०५

अथ पञ्चमो ऽध्यायः

श्रुत्वैतान् ऋषयो धर्मान् स्नातकस्य यथोदितान् ।
इदम् ऊचुर् महात्मानम् अनलप्रभवं भृगुम् ॥ ५.१ ॥

एवं यथोक्तं विप्राणां स्वधर्मम् अनुतिष्ठताम् ।
कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ॥ ५.२ ॥

न तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः ।
श्रूयतां येन दोषेण मृत्युर् विप्रान् जिघांसति ॥ ५.३ ॥
अनभ्यासेन वेदानाम् आचारस्य च वर्जनात् ।
आलस्याद् अन्नदोषाच् च मृत्युर् विप्रान् जिघांसति ॥ ५.४ ॥

लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।
अभक्ष्याणि द्विजातीनाम् अमेध्यप्रभवानि च ॥ ५.५ ॥

लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस् तथा ।
शेलुं गव्यं च पीयूषं प्रयत्नेन विवर्जयेत् ॥ ५.६ ॥

वृथाकृसरसंयावं पायसापूपम् एव च ।
अनुपाकृतमांसानि देवान्नानि हवींषि च ॥ ५.७ ॥

अनिर्दशाया गोः क्षीरम् औष्ट्रम् ऐकशफं तथा ।
आविकं संधिनीक्षीरं विवत्सायाश् च गोः पयः ॥ ५.८ ॥

आरण्यानां च सर्वेषां मृगाणां माहिषं विना ।
स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥ ५.९ ॥

दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसंभवम् ।
यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ॥ ५.१० ॥

क्रव्यादः शकुनीन् सर्वान् तथा ग्रामनिवासिनः ।
अनिर्दिष्टांश् चैकशफंष् टिट्टिभं च विवर्जयेत् ॥ ५.११ ॥

कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् ।
सारसं रज्जुदालं च दात्यूहं शुकसारिके ॥ ५.१२ ॥

प्रतुदान् जालपादांश् च कोयष्टिनखविष्किरान् ।
निमज्जतश् च मत्स्यादान् सौनं वल्लूरम् एव च ॥ ५.१३ ॥

बकं चैव बलाकां च काकोलं खञ्जरीटकम् ।
मत्स्यादान् विड्वराहांश् च मत्स्यान् एव च सर्वशः ॥ ५.१४ ॥

यो यस्य मांसम् अश्नाति स तन्मांसाद उच्यते ।
मत्स्यादः सर्वमांसादस् तस्मान् मत्स्यान् विवर्जयेत् ॥ ५.१५ ॥

पाठीनरोहिताव् आद्यौ नियुक्तौ हव्यकव्ययोः ।
राजीवाः सिंहतुण्डांश् च सशल्काश्43** चैव सर्वशः ॥ ५.१६ ॥**

न भक्षयेद् एकचरान् अज्ञातांश् च मृगद्विजान् ।
भक्ष्येष्व् अपि समुद्दिष्टान् सर्वान् पञ्चनखांस् तथा ॥ ५.१७ ॥

श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस् तथा ।
भक्ष्यान् पञ्चनखेष्व् आहुर् अनुष्ट्रांश् चैकतोदतः ॥ ५.१८ ॥

छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ॥ ५.१९ ॥

अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ।
यतिचान्द्रायणं वापि शेषेषूपवसेद् अहः ॥ ५.२० ॥

संवत्सरस्यैकम् अपि चरेत् कृच्छ्रं द्विजोत्तमः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ ५.२१ ॥

यज्ञार्थं ब्राह्मणैर् वध्याः प्रशस्ता मृगपक्षिणः ।
भृत्यानां चैव वृत्त्यर्थम् अगस्त्यो ह्य् आचरत् पुरा ॥ ५.२२ ॥

**बभूवुर् हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् **
पुराणेष्व् ऋषियज्ञेषु ब्रह्मक्षत्रसवेषु च ॥ ५.२३ ॥

यत् किंचित् स्नेहसंयुक्तं भक्ष्यं भोज्यम् अगर्हितम् ।
तत् पर्युषितम् अप्य् आद्यं हविःशेषं च यद् भवेत् ॥ ५.२४ ॥

चिरस्थितम् अपि त्व् आद्यम् अस्नेहाक्तं द्विजातिभिः ।
यवगोधूमजं सर्वं पयसश् चैव विक्रिया ॥ ५.२५ ॥

एतद् उक्तं द्विजातीनां भक्ष्याभक्ष्यम् अशेषतः ।
मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥ ५.२६ ॥

प्रोक्षितं भक्षयेन् मांसं ब्राह्मणानां च काम्यया ।
यथाविधि नियुक्तस् तु प्राणानाम् एव चात्यये ॥ ५.२७ ॥

प्राणस्यान्नम् इदं सर्वं प्रजापतिर् अकल्पयत् ।
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥ ५.२८ ॥

चराणाम् अन्नम् अचरा दंष्ट्रिणाम् अप्य् अदंष्ट्रिणः ।
अहस्ताश् च सहस्तानां शूराणां चैव भीरवः ॥ ५.२९ ॥

नात्ता दुष्यत्य् अदन्न् आद्यान् प्राणिनो ऽहन्य् अहन्य् अपि ।
धात्रैव सृष्टा ह्य् आद्याश् च प्राणिनो ऽत्तार एव च ॥ ५.३० ॥

यज्ञाय जग्धिर् मांसस्येत्य् एष दैवो विधिः स्मृतः ।
अतो ऽन्यथा प्रवृत्तिस् तु राक्षसो विधिर् उच्यते ॥ ५.३१ ॥

क्रीत्वा स्वयं वाप्य् उत्पाद्य परोपकृतम् एव वा ।
देवान् पितॄंश् चार्चयित्वा खादन् मांसं न दुष्यति ॥ ५.३२ ॥

नाद्याद् अविधिना मांसं विधिज्ञो ऽनापदि द्विजः ।
जग्ध्वा ह्य् अविधिना मांसं प्रेतस् तैर् अद्यते ऽवशः ॥ ५.३३ ॥

