पवित्रकरणम् । तत्र कात्यायनः ।

अनन्तर्गर्भिणं साग्रं कौशं द्विदलम् एव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥
एतद् एव कपिञ्जल्या लक्षणं समुदाहृतम् ।
आज्यस्योत्पवनार्थे यत् तद् अप्य् एतावद् एव तु ॥
एतत् प्रमाणाम् एवैके कौशीम् एवार्द्रमञ्जरीम् ।
शुष्कां वा शीर्णकुसुमां पिञ्जलीं परिचक्षते ॥

मार्कण्डेयः ।

चतुर्भिर् दर्भपिञ्जूलैर् ब्राह्मणस्य पवित्रकम् ।
एकैकन्यूनम् उद्दिष्टं वर्णे वर्णे यथक्रमम् ॥
त्रिभिर् दर्भैः शान्तिकर्म पञ्चभिः पौष्टिकं तथा ।
पिञ्जलैः सप्तभिः सर्वं दैवं पित्र्यं विधीयते ॥
नीवीमध्ये तु ये धर्भा ब्रह्मसूत्रे च ये कृताः ।
पवित्रांस् तान् विजानीयाद् यथा कायस् तथा कुशः ॥
जपे होमे तथा दाने स्वाध्याये पितृतर्पणे ।
अशून्यं तु करं कुर्यात् सुवर्णरजतैः कुशैः ॥

[४४] जपे होमे तथा दाने स्वाध्याये पितृकर्मणि ।

सव्यापसव्यौ कुर्वीत सपवित्रौ करौ बुधः ॥
ग्रन्थिर् यस्य पवित्रस्य न तेनाचमनं चरेत् ।
आर्षं छन्दो दैवतं च विनियोगविधिं स्मरेत् ॥
स्मृत्व्ॐकारं च गयत्रीं निबध्नीयाच् छिखां ततः ।
पुनर् आचम्य हृदयं नाभिं स्कन्धौ च संस्पृशेत् ॥

तथा,

प्रणवाद्या व्याहृतीश् च सावित्रीं च जपेत् ततः ।
तथाभिमन्त्र्य सलिलं संध्योपासनम् आचरेत् ॥ १.२२ ॥

प्राणायामस्वरूपम् आह ।

गायत्रीं शिरसा सार्धं जपेद् व्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिर् अयं प्राणसंयमः ॥ १.२३ ॥

तत् सवितुर् इति गायत्री, अस्या एव तैत्तिरीयकारण्यके प्राणायाममन्त्रत्वेनाम्नानात् । ॐ आपो ज्योतिर् इत्यादिकेन शिरसा सार्धं व्याहृतिपूर्विकां प्रतिप्रणवसंयुक्ताम् त्रिर् जपेत् । एष प्राणसंयमः प्राणायाम इत्य् अर्थः । भूराद्या व्याहृतयः सप्त सत्यान्ताः पूर्वा यस्याः सा तत्पूर्विका । प्रतिमन्त्रं प्रणवः प्रतिप्रणवः । मन्त्राश् च व्याहृतयः सावित्री शिरश् च । शिरसो ऽन्तो यः प्रणवः स शिरोन्तर्मन्त्रान्तर्गत एव । संवर्तः ।

प्रणवेन तु संयुक्ता व्याहृतीः सप्त नित्यशः ।
सावित्रीं शिरसा सार्धं मनसा त्रिः पठेद् द्विजः ॥

मनुः ।

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेद् आयतप्राणः प्राणायामः स उच्यते ॥

बृहस्पतिः ।

बद्ध्वासनं नियम्य स्वं स्मृत्वा चार्षादिकं तथा ।
संनिमीलितदृङ् मौनी प्राणायामं समभ्यसेत् ॥

योगयाज्ञवल्क्यः ।

ॐकारः परमं ब्रह्म सर्वमन्त्रेषु नायकः ।
प्रजापतेर् मुखोत्पन्नस् तपःसिद्धस्य वै पुरा ॥

[४५] तेनोपत्तम् अतस् तस्य ब्रह्मार्षं च स्वयंभुवः ।

गायत्री च भवेच् छन्दश् चाग्निर् दैवतम् उच्यते ॥
आदौ सर्वत्र युञ्जीत विविधेष्व् एककर्मसु ।
विनियोगः समुद्धिष्टः श्वेतवर्ण उदाहृतः ॥
व्याहृतीनां च सर्वासाम् ऋषिर् ब्रह्मा प्रकीर्तितः ।
ततश् छन्दांसि यान्य् आसां तानि सम्यक् प्रदर्शयेत् ॥
गायत्र्य् उष्णिग् अनुष्टुप् च बृहती पङ्क्तिर् एव च ।
इन्द्रश् च विश्वे देवाश् च देवताः समुदाहृताः ॥
प्राणायामप्रयोगे च विनियोग उदाहृतः ॥

तथा,

सविता देवता यस्या मुखम् अग्निस् त्रिपात् तथा ।
विश्वामित्र ऋषिश् छन्दो गायत्री सा विशिष्यते ॥
विनियोग उपनये प्राणायामे तथैव च ।
गायत्री वा इदं सर्वं ब्राह्मणं ब्राह्मणानि तु ॥
वेदेष्व् अन्यान्य् अनेकानि गायत्र्याः कीर्तितानि तु ।
ओम् आपो ज्योतिर् इत्य् एष मन्त्रो यस् तु प्रकीर्त्यते ॥
तस्य प्रजापतेर् आर्षं यजुश्छन्दोविवर्जितम् ।
ब्रह्माग्निर् वायुः सूर्यश् च देवताः समुदाहृताः ॥
प्राणस्यामने चैव विनियोग उदाहृतः ॥

पूरककुम्भकरेचकैः प्राणायामस् त्रिलक्षणो ज्ञेयः । यथा,

नासिकाकृष्ट उच्छ्वासो ह्य् अन्तः पूरक उच्यते ।
कुम्भको निश्चलश्वासो मुच्यमानस् तु रेचकः ॥
नीलोत्पलश्यामनिभं नाभिदेशे प्रतिष्ठितम् ।
चतुर्भुजं महात्मानं पूरकेणैव चिन्तयेत् ॥
कुम्भकेन हृदि स्थाने ध्यायेच् च कमलासनम् ।
ब्रह्माणं गौरसर्वाङ्गं चतुर्वक्त्रं पितामहम् ॥
रेचकेनेश्वरं विद्याल् ललाटस्थं महेश्वरम् ।
शुद्धस्फटिकसंकाशं निर्मलं पापनाशनम् ॥

[४६] तथा,

प्राणायामत्रयं कार्यं संध्यास्व् अथ तिसृष्व् अपि ।
प्राणस्यायमनं कृत्वा आचामेत् प्रयतो ऽपि सन् ॥
आन्तरं स्वि(खि)द्यते यस्मात् तस्माद् आचमनं स्मृतम् ।
सायम् अग्निश् च मेत्य् उक्त्वा प्रातः सूर्यश् च मा पिबेत् ॥
आपः पुनन्तु मध्याग्ने ततश् चाचमनं चरेत् ॥

आपः पुनन्त्व् इति सिन्धुद्वीप ऋषिः, ब्रह्मनस्पतिर् देवता, अनुष्टुप् छन्दः । सूर्यश् च मेति अग्निर् ऋषिः, सूर्यमन्युपतयो देवताः । अग्निश् चेति विष्णुर् ऋषिः, अग्निर् देवता ।

स्पृष्ट्वा चाभिष्टुतं तोयं मूर्ध्नि ब्रह्ममुखेन तु ।
आपो हि ष्ठेत् सूक्तेन दर्भैर् मार्जनम् आचरेत् ॥

प्रणवो व्याहृतिः सावित्रीति ब्रह्ममुखम् । तेन तोयं स्पृष्ट्वा तेन तोयेन मूर्ध्नि दर्भैर् मार्जनं चापो हि ष्ठेति सूक्तेन कुर्याद् इत्य् अर्थः । आपो हि ष्ठेत्य् अस्य सूक्तस्याम्बरीषः सिन्धुद्वीप ऋषिः, आपो देवता । नवम्या उत्तराव(र्ध)र्चस्यग्निः । आद्यानां सप्तानां गायत्री छन्दः, उत्तरयोर् अनुष्टुप्, मार्जने विनियोगः । कात्यायनः ।

उत्थायार्कं प्रति क्षिपेत् त्रिकेणाञ्जलिम् अम्भसः ।

प्रणवो व्याहृतयः सावित्रीति त्रिकम् । अथ स्वशाखाधीतैः सूर्यदेवत्यैर् मन्त्रैर् आदित्यम् उपतिष्ठेत । ततः सावित्रीं जपेत् । तत्र व्यासः ।

आवाहयेत् तु गायत्रीं सर्वपापप्रणाशिनीम् ।
आगच्छ वरदे देवि जप्ये मे संनिधौ भव ॥
गायन्तं त्रायसे यस्माद् गयत्री त्वं ततः स्मृता ॥

योगयाज्ञवल्क्यः ।

श्वेतवर्णा समुद्दिष्टा कौशेयवसना तथा ।
श्वेतैर् विलेपनैः पुण्यैर् अलंकारैश् च भूषिता ॥
आदित्यमण्डलान्तःस्था ब्रह्मलोकनिवासिनी ।
अक्षसूत्रधरा देवी पद्मासनगता शुभा ॥
आवाह्य यजमानो हि ओजो ऽसीति विधानतः ।
आवाह्य पूजयित्वा तु नमस्कृत्य निसर्जयेत् ॥

[४७] ॐकारं पूर्वम् उच्चार्य भूर् भुवः स्वस् तथैव च ।

गायत्री प्रणवश् चान्ते जपो ह्य् एवम् उदाहृतः ॥

यमः ।

सहस्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं तु जपेन् नित्यं सर्वपापप्रणाशिनीम् ॥

कुर्याद् इत्य् अनुवृत्तौ योगयाज्ञवल्क्यः ।

गृहे त्व् एकगुणं जप्यं नद्यां तु त्रिगुणं स्मृतम् ।
गवां गोष्ठे शतगुणम् अग्न्यगारे शताधिकम् ॥
सिद्धक्षेत्रेषु सर्वेषु देवतायाश् च संनिधौ ।
सहस्रशतकोटीनाम् अनन्तं शिवसंनिधौ ॥

