०२ लोकोत्पत्तिः

005 आसीद् इदम् ...{Loading}...

आसीद् इदं तमोभूतम्
अप्रज्ञातम् अलक्षणम् ।
अप्रतर्क्यम् अविज्ञेयं
प्रसुप्तम् इव सर्वतः ॥ १.५ ॥

006 ततः स्वयम्भूर् ...{Loading}...

ततः स्वयम्भूर् भगवान्
अव्यक्तो व्यञ्जयन्न् इदम् ।
महाभूतादि वृत्तौजाः
प्रादुर् आसीत् तमोनुदः ॥ १.६ ॥

007 यो ऽसाव् ...{Loading}...

यो ऽसाव् अतीन्द्रियग्राह्यः
सूक्ष्मो ऽव्यक्तः सनातनः ।
सर्वभूतमयो ऽचिन्त्यः
स एव स्वयम् उद्बभौ [मेधातिथिपाठः - स एष] ॥ १.७ ॥

008 सो ऽभिध्याय ...{Loading}...

सो ऽभिध्याय शरीरात् स्वात्
सिसृक्षुर् विविधाः प्रजाः ।
अप एव ससर्जादौ
तासु वीर्यम् अवासृजत् ॥ १.८ ॥

009 तद् अण्डम् ...{Loading}...

तद् अण्डम् अभवद् +धैमं
सहस्रांशुसम-प्रभम् ।
तस्मिञ् जज्ञे स्वयं
ब्रह्मा सर्वलोकपितामहः ॥ १.९ ॥

010 आपो नरा ...{Loading}...

आपो नरा इति प्रोक्ता
आपो वै नरसूनवः ।
ता यद् अस्यायनं पूर्वं
तेन नारायणः स्मृतः ॥ १.१० ॥

011 यत् तत् ...{Loading}...

यत् तत् कारणम् अव्यक्तं
नित्यं सद्-असद्-आत्मकं ।
तद्-विसृष्टः स पुरुषो
लोके ब्रह्मेति कीर्त्यते ॥ १.११ ॥

012 तस्मिन्न् अण्डे ...{Loading}...

तस्मिन्न् अण्डे स भगवान्
उषित्वा परिवत्सरम् ।
स्वयम् एवात्मनो ध्यानात्
तद् अण्डम् अकरोद् द्विधा ॥ १.१२ ॥

013 ताभ्यां स ...{Loading}...

ताभ्यां स शकलाभ्यां च
दिवं भूमिं च निर्ममे ।
मध्ये व्योम दिशश् चाऽष्टाव्
अपां स्थानं च शाश्वतं ॥ १.१३ ॥

014 उद्बबर्हात्मनश् चैव ...{Loading}...

उद्बबर्हात्मनश् चैव
मनः सद्-असद्-आत्मकम् ।
मनसश् चाऽप्य् अहङ्कारम्
अभिमन्तारम् ईश्वरम् [मेधातिथिपाठः - अहङ्कारम्] ॥ १.१४ ॥

015 महान्तम् एव ...{Loading}...

महान्तम् एव चात्मानं
सर्वाणि त्रि-गुणानि च ।
विषयाणां ग्रहीतॄणि
शनैः पञ्चेन्द्रियाणि च ॥ १.१५ ॥

016 तेषान् त्व् ...{Loading}...

तेषां त्व् अवयवान् सूक्ष्मान्
षण्णाम् अप्य् अमितौजसाम् ।
सन्निवेश्यात्ममात्रासु
सर्वभूतानि निर्ममे [मेधातिथिपाठः - सन्निवेश्य] ॥ १.१६ ॥

017 यन् मूर्त्य्-अवयवाः ...{Loading}...

यन् मूर्त्य्-अवयवाः सूक्ष्मास्
तानीमान्य् आश्रयन्ति षट् ।
तस्माच् छरीरम् इत्य् आहुस्
तस्य मूर्तिं मनीषिणः ॥ १.१७ ॥

018 तद् आविशन्ति ...{Loading}...

तद् आविशन्ति भूतानि
महान्ति सह कर्मभिः ।
मनश् चाऽवयवैः सूक्ष्मैः
सर्वभूतकृद् अव्ययम् ॥ १.१८ ॥

019 तेषाम् इदम् ...{Loading}...

तेषाम् इदं तु सप्तानां
पुरुषाणां महौजसाम् ।
सूक्ष्माभ्यो मूर्तिमात्राभ्यः
सम्भवत्य् अव्ययाद् व्ययम् ॥ १.१९ ॥

020 आद्याद्यस्य गुणम् ...{Loading}...