न तादृशं भवत्य् एनो मृगहन्तुर् धनार्थिनः ।
यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥ ५.३४ ॥

नियुक्तस् तु यथान्यायं यो मांसं नात्ति मानवः ।
स प्रेत्य पशुतां याति संभवान् एकविंशतिम् ॥ ५.३५ ॥

असंस्कृतान् पशून् मन्त्रैर् नाद्याद् विप्रः कदाचन ।
मन्त्रैस् तु संस्कृतान् अद्याच् छाश्वतं विधिम् आस्थितः ॥ ५.३६ ॥

**कुर्याद् घृतपशुं सङ्गे कुर्यात् पिष्टपशुं तथा । **
न त्व् एव तु वृथा हन्तुं पशुम् इच्छेत् कदाचन ॥ ५.३७ ॥

यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् ।
वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ ५.३८ ॥

यज्ञार्थं पशवः सृष्टाः स्वयम् एव स्वयंभुवा ।
यज्ञो ऽस्य भूत्यै सर्वस्य तस्माद् यज्ञे वधो ऽवधः ॥ ५.३९ ॥

ओषध्यः पशवो वृक्षास् तिर्यञ्चः पक्षिणस् तथा ।
यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्य् उच्छ्रितीः पुनः ॥ ५.४० ॥

मधुपर्के च यज्ञे च पितृदैवतकर्मणि ।
अत्रैव पशवो हिंस्या नान्यत्रेत्य् अब्रवीन् मनुः ॥ ५.४१ ॥

आत्मानं च पशुं चैव गमयत्य् उत्तमां गतिम् ॥ ५.४२ ॥

गृहे गुराव् अरण्ये वा निवसन्न् आत्मवान् द्विजः ।
नावेदविहितां हिंसाम् आपद्य् अपि समाचरेत् ॥ ५.४३ ॥

या वेदविहिता हिंसा नियतास्मिंश् चराचरे ।
अहिंसाम् एव तां विद्याद् वेदाद् धर्मो हि निर्बभौ ॥ ५.४४ ॥

यो ऽहिंसकानि भूतानि हिनस्त्य् आत्मसुखेच्छया ।
स जीवंश् च मृतश् चैव न क्वचित् सुखम् एधते ॥ ५.४५ ॥

यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति ।
स सर्वस्य हितप्रेप्सुः सुखम् अत्यन्तम् अश्नुते ॥ ५.४६ ॥

यद् ध्यायति यत् कुरुते रतिं बध्नाति यत्र च ।
तद् अवाप्नोत्य् अयत्नेन यो हिनस्ति न किंचन ॥ ५.४७ ॥

नाकृत्वा प्राणिनां हिंसां मांसम् उत्पद्यते क्वचित् ।
न च प्राणिवधः स्वर्ग्यस् तस्मान् मांसं विवर्जयेत् ॥ ५.४८ ॥

समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ ५.४९ ॥

न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् ।
स लोके प्रियतां याति व्याधिभिश् च न पीड्यते ॥ ५.५० ॥

अनुमन्ता विशसिता निहन्ता क्रविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश् चेति घातकाः ॥ ५.५१ ॥

स्वमांसं परमांसेन यो वर्धयितुम् इच्छति ।
अनभ्यर्च्य पितॄन् देवांस् ततो ऽन्यो नास्त्य् अपुण्यकृत् ॥ ५.५२ ॥

वर्षे वर्षे ऽश्वमेधेन यो यजेत शतं समाः ।
मांसानि च न खादेद् यस् तयोः पुण्यफलं समम् ॥ ५.५३ ॥

फलमूलाशनैर् मेध्यैर् मुन्यन्नानां च भोजनैः ।
न तत्फलम् अवाप्नोति यन् मांसपरिवर्जनात् ॥ ५.५४ ॥

मां स भक्षयितामुत्र यस्य मांसम् इहाद्म्य् अहम् ।
एतन् मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ ५.५५ ॥

न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महाफला ॥ ५.५६ ॥

प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च ।
चतुर्णाम् अपि वर्णानां यथावद् अनुपूर्वशः ॥ ५.५७ ॥

दन्तजाते ऽनुजाते च कृतचूडे च संस्थिते ।
अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥ ५.५८ ॥

दशाहं शावम् आशौचं सपिण्डेषु विधीयते ।
अर्वाक् संचयनाद् अस्थ्नां त्र्यहम् एकाहम् एव वा ॥ ५.५९ ॥

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदकभावस् तु जन्मनाम्नोर् अवेदने ॥ ५.६० ॥

जनने ऽप्य् एवम् एव स्यान् मातापित्रोस् तु सूतकम् ।
सूतकं मातुर् एव स्याद् उपस्पृश्य पिता शुचिः ॥ ५.६१ ॥

निरस्य तु पुमाञ् छुक्रम् उपस्पृश्यैव शुध्यति ।
बैजिकाद् अभिसंबन्धाद् अनुरुन्ध्याद् अघं त्र्यहम् ॥ ५.६२ ॥

अह्ना चैकेन रात्र्या च त्रिरात्रैर् एव च त्रिभिः ।
शवस्पृशो विशुध्यन्ति त्र्यहाद् उदकदायिनः ॥ ५.६३ ॥

गुरोः प्रेतस्य शिष्यस् तु पितृमेधं समाचरन् ।
प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ॥ ५.६४ ॥

रात्रिभिर् मासतुल्याभिर् गर्भस्रावे विशुध्यति ।
रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला ॥ ५.६५ ॥

नृणाम् अकृतमुण्डानां विशुद्धिर् नैशिकी स्मृता ।
निर्वृत्तमुण्डकानां तु त्रिरात्राच् छुद्धिर् इष्यते ॥ ५.६६ ॥

ऊनद्विवार्षिकं प्रेतं निदध्युर् बान्धवा बहिः ।
अलंकृत्य शुचौ भूमाव् अस्थिसंचयनाद् ऋते ॥ ५.६७ ॥

