अथ दशमो ऽध्यायः
अधीयीरंस् त्रयो वर्णाः स्वकर्मस्था द्विजातयः ।
प्रब्रूयाद् ब्राह्मणस् त्व् एषां नेतराव् इति निश्चयः ॥ १०.१ ॥
मेधातिथिः ...{Loading}...
“वेदः कृत्स्नो ऽधिगन्तव्यः सरहस्यो द्विजन्मना” (म्ध् २.१६५) इति ग्रहणार्थं त्रैवर्णिकानां स्वाध्यायविधिर् उक्तः । गृहीतस्य चाविस्मरणम् अप्य् उक्तं1 सर्वाश्रमिणाम् । “स्वाध्याये नित्ययुक्तः स्यात्” (म्ध् ३.६५), तथा “नित्यं शास्त्राण्य् अवेक्षेत” (म्ध् ४.१९) । शास्त्रं प्रमुख्यया वृत्त्यैव शासनाद् धि शास्त्रं प्रमाणान्तरानवगतविधिप्रतिपादनाच् च वेद एवेति । तद् एव शास्त्रम् । अन्यत्र ग्रन्थसंदर्भसामान्याच् छास्त्रशब्दप्रयोगः । तथा “नियतो वेदम् अभ्यसेत्” (म्ध् ६.९५), “ब्रह्मोज्झता वेदनिन्दा” (म्ध् ११.५५) इति । यस् तु ब्रह्मयज्ञः स एकेनापि सूक्तेन साम्नानुवाकेन खण्डेन काण्डिकया वैकयैव यावज्जीवम् अधीतया सिध्यति । न तेन ब्रह्मस्मरणम् आक्षिप्यते । तद् एवं निर्विषयत्वाद् अस्य विधेर् अनुवादार्थतैव ।
-
प्रब्रूयाद् ब्राह्मणस् तेषां नेतराव् इति क्षत्रियवैश्ययोः प्रवचनं निवर्तयितुम् ।
-
ननु च “अध्यापनं ब्राह्मणस्य” (म्ध् १.८८) इत्यादिना तयोस् तद् अप्राप्तम् एव ।
-
नैष दोषः । वृत्तिकरणस्य श्रुतत्वात्2 तदर्थैव निवृत्तिः संभाव्यते । धर्मार्थं तु विद्यादानं तयोर् अप्य् अस्त्य् एवेत्य् आशङ्कां निवर्तयति ।
-
अथास्ति सामान्येन निषेधः । एवं तर्हि ज्ञातिलक्षणप्रसङ्गजननार्थं सिद्धम् एवोच्यते । एवं च कृत्वानुक्रमणीयः संबन्धो न हातव्यो ऽयम् इति भविष्यति- “वैश्यशूद्रोपचारं च संकीर्णानां च संभवः” (म्ध् १.११६) इति ।
-
कश्चिद् आह । अध्यापनं शब्दोच्चारणशिक्षणम्, प्रवचनं तु तदर्थव्याख्यानम्3 अपि । अतो भिन्नत्वान् नाध्यापननिवृत्त्या तदर्थव्याख्याननिवृत्तिर् भवतीत्य् अतः पुनर् उपदेशः ।
- ननु च नात्र वेदशब्दो ऽस्ति । कुतस् तत्कर्मता अध्ययनक्रिययाः । अथ लौकिकगद्यपद्यविषयम्4 अपीदम् अध्ययनम् उच्यते ।
उच्यते[^५] । तथा सत्य् अदृष्टार्थो विधिः स्यात् । अतश्[^६] चाधिकारकल्पना प्रसज्येत मूलकल्पना च स्यात् । यथा[^७] तु व्याख्यातम् उपलब्धमूलैवेयं स्मृतिर् भवतीति नादृष्टमूलकल्पनाप्रसङ्गः ।
द्विजातय** इति सिद्धे त्रयो वर्णा इति पादपूरणम् । एवं स्वकर्मस्था इति ॥ १०.१ ॥
सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि ।
प्रब्रूयाद् इतरेभ्यश् च स्वयं चैव तथा भवेत् ॥ १०.२ ॥
मेधातिथिः ...{Loading}...
“न चास्योपदिशेद् धर्मम्” (म्ध् ४.८०) इति न कश्चिद् धर्मोपदेशः शूद्रस्य कर्तव्य इत्य् उक्तम् । वृत्तिधर्मा उपदेष्टव्या इति तस्यापवादः । वृत्तिः शरीरकुटुम्बस्थितिः, तदर्था उपायाः, तान् विद्यात् । प्रब्रूयात् सर्वेभ्य इतरेभ्य इति । बहुवचनं शूद्रावरोधार्थम् । स्वयं च तथा भवेत् । तथा उपदिष्टा5 वृत्तिनियमा अनुष्ठेया इत्य् अर्थः ॥ १०.२ ॥
वैशेष्यात् प्रकृतिश्रैष्ठ्यान् नियमस्य च धारणात् ।
संस्कारस्य विशेषाच् च वर्णानां ब्राह्मणः प्रभुः ॥ १०.३ ॥
मेधातिथिः ...{Loading}...
किं पुनः कारणं ब्राह्मण एव प्रकृतत्वेनाधिक्रियते,[^९] न पुनः क्षत्रियादयो ऽपि ।
- यत6 एतच्छेषतया प्ररोचनं पठति । वैशेष्यद् विशिष्टत्वाद् इत्य् अर्थः, गुणाधिक्याद् इति यावत् । तद् इदानीम् आधिक्यम् आह- प्रकृतिश्रैष्ठ्यात् । उत्तमाङ्गोद्भवाद् इदम् उक्तम् । प्रकृतिः कारणम् । नियमस्य च धारणात्, मद्यपानप्रतिषेधात् । अयम् एव नियमो ऽभिप्रेतः । स्नातकव्रतानि वा वैणवधारणादीनि ब्राह्मणस्यैव । संस्कारस्य च विशेषो7 नियमो ऽभिप्रेतः, स्नातकव्रतानि च विशेषः, “हृदयङ्गमाभिः” (वध् ३.३१) इत्यादेः, उपनयनादेर्8 वा बालस्यैव विधानात् । क्षत्रियवैश्ययोस् त्व् अतीतशैशवयोर् एकादशद्वादशयोः9 । अतो हेतोर् वर्णानां ब्राह्मणः प्रभुः शासिता ॥ १०.३ ॥
के पुनर् अमी वर्णा नाम । मनुष्यजातिवचनो वर्णशब्दः । नेत्य् आह ।
ब्राह्मणः क्षत्रियो वैश्यस् त्रयो वर्णा द्विजातयः ।
चतुर्थ एकजातिस् तु शूद्रो नास्ति तु पञ्चमः ॥ १०.४ ॥
मेधातिथिः ...{Loading}...
चत्वारो वर्णा ब्राह्मणाद्याः शूद्रपर्यन्ताः । अन्ये तु बर्बरकैवर्तादयः संकीर्णयोनयो यथा वक्ष्यन्ते । तत्र चतुर्णां त्रयो द्विजातय, उपनयनस्य तेषां विहितत्वात् । एकजातिः शूद्रह् । न हि तस्योपनयनम् अस्ति, उपनयनविधौ ब्राह्मणादिवर्णविशेषसंयोगात्- “अष्टमे ब्राह्मणम् उपनयीतैकादशे राजन्यं द्वादशे वैश्यम्” इति । न कस्मिंश्चित् काले शूद्रं पठन्ति ।
-
ननु कालविशेषानुपादानाद् अनियतकालं शूद्रोपनयनम् अस्तु ।
-
भवेद् यद्य् असंयुक्ता सामान्येनोपनयनस्योत्पत्तिः स्यात् । एताश् च वर्णकालविशेषयुक्ताः निमित्तार्थाः10 स्तुतयः स्युः । न तु पृथगुत्पत्तिर् अस्यास्ति । तत् कस्य प्रमाणस्य सामर्थ्येनास्योपनयनम् अनियतकालं क्रियतां ।
-
यद्य् एवम्, किं तर्ह्य् अनेन चतुर्थ एकजातिर् इति ।
-
सत्यम् । आशङ्कामात्रनिवारणार्थम् “मन्त्रवर्जं न दुष्यति”11 (म्ध् १०.१२७) इति अमन्त्रकस्यानियतकालस्य12 प्राप्तिर् आशङ्क्यते ।
-
ननु च पाकयज्ञविधाव् एतद् वाक्यम्, तत्संनिधौ श्रवणात्, तत्र कृतार्थं नान्यत्र भवितुम् अर्हति ।
-
अत एवाशङ्कामात्रम् इत्य् उक्तम् ।
-
परमार्थतस् तु व्यवहारनियमार्थपरः13 श्लोकः ॥ १०.४ ॥
सर्ववर्णेषु तुल्यासु पत्नीष्व् अक्षतयोनिषु ।
आनुलोम्येन संभूता जात्या ज्ञेयास् त एव14** ते ॥ १०.५ ॥**
मेधातिथिः ...{Loading}...
के पुनर् अमी ब्राह्मणादयो नाम । न ह्य् एषां परस्परो भेदः शक्यो ऽवमातुम् । व्यक्त्यधीनाधिगमा हि जातयः । न च व्यक्तयः स्वावयवसंनिवेशविशेषावगमशून्याः शक्नुवन्ति तासां भेदम् आवेदयितुम् । न च ब्राह्मणक्षत्रियादीनां गवास्वस्येव वाकारभेदो ऽस्ति, येन रूपिसमवायाच् चाक्षुष्यः स्युः । नापि विलीनघृततैलगन्धरसादिभेदेन क्रियान्तरगोचराः । नापि शौचाचारपिङ्गलकेशत्वादिभिर् धर्मैः15 शक्यं भेदावसानाः, तेषां सर्वत्र संकरोपलब्धेः । व्यवहारश् च पुरुषाधीनः । विप्रलम्भभूयिष्टत्वाच् च पुरुषाणां नान्ततो वस्तुसिद्धिः ।
- इत्य् अतो जातिलक्षणम् उच्यते । सर्ववर्णेष्व् एतल् लक्षणं जातेर् यत् तुल्यासु समानजातीयासु संभूतासु16 पत्नीषु ऊढासु जातास् त एव जात्या ज्ञेयाः । प्रायेण मातापित्रोर् या जातिः सैवापत्यस्योढायां जातस्य वेदितव्या । संबन्धिशब्दत्वात् पत्नीग्रहणास्यातो17 वोढा पिता लभ्यते । तेन येनैवोढा तत एव यस् तस्याम् एव जातस् तदा तज्जातीयो भवति ।
- अक्षतयोनिग्रहणं पुनर्विवाहसंस्कारेण पत्नीत्वम् आशङ्कमानं18 निवर्तयति, सहोढकानीनमातॄणां च ।
- ननु च नैवैतासां विवाहसंस्कारो ऽस्ति, “पाणिग्रहणिका मन्त्राः कन्यासु” (म्ध् ८.२२६) इति वचनात् । यद्19 अपि “वोढुः स गर्भो भवति” (म्ध् ९.१७३) इति विवाहश्रवणेन शास्त्रीयसंस्कारप्रतिपत्तिः, प्राप्तिमात्रवचनत्वात् तस्य न विहितवचनीयं प्रत्यभिज्ञानम् अस्ति । तस्मात् स्वीकारमात्रे धातुर् वर्तते, स्वीकर्तुर् इत्य् अर्थः । पित्रादीन् वञ्चयित्वा येनैव स्वीकृता तस्यैव सा भवति, ततः पुत्रश् चेति तस्यार्थः, पुनर्भूसंस्कराभावात् । “सा चेद् अक्षतयोनिः स्यात्” (म्ध् ९.१७६) इति पठ्यते । गतप्रत्यागतायाम् अपि पुनःशब्दप्रत्यभिज्ञानाद्20 भर्तुर् उक्ताः21 । न च ताभिः सहाभिः सहाधिकारो ऽस्ति । यज्ञसंयोगे ऽस्ति पत्नीशब्दः । अतो ऽक्षतयोनिशब्दो ऽतिरिच्यते । अत्र पूर्वे पत्नीशब्दपर्यायेन नारीष्व् इति पठन्ति, तद् अपि न किंचित् । केवले ह्य् अक्षतयोनिशब्दे त्व् असंस्कृतास्व् अपि जातास् तज्जातीयाः22 स्युः । पत्नीशब्दपाठेन शास्त्रीयेण विधिना या संस्कृता भार्यात्वम् आपादिता सा गृह्यते । यास् तु कुमर्य एवोपगम्यन्ते, भवन्ति ता अक्षतयोनयः, न तु पत्न्यः । तस्माद् अक्षतयोनिशब्दस्य प्रयोजनं वाच्यम्23 ।
-
उच्यते । यत् तावद् उक्तं “न ताः पत्न्यो यज्ञसंयोगाभावात्” इति, यदि विवाह्येरन् स एव यज्ञः स्यात् । तत्रापि पूषवरुणार्यम्णाम् अस्त्य् एव यागः । समानर्थौ च यागयज्ञशब्दौ । तस्मात् स्युर् एव पत्न्यः । अकन्यात्वाद् अविवाह्यतयैव न पत्न्य इति युक्तम् ।
-
अतश् चानर्थक्ये ऽक्षतयोनिशब्दस्य प्रयोजनम् उच्यते । दृश्यते लक्षणयासत्य् अपि यज्ञसंयोगे पत्नीशब्दः प्रयुज्यमानो लोके- रजकस्य पत्नी । यथान्यत्रावरुद्धासु स्त्रीषु गृहिणीशब्दः । सो ऽपि भार्यावचन एव केनचिद् धर्मसाम्येन तत्रापि प्रयुज्यते । यद्य् अपि सति मुख्ये लक्षणा न न्याय्या, तथापि मन्दधियां सुहृद् भूत्वा आशङ्कामात्रं निवर्तयति । किं नाम नाशङ्क्यते मूढमतिभिः ।
-
आनुलोम्यग्रहणम् उत्तरार्थम् । ये ऽपि “त एव ते” इति पठन्ति तेषाम् अपि स एवार्थस् तज्जातीया इति ।
-
अत्रोच्यते । किंप्रमाणमूलम् एतत् स्मृतिकाराणां स्मरणम् । अकार्यरूपत्वान् न धर्माधर्मोपदेशतुल्यम् । प्रमाणान्तरं च24 नास्तीत्य् उक्तम् । स्मृत्यन्तरमूलत्वे ऽन्धपरंपराप्रसङ्गः प्रमाणश्लोके25 दर्शितः (च्ड़्। म्ध् २.६) ।
-
उच्यते । वृद्धव्यवहार एव मूलं साधुत्वस्मृतिवत् ।
-
ननु च सापराधासाव्26 इत्य् उक्तम् ।
- अत एव नियामिकाः27 स्मृतयः फलवत्यः । अभियुक्तस्मरणम् अन्यथेति न शक्यते वक्तुम् । शास्त्रस्थाः प्रसिद्धाः प्रमाणतराः । संभवति च तेषाम् अनादिव्यवहारो मूलम् ।
- एतत्स्मृतिसंकृतानां वावगताभिजनजातीयानां प्रत्यक्षम् अप्य् उपपद्यत28 इति केषांचिद् दर्शनम् । एतत् स्मृतिविवेके प्रपञ्चितम् ।
-
ननु च स्मृत्यन्तरे नायं विशेषो ऽस्ति ।
-
सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।
-
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥ इति । (य्ध् १.८९)
आद्येनार्धेन जातिर् लक्ष्यते, उत्तरेण हि ब्राह्मादिविवाहजातानां संतानवर्धनत्वम्29 । तत्र “सवर्णेभ्यः सवर्णासु” इति नात्र पत्नीशब्दो ऽस्ति ।
-
कथं नास्ति । यावता “विन्नास्व् एष विधिः स्मृतः” (य्ध् १.९२) इति । मा वा भूत्, अविशेषस्मृतेर् विशेषस्मृतिर् बलीयसी । अदर्शनाद् दर्शनं बलीयः । यत एकेन विशेषो न दृष्टो ऽपरेण दृष्ट इति संभवत्य् एतत् ।
-
अतो ऽभियुक्तस्मरणं संभवन्मूलतया प्रमाणम् ।
-
ननु चाव्याप्तेर् अलक्षणम् एतत् । न हि सहोढकानीनपौनर्भवादीनाम् अनेन ब्राह्मण्यं भवति । “कुण्डगोलकयोः,30 क्षेत्रजस्य च । अनभिप्रेतम् एव तत् तेषाम्” इति चेत्, का तर्हि तेषां जातिः । कुण्डगोलकयोश् च असति ब्राह्मण्ये श्राद्धे प्राप्त्यभावाद् अनर्थको निषेधः स्यात्, स्मृत्यन्तरविरोधश् च-
- सजातीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः । इति । (य्ध् २.१३७)
किं च यद् एव लक्षणं तद् एव लक्ष्यम् । अनिर्ज्ञातं लक्ष्यं भवति, निर्ज्ञातं लक्षणम् । यथा “को देवत्तः” इति संशये, अङ्गदी कुण्डली व्यूढोरस्को वृत्तबाहुः । इह तु यथा कश्चित् ब्रूयात्- “कः काकः” इत्य् उक्ते, “काकाज् जातः” इत्य् उत्तरम्, तादृग् एव “को ब्राह्मण्ः,” “यो ब्राह्मणाज् जातः” इति । जनके ऽपि हि ब्राह्मण्यम् अप्रसिद्धम् एव, न्यायविरोधश् च । सजातीयात् सजातीयायां जातः स लोके सजातीयो भवति । यथा गौर् गवि गौः, अश्वाद् वडवयाम् अश्वः । अत्रोच्यते- यत् तावद् उक्तम् “का तेषां जातिः” इति, किम् अन्यया जात्या । मनुष्यास् तावद् भवन्ति । पुरुषधर्मैश् चाधिक्रियन्ते अनुपात्तजातिविशेषैः, पुत्रत्वाच् छ्राद्धादिभिश् च । दाने च सर्वेषाम् अधिकारः ।
-
ननु च विशेषस्योपदेशेन विना व्यवहारो न सिध्यति, सर्वसाधारणत्वान् मनुष्यजातेः । असद् एतत् । सर्वस्यैव स्वसंज्ञाविशेषो विद्यते प्रतिपुरुषम्, देवदत्तो यज्ञदत्त इति । अथाप् संबन्धव्यपदेशः कर्तव्य इति, “कानीनः, सहोढः” इत्य् एव व्यपदिश्यते । सो ऽपि चातुर्वर्ण्ये सद्भावात् सामान्यरूप एवेति चेद् देवदत्तस्य कानीन इत्यादि जनकेन व्यपदेशः करिष्यते । तस्माद् असंबद्धम् एतद् यद् उच्यते व्यपदेशः कथम् इति ।
-
एवं तर्हि सर्व एव धर्माश् चातुर्वर्ण्यं प्रति बोध्यन्ते “अन्तरपभावानां31 च” (म्ध् १.२) । तत्र बहुत्वं ब्राह्मणादिजातिचतुष्टयविषयम् । न चैतेषाम् अप्य् एकजातिः, सर्वजातिष्व् एतस्य लक्षणस्य प्रवृत्तेः । यथैव ब्राह्मणाद् ऊढायां ब्राह्मण्यां जातो ब्राह्मणः, एवं क्षत्रियादयो ऽपि समजातीयमातृपितृजाताः । सर्वविशेषाभावे च कुतः सामान्यम् । न हि शिंशपादिसर्वविशेषाभावे वृक्षत्वसंभवः ।
