०१ उपोद्घात-प्रकरणम्

(अथ टीकारम्भः)

संसिद्ध्यर्थमिलत्सुरासुरनमन्मौलिस्थितप्रोल्लसत्
सद्रत्नप्रभवप्रकृष्टविविधप्रेङ्खन्मयूखोज्ज्वलम् ।
श्रेयोविघ्नमहाभयप्रशमने दिव्यं यद् एकौषधं
भूयान् नो द्विरदाननाङ्घ्रिकमलद्वंद्वं तद् इष्टाप्तये ॥ १ ॥
विशानुभूतिसंबूतिस्थितिसंहृतिमुक्तयः ।
प्रभवन्ति यतस् तस्मै परस्मै ब्रह्मणे नमः ॥ २ ॥
यो विश्वसर्गपरिपालनसंहृतीहो
ब्रह्मा हरिस् त्रिनयनश् च भवत्य् अमेयः ।
तं शुद्धबोधम् अभयं सुखसत्स्वभावम्
आत्मानम् अद्वयम् अनन्तम् उपास्महे ऽजम् ॥ ३ ॥
सिश्वात्मनः शुक्लयजूंषि भानोर् अवाप्य यो योगिगणाग्रवर्यः ।
तं याज्ञवल्क्यं मुनिवृन्दवन्द्यं नमामि तत्कीर्तितधर्मबुद्ध्यै ॥ ४ ॥
भक्त्या यस्य सविस्मयः स्मररिपुर् बुद्ध्या च वाचस्पतिर्
विक्रान्त्या द्विषतां गणः शुचितया भास्वान् क्षमित्वेन भूः ।
जीमूतान्वयभूषणं स विपुलां योगीश्वरेणोदिते
शास्त्रे वाक्यनयानुगां वितनुते व्याख्यां सतां संमताम् ॥ ५ ॥

धर्मसंहिताम् आरभमाणस् तस्याः पौरुषेयत्वसामान्याज् जायमानाम् अप्रामाण्यशङ्कां महाजनस्य तदध्ययनधारणादिविषये परिपन्थिनीम् अपनेतुम् आह ।

ॐ योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयो ऽब्रुवन् ।
वर्णाश्रमेतराणां नो ब्रूहि धर्मान् अशेषतः ॥ १ ॥

योगी संयमवान् । तत्रापि चेश्वरो ऽणिमादिगुणशाली । एषां च गुणानाम् ईश्वरशब्दप्रवृत्तिनिमित्तत्वं गम्यते मार्कण्डेयपुराणे ।

अणिमा लघिमा चैव महिमा प्राप्तिर् एव च ।
प्राकाम्यं च तथेशित्वं वशित्वं च तथा परम् ॥
यत्र कामावसायित्वं गुणान् एतान् अथैश्वरान् ।
प्राप्नोत्य् अष्टौ नरव्याघ्र परनिर्वाणसूचकान् ॥
सूक्ष्मात् सूक्ष्मतरतो ऽणीयाञ् शीघ्रत्वाल् लघिमा गुणः ।
महिमाशेषपूज्यत्वात् प्राप्तिर् नाप्राप्यम् अस्य यत् ॥
प्राकाम्यम् अस्य व्याप्यत्वाद् ईशित्वं चेश्वरो यतः ।
वशित्वाद् वशिता नाम योगिनः सप्तमो गुणः ॥
यत्रेच्छास्थानम् अप्य् उक्तं यत्र कामावसायिता ।
ऐश्वर्यं कारणैर् एभिर् योगिनः प्रोक्तम् अष्टधा ॥
मुक्तिसंसूचकं रूपं परनिर्वाणचेतसः ॥ इति ।

एवं चाणिमादिगुणपर एवायम् ईश्वरशब्दः । ततश् च योगी चासाव् ईश्वरश् च योगीश्वर इति मुख्यार्थोभयशब्दः कर्मधारयः । न तु योगिनाम् ईश्वर इति षष्ठीतत्पुरुषः, षष्ठ्यर्थलक्षणाप्रसङ्गात्, योगीश्वरशब्दप्रयोगवैयर्थ्यप्रसङ्गाच् च । न हि तदा योगिनाम् अणिमादिलक्षण्म् ऐश्वर्यं याज्ञवल्क्यस्योक्तं भवति । किं तु योगिनः सनकादीन् प्रति स्वामित्वम् । तच् च प्रकृतानुपयोगि । कर्मधारयपक्षे तु योगनिमित्तम् अणिमाद्याइश्वर्यं ग्रन्थकारस्य गम्यते । ततश् च योगविरोधिनो ऽज्ञानरागद्वेषा योगिपदेनार्थान् निरस्ताः । उक्तं च योगस्य तन्निरासकत्वं पुराणे ।

प्राणायामैर् दहेद् देषान् धारणाभिश् च किल्बिषम् ।
प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ इति ।

ईश्वरपदेन च यथावस्थितवेदवेदान्तबोद्धृत्वं परमकारुणिकत्वं च सूच्यत इति तत्प्रणीतग्रन्थस्य् प्रामाण्ये निश्चिते कथम् अप्रामाण्यशङ्कोचियात् । यज्ञवल्क्यसापत्यं याज्ञवल्क्यःसंपूज्य संमान्य । मुनयो महर्षयो वर्णादिधर्मान् अशेषतो निरवशेषतो नो ऽस्मान् ब्रूहि बोधयेत्य् अब्रुवन् । वर्णा ब्राह्मणादयः । आश्रमशब्दो यद्य् अपि ब्रह्मचारिगृहस्थदिकर्सु वर्तते तथापि तत्संबन्धिनां धर्माणाम् अभावाद् आश्रशब्देनाश्रमिणो लक्ष्यन्ते । अत एवाह वसिष्ठः- “चत्वार आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकाः” इति । केवलाद् वर्णत्वात् केवलाच् चाश्रमित्वाद् व्यतिरिक्तानि विशेषरूपाणि तद्विशेषस्था ये वक्ष्यमाणधर्माधिकारिणस् ते इह्एतरे । तानि च विशेषा(षरूपा)णि — यथा तावद् भवत्पूर्वभिक्षाचर्याविधौ ब्राह्मणत्वसहितं ब्रह्मचर्यम्, एवं भवन्मध्यादितो भैषवर्याविधौ तद् एव क्षत्रियाद्यपेक्षम्, विवाहविधौ वनितारागः स्नातकत्वं च, जायोपगमनविधाव् ऋतुमद्दारत्वं संयोगदारत्वं वा, स्त्रीधर्मेषु स्त्रीत्वं क्वचिज् जायात्वं क्वचित् प्रोषितभर्तृकात्वं क्वचिद् विधवात्वम्, द्रवशुद्धिविधौ शोध्यद्रव्यवत्त्वम्, प्रतिषेधे तु प्रतिषेध्यक्रियाप्रवर्तकपौष्कल्यक्रियावत्त्वम्, श्राद्धविधौ श्राद्धकालाविच्छिन्नजीवनवतः प्रमीतपितृकत्वम्, विनायकस्नपनविधौ विनायकोपसृष्टत्वम्, ग्रहयज्ञविधौ श्रिया(श्र्या)दिकामित्वम्, राजधर्मविधौ क्षत्रियस्याभिषिक्तत्वम्, निर्हरणादिविधौ मृतसपिण्डत्वम्, आपद्धर्मविधौ दुर्गतत्वम्, वस्थविधौ वलीपलितत्वं जातपौत्रत्वम्, परिव्राजकविधौ वेदाध्ययनपुत्रोत्पादनयागानुष्ठानवतः संसारवैराग्यवत्त्वम्, प्रायश्चित्तविधौ पापवत्त्वम् इत्यादीनि । एतद्विशिष्टा ये ते इतरे । वर्णाश् चाश्रमाश् चेतरे च ते वर्णाश्रमेतराः । तेषां वर्णाश्रमेतराणाम् । अत्रेतरशब्दस्य “द्वन्द्वे च” इति सर्वनामसंज्ञाप्रतिषेधः । शास्त्रप्रमेयो निःश्रेयसकरो धर्मः । क्रत्वङ्गप्रतिषेधनम् अधर्मः । वक्ष्यमाणशास्त्रार्थनिरवद्यनिरवशेषोदीरणक्रियां प्रति अशेषत इति धर्मसामान्याभिप्रायसाकल्यवचनम् । निरवशेषाभिप्राये ह्य् अस्मिन्न् उपनयनादौ गृह्योक्तहोमादि न कार्यं स्यात् । वर्णाश्रमेतरसंबन्धोपाधिकानि त्रीणि धर्मसामान्यानि । धर्मान् ब्रूहीति प्रार्थितस्य च धर्मसंहिताकरणे तन्मध्ये ऽध्येतृसमवायिधर्मज्ञानम् एव प्रायेण प्रयोजकम् । ततश् चाध्येतॄणम् अध्ययनप्रयोजकं तद् एव । न हि तेषाम् अप्रयोजकम् अध्ययनं भवितुम् अर्हति । तस्माद् धर्मशास्त्राध्ययनं धर्मशास्त्रत्वज्ञानप्रयुक्तम् एव । याज्ञवल्क्यप्रणीते प्य् अत्र श्लोके “याज्ञवल्क्यं संपूज्य” इत् वचनम्, तथोत्तरश्लोके “योगीन्द्रो ऽब्रवीत्” इति प्रथमपुरुअषप्रयोगश् च नाहुक्तः । दृश्यते हि मानवे ग्रन्थे “मनुर् अब्रवीत्” इति प्रयोगः, बौधायने च “स ह स्माह बौधायनः” इति । न च “मनुर् अब्रवीत्” इति भृगोर् वचनम् इदं न मनोर् इति वाच्यम् । यत एतद् उत्तरकालम् एव मनुर् आह ।