नास्य कार्यो ऽग्निसंस्कारो न च कार्योदकक्रिया ।
अरण्य काष्ठवत् त्यक्त्वा क्षपेत त्र्यहम् एव तु ॥ ५.६८ ॥

नात्रिवर्षस्य कर्तव्या बान्धवैर् उदकक्रिया ।
जातदन्तस्य वा कुर्युर् नाम्नि वापि कृते सति ॥ ५.६९ ॥

सब्रह्मचारिण्य् एकाहम् अतीते क्षपणं स्मृतम् ।
जन्मन्य् एकोदकानां तु त्रिरात्राच् छुद्धिर् इष्यते ॥ ५.७० ॥

स्त्रीणाम् असंस्कृतानां तु त्र्यहाच् छुद्ध्यन्ति बान्धवाः ।
यथोक्तेनैव कल्पेन शुद्ध्यन्ति तु सनाभयः ॥ ५.७१ ॥

अक्षारलवणान्नाः स्युर् निमज्जेयुश् च ते त्र्यहम् ।
मांसाशनं च नाश्नीयुः शयीरंश् च पृथक् क्षितौ ॥ ५.७२ ॥

संनिधाव् एष वै कल्पः शावाशौचस्य कीर्तितः ।
असंनिधाव् अयं ज्ञेयो विधिः संबन्धिबान्धवैः ॥ ५.७३ ॥

विगतं तु विदेशस्थं शृणुयाद् यो ह्य् अनिर्दशम् ।
यच् छेषं दशरात्रस्य तावद् एवाशुचिर् भवेत् ॥ ५.७४ ॥

अतिक्रान्ते दशाहे च त्रिरात्रम् अशुचिर् भवेत् ।
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति ॥ ५.७५ ॥

निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।
सवासा जलम् आप्लुत्य शुद्धो भवति मानवः ॥ ५.७६ ॥

बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते ।
सवासा जलम् आप्लुत्य सद्य एव विशुध्यति ॥ ५.७७ ॥

अन्तर्दशाहे चेत् स्यातां पुनर् मरणजन्मनी ।
तावत् स्याद् अशुचिर् विप्रो यावत् तत् स्याद् अनिर्दशम् ॥ ६.७८ ॥

त्रिरात्रम् आहुर् आशौचम् आचार्ये संस्थिते सति ।
तस्य पुत्रे च पत्न्यां च दिवारात्रम् इति स्थितिः ॥ ५.७९ ॥

श्रोत्रिये तूपसंपन्ने त्रिरात्रम् अशुचिर् भवेत् ।
मातुले पक्षिणीं रात्रिं शिषर्त्विग्बान्धवेषु च ॥ ५.८० ॥

प्रेते राजनि सज्योतिर् यस्य स्याद् विषये स्थितः ।
अश्रोत्रिये त्व् अहः कृत्स्नम् अनूचाने तथा गुरौ ॥ ५.८१ ॥

शुद्ध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ ५.८२ ॥

न वर्धयेद् अघाहानि परत्यूहेन् नाग्निषु क्रियाः ।
न च तत् कर्म कुर्वाणः सनाभ्यो ऽप्य् अशुचिर् भवेत् ॥ ५.८३ ॥

दिवाकीर्तिम् उदक्यां च पतितं सूतिकां तथा ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ ५.८४ ॥

आचम्य प्रयतो नित्यं जपेद् अशुचिदर्शने ।
सौरान् मन्त्रान् यथोत्साहं पावमानीश् च शक्ततः ॥ ५.८५ ॥

नारं स्पृष्ट्वास्ति सस्नेहं स्नात्वा विप्रो विशुध्यति ।
आचम्यैव तु निःस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा ॥ ५.८६ ॥

आदिष्टी नोदकं कुर्याद् आ व्रतस्य समापनात् ।
समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥ ५.८७ ॥

वृथासंकरजानां प्रव्रज्यासु च निष्ठताम् ।
आत्मनस् त्यागिनां चैव निवर्तेतोदकक्रिया ॥ ५.८८ ॥

पाषण्डम् आश्रितानां च चरन्तीनां च कामतः ।
गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम् ॥ ५.८९ ॥

आचार्यं स्वम् उपाध्यायं पितरं मातरं गुरुम् ।
निर्हृत्य तु व्रती प्रेतान् न व्रतेन वियुज्यते ॥ ५.९० ॥

दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ।
पश्चिमोत्तरपूर्वैस् तु यथायोगं द्विजन्मनः ॥ ५.९१ ॥

न राज्ञाम् अघदोषो ऽस्ति व्रतिनां न च सत्रिणाम् ।
ऐन्द्रं स्थानम् उपासीना ब्रह्मभूता हि ते सदा ॥ ५.९२ ॥

राज्ञो माहात्मिके स्थाने सद्यः शौचं विधीयते ।
प्रजानां परिरक्षार्थम् आसनं चात्र कारणम् ॥ ५.९३ ॥

डिम्बाहवहतानां च विद्युता पार्थिवेन च ।
गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ॥ ५.९४ ॥

सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर् यमस्य च ।
अष्टानां लोकपालानां वपुर् धारयते नृपः ॥ ५.९५ ॥

लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते ।
शौचाशौचं हि मर्त्यानां लोकेभ्यः प्रभवाप्ययौ225** ॥ ५.९६ ॥**

उद्यतैर् आहवे शस्त्रैः क्षत्रधर्महस्तस्य च ।
सद्यः संतिष्ठते यज्ञस् तथाशौचम् इति स्थितिः ॥ ५.९७ ॥

विप्रः शुध्यत्य् अपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् ।
वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः ॥ ५.९८ ॥

एतद् वो ऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः ।
असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ॥ ५.९९ ॥

असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुर् आप्तांश् च बान्धवान् ॥ ५.१०० ॥

यद्य् अन्नम् अत्ति तेषां तु दशाहेनैव शुद्ध्यति ।
अनदन्न् अन्नम् अह्नैव न चेत् तस्मिन् गृहे वसेत् ॥ ५.१०१ ॥

