०४

अथ चतुर्थो ऽध्यायः

चतुर्थम् आयुषो भागम् उषित्वाद्यं गुरौ द्विजः ।
द्वितीयम् आयुषो भागं कृतदारो गृहे वसेत् ॥ ४.१ ॥

अद्रोहेणैव भूतानाम् अल्पद्रोहेण वा पुनः ।
या वृत्तिस् तां समास्थाय विप्रो जीवेद् अनापदि ॥ ४.२ ॥

यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिर् अगर्हितैः ।
अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् ॥ ४.३ ॥

ऋतामृताब्यां जीवेत् तु मृतेन प्रमृतेन वा ।
सत्यानृताभ्याम् अपि वा न श्ववृत्त्या कदाचन ॥ ४.४ ॥

ऋतम् उञ्छशिलं ज्ञेयम् अमृतं स्याद् अयाचितम् ।
मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ ४.५ ॥

सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते ।
सेवा श्ववृत्तिर् आख्याता तस्मात् तां परिवर्जयेत् ॥ ४.६ ॥

कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।
त्र्यहैहिको वापि भवेद् अश्वस्तनिक एव वा ॥ ४.७ ॥

चतुर्णाम् अपि चैतेषां द्विजानां गृहमेधिनाम् ।
ज्यायान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ ४.८ ॥

षट्कर्मैको भवत्य् एषां त्रिभिर् अन्यः प्रवर्तते ।
द्वाभ्याम् एकश् चतुर्थस् तु ब्रह्मसत्रेण जीवति ॥ ४.९ ॥

वर्तयंश् च शिलोञ्छाभ्याम् अग्निहोत्रपरायणः ।
इष्टीः पार्वायणान्तीयाः केवलाः निर्वपेत् सदा ॥ ४.१० ॥

न लोकवृत्तं वर्तेत वृत्तिहेतोः कथंचन ।
अजिह्माम् अशठां शुद्धां जीवेद् ब्राह्मणजीविकाम् ॥ ४.११ ॥

संतोषं परम् आस्थाय सुखार्थी संयतो भवेत् ।
संतोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥ ४.१२ ॥

अतो ऽन्यतमया वृत्त्या जीवंस् तु स्नातको द्विजः ।
स्वर्ग्यायुष्ययशस्यानि व्रतानीमानि धारयेत् ॥ ४.१३ ॥

वेदोदितं स्वकं कर्म नित्यं कुर्याद् अतन्द्रितः ।
तद् धि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ॥ ४.१४ ॥

नेहेतार्थान् प्रसङ्गेन न विरुद्धेन कर्मणा ।
न कल्प्यमानेष्व्52** अर्थेषु नार्त्याम् अपि यतस् ततः ॥ ४.१५ ॥**

इन्द्रियार्थेषु सर्वेषु न प्रस्ज्येत कामतः ।
अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥ ४.१६ ॥

सर्वान् परित्यजेद् अर्थान् स्वाध्यायस्य विरोधिनः ।
यथातथा यापयंस् तु सा ह्य् अस्य कृतकृत्यता ॥ ४.१७ ॥

वयसः कर्मणो ऽर्थस्य श्रुतस्याभिजनस्य च ।
वेषवाग्बुद्धिसारूप्यम् आचरन् विचरेद् इह ॥ ४.१८ ॥

बुद्धिवृद्धिकराण्य् आशु धन्यानि च हितानि च ।
नित्यं शास्त्राण्य् अवेक्षेत निगमांश् चैव वैदिकाण् ॥ ४.१९ ॥

यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ।
तथा तथा विजानाति विज्ञानं चास्य रोचते ॥ ४.२० ॥

ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ।
नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥ ४.२१ ॥

एतान् एके महायज्ञान् यज्ञशास्त्रविदो जनाः ।
अनीहमानाः सततम् इन्द्रियेष्व् एव जुह्वति ॥ ४.२२ ॥

वाच्य् एके जुह्वति प्राणं प्राणे वाचं च सर्वदा ।
वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिम् अक्षयाम् ॥ ४.२३ ॥

ज्ञानेनैवापरे विप्रा यजन्ते तैर्[^६९]** मखैः सदा ।**
ज्ञानमूलां क्रियाम् एषां पश्यन्तो ज्ञानचक्षुषा ॥ ४.२४ ॥