एतद् वो ऽयं भृगुः शास्त्रं श्रावयिष्यत्य् अशेषतः ।
एतद् धि मत्तो ऽधिजगे सर्वम् एषो ऽखिलं मुनिः ॥ इति ।

अधिजगे ऽधीतवान् । अस्याश् च संहिताया याज्ञवल्क्यः प्रेणेतेति व्याख्यातॄणां स्मृतिर् एव प्रमाणम् । न चार्थम् एव याज्ञवलीयतया ते स्मरन्तीति वाच्यम् । ग्रन्थे हि प्रणेतृतया तस्यासाधारण्यं संभवति न चार्थे द्रष्टृतया, मुन्यन्तरैर् अपि तस्य दृष्टत्वात् । असाधारण्येन च व्यपदेशो न साधारण्ये घटते । असाधारण्येन हि व्यपदेशा भवन्ति ॥ १ ॥

मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन् मुनीन् ।

स मुनिर् धर्मान् ब्रूहीति प्रार्थितो मिथिलास्थत्वेन विशेषतः प्रशान्तः क्षणमात्रं वक्ष्यमाणं शास्त्रार्थं मुनीनां तच्छ्रवणयोग्यतां [च] ध्यात्वा चिन्तयित्वा वक्ष्यमाणान् धर्मान् अब्रवीत् । याज्ञवल्क्यप्रणीततां शास्त्रे वक्तुं स इत्य् उक्तम् । न पुनर् अहम् इति । न पुनर् अहंशब्दाद् याज्ञवल्क्यसंप्रत्ययः । स इति शब्दात् तु प्रकृतवाचिनो याज्ञवल्क्य एव प्रकृते बुद्धिर् उपैतीति तम् एव प्रयुक्तवान् । तत्सामानाधिकर्ण्याच् चाब्रवीद् इति प्रथमपुरुष एव युज्यते । न पुनर् अब्रवम् इत्य् उत्तमः ।

तत्र धर्मानुष्ठानस्य देशपरिग्रहपूर्वकत्वाद् धर्मकथनात् प्राग् एव देशम् आह ।

यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत ॥ २॥

कृष्णशब्दो हरिणवचनः । कृष्णाजिनं कृष्णविषाणो यावत् कृष्णमृगो विचरतीति प्रयोगदर्शनात् । स यस्मिन् देशे स्वभावाद् विचरेत् । तत्र धर्मान् श्रौतस्मार्तान् अनुष्ठेयतया हे मुनयो निबोधत निबुध्यध्वम् । कृष्णशब्दाद् अर्थान्तरावबोधो मा भूद् इत्य् उक्तं मृग इति । कृष्णमृगोपलक्षितश् च देशो ब्रह्मावर्तादिदेशासंभवे धर्मानुष्ठानाङ्गम् इति मन्तव्यम् । तथाह मनुः

सरस्वतीदृषद्वत्योर् व्योमनद्योर् यद् अन्तरम् ।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥
कुरुक्षेत्रं च मत्स्याश् च पञ्चालाः शूरसेनजाः ।
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्ताद् अनन्तरः ॥
हिमवद्विन्ध्ययोर् मध्यं यत् प्राग् विनशनाद् अपि ।
प्रत्यग् एव प्रयागाच् च मधदेशः प्रकीर्तितः ॥
आ समुद्रात् तु वै पूर्वाद् आ समुद्रात् तु पश्चिमात् ।
तयोर् एवान्तरं गिर्योर् आर्यावर्तः प्रकीर्तितः ॥
कृष्णसारस् तु चरति मृगो यत्र स्वभावतः ।
स देशो यज्ञियो ज्ञेयो म्लेच्छदेशस् त्व् अतः परः ॥

अत्र च पूर्वः पूर्व उत्तरत उत्तरतः श्रेष्ठः । यद् आह पुराणम् ।

ब्रह्मावर्तः परो देश ऋषिदेशस् त्व् अनन्तरः ।
मध्यदेशस् ततो न्यून आर्यावर्तस् त्व् अनन्तरः ॥

विष्णुश् च,

चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते ।
तं म्लेच्छदेशं जानीयाद् आर्यावर्तम् अतः परम् ॥

इत्य् आर्यावर्तस्य लक्षणान्तरम् आह । ततश् च यत्र चातुर्वर्ण्यव्यवस्था कृष्णमृगश् च नास्ति स म्लेच्छदेशः । तदन्यो धर्मदेशः । ततश् च ब्रह्मावर्तादिदेशचतुष्टयालाभे तत्र चातुर्वर्ण्यं व्यवतिष्ठते कृष्णमृगश् च विचरति तत्र धर्मेच्छुभिः स्थातव्यम् । तदसंभवे चातुर्वर्ण्यव्यवस्थावति कृष्णमृगयुक्ते वा देशे । धर्मान् निबोधतेति धर्मग्रहणाद् अधर्मपरिहारे देशे विशेषनियमो नस्तीति मन्तव्यम् । शूद्रस्य वृत्ताव् अनुग्रहम् आह मनुः ।

एतान् द्विजायतो देशान् संश्रयेरन् प्रयत्नतः ।
शूद्रस् तु यस्मिश् तस्मिन् वा निवसेद् वृत्तिकर्शितः ॥ इति ।

ज्ञानपूर्वम् अनुष्ठानं धर्मस्येति धर्मज्ञानोपायांस् तावद् आह ।

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ ३ ॥

पुराणं ब्र(ब्रा)ह्मादि । न्यायः सतर्कः । मीमांसा वेदवाक्यविचारः । धर्मशास्त्रं मन्वादिस्मृतिः । **अङ्गैः **षड्भिर् व्याकरणादिभिः सहिताश् चत्वारो वेदा ऋग्वेददयः । स्थानानि (?) चतुर्दश ज्ञानानां निमित्तानि, धर्मस्य च ज्ञानद्वारेण, एतद् उत्पन्नस्यैव ज्ञानस्य धर्महेतुत्वात् । ततश् च प्रयोगपद्धत्यादिसमुत्थितं ज्ञानं न धर्महेतुर् इति सिद्धम् ।

एवं चतुर्दशैतानि विद्यास्थानानि सन्त्य् अथ ।
वेदान्तः पञ्चदशकं विद्या षोडशिका भवेत् ॥

इति ब्रह्मपुराणे यद् वेदानविद्ययोर् ग्रहणं तन् मोक्षसाधनविद्यास्थानाभिप्रायम् इतीहानुपयोगित्वान् नोक्तम् । वेदान्तः शारीरकम् । विद्या बृहदारण्यकादिरहस्यम् । यत् तु विष्णुपुराणम्,