- अन्तरप्रभवाश् चानुलोमप्रतिलोमाः । तत्रानुलोमा मातृजातीयाः, “प्रतिलोमास् तु धर्महीनाः” (ग्ध् ४.२५) अन्यत्राहिंसादिभ्यः । ते च सर्वे स्वसंज्ञाभिर् विशेषतो निर्दिष्टाः । न चैषां नामापि तत्रास्ति । तत्र कतमे ते धर्मा यैर् अमी अधिक्रियेरन् । क्व32 च तद्वचनं यद् एतान् अधिकुर्वीत । न हि कश्चिज् जातिविशेषाश्रयो33 धर्मविधिर् अस्ति । सर्ववर्णानाम् अन्तरभावानां चेति शास्त्राद् अधिकृतत्वाच् च ।
- उच्यते । यत् तावद् अहिंसादिषु चातुर्वर्ण्यवचनं (च्ड़्। म्ध् १०.६३) तन् नरमात्रोपलक्षणार्थम् एव, सत्य् अपि प्रतिलोमाधिकारे मुख्यार्थवृत्तेः34 । प्रत्युत सहचारिजात्यन्तरपरत्वम्35 एव लक्षयितुं क्षमं नान्तरावस्थातुम् अर्हति । तत्रैव (म्ध् ११०.६३) च वक्ष्यामः । इदं चास्ति “शूद्राणां तु सधर्माणः सर्वे ऽपध्वंजाः स्मृताः” (म्ध् १०.४१) इति । अपध्वंसो ऽसंस्कारः । स चाष्टविधः “व्यभिचारेण वर्णानाम्” (म्ध् १०.२४) इत्यादिनोक्तः । व्यभिचारः परस्त्रीषु गमनं सजातीयासु । अन्यद् वक्ष्यामः । तस्माद् असत्य् अपि वर्णत्वे वाचनिक एव तेषाम् अधिकारः ।
- क्षत्रियस्य तु मातृजातीयत्वम् एव, लिङ्गदर्शनात् । “पुत्रो द्व्यामुष्यायणस्य संविधानात्” इति कर्तव्याविशेषः श्रुतः । अन्येष्व् अपि श्रौतेषु तस्य विधानान्तरं दृश्यते । तस्माद् एव ब्राह्मणादिजातीय एव समभागः स्वपितृव्येण, “तस्माद् धर्मेण तं भजेत्” (म्ध् ९.१२१) इति । न च यथोक्ते विधौ तद् युक्तम्36 । तदा ह्य् अयं शूद्रधर्मा । धनस्य यज्ञार्थतायाम् उक्तायां कुतस् तस्य तावद् भागः । कुण्डगोलकौ क्षेत्रजाव् एव । शिष्टसमाचारश् चैवम् एव । पाण्डुधृतराष्ट्रविदुराः क्षेत्रजाः सन्तो मातृजातीयाः । अतो युक्तः श्राद्धे प्रतिषेधः । किं च, पतितो ऽपि तत्र प्रतिषिद्धः, यस्य सर्वधर्मबहिष्कृतत्वात् प्राप्त्याशङ्कैव नास्ति । यत् तु “सजातीयेषु” (य्ध् २.१३७) इति37 स्मृत्यन्तरं तद् उक्तानुवादत्वाद् यथासंभवं व्याख्येयम्, कार्यपुत्रविषयतया वा ।
- यच् च निर्ज्ञातं लक्षणं भवति, तत् किं ब्राह्मणार्थो नैव लोकप्रसिद्धः । यत्र ब्राह्मणादिसब्दः प्रयुज्यते तत्रापध्वंसनिवृत्त्यर्थं वचनम्38 । मातापित्रोर्39 एतद् एव जातिलक्षणं । न चानवस्था, अनादित्वात् संसारस्य ।
- प्रस्तुतन्यायविरोधस् तु साक्षात् व्यवसायगम्यत्वे40 आसां जातीनां स्यात् । तास् तु41 स्मृतिलक्षणा यथास्मरणं भवितुम् अर्हति । यथा वा वसिष्ठादयः शब्दा अन्तरेणैवान्वयधर्मम् अनवच्छिन्नस्मृतिपारंपर्यकैश्42 च विदितार्थेषु प्रयुज्यन्ते, भवन्ति व्यवहारहेतवो वसिष्ठब्राह्मणाः “वासिष्ठाः शृण्वन्त्” इति, तद्वद् एतद् द्रष्टव्यम् । यथा समाने ब्राह्मणत्वे केचिद् भृगवो वत्सा भारद्वाजा इत्यादिविशेषः स्मृत्येकप्रमाणः, तथैव समाने पुरुषत्वे ऽमी ब्राह्मणा अमी क्षत्रिया इत्यादिर् उपपन्नो व्यवहारः ।
- यैर् अपि लिङ्गदर्शनत्वेन43 जाबालश्रुतिर् उक्ता “सत्यकामो जाबालो मातरम् अपृच्छत् किंगोत्रो ऽहम् अस्मीति । सैवं प्रत्यब्रवीत्, बह्व् अहं चरन्ती परिचारिणी यौवने त्वाम् आलभे । नाहं तद् वेदेति । स एवम् उपश्रुत्य हारिद्रुमतम् गौतमम् इयाय । तं होवाच ब्रह्मचर्यं भवतो44 विवत्स्यामि । स एवम् उवाच । किंगोत्रस् त्वम् असीति । स प्रत्युचाव । अपृच्छं मातरं सा माता प्रयब्रवीत् यौवने त्वाम् इत्यादि । गौतमो न चैतद् अब्राह्मणो45 वक्तुम् अर्हति । समिधं सोम्याहर । उप त्वा नेष्ये” (छु ४.४.१–५) । अस्यायम् अर्थः । बहुभिर् अहं यौवने पुंभिः संगताभूवम्46 । न जाने केन जातो ऽसीति । गौतमस् तु सत्यवचनान् निश्चिकाय ब्राह्मणेनायं जातस् ततस्47 तम् उपनिन्ये ऽतो मन्यामहे स्वैरिणीष्व् अप्य् अनूढासु समानजातीयाज् जातासु तज्जातीया भवन्ति ।
- तद् एतन् न किंचित् । यतो यौवने त्वाम् आलभे । यौवने किल न स्मृतिर् दृढीभवति, उत्कलिकाबहुलत्वाद् यौवने चेतसः । किं च परिचारिणी परिचारिकाहेतोः48 क्षुधापीडिता बहु विचरन्ती नैकस्मिं स्थाने, ततो मे न स्मृतिर् अस्ति भर्तुः किंगोत्रम् इति ।
- अतः स्थितम् एतत् समानजातीयोढायां जातास् तज्जातीया इति । गौतमस्यापि न ततो वचनाद् ब्राह्मणो ऽयम् इत्य् अवगमः । प्राग् एवासौ तं ब्राह्मण इति वेद । गोत्रं तु न वेद । गोत्रप्रश्नेन चरणप्रश्नो वेदितव्यः । तत्र उपनयनभेदो ऽस्ति । न तु गोत्रभेदेनोपनयने प्रयोजनम् । न तु49 यथा केचिद् आहुः- जातिप्रश्नो ऽयम् आभिजात्यात्, “गोत्र एव जातिम् अवगमिष्यामि” । साक्षाज्जातिप्रश्ने50 हि मुखरता स्यात् ॥ १०.५ ॥
स्त्रीष्व् अनन्तरजातासु द्विजैर् उत्पादितान् सुतान् ।
सदृशान् एव तान् आहुर् मातृदोषविगर्हितान् ॥ १०.६ ॥
मेधातिथिः ...{Loading}...
अनन्तरास्व् अव्यवहितास्व् आनुलोम्येन ये उत्पन्नाः पुत्रास् ते सदृशा ज्ञेयाः, न तु तज्जातीयाः । यथा ब्राह्मणात् क्षत्रियायां क्षत्रियाद् वैश्यायाम् । तैः51 सदृशाः, न तु “त एव” (म्ध् १०.५) । अत्र हेतुः- मातृदोषविगर्हितान् । तत्सदृशग्रहणान् मातृत उत्कृष्टान् पितृतो निकृष्टान् । द्विजैर् इति बहुवचननिर्देशान् मातृतश् च दोषस्य52 ग्रहणाद् आनुलोम्येष्व् एतत् संभवति । प्रातिलोम्ये पितृतो ग्रहणेन, मतृतः पितुर् निकृष्टजातीयत्वात् । अत “आनुलोम्यग्रहणं” पूर्वश्लोके यद् उक्तम् “उत्तरार्थम्”53 इति तद् इहानर्थकम् । अतः54 परेषु श्लोकेषूपदिश्यते ॥ १०.६ ॥
अनन्तरासु जातानां विधिर् एष सनातनः ।
द्व्येकान्तरासु जातानां धर्म्यं विद्याद् इमं विधिम् ॥ १०.७ ॥
मेधातिथिः ...{Loading}...
आद्येनार्धश्लोकेनोक्तम् अर्थम् अनुवदति, द्वितीयेन वक्ष्यमाणसंक्षेपः । द्व्येकान्तरा । द्व्यन्तरा ब्राह्मणस्य शूद्रा, एकान्तरा वैश्या । नातीव श्लोकः सप्रयोजनः ॥ १०.७ ॥
ब्राह्मणाद् वैश्यकन्यायाम् अम्बष्ठो नाम जायते ।
निषादः शूद्रकन्यायां यः पारशव उच्यते ॥ १०.८ ॥
मेधातिथिः ...{Loading}...
एकान्तरा ब्राह्मणस्य वैश्या, तत्र जातो ऽम्बष्ठः । स्मृत्यन्तरे “भृज्यकण्ठः” (ग्ध् ४.२०) इत्य् उक्तः । द्य्वन्तरायां शूद्रकन्यायां निषादः प्रारशवश् च । निषादशब्दः प्रतिलोमजातीये ऽपि वर्तते । कन्याग्रहणं स्त्रीमत्रोपलक्षणार्थम् इति व्याचक्षते । वैश्यस्त्रियाम् इत्य् अर्थः । एवं सर्वत्र द्रष्टव्यम् ॥ १०.८ ॥
क्षत्रियाच् छूद्रकन्यायां क्रूराचारविहारवान् ।
क्षत्रशूद्रवपुर् जन्तुर् उग्रो नाम प्रजायते ॥ १०.९ ॥
मेधातिथिः ...{Loading}...
आचारविहारौ कायचेष्टा वाग्व्यपारश् च । ताव् अस्य क्रूरौ भवतः । स्वाभावानुवादो यम् । वपुःशब्दः स्वभाववचन एव । उभयजातिसंभूतत्वाद् उभयधर्मा भवति ॥ १०.९ ॥
विप्रस्य त्रिषु वर्णेषु नृपतेर् वर्णयोर् द्वयोः ।
वैश्यस्य वर्णे चैकस्मिन् षड् एते ऽपसदाः स्मृताः ॥ १०.१० ॥
क्षत्रियाद् विप्रकन्यायां सूतो भवति जातितः ।
वैश्यान् मागधवैदेहौ राजविप्राङ्गनासुतौ ॥ १०.११ ॥
मेधातिथिः ...{Loading}...
आनुलोम्ये पूर्वो विधिः । प्रातिलोम्येन58 त्व् अयम् उच्यते । कन्याग्रहणम् उक्तार्थम् (च्ड़्। १०.८) । वैश्यान् मागधवैदेहौ यथासंख्येन, राजस्त्रियां मागधः ब्राह्मण्यां वैदेहः ॥ १०.११ ॥
शूद्राद् आयोगवः क्षत्ता चण्डालश् चाधनो नृणाम् ।
वैश्यराजन्यविप्रासु जायन्ते वर्णसंकराः ॥ १०.१२ ॥
मेधातिथिः ...{Loading}...
अत्रापि यथासंख्यम् एव । वैश्यराजन्य इति निर्देशे जातिपरे ऽपि सामर्थ्यात् स्त्रीलिङ्गप्रतिपत्तिः, मृगक्षीरं कुक्कुटाण्ड इति यथा । वृत्तानुरोधात् स्त्रीप्रययो न कृतः ॥ १०.१२ ॥
एकान्तरे त्व् आनुलोम्याद् अम्बष्ठोग्रौ यथास्मृतौ ।
क्षत्तृवैदेहकौ तद्वत् प्रातिलोम्ये ऽपि जन्मनि ॥ १०.१३ ॥
मेधातिथिः ...{Loading}...
एकान्तरे वर्णे ब्राह्मणाद् वैश्यायाम् अम्बष्ठः, क्षत्रियाच् छूद्रायाम् उग्रः । एताव् आनुलोम्येन । एवम् एकान्तरे प्रातिलोम्येन शूद्रात् क्षत्रियायां क्षत्ता, वैश्याद् ब्राह्मण्यां वैदेहः । तौ तुल्यौ भवनादिक्रियासु । न तु यजनादिषु59 । चण्डाल एकः प्रतिलोमो ऽस्पृश्यः । यथा च दिवाकीर्तिश्लोके तत्स्पर्श एव60 स्नानं नान्येषु61 प्रतिलोमेषु । सूतमागधायोगवानाम् अनन्तरजातानां चण्डालवद्62 दण्डापूपिकायां सिद्धः स्पर्शादिसंबन्धः ॥ १०.१३ ॥
पुत्रा ये ऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् ।
तान् अनन्तरनाम्नस् तु मातृदोषात् प्रचक्षते ॥ १०.१४ ॥
मेधातिथिः ...{Loading}...
यथा ब्राह्मणात् क्षत्रियायां वैश्यायां च एवं क्षत्रियाद् उभयोस् तान् अनन्तरनाम्ना63 प्रचक्षते । अनन्तरा अनुलोमा64 जातिः समाना तेषाम्, मातृजातीया इत्य् अर्थः । अनन्तरग्रहणम् अविवक्षितम् । अत एवाह मातृदोषाद् इति । पितृजात्युत्कर्षेण नो दुष्यन्ते । अतश् च सत्य् अपि वर्णसंकरत्वे वचनान् मातृजात्याः स्मृताः । संस्कारास् तेषु कर्तव्या इत्य् उक्तं भवति । न ह्य्65 एतद् वचनम् अन्तरेण क्षत्रियादिसंस्कारास् तेषु लभ्यन्ते, अश्वतरवज् जात्यन्तरत्वात् । वचनेन तु मातृजाताव् उक्तायाम् अदोषः ॥ १०.१४ ॥
ब्राह्मणाद् उग्रकन्यायाम् आवृतो नाम जायते ।
आभीरो ऽम्बष्ठकन्यायाम् आयोगव्यां तु धिग्वणः ॥ १०.१५ ॥
आयोगवश् च क्षत्ता च चण्डालश् चाधमो नृणाम् ।
प्रातिलोम्येन जायन्ते शूद्राद् अपसदास् त्रयः ॥ १०.१६ ॥
वैश्यान् मागधवैदेहौ क्षत्रियात् सूत एव तु ।
प्रतीपम् एते जायन्ते परे ऽप्य् अपसदास् त्रयः ॥ १०.१७ ॥
जातो निषादाच् छूद्रायां जात्या भवति पुक्कसः[^७०]** ।**
शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥ १०.१८ ॥
मेधातिथिः ...{Loading}...
अयं निषादो ऽस्मिञ्श्लोके न शूद्रायां ब्राह्मणाज् जातो यः प्राग् उक्तः । किं तर्हि, यः प्रतिलोमो वक्ष्यमाणः, प्रतिलोमाधिकारात् प्रतिलोमा हि66 पुल्कसाजातिः प्रसिद्धा । एवं शूद्रान् निषाद्यां कुक्कुटकः ॥ १०.१८ ॥
क्षत्तुर् जातस् तथोग्रायां श्वपाक इति कीर्त्यते ।
वैदेहकेन त्व् अंबष्ठ्याम् उत्पन्नो वेण उच्यते ॥ १०.१९ ॥
मेधातिथिः ...{Loading}...
अनुलोमाः स्त्रियः, प्रतिलोमाः पुमांसः, तयोः संभवे श्वपाकवेणौ प्रतिलोमजातीयौ ॥ १०.१९ ॥
द्विजातयः सवर्णासु जनयन्त्य् अव्रतांस् तु यान् ।
तान् सावित्रीपरिभ्रष्टान् व्रात्यान् इति विनिर्दिशेत् ॥ १०.२० ॥
मेधातिथिः ...{Loading}...
नैते प्रतिलोमवर्णसंकराः स्युः । अतो ऽस्मिन् विधाव् उच्यन्ते । द्विजातयो यान् सवर्णासु जनयन्ति ते ऽवेदव्रता भवन्ति, अब्रह्मचारिणः सावित्रीपरिभ्रष्टा उपनयनहीनाश् च तदा व्रात्या इति तान् निर्दिसेत् । अव्रताञ् जनयन्तीति नायं संबन्धः । न हि व्रतिनो ऽव्रता वा जनयन्ते, जातानाम् उपनयनसंस्कारविधानात् । उक्तव्रात्यलक्षणानुवादः, उत्तरविवक्षया । यस् त्व् अयं पाठः- “अव्रतायां जनयन्ति तान् व्रात्यान् विनिर्दिशेत्,” तद् असत्, उक्तव्रात्यलक्षणविरोधात् ॥ १०.२० ॥
व्रात्यात् तु जायते विप्रात् पापात्मा भृज्जकण्टकः[^७२]** ।**
आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥ १०.२१ ॥
मेधातिथिः ...{Loading}...
“स्ववर्णासु” इति67 पूर्वश्लोकाद् अनुवर्त्यते, इह स्त्रीजातेर् अनुपादानाद् अवश्यंभावाच् च तदपेक्षायाः । स्मृत्यन्तरे वैश्यायां ब्राह्मण्ज् जातो भृज्जकण्टकः स्मर्यते । अतो विशिनष्टि पापात्मेति । स ह्य् अनुलोमत्वान् न पापात्मा । अयं चासंस्कृतात्मनो व्रात्याज् जातो ऽनधिकारित्वाद् युक्तं यन् निन्द्यते । न च पर्यायशब्दा देशभेदेन प्रसिद्धप्रयोगभेदाः ।
- पूर्वैस् तु व्याख्यातम्- तत्पुत्रपौराणाम् एता आख्याः । भृज्जकण्टको ब्राह्मण्यां जातः । आवन्त्यश् चावन्त्याम् । तस्याम् एव वाटधानः । वाटधानात् पुष्पशेखरः । एवम् उत्तरेष्व् अपि ॥ १०.२१ ॥
झल्लो मल्लश् च राजन्याद् व्रात्याल् लिच्छविर् एव च ।
नटश् च करणश् चैव खसो द्रविड एव च ॥ १०.२२ ॥
वैश्यात् तु जायते व्रात्यात् सुधन्वाचार्य एव च ।
कारुषश् च विजन्मा च मैत्रः सात्वत एव च ॥ १०.२३ ॥
मेधातिथिः ...{Loading}...
