०३ लयः

052 यदा स ...{Loading}...

यदा स देवो जागर्ति
तद् एवं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा
तदा सर्वं निमीलति ॥ १.५२ ॥+++(5)+++

+++(5)+++

053 तस्मिन् स्वपिति ...{Loading}...

तस्मिन् स्वपिति तु स्वस्थे
कर्मात्मानः शरीरिणः [मेधातिथिपाठः - स्वपति] ।
स्वकर्मभ्यो निवर्तन्ते
मनश् च ग्लानिम् ऋच्छति ॥ १.५३ ॥

054 युगपत् तु ...{Loading}...

युगपत् तु प्रलीयन्ते
यदा तस्मिन् महात्मनि ।
तदायं सर्वभूतात्मा
सुखं स्वपिति निर्वृतः ॥ १.५४ ॥


  1. G: svavyāpārān niḥśaktatām ↩︎

  2.  ↩︎