११

[Only a limited number of verses of this chapter are given in the DK, as noted]

अथ एकादशतमो ऽध्यायः

सान्तानिकं यक्ष्यमाणम् अध्वगं सार्ववेदसम् ।
गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्य् उपतापिनः ॥ ११.१ ॥
न वै तान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् ।
निःस्वेभ्यो देयम् एतेभ्यो दानं विद्याविशेषतः ॥ ११.२ ॥

एतेभ्यो हि द्विजाग्रेभ्यो देयम् अन्नं सदक्षिणम् ।
इतरेभ्यो बहिर् वेदि कृतान्नं देयम् उच्यते ॥ ११.३ ॥

सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् ।
ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ॥ ११.४ ॥

कृतदारो ऽपरान् दारान् भिक्षित्वा यो ऽधिगच्छति ।
रतिमात्रं फलं तस्य द्रव्यदतुस् तु संततिः ॥ ११.५ ॥

धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् ।
वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते ॥ ११.६ ॥
यस्य त्रैवारिषिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं वापि विद्येत स सोमं पातुम् अर्हति ॥ ११.७ ॥

अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः ।
स पीतसोमपूर्वो ऽपि न तस्याप्नोति तत्फलम् ॥ ११.८ ॥

शक्तः परजने दाता स्वजने दुःखजीविनि ।
मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ॥ ११.९ ॥

भृत्यानाम् उपरोधेन यत् करोत्य् और्ध्वदेहिकम् ।
तद् भवत्य् असुखोदर्कं जीवतश् च मृतस्य च ॥ ११.१० ॥

यज्ञश् चेत् प्रतिरुद्धः स्याद् एकेनाङ्गेन यज्वनः ।
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥ ११.११ ॥
यो वैश्यः स्याद् बहुपशुर् हीनक्रतुर् असोमपः ।
कुटुम्बात् तस्य तद् द्रव्यम् आहरेद् यज्ञसिद्धये ॥ ११.१२ ॥

आहरेत् त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः ।
न हि शूद्रस्य यज्ञेषु कश्चिद् अस्ति परिग्रहः ॥ ११.१३ ॥

यो ऽनाहिताग्निः शतगुर् अयज्वा[^१८]** च सहस्रगुः ।**
तयोर् अपि कुटुम्बाभ्याम् आहरेद् अविचारयन् ॥ ११.१४ ॥

आदाननित्याच् चादातुर् आहरेद् अप्रयच्छतः ।
तथा यशो ऽस्य प्रथते धर्मश् चैव प्रवर्धते ॥ ११.१५ ॥

तथैव सप्तमे भक्ते भक्तानि षड् अनश्नता ।
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ ११.१६ ॥

खलात् क्षेत्राद् अगाराद् वा यतो वाप्य् उपलभ्यते ।
आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ॥ ११.१७ ॥

ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदाचन ।
दस्युनिष्क्रिययोस् तु स्वम् अजीवन् हर्तुम् अर्हति ॥ ११.१८ ॥

यो ऽसाधुभ्यो ऽर्थम् आदाय साधुभ्यः संप्रयच्छति ।
स कृत्वा प्लवम् आत्मानं संतारयति ताव् उभौ ॥ ११.१९ ॥

यद् धनं यज्ञशीलानां देवस्वं तद् विदुर् बुधाः ।
अयज्वनां तु यद् वित्तम् आसुरस्वं तद् उच्यते ॥ ११.२० ॥

न तस्मिन् धारयेद् दण्डं धार्मिकः पृथिवीपतिः ।
क्षत्रियस्य हि बालिश्याद् ब्राह्मणः सीदति क्षुधा ॥ ११.२१ ॥

तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान् महीपतिः ।
श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् ॥ ११.२२ ॥

कल्पयित्वास्य वृत्तिं च रक्षेद् एनं समन्ततः ।
राजा हि धर्मषड्भागं तस्मात् प्राप्नोति रक्षितात् ॥ ११.२३ ॥

न यज्ञार्थं धनं शूद्रद् विप्रो भिक्षेत कर्हिचित् ।
यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥ ११.२४ ॥

यज्ञार्थम् अर्थं भिक्षित्वा यो न सर्वं प्रयच्छति ।
स याति भासतां विप्रः काकतां वा सतं समाः ॥ ११.२५ ॥

देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः ।
स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥ ११.२६ ॥

इष्टिं वैश्वानरीं नित्यं निर्वपेद् अब्दपर्यये ।
कॢप्तानां पशुसोमानाम् निष्कृत्यर्थम् असंभवे ॥ ११.२७ ॥

आपत्कल्पेन यो धर्मं कुरुते ऽनापदि द्विजः ।
स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥ ११.२८ ॥

विश्वैश् च देवैः साध्यैश् च ब्राह्मणैश् च महर्षिभिः ।
आपत्सु मरणाद् भीतैर् विधेः प्रतिनिधिः कृतः ॥ ११.२९ ॥

प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तते ।
न साम्परायिकं तस्य दुर्मतेर् विद्यते फलम् ॥ ११.३० ॥

न ब्राह्मणो वेदयेत किंचिद् राजनि धर्मवित् ।
स्ववीर्येणैव तान् शिष्यान् मानवान् अपकारिणः ॥ ११.३१ ॥

स्ववीर्याद् राजवीर्याच् च स्ववीर्यं बलवत्तरम् ।
तस्मात् स्वेनैव वीर्येण निगृह्णीयाद् अरीन् द्विजः ॥ ११.३२ ॥

श्रुतीर् अथर्वाङ्गिरसीः कुर्याद् इत्य् अविचारयन् ।
वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्याद् अरीन् द्विजः ॥ ११.३३ ॥

**क्षत्रियो बाहुवीर्येण तरेद् आपदम् आत्मनः । **
धनेन वैश्यशूद्रौ तु जपहोमैर् द्विजोत्तमः ॥ ११.३४ ॥

विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते ।
तस्मै नाकुशलं ब्रूयान् न शुष्कां गिरम् ईरयेत् ॥ ११.३५ ॥

न वै कन्या न युवतिर् नाल्पविद्यो न बालिशः ।
होता स्याद् अग्निहोत्रस्य नार्तो नासंस्कृतस् तथा ॥ ११.३६ ॥

नरके हि पतन्त्य् एते जुह्वतः स च यस्य तत् ।
तस्माद् वैतानकुशलो होता स्याद् वेदपारगः ॥ ११.३७ ॥

प्राजापत्यम् अदत्वाश्वम् अग्न्याधेयस्य दक्षिणाम् ।
अनाहिताग्निर् भवति ब्राह्मणो विभवे सति ॥ ११.३८ ॥

पुण्यान्य् अन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।
न त्व् अल्पदक्षिणैर् यज्ञैर् यजेतेह कथंचन ॥ ११.३९ ॥

इन्द्रियाणि यशः स्वर्गम् आयुः कीर्तिं प्रजाः पशून् ।
हन्त्य् अल्पदक्षिणो यज्ञस् तस्मान् नाप्लधनो यजेत् ॥ ११.४० ॥

अग्निहोत्र्य् अपविध्याग्नीन् ब्राह्मणः कामकारतः ।
चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ॥ ११.४१ ॥

ये शूद्राद् अधिगम्यार्थम् अग्निहोत्रम् उपासते ।
ऋत्विजस् ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ॥ ११.४२ ॥

तेषां सततम् अज्ञानां वृषलाग्न्युपसेविनाम् ।
पदा मस्तकम् आक्रम्य दाता दुर्गाणि संतरेत् ॥ १०.४३ ॥

अकुर्वन् विहितं कर्म निन्दितं च समाचरन् ।
प्रसञ्जन् इन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥ १०.४४ ॥

अकामतः कृते पापे प्रायश्चित्तं विदुर् बुधाः ।
कामकारकृते ऽप्य् आहुर् एके श्रुतिनिदर्शनात् ॥ ११.४५ ॥

अकामतः कृतां पापं वेदाभ्यासेन शुद्ध्यति ।
कामतस् तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः ॥ ११.४६ ॥

प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेन वा ।
न संसर्गं व्रजेत् सद्भिः प्रायश्चित्ते ऽकृते द्विजः ॥ ११.४७ ॥

इह दुश्चरितैः केचित् केचित् पूर्वकृतैस् तथा ।
प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥ ११.४८ ॥

सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् ।
ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ॥ ११.४९ ॥
पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् ।
धान्यचौरो ऽङ्गहीनत्वम् आतिरैक्यं[^६५]** तु मिश्रकः ॥ ११.५० ॥**
अन्नहर्तामयावित्वं मौक्यं वागपहरकः ।
वस्त्रापहारकः श्वैत्र्यं पङ्गुताम् अश्वहारकः ॥ ११.५१ ॥
एवं कर्मविशेषेण जयन्ते सद्विगर्हिताः ।
जडमूकान्धबधिरा विकृताकृतयस् तथा ॥ ११.५२ ॥

चरितव्यम् अतो नित्यं प्रायश्चित्तं विशुद्धये ।
निन्द्यैर् हि लक्षणैर् युक्ता जायन्ते ऽनिष्कृतैनसः ॥ ११.५३ ॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
महान्ति पातकान्य् आहुः संसर्गश् चापि तैः सह ॥ ११.५४ ॥

अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।
गुरोश् चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ ११.५५ ॥

ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः ।
गर्हितानाद्ययोर् जग्धिः सुरापानसमानि षट् ॥ ११.५६ ॥

निक्षेपस्यापहरणं नराश्वरजतस्य च ।
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥ ११.५७ ॥

रेतःसेकः स्वयोनीषु कुमारीष्व् अन्त्यजासु च ।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ ११.५८ ॥

गोवधो ऽयाज्यसंयाज्यं[^८१]** पारदार्यात्मविक्रयाः ।**
गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥ ११.५९ ॥

परिवित्तितानुजे ऽनूढे परिवेदनम् एव च ।
तयोर् दानं च कन्यायास् तयोर् एव च याजनम् ॥ ११.६० ॥

कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् ।
तडागारामदाराणाम् अप्तयस्य च विक्रयः ॥ ११.६१ ॥

व्रात्यता बान्धवत्यागो भृत्याध्यापनम् एव च ।
भृताच् चाध्ययनादानम् अपण्यानां च विक्रयः ॥ ११.६२ ॥

सर्वाकरेष्व् अधीकारो महायन्त्रप्रवर्तनम् ।
हिंसौषधीनां स्त्र्याजीवो ऽभिचारो मूलकर्म च ॥ ११.६३ ॥

इन्धनार्थम् अशुष्काणां द्रुमाणाम् अवपातनम् ।
आत्मार्थं च क्रियारम्भो निन्दतान्नादनं तथा ॥ ११.६४ ॥

अनाहितागिनिता स्तेयम् ऋणानाम् अनपक्रिया ।
असच्छास्त्राधिगमनं कौशीलव्यस्य च क्रिया ॥ ११.६५ ॥

धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् ।
स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ॥ ११.६६ ॥

ब्राह्मणस्य रुजःकृत्यं घ्रातिर् अघ्रेयमद्ययोः ।
जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ॥ ११.६७ ॥

खराश्वोष्ट्रमृगेभानाम् अजाविकवधस् तथा ।
संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥ ११.६८ ॥

निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ।
अपात्रीकरणं ज्ञेयम् असत्यस्य च भाषणम् ॥ ११.६९ ॥

कृमिकीटवयोहत्या मद्यानुगतभोजनम् ।
फलैधःकुसुमस्तेयम् अधैर्यं च मलावहम् ॥ ११.७० ॥

एतान्य् एनांसि सर्वाणि यथोक्तानि पृथक् पृथक् ।
यैर् यैर् व्रतैर् अपोह्यन्ते तानि सम्यङ् निबोधत ॥ ११.७१ ॥

ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् ।
भैक्षाश्य् आत्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् ॥ ११.७२ ॥

लक्ष्यं शस्त्रभृतां वा स्याद् विदुषाम् इच्छयात्मनः ।
प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्शिराः ॥ ११.७३ ॥

यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा ।
अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ॥ ११.७४ ॥

जपन् वान्यतमं वेदं योजनानां सतं व्रजेत् ।
ब्रह्महत्यापनोदाय मितभुङ् नियतेन्द्रियः ॥ ११.७५ ॥

सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् ।
धनं हि101** जीवनायालं गृहं वासः परिच्छदम् ॥ ११.७६ ॥**

हविष्यभुग् वानुसरेत् प्रतिस्रोतः सरस्वतीम् ।
जपेद् वा नियताहारस् त्रिर् वै वेदस्य संहिताम् ॥ ११.७७ ॥

कृतवापनो निवसेद् ग्रामान्ते गोव्रजे ऽपि वा ।
आश्रमे वृक्षमूले वा गोब्राःमणहिते रतः ॥ ११.७८ ॥

ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान् परित्यजेत् ।
मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ॥ ११.७९ ॥

त्र्यवरं[^१०९]** प्रतिरोद्धा वा सर्वस्वम् अवजित्य वा ।**
विप्रस्य तन्निमित्ते वा प्राणालाभे ऽपि मुच्यते ॥ ११.८० ॥

एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः ।
समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ ११.८१ ॥

शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे ।
स्वम् एनो ऽवभृथस्नातो हयमेधे विमुच्यते ॥ ११.८२ ॥

धर्मस्य ब्राह्मणो मूलम् अग्रं राजन्य उच्यते ।
तस्मात् समागमे तेषाम् एनो विख्याप्य शुध्यति ॥ ११.८३ ॥

ब्राह्मणः संभवेनैव देवानाम् अपि दैवतम् ।
प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ॥ ११.८४ ॥

तेषां वेदविदो ब्रूयुस् त्रयो ऽप्य् एनः सुनिष्कृतिम् ।
सा तेषां पावनाय स्यात् पवित्रं विदुषां हि वाक् ॥ ११.८५ ॥

अतो ऽन्यतमम् आस्थाय विधिं विप्रः समाहितः ।
ब्रह्महत्याकृतं पापं व्यपोहत्य् आत्मवत्तया ॥ ११.८६ ॥

हत्वा गर्भम् अविज्ञातम् एतद् एव व्रतं चरेत् ।
राजन्यवैश्यौ चेजानाव् आत्रेयीम् एव च स्त्रियम् ॥ ११.८७ ॥

उक्त्वा चैवानृतं साक्ष्ये प्रतिरभ्य गुरुं तथा ।
अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥ ११.८८ ॥

इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥ ११.८९ ॥

सुरां पीत्वा द्विजो मोहाद् अग्निवर्णां सुरां पिबेत् ।
तया स काये निर्दग्धे मुच्यते किल्बिषात् ततः ॥ ११.९० ॥

गोमूत्रम् अग्निवर्णं वा पिबेद् उदकम् एव वा ।
पयो घृतं वामरणाद् गोशकृद्रसम् एव वा ॥ ११.९१ ॥

कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृन् निशि ।
सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥ ११.९२ ॥

सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते ।
तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत् ॥ ११.९३ ॥

गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ ११.९४ ॥

यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् ।
तद् ब्राह्मणेन नात्तव्यं देवानाम् अश्नता हविः ॥ ११.९५ ॥

अमेध्ये वा पतेन् मत्तो वैदिकं वाप्य् उदाहरेत् ।
अकार्यम् अन्यत् कुर्याद् वा ब्राह्मणो मदमोहितः ॥ ११.९६ ॥

यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ।
तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥ ११.९७ ॥

एषा विचित्राभिहिता सुरापानस्य निष्कृतिः ।
अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ॥ ११.९८ ॥

सुवर्णस्तेयकृद् विप्रो राजानम् अभिगम्य तु ।
स्वकर्म ख्यापयन् ब्रूयान् मां भवान् अनुशास्त्व् इति ॥ ११.९९ ॥

गृहीत्वा मुसलं राजा सकृद् धन्यात् तु तं स्वयम् ।
वधेन शुध्यति स्तेनो ब्राह्मणस् तपसैव तु ॥ ११.१०० ॥

तपसापनुनुत्सुस् तु सुवर्णस्तेयजं मलम् ।
चीरवासा द्विजो ऽरण्ये चरेद् ब्रह्महणो व्रतम् ॥ ११.१०१ ॥

एतैर् व्रतैर् अपोहेत पापं स्तेयकृतं द्विजः ।
गुरुस्त्रीगमनीयं तु व्रतैर् एभिर् अपानुदेत् ॥ ११.१०२ ॥

गुरुतल्पो[^१४१]** ऽभिभाष्यैनस् तल्पे**[^१४२]** स्वप्याद् अयोमये ।**
सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् मृत्युना स विशुध्यति ॥ ११.१०३ ॥