एताभिः संज्ञाभिः प्रसिद्धा एवंजातीया वेदितव्याः ॥ १०.२२–२३ ॥
व्यभिचारेण वर्णानाम् अवेद्यावेदनेन च ।
स्वकर्मणां च त्यागेन जयन्ते वर्णसंकराः ॥ १०.२४ ॥
मेधातिथिः ...{Loading}...
व्यभिचारः परस्त्रीगमनम् । तत् समानजातीयासु परकीयास्व् अनुलोमप्रतिलोमासूढास्व् अनूढासु च स्वयम्68 । अवेद्यावेदनम् अविवाह्याविवाहः । अविवाह्याः स्वसृनप्त्रादयस् तद् अयोन्यः । स्वकर्मणां त्याग उपनयनवेदग्रहणादीनाम् । क्षात्रवृत्त्यादयो69 ऽपि पुत्रपौरान्वयिन एवमुक्ताः इति70 केचित् ॥ १०.२४ ॥
संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः ।
अन्योन्यव्यतिषक्ताश् च तान् प्रवक्ष्याम्य् अशेषतः ॥ १०.२५ ॥
मेधातिथिः ...{Loading}...
व्यतिषङ्गः संबन्धः । इतरेतरम् अनुलोमानाम् अनुलोमैः प्रतिलोमैश् चैवं प्रतिलोमानाम् अन्यैः प्रतिलोमैर् अनुलोमैश् च । वक्ष्यमाणसज्ञायै वचनम् ॥ १०.२५ ॥
सूतो वैदेहकश् चैव चण्डालश् च नराधमः ।
मागधः क्षत्तृजातिश् च तथायोगव एव च ॥ १०.२६ ॥
मेधातिथिः ...{Loading}...
उक्तलक्षणा एते प्रातिलोमा उत्तरार्थं71 पुनर् उपन्यस्यन्ते ॥ १०.२६ ॥
एते षट् सदृशान् वर्णाञ् जनयन्ति स्वयोनिषु ।
मातृजात्याः72** प्रसूयन्ते प्रवरासु च योनिषु ॥ १०.२७ ॥**
मेधातिथिः ...{Loading}...
एते सूतादयः प्रतिलोमाः स्वयोनिषु73 सदृशान् जनयन्ति, तज्जातीयान् इत्य् अर्थः । तद् यथा । सूतः सूतायां सूतम् एव जनयति । एवं चण्डालः चण्डालायाम् । ये च मातृजात्याः प्रसूयन्ते ऽनुलोमा मातृजातीया ये पूर्वम् उक्ताः “तान् अनन्तरानाम्नः” (म्ध् १०.१४) इति, ते ऽपि स्वयोनिषु सदृशान् एव जनयन्ति । यथाम्बष्ठो ऽम्बष्ठायाम्74 । तथा वैश्यायाम् आत्मनो हीना वैश्याज् जनयन्ति, मातृजातित्वस्योक्तत्वात् ।
- अन्ये पुनः पठन्ति “मातृजातौ प्रसूयन्ते” । अर्थश् चायम्- स्वयोनिषु75 अम्बष्ठादौ मातृजातौ च वैश्यायां सदृशान् एव जनयन्ति । यद्य् अपि शुद्धवैश्येभ्य उत्कृष्टा अम्बष्ठादयस् तथापि साम्यम् उच्यन्ते, वैश्यधर्म उभयेषाम् अधिकारात् ।
- अनुलोमग्रहणं मातृजातिपदसामर्थाल् लभ्यते सत्य् अपि प्रकृतिप्रतिलोमप्रत्यवमर्शकत्वे एत76 इति । प्रवरासु च योनिषु प्रतिलोमा गच्छन्तो जनयन्ति हीनतरम् इत्य् एवं ज्ञेयम्, वक्ष्यमाणपर्यालोचनया । न हि आयोगवादिभिः स्वजातीयासु जनिता आयोगवादिव्यपदेशं लभन्ते । सदृशग्रहणं तु प्रातिलोम्यसामान्येन77 । हीनतरत्वं चावान्तरविशेषम् अनपेक्ष्य प्रयुक्तम् । तेनायम् अत्र वाक्यार्थः । प्रतिलोमेभ्यः समानजातीयासूत्कृष्टजातीयासु च प्रतिलोमा एव भवन्ति ॥ १०.२७ ॥
यथा त्रयाणां वर्णानां द्वयोर् आत्मास्य जायते ।
आनन्तर्यात् स्वयोन्यां तु तथा बाह्येष्व् अपि क्रमात् ॥ १०.२८ ॥
मेधातिथिः ...{Loading}...
अस्य ब्राह्मणस्य त्रयाणां वर्णानाम् आत्मा जायते । द्वयोर् वर्णयोः क्षत्रियवैशयोर् द्विजत्वं जायते, तथा स्वयोनौ । एवं त्रयाणां वर्णानां ब्राह्मणो द्विजान् जनयति । एवं बाह्येष्व् अपि प्रातिलोम्येन वैश्यक्षत्रियाभ्यां क्षत्रियब्राह्मणोर् आत्मा द्विजत्वं भवति । सति च द्विजत्वे उपनयनं कर्तव्यम् । वक्ष्यति च “एते षट् द्विजधर्माणः” (म्ध् १०.४१) इति । एतावांस् तु विशेषः । अनुलोमाज् जाता78 “मातृजात्या” (१०.२७) मातृजातीया मातृजातीया । स्तुतिमात्रम् इदं वक्ष्यामः ॥ १०.२८ ॥
ते चापि बाह्यान् सुबहूंस् ततो ऽप्य् अधिकदूषितान् ।
परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥ १०.२९ ॥
यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते ।
तथा बाह्यतरं बाह्यश् चातुर्वर्ण्ये प्रसूयते ॥ १०.३० ॥
मेधातिथिः ...{Loading}...
एवं परस्परगमने स्त्रीप्रतिलोमानां पूर्वेण बाह्यतरोत्पत्तिर् वर्णिता82 । इदानीं चातुर्वर्ण्यं कथ्यते । सूयतिर् जनिनात्यन्तसमानार्थो ऽत्र प्रकरणे प्रयुक्तः । प्रसूयते जनयतीत्य् अर्थः । तद् उत्तरश्लोकेन निर्दिश्यते ॥ १०.३० ॥
प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः ।
हीनाहीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ॥ १०.३१ ॥
मेधातिथिः ...{Loading}...
एकैकस्य तु वर्णस्य संकीर्णयोनयो भवन्ति । कस्यचिद् अनुलोमाः, कस्यचित् प्रतिलोमाः, कस्यचिद् अनुलोमप्रतिलोमाः । ब्राःमणस्यानुलोमाः, शूद्रस्य प्रतिलोमा एव, क्षत्रियवैशयोर् अनुलोमाः प्रतिलोमाः । क्षत्रियस्य द्वाव् अनुलोमौ, एकः प्रतिलोमः । वैश्यस्यैको ऽनुलोमः, द्वौ प्रतिलोमौ । एवम् एते द्वादशानुलोमप्रतिलोमाः । एतेषाम् एकैकस्य चतुर्षु गच्छतश् चत्वारो भेदा भवन्ति । ते च केचिद् धीनाः केचिद् अहीनाः । बाह्यतरास् तु सर्व एव । बाह्यतरत्वं मातापितृजातेर् विप्रकर्षः, कर्मभ्यो हीनत्वात् । तद् एतद् उदाहरणैः स्फुटीक्रियते ।
-
प्रतिलोमांस् तावद् गृहीत्वा वक्ष्यामः ।
-
आयोगवो वैश्यायां शूद्राज् जातः शूद्रायां वैश्यायां क्षत्रियायां ब्राह्मण्यां चतुरो जनयति । सो ऽयम् आत्मना सह पञ्चधायोगवः । एवं क्षत्तृचण्डालाव्83 अपि । एवं शूद्रात् त्रयः84 पञ्चकाः पञ्चदशधा भवन्ति ।
-
एवं वैश्यप्रभवौ द्वौ प्रतिलोमौ, क्षत्रियायां मागधो ब्राह्मण्यां वैदेहकः । शूद्रायाम् अनुलोमः । तत्र यः शूद्रायां जातः स यदा चातुर्वर्ण्यं जनयति तदैष एव प्रकारः । स यदा शूद्रां गच्छति तदा हीनतरो वर्णो जायते तदपेक्षया । एवं वैश्यां गच्छन् हीनतरं जनयति । एवं क्षत्रियायां ब्राह्मण्यां च केवलशूद्राज् जाता उत्कृष्टा । एवम् इत्य् अपेक्षावशाद् धिणांश् चाहीनांश् च । एवं क्षत्रिये ब्राह्मणे च द्रष्टव्यम् । ब्राह्मणस्य त्व् अयं विशेषः । अनुलोमा एव तस्य भवन्ति ।
-
एवं चतुर्वर्णानां प्रत्येकं पञ्चदशधा भेदाः षष्टिः संपद्यन्तो मुख्याश् चत्वारो वर्णाः सा चतुःषष्टिर् भवति । परस्परसंपर्कात् तेषाम् अन्ये ऽनन्तभेदा भवन्ति । तद् उक्तम्- “ते चापि बाह्यान् सुबहून्” (म्ध् १०.२९) इति ।
-
प्रतिकूलं शास्त्रव्यतिक्रमेण । वर्तमाना मिथुनीभवन्तः85 । हीनाहीनान् इत्य् एकं पदम् । अथ वा हीनाः सन्तो हीनान्86** प्रसूयन्ते** जनयन्तीत्य् अर्थः । वर्णान् पञ्चदशैवेति “नास्ति तु पञ्चमः” (म्ध् १०.४) इति पञ्चमस्य वर्णत्वाभावात्87 पञ्चदशसु वर्णत्वम् उपचाराद् द्रष्टव्यम् ॥ १०.३१ ॥
प्रसाधनोपचारज्ञम् अदासं दास्यजीवनम् ।
सैरन्ध्रं वागुरावृत्तिं सूते दस्युर् अयोगवे ॥ १०.३२ ॥
मेधातिथिः ...{Loading}...
प्रसाधनं मण्डनम् । उपचारो ऽनुवृत्तिः । केशरचनाकुंकुमचन्दनादिना अनुलेपनविच्छित्तिः पाणिपादविमर्दनं प्राप्तिलोभात्88 कर्मकारिक्षिप्रकारिकार्याणाम्89 अवसरम्90 इत्यादिविधिज्ञ एवम् उच्यते । अदासं दास्यजीवनम् । वत्सरभृत्या षण्मासभृत्या च कंचन सेवते । अथ वैतद् विधिज्ञतया सर्वोपस्थापको भवति जीवनाय । मता वागुरावृत्तिम्91 । द्वितीयो ऽयं वृत्त्युपायः । वागुरा अरण्यपशुहिंसनम् । तच् चार्याणां दैवपित्र्यार्थं92 क्षुधार्थं च, न तु व्याधवत् पशून् हत्वा मांसविक्रयेण जीवनम् । राजनियोगाद् बहुप्राणिवधो जीविकार्थः । सैरन्ध्रनामानं सूते उत्पादयति93 । दस्युर् नाम वक्ष्यमाणः । अयोगवे जातिविशेषे । सामर्थ्यात् स्त्रीत्वलाभः ॥ १०.३२ ॥
मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते ।
नॄन् प्रशंसत्य् अजस्रं यो घण्टाताडो ऽरुणोदये ॥ १०.३३ ॥
मेधातिथिः ...{Loading}...
मैत्रेयकं नाम्ना वर्णम् आयोगव्यां संप्रसूयते जनयति । वैदेहनामा ब्राह्मण्यां वैश्याज् जातो यः । पाठान्तरं “मैरेयकम्” इति । माधूकम् । उपमापदम् एतत् मधूककुसुमतुल्यम्, मधुरभाषित्वात् । अथ वा मधुकायतीति “अन्येष्व् अपि दृश्यते” (पाण् ३.२.१०१) इति डः । “अन्येषाम् अपि” (पाण् ६.३.१३७) इति दीर्घः । स्वार्थिकेन चादिवृद्धिः । तस्य वृत्तिः- नॄन् मनुष्यान् प्रशंसन्ति94 अजस्रं सर्वदा, बन्दीति यः कथ्यते । अरुणोदये प्रबोधकाले घण्टां ताडयन्त्य् आहन्ति, राज्ञाम् ईश्वराणां चान्येषां प्रबोधाय । आयोगव्याम् एवानुजनयति95 प्रकृतत्वात् ॥ १०.३३ ॥
निषादो मार्गवं सूते दासं नौकर्मजीविनम् ।
कैवर्त्तम् इति यं प्राहुर् आर्यावर्तनिवासिनः ॥ १०.३४ ॥
मेधातिथिः ...{Loading}...
प्रतिलोमप्रकरणान् न यः शूद्रायां ब्राह्मणाज् जातो निषाद पूर्वम् उक्तः स इह गृह्यते, अपि तु दस्युवत् प्रतिलोम एव । मार्गवं नाम प्रतिलोमं सुते, आयोगव्याम् एव । यस्येमे अपरे नामनी दासः कैवर्त इति । आर्यावर्तः प्रसिद्धः । तस्य वृत्तिः- नौकर्मणा नौवाहनेन जीवति ॥ १०.३४ ॥
मृतवस्त्रभृत्स्व् अनार्यासु गर्हितान्नाशनासु च ।
भवन्त्य् आयोगवीष्व् एते जातिहीनाः पृथक् त्रयः ॥ १०.३५ ॥
मेधातिथिः ...{Loading}...
ये ऽनन्तरम्96 उपदिष्टास् त्रयो मार्गवपर्यन्तास् तेषां मातृजातिर् नोक्ता, तत्प्रतिपादनार्थो ऽयं श्लोकः97 । आयोगवीषु स्त्रीष्व् एते जायन्ते । तासां च विशेषणम्- मृतवस्त्रभृत्सु शववासांसि परिदधतीष्व् इत्य् अर्थः । अनार्या अस्पृश्याः । गर्हितम् उच्छिष्टं मांसादि चान्नम् अश्नन्ति ॥ १०.३५ ॥
कारावरो निषादात् तु चर्मकारं प्रसूयते ।
वैदेहिकाद् अन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ॥ १०.३६ ॥
मेधातिथिः ...{Loading}...
उत्तरत्र “वैदेह्याम् एव जायते”98 (म्ध् १०.३७) इत्य् एवकरकरणाल्99 लिङ्गाद् इहापि वैदेह्यां निषादात् कारावरो नाम जायत इति संबन्धप्रतीतिः । वैदेहिकाद् द्वाव् आन्ध्रमेदौ । कस्यां स्त्र्याम् । कारावरीनिषाद्योः,100 तयोर् अत्र संनिधानात् । वैदेह्यां च वैदेह्याद्101 भिन्नवर्णसंभवाद्102 एवं व्याख्यायेते । स्त्रीभेदेन चैकस्माद् वर्णाद् एते द्वे जाती । बहिर्ग्रामं प्रतिशयो निवासो ययोः ॥ १०.३६ ॥
चाण्डालात् पाण्डुसोपाकस् त्वक्सारव्यवहारवान् ।
आहिण्डिको निषादेन वैदेह्याम् एव जायते ॥ १०.३७ ॥
मेधातिथिः ...{Loading}...
चाण्डालात् वैदेह्यां पाण्डुसोपाको नाम वर्णो जायते । तस्य वृत्तिस् त्वक्सारव्यवहारवान्103 । त्वक्सारो वेणुः, तद्व्यवहारेण वंशक्रयविक्रयादिना कटादिकरेण वा जीवति । निषादात् तस्याम् एव्आहिण्डकस् तस्य वृत्तिर् एषैव, अन्वेष्या वा ॥ १०.३७ ॥
चाण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।
पुल्कस्यां104** जायते पापः सदा सज्जनगर्हितः ॥ १०.३८ ॥**
मेधातिथिः ...{Loading}...
व्यसनं दुःखम्, तस्य मूलं मारणम्, तद्वृत्तिः । वध्यमारणं राजादेशाद् अनाथशववहनं तद्वस्त्रादिग्रहणं प्रेतपिण्डभोजनम् इत्य् एवमादिवृत्तिः । पुल्कस्यां105** चाण्डालेन जायते** । अथ वा मूलादिवृक्षादीनां तद्व्यसनं विभागकरणं सा वृत्तिर् व्यवच्छिन्नेषु वृक्षेषु यदनुवृत्तं मूलं तद् उद्धृत्य विक्रयादिना जीवति ॥ १०.३८ ॥
निषादस्त्री तु चण्डालात् पुत्रम् अन्त्यावसायिनम् ।
श्मशानगोचरं सूते बाह्यानाम् अपि गर्हितम् ॥ १०.३९ ॥
मेधातिथिः ...{Loading}...
अन्त्यावसायिनं चण्डालम् एव वदन्ति । अथ वा निषाद्यां चण्डालाद् उत्पन्नस्य्आन्त्यावसासीति नामधेयम् । श्मशानगोचरं शवदहनादिवृत्तिः । अतश् चाण्डालाद्106 अपि कुत्सिततरो विज्ञ्ēयः । तद् एतद् आनन्त्यात् संकराणां प्रदर्शनमात्रं कृतम् ॥ १०.३९ ॥
संकरे जातयस् त्व् एताः पितृमातृप्रदर्शिताः ।
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ १०.४० ॥
मेधातिथिः ...{Loading}...
यान्य् एतान्य् अनन्तरम् उद्दिष्टानि त्वक्सारव्यवहारादीनि कर्माणि तैर् अप्रसिद्धाः सोपाकादिनामतया तज्जातीया वेदितव्याः । पित्रा मात्रा च विभागेन दर्शिताः । प्रच्छन्ना वा प्रकाशा वा तज्जातीया वेदितव्याः । आयोगव्यां मात्रा विभागो निषादाद् वैदेहिकाद् आन्ध्रभेदाव् इति पित्रा दर्शितो विभागः ॥ १०.४० ॥
स्वजातिजान् अन्तरजाः षट् सुता द्विजधर्मिणः ।
शूद्राणां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः ॥ १०.४१ ॥
मेधातिथिः ...{Loading}...
