०७ सृष्टिचक्रम्

074 तस्य सो ...{Loading}...

तस्य सो ऽहर्-निशस्याऽन्ते
प्रसुप्तः प्रतिबुध्यते ।
प्रतिबुद्धश् च सृजति
मनः सद्-असद्-आत्मकम् ॥ १.७४ ॥

075 मनः सृष्टिम् ...{Loading}...

मनः सृष्टिं विकुरुते
चोद्यमानं सिसृक्षया ।
आकाशं जायते तस्मात्
तस्य शब्दं गुणं विदुः ॥ १.७५ ॥

076 आकाशात् तु ...{Loading}...

आकाशात् तु विकुर्वाणात्
सर्वगन्धवहः शुचिः ।
बलवाञ् जायते वायुः
स वै स्पर्श-गुणो मतः ॥ १.७६ ॥

077 वायोर् अपि ...{Loading}...

वायोर् अपि विकुर्वाणाद्
विरोचिष्णु तमोनुदम् ।
ज्योतिर् उत्पद्यते भास्वत्
तद् रूप-गुणम् उच्यते ॥ १.७७ ॥

078 ज्योतिषश् च ...{Loading}...

ज्योतिषश् च विकुर्वाणाद्
आपो रस-गुणाः स्मृताः ।
अद्भ्यो गन्ध-गुणा भूमिर्
इत्य् एषा सृष्टिर् आदितः ॥ १.७८ ॥

079 यद् प्राग् ...{Loading}...

यद् प्राग् द्वादशसाहस्रम्
उदितं दैविकं युगम् ।
तद् एकसप्तति-गुणं
मन्वन्तरम् इहोच्यते ॥ १.७९ ॥

080 मन्वन्तराण्य् असङ्ख्यानि ...{Loading}...

मन्वन्तराण्य् असङ्ख्यानि
सर्गः संहार एव च ।
क्रीडन्न् इवैतत् कुरुते
परमेष्ठी पुनः पुनः ॥ १.८० ॥


  1. M G: prāg uktaṃ mahān iti ↩︎

  2. M G 1st ed. omit: vikurute viśeṣataḥ karoti ↩︎

  3. M G 1st ed.: tasmān noditād ↩︎

  4. M: kācic calanakṛtiś; G: balakṛtiś ↩︎

  5. M G 1st ed.: vāyukarmaṇaḥ ↩︎

  6. J adds: yathā ↩︎

  7. J: līlayā niṣprayojanāpi ↩︎