अङ्गानि वेदाश् चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या एताश् चतुर्दश ॥
आयुर्वेदो धनुर्वेदो गान्धर्वश् चेति ते त्रयः ।
अर्थशास्त्रं चतुर्थं च विद्या अष्टादशैव ताः ॥

तत् केवलं विद्यास्थानत्वाभ्प्रायम्, न धर्मस्थानत्वाभिप्रायम्, आयुर्वेदादीनां च धर्मस्थानत्वाभावात् । चतुर्दशग्रहणाद् ऋते ऽथर्ववेदसंग्रहो न स्यात् ॥ ३ ॥

इदानीं धर्मशास्त्राणां तदाभासेभ्यो विवेकाय तत्प्रणेतॄन् आह ।

मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोङ्गिरः ।
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥ ४ ॥
पराशरव्यासशङ्खलिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश् च धर्मशास्त्रप्रयोजकाः ॥ ५ ॥

प्रयोजकाः प्रणेतारः । अतिरोहितम् अन्यत् । अत्र गौतमः- “स्मृतिर् धर्मशास्त्राणि । तेषां प्रणेतारः- मनुविष्णुदक्षाङ्गिरोत्रिबृहस्पत्युशनआपस्तम्बगौतमसंवर्तात्रेयकात्यायन-शङ्खलिखितपराशरव्यासशातातपप्रचेतोयाज्ञवल्क्यादयः” इत्यादिशब्दं प्रयुक्तवान् । वेदमूलग्रन्थप्रणेतार आदिशब्देनात्र प्रगृह्यन्ते । तथा च मनुः-

वेदो ऽखिलो धर्ममूलं स्म्र्तिशीले च तद्विदाम् । इति ।

अत एवावशिष्टः श्रौतो वाक्यैकशेषः । अङ्गिरःशब्दपर्यन्तः समाहारद्वन्द्वो नपंसकलिङ्ग एकवचनान्तः । अत एव भविष्यत्पुराणे गुह्येश्वरवाक्ये स्मृतयः षट्त्रिंशद् एवाभिहिताः ।

मन्वादिस्म्र्तयो यस् तु षट्त्रिंशत् परिकीर्तिताः ।
तासां वाक्यानि क्रमशः समासेन ब्रवीमि ते ॥

ताश् च मनुविष्नुयमदक्षाङ्गिरोत्रिबृहस्पत्युशनापस्तम्बवसिष्ठकात्यायनपराशरव्यास-शङ्खलिखितसंवर्तगौतमशातातपहारीतयाज्ञवल्क्यप्रचेतोबुधदेवलसोमजमदग्नि-विश्वामित्रप्रजापतिनारदपैठीनसिपितामहबौधायनच्छागलेयजाबालिच्यवनमरीचिकश्यपा इति षट्त्रिंशद् एव स्मृत्यन्तरे पठिताः । एवं वृद्धमन्वादयश् च वयोवस्थादिभेदेन मन्वादिप्रणेतार एव द्रष्टव्याः, अविरोधित्वाच् छ्रुतिस्मृत्युपबृंहकत्वाच् छिष्टपरिगृहीतत्वाद् आप्तोक्तत्वाच् च । चतुर्विंशतिमतपरिशिष्टादयो ऽपि धर्मशास्त्रत्वेनैव् ज्ञेयाः ॥ ४ – ५ ॥

संप्रति यच् छास्त्रं शास्त्रान्तरनिरपेक्षं समग्रम् अर्थं न शक्नोत्य् अवगमयितुं तच् छास्त्रान्तरसापेक्षम् एव धर्मे प्रमाणम् इति दानम् उदाहृत्वाह ।

देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत् तत् सकलं धर्मलक्षणम् ॥ ६ ॥

देशे कुरुक्षेत्रादौ, काल उपरागादौ, उपायेनेति कर्तव्यतया, द्रव्यं गवादि, श्रद्धया तथेति प्रत्ययेन समन्वितम्, पात्रे वक्ष्यमाणलक्षणे, **प्रदीयते **ख्यात्याद्यनपेक्षित्वरूपेण प्रकर्षेण पात्रस्वीकारपर्यन्ततया त्यज्यत इत्य् एतत्प्रतिपादकं वाक्यं सकलं सर्वसाधनोपेतस्येदंपर्यन्तविशेषवतो धर्मस्य बोधकं सर्वं धर्मलक्षणं धर्मे प्रमाणं वेदितव्यम् । न पुनः सर्वप्रकारयुक्तस्य धर्मस्य बोधकं धर्मलक्षणम् । तथा च शङ्खः- “देशः काल उपायो द्रव्यं श्रद्धा पात्रं त्याग इति समस्तेषु धर्मोदयः साधारणो न्याय्यो ऽन्यथा विपरीतः” इति । साधारणो दानेन समानः । न्याय्यो ऽन्येषां यागादिधर्माणाम् । अन्यथा सामस्त्याभावे । विपरीतो धर्मस्यानुदय इत्य् अर्थः । सति सामर्थ्ये सर्वाङ्गानुष्ठानम् । असति तु काम्यं हेयम् । आवश्यकं तु यथाशक्ति कार्यम् । यत् तु कात्यायनवाक्यम्,

बह्व् अल्पं वा स्वगृह्योक्तं यस्य कर्म प्रकीर्तितम् ।
तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् ॥

इति, तन् निरपेक्षार्थाभिधायकस्वशास्त्रविषयम् । सापेक्षे तु स्वशास्त्रे शास्त्रान्तरोक्तं ग्राह्यम् इति स एवाह ।

यन् नाम्नातं स्वशाखायां पारक्यम् अविरोधि यत् ।
विद्वद्भिस् तद् अनुष्ठेयम् अग्निहोत्रादिकर्मवत् ॥ इति ।

संप्रति धर्मप्रमाणान्य् आह ।

श्रुतिस्मृतिसदाचाराः स्वस्य च प्रियम् आत्मनः ।
सम्यक्संकल्पजः कामो धर्ममूलम् इदं स्मृतम् ॥ ७ ॥

श्रुत्यदिकं प्रत्येकं धर्ममूलं धर्मनिश्चयस्य कारणम् । पुराणन्यायेत्य् अत्र श्रुतिस्मृत्योः सामान्यतो धर्ममूलत्वम् उक्तम् । अत्र तु निवार्य तन्मूलत्वम् उच्यते । अर्थाद् अन्येषां विद्यास्थानानां विद्यानुरोहकत्वम् । स्मृतेर् न व्याकरणादिवद् वेदानुरोहकत्वम्, किं तु तदनुमापकत्वम् इति प्र्थगुक्तिः । आचारादेः। पुनर् अत्रैव धर्ममूलत्वोक्तिर् इति न पुनरुक्तता । श्रुतिर् वेदः । स्मृतिर् धर्मतो वेदमूलं शास्त्रम्, सदाचारः शिष्टाचारः । स्वस्य स्वकीयस्य्आत्मनो मनसः प्रियं तुष्टिकरम् । आत्मशब्देनात्र मनो लक्ष्यते । प्रियशब्देन तुष्टिः । तेन मनस्तुष्टिर् अत्र चिकीर्षोपरमो निर्दिश्यते । समीचीनः शास्त्रार्थविषयो ऽनेनेदं साधयामीति मनःकर्म संकल्पः । तज्जः कामो धर्मचिकीर्षा । एतत् सर्वं धर्मनिश्चये मूलं कारणम् इत्य् अर्थः । धर्मेण तन्निश्चयो लक्ष्यते । तत्राग्निहोत्रादेर् निश्चयमूलं श्रुतिः, वर्णाश्रमधर्मादेर्ः स्मृतिः, होलाकादेः सदाचारः, यत् कर्म मनसस् तुष्टिपरिच्छिन्नतया विधीयते तस्य मनस्तुष्टिः । यथा,

यस्मिन् कर्मण्य् अस्य कृते मनसः स्याद् अलाघवम् ।
तस्मिंस् तावत् तपः कुर्याद् यावत् तुष्टिकरं भवेत् ॥ इति ।