आद्याद्यस्य गुणं त्व् एषाम्
अवाप्नोति परः परः ।
यो यो यावतिथश् चैषां
स स तावद् गुणः स्मृतः ॥ १.२० ॥

021 सर्वेषान् तु ...{Loading}...

सर्वेषां तु स नामानि
कर्माणि च पृथक् पृथक् ।
वेदशब्देभ्य एवादौ
पृथक् संस्थाश् च निर्ममे ॥ १.२१ ॥

022 कर्मात्मनाञ् च ...{Loading}...

कर्मात्मनां च देवानां
सो ऽसृजत् प्राणिनां प्रभुः ।
साध्यानां च गणं सूक्ष्मं
यज्ञं चैव सनातनम् ॥ १.२२ ॥

023 अग्नि-वायु-रविभ्यस् तु ...{Loading}...

अग्नि-वायु-रविभ्यस् तु
त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्य्-अर्थम्
ऋग्-यजुः-साम-लक्षणम् ॥ १.२३ ॥

024 कालङ् कालविभक्तीश् ...{Loading}...

कालं कालविभक्तीश् च
नक्षत्राणि ग्रहांस् तथा ।
सरितः सागराञ् शैलान्
समानि विषमानि च ॥ १.२४ ॥

025 तपो वाचम् ...{Loading}...

तपो वाचं रतिं चैव
कामं च क्रोधम् एव च ।
सृष्टिं ससर्ज चैवेमां
स्रष्टुम् इच्छन्न् इमाः प्रजाः ॥ १.२५ ॥

026 कर्मणाञ् च ...{Loading}...

कर्मणां च विवेकार्थं
धर्माधर्मौ व्यवेचयत् [क्:विवेकाय] ।
द्वन्द्वैर् अयोजयच् चेमाः
सुख-दुःखादिभिः प्रजाः ॥ १.२६ ॥

027 अण्व्यो मात्रा ...{Loading}...

अण्व्यो मात्रा विनाशिन्यो
दशार्धानां तु याः स्मृताः ।
ताभिः सार्धम् इदं सर्वं
सम्भवत्य् अनुपूर्वशः ॥ १.२७ ॥

028 यन् तु ...{Loading}...

यं तु कर्मणि यस्मिन् स
न्ययुङ्क्त प्रथमं प्रभुः ।
स तद् एव स्वयं भेजे
सृज्यमानः पुनः पुनः ॥ १.२८ ॥

029 हिंस्राहिंस्रे मृदु-क्रूरे ...{Loading}...

हिंस्राहिंस्रे मृदु-क्रूरे
धर्माधर्माव् ऋतानृते ।
यद् यस्य सो ऽदधात् सर्गे
तत् तस्य स्वयम् आविशत् ॥ १.२९ ॥

030 यथा र्तु-लिङ्गान्य् ...{Loading}...

यथा र्तु-लिङ्गान्य् ऋतवः
स्वयम् एव र्तुपर्यये ।
स्वानि स्वान्य् अभिपद्यन्ते
तथा कर्माणि देहिनः ॥ १.३० ॥

031 लोकानान् तु ...{Loading}...

लोकानां तु विवृद्ध्य्-अर्थं
मुख-बाहूरु-पादतः ।
ब्राह्मणं क्षत्रियं वैश्यं
शूद्रं च निरवर्तयत् ॥ १.३१ ॥

032 द्विधा कृत्वात्मनो ...{Loading}...

द्विधा कृत्वात्मनो देहम्
अर्धेन पुरुषो ऽभवत् ।
अर्धेन नारी तस्यां स
विराजम् असृजत् प्रभुः ॥ १.३२ ॥

033 तपस् तप्त्वासृजद् ...{Loading}...

तपस् तप्त्वासृजद् यं तु
स स्वयं पुरुषो विराट् ।
तं मां वित्ताऽस्य सर्वस्य
स्रष्टारं द्विजसत्तमाः ॥ १.३३ ॥

034 अहम् प्रजाः ...{Loading}...

अहं प्रजाः सिसृक्षुस् तु
तपस् तप्त्वा सु-दुश्चरम् ।
पतीन् प्रजानाम् असृजं
महर्षीन् आदितो दश ॥ १.३४ ॥

035 मरीचिम् अत्र्य्-अङ्गिरसौ ...{Loading}...

मरीचिम् अत्र्य्-अङ्गिरसौ
पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठं च
भृगुं नारदम् एव च ॥ १.३५ ॥

036 एते मनूंस् ...{Loading}...

एते मनूंस् तु सप्तान् यान्
असृजन् भूरितेजसः ।
देवान् देवनिकायांश् च
महर्षींश् चाऽमितौजसः ॥ १.३६ ॥

037 यक्ष-रक्षः-पिशाचांश् च ...{Loading}...