अनुगम्येच्छया प्रेतं ज्ञातिम् अज्ञातिम् एव च ।
स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुद्ध्यति ॥ ५.१०२ ॥

न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् ।
अस्वर्ग्या ह्य् आहुतिः सा स्याच् छूद्रसंस्पर्शदूषिता ॥ ५.१०३ ॥

ज्ञानं तपो ऽग्निर् आहारो मृन् मनो वार्युपाञ्जनम् ।
वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम् ॥ ५.१०४ ॥

सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतम् ।
यो ऽर्थे शुचिर् हि स शुचिर् न मृद्वारिशुचिः शुचिः ॥ ५.१०५ ॥

क्षान्त्या शुद्ध्यन्ति विद्वांसो दानेनाकार्यकारिणः ।
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥ ५.१०६ ॥

मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ।
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥ ५.१०७ ॥

अद्भिर् गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुधिर् ज्ञानेन शुध्यति ॥ ५.१०८ ॥

एष शौचस्य वः प्रोक्तः शारीरस्य विनिर्णयः ।
नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम् ॥ ५.१०९ ॥

तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
भस्मनाद्भिर् मृदा चैव शुद्धिर् उक्ता मनीषिभिः ॥ ५.११० ॥

निर्लेपं कांचनं भाण्डम् अद्भिर् एव विशुद्ध्यति ।
अब्जम् अश्ममयं चैव राजतं चानुपस्कृतम् ॥ ५.१११॥

अपाम् अग्नेश् च संयोगाद् धैमं रौप्यम् च निर्बभौ ।
तस्मात् तयोः स्वयोन्यैव निर्णेको गुणवत्तरः ॥ ५.११२ ॥

ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च ।
शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ ५.११३ ॥

द्रवाणां चैव सर्वेषां शुद्धिर् उत्पवनं स्मृतम् ।
प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥ ५.११४ ॥

मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ।
चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥ ५.११५ ॥
चरूणाम् स्रुक्स्रुवाणां च शुद्धिर् उष्णेन वारिणा ।
स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च ॥ ५.११६ ॥

अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।
प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ॥ ५.११७ ॥

चैलवच् चर्मणां शुद्धिर् वैदलानां तथैव च ।
शाकमूलफलानां तु धान्यवच् छुद्धिर् इष्यते ॥ ५.११८ ॥

कौशेयाविकयोर् ऊषैः कुतपानाम् अरिष्टकैः ।
श्रीफलैर् अंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥ ५.११९ ॥

क्षौमवच् छङ्खशृङ्गाणाम् अस्थिदन्तमयस्य च ।
शुद्धिर् विजानता कार्या गोमूत्रेणोदकेन वा ॥ ५.१२० ॥

प्रोक्षणात् तृणकाष्ठं च पलालं चैव शुध्यति ।
मार्जनोपाञ्जनैर् वेश्म पुनःपाकेन मृन्मयम् ॥ ५.१२१ ॥

संमार्जनोपाञ्जनेन सेकेनोल्लेखनेन च ।
गवां च परिवासेन भूमिः शुद्ध्यति पञ्चभिः ॥ ५.१२२ ॥

पक्षिजग्धं गवा घ्रातम् अवधूतम् अवक्षुतम् ।
दूषितं केशकीटैश् च मृत्प्रक्षेपेण शुध्यति ॥ ५.१२३ ॥

यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्कृतः ।
तावन् मृद् वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ ५.१२४ ॥

त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन् ।
अदृष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते ॥ ५.१२५ ॥

आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर् भवेत् ।
अव्याप्ताश् चेद् अमेध्येन गन्धवर्णरसान्विताः ॥ ५.१२६ ॥

नित्यं शुद्धः कारुहस्तः पण्ये यच् च प्रसारितम् ।
ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यम् इति स्थितिः ॥ ५.१२७ ॥

नित्यम् आस्यं शुचि स्त्रीणां शकुनिः फलपातने ।
प्रस्रवे च शुचिर् वत्सः श्वा मृगग्रहणे शुचिः ॥ ५.१२८ ॥

श्वभिर् हतस्य यन् मांसं शुचि तन् मनुर् अब्रवीत् ।
क्रव्याद्भिश् च हतस्यान्यैश् चण्डालाद्यैश् च दस्युभिः ॥ ५.१२९ ॥

ऊर्ध्वं नाभेर् यानि खानि तानि मेध्यानि सर्वशः ।
यान्य् अधस्तान्य् अमेध्यानि देहाच् चैव मलाश् च्युताः ॥ ५.१३० ॥

मक्षिका विप्रुषश् छाया गौर् अश्वः सूर्यरश्मयः ।
रजो भूर् वायुर् अग्निश् च स्पर्शे मेध्यानि निर्दिशेत् ॥ ५.१३१ ॥

विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्य् आदेयम् अर्थवत् ।
दैहिकानां मलानां च शुद्धिषु द्वादशस्व् अपि ॥ ५.१३२ ॥

वसा शुक्रम् असृङ् मज्जा मुत्रविट् घ्राणकर्णविट् ।
श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ ५.१३३ ॥

एका लिङ्गे गुदे तिस्रस् तथैकत्र करे दश ।
उभयोः स्पत दातव्या मृदः शुद्धिम् अभीप्सता ॥ ५.१३४ ॥

एतच् छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं स्याद् वनस्थानां यतीनां तु चतुर्गुणम् ॥ ५.१३५ ॥

कृत्वा मूत्रं पुरीषं वा खान्य् आचान्त उपस्पृशेत् ।
वेदम् अध्येष्यमाणश् च अन्नम् अश्नंश् च सर्वदा ॥ ५.१३६ ॥

त्रिर् आचामेद् अपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् ।
शारीरं शौचम् इच्छन् हि स्त्री शूद्रस् तु सकृत् सकृत् ॥ ५.१३७ ॥

शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् ।
वैश्यवच् छौचकल्पश् च द्विजोच्छिष्टं च भोजनम् ॥ ५.१३८ ॥