कालविशेषे संकल्पजः कामः, यथा- “यदैवैनं श्रद्धयोपनयेत् तदैवादधीत” इति । अथ वा “श्राद्धं प्रति रुचिश् चैव” इति । व्यासः ।

धर्मशुद्धिम् अभीप्सद्भिर् न देवाद् अन्यद् इष्यते ।
धर्मस्य कारणं शुद्धं मिश्रम् अन्यत् प्रकीर्तितम् ॥

शुद्धिर् असंकीर्णता । धर्मस्य धर्मनिश्चयस्येत्य् अर्थः । शुद्धम् अदुष्टम् । मिश्रं संभावितदोषम् ।

अतः स परमो धर्मो यो वेदाद् अधिगम्यते ।
अवरः स तु विज्ञेयो यः पुराणादिषु स्मृतः ॥
वेदार्थवित्तमैः कर्म यत् स्मृतं मुनिभिः पुरा ।
तद् यत्नेन समातिष्ठेत् तन्निषिद्धं तु वर्जयेत् ॥
ते हि वेदार्थवत्त्वज्ञा लोकानां हितकाम्यया ।
प्रदिष्टवन्तो यं धर्मं तं धर्मं न विचारयेत् ॥
वेदार्थो यः स्वयं ज्ञातस् तत्राज्ञानं भवेद् अपि ।
ऋषिभिर् निश्चिते तस्मिन् का शङ्का स्यान् मनीषिणाम् ॥
एतेभ्यो ऽपि यद् अन्यत् स्यात् किंचिद् धर्माभिधायकम् ।
तद् दूरतरतो विद्धि मोहस् तस्याश्रयो मतः ॥

न विचारयेत्, नाप्रमाणतया साङ्केत । एतेभ्यो धर्मशास्त्रादिभ्यो यद् अन्यत् पौरुषेयं तद् धेयम् ।

  • ननु च शैवपाशुपतपाञ्चरात्रशात्राद्यपौरुषेयम् एव, ततश् च तदनुष्ठानाचरणे ऽभ्युदय एव न दोषः कश्चित्, तस्य निःश्रेयसहेतुत्वात् ।

  • मैवम्,

आचम्य च पुरा ब्राह्मीं भजेत् संध्याम् द्विराश्रमी ।
इतरस् तु विरकात्मा लौकिकार्थपर्ङ्मुखः ॥
ब्राह्मीं कुर्यान् न वा कुर्याच् छैवीम् एव नियोगतः ।
अन्तः शैवं बहिः कौलं लोकाचारे तु वैदिकम् ॥
सारम् आदाय तिष्ठेत् तु नारिकेलफलं यथा ॥

इति स्वायंभ्य्वादिवचनेनानवकॢप्तलोकानुरञ्चनापादकत्वेन प्रतिपादितवैदिककर्मवैफल्यदोषत्वात् सर्वात्मना श्रुतिस्मृतिविहितधर्मानुष्ठानैकपरमार्थांस् त्रैविद्यवृद्धान् प्रति शैवाद्याम्नायस्यानुष्ठाने निःश्रेयसनिमित्तत्वासिद्धेः । नापि तेषां शैवादिशास्त्राननुष्ठाने काचित् क्षतिः । “यावज्जीवम् अग्निहोत्रं जुहुयात्,” “अग्निहोत्रं च जुहुयाद् आद्यन्ते द्युनिशोः सदा,” इति श्रुतिस्मृत्युक्तैर् हि तेषाम् आश्रमकर्मभिः प्रयोजनं नान्यैः, श्रुतिस्मृत्यर्थातिक्रमे प्रत्यावायापत्तेः । तथा च श्रुतिः- “वीरहा वा एष देवानां यो ऽग्निम् उत्सादयते” । स्मृतिर् अपि ।

अग्निहोत्र्य् अपविध्याग्नीन् ब्राह्मणः कामकारतः ।
चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ॥ इति ।

न चाननुष्ठानमात्रेणैवार्थसिद्धं दूअणम् इति वाच्यम्,

द्रुतेन त्रपुणा पूर्णवक्त्रास् तिष्ठन्ति दुःखिताः ।
द्वेष्टारः शिवशास्त्राणां ये च वेदविदूषकाः ॥
सांख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा ।
अतिप्रमाणान्य् एतानि हेतुभिर् न विचारयेत् ॥

इति अदूष्यत्वेन हेत्वविचारणीयत्वेन च देवीपुराणयोगयाज्ञवल्क्ययोर् अदूष्यत्वेन तस्य स्मरणात् । न चैतावता तदनुष्ठाने च दोषः कश्चिद् इति वाच्यम्, “यावद् वचनम् वाचनिकम्” इति न्यायेन न्यूनस्याधिकस्य वा परिग्रहस्य स्वोत्प्रेक्षामात्रेण कर्तुम् अनर्हत्वात् सकलादूष्यागमानुष्ठानस्य च कर्तुम् अशक्यत्वात्,

दीक्षितस्य च देवोक्तं श्राद्धकर्मातिगर्हितम् ।
इत्य् एवं वैदिकश्राद्धक्रिया नादीक्षितैर् अपि ।
दीक्षितान् प्रति कर्तव्या द्वयोर् निर्यदायिनी ॥

इत्यादिना शैवशास्त्रप्रतिपन्नस्य वैदिककर्मकरणेन नरकदानादिदोषप्राप्तेः,

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मोदयाद् अपि ॥

इत्यादिना भारतादौ विकलस्यापि स्वानुष्ठानस्योत्कर्षदर्शने सत्य् अपि सकलादूष्यागमानुष्ठानस्य च परस्परविरुद्धार्थत्वे ज्ञाननिष्ठाप्राप्त्यभावाच् च । तथा च शैवाः- प्रधानपुरुषयोर् अधिष्ठाता केवलं निमित्तकारणम् ईश्वर इतरेतरविलक्षणाः प्रधानपुरुषेश्वरा इति भेदेश्वरवादिनः । सांख्याः- निरीश्वरवादिनः । योगाः पातञ्जलास् तु- जगताम् कर्ता क्लेशकर्मविपाकाशयैर् अपरामृष्टः सर्वशास्त्रवेत्तृत्वात् सर्वज्ञः पुरुषविशेष ईश्वर इति सेश्वराः । पाञ्चरात्राः पुनः- शान्तोदितविवृत्ताव्यपदेश्यभिन्नतया चातुरात्म्येनावस्थितः परमा प्रकृतिर् भगवान् वासुदेव इत्य् अद्वैतभावेनेश्वरं मन्यन्ते । पाशुपताः पुनः- कार्यकारणयोगविधिदुःखान्ताः पञ्च पदार्थाः पशुपतिनेश्वरेण पशुपाशविमोचनार्थम् उद्दिष्टा इति भेदेश्वरवादम् एवाङ्गीकुर्वन्ति । तद् एवम् अनवस्थितत्वात् सर्वागमज्ञानस्य सर्वस्वीकारे संशयानिवृत्तेर् ज्ञानलाभो दुर्घट एव । वैकल्पिकाङ्गीकारे चोन्मत्ततुल्यता प्रसज्येत । ननु यथा शैवाद्याम्नायस्यैवादूष्यत्वमात्रेण प्रामाण्यम्, तथैवादूष्यत्वस्मरणाविशेषाद् वेदस्यापीति । सत्यम्, “द्रुतेन त्रपुणा” इत्यादिना वेदस्य शैवाद्यागमसदृशम् एवादूष्यत्वमात्रेण प्रामाण्यम् ।

पितृदेवमनुष्याणां देदश् चक्षुः सनातनम् ।
अतर्क्यं चाप्रमेयं च वेदशास्त्रम् इति स्थितिः ॥

इत्यादिना मन्वादिभिर् ऐहिकामुत्रिकार्थप्रकृष्टसाधकत्वं तु वेदस्योक्तम्, न शैवादिशास्त्रस्य । प्रत्युत,