स्वजातीयास् त्रैवर्णिकेभ्यः समानजातीयासु107 जातास् ते द्विजधर्माण इत्य् एतत् सिद्धम् एवानूद्यते । अनन्तरजानां तुल्यताभिधानं तद्धर्मप्राप्त्यर्थम् । अन्तरजा अनुलोमाः । ब्राह्मणात् क्षत्रियवैश्ययोः क्षत्रियाद् वैश्यायां जाताः, ते ऽपि द्विजधर्माण उपनेया इत्य् अर्थः । उपनीताश् च द्विजातिधर्मैः सर्वैर् अधिक्रियन्ते ।
-
ननु च “तान् अनन्तरनाम्नः” (म्ध् १०.१४) इति मातृजातीयत्वम् एषाम् उक्तम् एव । ततश् च तज्जात्या समेषु धर्मेषु सिद्ध एवाधिकारः ।
-
सत्यम् । अनन्तरनाम इति नामग्रहणात् संज्ञैवैषां न तु जात्यतिदेश इति कस्यचिद् आशङ्का स्याद् अतः स्पष्टार्थं षट् सुता द्विजधर्मिणः इति वचनारम्भः ।108 ये पुनर् अपध्वंसजाः संकरजास् ते शूद्राणां सधर्माणः समानाचारास् तद्धर्मैर् अधिक्रियन्त इत्य् अर्थः । प्रतिलोमानां तु विशेषो वक्ष्यते । अनन्तरग्रहणम् अनुलोमोपलक्षणार्थम् एव । तेन व्यवहितो ऽपि ब्राह्मणाद् वैश्यायां जातो गृह्यते । षट्संख्यातिरिक्तत्वान् न शूद्रायां पारशवः ॥ १०.४१ ॥
तपोबीजप्रभावैस् तु ते गछन्ति युगे युगे ।
उत्कर्षं चापकर्षं च मनुष्येष्व् इह जन्मतः ॥ १०.४२ ॥
मेधातिथिः ...{Loading}...
त एते ऽनन्तरजाः तपःसामर्थ्येन बीजसामर्थ्येन युगे युगे जन्मनि जन्मनि उत्कर्षम् अपकर्षं च गच्छन्ति । तद् वक्ष्यामः “शूद्रायां ब्राह्मणाज् जातः” (म्ध् १०.६४) इत्य् अत्र ॥ १०.४२ ॥
यद् उक्तम् “स्वकर्मणां त्यागेन” (म्ध् १०.२४) इति तस्यैवायं प्रपञ्चः ।
शनकैस् तु क्रियालोपाद् इमाः क्षत्रियजातयः ।
वृषलत्वं गता लोके ब्राह्मणातिक्रमेण109** च ॥ १०.४३ ॥**
मेधातिथिः ...{Loading}...
क्रियालोपो यत्र संस्कार्यतया संबध्यते, यथोपनयनादिषु,110 यत्र वा कर्तृतया, यथा नित्याग्निहोत्रसंध्योपासनादिषु । तासां लोप उभयासाम् अप्य् अननुष्ठानम् । अतश् च न केवलम् उपनयनसंस्काराभावेन जातिभ्रंशः, अपि तूपनीतानां विहितक्रियात्यागेनापि । तथा चाह शनकैर् इति । पुत्रपौत्रादिसंततेः प्रभृति शूद्रत्वम्, न तु जातस्यैव111 । उपनयनाभावे तु तस्यैव व्यपदेशान्तरं प्रवर्तते । यद्य् अपि सा जातिर् न निवर्तते तत्पुत्रपौत्राणां भृज्जकण्टकादिजात्यन्तरम् एव व्यपदेशहेतुकम् इति ब्राह्मणातिक्रमेण ब्राह्मणविधिविहितातिक्रमेणेत्य् अर्थः । अथ वा शास्त्रार्थसंशये प्रायश्चित्ते वा परिषद्गमनाभावः ॥ १०.४३ ॥
पौण्ड्रकाश् चौड्रद्रविडाः काम्बोजा यवनाः शकाः ।
पारदापह्लवाश् चीनाः किराता दरदाः खशाः ॥ १०.४४ ॥
मेधातिथिः ...{Loading}...
पुण्ड्रकादयः शब्दाः परमार्थतो जनपदशब्दाः, इह तु “क्षत्रियेषु मुख्यास् तत्संबन्धत्वाज् जनपदेषु वर्तन्ते” इत्य् एतद्दर्शनम् आश्रितम् । यथा लुब्विधौ112 “तस्य निवासः” (पाण् ४.२.६९) “जनपदे लुप्”113 (पाण् ४.२.८१) इति, न तु यथा “लुब् योगाप्रख्यानात्”114 (पाण् १.२.५४) इति । नैतेषु देशेषु बाहुल्येन चातुर्वर्ण्यम् अस्तीत्य् एतदालम्बनं वृषलत्ववचनम् । यदि वा पुण्ड्रादयः शब्दाः कथंचिद् देशसंबन्धेन विना दृश्यन्ते, तदैतज्जातीया वेदितव्याः । महाभारतादौ क्षत्रिया वर्ण्यन्ते, तथाद्यत्वे ऽप्य् एते क्षत्रिया एवेति कस्यचित् भ्रान्तिः स्याद् अत एवम् उक्तम् “एते वृषलाः” इति । ये चैते दिगन्तवासिनः किरातवेनदरदादयस् तेषाम् अप्राप्तरूपं वेदेनानूद्यते “न जनम् इयान् नान्तम् इयात्” (बाउ १.३.१०) इति ॥ १०.४४ ॥
मुखबाहूरुपज्जानां या लोके जातयो बहिः ।
म्लेच्छवाचश् चार्यवाचः सर्वे ते दस्यवः स्मृताः ॥ १०.४५ ॥
मेधातिथिः ...{Loading}...
असद्विद्यमानार्थासाधुशब्दान्वया वाक् म्लेच्छोच्यते । यथा शबराणां किरातानाम् अन्येषां वान्त्यानाम् । आर्यवाच आर्यावर्तनिवासिनः । ते चातुर्वर्ण्याद् अन्यजातीयत्वेन प्रसिद्धास् तदा दस्यव उच्यन्ते । एतद् उक्तं भवति । न देशनिवासेन म्लेच्छवाक् संकरत्वे कारणम्, अपि तु यथोक्तबर्बरादिशब्दप्रसिद्धिः । मुखादिजानां बहिष्क्रियन्ते115 ब्राह्मणादिशब्दैर् अप्रसिद्धा116 इत्य् अर्थः । ते सर्वे दस्यव उच्यन्ते ॥ १०.४५ ॥
ये द्विजानाम् अपसदा ये चापध्वंसजाः स्मृताः ।
ते निन्दितैर् वर्तयेयुर् द्विजानाम् एव कर्मभिः ॥ १०.४६ ॥
मेधातिथिः ...{Loading}...
अपसदा अनुलोमाः प्रतिलोमाः, अपध्वंसजाः, गोबलीवर्दवद् भेदः । द्विजानाम् उपयोगिभिः प्रेष्यकर्मभिर् वर्तयेयुः आत्मानम्117 । निन्दितैः प्रेष्यकार्यत्वान् निन्दितानि ॥ १०.४६ ॥
तथा च वक्ष्यते ।
सूतानाम् अश्वसारथ्यम् अम्बष्ठानां चिकित्सनम् ।
वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ॥ १०.४७ ॥
मेधातिथिः ...{Loading}...
स्त्रीकार्यम् अन्तःपुररक्षाकारित्वम् । विणिक्पथः स्थलपथवारिपथादिः118 प्रसिद्धः ॥ १०.४७ ॥
मत्स्यघातो निषादानां त्वष्टिस् त्व् आयोगवस्य च ।
मेदान्ध्रचुञ्चुमद्गूनाम् आरण्यपशुहिंसनम् ॥ १०.४८ ॥
मेधातिथिः ...{Loading}...
त्वष्टिर् दारुतक्षणं तक्षकर्म119 ॥ १०.४८ ॥
क्षत्रुग्रपुल्कसानां[^१२६]** तु बिलौको वधबन्धनम् ।**
धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ॥ १०.४९ ॥
मेधातिथिः ...{Loading}...
बिलौकसो ऽहिनकुलगर्गरादयः । तेषां वधबन्धनं क्षत्रादीनां जीविका । चर्मकार्यं कवचादिसीवनम् उपानद्ग्रथनम् इत्य् एवमादि । भाण्डवादनं मुरजार्धमुर्जादीनाम् ॥ १०.४९ ॥
चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च ।
वसेयुर् एते विज्ञाता120** वर्तयन्तः स्वकर्मभिः ॥ १०.५० ॥**
चण्डालश्वपचानां तु बहिर्ग्रामात् प्रतिश्रयः ।
अपपात्राश् च कर्तव्या धनम् एषां श्वगर्दभम् ॥ १०.५१ ॥
मेधातिथिः ...{Loading}...
प्रतिश्रयो निवासस् तेषां ग्रामान् निष्क्रान्तः स्यात् । अपपात्राश् चिरवसानीयास् तैर् येषु पात्रेषु भुक्तं तानि न संस्कार्याणि, त्यक्ताव्यानि । सौवर्णराजताभ्याम् अन्यानि । तयोः शुद्धिविशेषा उक्ताः । अथ वा “अवपात्राः”124 । तदीयेषु च सक्तेषु125 पात्रेषु सक्तुभक्तादि न दातव्यम् । भूमिष्ठे पात्रे ऽन्यहस्तस्थे वा दत्वा तत्पात्रं भूमौ स्थितं तद् गृह्णीयुः । भिन्नं वा पात्रम् “अवपात्रम्” यथा वक्ष्यति “भिन्नभाण्डे च भोजनम्” (म्ध् १०.५२) इत्यादि । धनम् एषां श्वगर्दभम् । गवाश्वादि सुवर्णरजतादि न126 धनत्वेन गृह्णीयुः ॥ १०.५१ ॥
वासांसि मृतचेलानि[^१३४]** भिन्नभाण्डे च**[^१३५]** भोजनम् ।**
कार्षायसम् अलंकरः परिव्र्ज्या च नित्यशः ॥ १०.५२ ॥
मेधातिथिः ...{Loading}...
सर्वकालं परिव्रज्या, नैकत्रस्थाने वसेयुः ॥ १०.५२ ॥
न तैः समयम् अन्विच्छेत् पुरुषो धर्मम् आचरन् ।
व्यवहारो मिथस् तेषां विवाहः सदृशैः सह ॥ १०.५३ ॥
मेधातिथिः ...{Loading}...
समयः संकेत एककार्यता, संगतिर् इत्य् अनर्थान्तरम् । एकत्र स्थानासनविहारास् तैः सह न कर्तव्या इत्य् अर्थः । विवाहो दारग्रहणादिः । सो ऽप्य् एवम् एव ॥ १०.५३ ॥
अन्नम् एषां पराधीनं देयं स्याद् भिन्नभाजने ।
रात्रौ न विचरेयुस् ते ग्रामेषु नगरेषु च ॥ १०.५४ ॥
मेधातिथिः ...{Loading}...
तत् साक्षाद् एषां न दातव्यम् । प्रेष्यैः कैश्चित् पूर्वोक्तेन प्रकारेण दापयितव्यः । रात्रौ स्पर्शाशङ्कयान्तर्ग्रामनगरचर्याप्रतिषेधः ॥ १०.५४ ॥
दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः ।
अबान्धवं शवं चैव127** निर्हरेयुर् इति स्थितिः ॥ १०.५५ ॥**
मेधातिथिः ...{Loading}...
दिवा विचरन्ति कार्यार्थं क्रयविक्रयस्वकार्यसिद्ध्यर्थम् । राजकार्याय वा चरेयुर् नगरोत्सवप्रेक्षादिनिमित्तम् । तत्रापि च चिह्निता राजशासनैर् उपलक्षिता राजादिष्टैर् वज्रादिचिह्नैः, वध्यवधशासनैर् वा परशुकुठारादिभिः स्कन्धारोपितैः ॥ १०.५५ ॥
तथा चाह ।
वध्यांश् च हन्युः सततं यथाशास्त्रं नृपाज्ञया ।
वध्यवासांसि गृह्णीयुः शय्याश् चाभरणानि च ॥ १०.५६ ॥
वर्णापेतम् अविज्ञातं नरं कलुषयोनिजम् ।
आर्यरूपम् इवानार्यं कर्मभिः स्वैर् विभावयेत् ॥ १०.५७ ॥
मेधातिथिः ...{Loading}...
वर्णाद् अपेतं चातुर्वर्ण्याद् भ्रष्टम्128 । अविज्ञातं सत्यां शङ्कायाम्, जारजातं वक्ष्यमाणैः कर्मभिः स्वभावातिशयैश् च निश्चिनुयात् । हीनकर्मरतिः क्रूरकर्मा च सत्यां शङ्कायां कलुषयोनिजो जारजातो वेदितव्यः ॥ १०.५७ ॥
अनार्यता निष्टुरता क्रूरता निष्क्रियात्मता ।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ १०.५८ ॥
मेधातिथिः ...{Loading}...
अनार्यो द्वेषमत्सरप्रधानः । निष्ठुरः स्वार्थपरः । क्रूरो लोभहिंसापरः । निःक्रियात्मा विहितक्रियावर्जितः । एतैः स्वभावैः कलुषयोनिता व्यज्यते ॥ १०.५८ ॥
पित्र्यं वा भजते शीलं मातुर् वोभयम् एव वा ।
न कथंचन दुर्योनिः प्रकृतिं स्वां नियच्छति ॥ १०.५९ ॥
मेधातिथिः ...{Loading}...
दुर्योनिः संकीर्णजन्मा । प्रकृतिं स्वाम् आत्मीयं कारणं न नियमेन गृह्णाति ॥ १०.५९ ॥
कुले मुख्ये ऽपि जातस्य यस्य स्याद् योनिसंकरः ।
संश्रयत्य् एव तच्छीलं नरो ऽल्पम् अपि वा बहु ॥ १०.६० ॥
मेधातिथिः ...{Loading}...
तस्य शीलं येन जातः, न तु यस्य क्षेत्रम् । स लोके प्रसिद्धः ॥ १०.६० ॥
यत्र त्व् एते परिध्वंसाज् जायन्ते वर्णदूषकाः ।
राष्ट्रियैः129** सह तद् राष्ट्रं क्षिप्रम् एव विनश्यति ॥ १०.६१ ॥**
मेधातिथिः ...{Loading}...
तस्माद् वर्णसंकरो राज्ञा परिवर्जनीयः । राष्ट्रिया जानपदाः । राष्ट्रम् अमात्यादयः ॥ १०.६१ ॥
ब्राह्मणार्थे गवार्थे वा देहत्यागो ऽनुपस्कृतः ।
स्त्रीबालाभ्यवतत्तौ130** च बह्यानां सिद्धिकारणम् ॥ १०.६२ ॥**
मेधातिथिः ...{Loading}...
अनुपस्कृतो धनम् अगृहीत्वा । अभ्यवपत्तिर् अनुग्रहः । बाह्यानां प्रतिलोमानाम् । सिद्धिकारणम् उत्कृष्टजातौ जन्मसिद्धेः सिद्धिहेतुत्वाद्131 एवम् उच्यते । तादृशं जन्म लभन्ते यथाधिकृता भवन्ति । स्वर्गादिप्राप्तिर् वा सिद्धिः ॥ १०.६२ ॥
अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः ।
एतं सामासिकं धर्मं चातुर्वर्ण्ये ऽब्रवीन् मनुः ॥ १०.६३ ॥
मेधातिथिः ...{Loading}...
शौचं मृज्जलादिबाह्यगतम् । सामासिकं समस्तस्य सर्वमुष्यभेदजातेर् उक्तम्, न ब्राह्मणादिजतिविभागेन । व्याख्यातम् अन्यत् । यद्य् अहिंसा प्रतिलोमानां धर्मः स्यात्, कथं तर्हि तद् उक्तम्- “मत्स्यघातो निषादानाम्” (म्ध् १०.४८), “बिलौको वधबन्धनम्” (म्ध् १०.४९), क्षत्रादीनाम् “अरण्यपशुहिंसनम्” (म्ध् १०.४८) एवं च132
केचिद् आहुः- ये जीविकाहेतुतया वध्यत्वेनोक्तास् ततो ऽन्यत्राहिंसा । अन्ये मन्यन्ते- अहिंसा तेषाम् अभ्युदयसाधनहेतुत्वेन धर्मः, न तु प्रतिषेधो हिंसायाः संमत इति । यथा “न मांसभक्षणे दोषः” (म्ध् ५.५६) इतिवत् । यद्य् अहिंसा धर्मस् तेषाम्, कथं तर्हि तैर् जीवितव्यम् । यथा कुतश्चिद् अवगमात्133 तेषाम् अनुपपन्ना 134 हिंसानिवृत्तिर्135 धर्मायेति चेत्, तदा को जीवनोपायः । अन्याश् च वृत्तयः प्रतिवर्णनियताः । अध्यापनादयस् तावद् अत्यन्तासंभवाद् अप्राप्ताः । कृष्यादयो ऽपि वैश्यनियताः । शूद्रस्य सेवा, अन्या वा साधारणी वृत्तिर् अस्ति । यथा वर्तेरन् “विद्या शिल्पम्” (म्ध् १०.११६) इत्य् अत्र दर्शयिष्यामः । यद् अपीदम् उच्यते “ते निन्दितैर् वर्तेयुर् द्विजानाम् एव कर्मभिः” इति तत्र किम् अस्ति निन्दिततरम् अन्यद् अतो हिंसायाः । न च मत्स्यघातो द्विजानाम् उपयुज्यते । श्राद्धे ऽतिथिभोजनादौ च कदाचित्क उपयोगः, न सार्वकालिको जीविकाभावः । तस्मान् न घातादि स्वतन्त्रम् ॥ १०.६३ ॥
शूद्रायां ब्राह्मणाज् जातः श्रेयसा चेत् प्रजायते ।
अश्रेयान् स्रेयसीं जातिं गच्छत्य् आ सप्तमाद् युगात् ॥ १०.६४ ॥
मेधातिथिः ...{Loading}...
“गर्भे गृह्णाति,” “गर्भश् च श्रवणाज् जातः” इति पुंल्लिङ्ग्निर्देशे ऽपत्यार्थयोगता136 विज्ञेया । अत इदम् उक्तं भवति । शूद्रायां ब्राह्मणात् या जाता कुमारी, सा चेच् छ्रेयसा जात्युत्कर्षवता ब्राह्मणेनैव प्रजायते विवाहादिसंस्कृतापत्योत्पत्तिहेतुसंबन्धं प्राप्नोति । तस्याम् अपि यदि कुमारी जायते सा ब्राह्मणेनैव विवाह्यते । एवम् अनया परंपरया सप्तमे पुरुषे प्राप्ते ब्राह्मण्यां यस् तत्र जायते तस्य भवति । श्रेयसेति यद्य् अप्य् उत्कृष्टजातीयमात्रे वर्तते, तथापीह ब्राह्मणपदसंनिधानात्, उत्तरत्र च “शूद्रो ब्राह्मणताम् एति” (म्ध् १०.६५) इति वचनात्, ब्राह्मण्यप्राप्तिः शूद्रवर्णस्य विज्ञेया । अनयैव कल्पनया पञ्चमे वैश्यायां जातस्य वर्णस्य, तृतीये क्षत्रियायाम् । अत्रापि स्त्रीत उत्कर्षः । एवं वैश्यस्य तृतीये क्षत्रियत्वम् । शूद्रायां जातायाः कुमार्या वैश्यान्तरेण संयोगे तृतीये जन्मन्ति वैश्यत्वम् । क्षत्रियजातायाः शूद्रायाः पञ्चमे युग इति । युगशब्दो जन्मवचनः । अश्रेयान् निकृष्टजातीयः स्रेयसीम् उत्कृष्टां जातिं गच्छति प्राप्नोति । आङ् अभिविधौ व्यापकार्थः ॥ १०.६४ ॥
शूद्रो ब्राह्मणताम् एति ब्राह्मणश् चैति शूद्रताम् ।
क्षत्रियाज् जातम् एवं तु विद्याद् वैश्यात् तथैव च ॥ १०.६५ ॥
मेधातिथिः ...{Loading}...