तथा,

तिष्ठंश् चेद् वीक्ष्य्(क्ष)माणो ऽर्कं जपं कुर्यात् समाहितः ।
अन्यथा प्राङ्मुखो कुर्याद् वक्ष्यमाणक्रमेण तु ॥
प्राक्कूलेषु कुशेष्व् एवम् आसीनश् चासने शुभे ।
नात्युच्छ्रिते नातिनीचे दर्भपाणिः सुसंयतैः ॥
स्फोटिकेन्द्राक्षरुद्राक्षपुत्रजीवसमुद्भवैः ।
अक्षमाला हि कर्तव्या उत्तमा ह्य् उत्तरोत्तरा ॥
कोट्याधिका भवेद् वृद्धिर् अक्षमाला विशेषतः ।
जपस्य क्रियमाणस्य तस्माच् छ्रेष्ठा परा परा ॥
अभावे त्व् अक्षमालायाः कुशग्रन्थ्याथ पाणिना ।
जप एव हि कर्तव्य एकाग्रमनसा सदा ॥

शङ्खः- “कुशबृस्यां समासीनः कुशोत्तरायां वा हस्तोपयामैर् वा कुशपवित्रपाणिर् उदङ्मुखः सूर्याभिमुखो वाक्षमालाम् आदाय देवतां ध्यायञ् जपं कुर्यात्” । बृसी, आसनम् । कुशोत्तरा कुशच्छन्ना । सुवर्णमणिमुक्ताफलस्फटिकपद्माक्षेन्द्राक्षपुत्रजीवकानाम् अन्यतमाम् अक्षमालां कुर्यात् । कुशग्रन्थिकृतां वा हस्तोपयामैर् वा ।

न तथान्येन जप्येन पापं निर्दहति द्विजः ।
**यथा सावित्रीजप्येन सर्वपपैः प्रमुच्यते ॥ [४८]

योगयाज्ञवल्क्यः ।

ध्यायेन मनसा मन्त्रं जिह्वोष्ठौ न च चलयेत् ।
न कम्पयेच् छिरोग्रीवं दन्तान् नैव प्रकाशयेत् ॥
न चङ्क्रमन् न च हसन् न पार्श्वम् अवलोकयन् ।
नापाश्रितो न जल्पंश् च न प्रावृतशिरास् तथा ॥
न पदा पदम् आक्रम्य न चैव हि तथासनम् ।
न चासमहितमना न च संश्रावयञ् जपेत् ॥
न क्लिन्नवासाः स्थलगो जपादीन् आचरेद् बुधः ।
व्रताद् ऋते नार्द्रवासा नैकवासाः समाचरेत् ॥
न जीर्णेन न नीलेन प्रैक्लिष्टेन वा जपेत् ।
यक्षराक्षसभूतानि सिद्धविद्याधरा गणाः ॥
हरन्ति प्रसभं यस्मात्र् तस्माद् गुप्तं तु कारयेत् ।
जपकाले न भाषेत व्रतहोमदिके तथा ॥
एतेष्व् एवावसक्तस् तु यद्य् आगच्छेद् द्विजोत्तमः ।
अभिवाद्य ततो विप्रं योगक्षेमं च कीर्तयेत् ॥

अवसक्तो ऽवहितः ।

तूष्णीम् आसीत च जपंश् चण्डालपतितादिकान् ।
दृष्ट्वा तान् वार्य् उपस्पृश्याभाष्य स्नात्वा पुनर् जपेत् ॥

उपस्पृश्याचम्य । आभाष्य संभाष्येत्य् अर्थः ।

आचम्य प्रयतो नित्यं जपेद् अशुचिदर्शने ।
सौरान् मन्त्रान् यथोत्साहं पावमानीश् च शक्तितः ॥
उपंशुजपयुक्तस्य संस्याच् छतगुणो भवेत् ।
साहस्रो मानसः प्रोक्तो यस्माद् ध्यानसमो हि सः ॥

शंस्य उच्चैर् जपः ।

ओष्ठस्पन्दनमात्रं तु यत्रोपांशु तथाध्वनि ।
कृत्वा जिह्वां निर्विकल्पां चिन्तयेत् तद् धि मानसम् ।
नोच्चैर् जपं बुधः कुर्यात् सावित्र्यास् तु विशेषतः ॥ इति ॥ १.२३ ॥

सायंसंध्योपास्तिम् आह ।

प्राणान् आयम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।
जपन्न् आसीत सावित्रीं प्रत्यग् आ तरकोदयात् ॥ १.२४ ॥

[४९]

यथाविधि प्राणान् आयम्य विधिवद् आहो हि ष्ठेति त्र्यृचेनात्मानं संप्रोक्ष्य प्रत्यङ्मुखः सावित्रीं पुर्ववज् जपंस् तारकोदयं यावन् नद्यादाव् आसीत । उदयो दर्शनयोग्यता, उपासीतेत्य् अनुवृत्तौ शौनकः- “अर्धास्तमिते मण्डल आ नक्षत्रदर्शनात्” इति । अत्राग्निश् च मा मन्युश् चेत्य् अस्य, अग्निर् ऋषिः । अग्निमन्युमन्युपतयो देवताः । प्रकृतिश् छन्दः । अपाम् ऊर्ध्वक्षेपे विशेषो व्यासेनोक्तः ।

कराभ्यां तोयम् आदाय गायत्र्या चाभिमन्त्रितम् ।
आदित्याभिमुखस् तिष्थेत् त्रिर् ऊर्ध्वं संध्ययोः क्षिपेत् ॥

मध्यंदिनसंध्यायाः समानम् अन्यत् । सायंसंध्याजपान्ते रात्र्युपस्थानम् । बौधायन आह- “इमं म इति वारुणीभ्यां रात्रिम् उपतिष्ठते इति । इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वाम् अवस्युराचके । तत् त्वा यामि ब्राह्मणा वन्दमानस् तद् आशास्ते यजमानो हविर्भिः । अहेषमानो वरुणेह बोध्युर् उशंस मा न आयुः प्र मोषीः” इति । शुनःशेप ऋषिः । रात्रिर् देवता । पूर्वा गायत्री, उत्तरा त्रिष्टुप् ॥ १.२४ ॥

प्रातःसंध्योपास्तिविधिम् आह

संध्यां प्राक् प्रातर् एवं हि तिष्ठेद् आ सूर्यदर्शनात् ।

प्राणायामप्रोक्षणगायत्रीजपा एवंशब्देन गृहीताः । प्राङ्मुखः सावित्रीं जपन् प्रातःसंध्यां सूर्यदर्शनकालं यावत् तिष्ठेत् । संध्याम् इति “कालाध्वनोर् अत्यन्तसंयोगे” (पाण् २.३।५) इति द्वितीया । तेन सकलसंध्याकालो जपेन व्यपनेयः । अत्र च “ॐपूर्वां गायत्रीं जपेत्” इतिश्रुतिविरोधपरिहारार्थं जप एव प्राधान्येन विधेयः । स्नानासने तु तदङ्गतया । तेन जपन्न् आसीतेत्य् आसीनो जपेद् इत्य् अर्थः । संवर्तः ।

प्रातःसंध्यां सनक्षत्राम् उपासीत यथाविधि ।
सादित्यां पश्चिमां संध्याम् अर्धास्तमितभास्करात् ॥

योगयाज्ञवल्क्यः ।

ह्रासवृद्धी तु सततं दिवसानां यथाक्रमम् ।
संध्या मुहूर्तमात्रं तु ह्रासे वृद्धौ तु सा स्मृता ॥
या भवेत् पश्चिमा संध्या सा विज्ञेया सरस्वती ।
रक्ता भवति गायत्री सावित्री श्वेतपर्णिका ॥

[५०] कृष्णा सरस्वती ज्ञेया संध्यात्रयम् उदाहृतम् ।

संधौ संध्याम् उपासीत नास्तंगे नोद्गते रवौ ॥
संध्यात्रयं तु कर्तव्यं द्विजेनात्मविदा सदा ।
उभे संध्ये च कर्तव्ये ब्राह्मणैश् च गृहेष्व् अपि ॥

अतश् च वाक्यान् मध्याह्नसंध्या गृहे न कार्येति गम्यते । वसिष्ठः ।

गृहे त्व् एकगुणा संध्या गोष्ठे दशगुणा स्मृता ।
शतसाहस्रिका नद्याम् अनन्तं विष्णुसंनिधौ ॥

शातातपः ।

अनृतं मद्यगन्धं च दिवामैथुनम् एव च ।
पुनाति वृषलस्यान्नं बहिः संध्या ह्य् उपासिता ॥
बहिः संध्या दशगुणा गर्तप्रस्रवणादिषु ।
ख्याततीर्थे शतगुणा साहस्रा जाह्नवीजले ॥

मनुः ।

एतद् अक्षरम् एतां च जपन् व्याहृतिपूर्वकम् ।
संध्ययोर् उभयोर् विप्रो वेदपुण्येन युज्यते ॥

एतद् अक्षरं प्रणवः । यमः ।

यद् अह्ना क्रियते पापं कर्मणा मनसा गिरा ।
आसीनः पश्चिमां संध्यां प्राणायामैश् च हन्ति तत् ॥
यद् रात्र्या क्रियते पापं कर्मणा मनसा गिरा ।
पुर्वां संध्याम् उपासीनः प्राणायामैर् व्यपोहति ॥
संध्याम् उपासते ये तु सततं संशितव्रताः ।
विधूतपापास् ते यान्ति ब्रह्मलोकं सनातनम् ॥
ऋषयो दीर्घसंध्यत्वाद् दीर्घम् आयुर् अवाप्नुवन् ।
पूजां यशश् च कीर्तिश् च ब्रह्मवर्चसम् एव च ॥

विष्णुपुराणात् ।

सर्वकालम् उपस्थानं संध्ययोः पार्थिवेष्यते ।
अन्यत्र सूतकाशौचविभ्रमातुरभीतितः ॥

पुलस्त्यः ।

संध्याम् इष्टिं चरुं होमं यावज्जीवं समाचरेत् ।
सूतके मृतके चैव संध्याकर्म न संत्यजेत् ॥
**मनसोच्चारयेन् मन्त्रान् प्राणायामम् ऋते द्विजः ॥ [५१]

यमः ।

अनागतां तु ये पूर्वाम् अतीतां ये च पश्चिमाम् ।
विप्राः संध्यां न तिष्ठन्ति वृषलास् त उदाहृताः ॥