स्वयं वा शिश्नवृषणाव् उत्कृत्याधाय चाञ्जलौ ।
नैरृतीं दिशम् आतिष्ठेद् आ निपाताद् अजिह्मगः ॥ ११.१०४ ॥

खट्वङ्गी चीरवासा वा श्मश्रुलो विजने वने ।
प्राजापत्यं चरेत् कृच्छ्रम् अब्दम् एकं समाहितः ॥ ११.१०५ ॥

चान्द्रायणं वा त्रीन् मासान् अभ्यसेन् नियतेन्द्रियः ।
हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ ११.१०६ ॥

एतैर् व्रतैर् अपोहेयुर् महापातकिनो मलम् ।
उपपातकिनस् त्व् एवम् एभिर् नानाविधैर् व्रतैः ॥ ११.१०७ ॥

उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् ।
कृतवापो वसेद् गोष्ठे चर्मणा तेन संवृतः ॥ ११.१०८ ॥

चतुर्थकालम् अश्नीयाद् अक्षारलवणं मितम् ।
गोमूत्रेणाचरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ॥ ११.१०९ ॥

दिवानुगच्छेद् गास् तास् तु तिष्टन्न् ऊर्ध्वं रजः पिबेत् ।
शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥ ११.११० ॥

तिष्ठन्तीष्व् अनुतिष्ठेत् तु व्रजन्तीष्व् अप्य् अनुव्रजेत् ।
आसीनासु तथासीनो नियतो वीतमत्सरः ॥ ११.१११ ॥

आतुराम् अभिशस्तां वा चौरव्याघ्रादिभिर् भयैः ।
पतितां पङ्कलग्नां वा सर्वप्राणैर्151** विमोचयेत् ॥ ११.११२ ॥**

उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
न कुर्वीतात्मनस् त्राणं गोर् अकृत्वा तु शक्ततः ॥ ११.११३ ॥

आत्मनो यदि वान्येषाम् गृहे क्षेत्रे ऽथ वा खले ।
भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥ ११.११४ ॥

अनेन विधिना यस् तु गोघ्नो गाम् अनुगच्छति ।
स गोहत्याकृतं पापं त्रिभिर् मासैर् व्यपोहति ॥ ११.११५ ॥
वृषभैकादशा गाश् च दद्यात् सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ ११.११६ ॥

एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः।
अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणम् अथापि वा ॥ ११.११७ ॥

अवकीर्णी तु काणेन गर्दभेन चतुष्पथे ।
पाकयज्ञविधानेन यजेत निरृतिं निशि ॥ ११.११८ ॥

हुत्वाग्नौ विधिवद् धोमान् अन्ततश् च समेत्य् ऋचा ।
वातेन्द्रगुरुवह्नीनां जुहुयात् सर्पिषाहुतीः ॥ ११.११९ ॥

कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः ।
अतिक्रमं व्रतस्याहुर् धर्मज्ञा ब्रह्मवादिनः ॥ ११.१२० ॥

मारुतं पुरुहूतं च गुरुं पावकम् एव च ।
चतुरो व्रतिनो ऽभ्येति ब्राह्मं तेजो ऽवकीर्णिनः ॥ ११.१२१ ॥

एतस्मिन्न् एनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
सप्तागारांश् चरेद् भैक्षं स्वकर्म परिकीर्तयन् ॥ ११.१२२ ॥

तेभ्यो लब्धेन भैक्षेण वर्तयन्न् एककालिकम् ।
उपस्पृशंस् त्रिषवणम् अब्देन172** स विशुध्यति ॥ ११.१२३ ॥**

जातिभ्रंशकरं कर्म कृत्वान्यतमम् इच्छया ।
चरेत् सान्तपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥ ११.१२४ ॥

संकरापात्रकृत्यासु मासं शोधनम् ऐन्दवः[^१८०]** ।**
मलिनीकरणीयेषु तप्तः स्याद् यवकस्174** त्र्यहम् ॥ ११.१२५ ॥**

तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ।
वैश्ये ऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस् तु षोडशः ॥ ११.१२६ ॥

अकामतस् तु राजन्यं विनिपात्य द्विजोत्तमः ।
वृषभैकसहस्रा गा दद्यात् सुचरितव्रतः ॥ ११.१२७ ॥

त्र्यब्दं चरेद् वा नियतो जटी ब्रह्महणो व्रतम् ।
वसन् दूरतरे ग्रामाद् वृक्षमूलनिकेतनः ॥ ११.१२८ ॥

एतद् एव चरेद् अब्दं प्रायश्चित्तं द्विजोत्तमः ।
प्रमाप्य वैश्यं वृत्तस्थं दद्याद् वैकशतं गवाम् ॥ ११.१२९ ॥

एतद् एव व्रतं कृत्स्नं षण्मासान् शूद्रहा चरेत् ।
वृषभैकादशा वापि दद्यद् विप्राय गाः सिताः ॥ ११.१३० ॥

मार्जारनकुलौ हत्वा चाषं मण्डूकम् एव च ।
श्वगोधोलूककाकांश् च शूद्रहत्याव्रतं चरेत् ॥ ११.१३१ ॥

पयः पिबेत् त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।
उपस्पृसेत् स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥ ११.१३२ ॥

अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः ।
पलालभारकं षण्ढे सैसकं चैकमाषकम् ॥ ११.१३३ ॥

घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ ।
शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ॥ ११.१३४ ॥

हत्वा हंसं बलाकां च बकं बर्हिणम् एव च ।
वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ॥ ११.१३५ ॥

वासो दद्याद् धयं हत्वा पञ्च नीलान् वृषान् गजम् ।
अजमेषाव् अनड्वाहं खरं हत्वैकहायनम् ॥ ११.१३६ ॥

क्रव्यादांस् तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् ।
अक्रव्यादान् वत्सतरीम् उष्ट्रं हत्वा तु कृष्णलम् ॥ ११.१३७ ॥

जीनकार्मुकबस्तावीन् पृथग् दद्याद् विशुद्धये ।
चतुर्णाम् अपि वर्णानां नरीर् हत्वानवस्थिताः ॥ ११.१३८ ॥

दानेन वधनिर्णेकं सर्पादीनाम् अशक्नुवन् ।
एकैकशश् चरेत् कृच्छ्रं द्विजः पापापनुत्तये ॥ ११.१३९ ॥

अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे ।
पूर्णे चानास्य् अनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥ ११.१४० ॥

किंचिद् एव तु विप्राय दद्याद् अस्थिमतां वधे ।
अनास्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ ११.१४१ ॥

फलदानाम् तु वृक्षाणां छेदने जप्यम् ऋक्शतम् ।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ ११.१४२ ॥

तस्माच् छूद्रस्य द्विरात्रत्रिरात्रादीत्य् एव कल्पयेत् ।
गुल्मादयो व्याख्याताः । लता वृक्षशाखाः ॥ ११.१४२ ॥** अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ।
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ ११.१४३ ॥

कृष्टजानाम् ओषधीनां जातानां च स्वयं वने ।
वृथालम्भे ऽनुगच्छेद् गां दिनम् एकं पयोव्रतः ॥ ११.१४४ ॥

एतैर् व्रतैर् अपोह्यं स्याद् एनो हिंसासमुद्भवम् ।
ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे ॥ ११.१४५ ॥

अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति ।
मतिपूर्वम् अनिर्देश्यं प्राणान्तिकम् इति स्थितिः ॥ ११.१४६ ॥

अपः सुराभाजनस्था मद्यभाण्डस्थितास् तथा ।
पञ्चरात्रं पिबेत् पीत्वा शङ्खपुष्पीशृतं221** पयः ॥ ११.१४७ ॥**

स्पृष्ट्वा दत्वा च मदिरां विधिवत् प्रतिगृह्य च ।
शूद्रोच्छिष्टाश् च पीत्वापः कुशवारि पिबेत् त्र्यहम् ॥ ११.१४८ ॥

ब्राह्मणस् तु सुरापस्य गन्धम् आघ्राय सोमपः ।
प्राणान् अप्सु त्रिर् आयम्य घृतं प्राश्य विशुध्यति ॥ ११.१४९ ॥

अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टम् एव च ।
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥ ११.१५० ॥

वपनं मेखला दण्डो भैक्ष्यचर्या व्रतानि च ।
निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥ ११.१५१ ॥