शूद्रो ब्राह्मणताम् एतीत्य् उक्तो अर्थः । ब्राह्मणश् चैति शूद्रताम् । ब्राह्मणो ऽत्र पारशवो ब्राह्मणजातो विज्ञेयः । स चोक्तलक्षणशूद्रां यदि परिणयते तदापकर्षं जन्मनि प्राप्नोति । तृतीय इति व्याचक्षते । यथोक्ते137 युगपरिवर्ते उत्कर्षं प्राप्ता138 यथा संस्कारैः कर्मभिश् चाधिक्रियन्ते ॥ १०.६५ ॥
अनार्यायां समुत्पन्नो ब्राह्मणात् तु यदृच्छया ।
ब्राह्मण्याम् अप्य् अनार्यात् तु श्रेयस्त्वं क्वेति चेद्139** भवेत् ॥ १०.६६ ॥**
मेधातिथिः ...{Loading}...
किंशब्दः क्षेपे । यदि बीजप्राधान्याद् धीनजातीयासु जाता मातृजातेर् उत्कृष्टाः क्रमेण पितृजातितां प्राप्नुवन्ति, इदं तर्हि क्षेत्रप्राधान्ये ऽपि द्रष्टव्यम्, यथा क्षेत्रजः पुत्रः । अतश् च यथा अनार्यायां शूद्रायां ब्राह्मणाज् जत उत्कृष्टो भवति, यदृच्छया यथा कथंचिद् अनूढायाम् अपि, एवं ब्राह्मण्याम् अनार्याच् छूद्रात् क्षेत्रप्राधान्येन श्रेयस्त्वम् । यथोक्तम् “क्वचित् बीनं क्वचिद् योनिः” (म्ध् ९.३४) इति ॥ १०.६६ ॥
जातो नार्याम् अनार्यायाम् आर्याद् आर्यो भवेद् गुणैः ।
जातो ऽप्य् अनार्याद् आर्यायाम् अनार्य इति निश्चयः ॥ १०.६७ ॥
मेधातिथिः ...{Loading}...
नार्यां स्त्रियाम् अनार्यायां हीनजातीयायाम् आर्याज् जात उत्कृष्टजातीयाद् ब्राह्मणाद् आर्य एव भवेत् । किं ब्राह्मणजातीयत्वम् । नेत्य् आह- गुणैः । गुणतो गौण्या वृत्त्या पाकयज्ञाद्यधिकारमात्रेण । वक्ष्यमाणान् आर्यापेक्षय्आर्य इत्य् उच्यते । अनार्याच् छूद्राद् आर्यायां ब्राह्मण्यां जातो ऽनार्य एवैष निश्चयः । एतद् उक्तं भवति । यावद् वचनम् एव प्राधान्यम् अवतिष्ठते, नानुमानेन शक्यम् अन्यत् प्रसञ्जयितुम्140 । अतः समानजातीयागमनम् एव युक्तम्, क्षेत्रप्राधान्यं क्षेत्रज एव नान्यत्र141 ॥ १०.६७ ॥
एवं च कृत्वा ।
ताव् उभाव् अप्य् असंस्कार्याव् इति धर्मो व्यवस्थितः ।
वैगुण्याज् जन्मनः पूर्व उत्तरः प्रतिलोमतः ॥ १०.६८ ॥
मेधातिथिः ...{Loading}...
उभाव् अपि, चण्डालः पाराशवश् चासंस्कार्याव् अनुपनेयौ । अत्र हेतुमन् निगदो ऽरथवादः । वैगुण्याज् जन्मतः पूर्वः । ब्राह्मणाद् यः शूद्रायां जातः, सत्य् अपि बीजप्राधान्ये विगुणम् एतस्य जन्म, योनिदोषात् । उत्तरश् चण्डालः । स प्रतिलोमो ऽत्यन्तप्रातिलोम्यात्, सत्य् अपि क्षेत्रप्राधान्ये, पितृदोषात् ॥ १०.६८ ॥
सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा ।
तथार्याज् जात आर्यायां सर्वं संस्कारम् अर्हति ॥१०.६९ ॥
मेधातिथिः ...{Loading}...
पूर्वोकाव् असंस्कार्यौ, स्वजातिजास् तु संस्कार्याः, इत्य् उभयत्राप्य् अर्थवादः । अत एतद् एव स्थितम् । “क्वचिद् बीजं क्वचिद् योनिः” (म्ध् ९.३४) इति यथोपदेशात् । एकान्तरपरिग्रहस् तु न युक्तः ॥ १०.६९ ॥
बीजम् एके प्रशंसन्ति क्षेत्रम् अन्ये मनीषिणः ।
बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः ॥ १०.७० ॥
मेधातिथिः ...{Loading}...
यथा त्रय एते पक्षाः । तेषां कश्चित् पक्षः केनचित् परिगृहीतः । केचिद् आहुर् बीजम् एव ज्यायः । तथा च ब्राह्मणाज् जातः क्षत्रियादित्रिषु मातृजातित उत्कृष्टः । अन्ये पुनर् आहुः- क्षेत्रं श्रेष्ठम्, यतः क्षेत्रियो यत्रो क्षेत्रे जातः तज्जातीयो भवति, तस्यैव च तदपत्यम् । अपरे मन्यन्ते- उभये बीजक्षेत्रे ज्यायसी । तद् उक्तम् “सुबीजं चैव सुक्षेत्रे” (म्ध् १०.६९) इति ।
- तद् एतत् सर्वम् अरोचयमान142 आह- तत्रेयं तु व्यव्स्थितिः । इयम् अत्र निरूप्यावस्थितम् ॥ १०.७० ॥
अक्षेत्रे बीजम् उत्सृष्टम् अन्तरैव विनश्यति ।
अबीजकम् अपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ १०.७१ ॥
यस्माद् बीजप्रभावेण तिर्यग्जा ऋषयो ऽभवन् ।
पूजिताश् च प्रशस्ताश् च तस्माद् बीजं प्रशस्यते ॥ १०.७२ ॥
मेधातिथिः ...{Loading}...
पूजिताः सर्वेण केनचित् प्रणम्यन्ते । प्रशस्ताः स्तुतिवचनैः स्तूयन्ते । तस्माद् बीजं विशिष्यत इति बीजप्राधान्यवादिनः । तद् एतद् अयुक्तम् इत्य् उक्तम्- “तत्रेयं तु व्यवस्थितिः” (म्ध् १०.७०) इति । अथ वा बीजप्रभावेणेति न बीजप्राधान्यं दर्शितम्, अपि तु दूषणम् एव । यदाशङ्क्यते145 बीजप्राधान्यान् मन्दपालादीनां तिर्यग्जा ऋषय इति बीजप्राधान्यं तद्दर्शनात्, न तत्र बीजप्राधान्येन तदपत्यानाम् ऋषित्वम्, अपि तु तपःश्रुतादिजेन प्रभावेन धर्मविशेषेण ॥ १०.७२ ॥
अनार्यम् आर्यकर्माणम् आर्यं चानार्यकर्मिणम् ।
संप्रधार्याब्रवीद् धाता न समौ नासमाव् इति ॥ १०.७३ ॥
मेधातिथिः ...{Loading}...
अनार्यः शूद्रः । स आर्यकर्मा द्विजातिशुश्रूषादिरतः पाकयज्ञयाजी च देवद्विजनमस्कारपरः । आर्यो ब्राह्मणादिः । सो ऽनार्यकर्मा प्रतिषिद्धाचरणो विहितकर्मत्यागी । ताव् उभौ संप्रधार्य तद्गुणत्वेनावगम्य तयोः किं कस्यचित् सातिशयो गुणः कस्याश्चिद् वा अन्ते निरूपणबुद्धिः । संप्रधार्य धाता प्राजपतिर् मनुर् बुद्ध्या146 निरूप्य्आब्रवीत् । न समौ जातेर् गरीयस्या147 उत्कृष्टगुणो ऽपि शूद्रः तुल्यः न स्यात्148 । पुनर् आह- नासमौ । किं जात्या तूत्कृष्टयापि बहुदोषावगृहीतस्य । एतद् उक्तं भवति- न जातिबलम् आश्रित्य नरो माननीयः, किं तु गुणा माननीयाः । न गुणहीनं जातिः परित्रातुम् अलम्, प्रायश्चित्तोपदेशवैयर्थ्यप्रसङ्गात् । “अनार्यायां समुत्पन्नः” (म्ध् १०.६६) इत्य् अत आरभ्य यावद् अयं श्लोको वर्णसंकरनिन्दाकर्मप्रशंसार्थः । नात्र किंचिद् विधीयते प्रतिष्ध्यते वा, नापूर्वार्थो ज्ञाप्यते ऽभिलक्षणवत् । तस्मात् प्रशंसार्था एवैते ॥ १०.७३ ॥
ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्य् अवस्थिताः ।
ते सम्यग् उपजीवेयुः षट्कर्माणि यथाक्रमम् ॥ १०.७४ ॥
मेधातिथिः ...{Loading}...
आपद्धर्माणाम् उपोद्घातः । योनिः कारणम् । ब्राह्मणा ब्रह्मयोनिस्थास् ते षट्कर्माण्य् उपजीवेयुर् अनुतिष्ठेयुः । अनेकार्था धतवः । यथाक्रमं यथाधिकारम्149 । यस्मिन् कर्मणि यो ऽधिकारी । कानिचिद् विध्यर्थानि कानिचिद् दृष्टार्थानि ॥ १०.७४ ॥
अध्यापनम् अध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहश् चैव षट् कर्माण्य् अग्रजन्मनः ॥ १०.७५ ॥
मेधातिथिः ...{Loading}...
प्रथमे ऽध्याये शास्त्रस्तुत्यर्थ एषां पाठः । इह तु विध्यर्थम् । यद्य् अपि तेषां केवलानां विधिर् उक्तस् तथापीह समस्य निर्दिश्यते सौहार्देन । विध्यन्तरसापेक्षम्150 एवेदं रूपम्, वचनाच् चैतेषां कर्मणाम् । अतो यथाविहितम् अनूद्य वक्ष्यमाणो ऽर्थो विधीयते ॥ १०.७५ ॥
षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच् च प्रतिग्रहः ॥ १०.७६ ॥
मेधातिथिः ...{Loading}...
कर्मत्रिकविभागः स्पष्टप्रयोजनः । एकं त्रिकं दृष्टार्थम् उपात्तम्, सामर्थ्यात् । अन्यस्यादृष्टार्थता । विशुद्धो ऽपापकर्मा ।
-
एवं शूद्रो ऽपि विशुद्धः प्राप्नोति ।
-
को भवतो मत्सरः ।
-
स्मृत्यन्तरविरोध्अः प्राप्नोति । “प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो भुञ्जीत प्रतिगृह्णीयाच् च” (ग्ध् १७.१–२) इति । एवं तर्हि यथाविरोधो भवति तथा व्याख्येयम् । न ह्य् अविरोधे संभवति विरोधो न्याय्यः ।
-
अपि वानुवाद151 एवायम्, “राजतो धनम् अन्विच्छेत्” (म्ध् ४.३३) इत्येवमादाव् अस्यार्थस्य विहितत्वात् ॥ १०.७६ ॥
त्रयो धर्मा निवर्तन्ते ब्राह्मणात् क्षत्रियं प्रति ।
अध्यापनं याजनं च तृतीयश् च प्रतिग्रहः ॥ १०.७७ ॥
मेधातिथिः ...{Loading}...
जीविकाकर्माण्य् एतानि क्षत्रियस्य न भवन्ति । यानि त्व् अदृष्टार्थानीष्ट्यध्ययनदानानि न निवर्तन्ते । वेदस्य च प्रकृतत्वाद् एतद् अध्यापनं निषिध्यते, न तु धनुर्वेदशिल्पकलाविद्याः ॥ १०.७७ ॥
वैश्यं प्रति तथैवैते निवर्तेरन्न् इति स्थितिः ।
न तौ प्रति हि तान् धर्मान् मनुर् आह प्रजापतिः ॥ १०.७८ ॥
मेधातिथिः ...{Loading}...
पूर्वेणैतद् व्याख्यातम् । तौ क्षत्रियवैश्यौ प्रत्य् एते ऽध्यापनादयो धर्मा मनुना प्रजापतिना नोक्ताः, न स्मृता इत्य् अर्थः॥ १०.७८ ॥
शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषीर् विशः ।
आजीवनार्थं धर्मस् तु दानम् अध्ययनं यजिः ॥ १०.७९ ॥
मेधातिथिः ...{Loading}...
इदं तयोर् जीविकाकर्म । शस्त्रं खड्गादि । अस्त्रं तन्मन्त्राः धनुर्वेदप्रसिद्धाः । अयम् अप्य् उक्तानुवाद एव । वणिक्पशुशब्दौ कर्मान्तर्भावेन152 प्रयुक्तौ, वणिज्या पशुपालनं च । यद्य् अप्य् अध्ययनादिधर्माः सर्वेषां सन्ति तथापि प्राधान्यम् एतेषाम् ॥ १०.७९ ॥
वेदाभ्यासो ब्रह्मणस्य क्षत्रियस्य च रक्षणम् ।
वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु ॥ १०.८० ॥
मेधातिथिः ...{Loading}...
वेदाभ्यासो वृत्तिप्रकरणाद् अध्यापनम् । एवं विशिष्टानि स्वकर्मसु । शास्त्रीयवृत्तिकर्मस्व्153 अन्येभ्यो जीवनकर्मभ्य इमानि श्रेयस्करतराणि ॥ १०.८० ॥
अजीवंस् तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।
जीवेत् क्षत्रियधर्मेण स ह्य् अस्य प्रत्यनन्तरः ॥ १०.८१ ॥
मेधातिथिः ...{Loading}...
यदास्य शरीरकुटुम्बनित्यकर्मावसादो भवति, न तेभ्यः पर्याप्तं154 धनं भवति, तदायम् अजीवन्न् इत्य् उच्यते । यथोक्तेन अध्यापनादिना । तदा क्षत्रियवत् ग्रामनगररक्षादिना शस्त्रास्त्रधारणेन, सति संभवे सर्वाधिपत्येन जीवेत् । जीवतिर् व्याख्यातार्थः शरीरमात्रसंधारणे न वर्तते । किं तर्हि, कुटुम्बस्य कर्माणि नित्यकर्मावस्थितिम्155 अपि लक्षयति । स ह्य् अस्य प्रत्यनन्तरः । अनन्तर एव प्रत्यनन्तरः । हेतुवचनाद् व्यवहितनिवृत्तिः पापकारी । ॥ १०.८१ ॥
स्ववृत्तिपरित्यागे ऽपि नैवं मन्तव्यं शास्त्रातिक्रमकृतस् तत्र न विशेषो वैश्यशूदेष्व् अपीति । तथा चाह ।
उभाभ्याम् अप्य् अजीवंस् तु कथं स्याद् इति चेद् भवेत् ।
कृषिगोरक्षम् आस्थाय जीवेद् वैश्यस्य जीविकाम् ॥ १०.८२ ॥
मेधातिथिः ...{Loading}...
उभ्याभ्याम् अप्य् अजीवंस् तु । क्रमो ऽनेन प्रदर्श्यते । प्रथमम् अनन्तरा वृत्तिः, तदभावे व्यवहितेति । कृषिगोरक्षाग्रहणं वैश्यवृत्तिमात्रप्रदर्शनार्थम् । तथा च वणिज्यायाम् अविक्रेयप्रतिषेधं वक्ष्यति- जीवेद् वैश्यस्य जीविकाम् इति । सामान्यविशेषभावेन क्रियायाः साध्यसाधनभावः प्राग् उपपादितः ।
- तत्र कृषिवाणिज्यकुशीदान्य् अनापद्य् एवोकान्य् अध्यापनादिवत्, “प्रमृतं कर्षणं स्मृतम् । सत्यानृतं तु वाणिज्यम्” (म्ध् ४.५–६) इति156 केचिद् आहुः । “कृषिवाणिज्ये चास्वयंकृते,157 कुसीदं च” (ग्ध् ९.५–६) इतु उक्तम् । स्वयंकरणम् अत्राभ्यनुज्ञायते ।
- यत् त्व् अध्यापनादिवद् इति साम्यम् आशङ्कितम्, अत्रैव परिहृतम् । यदि सर्वेषां कृष्यादयः समत्वेन स्युः, कथम् इदम् उच्यते “वणिक्पशुकृषीर् विशः आजीवनार्थम्” (म्ध् १०.७९) ब्राह्मणक्षत्रिययोर् अपि नाजीवनार्थस् तदा । किं च “याजनाध्यापने चैव विशुद्धाच् च प्रतिग्रहः” (म्ध् १०.७६) इत्य् अत्र तान्य् अपि समाख्यास्यत् । तस्माद् अध्यापनादिनियमैर् जीवतः कृष्यादयः प्रतिषिद्धा एव । यस् तु प्रकरणाद् अन्यत्रैषाम् उपदेशः स तत्रैव प्रदर्शितप्रयोजनः ॥ १०.८२ ॥
वैश्यवृत्त्यापि जीवंस् तु ब्राह्मणः क्षत्रियो ऽपि वा ।
हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ॥ १०.८३ ॥
मेधातिथिः ...{Loading}...
कृषिनिन्देतरवैश्यवृत्तिस्तुत्यर्था, न पुनस् तस्याः प्रतिषेधार्था158 । तथा च सति उपदेशो व्यर्थो ऽस्या आपद्यते ॥ १०.८३ ॥
कृषिं साध्व् इति मन्यन्ते सा वृत्तिः सद्विगर्हिता ।
भूमिं भूमिशयांश् चैव हन्ति काष्ठम् अयोमुखम् ॥ १०.८४ ॥
मेधातिथिः ...{Loading}...
कृषिं लोकाः साद्व् एव कर्म इति मन्यन्ते । तद् युक्तम्159 । कर्षतः पुरुषस्य बहु धान्यं भवति, ततो ऽतिथ्यादिभ्यो ऽन्नदानेनोपकरोति, अतः साध्वी । तथा चोक्तम् “नाकृष्यतो ऽतिथिप्रियः” । “कृषिं यत्नेन कुर्वीत मौर्व्या सर्वत्र यत्नतः” । तथा “लाङ्गलं परीरवं सुशेवं सुमतित्सरु । उदित् कृषति गाम् अविं प्रफर्व्यं च पीवरीम्” (त्स् ४.२.५.६) इत्यादि ।
-
ते न सम्यक् मन्यन्ते । सा हि वृत्तिः सद्भिर् निन्द्यते । कस्य हेतोः । भूमिं हन्ति काष्टम् अयोमुखं लाङ्गलम् । भूमिशयांश् च । भूमौ शेरते ये प्राणिनस् तृणजलूकादयस् तांश् च हन्ति ।
-
ननु च भूमेः कीदृशं हननं न हि सा प्राणिवत् काष्ठहत्यापीडाम्160 अनुभवति ।
इदं तु वृत्तिवैकल्यात् त्यजतो धर्मनैपुणम् ।
विट्पण्यम् उद्धृतोद्धारं विक्रेयं वित्तवर्धनम् ॥ १०.८५ ॥
मेधातिथिः ...{Loading}...