दक्षः ।

उपासते न यः संध्यां ब्राह्मणो हि विशेषतः ।
स जीवन्न् एव शूद्रत्वं मृतः श्वा चैव जायते ॥
संध्याहीनो ऽशुचिर् नित्यम् अनर्हः सर्वकर्मसु ।
यद् अन्यत् कुरुते कर्म न तस्य फलभाग् भवेत् ॥
अग्निकार्यं ततः कुर्यात् संध्ययोर् उभयोर् अपि ॥ १.२५ ॥

तारकोदयात् सूर्यदर्शनाच् चोर्ध्वं संध्याकाले प्रत्यासन्न एव काले स्वगृह्योक्तविधिना समिद्धोमं कुर्यात् । भविष्यत्पुराणात् ।

दूराद् आहृत्य समिधः संनिदध्याद् गृहोपरि ।
सायं प्रातश् च जुहुयात् ताभिर् अग्निम् अतन्द्रितः ॥

दूराद् इत्य् अपरिगृहीतदेशोपलक्षणार्थम् । मान्त्रवर्णिकी चात्र देवता । जुहुयाद् इति वचनाद् अग्निकार्यं होमादिकं प्रतीयते । सायंप्रातश् च शब्दाभ्यां रात्र्यहनी उपलक्ष्येते । बैजवापः- “पुरास्तमयात् प्राग् उदीचीं दिशं गत्वाहिंसन्न् अरण्यात् समिध आहरेत् । शुष्का ब्रह्मवर्चसकामः । आर्द्रा अन्नाद्यकाम उभयोर् उभयकामः” । कात्यायनः ।

नाङ्गुष्ठाद् अधिका कार्या समित्स्थूलतया क्वचित् ।
न वियुक्ता त्वचा चैव न सकीटा न पाटिता ॥
प्रादेशान् नाधिका नोना तथा च स्याद् द्विशाखिका ।
न सपर्णा न निर्वीर्या होमेषु च विजानता ॥
विशीर्णा विदला ह्रस्वा वक्राः ससुशि(षि)रास् तथा ।
न ग्राह्याश् च गुणैर् जुष्टाः कर्मसिद्धिविनाशिकाः ॥

वायुपुराणात् ।

पालाश्यः समिधः कार्याः खादिर्यस् तदलाभतः ।
**शमीरोहितकाश्वत्थास् तदलाभे ऽर्कवेतसाः ॥ [५२]

कात्यायनः ।

यत्रोपदिश्यते कर्म कर्तुर् अङ्गं न चोच्यते ।
दक्षिणस् तत्र विज्ञेयः कर्मणां पारगः करः ॥
यत्र दिङ्नियमो नास्ति जपहोमादिकर्मसु ।
तिस्रस् तत्र दिशः प्रोक्ता ऐन्द्री सौम्यापराजिता ॥
आसीन ऊर्ध्वः प्रह्वो वा नियमो यत्र नेदृशः ।
तद् आसीनेन कर्तव्यं न प्रह्वेण न तिष्ठता ॥

शातापतः ।

नाभिवाद्यास् तु विप्रेण क्षत्रियाद्याः कथंचन ।
ज्ञानकर्मगुणोपेता यद्य् अप्य् एते बहुश्रुताः ॥
ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्याद् इति श्रुतिः ।
सवर्णैस् तु सवर्णानां कार्यम् एवाभिवादनम् ॥

अङ्गिराः ।

अप्रणमं गते शूद्रे स्वस्ति कुर्वन्ति ये द्विजाः ।
शूद्रो ऽपि नरकं याति ब्राह्मणस् तदनन्तरम् ॥

यमह् ।

यत् सुखं त्रिषु लोकेषु व्याधिव्यसनवर्जितम् ।
यस्मिन् सर्वे स्थिताः कामाः सा स्वस्तीत्य् अभिसंज्ञिता ॥

तथा,

क्षत्रियस् त्रियुगं हन्ति वैश्यो हन्ति चतुर्युगम् ।
हन्त्य् एकविंशतियुगं शूद्रो ब्राह्मणम् अब्रुवन् ॥

भविष्यत्पुराणात् ।

अभीति गदितो विष्णुर् वादयामीति शंकरः ।
द्वाव् एव पूजितौ तेन यः करोत्य् अभिवादनम् ॥
सव्यापसव्यादिविधिर् यत्र नो विद्यते क्वचित् ।
यज्ञोपवीतिना तत्र भाव्यं सर्वेषु कर्मसु ॥ १.२५ ॥

अभिवादनविधिम् आह ।

ततो ऽभिवादयेद् वृद्धान् असाव् अहम् इति ब्रुवन् ।

अग्निकार्यं कृत्वासाव् अहम् इति ब्रुवञ् ज्यायसो ऽभिवादयेत् । असाव् इत्य् अस्य स्थाने प्रथमान्तं नाम कीर्तयेत् । तथाभिवादय इत्य् उक्त्वा वा । मनुः ।

अभिवादात् परं विप्रो ज्यायांसम् अभिवादयन् ।
असौ नामाहम् अस्मीति स्वनाम परिकीर्तयेत् ॥
**भोःशब्दं कारयेद् अन्ते स्वस्य नाम्नो ऽभिवादने ॥ [५३]

अतश् चैवं प्रयोगो भवति । अभिवादये चैत्रनामाहम् अस्मि भो इति । अभिवादितेन च प्रत्यभिवादनं यथा कार्यं तथाह स एव ।

आयुष्मान् भव सौम्येति वाच्यो विप्रो ऽभिवादने ।
अकारश् चास्य नाम्नो ऽन्तर् वाच्यः पूर्वाक्षरः प्लुतः ॥

अत्र चाभिवादकनामसंनिविष्टान्तिमस्वरोपलक्षणार्थम् अकारग्रहणम् । ततश् च य एवास्ति स्वरो ऽन्त्यः स प्लुतः कार्यः पूर्वाक्षर इति वचनात् । पूर्वम् अक्षरं यस्य स पूर्वाक्षरः, पूर्वम् अभिवादकनामान्तर्वर्तिनः । तच् च सामर्थ्याद् व्यञ्जनम्, स्वरस्य हि व्यञ्जनम् एव पूर्वम् । अतश् च पूर्वाक्षर इति विशेषणोपदानाद् व्यञ्जनसहित एव स्वरः प्लावनीयः । न पुनर् अपूर्वो ऽकारो नामान्ते विधीयत इति निश्चीयते । तथा च वसिष्ठः- “आमन्त्रिते स्वरो ऽन्त्यस्य प्लवते संध्यक्षरम् अप्रगृह्यम् आयाय(उ)भावं च” इति । आमन्त्रितविभक्त्यन्तस्य नाम्नो ऽन्ते यः स्वरः स प्लवते त्रिमात्रो भवति । तथा प्रगृह्यसंज्ञावर्जितं यत् संध्यक्षरम् एकाकारैकाररूपम् आइभावस् तस्य कार्यः । ओकारौकाररूपं चेत् तदा तस्याउभावः कर्यः । अत्रोदाहरणानि- आयुष्मान् भव सौम्य यज्ञदत्त३ भद्रश्रमा३ [न] यज्ञभूता३इ चित्रगा३उ । “ज्यायांसम् अभिवादयन्” इत्य् उक्तम् । तत्र क्यता कालेन ज्यायान् भवतीत्य् अपेक्षिते मनुर् आह ।

दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभ्र्ताम् ।
त्र्यब्दपूर्वं श्रोत्रियाणाम् अल्पेनापि स्वयोनिषु ॥

पुरवासिनो दशभिर् वर्षैः पूर्वः सखैव भवति, ततो ऽधिकवर्षस् तु ज्यायान् । कलाभृतां शिल्पिनां गायनादीनां पञ्चाब्दपूर्वः सखा, ततो ऽधिको ज्यायान् । त्यब्दापेक्षम् अल्पत्वम् । श्रोत्रियाणां त्र्यब्दपूर्वः सखा, ततो ऽधिको ज्यायान् । तस्य च तारतम्यं गुणतारतम्यापेक्षम् । अपिशब्द एवकारार्थः । स्त्रियः कर्तव्यप्रत्यभिवादनान् अभिज्ञांश् च पुरुषान् प्रति तथाह मनुः ।

[५४] नामधेयस्य ये केचिच् अभिवादं न जानते ।

तान् प्राज्ञो ऽहम् इति ब्रूयात् स्त्रियः सर्वास् तथैव च ॥

आपस्तम्बः- “त्रिवर्षपूर्वः श्रोत्रियो ऽभिवादनम् अर्हति । ज्ञायमाने च वा योनिविशेषे वृद्धतरायाभिवाद्यम्” । तथा- “समानग्रामे च वसताम् अन्येषाम् अपि वृद्धतराणां प्राक् प्रातराशाद् अभिवादयीत स्वर्गम् आयुश् चेप्सन् । दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणो ऽभिवादयीत । उरःसमं राजन्यः । मध्यसमं वैश्यः । नीचैः शूद्रः प्राञ्जलिस् तथा । विषमगताय गुरवे नाभिवाद्यम् अन्वारुह्याभिवादयीत । सर्वत्र तु प्रत्युत्थायाभिवादनम् । अप्रयतेन नाभिवाद्यम्” । तथा- “अप्रयतश् च प्रयताय न प्रत्यभिवादयेत् । पतिवयसः स्त्रियो ऽवहितशिरा अवहितपाणिर् वाभिवादयीत । सर्वा नाम्ना स्त्रियो राजन्यवैश्यौ च न नाम्ना मात रमार्थदारांश् चेत्य् एके” । सांख्यायनः- “अहर् अहर् आचार्यायाभिवादयेत् । गुरुभ्यश् च समेत्य श्रोत्रियस्य” । मनुः ।

लौकिकं वैदिकं वापि तथाध्यात्मिकम् एव वा ।
आददीत यतो ज्ञानं तं पूर्वम् अभिवादयेत् ॥
गुरोर् गुरौ संनिहिते गुरुवद् वृत्तिम् आचरेत् ।
न चानिसृष्टो गुरुणा स्वान् गुरून् अभिवदयेत् ॥

अनिसृष्टो ऽननुज्ञापितः । स्वान् मातुलादीन् ।

गुरुं चैवाप्य् उपासीत स्वाध्यायार्थं समाहितः ॥ १.२६ ॥

गुरुं चैवाभिवादयेत् । वृद्धत्वाद् एव गुरोर् अभिवादने सिद्धे पृथग्वचनं शास्त्रान्तरोकेनोपसंग्रहणेन विकल्पार्थम् । उपसंग्रहणम् आह मनुः ।

