१२ विषयकीर्तनम्

110 एवम् आचारतो ...{Loading}...

एवम् आचारतो दृष्ट्वा
धर्मस्य मुनयो गतिं ।
सर्वस्य तपसो मूलम्
आचारं जगृहुः परम् ॥ १.११० ॥

111 जगतश् च ...{Loading}...

जगतश् च समुत्पत्तिं
संस्कारविधिम् एव च ।
व्रतचर्योपचारं च
स्नानस्य च परं विधिम् ॥ १.१११ ॥

112 दाराधिगमनञ् चैव ...{Loading}...

दाराधिगमनं चैव
विवाहानां च लक्षणम् ।
महायज्ञविधानं च
श्राद्धकल्पं च शाश्वतम् ॥ १.११२ ॥

113 वृत्तीनां लक्षणम् ...{Loading}...

वृत्तीनां लक्षणं चैव
स्नातकस्य व्रतानि च ।
भक्ष्याभक्ष्यं च शौचं च
द्रव्याणां शुद्धिम् एव च ॥ १.११३ ॥

114 स्त्रीधर्म-योगन् तापस्यम् ...{Loading}...

स्त्रीधर्म-योगं तापस्यं
मोक्षं सन्न्यासम् एव च ।
राज्ञश् च धर्मम् अखिलं
कार्याणां च विनिर्णयम् ॥ १.११४ ॥

115 साक्षिप्रश्न-विधानञ् च ...{Loading}...

साक्षिप्रश्न-विधानं च
धर्मं स्त्री-पुंसयोर् अपि ।
विभागधर्मं द्यूतं च
कण्टकानां च शोधनम् ॥ १.११५ ॥

116 वैश्य-शूद्रोपचारञ् च ...{Loading}...

वैश्य-शूद्रोपचारं च
सङ्कीर्णानां च सम्भवम् ।
आपद्-धर्मं च वर्णानां
प्रायश्चित्त-विधिं तथा ॥ १.११६ ॥

117 संसारगमनञ् चैव ...{Loading}...

संसारगमनं चैव
त्रिविधं कर्म-सम्भवम् ।
निःश्रेयसं कर्मणां च
गुण-दोषपरीक्षणम् ॥ १.११७ ॥

118 देशधर्माञ् जातिधर्मान् ...{Loading}...

देशधर्माञ् जातिधर्मान्
कुलधर्मांश् च शाश्वतान् ।
पाषण्ड-गणधर्मांश् च
शास्त्रे ऽस्मिन्न् उक्तवान् मनुः ॥ १.११८ ॥

119 यथेदम् उक्तवाञ् ...{Loading}...

यथेदम् उक्तवाञ् शास्त्रं
पुरा पृष्टो मनुर् मया ।
तथेदं यूयम् अप्य् अद्य
मत्-सकाशान् निबोधत ॥ १.११९ ॥


  1. M G: tadāpy ↩︎

  2. MG: ukta ↩︎

  3. J G: nideśaḥ ↩︎

  4. J G: kṣatriyavaidehakādīnāṃ ↩︎

  5. J G: pākhaṇḍaṃ ↩︎

  6. G 1st ed.: ābāhya- ↩︎

  7. G: pākhaṇḍino ↩︎

  8. J omits: bāhyasmṛti- . . . vikaramasthān iti ↩︎