ये वेदमार्गनिर्मुक्तास् तेषां मोहार्थम् एव च ।
सिद्धान्तसंज्ञकं पूर्वं मया शास्त्रं प्रदर्शितम् ॥
पशुर् यो ऽपशुभावस्थः स यदा पतितो भवेत् ।
तदा पाशुपतं शास्त्रं ज्ञायते विश्वमोहकम् ॥
मयैव मोहितास् ते हि भविष्यन्तो जना द्विज ।
लौल्यार्थिनस् तु शास्त्राणि करिष्यन्ति कलौ नराः ॥
निःश्वाससंहिता या हि लक्षमात्रं प्रमाणतः ।
सैव पाशुपतो योगो भेदाः पाशुपतास् ततः ॥
एतया वेदमार्गादेर् यद् अन्यद् इह जायते ।
तत् क्षुद्रकर्म विज्ञेयं रौद्रं शौचविवर्जितम् ॥

इत्यादिनागस्त्यं प्रति रुद्रवचनेन वराहपुराणे तस्य विमोहकत्वेन विप्रलम्भकत्वम् एव प्रतिपादितम् । सर्वजनविमोहकत्वाद् विप्रलम्भकम् एव शैवादीति । भूयश् च तत्रैव श्रीरुद्रं प्रति जनार्दनवाक्यम् ।

एष मोहं सृजाम्य् आशु यो जनं मोहयिष्यति ।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥
अल्पायासं दर्शयित्वा फलं दीर्घं प्रदर्शय ।
कुहकाश् चेन्द्रजालानि विरुद्धचरणानि च ॥
दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर ॥ इति ।

अत एव च मनुः ।

उत्पद्यन्ते व्ययन्ते च यान्य् अतो यानि कानिचित् ।
तान्य् अर्वाक्कालिकतया निष्फलान्य् अनृतानि च ॥ इति ।

अत एव च शैवादिशास्त्रोक्तस्याप्रामाण्यम् आचारस्याहा आपस्तम्बः- “वेदाः प्रमाणम् इति निष्ठा । तत्र यानि श्रूयन्ते व्रीहियवपश्वाज्यपयःकपालपात्रीसंबन्धान्य् उच्चैर् नीचैः कार्याणीति । तैर् विरुद्ध आचारो ऽप्रमाणम् इति मन्यन्ते” इति । ननु च ।

अलाभे वेदमन्त्राणां पञ्चरात्रोदितेन हि ।
आचारेण प्रवर्तन्ते ते मां प्राप्स्यन्ति मानवाः ॥
ब्राह्मणक्षत्रियविशां पञ्चरात्रं विधीयते ।
शूद्रादीनाम् न तच्छ्रोत्रपदवीम् उपयास्यति ॥

इत्यादिना वराहपुराणे भगवद्वाकेन पाञ्चरात्रस्य वेदप्रतिनिधित्वेन स्मरणाद् वेदेनाविशेषः पाण्चरात्रस्य । सत्यम् अविशेषः । किं तु विषयविशेषाद् विशेषः । तथा हि, अस्य वाक्यस्य कुतश्चिद् दैवयोगाद् अकृतप्रयश्चित्तव्रात्यविषयत्वाद् अविप्लुतबाह्मणाद्यनाश्रयत्वम्, एवं हि सत्य् अत्रालाभपदम् उपपत्तिमत् स्यात् । तादृशानां व्रात्यानां वेदपरिप्राप्तेर् अभावात् । तथा च मानवम् ।

नैतैर् अपूतैर् विधिवद् आपद्य् अपि हि कर्हिचित् ।
ब्राह्मान् यौनांश् च संबन्धान् आचरेद् ब्राह्मणः सह ॥ इति ।

एवं च पाञ्चरात्रे द्विजात्यधिकारो ऽपि विचालित एव स्यात् । तस्माद् विधिवशाद् अकृतप्रायश्चित्तव्रात्यविषयत्वाद् अस्य वाक्यस्यास्ति विशेषो वेदपञ्चरात्रयोः । अत एव च योगयाज्ञवल्क्ये पञ्चरात्रस्य पाशुपतादिसमानं सिद्धान्तत्वेनाभिधानं वेदबाह्यत्वप्रतीतिकृद् एव ।

एकम् एव तु विज्ञेयं प्रणवं योगसाधनम् ।
गृहीतसप्तसिद्धान्तैर् अन्यैर् ब्रह्मविदैस् तथा ॥
हैरण्यगर्भैः कपिलैर् अपान्तरतमैस् तथा ।
सानत्कुमारैर् ब्रह्मिष्ठैस् तथा पाशुपतैर् अपि ॥
पाञ्चरात्रैर् अपीत्य् एतैः सिद्धान्तैश् चैव सप्तभिः ॥ इति ।

एवं हि पञ्चरात्रस्यादूष्यत्वेनैव प्रामाण्यं नानुष्ठेयत्वेनेति ।

  • ननु च यथैव नियतान् कांश्चिद् अधिकृत्य वेदादिशास्त्रं प्रवृत्तम्, तथैव जातिमतः शैवादीन् प्रति शैवादिशास्त्रम् अस्तु ।

  • ,

निषेकादिः श्मशानान्तो मन्त्रैर् यस्योदितो विधिः ।
तस्य शास्त्रे ऽधिकारो ऽस्मिञ् ज्ञेयो नान्यस्य कस्यचित् ॥

इत्यादिना मन्वादिभिः स्वशास्त्रेष्व् अधिकारस्य द्विजानाम् एव प्रदर्शितत्वान् न शैवादिशास्त्रे शैवब्राह्मणादीनाम् ।

  • अस्तु तर्हि शैवादिशास्त्रे शूद्रो ऽधिकृतः ।

  • , स्मृत्यादिशास्त्रेषु तथानभ्युपगमात् । अपि च शैवो नाम जात्या न कश्चिद् अप्य् अस्ति यं प्रति शैवादिशास्त्रं स्यात् । अपि तु “तेन प्रोक्तम्” (पाण् ४.३।१०१) इत्याणि कृते शिवेन प्रोक्तं शास्त्रं शैवम् । पुनश् च शैवशब्दात्र् “तदधीते तद् वेद” (पाण् ४.२।५९) इत्य् उत्पन्नस्याणः “प्रोक्ताल् लुक्” (पाण् ४.२।६४) इति लुकि कृते शैवं वेत्त्य् अधीते वा शैवः । एवं पाशुपतादिः । यस्माद् एवं स्वभावतो नियतान् कांश्चिद् अनाश्रित्यैव शैवादिशास्त्रं प्रवृत्तं तस्मात् तद् आकाशचित्रम् इव प्राप्तम् । तथा च सत्य् अनुष्ठाने तद् धेयम् एव । न चादूष्यागमप्रसिद्धेर् एवाश्रमिणां तदनुष्ट्ःआनं स्याद् इति वाच्यम् । न ह्य् अदूष्यत्वमात्रेण तेषां श्रुतिवत् स्वार्थानुष्ठापकत्वसामर्थयम्,

या वेदबाह्याः श्रुतयो याश् च काश्चित् कुदृष्टयः ।
सर्वास् ता निष्फलाः प्रोक्तास् तमोभूता हि ताः स्मृताः ॥

इत्यादिना मन्वादिभिस् तदनुष्ठानस्यामुत्र वैफल्यापदकत्वादिना निषिद्धत्वात् । ततश् च देवपूजादौ नरसिंहपुराणादिप्रसिद्धैवेतिकर्तव्यता ग्राह्या नान्या ।

एवं दीक्षायाम् अप्य् अवगन्तव्यम् ।
न हि पुराणप्रसिद्धायां दीक्षायां
जातिशोधनम् अस्ति ।
शैवाद्य्-आगमेषु तु,

प्रथमं स्थावरा जातिस्
ततः सारीसृपी मता ।
पक्षिजातिस् तृतीया तु
चतुर्थी मृगजातिका ॥
पञ्चमी पशुजातिस् तु
षष्ठी चैवान्त्यजा स्म्र्ता ।
सप्तमी शूद्रजातिस् तु
वैश्यजातिस् तथाष्टमी ॥
नवमी क्षत्रजातिस् तु
दशमी विप्रसंज्ञिता ।
एतास् तु जातयः शोध्या
जातीशेन शिवेन वा ॥

इत्यादिना +++(जातीशेन शिवेन वेति)+++ तच्-छोदन-दर्शनाच्
छ्रौत-कर्मानधिकारित्व-प्रसक्तिः ।
“ब्राह्मणो ऽग्नीन् आदधीत,” “राजा राजसूयेन यजेत,” “वैश्यो वैश्यस्तोमेन यजेत” इत्यादिना
जातिमन्तम् एव प्रकृत्य वैदिकं कर्म प्रवृत्तम् ।
तत् कथं जातिनिवृत्तौ स्यात् ?