इदम् इति वक्ष्यमाणस्य प्रतिनिर्देशः । विशः पण्यं विट्पण्यं वैश्यानां यद्विक्रेयं तद् अपि वृत्तिवैकल्याद्163 धनाभावाद्164 ब्राह्मणेन विक्रेयम् । उद्धार्याणि द्रव्याण्य् उद्धारशब्देनोच्यन्ते । उद्धृत उद्धारो यस्मिन् तद् एवम् उच्यते । वक्ष्यमाणानि द्रव्याण्य् अत उद्धृत्यान्यानि विक्रेयाणि । वित्तवर्धनम् इति स्वभावानुवाधः165 । वाणिज्यायां हि धनवृद्धिः प्रसिद्धा । त्यजतो धर्मनैपुणं धर्मे या निष्ठा । अतस् तेन पण्यविक्रयो न कर्तव्य इति ज्ञापयति । अतश् चेदम् अवगम्यते- सर्वासां वैश्यवृत्तीनां गर्हिता कृषिः, ततो न्यूना वाणिज्या,166 ततो गोरक्षादयः167 ॥ १०.८५ ॥
सर्वान् रसान् अपोहेत कृतान्नं च तिलैः सह ।
अश्मनो लवणं चैव पशवो ये च मानुषाः ॥ १०.८६ ॥
मेधातिथिः ...{Loading}...
मधुरादयः षड् रसाः । तत्प्रधानानि द्रव्याणि गुडदाडिमकिराततिक्तकादीनि प्रिषिध्यन्ते । न हि केवलानां रसानां संभवः । यद्य् अपि रसशब्दो न स्वयं द्रव्ये शुक्लादिशब्दवद् वर्तते सामानाधिकरण्येन, तथापि लक्षयति द्रव्यम्, “गङ्गायां घोषः” इति यथा168 । अपोहेत त्यजेत्, न विक्रीणीयाद् इति यावत् । कृतान्नं सिद्धम् अन्नम् ओदनादि तण्डुलादि न169 । तिलैः सह, तिला अपि न विक्रेयाः । न तु पुनस् तिलकृतान्नयोः सहप्रयुक्तयोः प्रतिषेधः, केवलयोर् अभ्यनुज्ञानम् । अश्मानः सर्वपाषाणाः । लवणम् अपाषाणरूपम् अपि । सैन्दवस्य पाषाणशब्देन ग्रहणम् । रसपक्षे लवणस्य नित्यार्थ आरंबः । तेन मधुरादीनां पाक्षिको विक्रयः । पशवो ग्राम्या आरण्याः । मानुषा मौष्याः ॥ १०.८६ ॥
सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि[^१७९]** च ।**
अपि चेत् स्युर् अरक्तानि फलमूले तथौषधीः ॥ १०.८७ ॥
मेधातिथिः ...{Loading}...
तान्तवं तन्तुनिर्मितं वस्त्रपटबृहतिकादि । रक्तं लोहितम् । लोहिते वर्णे रक्तशब्दः प्रसिद्धतरः । तथा हि रक्तो गौर् लोहित उच्यते, यद्य् अपि शुक्लस्य वर्णान्तरापादनम् अपि रञ्जेर् अर्थः। शाणक्षौमाविकान्य् अरक्तान्य् अपि । यत् आह- अपि चेत् स्युर् अरक्तानि । शिष्टं प्रसिद्धम् ॥ १०.८७ ॥
अपः शस्त्रं विषं मांसं सोमं गन्धांश् च सर्वसः ।
क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ १०.८८ ॥
मेधातिथिः ...{Loading}...
शस्त्रं खड्गपाशादि । गन्धास् तगरोशीरचन्दनादयो द्रव्यविशेषाः । रसशब्दवद् एतद् व्याक्येयम् । क्षीरं सविकारं170 स्मृत्यन्तरप्रसिद्धम् (च्ड़्। ग्ध् ७.११) । अतो मस्तुकिलाटोदश्विदादीन्य् अपि न विक्रेयानि । दधिघृतग्रहणं प्राधान्याद् उपात्तम् । मधु मधूच्छिष्टम् एकदेशलोपाद् देवदत्तो दत्त इतिवत् । स्मृत्यन्तरे हि तत् प्रतिषिद्धम् । इह च क्षौद्रशब्देन सारघस्य निषिद्धत्वात्, माध्वीकस्य च मद्यग्रहणेनोत्तरत्र प्रतिषेधात् ।
-
अन्ये तु माध्वीकस्यैवाप्राप्तमद्यावस्थस्य प्रतिषेधार्थं मधुशब्दं वर्णयन्ति ।
-
तद् अयुक्तम् । नायं निष्पीडितमृद्विकारसवचनः । किं तर्हि, मद्यरूपतयैव वर्तते । “उभौ मध्वासवक्षीबौ” (म्भ् ५.५८.५) इति प्रयोगदर्शनात्, क्षीबता मद्यकृतैव । गुडस्य रसत्वप्रतिषेधनिवृत्यर्थं ग्रहणम्171 ।
- अन्ये तु खण्डमत्स्यण्डिकादीनाम् अनुज्ञानार्थं व्याचक्षते ॥ १०.८८ ॥
आरण्यांश् च पशून् सर्वान् दंष्ट्रिणश् च वयांसि च ।
मद्यं नीलीं च लाक्षां च सर्वांश् चैकशफांस् तथा ॥ १०.८९ ॥
मेधातिथिः ...{Loading}...
आरण्यपशुश्अब्दौ गुडलवनेनैव व्याख्यातौ । ग्राम्यपश्वनुज्ञातार्थम् । ग्राम्या अपि पशवो हिंसायां संयोग इति निषिद्धार्थः । दंष्ट्रिणः श्वशूकरादयः । वयांसि पक्षिणः । एकशफा अश्वाश्वतरगर्दभादयः । “बहून्” इति “तथा"शब्दस्थाने पठन्ति । एकस्य विक्रये तथा न दोषः ॥ १०.८९ ॥
कामम् उत्पाद्य कृष्यां तु स्वयम् एव कृषीवलः ।
विक्रीणीत तिलान् शुद्धान् धर्मार्थम् अचिरस्थितान् ॥ १०.९० ॥
मेधातिथिः ...{Loading}...
“कृतान्नं च तिलैः सह” (म्ध् १०.८६) इति प्रतिषिद्धानां तिलानां स्वरूपप्रयोजनविशेषाश्रयः प्रतिप्रसवः । शुद्धान् अचिरस्थितान् इति च स्वरूपविशेषः । धर्मार्थम् इति प्रयोजनविशेषः । शुद्धा व्रीह्यादिभिर् अमिश्राः । कृशराद्यर्थं मिश्राणां विक्रयासंभवः । अचिरस्थिताः । अर्थादिकं लाभम् अनपेक्ष्य,172 “स्वल्पं मूल्यम् अद्य, कालान्तरे चागामिनि173 बहुमूल्यं लभेय” इत्य् एवं न प्रतीक्षितव्यम् । अथ वा शुद्धा अकृष्णाः । कृष्णतिलानां प्रतिषेधः । अचिरस्थितान् इति वायम् अर्थः-174 चिरस्थितं हि कृष्णं भवति । कृष्णा उत्पाद्य क्रीत्वा वा175 न विक्रेयाः । स्वयं कृष्यां कृषीवल इति प्रायिको ऽनुवादः, न विवक्षितानि पदानि । प्रतिग्रहाद्यर्जितानाम् अप्य् अप्रतिषेधः धर्मप्रयोजने यत्र तिलान्176 विक्रीयन्ते । इह च रूपकैर् गावो दक्षिणाद्यर्थं स्वाध्यायाग्निहोत्राद्यर्थं क्रीयन्ते, व्रीह्यादयो177 वा दर्शपूर्णमासाद्यर्थम्, स धर्मार्थो विक्रयः । यस्य वा तिला एव दानादिधर्मायोपयुज्यन्ते, भेषजतैलोपयोगे वा क्रेतुः, सो ऽप्य् एवम् एव ॥ १०.९० ॥
भोजनाभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते तिलैः ।
कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ॥ १०.९१ ॥
मेधातिथिः ...{Loading}...
प्रकृततिलविशेषव्यतिरेकेण तिलविक्रयप्रतिषेधे विशेषो ऽयम् अर्थवादः ।
-
ननु चोक्तं प्रतिषेधानां दोषसूचनं फलतयैव संबध्यते । तत् किम् भोजनाभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते तिलैः कृमिभूतः इत्य् अयम् अर्थवाद इति ।
-
उच्यते । असंभविनः फलस्य शास्त्रान्तरेण विरुद्धस्य च श्रवणाद् एवम् उच्यते । तथा हि178 पितृभिः सह इत्य् उच्यते । न च तैः किंचिद् अपराद्धम् । सुकृतदुष्कृतयोः फलं हि कर्तृगामि । न च पितॄणां कथंचिद् अपि कर्तृत्वम् इत्य् एतत् प्राग् उक्तम् एव । किं च “सद्यः पतति मांसेन” (म्ध् १०.९२) इति पतितत्ववचनं परेषां न पातित्यम् इति नियमात्179 । तस्माद् अस्ति किंचिद् अनिष्टम् इत्य् एतावन्मात्रं प्रतिषेधेन संबध्यते । यथाश्रुतम् एव न180 युक्तम् । भोजनादिक्रिया यत्र तद्व्यतिरेकेण यद् अन्यद् विक्रयस्थानादि तत्र तिलैर् यः कुरुते स कृमित्वं प्राप्नोति यथोक्तेन दोषेण संयुयते ॥ १०.९१ ॥
सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ १०.९२ ॥
मेधातिथिः ...{Loading}...
उक्तार्थः ॥ १०.९२ ॥
इतरेषां तु पण्यानां विक्रयाद् इह कामतः ।
ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥ १०.९३ ॥
मेधातिथिः ...{Loading}...
कामत इत्य्वचनाद् अनापदीत्यनुमीयते181 । गुरुलघुत्वदर्शनं मांसादीनां प्रायश्चित्तविसेषार्थम् । गुरुणि गुरूणि लघुनि लघूनीति वक्ष्यामः (च्ड़्। म्ध् ११.५८) ॥ १०.९३ ॥
रसा रसैर् निमातव्या न त्व् एव लवणं रसैः ।
कृतान्नं चाकृतान्नेन तिला धान्येन तत्समाः ॥ १०.९४ ॥
मेधातिथिः ...{Loading}...
रसाः पूर्वोकाः । ते रसैर् निमातव्याः । मधुरसं गुडादि दत्वा, आम्लादिरसम् आमलक्यादि ग्रहीतत्वम् । न केवलं लवणं दत्वा रसान्तरम् आदेयम् । पाठान्तरम् “लवणं तिलैः” इति । अस्मिन् पाठे तिलैर् एव लवणस्य प्रतिषेधो न रसान्तरैः । कृतान्नं सक्त्वोदनाद्य् अन्नेन182 पायसादिना निमातव्यम् । तिलास् तु धान्येन व्रीह्यादिना तत्समाः । प्रस्थं दत्वा प्रस्थ एव ग्रहीतव्यो नार्घापेक्षयाधिकं183 वादेयम् । विनिमयो नाम विक्रय एव । क्रीणातिस् तु द्रव्यविनिमये पठ्यते । न हि तद् युक्तम्, विक्रये प्रकृते “विनिमयस् तु”184 इति गौतमो भेदं दर्शयति185 । एवं तर्हि प्रसिद्धेन रूपकादिना द्रव्यार्पणं विक्रयः । तदन्यद्रव्यपरिवृत्तौ विनिमयः ॥ १०.९४ ॥
जीवेद् एतेन राजन्यः सर्वेणाप्य् अनयं गतः ।
न त्व् एव ज्यायसीं वृत्तिम् अभिमन्येत कर्हिचित् ॥ १०.९५ ॥
मेधातिथिः ...{Loading}...
एतेन सर्वेणापि । प्रतिषिद्धपण्यप्रतिप्रसवो ऽयं राजन्यस्य । न किंचित् तस्याविक्रेयं वैश्यवत् । किं तु सत्य् अपि स्ववृत्तित्यागे न ज्यायसीं ब्राह्मणवृत्तिं कदाचिद् अप्य् अभिमन्येत, **”**इमां करोमि" इति चेतसि न कुर्यात् । प्रतिकूलं दैवम् अनयः । एतद् आपदुपलक्षणार्थम् । गतः प्राप्तः । आपद्गत इति यावत् ॥ १०.९५ ॥
यो लोभाद् अधमो जात्या जीवेद् उत्कृष्टकर्मभिः ।
तं राजा निर्धनं कृत्वा क्षिप्रम् एव प्रवासयेत् ॥ १०.९६ ॥
मेधातिथिः ...{Loading}...
यो जात्याधमो निकृष्टः क्षत्रियादिः । सत्य् अपि प्रकृतत्वे राजन्यस्य, सर्वेषाम् अयं ब्राह्मणवृत्तिप्रतिषेधः । एवम् एवायं श्लोकः । उत्कृष्टो निरपेक्षो ब्राह्मण एव । कर्मभिर् अध्ययनादिभिर् जीवति । दण्ड्यो ऽयं सर्वस्वग्रहणप्रवासनैः ॥ १०.९६ ॥
वरं स्वधर्मो विगुणो न परधर्मात् स्वनुष्ठितात्[^१९६]** ।**
परधर्मेण जीवन् हि सद्यः पतति जातितः ॥ १०.९७ ॥
मेधातिथिः ...{Loading}...
पूर्वस्य विधेर् निन्दार्थवादो ऽयम् । यो यस्य विहितो धर्मो जात्याश्रयेण, विगुणो ऽप्य् अपरिपूराङ्गो ऽपि युक्तो ऽनुष्ठातुम्, न परधर्मः सर्वाङ्गसंपूर्णो ऽपि । अत्र निन्दार्थवादः परधर्मेणेति ॥ १०.९७ ॥
वैश्यो ऽजीवन् स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत् ।
अनाचरन्न् अकार्याणि निवर्तेत च शक्तिमान् ॥ १०.९८ ॥
मेधातिथिः ...{Loading}...
स्वधर्मेणाजीवतो वैश्यस्य शूद्रवृत्तिर् अनुज्ञायते । पादधावनादिशुश्रूषया । अनाचरन्न् अकार्याणि । उच्छिष्टापमार्जनाद्यकार्यम्, तत् परिहर्तव्यम् । शक्तिमान् निवर्तेतेति सर्वशेषः ।
-
अत्र केनचिद् उक्तम्- सामर्थ्यात् ब्राह्मणक्षत्रिययोर् अप्य् एतद् अतिदिश्यते ।
-
तत्रापरेण संदिह्यते । कथं शूद्रवृत्तिं ब्राह्मणः कुर्यात् । एवं हि श्रूयते-
-
उत्कृष्टं चापकृष्टं च विद्येते कर्मणी तयोः ।
-
मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ इति ।
-
तद् अयुक्तम् । न त्व् अस्यायम् अर्थो ब्राह्मणस्य शूद्रवृत्तिर् अनुज्ञायते सामर्थ्याद् इति । किं तर्हि, निवर्तेत च शक्तिमान् इति यद् अस्माभिर् उक्तं सर्वशेष186 इति ॥ १०.९८ ॥
अशक्नुवंस् तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।
पुत्रदारात्ययं प्राप्तो जीवेत् कारुककर्मभिः ॥ १०.९९ ॥
यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।
तानि कारुककर्माणि शिल्पानि विविधानि च ॥ १०.१०० ॥
मेधातिथिः ...{Loading}...
प्रचरितैर् अनुष्ठितैः । शुश्रूष्यन्ते सेव्यन्ते । तदुपयोगीनि यानि कर्माणि शिल्पानि । यद्य् अपि शिल्पम् अपि कारुकर्मैव, तथापीह भेदेनोपादानात् तक्षकिवर्धकिप्रभृतयः कारवः, तेषां कर्माणि तक्षणवर्धनादीनि । शिल्पानि पत्रछेदरूपकर्माण्य् आलेख्यानि ॥ १०.१०० ॥
वैश्यवृत्तिम् अनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः ।
अवृत्तिकर्षितः सीदन्न् इमं धर्मं समाचरेत् ॥ १०.१०१ ॥
मेधातिथिः ...{Loading}...
अनातिष्ठन्न् इच्छया । एतद् उक्तं भवति । क्षत्रवृत्त्यसंभवे यदि वा वैश्यवृत्तिम् आचरेद् असत्प्रतिग्रहं वा । तुल्ये एते वृत्ती । असत्प्रतिग्रहात् क्षत्रवृत्तिः श्रेयसी । अथ वा अनातिष्ठन् वैश्यवृत्तिम्,189 असंभवे । ततश् चासत्प्रतिग्रहो वैश्यवृत्तेर् हीनतरः । स्वे पथि स्थित इति ब्रुवन्न् आपद्वृत्तीनां समुच्चयो ऽस्तीति ज्ञापयति । अवृत्त्या कर्शितः190** सीदन्न्** अवसादं प्राप्नुवन्191 ॥ १०.१०१ ॥
सर्वतः प्रतिगृह्णीयाद् ब्राह्मणस् त्व् अनयं गतः ।
पवित्रं दुष्यतीत्य् एतद् धर्मतो नोपपद्यते ॥ १०.१०२ ॥
मेधातिथिः ...{Loading}...
सर्वत इति प्रतिग्राह्यजातिगुणानाम् अपेक्षा न कर्तव्या । अत्रापि हीनहीनतरहीनतमेषु क्रमेण पूर्वपूर्वाभावे उत्तरोत्तरप्राप्तिर् अस्त्य् एव । यथा क्षत्रवृत्त्यभावे वैश्यवृत्तिः । पवित्रं गङ्गास्रोतः । तद् अमेध्यसंसर्गे न192 दुष्यति “नदी वेगेन शुध्यति” (म्ध् ५.१०७) इत्य् उक्तम् । एवं ब्राह्मणो ऽपीति ॥ १०.१०२ ॥
नाध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात् ।
दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥ १०.१०३ ॥
मेधातिथिः ...{Loading}...
