०४ जीवयात्रा

055 तमो ऽयम् ...{Loading}...

तमो ऽयं तु समाश्रित्य
चिरं तिष्ठति सेन्द्रियः ।
न च स्वं कुरुते कर्म
तदोत्क्रामति मूर्तितः ॥ १.५५ ॥

056 यदाणुमात्रिको भूत्वा ...{Loading}...

यदाणुमात्रिको भूत्वा
बीजं स्थास्नु चरिष्णु च ।
समाविशति संसृष्टस्
तदा मूर्तिं विमुञ्चति ॥ १.५६ ॥

057 एवं स ...{Loading}...

एवं स जाग्रत्-स्वप्नाभ्याम्
इदं सर्वं चराचरम् ।
सञ्जीवयति चाऽजस्रं
प्रमापयति चाऽव्ययः ॥ १.५७ ॥


  1. M G 1st ed.: nirupayogi; G 2nd ed.: nirupabhogayogi ↩︎

  2. J: pūrvakṛtadharmādharmavaśāt ↩︎

  3. J: nirūpabhogaṃ ↩︎