एवं प्रतिष्ठायाम् अपि पुराणाद्युक्तैवेतिकर्तव्यता ग्राह्या नान्या । तेषाम् एव व्यामिश्रधर्मप्रमाणत्वेन भविष्यत्पुराणे परिज्ञातत्वात् । तथा च भविष्यत्पुराणम् ।

अष्टादश पुराणानि रामस्य चरितं तथा ।
विष्णुधर्मादिशास्त्राणि शिवधर्माश् च भारत ॥
कार्ष्णश् च पञ्चमो वेदो यन् महाभरतं स्मृतम् ।
सौराश् च धर्मजारेन्द्र मानवोक्ता महीपते ।
जयेति नाम चैतेषां प्रवदन्ति मनीषिणः ॥ इति ।

तत्रापि “मद्यवअर्जं सुरां भूप निनयेत्” इत्यादि स्मृतं कलियुगाद् अन्यत्र मन्तव्यम्,

दीर्घकालं ब्रह्मचर्यं धारणं च कमण्डलोः ।
सगोत्राद् वा सपिण्डाद् वा विवाहो गोवधस् तथा ॥
नराश्वमेधो मद्यं च कलौ वर्ज्या द्विजातिभिः ॥

इत्यादिना मद्यादेर् ब्रह्मपुराणादौ सामान्यतो वर्ज्यत्वेनाभिहितत्वात् । एतेन चण्डिकाद्युपहारा व्याख्याताः । यद् अप्य् अञ्जनविधौ कालिकापुराणे,

कपालसंपुटे कृत्वा महातैघृते तथा ।
चन्द्रसूर्योपरागे च कज्जलं गृह्य बुद्धिमान् ॥
अञ्जयेद् अक्षिणी तेन वशी कुर्यात् पुरन्दरम् ॥

इत्यादि तत् “अथ शत्रुं मारयितुकामः श्मशानकाष्ठैर् अग्निं प्रज्वाल्य विषरुधिरमिश्राण् आहितिसहस्रं जुह्ज्यात् सद्यः शत्रुं मारयति” इति वत् “शेयेनेनाभिचरन् यजेत” इतिवद् वाधर्म एव । हिंसादिवद् वशीकरणादेर् अपि तत्र तत्र निषिद्धत्वात् । तथा च

हिंशौषधीनां स्त्र्याजीवो ऽभिचारो मूलकर्म च ।

इति मनुना वशीकरणम् उपपातकमध्ये परिगणितम् । यद् अपि देवीपुराणे,

वामदक्षिणवेत्ता यो मातृवेदार्थपारगः ।
स भवेत् स्थापकः श्रेष्ठो देवीनां मातरा(तृका)सु च ॥
पाञ्चरात्रार्थकुसलो मातृतन्त्रविशारदः ।
विष्णोर् गृही सदा शस्तो ब्रह्मचारी च शान्तिदः ॥
शिवशासनवेत्ता यो ग्रहमातृगणार्थवित् ।
गृहस्थो ब्रह्मचारी वा स्थापकः कीर्तितः शिवे ।
सौरार्थवेदकः सूर्ये स्थापकः पूजकः शुभः ॥

इति, एतद् अपि न ब्राह्मागमानुष्ठानलिङ्गम् । तदनुष्ठानस्य च मत्स्यपुराणे निषिद्धत्वात् । तथा च मत्स्यपुराणम् ।

स्थापकस्य समासेन लक्षणं शृणुत द्विजाः ।
सर्वावयवसंपन्नो वेदमन्त्रविशारदः ॥
पुराणवेत्ता धर्मज्ञो दम्भलोभविवर्जितः ।
कृष्णसारचरे देशे य उत्पन्नः शुभाकृतिः ॥
शौचाचारपरो नित्यं पाषा(ष्)ण्डकुलनिःस्पृहः ।
समः शत्रौ च मित्रे च ब्रह्मोपेन्द्रहरप्रियः ॥
ऊहापोहार्थतत्त्वज्ञो वास्तुशास्त्रस्य पारगः ।
आचार्यस् तु भवेन् नित्यं सर्वदोषविवर्जितः ॥
मूर्तिपास् तद्विधाश् चैव कुलीना ऋजवस् तथा ॥ इति ।

यथा पाञ्चरात्रसंहितायाम्- “चतुर्दश विद्यास्थानानि वेदितव्यानि भवन्ति, तद् यथा — ऋग्वेदो यजुर्वेदः शमवेदो ऽथर्ववेद इतिहासपुराणं न्यायो मीमांसा शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषामयनं छन्दोविचितिर् इत्य् अत्राप्य् अनधिकारः किं तु भवत्य् एवाधिकारः” इति त्रय्यादिज्ञानम् एवोपादेयम्, तथात्रापि वामदक्षिणाम्नायादिज्ञानमात्रम् एवोपादेयम् । तथा च योगयाज्ञवल्क्यः ।

आत्मज्ञाननिमित्तं हि सिद्धान्तानि विचिन्तयेत् ।
केवलानि यदाधीते वेदबाह्यो भवेद् द्विजः ॥

केवलाध्ययनं स्वधर्मपरित्यागेन परधर्मसेवनम् । तादृशस्यानुष्ठानस्य,

स्वधर्मं याह् समुत्सृज्य परधर्मरुचिर् भवेत् ।
चकोरनयने चौरः स शूद्रश् चन्द्रसंनिभे ॥

इत्यादिना स्कन्दपुराणादौ निन्दितत्वात् । वामदक्षिनादिज्ञानं च स्वशात्रापेक्षितस्य तच्छास्त्रोक्तस्याविरुद्धस्याङ्गस्य कस्यचित् स्वीकारार्थम् । तच् चाह मनुः ।

सापेक्षत्वे ऽप्य् अपेक्षैव मानं यावद् अपेक्षते ।
तावद् एवान्यतः कार्यम् अन्यन् नैवानवस्थितेः ॥

विरुद्धस्य तु त्याग एवेति । अत एव च धर्मसंकरपरिहाराभिप्रायेण राजधर्मेषु महाभारतम् ।

चातुर्वर्ण्यस्य धर्माश् च रक्षितव्या महीक्षिता ।
धर्मसंकररक्षा हि धर्मः सनातनः ॥ इति ।

न च वाव्यम्- स्वधर्मप्रतिष्ठादितन्त्रोपस्कारकर्तुः स्थापकादेर् वामदक्षिणाम्नायज्ञानं तदुक्तदीक्षाग्रहणपूर्वकम् एव, स्मृत्यदिशास्त्रे तथानङ्गीकारात्, [वामदक्षिणादिशास्त्रं (स्त्रस्य) च यथोक्तं स्थापकत्वादिप्रतिनियमकत्वासिद्धेः] वामदक्षिणादिशस्त्रस्य तद्विवरणदर्शनादिपूर्वं स्वात्मना निरीक्षणेनानेकविद्यास्थानोपस्कारोपस्कृतमतित्वाद् अस्य निःशेषावबोधेन हेलामात्रेण स्वप्रतिष्ठातन्त्राद्युपस्कारमात्रनिवहणाच् च । यद् अपि भारतादौ दक्षं प्रतीश्वरवाक्यम्,

भूयश् च ते वरं दद्मि ख्यातं गृह्णीष्व सुव्रत ।
प्रसन्नवदनो भूत्वा तद् इहैकमनाः शृणु ॥
वेदात् षडङ्गाद् उद्धृत्य सांख्याद् योगाच् च शक्तितः ।
तपः सुतप्तं विपुलं दुश्चरं देवदानवैः ॥
अपूर्वं सर्वतोभद्रं विश्वतोमुखम् अव्ययम् ।
अर्थैर् दशार्धैः संयुक्तं गूढम् अप्राज्ञनिन्दितम् ॥
वर्णाश्रमकृतैर् धर्मैर् विपरीतं क्वचित् समम् ।
शतान्तैर् अध्यवसितम् अन्याश्रमम् इदं स्मृतम् ॥
मया पाशुपतं पूर्वं योगम् उत्पादितं पुरा ।
अस्य चीर्णस्य सम्यग् यत् फलं भवति पुष्कलम् ॥
तच् चास्तु ते महाभाग त्यज्यतां मानसो ज्वरः ॥