नोच्छिष्टं कुर्वते मुख्या विप्रुषो ऽङ्गं न यन्ति याः ।
न श्मश्रूणि गतान्य् आस्यं न दन्तान्तरधिष्ठितम् ॥ ५.१३९ ॥

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
भौमिकैस् ते समा ज्ञेया न तैर् अप्रयतो भवेत् ॥ ५.१४० ॥

उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन ।
अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥ ५.१४१ ॥

वान्तो विरिक्तः स्नात्वा तु घृतप्राशनम् आचरेत् ।
आचामेद् एव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥ ५.१४२ ॥

सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वानृतानि च ।
पीत्वापो ऽध्येष्यमाणश् च आचामेत् प्रयतो ऽपि सन् ॥ ५.१४३ ॥

एष शौचविधिः कृत्स्नो द्रव्यशुद्धिस् तथैव च ।
उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान् निबोधत ॥ ५.१४४ ॥

बालया वा युवत्या वा वृद्धया वापि योषिता ।
न स्वातन्त्र्येण कर्तव्यं किंचित् कार्यं गृहेष्व् अपि ॥ ५.१४५ ॥

बाल्ये पुतुर् वशे तिष्ठेत् पाणिग्राहस्य यौवने ।
पुत्राणां भर्तरि प्रेते न भजेत् स्त्री स्वतन्त्रताम् ॥ ५.१४६ ॥

पित्रा भर्त्रा सुतैर् वापि नेच्छेद् विरहम् आत्मनः ।
एषाम् हि विरहेण स्त्री गर्ह्ये कुर्याद् उभे कुले ॥ ५.१४७ ॥

सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया ।
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ ५.१४८ ॥

यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः ।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ ५.१४९ ॥

मङ्गलार्थं स्वस्त्ययनं यज्ञश् चासां प्रजापतेः ।
प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम् ॥ ५.१५० ॥

अनृताव् ऋतुकाले च मन्त्रसंस्कारकृत् पतिः ।
सुखस्य नित्यं दातेह परलोके च योषितः ॥ ५.१५१ ॥

विशीलः कामवृत्तो वा गुणैर् वा परिवर्जितः ।
उपचार्यः स्त्रिया साध्व्या सततं देववत् पतिः ॥ ५.१५२ ॥

नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्य् उपोषितम् ।
पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥ ५.१५३ ॥

पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ।
पतिलोकम् अभिप्सन्ती नाचरेत् किंचिद् अप्रियम् ॥ ५.१५४ ॥

कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः ।
न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥ ५.१५५ ॥

आसीतामरणात् क्षान्ता नियता ब्रह्मचारिणी ।
यो धर्म एकपत्नीनां कांक्षन्ती तम् अनुत्तमम् ॥ ५.१५६ ॥

अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।
दिवं गतानि विप्राणाम् अकृत्वा कुलसंततिम् ॥ ५.१५७ ॥

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
स्वर्गं गच्छत्य् अपुत्रापि यथा ते ब्रह्मचारिणः ॥ ५.१५८ ॥

अपत्यलोभाद् या तु स्त्री भर्तारम् अतिवर्तते ।
सेह निन्दाम् अवाप्नोति परलोकाच् च हीयते ॥ ५.१५९ ॥

नान्योत्पन्ना प्रजास्तीह न चान्यस्य परिग्रहे ।
न द्वितीयश् च साध्वीनां क्वचिद् भर्तोपदिश्यते ॥ ५.१६० ॥

पतिं हित्वावकृष्टं स्वम् उत्कृष्टं या निषेवते ।
निन्द्यैव सा भवेल् लोके परपूर्वेति चोच्यते ॥ ५.१६१ ॥

व्यभिचारे तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् ।
शृगालयोनिं प्राप्नोति पापरोगैश् च पीड्यते ॥ ५.१६२ ॥

पतिं या नाभिचरति मनोवाग्देहसंयता ।
सा भर्तृलोकम् आप्नोति सद्भिः साध्वीति चोच्यते ॥ ५.१६३ ॥
अनेन नारी वृत्तेन मनोवाग्देहसंयता ।
इहाग्र्यां कीर्तिम् आप्नोति पतिलोकं परत्र च ॥ ५.१६४ ॥

एवं वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् ।
दाहयेद् अग्निहोत्रेण यज्ञपात्रैश् च धर्मवित् ॥ ५.१६५ ॥

भार्यायै पूर्वमारिण्यै दत्वाग्नीन् अन्त्यकर्मणि ।
पुनर् दारक्रियां कुर्यात् पुनर् आधानम् एव च ॥ ५.१६६ ॥

अनेन विधिना नित्यं पञ्चयज्ञान् न हापयेत् ।
द्वितीयम् आयुषो भागं कृतदारो गृहे वसेत् ॥ ५.१६७ ॥


