०६ मन्वन्तराणि कालमानञ्च

061 स्वायम्भुवस्याऽस्य मनोः ...{Loading}...

स्वायम्भुवस्याऽस्य मनोः
षड्वंश्या मनवो ऽपरे ।
सृष्टवन्तः प्रजाः स्वाः स्वा
महात्मानो महौजसः ॥ १.६१ ॥

062 स्वारोचिषश् चोत्तमश् ...{Loading}...

स्वारोचिषश् चोत्तमश् च
तामसो रैवतस् तथा ।
चाक्षुषश् च महातेजा
विवस्वत्-सुत एव च ॥ १.६२ ॥

063 स्वायम्भुवाद्याः सप्तैते ...{Loading}...

स्वायम्भुवाद्याः सप्तैते
मनवो भूरितेजसः ।
स्वे स्वे ऽन्तरे सर्वम् इदम्
उत्पाद्यापुश् चराचरम् ॥ १.६३ ॥

064 निमेषा दश ...{Loading}...

निमेषा दश चाऽष्टौ च
काष्ठा त्रिंशत् तु ताः कला ।
त्रिंशत् कला मुहूर्तः स्याद्
अहोरात्रं तु तावतः ॥ १.६४ ॥

065 अहोरात्रे विभजते ...{Loading}...

अहोरात्रे विभजते
सूर्यो मानुष-दैविके ।
रात्रिः स्वप्नाय भूतानां
चेष्टायै कर्मणाम् अहः ॥ १.६५ ॥

066 पित्र्ये रात्र्य्-अहनी ...{Loading}...

पित्र्ये रात्र्य्-अहनी मासः
प्रविभागस् तु पक्षयोः ।
कर्म-चेष्टास्व् अहः कृष्णः
शुक्लः स्वप्नाय शर्वरी ॥ १.६६ ॥

067 दैवे रात्र्य्-अहनी ...{Loading}...

दैवे रात्र्य्-अहनी वर्षं
प्रविभागस् तयोः पुनः ।
अहस् तत्रोदगयनं
रात्रिः स्याद् दक्षिणायनम् ॥ १.६७ ॥

068 ब्राह्मस्य तु ...{Loading}...

ब्राह्मस्य तु क्षपाहस्य
यत् प्रमाणं समासतः ।
एकैकशो युगानां तु
क्रमशस् तन् निबोधत ॥ १.६८ ॥

069 चत्वार्य् आहुः ...{Loading}...

चत्वार्य् आहुः सहस्राणि
वर्साणां तत् कृतं युगम् ।
तस्य तावच् छती सन्ध्या
सन्ध्यांशश् च तथाविधः ॥ १.६९ ॥

070 इतरेषु स-सन्ध्येषु ...{Loading}...

इतरेषु स-सन्ध्येषु
स-सन्ध्यांशेषु च त्रिषु ।
एकापायेन वर्तन्ते
सहस्राणि शतानि च ॥ १.७० ॥

071 यद् एतत् ...{Loading}...

यद् एतत् परिसङ्ख्यातम्
आदाव् एव चतुर्युगम् ।
एतद् द्वादशसाहस्रं
देवानां युगम् उच्यते ॥ १.७१ ॥

072 दैविकानां युगानाम् ...{Loading}...

दैविकानां युगानां तु
सहस्रं परिसङ्ख्यया ।
ब्राह्मम् एकम् अहर् ज्ञेयं
तावतीं रात्रिम् एव च [मेधातिथिपाठः - तावती रात्रिर् एव च] ॥ १.७२ ॥

073 तद् वै ...{Loading}...

तद् वै युगसहस्रान्तं
ब्राह्मं पुण्यम् अहर् विदुः ।
रात्रिं च तावतीम् एव
ते ऽहोरात्रविदो जनाः ॥ १.७३ ॥


  1. J: teṣāṃ ↩︎

  2. M G 1st ed.: atha . . . nimeṣaḥ, placed in commentary on 1.65. ↩︎

  3. J: kānena vyaktam ↩︎

  4. Textual confusion here. M G 1st ed.: pratijñākaraṇaṃ tattvajñāpanārtham (G taratva-); G 2nd ed.: pratijñānaṃ karaṇāṃtaratvajñāpanārtham ↩︎

  5. M G 1st ed.: yatrātītasya ↩︎

  6. J: tat ↩︎

  7. J G: yattadebhyaḥ ↩︎

  8. M: chlokākasya; G: ekasya ↩︎

  9. J: mānuṣyāḥ ↩︎