[५५] व्यत्यस्तपाणिना कार्यम् उपसंग्रहणं गुरोः ।

सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥

सव्यदक्षिणाभ्यां पाणिभ्यां सव्यदक्षिणौ पादौ गुरोः स्पृशेद् इत्य् अर्थः । श्रोत्रे संस्पृश्य मनःसमाधानार्थम् अधस् तज्जान्वोर् आ पद्भ्याम् । गौतमः- “गुरोः पादोपसंग्रहणं प्रातर् ब्राह्मानुवचने चाध्यन्तयोः” । ब्रह्म वेदः । अनुवचनम् अध्यापनम् । आद्यन्तयोर् उपक्रमावसानयोः । आपस्तम्बः- “उदिते त्व् आदित्य आचार्येण समेत्योपसंग्रहणं सदैवाभिवादनम् उपसंग्राह्याचार्य इत्य् एके” । गुरुर् अत्राचार्यः पिता वा । अत्रिः ।

दक्षिणं पाणिम् उद्धृत्य प्रकामम् अभिवादयेत् ।
श्रोत्रिये त्व् अञ्जलिः कार्यो गुरोः पादोपसंग्रहम् ॥

अथ प्रकृतम् उच्यते- अप्य् उपासीत स्वाध्यायप्राप्त्यर्थं परिचरेत् । गुरुम् इत्य् अनुवर्तते । समाहितो ऽनन्यमनाः ॥ १.२६ ॥

आहूतश् चाप्य् अधीयीत लब्धं चास्मै निवेदयेत् ।

गुरुणाहूतः पठेत् । लब्धं च गुरवे निवेदयेत् । उपसंग्रहणानन्तरं गौतमः- “अनुज्ञात उपविशेत् प्राङ्मुखो दक्षिणतः शिष्य उदङ्मुखो वा । एतत् प्रत्यहम् अध्ययनारम्भे कार्यम् । प्रथमाध्ययने तु पाणिना सव्यम् उपसंगृह्यानङ्गुष्ठम् अधीहि भो इति ब्रूयात् । तत्र चक्षुर्मनःप्राणोपस्पर्शनं दर्भैः प्राणायामास् त्रयः पञ्चदश मात्राः प्राक्कूलेष्व् आसनं च, ॐपूर्वा व्याह्र्तयः सप्त सत्यान्ताः” । प्राणाः शीर्षण्यानि खानि । ह्रस्वम् अक्षरं मात्रा, तया कालो लक्ष्यते । कूलम् अग्रम् ॥

हितं चास्याचरेन् नित्यं मनोवचनकर्मभिः ॥ १.२७ ॥

हितम् आयताव् अनुकूलम् अस्य गुरोर् आचरेत् । सर्वदा मानसवाचिककायिकव्यापारैर् अतिहितकारी गुरोर् अप्रतिलोमयन् वाचेति । कारः शास्त्रान्तरोक्तवचनसमुच्चयार्थः । तत्र मनुः ।

शारीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ।
नियम्य प्राङ्मुखस् तिष्ठेद् वीक्षमाणो गुरोर् मुखम् ॥

[५६] नित्यम् उद्धृतपाणिः स्यात् साध्वाचारः सुसंयतः ।

आस्यताम् इति चोक्तः सन्न् आसीताभिमुखं गुरोः ॥
हीनान्नवस्त्रवेषः स्यात् सर्वदा चैव संविशेत् ।
प्रतिश्रवणसंभाषे शयानो न समाचरेत् ॥

प्रतिश्रवणम् अङ्गीकारः ।

नासीनो न च भुञ्जानो न तिष्ठन् न पराङ्मुखः ।
आसीनस्य स्थितः कुर्याद् अभिगच्छेच् च गच्छतः ॥
प्रत्युद्गम्य त्व् आव्रजतः पश्चाद् धावंस् तु धावतः ।
प्राङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् ॥
प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ।
नीचं शय्यासनं चास्य सर्वदा गुरुसंनिधौ ॥
गुरोश् च चक्षुर्विषये न यथेष्टासनो भवेत् ।
नोदाहरेद् अस्य नाम परोक्षम् अपि केवलम् ॥
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ।
गुरोर् यत्र परीवादो निन्दा वापि प्रवर्तते ॥
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततो ऽन्यतः ।
दूरस्थो नार्चयेद् एनं न क्रुद्धो नान्तिके स्त्रियाः ॥
यानासनस्थश् चैवैनम् अवरुह्याभिवादयेत् ॥ १.२७ ॥

प्रसङ्गाद् गुरुं प्रत्य् अध्याप्यान् आह ।

कृतज्ञाद्रोहिमेधाविशुचिकल्याणसूचकाः ।
अध्याप्याः साधुशक्ताप्तस्वार्थदा धर्मतस् त्व् इमे ॥ १.२८ ॥

कृतज्ञ उपकर्तुः स्मर्ता । अदोह्य् अनपराधी । मेधावी धारणावान् । शुचिः प्रयतः । कल्याणसूचकः शुभलक्षणः । कल्यानसूयका इति तु पाठे कल्यो नीरोगः । अनसूयको ऽसूयारहितः । आप्तो ऽप्रतारकः । स्वो ज्ञातिः । अर्थदो ऽगुर्वर्थप्रदाता । ज्ञानवित्तदा इति तु पाठे ज्ञानदो ज्ञानहेतुग्रन्थप्रदः । एते धर्मतो [५७] धर्मानतिक्रमेण गुरोर् अध्याप्या भवन्ति । अर्थप्रदं प्रत्य् अनेनाध्यापनं नाधर्मः, तस्य वृत्तित्वेन विहितत्वा । भृतिसंप्रतिपत्तिपूर्वकम् अध्यापनं प्रतिषिद्धम् । मनुस् त्व् आचार्यपुत्रम् अप्य् आह ।

आचार्यपुत्रः शुश्रूषुर् ज्ञानदो धार्मिकः शुचिः ।
शक्तार्थदाप्ताः स्वः साधुर् अध्याप्या दश धर्मतः ॥ इति ।

यत् तु तेनैवोक्तम्,

धर्मार्थौ यत्र न स्यातां शुश्रूषा नापि तद्विधा ।
तत्र विद्या न दातव्या गुप्तं बीजम् इवोषरे ॥

इति, तद् धर्मानुष्ठानार्थदानशुश्रूषणानि सति सामर्थ्ये यो न करोत्य् अध्याप्यगुणान्तरविरहे तद्विषयम् ॥ १.२८ ॥

उपनीतं प्रत्य् आह ।

दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।

दण्डादीनि स्वकार्यधारणीयानि । तत्र दण्डस्य कार्यम् अवलम्बनं गवादिनिवारणं तमोवगाहनम् अप्सु प्रवेशनम् इत्यादि । अजिनोपवीतमेखलानाम् अदृष्टम् । अतस् तानि नित्यं धार्याणि । उपवीतं ब्रह्मसूत्रम् । मनुः ।

ब्राह्मणो बैल्वपालाशौ क्षत्रियो वटखादिरौ ।
पैप्पलौदुम्बरौ वैश्यो दण्डान् अर्हति धर्मतः ॥

यमः ।

एतेषाम् अप्य् अलाभे तु सर्वेषां सर्वयज्ञियाः ।

मनुः ।

ऋजवस् ते तु सर्वे स्युर् अव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचो ऽनग्निदूषिताः ॥
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।
ललाटसंमितो राज्ञः स्यात् तु नासान्तिको विशः ॥

तथा,

कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः ।
वसीरन्न् आनुपूर्व्येण शाणक्षौमाविकानि च ॥

कृष्णमृगरुरुच्छागानाम् अजिनानि ब्राह्मणादयो यथाक्रमं वसीरन्न् आच्छादयेयुर् उत्तरीयाणि कुर्युर् इत्य् अर्थः । तथा च पारस्करः- [५८] “ऐणेयम् अजिनम् उत्तरीयं ब्राह्मणस्य रौरवं राजन्यस्याजं गव्यं वा वैश्यस्य सर्वेषां वा गव्यम्” । यमः- “सर्वेषां रौरवशाणक्षौमाविकानि सामर्थ्याद् अधोवस्त्राणीतराणि न” । गौतमस् तु सर्वेषां ब्रह्मचारिणां शाणादिभिर् विकल्पितं शुक्लकार्पासं वस्त्रम् आह- “सर्वेषां कार्पासं वासो ऽविकृतम्” इति । अविकृतं शुक्लम् । वसिष्ठः- “शुक्लम् अहतं वासो ब्राह्मणस्य कार्पासं माञ्जिष्ठं क्षौमं क्षत्रियस्य पीतं कौशेयं वैश्यस्य सर्वेषां वा तान्तवम् अरक्तम् । शुक्लं कार्पासम् एवाहतं क्षौमाद्य् अपि” । मनुः ।

कार्पासम् उपवीतं स्याद् विप्रस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसूत्रिकम् ॥

भृगुः ।

ऊर्ध्वं तु त्रिवृतं कार्यं तन्तुत्रयम् अधोवृतम् ।
त्रिवृतं चोपवीतं स्यात् तस्यैको ग्रन्थिर् इष्यते ॥

त्रिवृत् नवसूरम् इत्य् अर्थः ।

पृष्ठदेशे च नभ्यां च यद् वृतं विन्दते कटिम् ।
तद् धार्यम् उपवीतं स्यान् नातिलम्बं न चोच्छ्रितम् ॥
सदोपवीतिना भाव्यं सदा बद्धशिखेन च ।
विशिखो व्युपवीतश् च यत् करोति न तत् कृतम् ॥
उपवीतं बटोर् एकं द्वे तथेतरयोः स्मृते ॥

बौधायनः- “कौशं सौत्रं वा त्रिस्त्रिवृद् यज्ञोपवीतम्” । मनुः ।

कौशं त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥
मुञ्जालाभे तु कर्तव्या कुशाश्मन्तकबल्वजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिर् एव वा ॥

यथार्षेयं ग्रन्थयः कार्या इत्य् अभिप्रायः । पैठीनसिः- “मौञ्जी मेखलाश्मन्तकी ब्राह्मणस्य” । बौधायनः- “अथैनं मौञ्जीं मेखलां त्रिवृतं त्रिः प्रदक्षिणं परिव्ययति” । मनुः ।