  1. M G: tasya, and omits tam. ↩︎

  2. M G 1st ed.: -ārthaṃ ↩︎

  3. M G: purā mṛtyur ↩︎

  4. M G add here: nāsnātakasya vijñānalepamātram adharmo ‘yam | ↩︎

  5. M G add: pādaprahāreṇa (see further down: pādaprahāreṇa yāni kṣudyante) ↩︎

  6. M G 1st ed. omit: śāke ↩︎

  7. M G 1st ed. has a very different and longer reading: asti hi tatra punaḥ śrutena vṛttau ↩︎

  8. M G 1st ed.: valkapradeśās tatraiva; G 2nd ed.: valkapradeśāt ye tatraiva ↩︎

  9. M G: piyūṣa- ↩︎

  10. M G 1st ed. add: yadi tad ↩︎

  11. M G: mudgamakuṣṭha- ↩︎

  12. M G 1st ed: tad uktam; G 2nd ed: tad ity uktam ↩︎

  13. M G 1st ed.: kenārthataḥ ↩︎

  14. M G 1st ed.: paṭhanti ↩︎

  15. M G add here: atra hi kasya pākaḥ syāt ↩︎

  16. M G: kṛtākṛtatvād ↩︎

  17. M G 1st ed.: kṛtākramasya ↩︎

  18. M G: vṛtyādi- ↩︎

  19. M G: padārthaṃ ↩︎

  20. M G 1st ed.: ayajñe hutasya ↩︎

  21. M G 1st ed.: śiṣṭaṃ proktam ↩︎

  22. M G 1st ed.: sāyam apradugdhā; G 2nd ed.: prātar adugdhā sāyam apradugdhā ↩︎

  23. M G: arthavādaḥ ↩︎

  24. M G 1st ed.: prāptasvarasāvasthāni; G 2nd ed: prāptasvārasyāni ↩︎

  25. M G 1st ed add: tu ↩︎

  26. M G: tatrobhayaraktā ↩︎

  27. M G 1st ed: nābhakṣya- ↩︎

  28. M G 1st ed.: tvāṣṭra- ↩︎

  29. M G: kasmād bhavaty ↩︎

  30. M G add: na ↩︎

  31. M G: bhinnakartṛkaś ca ↩︎

  32. M G 1st ed.: -viṣayaḥ ↩︎

  33. M G 1st ed.: anyatarat necchātaḥ ↩︎

  34. M G 1st ed.: nūnaṃ ↩︎

  35. M G: jālapāde pratiṣedhe tv asati yena tadviśeṣaṃ ↩︎

  36. M G 1st ed.: anāpadi ↩︎

  37. M G: kākolanimajyanmatsyādīnāṃ ↩︎

  38. G 2nd ed.: cāraṇyābhyanujñayā ↩︎

  39. M G 1st ed.: cāraṇyābhyanujñāyām apratiṣedhaś ca ↩︎

  40. M G: agrāmavāsinaḥ ↩︎

  41. M G: iti pakṣiṇām ↩︎

  42. G 1st ed.: yo māṃsāda ↩︎

  43. M G: rājīvān siṃhatuṇḍāṃś ca saśalkāṃś ↩︎

  44. M G: reṣā ↩︎

  45. M G: ‘vijñātān bhakṣypakṣapatitān ↩︎

  46. M G 1st ed.: chvāvitkādayo ↩︎

  47. DK (5: 621) suggests: satrāṇy āhareyuḥ ↩︎

  48. M G 1st ed.: paurāṇā ↩︎

  49. M G: śuktasyāpi ↩︎

  50. M G: bhakṣaṇam | kāle ↩︎

  51. M G: ataḥ saṃdihya yāvatā yat ↩︎

  52. M G add: idaṃ ↩︎

  53. M G omit: tat ↩︎

  54. M G 1st ed.: snehasaṃyuktā ↩︎

  55. M G 1st ed.: eva ↩︎

  56. M G 1st ed.: atha ↩︎

  57. M G: ataccheṣasya bhakṣyatvād ↩︎

  58. M G: -bhedena kenacid ↩︎

  59. M G 1st ed: sthitasya ↩︎

  60. M G 1st ed.: ca hutaśeṣam ↩︎

  61. M G add: tu ↩︎

  62. M G add: māṃsaṃ kriyādinā ↩︎

  63. M G: ceti niḥśeṣabhūtā ↩︎

  64. M G: abhinivartate ↩︎

  65. M G: ‘vagataḥ ↩︎

  66. M G 1st ed.: gocarair yaḥ ↩︎

  67. M G: viśeṣeṇa ↩︎

  68. M G: -pratiṣedhaḥ ↩︎

  69. M G: tasmāt tacchruta- ↩︎

  70. M G 1st ed. omit: na ↩︎

  71. M G 1st ed. omit: na; G 2nd ed. places it after vṛthāmāsam api ↩︎

  72. M G omit: na ↩︎

  73. M G 1st ed.: bhakṣaṇādayas tarhi; G 2nd ed.: bhakṣaṇāya tarhi ↩︎

  74. M G omit: sa ↩︎

  75. M G omit: kāmyā ↩︎

  76. M G 1st ed.: pratiṣedhāvṛttir ↩︎

  77. M G: -nimitte abhyanujñāte ↩︎

  78. M G 1st ed.: nanu ↩︎

  79. M G: ityāder atra pratiṣedhasyāpi ↩︎

  80. M G 1st ed.: -ārheṇa ca ↩︎

  81. M G 1st ed.: vrātyutpādanena ↩︎

  82. M G: nārtvijye ↩︎

  83. M G 1st ed.: bhāsatāṃ ↩︎

  84. M G: parikrāṃtān avihitān ↩︎

  85. M G: iḍā ↩︎

  86. M G: pratīcchati ↩︎

  87. M G 1st ed.: prākramikaḥ syāc ca parpūrṇena; G 2nd ed: prākramikaḥ syāt na parpūrṇena ↩︎

  88. M G 1st ed. : anujñādānam eva; G 2nd ed.: anujñādānād aśanam eva ↩︎

  89. M G 1st ed.: aśnann ↩︎

  90. M G 1st ed. add: kāntāraṃ ↩︎

  91. M G: prokṣaṇaṃ ↩︎

  92. M G: ekattvenākalpayat ↩︎

  93. M G 1st ed.: māṃsāśī yataḥ ↩︎

  94. M G: -arthakṛte ↩︎

  95. M G 1st ed.: phalair vā vartayann agnau juhuyād āhutayaḥ kṛtvā ↩︎

  96. M G add: na ↩︎

  97. M G 1st ed. : caivāṣṭakān ↩︎

  98. M G add: athocyate ↩︎

  99. M G 1st ed.: nimittāntaraṃ ↩︎

  100. M G: yo vidhis ↩︎

