११ अध्ययनचोदनम्

103 विदुषा ब्राह्मणेनेदम् ...{Loading}...

विदुषा ब्राह्मणेनेदम्
अध्येतव्यं प्रयत्नतः ।
शिश्येभ्यश् च प्रवक्तव्यं
सम्यङ् नाऽन्येन केन चित् ॥ १.१०३ ॥

104 इदं शास्त्रम् ...{Loading}...

इदं शास्त्रम् अधीयानो
ब्राह्मणः शंसित-व्रतः ।
मनो-वाग्-गेहजैर् नित्यं
कर्मदोषैर् न लिप्यते ॥ १.१०४ ॥

105 पुनाति पङ्क्तिम् ...{Loading}...

पुनाति पङ्क्तिं वंश्यांश् च
सप्त-सप्त परावरान् ।
पृथिवीम् अपि चैवेमां
कृत्स्नाम् एको ऽपि सो ऽर्हति ॥ १.१०५ ॥

106 इदं स्वस्त्ययनम् ...{Loading}...

इदं स्वस्त्ययनं श्रेष्ठम्
इदं बुद्धिविवर्धनम् ।
इदं यशस्यम् आयुष्यम् इदं
निःश्रेयसं परम् [मेधातिथिपाठः - इदं यशस्यं सततम्] ॥ १.१०६ ॥

107 अस्मिन् धर्मो ...{Loading}...

अस्मिन् धर्मो ऽखिलेनोक्तो
गुण-दोषौ च कर्मणाम् ।
चतुर्णाम् अपि वर्णानाम्
आचारश् चैव शाश्वतः ॥ १.१०७ ॥

108 आचारः परमो ...{Loading}...

आचारः परमो धर्मः
श्रुत्य्-उक्तः स्मार्त एव च ।
तस्माद् अस्मिन् सदा युक्तो
नित्यं स्याद् आत्मवान् द्विजः ॥ १.१०८ ॥

109 आचाराद् विच्युतो ...{Loading}...

आचाराद् विच्युतो विप्रो
न वेदफलम् अश्नुते ।
आचारेण तु संयुक्तः
सम्पूर्णफलभाज् भवेत् [मेधातिथिपाठः - सम्पूर्णफलभाक् स्मृतः] ॥ १.१०९ ॥


  1. G 1st ed.: saṃśitavrato ↩︎

  2. M G: niḥśeṣeṇoktau (connecting with the following dual) ↩︎

  3. M G: yadi ↩︎

  4. M G: guṇapadena ↩︎

  5. M G add: ca (see DK 5: 602) ↩︎