अभोज्यानां तु भुक्त्वान्नं स्त्रीश्रूद्रोच्छिष्टम् एव च ।
जग्ध्वा मांसम् अभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥ ११.१५२ ॥

शुक्तानि च कषायांश् च पीत्वा मेध्यान्य् अपि द्विजः ।
तावद् भवत्य् अप्रयतो यावत् तन् न व्रजत्य् अधः ॥ ११.१५३ ॥

विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ।
प्रास्य मूत्रपुरीषाणि द्विजश् चान्द्रायणं चरेत् ॥ ११.१५४ ॥

शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च ।
अज्ञातं चैव सूनास्थम् एतद् एव व्रतं चरेत् ॥ ११.१५५ ॥

क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे ।
नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् ॥ ११.१५६ ॥

मासिकान्नं तु यो ऽश्नीयाद् असंआवर्तको द्विजः ।
स त्रीण्य् अहान्य् उपवसेद् एकाहं चोदके वसेत् ॥ ११.१५७ ॥

व्रतचारी[^२४९]** तु यो ऽश्नीयान् मधु मांसं कथंचन ।**
स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥ ११.१५८ ॥

बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च ।
केशकीटावपन्नं च पिबेद् ब्रह्मसुवर्चलाम् ॥ ११.१५९ ॥

अभोज्यम् अन्नं नात्तव्यम् आत्मनः शुद्धिम् इच्छता ।
अज्ञानभुक्तं तूत्तार्यं शोध्यं वाप्य् आशु शोधनैः ॥ ११.१६० ॥

एषो ऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः ।
स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ॥ ११.१६१ ॥

धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः ।
स्वजातीयगृहाद् एव कृच्छ्राब्देन विशुध्यति ॥ ११.१६२ ॥

मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च ।
कूपवापीजलानां च शुद्धिश् चान्द्रायणं स्मृतम् ॥ ११.१६३ ॥

द्रव्याणाम् अल्पसाराणां स्तेयं कृत्वान्यवेश्मनि[^२६३]** ।**
चरेत् सान्तपनं कृच्छ्रं तन् निर्यात्यात्मशुद्धये ॥ ११.१६४ ॥

भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ ११.१६५ ॥

तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।
चेलचर्मामिषाणां च त्रिरात्रं स्याद् अभोजनम् ॥ ११.१६६ ॥

मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
अयःकांस्योपलानां च द्वादशाहं कणान्नता ॥ ११.१६७ ॥

कार्पासकीटजोर्णानां द्विशफैकखुरस्य[^२६४]** च ।**
पक्षिगन्धौषधीनां च रज्ज्व्याश् चैव त्र्यहं पयः ॥ ११.१६८ ॥

एतैर् व्रतैर् अपोहेत पापं स्तेयकृतं द्विजः ।
अगम्यागमनीयं तु व्रतैर् एभिर् अपानुदेत् ॥ ११.१६९ ॥

गुरुतल्पव्रतं कुर्याद् रेतः सिक्त्वा स्वयोनिषु ।
सख्युः पुत्रस्य च स्त्रीषु कुमारीष्व् अन्त्यजासु च ॥ ११.१७० ॥

पैतृष्वसेयीं भगिनीं स्वस्रीयां मतुर् एव च ।
मतुश् च भ्रातुर् आप्तस्य258** गत्वा चान्द्रायणं चरेत् ॥ ११.१७१ ॥**

एतास् तिस्रस् तु भार्यार्थे नोपयच्छेत[^२६९]** बुद्धिमान् ।**
ज्ञातित्वेनानुपेयास् ताः पतति ह्य् उपयन्न् अधः ॥ ११.१७२ ॥

अमानुषीषु पुरुष उदक्यायाम् अयोनिषु ।
**रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥ ११.१७३ ॥ **

मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ।
गोयाने ऽप्सु दिवा चैव सवासाः स्नानम् आचरेत् ॥ ११.१७४ ॥

चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥ ११.१७५ ॥

विप्रदुष्टां स्त्रियं भर्त्ता निरुन्ध्याद् एकवेश्मनि ।
यत् पुंसः परदारेषु तच् चैनां चारयेद् व्रतम् ॥ ११.१७६ ॥

सा चेत् पुनः प्रदुष्येत् तु सदृशेनोपयन्त्रिता ।
कृच्छ्रं चान्द्रायणं चैव तद् अस्याः पावनं स्मृतम् ॥ ११.१७७ ॥

यत् करोत्य् एकरात्रेण वृषलीसेवनाद् द्विजः ।
तद् भैक्षभुग् जपन् नित्यं त्रिभिर् वर्षैर् व्यपोहति ॥ ११.१७८ ॥

एषां पापकृताम् उक्ता चतुर्णाम् अपि निष्कृतिः ।
पतितैः संप्रयुक्तानाम् इमाः शृणुत निष्कृतीः ॥ ११.१७९ ॥

संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद् यौनान् न तु यानासनाशनात् ॥ ११.१८० ॥

यो येन पतितेनैषां संसर्गं याति मानवः ।
स तस्यैव व्रतं कुर्यात् तत्संसर्गविसुद्धये ॥ ११.१८१ ॥

पतितस्योदकं कार्यं सपिण्डैर् बान्धवैर् बहिः ।
निन्दिते ऽहनि सायाह्ने ज्ञत्यृत्विग्गुरुसंनिधौ ॥ ११.१८२ ॥

दासी घटम् अपां पूर्णं पर्यस्येत् प्रेतवत् पदा ।
अहोरात्रम् उपासीरन्न् अशौचं बान्धवैः सह ॥ ११.१८३ ॥

निवर्तेरंश् च तस्मात् तु संभाषणसहासने ।
दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ॥ ११.१८४ ॥

ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद् वसु ।
ज्येष्ठांशं प्राप्नुयाच् चास्य यवीयान् गुणतो ऽधिकः ॥ ११.१८५ ॥

प्रायश्चित्ते तु चरिते पूर्णकुम्भम् अपां नवम् ।
तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ ११.१८६ ॥

स त्व् अप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ।
सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥ ११.१८७ ॥

एतम् एव विधिं कुर्याद् योषित्सु पतितास्व् अपि ।
वस्त्रान्नपानं देयं तु वसेयुश् च गृहान्तिके ॥ ११.१८८ ॥

एनस्विभिर् अनिर्णिक्तैर् नार्थं किंचित् सहाचरेत् ।
कृतनिर्णेजनांश् चैतान्297** न जुगुप्सेत कर्हिचित् ॥ ११.१८९ ॥**

बालघ्नांश् च कृतघ्नांश् च विशुद्धान् अपि धर्मतः ।
शरणागतहन्तॄंश् च स्त्रीहन्तॄंश् च न संवसेत् ॥ ११.१९० ॥

येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
तांश् चारयित्वा त्रीन् कृच्छ्रान् यथाविध्य् उपनाययेत् ॥ ११.१९१ ॥

प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास् तु ये द्विजाः ।
ब्रह्मणा च परित्यक्तास् तेषाम् अप्य् एतद् आदिशेत् ॥ ११.१९२ ॥

यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥ ११.१९३ ॥

जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यते ऽसत्प्रतिग्रहात् ॥ ११.१९४ ॥

उपवासकृशं तं तु गोव्रजात् पुनर् आगतम् ।
प्रणतं प्रतिपृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥ ११.१९५ ॥

सत्यम् उक्त्वा तु विप्रेषु विकिरेद् यवसं गवाम् ।
गोभिः प्रवर्तिते तीर्थे कुर्युस् तस्य परिग्रहम् ॥ ११.१९६ ॥

व्रात्यानां याजनं कृत्वा परेषाम् अन्त्यकर्म च ।
अभिचारम् अहीनं च त्रिभिः कृच्छ्रैर् व्यपोहति ॥ ११.१९७ ॥

शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।
संवत्सरं यवाहारस् तत्पापम् अपसेधति ॥ ११.१९८ ॥

श्वसृगालखरैर् दष्टो ग्राम्यैः क्रव्याद्भिर् एव च ।
नराश्वोष्ट्रवराहैश् च प्राणायामेन शुध्यति ॥ ११.१९९ ॥

षष्ठान्नकालता मासं संहिताजप एव वा ।
होमाश् च सालका नित्यम् अपाङ्क्त्यानां विशोधनम् ॥ ११.२०० ॥

उष्ट्रयानं समारुह्य खरयानं तु कामतः ।
स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥ ११.२०१ ॥