यद् यस्य विहितं चर्म यत् सूत्रं या च मेखला ।
**यो दण्डो यच् च वसनं तत् तद् अस्य व्रतेष्व् अपि ॥ [५९]

व्रतानि सावित्र्यादीनि ।

मेखलाजिनं दण्डम् उपवीतं कमण्डलुम् ।
अप्सु प्राप्य विनष्टानि गृह्णीतान्यानि मन्त्रतः ॥ इति ।
ब्राह्मणेषु चरेद् भैक्षम् अनिन्द्येष्व् आत्मवृत्तये ॥ १.२९ ॥

ब्राह्मणेष्व् अनिन्द्येष्व् अनिभिशस्तादिषु भैक्षं प्राप्तं चरेत् । भिक्षितम् अन्नं भिक्षा, तासां समूहो बैक्षम्आत्मवृत्तय आत्मन एव वृत्त्यर्थं न परस्य गुरुव्यतिरिक्तस्य । गुरुस् तु शिष्यनिवेदितं भैक्षं समश्नीयाद् एव । यद् आह आपस्तम्बः- “भैक्षं हविषा संस्तुतम् । तत्राचार्यो देवतार्थ आहवनीयार्थे च तं भोजयित्वा यद् उच्छिष्टं प्राश्नाति हविर् उच्चिष्टम् एव तत्” इति । मनुः ।

उदकुम्भं सुमनसो गोशकृन् मृत्तिकां कुशान् ।
आहरेद् यावद् अर्थानि भैक्षं चाहर् अहश् चरेत् ॥
वेदयज्ञैर अहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्य् आहरेद् भैक्षं गृहेभ्यः प्रयतो ऽन्वहम् ॥
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ॥

यत् तु,

मातरं वा स्वसारं वा मातुर् वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत् ॥

इति, तद् उपनयनाङ्गभिकाविषयम् इति गुरोः कुल न भिक्षेतेत्य् अनेनाविरुद्धम्, नित्यभिक्षाविषयत्वाद् अस्य ।

अलाभे त्व् अन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ।
सर्वं वापि चरेद् ग्रामं पूर्वोक्तानाम् असंभवे ॥
अन्त्यवर्जं महाबाहो इत्य् आह भगवान् विभुः ॥

अन्त्यः शूद्रः ।

वाचं नियम्य प्रयत आमिषं चापि वर्जयेत् ।
चतुर्वर्ण्यं चरेद् भैक्षम् अलाभे कुरुनन्दन ॥

अलाभे त्रिवर्णिकानाम् इति शेषः ॥ १.२९ ॥

आदिमध्यावसानेषु भवच्छब्दोपलक्षिताः ।
ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥ १.३० ॥

[६०] बैक्षप्राक्तनवाक्यं भैक्षचर्याशब्देन लक्ष्यते । तद् आदौ मध्ये ऽवसाने च स्त्रीलिङ्गसंबुद्ध्यन्तं(न्त)भवच्छब्दयुक्तं ब्राह्मणस्य क्षत्रियस वैश्यस्य यथाक्रमं प्रयोक्तव्यं भवति । भवति भिक्षा देहीति ब्राह्मणस्य, भिक्षां भवति देहीति क्षत्रियस, भिक्षां भवतीति वैश्यस्येति सिद्धम् । प्रथमभिक्षाम् अधिकृत्य भविष्यत्पुराणम् ।

मातरं वा स्वसारं वा मातुर् वा भगिनीं निजाम् ।
भिक्षेत प्रथमं भिक्षां या चैनं न विमानयेत् ॥
सुवर्णं रजतं रत्नं सा पात्रे ऽस्य विनिक्षिपेत् ॥

स्मृत्यन्तरं च ।

भिक्षार्थं काञ्चनं वापि पात्रं सव्येन राजतम् ।
पित्रा कृतोपनीतेज्यो मधुपर्ककरस् ततः ॥

यमः ।

हस्तदत्ता तु या भिक्षा लवणं व्यञ्जनानि च ।
भोक्ता त्व् अशुचितां याति दाता स्वर्गं न गच्छति ॥

मनुः ।

परिगृह्येप्सितं दण्डम् उपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निं चरेद् भैक्षं यथाविधि ॥ १.३० ॥
कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया ।
आपोशानक्रियापूर्वं सत्कृत्यान्नम् अकुत्सयन् ॥ १.३९ ॥

कृतम् अग्निकार्यं येन स कृताग्निकार्यःवाग्यतो मौनी । आपोशानक्रियां कृत्वा सत्कृत्य पूजयन्न् अन्नम् अकुत्सयन्न् अनिन्दयन् गुर्वनुज्ञा भुङ्क्ष्वेति गुर्वनुमत्या भुञ्जीत । उपनयनकाल आपोशानप्रैषोक्ता क्रियापोशानक्रिया । भैक्षाद् एकदेशहोमो ऽत्राग्निकार्यम् । तद् आह पैठीनसिः- “हविषो हुत्वा संतर्प्याग्निं समिधं दत्त्वान्नं यद् अन्नम् अद्म्य् अमृतेन देवा यद् अन्नम् अद्मि बहुधा विरूपम् इति चोक्त्वानुमन्त्रयेत् त्रिः । स्विष्टकृतम् अग्निकार्यं कृत्वानुज्ञातो भुञ्जीत वाग्यतः” । तथा च आपस्तम्बः- “प्रोक्षिताद् भैक्षाद् अग्नौ हुत्वा भुञ्जीत” । [६१] अतश् चार्थ(र्था)संनिधाव् एतद् अग्निकार्यं संनिहिते त्व् आचार्ये ऽग्निकार्यस्थाने भैक्षम् आचार्यो भोजयितव्य इति तेनैवोक्तं हविषा संस्तुतम् इत्यादिना । अत्र मनुः ।

समाहृत्य तु तद् भक्षं यावद् अर्थम् अमायया ।
निवेद्य गुरवे ऽश्नीयाद् आचम्य प्राङ्मुखो शुचिः ॥
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुक्त उदङ्मुखः ॥

अस्यार्थः- यत् प्राङ्मुखो भुङ्क्ते तद् आयुष्यम् । आयुषे हितम् । एवं यशस्यम् । यः प्रत्यङ्मुखो भुङ्क्ते स श्रियं प्राप्नोति । यस् तूदङ्मुखः स ऋतं सत्यं यज्ञं वाप्नोति । एवं भोक्तुः प्राक्मुखता नित्या काम्या च ।

नोच्छिष्टं कस्यचिद् दद्यान् नाद्याद् एनम् अथान्तरा ।
न चैवात्यशनं कुर्यान् न चोच्छिष्टः क्वचिद् व्रजेत् ॥

संवर्तः ।

सायं प्रातर् मनुष्याणाम् अशनं दैवचोदितम् ।
नान्तरा भोजनं कुर्याद् अग्निहोत्रसमो विधिः ॥

वसिष्ठः ।

अष्टौ ग्रासा मुहेर् भक्ष्यं षोडशारण्यवासिनः ।
द्वाविंशतिर् गृहस्थस्य अमितं ब्रह्मचारिणः ॥

आपस्तम्बः- “भुक्त्वा स्वयम् अमन्त्रं प्रक्षालयेन् न चोच्छिष्टं कुर्याद् अशक्तो भूमौ निखनेद् अप्सु वा प्रावेशयेद् आर्याय वा पर्यवदध्याद् अन्तर्हितेन वा शूद्राय” ॥ १.३१ ॥

ब्रह्मचर्ये स्थितो नैकम् अन्नम् अद्याद् अनापदि ।

ब्रह्मचार्य् अनापद्य् एकस्यान्नं नाश्नीयात् ।

ब्राह्मणः कामम् अश्नीयाच् छ्राद्धे व्रतम् अपीडयन् ॥ १.३२ ॥ ॥

ब्रह्मचारी ब्राह्मणश् चेत् तदाभ्यर्थितः सन्न् एकान्नम् अनापद्य् अपि भुञ्जीत । स चेच् छ्राद्धे भुञ्जीत तदा व्रतपीडाकरं मधुमांसादि वर्जयित्वाश्नीयात् ॥ १.३२ ॥

ब्रह्मचारिनियमान् आह ।

मधुमांसाञ्जनोच्छिष्टं शुक्तस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लीलपरिवादांश् च वर्जयेत् ॥ १.३३ ॥

ब्रह्मचारी मध्वादिकं वर्जयेत् । मधु मांसं शिष्टभोजनीयम् अपि । अञ्जनं कज्जलम् । उच्छिष्टं स्वस्य परस्य च गुरुव्यतिरिक्तस्य । तथा च वसिष्ठः [६२] - “उच्छिष्टम् अगुरोर् अभोज्यं स्वम् उच्छिष्टम् उच्छिष्टोपहतं च” इति । शुक्तं परुषं वचो ऽन्नं वा यत् कालवशाद् अलं भवति । स्त्रीशब्देन स्त्रीविषये प्रेक्षणालम्बने लक्ष्येते । तद् आह गौतमः- “स्त्रीप्रेक्षणालम्बने मैथुनशङ्कायाम्” इति । प्राणिहिंसनं प्राणिवधः । भास्करालोकनं प्रसिद्धम् । अश्लीलं सभानर्हं वचः । परिवादः परनिन्दावर्जनेनात्र वर्जनविषयः । संकल्पो व्रतनियमादिशब्दवाच्यो लक्ष्यते । अत एवाह- “श्राद्धे व्रतम् अपीडयन्” इति । मनुस् तु ।

सेवेतेमांश् तु नियमान् ब्रह्मचारी गुरौ वसन् ।
संनियम्येन्द्रियग्रामं तपोवृद्ध्यर्थम् आत्मनः ॥

चकारः स्मृत्यन्तरोपात्तानाम् अन्येषां ब्रह्मचारिधर्माणाम् उपसंहारार्थः । तत्र मनुः ।

नित्यं स्नात्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम् ।
देवताभ्यर्चनं चैव समिदाधानम् एव च ॥
वर्जयेन् मधुमांसानि गन्धमाल्यरसान् स्त्रियः ।
अभ्यङ्गम् अञ्जनं चाक्ष्णोर् उपानच्छत्रधारणम् ॥
कामं क्रोधं च लोभं च नर्तनं गीतवादितम् ।
द्यूतं च जनवादं च परिवादं तथानृतम् ॥
स्त्रीणां च प्रेक्षणालम्बम् उपघातं परस्य च ।
एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित् ॥
कामाद् धि स्कन्दयन् रेतो हिनस्ति व्रतम् एव तु ॥

