१० ब्राह्मणज्येष्ठता

092 ऊर्ध्वन् नाभेर् ...{Loading}...

ऊर्ध्वं नाभेर् मेध्यतरः
पुरुषः परिकीर्तितः ।
तस्मान् मेध्यतमं त्व् अस्य
मुखम् उक्तं स्वयम्भुवा ॥ १.९२ ॥

093 उत्तमाङ्गोद्भवाज् ज्येष्ठ्याद् ...{Loading}...

उत्तमाङ्गोद्भवाज् ज्येष्ठ्याद्
ब्रह्मणश् चैव धारणात् [मेधातिथिपाठः - ज्यैष्ठ्याद्] ।
सर्वस्यैवाऽस्य सर्गस्य
धर्मतो ब्राह्मणः प्रभुः ॥ १.९३ ॥

094 तं हि ...{Loading}...

तं हि स्वयम्भूः स्वाद्
आस्यात् तपस् तप्त्वादितो ऽसृजत् ।
हव्य-कव्याभिवाह्याय
सर्वस्याऽस्य च गुप्तये ॥ १.९४ ॥

095 यस्यास्येन सदाश्नन्ति ...{Loading}...

यस्यास्येन सदाश्नन्ति
हव्यानि त्रिदिवौकसः ।
कव्यानि चैव पितरः
किं भूतम् अधिकं ततः ॥ १.९५ ॥

096 भूतानाम् प्राणिनः ...{Loading}...

भूतानां प्राणिनः श्रेष्ठाः
प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठा
नरेषु ब्राह्मणाः स्मृताः ॥ १.९६ ॥

097 ब्राह्मणेषु च ...{Loading}...

ब्राह्मणेषु च विद्वांसो
विद्वत्सु कृत-बुद्धयः ।
कृत-बुद्धिषु कर्तारः
कर्तृषु ब्रह्मवेदिनः ॥ १.९७ ॥

098 उत्पत्तिर् एव ...{Loading}...

उत्पत्तिर् एव विप्रस्य
मूर्तिर् धर्मस्य शाश्वती ।
स हि धर्मार्थम् उत्पन्नो
ब्रह्मभूयाय कल्पते ॥ १.९८ ॥

099 ब्राह्मणो जायमानो ...{Loading}...

ब्राह्मणो जायमानो हि
पृथिव्याम् अधिजायते ।
ईश्वरः सर्वभूतानां
धर्मकोशस्य गुप्तये ॥ १.९९ ॥

100 सर्वं स्वम् ...{Loading}...

सर्वं स्वं ब्राह्मणस्येदं
यत् किं चिज् जगतीगतं ।
श्रैष्ठ्येनाऽभिजनेनेदं
सर्वं वै ब्राह्मणो ऽर्हति ॥ १.१०० ॥

101 स्वम् एव ...{Loading}...

स्वम् एव ब्राह्मणो भुङ्क्ते
स्वं वस्ते स्वं ददाति च ।
आनृशंस्याद् ब्राह्मणस्य
भुञ्जते हीतरे जनाः ॥ १.१०१ ॥

102 तस्य कर्मविवेकार्थम् ...{Loading}...

तस्य कर्मविवेकार्थं
शेषाणाम् अनुपूर्वशः ।
स्वायम्भुवो मनुर् धीमान्
इदं शास्त्रम् अकल्पयत् ॥ १.१०२ ॥


  1. M G add: prāṇinas ↩︎

  2. G 1st ed.: ātāpe ↩︎

  3. M G 1st ed. omit; J brahmavādinaḥ ↩︎

  4. M G: śrutiḥ ↩︎

  5. M G: svakṛtyācchādane ↩︎

  6. M G 1st ed. omit: yad ↩︎

  7. M G 1st ed.: brāhmaṇaśruteḥ ↩︎