०९ वर्णकर्माणि

087 सर्वस्याऽस्य तु ...{Loading}...

सर्वस्याऽस्य तु सर्गस्य
गुप्त्य्-अर्थं स महा-द्युतिः ।
मुख-बाहूरु-पज्जानां
पृथक्कर्माण्य् अकल्पयत् ॥ १.८७ ॥

088 अध्यापनम् अध्ययनम् ...{Loading}...

अध्यापनम् अध्ययनं
यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव
ब्राह्मणानाम् अकल्पयत् ॥ १.८८ ॥

089 प्रजानां रक्षणम् ...{Loading}...

प्रजानां रक्षणं दानम्
इज्याध्ययनम् एव च ।
विषयेष्व् अप्रसक्तिश् च
क्षत्रियस्य समासतः [मेधातिथिपाठः - समादिशत्] ॥ १.८९ ॥

090 पशूनां रक्षणम् ...{Loading}...

पशूनां रक्षणं दानम्
इज्याध्ययनम् एव च ।
वणिक्पथं कुसीदं च
वैश्यस्य कृषिम् एव च ॥ १.९० ॥

091 एकम् एव ...{Loading}...

एकम् एव तु शूद्रस्य
प्रभुः कर्म समादिशत् ।
एतेषाम् एव वर्णानां
शुश्रूषाम् अनसूयया ॥ १.९१ ॥


  1. M G J: viṣayābhilāṣajanakā (I follow DK 5: 1154) ↩︎