व्रं ब्रह्मचर्यम् । यमः ।

जितेन्द्रियो जितालस्यो जितक्रोधो जितात्मवान् ।

तथा,

खट्वासनं च शयनं वर्जयेद् दन्तधवनम् ।
स्वपेद् एकः कुशेष्व् एव न रेतः स्कन्दयेत् क्वचित् ॥

गौतमः- “वर्जयेन् मधुमांसं गन्धमाल्यं दिवास्वप्नाञ्जनाभ्याज्जनोपानच्छत्र-कामक्रोध**[६३]**लोभमोहवाद्यवादनस्नानदन्तधावनहर्षनृत्तगीतपरिवादभयानि । गुरुदर्शने कण्ठप्रावृतावसक्तिकापादप्रसारणानि । निष्ठ्युतहसितविजृम्भितावस्फोटनानि च । स्त्रीप्रेक्षणालम्बने मैथुनशङ्कायां द्यूतहीनसेवाम् अदत्तादानं हिंसाम् आचार्यतत्पुत्रतदीक्षितानि च । शुक्ता वाचो मद्यं नित्याम् ब्राह्मणः” इति । अत्र स्नानं भोगार्थम् । भयं परं प्रति । कण्ठप्रावृतं कण्ठप्रावरणानि । अवसक्तिका जानुनोर् उपरि करबन्धः । अवस्फोटनम् अङ्गुल्याद्यङ्गस्फोटनम् । हीनसेवा मूत्रपुरीषावमार्जनादिका । तां गुरोर् अपि वर्जयेत्, “अङ्गानि प्रक्षालयीताशुचिलिप्तानि गुरोर् अपि” इति दर्शनात् । शुक्ता वाचः परोद्वेगकराणि वक्यानि । मद्यं प्रसिद्धम् । एतानि ब्रह्मचारी वर्जयेद् इति संबन्धः । मद्यं नित्यं ब्राह्मणः । नित्यम् इति वचनान् मद्यं कृतयुआदाव् अपि ब्राह्मणेन वर्ज्यम् । क्षत्रियवैश्याभ्यां तु कलाव् एव । यद् ब्रह्मपुराणम् ।

दीर्घकालं ब्रह्मचर्यं धारणं च कमण्डलोः ।
सगोत्राद् वा सपिण्डाद् वा विवाहो गोवधस् तथा ॥
नराश्वमेधौ मद्यं च कलौ वर्ज्यं द्विजातिभिः ॥ इति ।

नित्यं सर्वकालम् । अब्रह्मचार्य् अपि ब्राह्मणो मद्यं वर्जयेद् इत्य् अर्थः । तथा,

अधःशय्यासनी पूर्वोत्थायी जघन्यसंवेशी ।
सर्वत्राप्रैहतवाक्यो ऽन्यत्र पातकात् ॥

अधःशय्यादि गुर्वपेक्षया । आपस्तम्बः- “आतम्प्रशंसां परगर्हां च वर्जयेत्” इति । तथा, “उत्सन्नश्लाघो ऽङ्गानि प्रक्षालयीताशुचिलिप्तानि । गुरोर् असंसर्शने” । उत्सन्नश्लाघ उत्सन्नशोभो भवेद् इति शेषः । यथा गुरुर् न पश्यति तथा प्रक्षालयीतेत्य् अर्थः । आपस्तम्बः- “न प्रेक्षेत नग्नां स्त्रियम् । ओषधिवनस्पतीनाम् आच्छिद्य नो जिघ्रेत् । न स्मयेत यदि स्मयेतापरिगृह्य स्मयेत, इति ब्राह्मणम्” । अपरिगृह्य मिखं पिधाय स्मयेतेति ब्राह्मणम् । [६४] हारीतः- “हयगजरथचैत्यवृक्षविशेषम् आरोहणफलचयनसंधिसर्पणकूपावरोहणमहानद्यर्णवप्रतरणमहासाहसानि वर्जयेत्” । मनुः ।

मुण्डो वा जटिलो वा स्याद् अथ वा स्याच् छिकाजटः ।
नैनं ग्रामे ऽभिनिम्नोचेत् सूर्यो नाभ्युदियात् क्वचित् ॥
चोदितो गुरुणा नित्यं अप्रचोदित एव वा ।
कुर्याद् अध्ययने योगम् आचार्यस्य हितेषु च ॥ इति ॥ १.३३ ॥

मान्यमाननं ब्रह्मचारिधर्मं वक्तुं मान्यानां लक्षणानि तावद् आह ।

स गुरुर् यः क्रियाः कृत्वा वेदम् अस्मै प्रयच्छति ।

गर्भाधानाद्या उपनयनान्ताः क्रियाः संस्कारिका यो यस्य करोति स तस्य गुरुः । एतावद् एव गुरुलक्षणम् । तत्प्रसङ्गाद् ब्राह्मणं प्रति वेदद् अस्मै प्रयच्छतीति विध्यन्तरम् । निषेकादिक्रियानुष्ठानस्य वेददनस्य चार्थप्राप्तपौर्वापर्यानुवादकः क्त्वाप्रत्ययः । परमार्थतस् तु द्वे एवैते वाक्ये । अन्यथा क्षत्रियादेः स्वसुतं प्रति गुरुत्वं न स्यात्, वेददातृत्वाभावात् । इष्यते च क्षत्रियादेर् अपि स्वसुतं प्रति गुरुत्वम् । अन्यथा क्षत्रियादिसुतस्य पितृभार्यां गच्छतो गुरुतल्पगत्वं न स्यात् । अत एव मनुर् गर्भाधानादिक्रियाकर्तृत्वं वेददाननिरपेक्षं गुरुलक्षणम् आह ।

निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावयति चान्नेन स विप्रो गुरुर् उच्यते ॥

अत्राप्य् अन्नसंभावनम् औचित्यप्राप्तम् अनूद्यते न गुरुलक्षणतया विधीयते । विप्रग्रहणं च प्रदर्शनार्थंन नियमार्थम् । तथा सति क्षत्रियादिर् न हि गुरुः स्यात् । यथाविधिग्रहणेन च शूद्रादेर् निषेकमात्रकारिणो ऽपि गुरुत्वं दर्शयति, तस्य तावन् मात्रविधानात् । एवं क्षत्रियवैश्यायोर् अपि । पुंसवनादिषु कर्मसु कृतेषु प्रयच्छतीति वचनाद् ब्राह्मणः पितैव संभवे सत्य् आचार्यो भवेद् इति गम्यते । अत एव बृहस्पतिः ।

एवं दण्डादिभिर् युक्तं संस्कृत्य विधिवत् पिता ।
वेदम् अध्यापयेद् यत्नाच् छास्त्रं मन्वादिकं तथा ॥

इति पितुर् एवाधिकारम् आह । पितृव्यतिरिक्तानां गुरुत्वं त्व् औपचारिकम् इति दर्शयितुम् लक्षणाभ्धानम् । [६५] देवलः ।

उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलः श्वशुरश् त्राता मातामहपितामहौ ॥
वर्णज्येष्ठः पितृव्यश् च पुंस्य् एते गुरवः स्मृताः ।
माता मातामही गुर्वी पितुर् मातुश् च सोदरा ॥
श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः ।
इत्य् उक्तो गुरुवर्गो ऽयं मातृतः पितृतो द्विधा ॥

इति, तद् उपचार इति मन्तव्यम् । अत्र च गुरुवत् तेषु वर्तितव्यम् इति फलम् । अत एवानुवर्तनम् आह ।

अनुवर्तनम् एतेषां मनोवाक्कायकर्मभिः ॥ इति ।

गुरोर् भार्या गुर्वी । मातृतः पितृत इति बाहुल्याभिप्रायम् । महीपतिप्रभृतीनां तदभावात् । मनुर् अपि पूज्यमात्राभिप्रायेणाह ।

अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
तम् अपीह गुरुं विद्याच् छ्रुतोपक्रियया तया ॥
उपनीय ददद् वेदम् आचार्यः स उदाह्र्तः ॥ १.३४ ॥

यस् तु शिष्यम् उपनीय वेदम् अध्यापयति स आचार्य उक्तः । वेदशब्देनात्र विद्यान्तराण्य् अपि संगृह्यन्ते । तथा च मनुः ।

उपनीय गुरुः शिष्यं वेदम् अध्यापयेद् द्विजः ।
सकलं सरहस्यं च तम् आचार्यं प्रचक्षते ॥

कल्पशब्देनेह व्याकरणादीन्य् अङ्गानि मीमांसान्यायविस्तराश् च प्रतिपाद्यन्ते । कल्पो वेदार्थं कल्पयति । तथा च व्यासः ।

न वेदपाठमात्रेण संतोषं कारयेद् द्विजः ।
पाठमात्रावसानस् तु पङ्के गौर् इव सीदति ॥

पाठमात्रावसानो ऽर्थानभिज्ञ इत्य् अर्थः ॥ १.३४ ॥

एकदेशम् उपाध्ययः

यस् तु वेदार्थैकदेशम् अध्यापयति स तस्योपाध्यायः । मनुः ।

एकदेशं तु वेदस्य वेदाङ्गान्य् अपि वा पुनः ।
यो ऽध्यापयति वृत्त्यर्थम् उपाध्याय स उच्यते ॥
ऋत्विग् यज्ञकृद् उच्यते ।

[६६]

यो यज्ञाधिकारिणा स्वयज्ञसिद्ध्यर्थं परिक्रीतः सन् यज्ञकृद् भवति स तस्य ऋत्विग् इत्य् उच्यते । मनुः ।

अग्न्याधेयं पाकयज्ञान् अग्निष्टोमदिकान् मखान् ।
यः करोति वृतो यस्य स तस्यर्त्विग् इहोच्यते ॥

