०१ ऋषिप्रश्नः

001 मनुम् एकाग्रम् ...{Loading}...

मनुम् एकाग्रम् आसीनम्
अभिगम्य महर्षयः ।
प्रतिपूज्य यथान्यायम्
इदं वचनम् अब्रुवन् ॥ १.१ ॥

002 भगवन् सर्ववर्णानाम् ...{Loading}...

भगवन् सर्ववर्णानां
यथावद् अनुपूर्वशः ।
अन्तरप्रभवानां च
धर्मान् नो वक्तुम् अर्हसि ॥ १.२ ॥

003 त्वम् एको ...{Loading}...

त्वम् एको ह्य् अस्य सर्वस्य
विधानस्य स्वयम्भुवः ।
अचिन्त्यस्याऽप्रमेयस्य
कार्यतत्त्वार्थवित् प्रभो ॥ १.३ ॥

004 स तैः ...{Loading}...

स तैः पृष्टस् तथा सम्यग्
अमितौजा महात्मभिः ।
प्रत्युवाचाऽर्च्य तान् सर्वान्
महर्षीञ् श्रूयताम् इति ॥ १.४ ॥


  1. M G: ye ↩︎

  2. J : vaidehaka ↩︎

  3.  ↩︎
  4. M: abhayaṃ ↩︎

  5. M oits:. āhavanīyasya … mantrasya; G 1st ed. has the same omission, but corrected in the 2nd ed. ↩︎

  6. J: sauryacarau ↩︎

  7. M: avagamayati ↩︎

  8. Here numerous variants: M, G (1st ed.): -mūlatvāt | śabdodayo ‘pi śabdābhidhānataḥ; G (2nd ed.) : -mūlatvāt | ubhāv api śabdādayo ‘pi śabdād abhidhānataḥ (ca) pratīyate; ↩︎

  9. M G (1st ed.): anyato ↩︎

  10. M: etāvān vedasya ↩︎

  11. G: ‘rtho vastu | iti ↩︎

  12. G: -rūpī ↩︎

  13. G 1st ed.: loke na tv eva nābhyupagamyate ↩︎