विनाद्भिर् अप्सु वाप्य् आर्त्तः शारीरं संनिवेश्य च ।
सचैलो बहिर् आप्लुत्य गाम् आलभ्य विशुध्यति ॥ ११.२०२ ॥

वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् ॥ ११.२०३ ॥

हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्करं च गरीयसः ।
स्नात्वानश्नन्न् अहः सेषम् अभिवाद्य प्रसादयेत् ॥ ११.२०४ ॥

ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा ।
विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥ ११.२०५ ॥

अवगूर्य त्व् अब्दशतं सहस्रम् अभिहत्य च ।
जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ ११.२०६ ॥

शोणितं यावतः[^३३२]** पांसून् संगृह्णाति महीतले ।**
तावन्त्य् अब्दसहस्राणि तत्कर्ता नरके व्रजेत्321** ॥ ११.२०७ ॥**

अवगूर्य चरेत् कृच्छ्रम् अतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ ११.२०८ ॥

अनुक्तनिष्कृतीनां तु पापानाम् अपनुत्तये ।
शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ ११.२०९ ॥

यैर् अभ्युपायैर् एनांसि मानवो व्यपकर्षति ।
तान् वो ऽभ्युपायान् वक्ष्यामि देवर्षिपितृसेवितान् ॥ ११.२१० ॥

त्र्यहं प्रातस् त्र्यहं सायं त्र्यहम् अद्याद् अयाचितम् ।
त्र्यहं परं च नाश्नीयाद् प्राजापत्यं चरन् द्विजः ॥ ११.२११ ॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश् च कृच्छ्रं सान्तपनं स्मृतम् ॥ ११.२१२ ॥

एकैकं ग्रासम् अश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेद् अन्त्यम् अतिकृच्छ्रं चरन् द्विजः ॥ ११.२१३ ॥

तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् ।
प्रतित्र्यहं पिबेद् उष्णान् सकृत् स्नायी समाहितः ॥ ११.२१४ ॥

यतात्मनो ऽप्रमत्तस्य द्वादशाहम् अभोजनम् ।
पराको नाम कृच्छ्रो ऽयं सर्वपापापनोदनः ॥ ११.२१५ ॥

एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्धयेत् ।
उपस्पृशं त्रिषवणम् एतच् चान्द्रायणं स्मृतम् ॥ ११.२१६ ॥

एतम् एव विधिं कृत्स्नम् आचरेद् यवमध्यमे ।
शुक्लपक्षादिनियतश् चरंश् चान्द्रायणं व्रतम् ॥ ११.२१७ ॥

अष्टाव् अष्टौ समश्नीयात् पिण्डान् मधंदिने स्थिते ।
नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥ ११.२१८ ॥

चतुरः प्रातर् अश्नीयात् पिण्डान् विप्रः समाहितः ।
चतुरो ऽस्तम् इते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ ११.२१९ ॥

यथाकथंचित् पिण्डानां तिस्रो ऽशीतीः समाहितः ।
मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ ११.२२० ॥

एतद् रुद्रास् तथादित्या वसवश् चाचरन् व्रतम् ।
सर्वाकुशलमोक्षाय मरुतश् च महर्षिभिः ॥ ११.२२१ ॥

महाव्याहृतिभिर् होमः कर्तव्यः स्वयम् अन्वहम् ।
अहिंसा सत्यम् अक्रोधम् आर्जवं च समाचरेत् ॥ ११.२२२ ॥

त्रिर् अह्नस् त्रिर् निशायां च सवासा जलम् आविसेत् ।
स्त्रीशूद्रपतितांश् चैव नाभिभाषेत कर्हिचित् ॥ ११.२२३ ॥

स्थानासनाभ्यां विहरेद् अशक्तो ऽधः शयीत वा ।
ब्रह्मचारी व्रती च स्याद् गुरुदेवद्विजार्चकः ॥ ११.२२४ ॥

सावित्रीं च जपेन् नित्यं पवित्राणि च शक्तितः ।
सर्वेष्व् एव व्रतेष्व् एवं प्रायश्चित्तार्थम् आदृतः ॥ ११.२२५ ॥

एतैर् द्विजातयः शोध्या व्रतैर् आविष्कृतैनसः ।
अनाविष्कृतपापांस् तु मन्त्रैर् होमैश् च शोधयेत् ॥ ११.२२६ ॥

ख्यापनेनानुतापेन तपसाध्ययनेन च ।
पापकृन् मुच्यते पापात् तथा दानेन चापदि ॥ ११.२२७ ॥

यथा यथा नरो ऽधर्मं स्वयं कृत्वानुभाषते ।
तथा तथा त्वचेवाहिस् तेनाधर्मेण मुच्यते ॥ ११.२२८ ॥

यथा यथा मनस् तस्य दुष्कृतं कर्म गर्हति ।
तथा तथा सरीरं तत् तेनाधर्मेण मुच्यते ॥ ११.२२९ ॥

कृत्वा पापं हि संतप्य तस्मात् पापात् प्रमुच्यते ।
नैवं कुर्यां पुनर् इति निवृत्त्या पूयते तु सः ॥ ११.२३० ॥

एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् ।
मनोवाङ्मूर्त्तिभिर् नित्यं शुभं कर्म समाचरेत् ॥ ११.२३१ ॥

अज्ञानाद् यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् ।
तस्माद् विमुक्तिम् अन्विच्छन् द्वितीयं न समाचरेत् ॥ ११.२३२ ॥

यस्मिन् कर्मण्य् अस्य कृते मनसः स्याद् अलाघवम् ।
तस्मिंस् तावत् तपः कुर्याद् यावत् तुष्टिकरं भवेत् ॥ ११.२३३ ॥

तपोमूलम् इदं सर्वं दैवमानुषकं सुखम् ।
तपोमध्यं बुधैः प्रोक्तं तपोन्तं वेददर्शिभिः ॥ ११.२३४ ॥

ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् ।
वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ॥ ११.२३५ ॥

ऋषयः संयतात्मानः फलमूलानिलाशनाः ।
तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् ॥ ११.२३६ ॥

औषधान्य् अगदा[^३६८]** विद्या दैवी च विविधा स्थितिः ।**
तपसैव प्रसिध्यन्ति तपस् तेषां हि साधनम् ॥ ११.२३७ ॥

यद् दुस्तरं यद् दुरापं यद् दुर्गं यच् च दुष्करम् ।
सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ११.२३८ ॥

महापातकिनश् चैव शेषाश् चाकार्यकारिणः ।
तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः ॥ ११.२३९ ॥

कीटाश् चाहिपतङ्गाश् च पशवश् च वयांसि च ।
स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ॥ ११.२४० ॥

यत् किंचिद् एनः कुर्वन्ति मनोवाङ्मूर्तिभिर् जनाः ।
तत् सर्वं निर्दहन्त्य् आशु तपसैव तपोधनाः ॥ ११.२४१ ॥

तपसैव विसुद्धस्य ब्राह्मणस्य दिवौकसः ।
इज्याश् च प्रतिगृह्णन्ति कामान् संवर्धयन्ति च ॥ ११.२४२ ॥

प्रजापतिर् इदं शास्त्रं तपसैवासृजत् प्रभुः ।
तथैव वेदान् ऋषयस् तपसा प्रतिपेदिरे ॥ ११.२४३ ॥

यद्[^३८२]** एतत् तपसो देवा महाभाग्यं प्रचक्षते ।**
सर्वस्यास्य प्रपश्यन्तस् तपसः पुण्यम् उत्तमम् ॥ ११.२४४ ॥

वेदाभ्यासो ऽन्वहं शक्त्या महायज्ञक्रियाक्षमा ।
नाशयन्त्य् आशु पापानि महापातकजान्य् अपि ॥ ११.२४५ ॥

यथैदस् तेजसा वह्निः प्राप्तं निर्दहति क्षणात् ।
तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् ॥ ११.२४६ ॥

इत्य् एतद् एनसाम् उक्तं प्रायश्चित्तं यथाविधि ।
अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ॥ ११.२४७ ॥

सव्याहृतिप्रणवकाः प्राणायामास् तु षोडश ।
अप् भ्रूणहणं मासात् पुनन्त्य् अहर् अहः कृताः ॥ ११.२४८ ॥

कौत्सं जप्त्वाप इत्य् एतद् वासिष्ठं च प्रतीत्य् ऋचम् ।
माहित्रं शुद्धवत्यश् च सुरापो ऽपि विशुध्यति ॥ ११.२४९ ॥