अग्निहोत्रं च जुहुयाद् अद्यन्ते द्युनिशोः सदा ।
दर्शेन चार्धमासान्ते पौर्णमासेन चैव हि ॥ ४.२५ ॥

सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजो ऽध्वरैः ।
पशुना त्व् अयनान्ते तु76** समान्ते सौमिकैर् मखैः ॥ ४.२६ ॥**

नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः ।
नवान्नम् अद्यान् मांसं वा दीर्घम् आयुर् जिजीविषुः ॥ ४.२७ ॥

नवेनानर्चिता ह्य् अस्य पशुहव्येन चाग्नयः ।
प्राणान् एवात्तुम् इच्छन्ति नवान्नामिषगर्धिनः ॥ ४.२८ ॥

आसनाशनशय्याभिर् अद्भिर् मूलफलेन वा ।
नास्य कश्चिद् वसेद् गेहे शक्तितो ऽनर्चितो ऽतिथिः ॥ ४.२९ ॥

पाषण्डिनो विकर्मस्थान् बैडालव्रतिकाञ् छतान् ।
हैतुकान् बकवृत्तींश् च वाङ्मात्रेणापि नार्चयेत् ॥ ४.३० ॥

**वेदविद्याव्रतस्नाताञ् छ्रोत्रियान् गृहमेधिनः । **
पूजयेद् धव्यकव्येन विपरीतांश् च वर्जयेत् ॥ ४.३१ ॥

शक्तितो ऽपचमानेभ्यो दातव्यं गृहमेधिना ।
संविभागश् च भूतेभ्यः कर्तव्यो ऽनुपरोधतः ॥ ४.३२ ॥

राजतो धनम् अन्विच्छेत् संसीदन् स्नातकः क्षुधा ।
याज्यान्तेवसिनोर् वापि न त्व् अन्यत इति स्थितिः ॥ ४.३३ ॥

न सीदेत् स्नातको विप्रः क्षुधा शक्तः कथंचन ।
न जीर्णमलवद्वासा भवेच् च विभवे सति ॥ ४.३४ ॥

कॢप्तकेशनखश्मश्रुर् दान्तः शुक्लाम्बरः शुचिः ।
स्वाध्याये चैव युक्तः स्यान् नित्यम् आत्महितेषु च ॥ ४.३५ ॥

वैणवीं धारयेद् यष्टिं सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥ ४.३६ ॥

नेक्षेतोद्यन्तम् आदित्यं नास्तं यान्तं कदाचन ।
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ ४.३७ ॥

न लङ्घयेद् वत्सतन्त्रीं न प्रधावेच् च वर्षति ।
न चोदके निरीक्षेत स्वरूपम् इति धारणा ॥ ४.३८ ॥

मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् ।
प्रदक्षिणानि कुर्वीत प्रज्ञातांश् च वनस्पतीन् ॥ ४.३९ ॥

नोपगच्छेत् प्रमत्तो ऽपि स्त्रियम् आर्तवदर्शने ।
समानशयने चैव न शयीत तया सह ॥ ४.४० ॥

रजसाभिप्लुतां नारीं नरस्य ह्य् उपगच्छतः ।
प्रज्ञा तेजो बलं चक्षुर् आयुश् चैव प्रहीयते ॥ ४.४१ ॥

तां विवर्जयतस् तस्य रजसा समभिप्लुताम् ।
प्रज्ञा तेजो बलं चक्षुर् आयुश् चैव प्रवर्धते ॥ ४.४२ ॥

नाश्नीयाद् भार्यया सार्धं नैनाम् ईक्षेत चाश्नतीम् ।
क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम् ॥ ४.४३ ॥

नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्ताम् अनावृताम् ।
न पश्येत् प्रसवन्तीं च तेजःकामो द्विजोत्तमः ॥ ४.४४ ॥

नान्नम् अद्याद् एकवासा न नग्नः स्नानम् आचरेत् ।
न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ॥ ४.४५ ॥

न पालकृष्टे न जले न चित्यां न च पर्वते ।
न जीर्णदेवायतने न वल्मीके कदाचन ॥ ४.४६ ॥

न ससत्वेषु गर्तेषु न गच्छन् नापि च स्थितः ।
न नदीतीरम् आसाद्य न च पर्वतमस्तके ॥ ४.४७ ॥