  101. M G 1st ed: saṃnidhānam āśaṅkāyāṃ ↩︎

  102. M G add: kiṃ tarhi ↩︎

  103. M G 1st ed. omit: saṃbhavān ↩︎

  104. M G: -khañji-, -khaṇḍikā- ↩︎

  105. M G: tyājyaḥ ↩︎

  106. DK (5: 622) adds: kuryād iti ↩︎

  107. DK (5: 622) omits: ghṛtapaśuṃ kuryāt ↩︎

  108. J G 2st ed.: hiṃsāyāṃ ↩︎

  109. M G: nanu (I follow DK 5: 622) ↩︎

  110. M G 1st ed.: na hy etad; DK (5: 622) omits: tadā ↩︎

  111. M G 1st ed.: vadhe yajñāṅgabhūte yā bhṛtis; G 2nd ed: vadhe yajñaṅgabhūte yo vadhas ↩︎

  112. DK (5: 324): vartamānāpadeśāt ↩︎

  113. M G J: dṛṣṭavastusvābhāvyena (I follow the suggestion of DK 5: 624) ↩︎

  114. M G J: cauṣadhādīnām (I follow the suggestion of DK 5: 624) ↩︎

  115. DK (5: 624): kāmayet ↩︎

  116. M G 1st ed.: spṛṣṭatvāc ↩︎

  117. M G: yuktāṅga- ↩︎

  118. M G J: haviṣyena (I follow the suggestion of DK 5: 624) ↩︎

  119. M G 1st ed.: bhīmapravahaṇād ↩︎

  120. DK (5:624) suggests: codyante ↩︎

  121. J G 2nd ed.: svatantram evaṃ ca ↩︎

  122. DK (5: 625) suggests: anyeṣāṃ ↩︎

  123. DK (5: 625) suggests adding: ityādiṣu ↩︎

  124. M G: kṛtas ↩︎

  125. M G omit: hiṃsām ↩︎

  126. M: praṇayanaṃ; G 1st ed: prathanaṃ ↩︎

  127. M G: vittāśanādayaḥ ↩︎

  128. M G: vittāśanam ↩︎

  129. M G: kartṛvyapadeśa ↩︎

  130. M G 1st ed.:-hetūnām ↩︎

  131. M G 1st ed. omit: tad ayuktam iti ↩︎

  132. M G: yadi ↩︎

  133. M G: sa eva ↩︎

  134. J: asvatantrākaraṇaṃ ↩︎

  135. M G 1st ed.: adhyāpakahetu- ↩︎

  136. M G 1st ed.: adhyāpayati ↩︎

  137. M G: kiṃcid ↩︎

  138. M G: sarvasvaṃ dadyāt ↩︎

  139. M G: anyataraprayojakasmṛtiśaṅkayā ca ↩︎

  140. M G 1st ed.: nipuṇamennirṇītam ↩︎

  141. M G: vārthavād- ↩︎

  142. M G 1st ed.: matir ākāṅkṣīkaroti ↩︎

  143. M G: viṣayārthāḥ ↩︎

  144. M G 1st ed.: kiṃcid aśitum ↩︎

  145. This verse in YDh 3.23 in Vijñāneśvara. ↩︎

  146. M G 1st ed.: smṛti ↩︎

  147. M G: dantajātānusāhacaryāt ↩︎

  148. M G 1st ed.: prathamatṛtīya ity eṣaḥ ↩︎

  149. This verse in YDh 3.23 in Vijñāneśvara. ↩︎

  150. This verse in YDh 3.23 in Vijñāneśvara. ↩︎

  151. This verse in YDh 3.23 in Vijñāneśvara. ↩︎

  152. M: cāsya; G 1st ed. omit: svasya ↩︎

  153. M G 1st ed.: pūrvam anvayajātās ↩︎

  154. M G 1st ed.: adhyupalakṣaṇatvāc ↩︎

  155. M G 1st ed.: chara ↩︎

  156. M G 1st ed: iva velāyom; G 2nd ed.: iva velāyām ↩︎

  157. M G 1st ed: eva ↩︎

  158. M G 1st ed.: dāsīnāṃ ↩︎

  159. M G: rājānau ↩︎

  160. M G omit: iti ↩︎

  161. M G: śeṣād ↩︎

  162. M G 1st ed.: jñāne ↩︎

  163. M G 1st ed.: nābhidaghnam abhugno ↩︎

  164. M G 1st ed.: svādhyāyādiṣv apāṭhaprattyāsattyā ↩︎

  165. M G 1st ed.: śakyenaiva ↩︎

  166. M G 1st ed.: virudhyate ↩︎

  167. M G 1st ed.: eva ↩︎

  168. On this example, see Śabara on PMS 10.8.7. ↩︎

  169. M G 1st ed.: vikalpete ↩︎

  170. M G: eva tena ↩︎

  171. M G: rūḍhyā sapiṇḍebhyaḥ ↩︎

  172. M G: nivṛtta- ↩︎

  173. M G: nivṛtta- ↩︎

  174. M G 1st ed. add: yato ↩︎

  175. M G: tādṛśasyeva ↩︎

  176. M G add: ca ↩︎

  177. M G: nadītaḍāgādau ca tīrthasnānam ↩︎

  178. M G 1st ed.: deśo ↩︎

  179. M G 1st ed.: apekṣā ↩︎

  180. M G 1st ed.: kalpena yadā ↩︎

  181. M G 1st ed.L upanipātanaprāptau ↩︎

  182. M G: śālaka- ↩︎

  183. M G: mātula- ↩︎

  184. M G: ahorātri- ↩︎

  185. M G omit: na ↩︎

  186. M G: upasanne vā upasanne ca ↩︎

  187. M G: vākyaṃ ↩︎

  188. M G: nanu ↩︎

  189. M G omit: tāni ↩︎

  190. M G: vikalpante ↩︎

  191. M G: upakrāntaṃ ↩︎

  192. J: nityasvādhyāyakleśakaraṃ ↩︎

  193. M G: anuṣṭhānena duṣyāmīti ↩︎

  194. M G: āvaśyaṃ ↩︎

  195. M G: saṃnidhānātacchabdena ↩︎

  196. M G 1st ed.: na hi śavaspṛṣṭipadena ↩︎

  197. M G: itarair yuktatvāt ↩︎

  198. M G: vikalpete ↩︎

  199. J: teṣāmayādiṣyudakadānapratiṣedhaḥ; the reading here is unclear, but Jha’s reading makes little sense. ↩︎

  200. M G 1st ed.: tad uktam ↩︎

  201. M G add: na ↩︎