सकृज् जप्त्वास्य वामीयं शिवसंकल्पम् एव च ।
अपहृत्य सुवर्णं तु क्षणाद् भवति निर्मलः ॥ ११.२५० ॥

हविष्पान्तीयम् अभ्यस्य न तमं ह इतीति च ।
जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ ११.२५१ ॥

एनसां स्थूलसूक्ष्माणां चिकीर्षन्न् अपनोदनम् ।
अवेत्य् ऋचं जपेद् अब्दं यत् किंचेदम् इतीति वा ॥ ११.२५२ ॥

प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ।
जपंस् तरत् स मन्दीयं पूयते मानवस् त्र्यहात् ॥ ११.२५३ ॥

सोमारौद्रं तु बह्वेनाः समाम् अभ्यस्य शुध्यति ।
स्रवन्त्याम् आचरन् स्नानम् अर्यम्णाम् इति च तृचम् ॥ ११.२५४ ॥

अब्दार्धम् इन्द्रम् इत्य् एतद् एनस्वी सप्तकं जपेत् ।
अप्रशस्तं तु कृत्वाप्सु मासम् आसीत भैक्षभुक् ॥ ११.२५५ ॥

मन्त्रैः शाकलहोमीयैर् अब्दं हुत्वा घृतं द्विजः ।
सुगुर्व् अप्य् अपहन्त्य् एनो जप्त्वा वा नम इत्य् ऋचम् ॥ ११.२५६ ॥

महापातकसंयुक्तो ऽनुगच्छेद् गाः समाहितः ।
अभ्यस्याब्दं पावमानीर् भैक्षहारो विशुध्यति ॥ ११.२५७ ॥

अरण्ये वा त्रिर् अभ्यस्य प्रयतो वेदसंहिताम् ।
मुच्यते पातकैः सर्वैः पराकैः शोधितस् त्रिभिः ॥ ११.२५८ ॥

त्र्यहं तूपवसेद् युक्तस् त्रिर् अह्नो ऽभ्युपयन्न् अपः ।
मुच्यते पातकैः सर्वैस् त्रिर् जपित्वाघमर्षणम् ॥ ११.२५९ ॥

यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः ।
तथाघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ ११.२६० ॥

हत्वा लोकान् अपीमांस् त्रीन् अश्नन्न् अपि यतस् ततः ।
ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किंचन ॥ ११.२६१ ॥

ऋक्संहितां त्रिर् अभ्यस्य यजुषां वा समाहितः।
साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥ ११.२६२ ॥

यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति ।
तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ॥ ११.२६३ ॥

ऋचो यजूंषि चाद्यानि सामानि विविधानि च ।
एष ज्ञेयस् त्रिवृद्वेदो यो वेदैनं स वेदवित् ॥ ११.२६४ ॥

आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता ।
स गुह्यो ऽन्यस् त्रिवृद्वेदो यस् तं वेद स वेदवित् ॥ ११.२६५ ॥