स च त्रिविधः । यथाह हारीतः- “क्षीरहोताहार्यवृतो विशेषवृतः” इति । लक्षणान्य् आह- “यो यस्याग्नीन् आदत्ते स तस्य क्षीरहोता” । अस्यार्थः- अग्न्याधेयसंबन्धिनाम् ऋत्विजां मध्ये यः कश्चिद् अग्निहोत्र ऋत्विग् भवति स क्षीरहोतेति । तदाह आश्वलायनः- “स्वयं पर्वणि जुहुयाद् ऋत्विजाम् एक इतरं कालम्” इति । “तस्यालाभे यम् अन्यं नित्यार्थं वृणीते स आहार्यवृतः । अथ यम् अन्यम् उत्तरोत्तरेषु क्रतुषु वृणीते स विशेषवृतः” । ऋत्विग्लक्षणम् इह प्रासङ्गिकम्, ब्रह्मचारिणं प्रति तस्यानुपयोगात् ॥

एते मान्या यथापूर्वम्

एते गुर्वादयो मान्याः पूज्याः, यथापूर्वं पूर्वम् अनतिक्रम्य, उत्तरोत्तरे ऽभिवादनोपसंग्रहणादिभिर् मान्या इत्य् अर्थः ॥

एभ्यो माता गरीयसी ॥ १.३५ ॥

एभ्यो गुर्वादिभ्यो ऽत्यर्थं गौरवं मातैवार्हतीत्य् अर्थः । गौतमस् तु मातुर् आचार्यस्य गौरवम् आह- “आचार्यः श्रेष्ठो गुरूणां मातेत्य् एके” । अत्र च गुरुशब्द औपचारिकः । पुराणात् ।

द्वौ गुरू पुरुषस्येह पिता माता च धर्मतः ।
तयोर् अपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ॥
अभाव एतयोः श्रेयान् गुरुः सम्यग् विचक्षणः ।
स्वतन्त्राः सर्व एवैते परतन्त्रेषु सर्वदा ॥
अनुशिष्टौ विसर्गे वा विक्रये चेश्वरा मताः ॥

एवं च सति पितुर् मातुर् आचार्यस्य च विप्रतिषिद्धार्थविषयायाम् आज्ञायां पितुर् आज्ञा गरीयसी । तदभावे मातुस् तदभाव आचार्यस्य । [६७] आचार्यस्य पुनर् आज्ञा पित्राज्ञातो ऽपि गरीयसीत्य् आह मनुः ।

उत्पादकब्रह्मदात्रोर् गरीयान् ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥

ब्रह्मद आचार्यः ॥ १.३५ ॥

ब्रह्मचर्यकालस्य परिमाणम् आह ।

प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ।
ग्रहणान्तिकम् इत्य् एके

उक्तं ब्रह्मचर्यं तत् प्रतिवेदं प्रतिशाखं द्वादश् वर्षाणि पञ्च वा वर्षाणि वेदस्वीकारान्तं वा कर्तव्यम् । मनुः ।

षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैविद्यकं व्रतम् ।
तदर्धिकं पादिकं वा ग्रहणान्तिकम् एव वा ॥

आर्धिकपक्षे षड्वर्षाणि, पादिकपक्षे त्रीणि वर्षाणि, एकवेदब्रह्मचर्यम् । यमः ।

गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः ।
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥
केशान्तश् चैव षोडशे ॥ १.३६ ॥

षोडशे वर्षे ब्राह्मणस्य केशान्तो नाम संस्कारः कर्तव्यः । क्षत्रियवैश्ययोस् तु मनूक्तः ।

केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर् द्वाविंशे वैश्यस्य द्व्यधिके ततः ॥ इति ।

जन्मादिर् एषा वर्षसंख्या, गर्भादिश् चेद् विवक्षिता स्याद् गर्भषोडश् इत्य् अवक्ष्यत्, यथा गर्भाष्टम इति । केवलसंख्योपादाने तु जन्मैवावधिः, यथाष्टमे चाब्द इति ॥ १.३६ ॥

आ षोडशाच् चाद्वाविंशाच् चतुर्विंशाच् च वत्सरात् ।
ब्रह्मक्षत्रविशां काल औपनायनिकः परः ॥ १.३७ ॥

जन्मत आ षोडशाद् वर्षाद् ब्राह्मणस्योपनयनकालः, अत ऊर्ध्वं तत्कालो नास्तीत्य् अर्थः । एवम् आ द्वाविंशाद् वर्षात् क्षत्रियस्याचतुर्विंशाद् वैश्यस्य । अभिविधौ चायम् आकारः । यत आह व्यासः ।

[६८] औपनायनिकः कालः परः षोडशवार्षिकः ।

द्वाविंशतिः परो ऽन्यस्य स्याच् चतुर्विंशतिः परः ॥
ब्राह्मणक्षत्रियविशां कालश् चेद् अत्यगाद् अयम् ।
सावित्रीपतिता व्रात्या भवन्त्य् आर्थविगर्हिताः ॥ १.३७ ॥

अतिक्रान्तोपनयनकालानां यद् भवति तद् आह ।

अत ऊर्ध्वं त्रयो ऽप्य् एते यथाकालम् असंस्कृताः ।
सावित्रीपतिता व्रात्या व्रात्यस्तोमाद् ऋते क्रतोः ॥ १.३८ ॥

द्विजातयो ऽनुपनीता यथासंख्यं षोडशद्वाविंशतिचतुर्विंशतिवर्षेभ्य ऊर्ध्वं व्रात्यस्तोमाख्यं क्रतुं विहाय सर्वधर्मानधिकारिणो भवन्ति । सावित्रीपतिता व्रात्या इति तेषां संज्ञा । व्रात्यस्तोमो नाम व्रात्यानां प्रायश्चित्तक्रतुः । तेन चोहालकव्रतादिना कृतप्रायश्चित्ता उपनीता धर्माधिकारिणो भवन्ति, संव्यवहार्याश् चान्येषाम् । यद् आह मनुः ।

नैतैर् अपूतैर् विधिवद् आपद्य् अपि हि कर्हिचित् ।
ब्राह्मन् यौनांश् च संबन्धान् आचरेद् ब्राह्मण सह ॥

अपूतैर् इति वचनात् कृतप्रायश्चित्तैः सह संव्यवहारो न दोषायेति गम्यते । अत्र “सर्वधर्मबहिष्कृताः” इति तु पाठे धर्मशब्दो द्विजातिधर्माभिप्रायः, न वर्णधर्मविषयः, व्रात्यानां वर्णत्वानपायात् ॥ १.३८ ॥

अत्र दिव्जातिधर्मबहिष्कृतत्वे केतुम् आह ।

मातुर् यद् अग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्रियविशस् तस्माद् एते द्विजाः स्मृताः ॥ १.३९ ॥

मातृतो ब्राह्मणादयः प्रथमं जायन्तेद्वितीयं मौञ्जिबन्धनात्तस्माद् द्विजा एते मन्वादिभिः स्मृताः । अत्र द्वितीयम् इति क्रियाविशेषणम् । अतो ऽनुपनीतत्वाद् व्रात्या न द्विजाः । तस्माद् द्विजातिधर्मानधिकारस् तेषाम् उक्तः ॥ १.३९ ॥

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः ॥ १.४० ॥

यज्ञानां पञ्चयज्ञादीनां तपसां कृच्छ्रचान्द्रायणादीनाम् अन्येषाम् अपि शुभफलानां कर्मणां मध्ये वेद एव पर उत्कृष्टो निःश्रेयसकरः । यज्ञादिभ्यः कर्मभ्यो [६९] वेदस्य निर्धारणम् अनुपपन्नम् इति वेदशब्देन वेदाध्ययनं लक्ष्यते । तस्य च युक्तं यज्ञादीनां मध्ये परत्वं निःश्रेयसकरत्वान् निःश्रेयसकरबोधकत्वाच् च । तथा च मनुः ।

आ ह वै स नख्याग्रेभ्यः परमं तप्यते तपः ।
यः स्रग्व्य् अपि द्विजो ऽधीते स्वाध्यायं शक्तितो ऽन्वहम् ॥

आ नखाग्रेभ्यः परमं तपस् तप्यते हेत्यन्वयः । तथा ।

वेदम् एव जपेन् नित्यं यथाकालम् अतन्द्रितः ।
तं ह्य् अस्याहुः परं धर्मम् उपधर्मो ऽस्य उच्यते ॥ १.४० ॥

अत्र हेतुम् आह ।

मधुना पयसा चैव स देवांस् तर्पयेद् द्विजः ।
पितॄन् मधुघृताभ्यां च ऋचो ऽधीते हि यो ऽन्वहम् ॥ १.४१ ॥

यो द्विजः प्रत्यहम् ऋचो ऽधीते स मधुपयोभ्यां देवान् मधुघृताभ्यां च पितॄंस् तर्पयति ॥ १.४१ ॥

यजूंषि शक्तितो ऽधीते यो ऽन्वहं स घृतामृतैः ।
प्रीणाति देवान् आज्येन पितॄंश् च मधुना द्विजः ॥ १.४२ ॥

यो यजूंषि यथाशक्त्य् अधीते स घृतामृतैर् देवान् आज्यमधुभ्यां च पितॄन् प्रीणाति ॥ १.४२ ॥

स तु सोमघृतैर् देवांस् तर्पयेद् यो ऽन्वहं पठेत् ।
सामानि तृप्तिं कुर्याच् च पितॄणां मधुसर्पिषा ॥ १.४३ ॥

यो ऽन्वहं सामानि पठेत् स सोमघृतैर् देवान् मधुसर्पिर्भ्यां च पितॄंस् तर्पयेत् ॥ १.४३ ॥

[७०] वाकोवाक्यं पुराणं च नाराशंसीश् च गाथिकाः ।

इतिहासांस् तथा विद्यां यो ऽधीते शक्तितो ऽन्वहम् ॥ १.४५ ॥
मांसक्षीरौदनमधुतर्पणं स दिवौकसाम् ।
करोति तृप्तिं च तथा प्तिॠणां मधुसर्पिषा ॥ १.४६ ॥

वाकोवाक्यं प्रश्नप्रतिप्रश्नरूपो वेदभागः । पुराणं प्रसिद्धम् । नाराशंस्य ऋग्वेदखिलग्रन्थाधीता “इदं जना उपश्रुत” इत्याद्यास् तिस्र ऋचः । गाथिका इन्द्रगाथाद्याः । इतिहासा भारताद्याः । विद्या मधुविद्याद्याः । एतद् यः प्रत्यहं यथाशक्त्य् अधीते स मांस्क्षीरौदनमधुभिर् देवतर्पणं मधुसर्पिषा च पितृतृप्तिं करोति ॥ १.४५–४६ ॥