यक्ष-रक्षः-पिशाचांश् च
गन्धर्वाप्सरसो ऽसुरान् ।
नागान् सर्पान् सुपर्णांश् च
पितॄणांश् च पृथग्गणम् [मेधातिथिपाठः - पितॄणां] ॥ १.३७ ॥

038 विद्युतो ऽशनि-मेघांश् ...{Loading}...

विद्युतो ऽशनि-मेघांश् च
रोहितेन्द्रधनूंषि च ।
उल्कानिर्घात-केतूंश् च
ज्योतींष्य् उच्चावचानि च ॥ १.३८ ॥

039 किन्नरान् वानरान् ...{Loading}...

किन्नरान् वानरान् मत्स्यान्
विविधांश् च विहङ्गमान् ।
पशून् मृगान् मनुष्यांश् च
व्यालांश् चोभयतोदतः ॥ १.३९ ॥

040 कृमि-कीट-पतङ्गांश् च ...{Loading}...

कृमि-कीट-पतङ्गांश् च
यूका-मक्षिक-मत्कुणम् ।
सर्वं च दंश-मशकं
स्थावरं च पृथग्विधम् ॥ १.४० ॥

041 एवम् एतैर् ...{Loading}...

एवम् एतैर् इदं सर्वं
मन्-नियोगान् महात्मभिः ।
यथाकर्म तपोयोगात्
सृष्टं स्थावर-जङ्गमम् ॥ १.४१ ॥

042 येषान् तु ...{Loading}...

येषां तु यादृषं कर्म
भूतानाम् इह कीर्तितम् ।
तत् तथा वो ऽभिधास्यामि
क्रमयोगं च जन्मनि ॥ १.४२ ॥

043 पशवश् च ...{Loading}...

पशवश् च मृगाश् चैव
व्यालाश् चोभयतोदतः ।
रक्षांसि च पिशाचाश् च
मनुष्याश् च जरायुजाः [मेधातिथिपाठः - मनुषाश् च] ॥ १.४३ ॥

044 अण्डाजाः पक्षिणः ...{Loading}...

अण्डाजाः पक्षिणः सर्पा
नक्रा मत्स्याश् च कच्छपाः ।
यानि चैवमेधातिथिपाठः - प्रकाराणि
स्थलजान्य् औदकानि च ॥ १.४४ ॥

045 स्वेदजन् दंश-मशकम् ...{Loading}...

स्वेदजं दंश-मशकं
यूका-मक्षिक-मत्कुणम् ।
ऊष्मणश् चोपजायन्ते
यच् चाऽन्यत् किं चिद् ईदृषम् ॥ १.४५ ॥

046 उद्भिज्जाः स्थावराः ...{Loading}...

उद्भिज्जाः स्थावराः सर्वे
बीज-काण्डप्ररोहिणः ।
ओषध्यः फलपाकान्ता
बहु-पुष्प-फलोपगाः ॥ १.४६ ॥

047 अपुष्पाः फलवन्तो ...{Loading}...

अपुष्पाः फलवन्तो ये
ते वनस्पतयः स्मृताः ।
पुष्पिणः फलिनश् चैव
वृक्षास् तूभयतः स्मृताः ॥ १.४७ ॥

048 गुच्छ-गुल्मन् तु ...{Loading}...

गुच्छ-गुल्मं तु विविधं
तथैव तृणजातयः ।
बीज-काण्डरुहाण्य् एव
प्रताना वल्ल्य एव च ॥ १.४८ ॥

049 तमसा बहु-रूपेण ...{Loading}...

तमसा बहु-रूपेण
वेष्टिताः कर्महेतुना ।
अन्तः-सञ्ज्ञा भवन्त्य् एते
सुख-दुःख-समन्विताः ॥ १.४९ ॥

050 एतद्-अन्तास् तु ...{Loading}...

एतद्-अन्तास् तु गतयो
ब्रह्माद्याः समुदाहृताः ।
घोरे ऽस्मिन् भूतसंसारे
नित्यं सततयायिनि ॥ १.५० ॥

051 एवं सर्वम् ...{Loading}...