  1. M G: snātakaviśeṣeṇa viśiṣṭo dānārtho ↩︎

  2. M G: vakṣyamāṇo ↩︎

  3. M G: niścitya nirvacanebhyo ↩︎

  4. M G: tathāpi ↩︎

  5. M G: upadeśaṃ ↩︎

  6. M G: -kartavyatayānuktatvāt ↩︎

  7. M G: pītatvāc cārthavādo ↩︎

  8. M G: aṅgaharaṇān ↩︎

  9. M G: vaiśyānām ↩︎

  10. M G: vinimaye ↩︎

  11. M G: na ca ↩︎

  12. M G J: sāmyaṃ (the reading svāmyaṃ conjectural) ↩︎

  13. M G J: kartavyaṃ (hartavyam a conjecture) ↩︎

  14. M G: vāpahāraḥ ↩︎

  15. M G: kutaḥ ↩︎

  16. M G: yogād ↩︎

  17. M G: ca sā, and omit: śāstrād yā caivati cety ayam eva (the reading here is corrupt) ↩︎

  18. J: ayajño ‘somayājī ↩︎

  19. M G: rājapurāpanīta eva ↩︎

  20. M G omit: yasmai ca prayacchati ↩︎

  21. M G: yajñārthaṃ ↩︎

  22. M G omit: yad ↩︎

  23. M G: yady uktalakṣaṇam ↩︎

  24. M G: prītaye ‘bhichindyāt" ity api (for this verse see DK 5: 1750) ↩︎

  25. M G omit: śiṣyād iti ↩︎

  26. M G: nivedayen ↩︎

  27. M G: atatparam ↩︎

  28. M G omit: rājñe ↩︎

  29. M G: athātharvaṇaśabdā ↩︎

  30. M G: brāhmaṇāyābhicareṇa ↩︎

  31. M G J: sarvapraśaktiyuktatvān (I follow DK 5: 1752) ↩︎

  32. M G J: itareṣāṃ (I follow ĀśŚ reading) ↩︎

  33. M G omit: yajñaḥ ↩︎

  34. M G: agnyādheyasyaivāsya ↩︎

  35. M G gives this at the end of commentary on verse 41: agnīnāṃ vṛṣalāgnitvavacanaṃ liṅgāt ↩︎

  36. M G: jñāpitaṃ nityabhāvāt ↩︎

  37. M G: ‘śuciḥ sparśanādau ↩︎

  38. M G: prāyaścitte ↩︎

  39. M G: kartavyatāvidhir ↩︎

  40. M G: nāvagamaṃ ↩︎

  41. M G: phalaṃ niṣidhyate ↩︎

  42. M G: -kalpanānām ↩︎

  43. M G: nimittaṃ viśeṣayet ↩︎

  44. M G: prasajjann ↩︎

  45. M G: indriyaiḥ sukhalubdheṣu ↩︎

  46. M G omit: vinimayaḥ ↩︎

  47. M G: viśeṣahetus tasmāt ↩︎

  48. M G: upakartavyam ↩︎

  49. M G: -virāgitvam ↩︎

  50. M G: evaṃ ↩︎

  51. M G J: viśudhyata iti; most editors have failed to note that this is a citation ↩︎

  52. M G: tathāpi ↩︎

  53. M G: svakāryavirodhitvam ↩︎

  54. M G: tat ↩︎

  55. M G: madyapaḥ ↩︎

  56. M G: arthalakṣaṇā | na tu ↩︎

  57. M G: kūlaṃ ↩︎

  58. M G: gauṇa- ↩︎

  59. M G: buddhidarsanapūrvam ↩︎

  60. M G add: na ↩︎

  61. M G: siddhiḥ ↩︎

  62. M G add: śiṣṭaiḥ ↩︎

  63. M G: duṣkṛtaśeṣe cihnarūpato ↩︎

  64. M G: ātiriktyam ↩︎

  65. M G: aniṣkṛtaiḥ saha ↩︎

  66. M G: vāsanātiśayo ↩︎

  67. M G: tatrātadrūpastapam ↩︎

  68. M G J: iti pātakasamāni (placing the word outside the citation; GDh ed. reads: guror) ↩︎

  69. M G: anyac cāpi ↩︎

  70. M G: ca ↩︎

  71. M G: -śabdau ↩︎

  72. M G J: puruṣo ’nṛtam ↩︎

  73. M G omit: strī- ↩︎

  74. M G: viṣayasamīkaraṇasya nyāyatvāt ↩︎

  75. M G J: enasi ↩︎

  76. M G: prāyaścittaṃ ↩︎

  77. M G: na tyājyam ↩︎

  78. M F: -ārthānām ↩︎

  79. M G: asaṃyājyaṃ ↩︎

  80. M G add: anyena ↩︎

  81. M G: anuvṛttiḥ ↩︎

  82. M G: upādhyāyāntarāśrayaḥ ↩︎

  83. M G: svādhyāyatyāgaś ↩︎

  84. M G: dhanāpadi ↩︎

  85. M G: aśiṣṭa- ↩︎

  86. M G: śāstrato ↩︎

  87. M G: coditaś cec chāstrakṛtaḥ ↩︎

  88. M G: saundaryādīnāṃ ↩︎

  89. M G omit: vā ↩︎

  90. M G: jñātayo ‘sodarādibhyo ↩︎

  91. M G add: eva ↩︎

  92. M G: -ārthās ↩︎

  93. M G: vardhanam ↩︎

  94. M G: na tu garhitānnādyataḥ kuta ↩︎

  95. M G: udyamagṛhīte ↩︎

  96. M G: anāghreyatvam ↩︎

  97. M G: na ↩︎

  98. M G: manyante ↩︎

  99. M G: na pramādāt ↩︎

  100. M G: avajānate ↩︎

  101. M G: vā ↩︎

  102. M G: vikalpate ↩︎

  103. M G: dvaiguṇa- ↩︎

  104. M G: yojanaśrutaṃ dṛṣṭvā ca ↩︎

  105. M G read here: kaścid apūrvavacanaḥ apūrvam ↩︎

  106. M G J: gobrāhmaṇasya ↩︎

  107. M G: tasmād ↩︎

  108. M G: brāhmaṇaḥ ↩︎

  109. M G: anye ity āhur ↩︎

  110. M G: ājyasya ↩︎

  111. M G: pratyak darśanavat ↩︎

  112. M G: haitukatvād guṇāntarābhāvo ↩︎

  113. M G: -jātīyatva ↩︎

  114. M G: aviśeṣān na ↩︎

  115. M G: strīviṭkṣatriyavadhaḥ ↩︎

  116. M G: ye ↩︎

  117. M G: avamastrīṇām upapātakaṃ mahāpātakaprāyaścitte vikalpate ↩︎

  118. M G: -maraṇānivṛttyarthāḥ ↩︎

  119. M G J: avālamayam (this is probably a typo) ↩︎

  120. M G: vākyān na ↩︎

  121. J: mṛdvīkārasya ↩︎

  122. M G: aprāpta iti ↩︎

  123. M G: evaṃ kiṃ ca ↩︎

  124. M G: -saṃmṛśyā; J: -saṃmaṣṭyā (my reading is conjectural) ↩︎

  125. M G: -vāse ↩︎

  126. M G: śuṣkatṛṇena ↩︎

  127. M G: -bandhakatva- ↩︎

  128. M G: taddravyāntarāṇi ↩︎

  129. M G: guror ↩︎

  130. M G: tadguṇa ↩︎

  131. M G: madhvāsavau kṣībau ↩︎

  132. M G: adhītavedabrahmasaṃskārarūpeṇāvasthitahṛdayenocyate, and add: tadapekṣayākāryaṃ kuryād iti ↩︎

  133. J: dātum udyuktaṃ yadā ↩︎

  134. M G: prayojanāpahāras ↩︎

  135. J: niṣkān ko ↩︎

  136. J: yā prakṛtiḥ (the reading of this sentence is corrupt) ↩︎

  137. M G: mātaiva samānajātīyāgamana ↩︎

  138. M G: kalpate ↩︎

  139. M G: tapte ↩︎

  140. M G omit: sūrmiḥ ↩︎

  141. J: utkartanaṃ na ↩︎

  142. J: śastrādhyākṣiptam | śaktiḥ ↩︎

  143. M G: pratyagudagdakṣiṇā ↩︎

  144. J: pratipātanaṃ ↩︎

  145. M G: ca bhāryā- ↩︎

  146. M G: dvijātīyagamane ↩︎

  147. M G place cīraṃ vastrakhaṇḍam . . . laghv eva prāyaścittam mistakenly in the com. on the next verse. ↩︎

  148. M G: kāryo ↩︎

  149. M G: yena ↩︎

  150. M G: māsādilāghavam ↩︎

  151. M G: sarvopāyair ↩︎

  152. M G: gṛhitā ↩︎

  153. M G: -śabdenocchvāsa- ↩︎

  154. M G: dhārayet ↩︎

  155. M G omit: na ↩︎

  156. M G: damana- and -yoga- ↩︎

  157. M G: vipannāṃ ↩︎

  158. M G: tasya ↩︎

  159. M G: tathānyatra ↩︎

  160. M G: tathānyatra ↩︎

  161. M G: saktuyāvakāśī payodadhi ↩︎

  162. M G: vrīhiṣupapatteḥ svecchayā ↩︎

  163. M G: na mayā ↩︎

  164. M G: kathaṃ ↩︎

  165. M G: āsitavyam ↩︎

  166. M G: vrataniyamaḥ ↩︎

  167. M G: -paśuyāgā ↩︎

  168. M G omit: saḥ ↩︎

  169. M G: ataḥ ↩︎

  170. M G: vātamarucchabdau ↩︎

  171. M G: ādyāhutir ↩︎

  172. M G: tv abdena ↩︎

  173. M G: havir iti yācyād ity ↩︎

  174. J: yāvakais ↩︎

  175. M G: strīśūdrasya viṭkṣatriyavadhaḥ; J: -kṣatriyavadhaḥ ↩︎

  176. M G: -karmaṇor vaiśyavṛttau vaiśyasya vṛttāv eva vādharmasthitayoḥ ↩︎

  177. M G omit: vaiśyavṛttau vaiśyasya vṛttāv eva (but see previous note) ↩︎

  178. J adds: tiyacchagniveti (the reading of this passage is corrupt) ↩︎

  179. M G: tad uktaṃ ↩︎

  180. M G: atulyatvād ↩︎

  181. M G: samudāyavidheḥ ↩︎

  182. M G: caitat | evaṃ sarve ↩︎

  183. M G: hantāra ↩︎

  184. M G: hatā ↩︎

  185. M G add: na cet ↩︎

  186. M G: veti ↩︎

  187. M G: vākyaṃ ↩︎

  188. M G: asamañjasyaṃ ↩︎

  189. M G: ānarthakye ↩︎

  190. M G: -viseṣeṇa vivakṣā ↩︎

  191. M G: yuktaiva ↩︎

  192. M G: kathaṃ cediti sarvam eveti ca; J: kathaṃ ca tad iti sarva aita iti ca (the passage is unclear; I think it is a reference to the statement of the first pūrvapakṣa above) ↩︎

  193. M G: ākheṭakamṛgayā ↩︎

  194. M G: prasiddhatarasūkarena ↩︎

  195. M G: prāṇāyāmaghṛtaprāśanam ↩︎

  196. M G: uktaḥ, and omits: nadyāṃ snānam, and adds: sravantyāṃ ↩︎

  197. M G: vā sareto ↩︎

  198. M G: saprāṇi- ↩︎

  199. M G: caturāḍhakaṃ ↩︎

  200. M G: hastiḥ ↩︎

  201. M G omit: na ↩︎

  202. M G: dāna- ↩︎

  203. All editors place this at the end of the commentary on the previous verse. But, it appears to be an introduction to the next verse, which prescribes additional or different penances for the same offences. Jha’s translation appears to support this. ↩︎