इति, तन् नाश्रमिणां पाशुपतशास्त्रानुष्ठापकत्वे लिङ्गं तत्फलसाम्यमात्रस्यात्र विवक्षितत्वात् । सन्ति हि पाशुपताद्यागमेषु “अग्निष्टोमफलं लभेत्” इत्य् एवमादीनि वाक्यानि । न चैतावता तेषां तदधिकारः सिध्यति । नापि “तद् एतद् व्रतं भस्मनाङ्गानि संस्पृशेत् तस्माद् व्रतम् एतत् पाशुपतं पशुपाशविमोक्षणाय” इति अथर्वशिरौपनिषत्पाशुपतशास्त्रार्थानुष्ठापकत्वे लिङ्गम्, भस्मनाङ्गसंस्पर्शमात्रस्य नियमस्यात्र श्रवणात् । न च स्मृतौ पाशुपतादिस्पर्शे सचैल्स्नानश्रवणात् तच्छाश्त्रस्य दूष्यत्वम् आश्रमिणाम् अभिप्रेतम् इत्य् आशङ्कनीयम् । कृते सो मयागादाव् अनेकमन्त्रसंस्कृतेष्टकाचित्यसंस्पर्शने ऽपि स्नानदर्शनात् । न च चित्यस्य किं दुष्टत्वाद् उत रुद्रनिर्माल्यवद् अभ्यर्हितत्वाद् अस्पृश्यत्वम् इत्य् एतावतीं विचारपदवीम् अवगाहितुं शास्त्रैकगोचरे ऽर्थे ऽस्मादृशां मतिः क्रमत् इति केचित् । वस्तुतस् तु यथा,

चातुर्वेदो ऽपि यो विप्रो दीक्षितो न शिवाध्वरे ।
स तु शूद्रः प्रमन्तव्यो न देयं तस्य शासनम् ॥

इत्यादिना शैवादयो दीक्षाविहीनानां त्रैविद्यवृद्धानाम् अवरवर्णवद् विजुगुप्सां कुर्वन्ति, तथा,

कापालिकाः पाशुपताः शैवाश् च सह कारुकैः ।
दृष्टाश् चेद् रविम् ईक्षेत स्पृष्टाश् चेत् स्नानम् आचरेत् ॥

इति स्मृत्यन्तरदर्शनाद् अन्त्यावसायिवद् दर्शनस्पर्शनयोर् दुष्टाः शैवादिशास्त्रप्रतिपन्नाः शैवादयस् त्रैविद्यवृद्धैर् मन्यन्ते । एतद् एवोपपन्नम् । शास्त्रं हि तथा । तस्मात् पुराणादियुक्तिपर्यालोचनेनैवानुष्ठानम् आदर्तव्यम् । न च क्वचित् क्वचिद् बाह्यागमानुष्ठेयसामान्येन बाह्यागमैर् एकार्थत्वम् आशङ्कनीयम् । यत्रापि बाह्यागमानुष्ठेयसादृश्यम् इव,

अरूपाम् अनुरूपां वा सुभगां दुर्भगां तथा ।
सतीं वा असतीं वापि अङ्गानां न जुगुप्सयेत्(?) ॥

इत्यादि, तत्रापि देवीपुराणाद्युक्तदृशा दीक्षितस्यैवैते नियमा इत्य् अनुसंधेयम् । तस्माद् अदूष्यत्वेनैव शौवादि प्रमाणम् अनुष्ठेयत्वे त्व् अङ्गत्वेन केनचित् क्वचिद् अंशेनादेयं साकल्येन नानुष्ठेयम् इति स्थितम् । तत्रापि यत् पौरुषेयं न केवलम् अननुष्ठेयं तद् यावद् अप्रमाणम् अपीति हेयम् अपीति सिद्धम् । अत एवाहुर् आचार्याः ।

अनुष्ठेयं न भवति यच् छास्त्रं पुरुषैः कृतम् ।
तद् अप्रमाणं विज्ञेयं पुंबुद्धिप्रभवं हि तत् ॥

अलम् अतिप्रसङ्गेन ।

सदाचारः शिष्टाचार इत्य् उक्तम् । तत्र हि शिष्टस्वरूपम् आह बौधायनः- “शिष्टाः खलु विगतमत्सरा निरहंकाराः कुम्भीधान्याः ।
अलोलुपा दंभलोभमोहकोपविवर्जिताः ।
धर्मेणाधिगतो यैश् च वेदः सपरिबृंहणः ॥
शिष्टास् तदनुमानज्ञाः श्रुतिप्रत्यक्षहेतवः ॥ इति ।

कुम्भीधान्या इति वृत्तिसंकोचोपलक्षणपरम् ।

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।

इति मनुवचनाद् इतिहासपुराणादि वेदस्य परिबृंहणानि, अविनाभावाच् च व्याकरणादीनि । तदनुमानज्ञाः स्मृतिज्ञाः । स्मृतिर् हि तस्य वेदस्यानुमानं लिङ्गम् । श्रुतिप्रत्यक्षहेतवः श्रुतिः प्रत्यक्षहेतुर् येषां संमतस् ते तथोक्ताः । स्मृतिवचनम् आचारश् च प्रत्यक्षगामित्वात् प्रत्यक्षम् । ब्रह्मावर्तादिषु बाहुल्येन वेदमूल आचार इति मत्वा मनुर् आह ।

यस्मिन् देशे य आचारः पारम्पर्यात् समागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते ॥ इति ।

न तु ब्रह्मावर्त एव सदाचार इति मत्वा । तथा सति लोभादिमूलो ऽपि ब्रह्मावराचारो धर्मे प्रमाणं स्यात् । वेदमूलको ऽपि च देशान्तरवर्ती न स्यात् । वसिष्ठो ऽपि- “आर्यावर्ते प्राग् आदर्शात् पर्वतात् प्रत्यक् कालकाद् वनाद् उदक् पारियात्राद् दक्षिनेन हिमवन्तम् उत्तरेण विन्ध्यं ये धर्मा य आचारास् ते सर्वे प्रत्येतव्याः । न त्व् अन्ये प्रतिलोमधर्माणः” इत्य् आह । अत्रापि सर्वशब्दो बाहुल्याभिप्रायेण । न त्व् अन्ये प्रतिलोमेति, अत्रापि देशान्तरीयाः सर्वे धर्मा आचाराश् च न प्रत्येतव्याः । यतस् तेषु बाहुल्येन लोभादिपूर्वका आचाराः, केचिद् एव श्रुतिपूर्वका इति तस्यार्थे ऽनुसंधेयाः । अन्यथा देशान्तरावर्त्यसंभवाल् लोभादिमूल आचारो निर्मूलः स्यात् । मनुः ।

श्रुतिस्मृतिविरोधे तु श्रुतिर् एव गरीयसी ।
अविराधं तु कर्तव्यं स्मार्तं वैकवत् सदा ॥

वसिष्ठः- “श्रुतिस्मृतिविहितो धर्मस् तदलाभे शिटाचारः प्रमाणम्” इति । ननु यदि श्रुतिस्मृत्योर् धर्म एव प्रामाण्यं कथं तर्ह्य् आत्मज्ञानप्रधानयोः श्रुतिस्मृत्योर् धर्मप्रामाण्यनिर्वाह इति । न ह्य् आत्मज्ञानं धर्मः, अननुष्ठेयत्वात् । तत्त्वम् असीत्यादिवाक्यार्थावधारणतस् तज् ज्ञायते, न तु वाक्यार्थम् अवधार्य यागादिवद् अनुष्ठीयत इत्य् आशङ्क्याह

इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद् योगेनात्मदर्शनम् ॥ ८ ॥

इज्यादिधर्माणाम् इतिकर्तव्यतात्मनां संबन्धी परमः प्रधानबूतो ऽयं धर्मो यद् योगेन समाधिनात्मदर्शनं नाम । आत्मशब्दो ऽयं परमात्मनि वर्तते न जीवात्मनि, तस्येज्यादिकम् अन्तरेण समाधिं विनैव च प्राप्तत्वात् । “आत्मा वा अरे द्रष्टव्यः” इति तत्रोत्पत्तिविधिः । “ब्रह्मविद् आप्नोति परम्” इत्य् अधिकारविधिः । अत्र हि परशब्देन पर्मात्माभिधीयते । तदाप्तिश् च तदात्मनैव क्षेत्रज्ञस्यावस्थानम् । तत्र ब्रह्मविद् इतिपदोपात्ता ब्रह्मविद्या करणम् “विविदिषन्ति यज्ञेन दानेन तपसानाशकेन” इत्य् अत्र यज्ञेनेत्यादिश्रुतिः सकलनित्यनैमित्तिकवर्णाश्रमधर्मोपलक्षणार्थम् । अत एव विष्णुपुराणम् ।

आराध्यते स्ववर्णोक्तधर्मानुष्ठानकारिणा ।
तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर् नरैः ॥
तत्प्राप्तिहेतुर् ज्ञानं च कर्म चोक्तं महामुने ॥

तथा च वसिष्ठः ।

यथान्नं मधुसंपृक्तं मधु चाप्य् अन्नसंयुतम् ।
एवं तपश् च विध्¥आं च संयुक्तं भेषजं हि तत् ॥

इति एवमादि मत्वोक्तवान्- “इज्याचारदमाहिंसा” इति । रागप्राप्तं कर्माश्रित्य शास्त्रेण पुरुषाभ्युदयाय विधीयमानो ऽर्थ आचारः । यथा “प्राङ्मुखो ऽन्नानि भुञ्जीत तूष्णीम्” इत्यादि । मनसो दमनाम् दमः । रागप्राप्तहिंसानिवृत्तिर् अहिंसा । स्वस्वत्वनिवृत्तिः परस्वत्वापत्तिर् दानम्स्वाध्यायो ऽध्ययनम् । कर्मशब्दः काम्यव्यतिरिक्तानाम् अन्येषाम् अपि चोदितकर्मणां परिग्रहार्थः ॥ ८॥

यद् योगेनात्मदर्शनम्, न च तद्वाक्यार्थावधारणाद् एव सिध्यति । किं तु श्रवणमनननिदिध्यासनेभ्य इति कर्माधिकारिणो विदुषो ऽपि कुतस्चित् कारणाद् धर्मसंशये पर्षदधीनो निर्णय इति तां तावद् आह ।

चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यम् एव वा ।
सा ब्रूते यं स धर्मः स्याद् एको वाध्यात्मवित्तमः ॥ ९ ॥

वेदः प्रसिद्धः । धर्मो धर्मशास्त्रम् । तदर्थज्ञाश् चत्वारो धर्मनिर्णयरूपकाथकराः पर्षद् इत्य् उच्यते । ऋग्यजुःसामवेदास् त्रैविद्यम् । तेन चात्र तदध्येतारस् त्रयो ब्राह्मणा लक्ष्यन्ते । सैषा त्र्यवरा पर्षद् इत्य् आह मनुः ।

ऋग्वेदविद् यजुर्विच् च सामवेदविद् एव च ।
अवरा परिषज् ज्ञेया धर्मसंशयनिर्णये ॥

अथ वाध्यात्मविदां श्रेष्ठ एको ऽपि यम् अर्थं धर्मतया ब्रूते स एव धर्मः । आत्मानम् अधिकृत्य प्रवृत्तं शास्त्रम् अध्यात्मम् । बहूनां तद्विदां मध्ये सातिशयज्ञानो ऽध्यात्मवित्तमः । परिषत्त्वं ब्राह्मणानाम् एव प्राथमकल्पिकम् । यद् आह मनुः ।

अनाम्नातेषु धर्मेषु कथं स्याद् इति चेद् भवेत् ।
यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्याद् अशङ्कितः ॥ इति ।

अनाम्नातेषु वाक्यपाठाद् एवानिर्णीयमानेष्व् इत्य् अर्थः । अङ्गिराः ।

चातुर्विद्यो वितर्की च अङ्गविद् धर्मपाठकः ।
त्रयश् चाश्रमिणो वृद्धाः पर्षद् एषा दशावरा ॥
चतुर्णाम् अपि वर्णानां पारगा ये द्विजोत्तमाः ।
यथाक्रमं विनोपाङ्गैश् चातुर्विद्यम् इति स्मृतम् ॥
धर्मस्य पर्षदश् चैव प्रायश्चित्तकर्मस्य च ।
त्रयाणां यः प्रमाणज्ञः स वितर्की भवेद् द्विजः ॥
शब्दे छन्दसि कल्पे च शिक्षायां च सुनिष्ठितः ।
ज्योतिःशास्त्रे च कुशलः स निरुक्तो ऽअङ्गविद् भवेत् ॥
वेदविद्याव्रतस्नातः सत्यसंधो जितेन्द्रियः ।
अनेकधर्मशास्त्रज्ञः प्रोच्यते धर्मपाठकः ॥
ब्रह्मचर्याश्रमाद् ऊर्ध्वं वृद्धा आश्रमिणस् त्रयः ।
वदेयुस् तस्य ते धर्मं ते मया परिकीर्तिताः ॥

मनुस् तु,

त्रैविद्यो हेतुकस् तर्की नैरुक्तो धर्मपाठकः ।
त्रयश् चाश्रमिणः पूर्वे पर्षद् एषा दशावरा ॥

इत्य् आह । हेतुको ऽनुमानज्ञः । तर्को ऽस्यास्तीति तर्की । संशयकोटौ प्रामाणिकत्वारोपे कृते बाधकदर्शनाद् भवितव्यम् अत्र प्रमाणेनेति प्रत्ययस् तर्कः । स च वेदाविरोधी ग्राह्य इत्य् उक्तं तेनैव ।

आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस् तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ इति ।

आर्षं स्मृतिपुराणादि । उपदेशो वेदः । तद्विरोधिना वेदादि(वि)वर्जितेन तर्केण पूर्वोक्तस्वरूपेण । अनुसंधानम् उपपादना । पूर्वे गृहस्थादयः । वृद्धा वृद्धत्वोपेता हि, दशावरेति, दशभ्यो न न्यूना । अङ्गिराः ।

चत्वारो वा त्रयो वापि वेदवन्तो ऽग्निहोत्रिणः ।
ब्राह्मणाः समवायस्थाः पर्षद् इत्य् अभिधीयते ॥
अनाहिताग्नयो ये च केवलं वेदपारगाः ।
पञ्चैते वेदशास्त्रज्ञाः पर्षत्संज्ञा ह्य् उदाहृताः ॥
ये तु धर्मविदो विप्राः कार्याकार्यविचक्षणाः ।
प्रायश्चित्तप्रणेतारः सप्तैते परिकीर्तिताः ॥
एकविंशतिसंख्याकैः श्रुतिसन्न्यायपारगैः ।
वेदाङ्गकुशलैश् चैव पर्षत्त्वं तु पर्कल्पयेत् ॥
यतीनां सत्यतपसां ज्ञानविज्ञानचेतसाम् ।
शिरोव्रतेन स्नातानाम् एको ऽपि परिषद् भवेत् ॥
ये तु पूर्वं मया प्रोक्ताः स्थिता यायावरे पथि ।
त्रयो ऽपि परिषज् ज्ञेयाः सर्वपापापहारकाः ॥
एषा तु लघुकार्येषु मध्यमेषु तु मध्यमा ।
महापातकिशोध्येषु शतशो भूव एव च ॥ इति ।

यतिशास्त्रप्रसिद्धं सिरोव्रतम् । एको ऽपि परिषत् कार्यकर इत्य् अर्थः । यायावरो गृहस्थविशेषः । महापातकिनश् च ते शोध्याश् च महापातकिशोध्याः ॥ ९ ॥