एवं सर्वं स सृष्ट्वेदं
मां चाऽचिन्त्य-पराक्रमः ।
आत्मन्य् अन्तर्दधे भूयः
कालं कालेन पीडयन् ॥ १.५१ ॥


  1. M G: tamasas ↩︎

  2. M G: tamasas ↩︎

  3. M G: tamaḥkarmaṇā ↩︎

  4. G J: ‘hy (ahi here makes no sense. Probably a typo of G followed by J; I follow Mandlik’s reading) ↩︎

  5. J: sarvaprakāram ↩︎

  6. M G: kasya ↩︎

  7. M G 1st ed.: vṛttādyātmanā ↩︎

  8. J: atīto ↩︎

  9. M J: prayatnena; but the commentary clearly presupposes “prasannena”. ↩︎

  10. G 1st ed: svaṃ tasya ↩︎

  11. M: svataḥ svaśarīra- ↩︎

  12. G 1st ed.: śuddhasāmānyāt ↩︎

  13. MG: jāto jajñe ↩︎

  14. M G 1st ed.: bhaved ↩︎

  15. M G: omit: bhṛgor apatyāni ↩︎

  16. M: bhagavatastā ↩︎

  17. J: ityādy ↩︎

  18. M G 1st ed.: ity uktvā ↩︎

  19. M G 1st ed. omit: sadasadātmakam | sac cāsac ca sadasatī | te ātmā svabhāvo yasya tad evam ucyate | kathaṃ punar ekasya ↩︎

  20. M G 1st ed.: viruddhasya ↩︎

  21. G 1st ed.: pratipattṛṇi abhedād; J: patipattṛbhedād ↩︎

  22. M G: viśeṣas ↩︎

  23. J: piṇḍaḥ kāryaṃ ↩︎

  24. J: manoś ca vacaniyaṃ ↩︎

  25. J: yad ↩︎

  26. J: nirvartayed ↩︎

  27. J places tasminn aṇḍe sthita utpannaḥ sarvajñaḥ kathaṃ nirgaccheyam iti dhyātavān, after paripacyate. ↩︎

  28. G 2nd ed.: bhedaṃ jātam ↩︎

  29. M: śakalam aṇḍakapāle; J: śakalam aṇḍakapālam ↩︎

  30. M J: compounds tat with the following pradhānāt ↩︎

  31. M G 1st ed.: -ānurūpam ↩︎

  32. M G 1st ed.: nāma ↩︎

  33. J: saṃhatya ↩︎

  34. M G: evātmamātrās tadvikārāḥ ↩︎

  35. M G 1st ed.: atha yāvat ↩︎

  36. J: prakṛtir ↩︎

  37. M G 1st ed.: ca tāni ↩︎

  38. M G 1st ed.: yadādyantavat ↩︎

  39. M G J: tasyārthasyāyaṃ (I follow DK 5: 87) ↩︎

  40. M G omit: na ↩︎

  41. M: śarīratvasamudāyarūpam; G 1st ed: śarīraṃ ca samudāyarūpam ↩︎

  42. G: evaṃ na; 1st ed. adds na in parentheses with a question mark (na ?) ↩︎

  43. M: abhiratāḥ; G: (na) abhiratāḥ ↩︎

  44. J: pratibho ↩︎

  45. M G 1st ed.: itihāsadarśanā | ataś; G 2nd ed.: itihāsadarśanāś ↩︎

  46. M G J: kimartham (I follow DK 5:88) ↩︎

  47. M G 1st ed. omit: na ↩︎

  48. M G: manasaḥ paritoṣam ↩︎

  49. M G J: kathitāny atrāpādana- (I follow DK 5.88) ↩︎

  50. J: tat ma vyasthānatvād ↩︎

  51.  ↩︎
  52.  ↩︎
  53.  ↩︎
  54.  ↩︎
  55.  ↩︎
  56.  ↩︎
  57. M G: kartṛphalaṃ ↩︎ ↩︎

  58. M G 1st ed. : etad api śāstrād ↩︎ ↩︎

  59. M G 1st ed.: anāyāsam ↩︎

  60. M G: tatkarmasaṃsṛṣṭaḥ ↩︎

  61. M G: sarvo hi svakṛtāv api ↩︎

  62. M G J: sṛṣṭir (I follow the suggestion of DK 5: 1153) ↩︎

  63. DK (5: 1153): bhāti ↩︎

  64. DK (5: 1153) suggests: brāhmaṇādiṃ svamukhādyavayavebhyo ↩︎

  65. DK (5: 1153): tattebhya ↩︎

  66. M G 1st ed.: paśurūpaṃ ↩︎

  67. J adds: marīcim iti ↩︎

  68. J: chadmanā ↩︎

  69. G 1st ed.: meghodaraṃ dṛśyaṃ ↩︎

  70. J: śalabhādayaḥ ↩︎

  71. J omits: pratyaya ↩︎

  72. J adds: rakṣaṇād vā ↩︎

  73. J: hetuṃ ↩︎

  74. M G omit ↩︎

  75. M G: antaḥsaṃjñā ↩︎

  76. M G: taccharīra- ↩︎

  77. J: gamanaśīle ↩︎

  78. J omits: sve ’ntare ↩︎