ते तृप्तास् तर्पयन्त्य् एनं सर्वैः कमफलैः शुभैः ।

ते देवाद्या उक्तेन प्रकारेण तृप्तास् तर्पयितारं सर्वैः काम्यमानैः फलैस् तर्पयन्ति

यं यं क्रतुम् अधीयीत तस्य तस्याप्नुयात् फलम् ॥ १.४७ ॥

क्रतुप्रतिपादको वेदभागः क्रतुस् तं यो ऽधीते स तस्य क्रतोः फलं प्राप्नोति ॥ १। ४७ ॥

त्रिर् वित्तपूर्णपृथिवीदानस्य फलम् अश्नुते ।
तपसश् च परस्येह नित्यं स्वाध्यायवान् द्विजः ॥ १.४८ ॥

धनपूर्णस्य् सकलभूमिदानस्य त्रिर् अभ्यस्तस्य परस्य तपसः फलं तदनवरतस्वाध्यायवान् द्विजो लभते । मधुना पयसेत्यादीनां प्रत्यक्षैव श्रुतिर् मूलम् । सा च ब्रह्मयज्ञाध्ययन्विध्यर्थवादभूतेति ब्रह्मयज्ञविधिर् अत्र कल्प्यः । तेन विनार्थवादानर्थक्यात् । स च ब्रह्मचारिणो ऽपीति तत्प्रकरणे वाक्यारम्भः ।

अपां समीपे नियतो नैत्यकं विधिम् आश्रितः ।
सावित्रीम् अप्य् अधीयीत गत्वारण्ये समाहितः ॥ इति ।

ततश् चासमर्थः सावित्र्या ब्रह्मयज्ञं कुर्यात् । समर्थ ऋगदिभिः ॥ १.४८ ॥

द्विविधः खलु ब्रह्मचारी उपकुर्वाणो नैष्ठिकश् च । तत्रोपकुर्वाणस्य धर्मा उक्ताः । नैष्ठिकस्येदानीम् आह ।

[७१] नैष्ठिको ब्रह्मचारी च वसेद् आचार्यसंनिधौ ।

तदभावे ऽस्य तनये पत्न्यां वैश्वानरे ऽपि वा ॥ १.४९ ॥

उपकुर्वाणकब्रह्मचार्य् आश्रमं यम् इच्छेत् तम् आवसेत् । तत्र यदि ब्रह्मचर्याश्रमम् इच्छेत् तदा नैष्ठिकब्रह्मचारी भवेत् । निष्ठा शरीरपातः, तदवधिके ब्रह्मचर्ये संकल्पः कृतो येन स नैष्ठिकब्रह्मचारी । स पुनर् आचार्यस्य संनिधौ वसेन् न समावर्तेत । आचार्याभावे तत्पुत्रस्य तदभाव आचार्यपत्न्यास् तदभावे ऽग्नेः ॥ १.४९ ॥

तत्र वसतो यत् फलं तद् आह ।

अनेन विधिना देहं साधयन् विजितेन्द्रियः ।
ब्रह्मलोकम् अवाप्नोति न चेहाजायते पुनः ॥ १.५० ॥

अनेन पूर्वोक्तेन ब्रह्मचर्यचरणेन देहं देहवन्तम् आत्मानं साधयन् ब्रह्मप्राप्तियोग्यं कुर्वन् विजितेन्द्रियो वशी चतुर्मुखलोकम् अवाप्नोति नेह संसारे पुनर् आजायते । अपुनरावृत्तिलक्षणं फलं ब्रह्मोपासकस्य सतो भवति न केवलकर्मणः । तद् उक्तम् आश्रमान् प्रकृत्य छान्दोग्ये- “सर्व एते पुण्यलोका भवन्ति ब्रह्मसंस्थो ऽमृतत्वम् एति” इति । अस्यार्थः- सर्व एते ब्रह्मस्कन्धाश् चत्वारो प्य् आश्रमिणः पुण्यलोका भवन्ति । एषां मध्ये यो ब्रह्मसंस्थो ब्रह्मनिष्ठः सो ऽमृतत्वम् अपुनरावृत्तिलक्षणम् एतीति । हारीतः- “द्विविधो ब्रह्मचारी, उपकुर्वाणो नैष्ठिकश् च । तयोर् उपकुर्वाणको व्याख्यातः । निष्ठां चेद् गच्छेद् आ शरीरनिपाताद् गुराव् आसीत तदभावे गुरुपत्न्यां तदभावे गुरुपुत्रं(त्रे) गुरुपुत्राभावे ऽग्निम् एवोपचरेत् । यज्ञियाः समिध आहृत्य संमार्जनोपलेपहोद्बोधन-समूहनसमिन्धनपर्यग्निकरणपरिक्रमोपस्थानहोमस्तोत्रनमस्कारादिभिर् अग्निं परिचरेन् नाग्निम् अधितिष्ठेन् न पद्भ्यां कर्षेन् न मुखेनोपधमेन् नापश्चाग्निं च युगपद् धारयेन् नाजीर्णभुक्त उच्छिष्टो वाभ्यादद्यान् नो(ना)भ्यादधेद् वातिक्रामेन् न [७२] निष्ठीवेत् । विविधचरुर्हविर्दानविशेषैर् आग्नेयैर् अग्निम् अहर् अहर् इन्धेतामन्त्र्य गच्छेद् आहृत्य निवेदयेत् तन्मनाः शरीरोपरमान्ते ब्रह्मणः सायुज्यं गच्छति” । वसिष्ठः- “ब्रह्मचार्य् आश्रमं परिचरेद् आ शरीरविमोक्षणात् । आचार्ये च प्रेते ऽग्निं परिचरेत् संयतवाक् चतुर्थषष्ठाष्टमकालभोजी भैक्षे गुर्वधीनो जटिलः शिखाजटो वा तथा त्रिर् अह्नो ऽभ्युपेयद् अपः” । देवलः- “सकृद्भोजनं सकृद् अप्स्व् अवगाहनम् उभयकालम् अग्निहोत्रं संध्योपासनम् अलुप्तचर्मकेशनखत्वग्गन्धमाल्यस्नेहाभ्यञ्जनवेषालंकार-च्छत्रोपानद्वाहनलङ्घनप्लवनधावनचिकित्साज्योतिषलक्षणवास्तुविद्यामङ्गलपौष्टिक-शान्तिकर्मगान्धर्वसङ्गसमयबन्धनशिल्पलेख्यलेखनकारुकर्मवेश्मक्षेत्रद्रव्य-धनधान्यपरिच्छदशस्त्रद्यूतव्यवहाराज्ञाभावलीलापरिहासप्रणयकुहकविस्मापन-विडम्बनविवादोत्सेकपरिवेदनरोदनवस्तिनस्यपादोद्वर्तनवर्जम् । गुरोः पूर्वोत्थानं जघन्यसंवेशनं प्रणामसंदिष्टकरणम् इष्टशुश्रूषा नित्योपासनम् अपचितिस् तद्भावे तत्पुत्रे दारेषु वा तद्वृत्तिर् आ मरणात्” । यद्य् आपदि क्षत्रियादिर् गुरुर् भवति तदा तत्र नात्यन्तिकवासः । तथा ब्राह्मणे ऽप्य् अध्यापनम् अकुर्वाणे । यद् आह मनुः ।

नाब्राह्मणो गुरौ शिष्यो वासम् आत्यन्तिकं वसेत् ।
ब्राह्मणे चाननूचाने काङ्क्षन् गतिम् उत्तमाम् ॥

न ब्रह्मवरस्मृतेर् अग्निहोत्रादिगृहस्थधर्मविधायकश्रुतिविरोधो वाच्यः, भिन्नविषयत्वात् । यो हि स्त्रीरागवशात् कृतविवाहस् तद्विषयाग्निहोत्रादिश्रुतिः । ब्रह्मचर्यस्मृतिस् तु वैराग्याद् अन्धत्वादिदोषाद् वा विवाहानधिकृतपुरुषविषया । अत एव पाक्षिकत्वेन नैष्ठिकत्वम् आह मनुः ।

नाब्राह्मणे गुरौ शिष्यो वासम् आत्यन्तिकं वसेत् ।
ब्राह्मणे चाननूचाने काङ्क्षन् गतिम् उत्तमाम् ॥

न ब्रह्मचर्यस्मृतेर् अग्निहोत्रादिगृहस्थधर्मविधायकश्रुतिविरोधो वाचयः, भिन्नविषयत्वात् । यो हि स्त्रीरागवशात् कृतविवाहस् तद्विषयाग्निहोत्रादिश्रुतिः । ब्रह्मचर्यस्मृतिस् तु वैराग्याद् अन्धत्वादिदोषाद् वा विवाहानधिकृतपुरुषविषया । अत एव पाक्षिकत्वेन नैष्ठिकत्वम् आह मनुः ।

यदि त्व् आत्यन्तिकं वासो रोचयेत गुरौ कुले ।
युक्तः परिचरेद् एनम् आ शरीरविमोक्षणात् ॥ इति ।

तथा च विष्णुः ।

कुब्जवामनजात्यन्धक्लीबपङ्ग्वार्तरोगिणाम् ।
**व्रतचर्या भवेत् तेषां यावज्जीवम् अनंशतः ॥ इति ।। [७३]

न च विवाहादिकारिणाम् अनाश्रमिणाम् एव जपतपःपरायणानाम् अप्य् अवस्थानम् उचितम् इत्य् आह दक्षः ।

अनाश्रमी नैव तिष्ठेद् अब्दम् एकम् अपि द्विजः ।
आश्रमेण विना तिष्ठन् प्रायश्चित्तीयते हि सः ॥
जपे होमे तथा दाने स्वाध्याये च रतः सदा ।
नासौ फलम् अवाप्नोति कुर्वाणो ऽप्य् आश्रमाच् च्युतः ॥

आश्रमाद् आश्रमान्तरगमनेनोत्तरं परिगृह्य पूर्वं न परिगृह्णीयाद् इति स एवाह ।

त्रयाणाम् आनुलोम्यं स्यात् प्रातिलोम्यं न विद्यते ।
प्रातिलोम्येन यो याति न तस्मात् पापकृत्तमः ॥ इति ॥ १.५० ॥

**इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-श्रीमदपरादित्यदेवविरचिते याज्ञवल्कीयधर्मशास्त्रनिबन्धे **

ब्रह्मचारिकाण्डं (प्रकरणं) समाप्तम्