पूर्वेणासत्प्रतिग्रह उक्तः । अनेन याजनाध्यापने अनुज्ञायेते । गर्हिताद् इति सिंहावलोकितवत् पूर्वाभ्याम् अप्य् अभिसंबध्यते । यथाग्निर् आपश् च सर्वत्र शुद्धा एवं ब्राह्मणा अपीति प्रशंसा ।
- केचिद् आहुः । न193 असत्प्रतिग्रहवद् असद्याजनाध्यापने अप्य् अनुज्ञायेते । यद्य् अभविष्यतां तदा पूर्वश्लोक एव194 प्रतिग्रहवद् अपठिष्यताम् । इह तु विधिप्रत्ययाभावाद् दोषो भवति विप्राणाम् इति । वर्तमानप्रत्ययेन सिद्धव्यपदेशद् अर्थवादताप्रतीतेः । किं च प्रतिग्रहवचनं195 तावद् अर्थवादः, पूर्वेण सिद्धत्वात्, तदेकवाक्यत्वापत्तेर्196 याजनाध्यापने अप्य् एवं भवितुम् अर्हतः ।
- वयं तु ब्रूमः- असंभवे ऽसत्प्रतिग्रहस्य तत्रापि वृत्तिर् युक्ता । यतः प्रवृत्तिः197 स्मर्यते- “यथा कथंचित् स आत्मानम् उद्धरेद् अन्यत्र प्रत्यवायेभ्यः” । कर्मार्थस् त्व् आपद्धर्मपाठः ॥ १०.१०३ ॥
जीवितात्ययम् आपन्नो यो ऽन्नम् अत्ति ततस्[^२०९]** ततः ।**
आकाशम् इव पङ्केन न स पापेन लिप्यते ॥ १०.१०४ ॥
अजीगर्तः सुतं हन्तुम् उपासर्पद् बुभुक्षितः ।
न चालिप्यत पापेन क्षुत्प्रतीकारम् आचरन् ॥ १०.१०५ ॥
मेधातिथिः ...{Loading}...
अजीगर्तो नाम ऋषिः । स क्षुत्परिपीडितः पुत्रं सुतं शुनःशेपनामानं हन्तुम् उपासर्पत् प्रचक्रमे । न चासौ क्रव्याद इति युज्यते । शौनःशेपम् आख्यानं बह्वृचि सुप्रसिद्धम् (ऐत्ब् ७.१३) । नात्र विस्तर आगमस्योपयुज्यते । परमार्थस् तु प्रकृतिरूपो ऽर्थवादः । एवं सर्व एते द्रष्टव्याः ॥ १०.१०५ ॥
श्वमांसम् इच्छन्न् आर्त्तो ऽत्तुं धर्माधर्मविचक्षणः ।
प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥ १०.१०६ ॥
मेधातिथिः ...{Loading}...
एवं वामदेवो नाम ऋषिः । स आर्तः क्षुधा श्वमांसम् अत्तुं भक्षयितुम् ऐच्छत् ॥ १०.१०६ ॥
भरद्वाजः क्षुधार्त्तस् तु सपुत्रो विजने वने ।
बह्वीर् गाः प्रतिजग्राह वृधोस् तक्ष्णो महातपाः ॥ १०.१०७ ॥
मेधातिथिः ...{Loading}...
वृधो माम तक्षा अप्रतिग्राह्यः । ततो बह्वीर् गा भरद्वाजो नाम ऋषिः प्रतिजग्राह ॥ १०.१०७ ॥
क्षुधार्त्तश् चात्तुम् अभ्यागाद् विश्वामित्रः श्वजाघनीम् ।
चण्डालहस्ताद् आदाय धर्माधर्मविचक्षणः ॥ १०.१०८ ॥
मेधातिथिः ...{Loading}...
विश्वामित्रो नाम महामुनिः प्रसिद्धः । स कस्मिंश्चिद् अवसरे क्षुधादुःखेन श्वजाघनीं चण्डालहस्ताद् आदायात्तुम् अभ्यागाद्200 आभिमुख्येनाध्यवसितः । न केवलं परिदुष्टे ऽन्ने दोषो ऽस्ति, यावत् स्वभावदुष्टे ऽपीति श्वजाघनीग्रहणम् । सर्वदोषदुष्टम् अप्य् आपदि भक्षयितव्यम् इति श्लोकतात्पर्यार्थः ॥ १०.१०८ ॥
प्रतिग्रहाद् याजनाद् वा तथैवाध्यापनाद् अपि ।
प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥ १०.१०९ ॥
मेधातिथिः ...{Loading}...
आपदीषद्गर्हितयोर् याजनाध्यापनयोः संभवे न गर्हितप्रतिग्रहे वर्तितव्यम् इति श्लोकार्थः ॥ १०.१०९ ॥
याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् ।
प्रतिग्रहस् तु क्रियते शूद्राद् अप्य् अन्त्यजन्मनः ॥ १०.११० ॥
मेधातिथिः ...{Loading}...
अत्रैव हेतुरूपो ऽर्थवादः । प्रवृत्तिर् एवेदृशी लोकस्य यद् अनुपनीता नाधीयते न च यजन्ते । अतः सुष्ट्व् आर्त्तो ऽपि न शूद्रं याजयिष्यत्य् अध्यापयिष्यति वा । दानं तु सार्ववर्णिकं प्रसिद्धं । शुद्राद् अपि प्रतिग्रहः कर्तुं प्राप्नोति । अतः स प्रत्यवरः ॥ १०.११० ॥
जपहोमैर् अपैत्येनो याजनाध्यापनैः कृतम् ।
प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ १०.१११ ॥
मेधातिथिः ...{Loading}...
जपेन होमेन चैनः पापम् अपैति विनश्यति । तेन न क्षतिः । प्रतिग्रहाद् यद् एनस् तत्त्यागेन तस्य प्रतिग्रहस्य, तपसा वक्ष्यमाणेन “मासं गोष्ठे पयः पीत्वा” (म्ध् ११.१९३) इत्यादि ॥ १०.१११ ॥
शिलोञ्छम् अप्य् आददीत विप्रो ऽजीवन् यतस् ततः ।
प्रतिग्रहाच् छिलः स्रेयांस् ततो ऽप्य् उञ्छः प्रशस्यते ॥ १०.११२ ॥
मेधातिथिः ...{Loading}...
अस्याप्य् अनुवादो ऽर्थवादम् एवाह । महद् एतद् अन्याय्यं यत् परद्रव्यग्रहणम् । तत्र कदाचिद् अश्रूयमाणस्य ग्रहणे ऽपीदं भवद् दुष्यतो ऽप्य् एतावता प्रशस्यत्वम् । अत्र शिलः प्रतिग्रहसमानजातीयः201 । स एवायं प्रकर्षप्रत्ययहेतुर् भवति । प्रतिग्रहाच् छिलः श्रेयान् इति । यतो निकृष्टम् अपेक्ष्योत्कृष्टत्वनिमित्तं प्रकर्षं अनुभवति । न हि भवति चण्डालाद् ब्राह्मणः श्रेयान् । अतः शिलोञ्छयोर् अपि ग्रहणे ऽनस्वग्रहणम् । तथापि शिलोञ्छः श्रेयः । यद्य् अपि शिलोञ्छवृत्तिर् अन्त्यन्तोत्कृष्टोक्ता तथाप्य् अस्ति प्रतिग्रहेण किंचित् साम्यम्202 । यतस् तत्राधिष्ठितदेवतानिष्ठितभृत्यागतं203 क्रियावैकल्यम् । असत्प्रतिग्रहे ऽप्य् आत्मनि ग्रह उपपन्नो न कुप्यतीत्य् अयम्204 इति । तत्रेतरसंनिहितद्रव्यस्यात्मनि ग्रहः । अतः शिलोञ्छवृत्तिर् अपि न निरवद्या । ततो युक्तं प्रतिग्रहाच् छिलः स्रेयान् इत्यादि ॥ १०.११२ ॥
सीदद्भिः कुप्यम् इच्छद्भिर् धनं[^२१७]** वा पृथिवीपतिः ।**
याच्यः स्यात् स्नातकैर् विप्रैर् अदित्संस् त्यागम् अर्हति ॥ १०.११३ ॥
मेधातिथिः ...{Loading}...
अत्र त्रीणि निमित्तानि राजप्रतिग्रह उच्यन्ते । सीदद्भिः कुटुम्बावसदं प्राप्तैर् आपदीत्य् अर्थः । कुप्यम् इच्छद्भिः कुण्डलकटकाद्य् उष्णीषासनादि काञ्चनादि अन्यद् वा धनं गोहिरण्यादि यज्ञोपयोग्य् अन्यद् वा । विप्रैः205 पृथिवीपतिर् याच्यो देशेश्वरो ऽभ्यर्थयितव्यः । अत्र यद् उक्तम् “न राज्ञः प्रतिगृह्णीयात्” (म्ध् ४.८४) इति, स दुष्टराजविषयः प्रतिषेधो द्रष्टव्यः । तथा चोक्तम् “लुब्धस्योच्छास्त्रवर्तिनः” (म्ध् ४.८७) इति । अदित्सन् याचितः सन् दातुं यो नेच्छति । स त्यागम् अर्हति । तस्य विषये न वस्तव्यम् । अथ वा त्यागो हानिः । अन्यस्य चानिर्देशाद् धर्महानिं प्राप्नोति ॥ १०.११३ ॥
अकृतं च कृतात् क्षेत्राद् गौर् अजाविकम् एव च ।
हिरण्यं धान्यम् अन्नं च पूर्वं पूर्वम् अदोषवत् ॥ १०.११४ ॥
मेधातिथिः ...{Loading}...
अकृतम् अकृष्टं क्षेत्रं प्रशस्यम् । अजाविकं च भवति । परस्परविशेष उक्तार्थः श्लोको गम्यते ॥ १०.११४ ॥
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।
प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ॥ १०.११५ ॥
मेधातिथिः ...{Loading}...
दायः अन्वयागतं धनम् । लाभः निध्यादेः । पित्राद्यर्जिताद् वा बन्धात्206 संविभागः । यद्य् अपि तत्पित्रादिक्रमायातं तथापि न तद् दायशब्देन207 शक्यम् अभिधातुम्, बहुसाधारण्यात् । तथा च “निबन्धो द्रव्यम्” (य्ध् २.१२४) इति स्मृत्यन्तरे पठितम् । अथ वा मित्राच् छ्वशुरगृहाद् वा यल् लब्धं प्रीत्या स लाभः । क्रयः प्रसिद्धः । जयः संग्रामे । प्रयोगकर्मयोगौ कुसीदकृषिवाणिज्यानि । अतश् च वर्णभेदेनैतेषां धर्म्यत्वम् । तत्राद्यास् त्रयः सर्वसाधारणाः । जयः क्षत्रियस्य । प्रयोगकर्मयोगौ वैश्यस्य । सत्प्रतिग्रहो ब्राह्मणस्य विशेषः । सर्ववर्णे208 ऽपि प्राग्दर्शनन्यायो विभागः ।
-
केचित् क्रये विवदन्ते ।
-
तन् न युक्तम्, सर्वव्यवहारोच्छेदप्रसङ्गात् ।
-
जयं पणबन्धेनापि209 केचिद् इच्छन्ति सर्वविषयं ।
- तद् अयुक्तम् । द्यूतधनस्य स्मृत्यन्तरेष्व् अशुद्धित्ववचनात् “पार्श्विकद्यूत”210 (न्स्म् १.४३) इत्य् अत्र ।
-
तथापरे प्रयोगम् अव्यापारम् आहुः । तथा हि प्रयोगो दृश्यते “ज्ञानपूर्वप्रयोगः” इति । तत्र शब्दस्य प्रयोग इति गम्यते ।
-
तथा कर्मप्रयोगः कर्मप्रचार211 ॥ १०.१५५ ॥
विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः ।
धृतिर् भैक्ष्यं कुसीदं च दश जीवनहेतवः ॥ १०.११६ ॥
मेधातिथिः ...{Loading}...
सर्वपुरुषाणाम् आपदि वृत्तिर् इयम् अनुज्ञायते । तत्र विद्या वेदविद्याव्यतिरेकेण वैद्यकतर्कभूतविषासनविद्या सर्वेषां जीवनार्था न दुष्यति । शिल्पं व्याख्यातम् । भृतिः प्रेष्यकत्वम् । सेवा परवृत्तानुवृत्तित्वम् । धृतिः संतोषः । दृष्टान्तार्थं चैतत् । अतो यथाविहितवृत्तिभावेनैते जीवनोपायाः संकीर्यन्ते, पुरुषमात्रविषयत्वात्212 ॥ १०.११६ ॥
ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत् ।
कामं तु खलु धर्मार्थं दद्यात् पापीयसे ऽल्पिकाम् ॥ १०.११७ ॥
मेधातिथिः ...{Loading}...
धर्मार्थम् इति पूर्वोक्तैवापत्तिवृत्तिर्213 वेदितव्या । पापीयस इति वचनाद् धार्मिकाद् अल्पापि न ग्रहीतव्या । यद् उक्तम् “अध्यापनतुल्यानि कृषिवाणिज्यकुसीदानि” तद् आपद्गतेन ॥ १०.११७ ॥
चतुर्थम् आददानो ऽपि क्षत्रियो भागम् आपदि ।
प्रजा रक्षन् परं शक्त्या किल्बिषात् प्रतिमुच्यते ॥ १०.११८ ॥
मेधातिथिः ...{Loading}...
राज्ञः क्षीणकोशस्य षड्भागग्रहणापवादश् चतुर्थभागो ऽभ्यनुज्ञायते । परिशिष्टो ऽर्थवादः । परम् इति क्रियावेशेषणम्, परया रक्षयेत्य् अर्थः ॥ १०.११८ ॥
स्वधर्मो विजयस् तस्य नाहवे स्यात् पराङ्मुखः ।
शस्त्रेण वैश्यान् रक्षित्वा धर्म्यम् आहारयेद् बलिम् ॥ १०.११९ ॥
मेधातिथिः ...{Loading}...
विजयशब्देन विजयफलं युक्तं214 स्वधर्मतया विधीयते । तथा चाहवे न स्यात् पराङ्मुखः । भय उपस्थिते पराङ्मुखो युद्धे न स्याद् इत्य् अर्थः । अनेन प्रकारेण प्रजा रक्षित्वा वैश्याद् बलिर् हारयितव्यः । वैश्या महाधना भवन्ति । ततस् तथा हरणे नियुक्ताः कृतापराधा न हन्यन्ते ॥ १०.११९ ॥
धान्ये ऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् ।
कर्मोपकरणाः शूद्राः कारवः शिल्पिनस् तथा ॥ १०.१२० ॥
मेधातिथिः ...{Loading}...
धान्यव्यवहारिणां लाभाद् अष्टमो भागो ग्रहीतव्यः । विट्शब्दः प्रजावचनः । हिरण्यव्यवहारिणां विंशतितमः । शूद्राः कर्मोपकरणाः । कर्म215 उपकरणम् उपकारो येषां न ते किंचिद् दापयितव्याः । एवं शिल्पिनः कारवः । तद् एवम् उक्तं प्राक् “शिल्पिनो मासि मासि” (म्ध् ७.१३९) इत्यादि । अधिकभागग्रहणार्थो ऽयं श्लोकः ॥ १०.१२० ॥
शूद्रस् तु वृत्तिम् आकांक्षन् क्षत्रम् आराधयेद् यदि ।
धनिनं वाप्य् उपाराध्य वैश्यं शूद्रो जिजीविशेत् ॥ १०.१२१ ॥
मेधातिथिः ...{Loading}...
शूद्रस् तु वृत्तिम् आकांक्षेत् तदा क्षत्रम् आराधयेत् । वृत्तिग्रहणाज् जीविकार्थम् एव क्षत्राराधनम्, न धर्मार्थम् । ब्राह्मणाराधनं तुभयार्थम् अपीत्य् उक्तं भवति । एवं धनिनं वैश्यम् आराध्य जीवेत् ॥ १०.१२१ ॥
स्वर्गार्थम् उभयार्थं वा विप्रान् आराधयेत् तु सः ।
जातब्राह्मणशब्दस्य सा ह्य् अस्य कृतकृत्यता ॥ १०.१२२ ॥
विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते ।
यद् अतो ऽन्यद् धि कुरुते तद् भवत्य् अस्य निष्फलम् ॥ १०.१२३ ॥
मेधातिथिः ...{Loading}...
ब्राह्मणशुश्रूषैव मुख्यः शूद्रस्य धर्मः । ततो यद् अन्यद् व्रतोपवासादि कुरुते तद् अस्य निष्फलम् । न तु दानपाकयज्ञादीनाम् अस्य प्रतिषेधः, प्रत्यक्षविधानात् । इतरप्रतिषेधो ब्राह्मणशुश्रूषास्तुत्यर्थः ॥ १०.१२३ ॥
प्रकल्प्या तस्य तैर् वृत्तिः स्वकुटुम्बाद् यथार्हतः ।
शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ॥ १०.१२४ ॥
मेधातिथिः ...{Loading}...
द्विजातीनाम् अयं धर्मः । तस्य वृत्तिः कल्पनीया शुश्रूषमाणस्य । स्वकुटुम्बाद् इति पुत्रवद् असौ पालनीयः । आत्मीयां शक्तिम् अवेक्ष्य,** दाक्ष्यं च** तस्य कार्येषु योग, भृत्यानां च पुत्रदाराणां तदीयानां परिग्रहं कियन्तो ऽस्य भर्तव्या इत्य् एतद् अपेक्ष्य सर्वेषां भरणं कर्तव्यम् ॥ १०.१२४ ॥
उच्छिष्टम् अन्नं दातव्यं जीर्णानि वसनानि च ।
पुलाकाश् चैव धान्यानां जीर्ञाश् चैव परिच्छदाः ॥ १०.१२५ ॥
मेधातिथिः ...{Loading}...
उच्छिष्टशब्दो व्याख्यातार्थः । अतिथ्यादिभुक्तशिष्टम् आश्रिताय शूद्राय दातव्यम् । एवं वासांसि जीर्णानि धौतानि शुक्लानिम्। पुलाका असारधान्यानि । एवं परिच्छदाः शय्यासनादयः ॥ १०.१२६ ॥
न शूद्रे पातकं किंचिन् न च संस्कारम् अर्हति ।
नास्याधिकारो धर्मे ऽस्ति न धर्मात् प्रतिषेधनम् ॥ १०.१२६ ॥
मेधातिथिः ...{Loading}...
सर्वो ऽयम् अनुवादश्लोकः । यद् अस्याहत्यशृङ्गग्राहिकया न प्रतिषिद्धम्, यथा हिंसास्तेयाद्य् अनादृतवर्णविशेषं सामान्यशास्त्रप्रतिषिद्धम्, न तद्व्यतिक्रमाद् अस्य पापम् उत्पद्यते । श्रुतम् एवास्य शब्देन यथा हिंसास्तेयादिस् तत्रास्य भवत्य् एव दोषः । न च संस्कारम् उपनयनलक्षणम् अर्हति । तद् उक्तम् “त्रयो वर्णा द्विजातयः” (म्ध् १०.४) इति । एवं नास्याधिकारो धर्मे ऽस्ति स्नानोपवासदेवतार्चनादौ नास्य नित्यो ऽधिकारो ऽस्ति । अकरणे न प्रत्यवैति । न धर्मात् प्रतिषेधनम् । येषु स्नानोपवासव्रतादिषु नित्यादिकारो नास्ति, अकरणे प्रत्यवायाभावः, अथ निषेधो नास्ति, तादृशेभ्यो धर्मेभ्यो न प्रतिषेधः । न चेदृशाद् अस्य प्रतिषेधः, अतः शिष्टप्रतिषिद्धत्वाद् अभ्युदयकामस्य तदनुष्ठानं219 युज्यते ।220 एवं लशुनादिभक्षणनिवृत्तिर् अप्य् अभ्युदयायास्य वेदितव्या । सामान्यशास्त्रविहितम् “निवृत्तिस् तु महाफला” (म्ध् ५.५६) इति । अतो न धर्मात् प्रतिषेधनम् इति यत्रारम्भः ॥ १०.१२६ ॥
धर्मेप्सवस् तु धर्मज्ञाः सतां धर्मम्[^२३४]** अनुष्ठिताः ।**
मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥ १०.१२७ ॥
मेधातिथिः ...{Loading}...