वाय्वग्निविप्रम् आदित्यम् अपः पश्यंस् तथैव गाः ।
न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ ४.४८ ॥

[^११९]प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजम् ।
प्रतिगु प्रतिवातं च प्रज्ञा नश्यति मेहतः ॥ ४.४९ ॥

तिरस्कृत्योच्चरेत् काष्ठलोष्ठपत्रतृणादि च[^१२१]** ।**
नियम्य प्रयतो वाचं संवीताङ्गो ऽवगुण्ठितः ॥ ४.५० ॥

मूत्रोच्चारसमुत्सर्गं दिवा कुर्याद् उदङ्मुखः ।
दक्षिणाभुमुखो रात्रौ संध्ययोश् च यथा दिवा ॥ ४.५१ ॥

छायायाम् अन्धकारे वा रात्राव् अहनि वा द्विजः ।
यथासुखमुखः कुर्यात् प्राणबाधभयेषु च ॥ ४.५२ ॥

नाग्निं मुखेनोपधमेन् नग्नां नेक्षेत च स्त्रियम् ।
नामेध्यं प्रक्षिपेद् अग्नौ न च पादौ120** प्रतापयेत् ॥ ४.५३ ॥**

अधस्तान् नोपदध्याच् च न चैनम् अभिलङ्घयेत् ।
न चैनं पादतः कुर्यान् न प्राणाबाधम् आचरेत् ॥ ४.५४ ॥

नाश्नीयात् संधिवेलायां न गच्छेन् नापि संविशेत् ।
न चैव प्रलिखेद् भूमिं नात्मनोपहरेत् स्रजम् ॥ ४.५५ ॥

नाप्सु मूत्रं पुरीषं वा ष्ठीवनं[^१२८]** वा समुत्सृजेत् ।**
अमेध्यलिप्तम् अन्यद् वा लोहितं वा विषाणि वा ॥ ४.५६ ॥

नैकः शून्यगृहे स्वप्यान् न श्रेयांसं प्रबोधयेत् ।
नोदक्ययाभिभाषेत यज्ञं गच्छेन् न चावृतः ॥ ४.५७ ॥

अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ ।
स्वाध्याये भोजने चैव दक्षिणं पाणिम् उद्धरेत् ॥ ४.५८ ॥

न वारयेद् गां धयन्तीं न चाचक्षीत कस्यचित् ।
न दिवीन्द्रायुधं दृष्ट्वा कस्यचिद् दर्शयेद् बुधः ॥ ४.५९ ॥

नाधार्मिके वसेद् ग्रामे न व्याधिबहुले भृशम् ।
नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥ ४.६० ॥

न शूद्रराज्ये निवसेन् नाधार्मिकजनावृते ।
न पाषण्डिगणाक्रान्ते नोपसृष्टे ऽन्त्यजैर् नृभिः ॥ ४.६१ ॥

न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यम् आचरेत् ।
नातिप्रगे नातिसायं न सायं प्रातर् आशितः ॥ ४.६२ ॥

न कुर्वीत वृथाचेष्टां न वार्य् अञ्जलिना पिबेत् ।
नोत्सङ्गे भक्षयेद् भक्ष्यान् न जातु स्यात् कुतूहली ॥ ४.६३ ॥

न नृत्येन् नैव गायेच् च न वादित्राणि वादयेत् ।
नास्फोटयेन् न च क्ष्वेडेन् न च रक्तो विरोधयेत्134** ॥ ४.६४ ॥**

न पादौ धावयेत् कांस्ये कदाचिद् अपि भाजने ।
न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ॥ ४.६५ ॥

**उपानहौ च वासश् च धृतम् अन्यैर् न धारयेत् । **
उपवीतम् अलंकारं स्रजं करकम् एव च ॥ ४.६६ ॥

नाविनीतैर् व्रजेद् धुर्यैर् न च क्षुद्व्याधिपीडितैः ।
न भिन्नशृङ्गाक्षिखुरैर् न वालधिविरूपितैः ॥ ४.६७ ॥

विनीतैस् तु व्रजेन् नित्यम् आशुगैर् लक्षणान्वितैः ।
वर्णरूपोपसंपन्नैः प्रतोदेनाक्षिपन्142** भृशम् ॥ ४.६८ ॥**

बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथासनम् ।
न छिन्द्यान् नखरोमाणि दन्तैर् नोत्पाटयेन् नखान् ॥ ४.६९ ॥

न मृल्लोष्ठं च मृद्नीयान् न छिन्द्यात् करजैस् तृणम् ।
न कर्म निष्फलं कुर्यान् नायत्याम् असुखोदयम् ॥ ४.७० ॥

लोष्ठमर्दी तृणच्छेदी नखकादी च यो नरः ।
स विनाशं व्रजत्य् आशु सूचको ऽशुचिर् एव च ॥ ४.७१ ॥

न विगृह्य कथां कुर्याद् बहिर् माल्यं न धारयेत् ।
गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥ ४.७२ ॥

अद्वारेण च नातीयाद् ग्रामं वा वेश्म वावृतम् ।
रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ ४.७३ ॥

नाक्षैर् दीव्येत् कदाचित् तु स्वयं नोपानहौ हरेत् ।
शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥ ४.७४ ॥

सर्वं च तिलसंबद्धं नाद्याद् अस्तम् इते रवौ ।
न च नग्नः शयीतेह न चोच्छिष्टः क्वचिद् व्रजेत् ॥ ४.७५ ॥

आर्द्रपादस् तु भुञ्जीत नार्द्रपादस् तु संविशेत् ।
आर्द्रपादस् तु भुञ्जानो दीर्घम् आयुर् अवाप्नुयात् ॥ ४.७६ ॥

अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हिचित् ।
न विण्मूत्रम् उदीक्षेत न बाहुभ्यां नदीं तरेत् ॥ ४.७७ ॥

अधितिष्ठेन् न केशांस् तु न भस्मास्थिकपालिकाः ।
न कार्पासास्थि न तुषान् दीर्घम् आयुर् जिजीविषुः ॥ ४.७८ ॥

न संवसेच् च पतितैर् न चाण्डालैर् न पुल्कसैः ।
न मूर्खैर् नावलिप्तैश् च नान्त्यैर् नान्त्यावसायिभिः ॥ ४.७९ ॥

न शूद्राय मतिं दद्यान् नोच्छिष्टं न हविष्कृतम् ।
न चास्योपदिशेद् धर्मं न चास्य व्रतम् आदिशेत् ॥ ४.८० ॥

यो ह्य् अस्य धर्मम् आचष्टे यश् चैवादिशति व्रतम् ।
सो ऽसंवृतं नाम तमः सह तेनैव मज्जति ॥ ४.८१ ॥

न संहताभ्यां पाणिभ्यां कण्डूयेद् आत्मनः शिरः ।
न स्पृशेच् चैतद् उच्छिष्टो न च स्नायाद् विना ततः ॥ ४.८२ ॥

केशग्रहान् प्रहारांश् च शिरस्य् एतान् विवर्जयेत् ।
शिरःस्नातश् च तैलेन नाङ्गं किंचिद् अपि स्पृशेत् ॥ ४.८३ ॥

न राज्ञः प्रतिगृह्णीयाद् अराजन्यप्रसूतितः ।
सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥ ८४ ॥

उक्तम् “राजतो धनम् अन्विच्छेत्” (म्ध् ४.३३) इति । राजशब्दश् चायं क्षत्रियजाताव् अक्षत्रिये ऽपि जनपदेश्वरे दृष्टप्रोयोगः “ब्राह्मणानां राज्यम्” इति । तत्र प्रतिग्रहविधौ तन्निषेधे च जनपदेश्वरवचनो गृह्यते । येनाह अराजन्यप्रसूतित इति । जनपदैश्वर्यं हि सर्ववर्णसंभवि लिप्सया । अतो विशेष्यते, राजन्यात् क्षत्रियाद् यस्य प्रसूतिर् उत्पत्तिर् नास्ति तस्माद् राज्ञो जनपदेश्वरान् न गृह्णीयात् । क्षत्रियाद् अपि लुब्धाद् उच्छास्त्रवर्तिनो वक्ष्यमाणेन प्रतिषेधेन (म्ध् ४.८७) ।