  204. M G: cāsthimanto ↩︎

  205. M G: te ↩︎

  206. M G: ṛkśataṃ japo ↩︎

  207. M G: pravṛttaḥ ↩︎

  208. M G: annād ↩︎

  209. M G: tataś ↩︎

  210. M G: vāyuś ceti ↩︎

  211. M G omit: vā ↩︎

  212. M G: pratyavāyaḥ prāyaścittāt ↩︎

  213. M G: yatra ↩︎

  214. M G: mukhyā yā suroktā ↩︎

  215. M G: sakṛtpāne surāpāne ↩︎

  216. M G: ācaret ↩︎

  217. M G: śreyam ↩︎

  218. M G: abuddhipūrve buddhipūrve ca ↩︎

  219. M G: madyapānāṃ ↩︎

  220. J: -yavaka- ↩︎

  221. M G: -śritaṃ ↩︎

  222. M G: yady api ↩︎

  223. M G: adhikataras tato ↩︎

  224. M G: kalpanāvṛttyarthaṃ ↩︎

  225. M G gives throughout ghṛtam for śṛtam ↩︎

  226. M G: prūṣṭaṃ ↩︎

  227. J omits: atrāpi taptakṛcchraṃ samuccīyate | darśitaś ca hetuḥ (Jha’s translation includes this) ↩︎

  228. M G omit: tāni ↩︎

  229. M G: strīgrahaṇaṃ labdhasavarṇārthaṃ vijñeyam ↩︎

  230. M G: tadāspṛṣṭaṃ ↩︎

  231. M G: agāmikatvād ↩︎

  232. M G: -bhojanedaṃ ↩︎

  233. M G: yavakapānaṃ; J: yavapānam (see under 11.155) ↩︎

  234. M G: ityetattrayābhyanujñānād ↩︎

  235. M G: niṣkrāmaṇād ↩︎

  236. M G omit: amatyā ↩︎

  237. J: tucchagrahaṇāt tadrahitasya ↩︎

  238. M G: śabdena ↩︎

  239. M G: kravyādānāṃ ↩︎

  240. M G: biḍālakākādanyatrāpekṣate ↩︎

  241. M G: kṛte ↩︎

  242. M G: brahmacārī ↩︎

  243. M G puts this sentence at the beginning of the commentary on the next verse. ↩︎

  244. M G omit: tūttāryaṃ ↩︎

  245. M G: gautamīye ↩︎

  246. M G J: purīṣābhāvaḥ (I follow the GDh edition; also see the term in the next sentence. ↩︎

  247. M G: vāntau ↩︎

  248. M G: dhanaṃ siddhaṃ ↩︎

  249. M G add: na ↩︎

  250. M G: kiṃcit parimāṇe ↩︎

  251. M G: siddhamāṃsaṃ ca ↩︎

  252. M G: brāhmaṇādi- ↩︎

  253. M G: tad ↩︎

  254. M G: khātaḥ | taḍāge ‘py evam eva; J: khātataḍāge (mine is conjectural) ↩︎

  255. M G: svayonyādiṣv; J: supyād ↩︎

  256. M G: putrādibhir ↩︎

  257. M G: amatyāsu ↩︎

  258. M G: tanayāṃ ↩︎

  259. M G: jñātito ↩︎

  260. M G J: sakhi- and -śiṣyābhāryāsu ↩︎

  261. M G: gurutalpasamam eva ↩︎

  262. M G: sthānaṃ ↩︎

  263. M G: -saṃparke yuvatidoṣe ‘pi ↩︎

  264. M G omit: prāyaścittābhāvaḥ ↩︎

  265. M G: tat ca ↩︎

  266. M G: mṛtabhartṛkābhartṛpakṣeṇa ↩︎

  267. M G: tajjātīyās ↩︎

  268. M G: ubhayasmai ↩︎

  269. M G: prabandhāc ↩︎

  270. M G: tu kurvan ↩︎

  271. M G: jātiśabdo ↩︎

  272. M G: tat ↩︎

  273. M G: yathā śrāddham ↩︎

  274. M G: vācyam ↩︎

  275. M G: śūdrāvivāhasya vihitatvāt ↩︎

  276. This cannot be right. The word is probably: brahmaghnādayaḥ; reference is to the four mahāpatakins mentioned in the previous verse. ↩︎

  277. M G: yānāsanāśana- ↩︎

  278. M G: sahāgamanam ↩︎

  279. M G omit: yānam ↩︎

  280. M G omit: ekasyāṃ ↩︎

  281. M G omit: ekasmin, and read: āsanam ↩︎

  282. M G: -yaunāt kṛtvāpy avicchedaḥ ↩︎

  283. M G: na ca ↩︎

  284. M G: prasiddhamūlaṃ ↩︎

  285. M G: samatvam ↩︎

  286. M G: saṃkalpa iṣyate ↩︎

  287. M G: gorgavayasyeva ↩︎

  288. M G: adhikārāgame ↩︎

  289. M G: siddhe vā ↩︎

  290. M G J: puṇyasravantyāṃ (my reading is conjectural, but it appears to be a citation of the term from the root text) ↩︎

  291. M G omit: nava- ↩︎

  292. M G: tu sakṛt; J: tu sakṛta ↩︎

  293. M G: suyājakam ↩︎

  294. M G omit: prītyā tad ↩︎

  295. M G: vānumāsaṃ ↩︎

  296. M G: śakta- ↩︎

  297. M G: caiva ↩︎

  298. M G: kiṃcid ↩︎

  299. M G: saṃvāsaḥ pratiṣedhaḥ ↩︎

  300. M G omit: yan ↩︎

  301. M G: tyāge nādeyaṃ ↩︎

  302. J: mānavaśabdaṃ ↩︎

  303. M G: satyam ↩︎

  304. M G: -paṇenāntikaveśam ↩︎

  305. M G: vrātyaḥ stomaḥ ↩︎

  306. M G: śeyananidhanādi ↩︎

  307. M G: ahīne ↩︎

  308. M G: dvirātrikaṃ ↩︎

  309. M G: lipsālakṣaṇā- ↩︎

  310. M G omit: na ↩︎

  311. M G: -karmaṇaḥ ↩︎

  312. M G: kāmyāny aniṣiddhāni ↩︎

  313. M G: tadvidhiprāyaścittāny ↩︎

  314. M G add: na ↩︎

  315. M G: tadvicaritam ↩︎

  316. M G: -dhīnasya tu yogadānaṃ ↩︎

  317. J omit: dantair ↩︎

  318. M G: vedavihitānāṃ ↩︎

  319. M G omit: abhivādya ↩︎

  320. M G: prasādya ↩︎

  321. M G: vaset ↩︎

  322. M G: vikalpate ↩︎

  323. M G: -prabheda evaṃ ↩︎

  324. M G: cet ↩︎

  325. M G add: yat ↩︎

  326. M G: bhojanaṃ prāptaṃ bhuktveti vyapadiśati ↩︎

  327. M G: ’natarāṃ tathā hastivedikāyāṃ ↩︎

  328. M G: saṃviśeṣāt ↩︎

  329. M G: yadi ↩︎

  330. M G: svayaṃbhūtāyāṃ ↩︎

  331. M G: -mantraṇaṃ ↩︎

  332. M G: dvitīyasyāṃ ↩︎

  333. M G omit: grāso ↩︎

  334. M G add: kasmiṃścit ↩︎

  335. M G: sarvaprāyaścittāni, and omits the repetition ↩︎

  336. M G: tathā ↩︎

  337. M G: śiṣṭāpratiṣiddheṣu ↩︎

  338. M G omit: sarveṣu ↩︎

  339. J omits: yadi tāvat pariṣadaḥ | nanu ↩︎

  340. J: tasmāttāpau vaimanasyam (the original reading was probably: paścāttāpo) ↩︎

  341. M G: janmany ↩︎

  342. M G: nivarteti ↩︎

  343. M G: prayataḥ ↩︎

  344. M G add: tat ↩︎

  345. J: kāmo vai’kyārthā ↩︎

  346. M G omit: na ↩︎

  347. M G: bhakaṇamātrād ↩︎

  348. M G J: vratniyamadharmāś (editors have erred; this is clearly a citation of MDh 2.3) ↩︎

  349. M G: yamāḥ (cf. DK 5. 631) ↩︎

  350. DK (5: 631): pratiṣedhasāmānyanimittato ↩︎

  351. M G omit: tad eva ↩︎

  352. M G: ātmanaḥ prasā- ↩︎

  353. M G: samartho ’ta eva sarvaphalasiddhim ↩︎

  354. M G: mahaty api vratasiddhiḥ ↩︎

  355. M G: duṣprāpaṃ ↩︎

  356. M G: prāyaścittānāṃ ↩︎

  357. M G omit: snāto bhavati sarvair devair ↩︎

  358. M G: jñātaḥ ↩︎

  359. M G: vedeṣu ↩︎

  360. M G: prāyaścittānidānabhāvaṃ ↩︎

  361. J: pāpapramocanārthāpi ↩︎

  362. M G: dīkṣopaśamanādy ↩︎

  363. M G: ekastanaṃ ↩︎

  364. M G: upety upayann iti ↩︎

  365. M G: yogādhikṛtakāmamātra- ↩︎

  366. M G omit: dadāti ↩︎

  367. M G: tapasaḥ sāmarthyajaiva ↩︎

  368. M G: apiśabdāc chrutiḥ ↩︎

  369. M G omit: na ↩︎

  370. M G omit: tat ↩︎

  371. M G: devādisattatvavijñānaṃ ↩︎

  372. M G add: na tviṣā ↩︎

  373. J: dāhaka- ↩︎

  374. M G: recakārakhyaṃ ↩︎

  375. M G: tena ↩︎

  376. M G: -pratīkārārthaṃ ↩︎

  377. M G: māhendraṃ māhitrīṇām ↩︎

  378. M G add: akratuṛco ↩︎

  379. M G: vājasane ṣaḍṛcam ↩︎

  380. M G: iti itikaraṇaḥ ↩︎

  381. M G omit: abdārdhaṃ ↩︎

  382. M G: iti, add add: padaṃ nāma gavām anugamanam | ↩︎

  383. M G: antaś ↩︎

  384. M G: jñānā- ↩︎