एतद् एवाह । धर्माप्तुम्221 इच्छन्तो ऽभ्युदयकामाः । सतां साधूनां धर्मम् अनुष्ठिताः समाश्रिताः । मन्त्रवर्जं न दुष्यन्ति । अतस् ते अनेकाहोपवासदेवतार्चनगुरुब्राह्मणनमस्कारादि **सतां **वृत्तम् आचरन्तो न दुष्यन्ति । **प्रशंसां **फलं च प्राप्नुवन्ति ।
-
न पुनर् एतन् मन्तव्यम् “यानि समन्त्रकाणि ब्राह्मणादीनां कर्माणि दर्शपौर्णमासादीनि तानि मन्त्रवर्ज्यं शूद्रस्य न दुष्यन्ति” इति । यतः समन्त्रेषूत्पन्नेषु मन्त्ररहितेनानुष्ठानम् अशाब्दं स्यात् । मन्त्रवर्जम् इत्य् एतस्य दर्शितो विषयः । तथा च भवगान् व्यासः-
-
न चेह शूद्रः पततीति निश्चयो न चापि संस्कारम् इहार्हतीति ।
-
स्मृतिप्रयुक्तं तु न धर्मम् अश्नुते न चास्य धर्मे प्रतिषेधनं स्मृतम् ॥ इति ।
एतद् अपि यथाविहितानुवाद्य् एव । लशुनसुरापानादेर् न पतति । संस्कारानर्हतोक्तैव । उक्तं चानुपनीतत्वाच् छ्रुतिविहितधर्माभावे स्मृतिविषये सामान्यविहिता धर्मा यथोक्तप्रकारास् ते नास्य प्रतिषिध्यन्ते । तथा च स्मृत्यन्तरम्- “पाकयज्ञैः स्वयं यजेत । अनुज्ञातो ऽस्य नमस्कारो मन्त्रः” (ग्ध् १०.६४–६५) इति ।
-
ये पुनर् आहुः आवसथ्याधानपार्वणवैश्वदेवान्नपाकयज्ञादिषु शूद्राणां पाक्षिको ऽधिकारः,
-
तेषाम् अभिप्रायं न विद्मः । आवसथ्याधानं तावद् गृह्यकारैर् आम्नातं त्रैवर्णिकोद्देशेनैव । मन्वादिभिश् च नैवम् आम्नातम् । तथा केवलम् “वैवाहिकाग्नौ कुर्वीत गृह्यं कर्म” (म्ध् ३.५७) इति तत्र नैवाम्नातम् । कुतः शूद्रस्याधानम् । अथ पाकयज्ञविधानाद् अग्न्याधानाक्षेपः, तद् अपि न । लौकिकाग्नौ वैश्वदेवो भविष्यति । यावद् वचनं222 वाचनिकं नान्यद् आक्षेप्तुम् अलं । “विवाहाग्नौ” इत्य् अत्रैव प्रदर्शितम् । पार्वणशब्देन च यद्य् आमावास्यं श्राद्धम् उच्यते, तद् अभ्यनुजानीमः, अष्टकापार्वणश्राद्धवैश्वदेवानां विहिततात् । अथ दर्शपौर्णमासौ, तद् अपाकृतम् ॥ १०.१२७ ॥
यथा यथा हि सद्वृत्तम् आतिष्ठत्य् अनसूयकः ।
तथा तथेमं चामुं च लोकं प्राप्नोत्य् अनिन्दितः ॥ १०.१२८ ॥
मेधातिथिः ...{Loading}...
उक्तार्थः श्लोकः ॥ १०.१२८ ॥
शक्तेनापि हि शूद्रेण न कार्यो धनसंचयः ।
शूद्रो हि धनम् आसाद्य ब्राह्मणान् एव बाधते ॥ १०.१२९ ॥
मेधातिथिः ...{Loading}...
शक्तेनापि कृष्यादिकर्मणा धनसंचयः शूद्रेण न कर्तव्यः । तत्र हेतुस्वरूपम् अर्थवादम् आह । शूद्रो धनं बह्व् आसाद्य स्वीकृत्य ब्राह्मणान् एव बाधते ।
-
का पुनर् ब्राह्मणानां बाधा ।
-
महाधनत्वाद् अत्यर्थं ब्राह्मणान् प्रतिग्राहयेत् । शूद्रप्रतिग्रहश् च तेषां प्रतिषिद्धः । तत्र निमित्तभावम् आपद्यमानो दुष्येत् । एतच् च न विहितं कुर्वतः कर्मदोषाशङ्का । तस्माद् ब्राह्मणान् न परिचरेद् इत्य् एषैव बाधा ॥ १०.१२९ ॥
एते चतुर्णां वर्णानाम् आपद्धर्माः प्रकीर्तिताः ।
यान् सम्यग् अनुतिष्ठन्तो व्रजन्ति परमां गतिम् ॥ १०.१३० ॥
मेधातिथिः ...{Loading}...
सम्यग् आपद्धर्मानुष्ठानात् परमा गतिः प्राप्यते । शरीररक्षणाद् विहितातिक्रमो न भवतीति युक्ता शुभपलप्राप्तिः । नापद्गतेनासत्प्रतिग्रहादौ विचिकित्सितव्यम् इति शास्त्रन्यायानुवादः ॥ १०.१३० ॥
एष धर्मविधिः कृत्स्नश् चातुर्वर्ण्यस्य कीर्तितः ।
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥ १०.१३१ ॥
मेधातिथिः ...{Loading}...
पाठाद् एव सिद्धर्तो ऽयम् इति ॥ १०.१३१ ॥
**इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां **
दशमो ऽध्यायः ॥
मान्या कापि मनुस्मृतिस् तदुचिता व्याख्या हि मेधातिथेः सा लुप्तैव विधेर् वशात् क्वचिद् अपि प्राप्यं न यत् पुस्तकम् ।
क्षोणीन्द्रो मदनः सहारणसुतो देशान्तराद् आहृतं जीर्णोद्धारम् अचीकरत् तत इतस् तत्पुस्तकैर् लेखितैः ।
इति भट्टवीरस्वामिसूनोर् भट्टमेधातिथिकृतौ
मनुभाष्ये दशमो ऽध्यायः ॥
-
M G: gṛhītasya vedasya vā vismaraṇam ↩︎
-
M G: -karaṇasyāśrutatvāt ↩︎
-
M G: tadarthaṃ vyākhyānam ↩︎
-
J: atha vālaukika- ↩︎
-
M G J: yathopadiṣṭā (see DK: 5: 1206) ↩︎
-
DK suggests: ata ↩︎
-
M G add: hṛdayaṅgmābhir ityādi grāma eva ↩︎
-
DK suggests; ityādir upanayanādir ↩︎
-
M G: -dvādaśato ↩︎
-
M G: syād eva svavarṇakālaviśeṣayukto nimittārthaḥ ↩︎
-
M G J: tad ucyata (Govindarāja also cites MDh 10.127 at this point) ↩︎
-
M G: amantrakasya niyatakālasya ↩︎
-
M G: -niyamārtham ayaṃ ↩︎
-
J: evaṃ ↩︎
-
M G: dharme ↩︎
-
M G: bhartṛsaṃbhūtāsu; DK (5: 1208) suggests: saṃbhutāḥ ↩︎
-
M G: -grahaṇāsyāśrutopi; DK suggests deleting: ato ↩︎
-
DK suggests: āśaṅkyamānaṃ ↩︎
-
M G: yady ↩︎
-
M G: punaḥpunaḥśabda- ↩︎
-
M G: dhetur uktaḥ ↩︎
-
M G: tajjāyāḥ ↩︎
-
M G: prayojanavācyam ↩︎
-
M G: pramāṇaṃ tair eva ↩︎
-
M G: -ślokair ↩︎
-
M G: puruṣāparādhāsāv ↩︎
-
M G: niyāmakāḥ ↩︎
-
M G: abhyupapadyata ↩︎
-
M G: saṃtānavacanatvāt ↩︎
-
M G add: vā ↩︎
-
M G: antare pabhāvānāṃ ↩︎
-
M G: kataraṃ ↩︎
-
M G: jātiviśeṣaḥ svīyo; J: jātiviśeṣaḥ striyo ↩︎
-
DK suggests: -ārthāvṛtteḥ ↩︎
-
M G: sahacārijātyantareṇa tritvam ↩︎
-
M G: tad uktam ↩︎
-
M G J: api ↩︎
-
M G: prayujyata evāpadhvaṃsanivṛttyarthaṃ ca ↩︎
-
M G add: sa ca mātāpitror ↩︎
-
M G: -gamyatvam ↩︎
-
M G: tāsu ↩︎
-
M G J: -paryaṃ kaiś ↩︎
-
M G: -darśanatve ↩︎
-
DK: bhagavati ↩︎
-
M G: brāhmaṇo ↩︎
-
M G: saṃgatābhūva ↩︎
-
M G: tv atas ↩︎
-
M G: paricārikājīvikāhetoḥ; DK suggests: paricārikātvahetoḥ ↩︎
-
M G J: nanu ↩︎
-
M G: sākṣājjānāti- ↩︎
-
M G J: tena ↩︎
-
M G J omit: doṣasya ↩︎
-
M G: uttarārdham; the reference is to the commentary on 10.5: ānulomyagrahaṇam uttarārtham ↩︎
-
M G: itaḥ ↩︎
-
M G add: ete ↩︎
-
M G: sadā putrārthaphaladā apaśīrṇāḥ ↩︎
-
M G: bhidyante ↩︎
-
M G J: prātilomye na ↩︎
-
M G: adhyayanādiṣu ↩︎
-
M G: evaṃ ↩︎
-
M G: vānyeṣu ↩︎
-
M G: caṇḍāla- ↩︎
-
M G: -nāmnaḥ ↩︎
-
M G add: yā ↩︎
-
M G: tarhy ↩︎
-
M G: pratilomādi ↩︎
-
M G J: api ↩︎
-
M G: tāsvayam; DK suggests deleting svayam ↩︎
-
M G: kṣatra- ↩︎
-
M G omit: iti ↩︎
-
M G: uttarārdhaṃ ↩︎
-
M G DK: mātṛjātyāṃ ↩︎
-
M G: svayoni- ↩︎
-
M G: ‘mbaṣṭhāṃ ↩︎
-
M G; varṇayoniṣu ↩︎
-
M G: prasajyata ↩︎
-
M G: prātilomyaṃ ca sāmānyena ↩︎
-
M G: anulomajā ↩︎
-
M G: kṣatriyāyāṃ kṣatrāyogavyāṃ ↩︎
-
M G: kṣatriyāyām ↩︎
-
M G: caṇḍālābhyaḥ ↩︎
-
M G: bāhyatareṇa bāhyā jātāḥ ↩︎
-
M G: kṣatriyacaṇḍālā ↩︎
-
M G J: śūdrās trayaḥ ↩︎
-
M G: -bhavanti ↩︎
-
M G J: ‘hīnān (with avagraha) ↩︎
-
M G J: varṇābhāvāt (I follow DK 5: 1470 suggestion) ↩︎
-
M G: prāptilābha- ↩︎
-
M G: karmakāryakṣiprakāritā kāryāṇām ↩︎
-
DK (5: 1471) suggests: avasara ityā- ↩︎
-
M G: vāgurā vṛttir ↩︎
-
M G J: -pitryarthaṃ ↩︎
-
M G add: varṇakaḥ ↩︎
-
DK (5: 1472) suggests: praśaṃsati; but see tāḍayanti later. ↩︎
-
M G: evāyaṃ janayati ↩︎
-
M G: ye ’nantara ↩︎
-
J omits: ye ’nantaram . . . ślokaḥ (probably a formatting error; Jha has this passage in his translation) ↩︎
-
M G J: jāyante ↩︎
-
M G: -kāraṇāl ↩︎
-
M G: -niṣādyau ↩︎
-
M G: vaidehyā- ↩︎
-
M G: bhinnarṇa- ↩︎
-
M G: -vyavahāratvāt ↩︎
-
M G: pukkasyāṃ ↩︎
-
M G: pukkasyāṃ ↩︎
-
M G: āhārādīni karmāṇi taiḥ prasiddhaiḥ sopākādināmatayā tajjātīya eva so ’ntaś cāṇḍālād ↩︎
-
M G: -jātīyās tu ↩︎
-
M G add: dharmiṇa iti śabdasya dharmo ‘rthanīyaḥ ↩︎
-
M G DK (5.1477): brāhmaṇādarśanena ↩︎
-
M G: tathopa- ↩︎
-
DK suggests: tasyaiva ↩︎
-
M G J: lugvidhau ↩︎
-
M G J: lug ↩︎
-
M G J: lugyogāt prakhyānāt ↩︎
-
M G J: kriyate ↩︎
-
M G J: aprasiddhair ↩︎
-
M G: ātmāno ↩︎
-
M G: -ādi- ↩︎
-
M G: takṣā karma ↩︎
-
M G: vijñānā ↩︎
-
M G: nivasedyaḥ ↩︎
-
M G: vijñātāvijñāticihnaṃ ↩︎
-
M G J omit: ca ↩︎
-
M G: atha vāvapātrāya ↩︎
-
M G: śakteṣu ↩︎
-
M G omit: na ↩︎
-
M G: caivaṃ ↩︎
-
M G: draṣṭavyam ↩︎
-
J: rāṣṭrīyaiḥ ↩︎
-
M G DK (5: 1746): -bhyupapattau ↩︎
-
M G: -hetutvam ↩︎
-
M G J: eva ca (taking this as part of the previous citation) ↩︎
-
M G: avagamas ↩︎
-
M G: utpannaḥ; I follow J and DK (5: 1747). I suggest the following emendation: yathākutaścid avagamāt teṣām anupapannāhiṃsā ↩︎
-
M G add: no ↩︎
-
M G: pitryarthe yogyatā ↩︎
-
M G: ete yathokte ↩︎
-
M G: prāptaṃ ↩︎
-
J: kasya cid ↩︎
-
DK (5: 1484): prasajjayitum ↩︎
-
M G: evam anyatra ↩︎
-
M G J: ārocayamāna ↩︎
-
M G place vā after kṣetraṃ ↩︎
-
M G: bhavet kevalaṃ ↩︎
-
M G: yadā śakyante ↩︎
-
M G: buddhā ↩︎
-
DK (5: 1214) suggests: garīyastvāt ↩︎
-
M G: śūdratulyaḥ syāt ↩︎
-
M G: yathāvikāraṃ ↩︎
-
M G: -pekṣyam ↩︎
-
M G: cānuvāda ↩︎
-
M G: vaṇikkarmāntarbhāvena ↩︎
-
M G: svakarmaśāstrapravṛttikarmasv ↩︎
-
M G: prāptaṃ ↩︎
-
M G: kuṭumbasvakarmanityakarmāvasthitam; J: kuṭumbasvakarmāṇi nityakarmāvasthitām ↩︎
-
M G J add: tu ↩︎
-
M G: vā svayaṃkṛte ↩︎
-
M G: tasyāmapratiṣedhārthā ↩︎
-
M G: na tu tad yuktam; DK (5: 1220): yad uktam ↩︎
-
M G: kāṣṭhavatpīḍām ↩︎
-
M G: anubhavantī ↩︎
-
M G: sarva- ↩︎
-
DK suggests: vitta for vṛtti ↩︎
-
M G: dhānābhāvād ↩︎
-
M G: bhāvānuvādhaḥ ↩︎
-
M G omit: tato nyūnā vāṇijyā ↩︎
-
M G: gorakṣādayaḥ ↩︎
-
M G: tathā ↩︎
-
M G J: ca (I follow DK 5:1220) ↩︎
-
M G J: rasavikāraṃ ↩︎
-
M G: -pratiṣedhe nivṛtyarthagrahaṇam; J: -arthagrahaṇam ↩︎
-
DK suggests: apekṣya ↩︎
-
M G: kālāntareṇāgāmī ↩︎
-
M G: veyam arthe; J: veyam artha (typo?) ↩︎
-
M G J omit: vā ↩︎
-
M G: yavatilān ↩︎
-
M G: brāhmādayo ↩︎
-
M G J omit: hi ↩︎
-
DK suggests: niyamārtham ↩︎
-
M G omit: na ↩︎
-
M G J: anāpadity- ↩︎
-
M G: saktvodanādyakṛtānnena; DK suggests anyena for annena, and thinks Medh reads kṛtānnaṃ ca kṛtānnena, which is also the reading of Vijñāneśvara on YDh 3.39. ↩︎
-
M G J: nārthāpe- ↩︎
-
M G J: prakṛtivinimayam astu; ↩︎
-
M G: gautamenaivaṃ darśitam ↩︎
-
M G: sarvaṃ śeṣa ↩︎
-
M G: jīveta ↩︎
-
M G J: vivāhādikarmaṇām eṣāṃ vidhānān (I follow DK conjecture) ↩︎
-
M G: vaiśyavṛttir ↩︎
-
M G: karśitaṃ ↩︎
-
M G: prāpnuyāt ↩︎
-
M G: -saṃsargeṇa ↩︎
-
M G J omit: na. I follow DK (5: 1229) in inserting the negative particle, which makes the pūrvapakṣa view different from that stated by Medh. ↩︎
-
M G: evaṃ ↩︎
-
M G J: prativacanaṃ ↩︎
-
M G: tad eva vākyatvāpatter ↩︎
-
M G: prabhṛtiḥ ↩︎
-
M G: jātikarmāt tadapekṣam atra svāminam ↩︎
-
M G: śeṣārthavādaś ca ↩︎
-
M G J: abhyāgata ↩︎
-
M G: pratigrahaḥ samānajātīyaḥ ↩︎
-
M G: syāt ↩︎
-
M G J: tatrādhidevatāniṣṭhitabhṛtyāgataṃ ↩︎
-
M G: upapannena kurvīteyam ↩︎
-
M G: nimittaiḥ ↩︎
-
M G: nibandhāt ↩︎
-
M G: tadīyaśabdena ↩︎
-
M G: viśeṣaśravaṇe ↩︎
-
M G J: yānabandhenāpi ↩︎
-
M G: pārśvaka-; J DK (5: 1234): pāśuka- ↩︎
-
M G add: āvarjanaḥ ↩︎
-
M G: puruṣamātre viṣa- ↩︎
-
M G: -pannivṛttir ↩︎
-
DK (4: 1350): yuddhaṃ ↩︎
-
M G a very different reading: dhānavyavahāriṇāḥ śūdrā karma ↩︎
-
M G: yadasya ↩︎
-
M G: viśiṣṭaṃ karmaiṣa śabdo ↩︎
-
M G: yadasya ↩︎
-
M G add: na ↩︎
-
M G add: tad uktam “nivṛttis tu mahāphalā” ↩︎
-
M G: dharmaprāptum ↩︎
-
M G add: tāvatikaṃ ↩︎