  202. M G: prapatanam and omits cecchatām ↩︎

  203. M G 1st ed.: ye kecana kenacit ↩︎

  204. J: ca jñātvā (Jha’s translation requires ajñātvā) ↩︎

  205. M G 1st ed. omit: na ↩︎

  206. M G: -vṛttyaikāneka- ↩︎

  207. M G omit: yatra ↩︎

  208. M G: tādarthyatānām ↩︎

  209. M G: guṇabhāvāt ↩︎

  210. M G: -opapadyeta- ↩︎

  211. M G: tadveṣāt ↩︎

  212. M G add: na ↩︎

  213. M G 1st ed.: pracyutalaukikyā ↩︎

  214. M G: abhidhānaṃ śaktim ↩︎

  215. M G: avivakṣayā nātantram ↩︎

  216. M G: yathāpi ↩︎

  217. M G: saṃbadhyate | ete ↩︎

  218. M G 1st ed.: vidhivad iti ↩︎

  219. M G: anivṛttir iti ↩︎

  220. M G: nivṛttakākṣeti ↩︎

  221. M G J: ṛtvig- ↩︎

  222. J: mukhyāyānuvṛttyā; DK (4: 950) suggests: mukhyayā tu vṛttyā ↩︎

  223. M G J: divyantarikṣa- ↩︎

  224. M: śrameṣu; G 1st ed.: sameṣu ↩︎

  225. M G 1st ed. DK (4: 951): lokeśaprabhavāpyayam ↩︎

  226. M G places ekādaśe vakṣyati at the beginning of the commentary on verse 106. ↩︎

  227. M G 1st ed.: vegāgatāyāḥ ↩︎

  228. M G omit: na ↩︎

  229. MG 1st ed.: cintita ↩︎

  230. M G: bhasmana ↩︎

  231. M G 1st ed.: rūpato ‘pāruṣyaṃ; G 2nd ed: rūpataḥ apāruṣyaṃ ↩︎

  232. M G 1st ed.: śucitvāpādana- ↩︎

  233. M G 1st ed.: naika- ↩︎

  234. M G 1st ed.: lokāj jāyate; G 2nd ed: lokā’jñāyate ↩︎

  235. M G 1st ed: ato ’nayā ↩︎

  236. M G: śāstraviśeṣaḥ ↩︎

  237. M G 1st ed.: aśuddhe pātrasya ↩︎

  238. M G 1st ed.: vākyaṃ mūlaṃ siddhārtham eva ↩︎

  239. M G 1st ed. omit: kiṃ tu ↩︎

  240. G 2nd ed: caikavastvaṃśo ↩︎

  241. M G 1st ed.: anujñāyām ekavastvaṃśaḥ | na ca svatvaṃ ↩︎

  242. M G: candragopa-; This may be the Buddhist author Candragomin who is said to have authored a large number of texts, according to Tāranātha: “in all he composed four hundred and thirty-two separate works, of which … one hundred and eight were treatises on secular knowledge” including “fine arts, grammar, logic, medicine, prosody, dramaturgy, dictionary, poetics, astronomy, etc.” (trans. Chimpa & Chattopadhyaya, pp. 206-7). Possibly Medhātithi is noting that he did not want to follow the example of Candragomin to be too prolix. ↩︎

  243. M G 1st ed. omit: yatra ↩︎

  244. M G: godhūmamakuṣṭhaka- ↩︎

  245. M G 1st ed.: ākāra- ↩︎

  246. M G 1st ed. omit: ākaraḥ ↩︎

  247. M G: dāho nātītānāṃ (G 2nd ed. nānnītānāṃ) ↩︎

  248. M G 1st ed.: svarṇākāre; G 2nd ed: svarṇākare ↩︎

  249. M G 1st ed.: śaṅkhasphoṭanādi; G 2nd ed.: abjaṃ śaṅkhādi aśmamayaṃ sphaṭikādi ↩︎

  250. M G 1st ed. omit: yatra ↩︎

  251. M G 1st ed.: paryavasyato ↩︎

  252. M G: caityādineṣaiva ↩︎

  253. M G 1st ed. add: na ↩︎

  254. M G omit: na ↩︎

  255. M G 1st ed.: arvāk tatas ↩︎

  256. M G add: tat ↩︎

  257. M G: aduṣṭa- ↩︎

  258. M G place this phrase at the start of the commentry on the next verse. ↩︎

  259. M G: tadarthāyā mantrapravṛttau ↩︎

  260. Cite under 5.131 ↩︎

  261. G 2nd ed.: grahaṇam ↩︎

  262. M G place karmendriyāṇi before pādayor ↩︎

  263. M G 1st ed. omit: iti ↩︎

  264. M G 1st ed.: antarāsparśe ↩︎

  265. M G 1st ed. places tathā dūṣikāduṣṭena punaś cāsaṃsparśanāya at the beginning of the com. on next verse. ↩︎

  266. M G 1st ed. omit: makṣikāgrahaṇaṃ ↩︎

  267. M G: bhede ↩︎

  268. M G 1st ed.: -saṃbandhāt ↩︎

  269. M G: ’nyato ↩︎

  270. G 2nd ed. add: mṛjyetyeva ↩︎

  271. M G: niṣṭhīvyoktānṛtāni ↩︎

  272. M G: niṣṭhīvana ↩︎

  273. M G add: uktaṃ ↩︎

  274. M G 1st ed.: tasyaivānnaśuddhiḥ; G 2nd ed.: tasyaivāśaucāc chuddhi ↩︎

  275. M G: saṃbandhyate ↩︎

  276. M G 1st ed.: nityaprahasitaye ↩︎

  277. M G: svāmikārakam ↩︎

  278. M G: prajāpateḥ | prajāpater ↩︎

  279. M G: sarvatraivāpratiṣiddhavarjam (GDh reads: sarvatra vā pratiṣiddhavarjam) ↩︎

  280. M G: -virodho ↩︎

  281. M G 1st ed.: caturvidyayā; G 2nd ed.: gurvicchayā vidyayā ↩︎

  282. M G: vānapratha- ↩︎