  • सूना पशुमारणसंज्ञपनपूर्वकेण167 मांसक्रयेण यो जीवति स सूनावान् । खटिक इति लोके प्रेसिद्धः । द्वजो168 मद्यपण्यः, तत्क्रयविक्रयजीवी । वेशः पण्यवृत्तिः, तया यो जीवति स्त्री वा पुमान् वा ॥ ४.८४ ॥

दशसूनासमं चक्रं दशचक्रसमो ध्वजः ।
दशध्वजसमो वेशो दशवेशसमो नृपः ॥ ४.८५ ॥

दशसूनासहस्राणि यो वाहयति सौनिकः ।
तेन तुल्यः स्मृतो राजा घोरस् तस्य प्रतिग्रहः ॥ ४.८६ ॥

यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः ।
स पर्यायेण यातीमान् नरकान् एकविंशतिम् ॥ ४.८७ ॥

तामिस्रम् अन्धतामिस्रं महारौरवरौरवौ ।
नरकं कालसूत्रं च महानरकम् एव च ॥ ४.८८ ॥
संजीवनं महावीचिं तपनं संप्रतापनम् ।
संहातं च सकाकोलं कुड्मलं पूतिमृत्तिकम् ॥ ४.८९ ॥
लोहशङ्कुम् ऋजीषं च पन्थानं शाल्मलीं नदीम् ।
असिपत्रवनं चैव लोहदारकम् एव च ॥ ४.९० ॥

एतद् विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः ।
न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयो ऽभिकाङ्क्षिणः ॥ ४.९१ ॥

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।
कायक्लेशांश् च तन्मूलान् वेदतत्त्वार्थम् एव च ॥ ४.९२ ॥

उत्थायावश्यकं कृत्वा कृतशौचः समाहितः ।
पूर्वां संध्यां जपंस् तिष्ठेत् स्वकाले चापरां चिरम् ॥ ४.९३ ॥

ऋषयो दीर्घसंध्यत्वाद् दीर्घम् आयुर् अवाप्नुयुः ।
प्रज्ञां यशश् च कीर्तिं च ब्रह्मवर्चसम् एव च ॥ ४.९४ ॥

श्रावण्यां प्रौष्ठपद्यां वाप्य् उपाकृत्य यथाविधि ।
युक्तश् छन्दांस्य् अधीयीत मासान् विप्रो ऽर्धपञ्चमान् ॥ ४.९५ ॥

पुष्ये तु छन्दसां कुर्याद् बहिर् उत्सर्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे ऽहनि ॥ ४.९६ ॥

यथाशास्त्रं तु कृत्वैवम् उत्सर्गं छन्दसां बहिः ।
विरमेत् पक्षिणीं रात्रिं तद् एवैकम् अहर्निशम् ॥ ४.९७ ॥

अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् ।
वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥ ४.९८ ॥

नाविस्पष्टम् अधीयीत न शूद्रजनसंनिधौ ।
न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥ ४.९९ ॥

यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् ।
ब्रह्मच्छन्दस्कृतं चैव द्विजो युक्तो ह्य् अनापदि ॥ ४.१०० ॥

इमान् नित्यम् अनध्यायान् अधीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ॥ ४.१०१ ॥

कर्णश्रवे ऽनिले रात्रौ दिवा पांसुसमूहने ।
एतौ वर्षास्व् अनध्यायाव् अध्यायज्ञाः प्रचक्षते ॥ ४.१०२ ॥

विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे ।
आकालिकम् अनध्यायम् एतेषु मनुर् अब्रवीत् ॥ ४.१०३ ॥

एतांस् त्व् अभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु ।
तदा विद्याद् अनध्यायम् अनृतौ चाभ्रदर्शने ॥ ४.१०४ ॥

निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ।
एतान् आकालिकान् विद्याद् अनध्यायान् ऋताव् अपि ॥ ४.१०५ ॥

प्रादुष्कृतेष्व् अग्निषु तु विद्युत्स्तनितनिःस्वने ।
सज्योतिः स्याद् अनध्यायः शेषे रात्रौ यथा दिवा ॥ ४.१०६ ॥

नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च ।
धर्मनैपुण्यकामानां पूतिगन्धे च सर्वशः ॥ ४.१०७ ॥

अन्तर्गतशवे ग्रामे वृषलस्य च संनिधौ ।
अनध्यायो रुद्यमाने समवाये जनस्य च ॥ ४.१०८ ॥

उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने ।
उच्छिष्टः श्राद्धभुक् चैव मनसापि न चिन्तयेत् ॥ ४.१०९ ॥

प्रतिगृह्य द्विजो विद्वान् एकोद्दिष्टनिकेतनम्[^१९३]** ।**
त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश् च सूतके ॥ ४.११० ॥

यावद् एकानुदिष्टस्य गन्धो लेपश् च तिष्ठति ।
विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेत् ॥ ४.१११ ॥

शयानः प्रौढपादश् च कृत्वा चैवावसक्थिकाम् ।
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यम् एव च ॥ ४.११२ ॥

नीहारे बाणशब्दे च संध्ययोर् एव चोभयोः ।
अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च ॥ ४.११३ ॥

अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी ।
ब्रह्माष्टकापौर्णमास्यौ तस्मात् ताः परिवर्जयेत् ॥ ४.११४ ॥

पांसुवर्षे दिशां दाहे गोमायुविरुते तथा ।
श्वखरोष्ट्रे च रुवति पङ्क्तौ च न पठेद् द्विजः ॥ ४.११५ ॥

नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजे ऽपि वा ।
वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥ ४.११६ ॥

प्राणि वा यदि वाप्राणि यत् किंचिच् छ्राद्धिकं भवेत् ।
तद् आलभ्याप्य् अनध्यायः पाण्यास्यो हि द्विजः स्मृतः ॥ ४.११७ ॥

चौरैर् उपप्लुते ग्रामे संभ्रमे चाग्निकारिते ।
आकालिकम् अनध्यायं विद्यात् सर्वाद्भुतेषु च ॥ ४.११८ ॥

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् ।
अष्टकासु त्व् अहोरात्रम् ऋत्वन्तासु च रात्रिषु ॥ ४.११९ ॥

नाधीयीताश्वम् आरूढो न वृक्षं न च हस्तिनम् ।
न नावं न खरं नोष्ट्रं नेरिनस्थो न यानगः ॥ ४.१२० ॥

न विवादे न कलहे न सेनायां न सङ्गरे ।
न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ॥ ४.१२१ ॥

अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम् ।
रुधिरे च स्रुते गात्राच् छस्त्रेण च परिक्षते ॥ ४.१२२ ॥

सामध्वनाव् ऋग्यजुषी नाधीयीत कदाचन ।
वेदस्याधीत्य वाप्य् अन्तम् आरण्यकम् अधीत्य च ॥ ४.१२३ ॥

ऋग्वेदो देवदैवत्यो यजुर्वेदस् तु मानुषः ।
सामवेदः स्मृतः पित्र्यस् तस्मात् तस्याशुचिर् ध्वनिः ॥ ४.१२४ ॥

एतद् विदन्तो विद्वांसस् त्रयीनिष्कर्षम् अन्वहम् ।
क्रमतः पूर्वम् अभ्यस्य पश्चाद् वेदम् अधीयते ॥ ४.१२५ ॥

पशुमण्डूकमार्जारश्वसर्पनकुलाखुभिः ।
अन्तरागमने विद्याद् अनधायम् अहर्निशम् ॥ ४.१२६ ॥

द्वाव् एव वर्जेयन् नित्यम् अनध्यायौ प्रयत्नतः ।
स्वाध्यायभूमिं चाशुद्धाम् आत्मानं चाशुचिं द्विजः ॥ ४.१२७ ॥

अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीम् ।
ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ॥ ४.१२८ ॥

न स्नानम् आचरेद् भुक्त्वा नातुरो न महानिशि ।
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥ ४.१२९ ॥

देवतानां गुरो राज्ञः स्नातकाचार्ययोस् तथा ।
नाक्रामेत् कामतश् छायां बभ्रुणो दीक्षितस्य च ॥ ४.१३० ॥

मधंदिने ऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् ।
संध्ययोर् उभयोश् चैव न सेवेत चतुष्पथम् ॥ ४.१३१ ॥

उद्वर्तनम् अपस्नानं विण्मूत्रे रक्तम् एव च ।
श्लेष्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत् तु कामतः ॥ ४.१३२ ॥

वैरिणं नोपसेवेत सहायं चैव वैरिणः ।
अधार्मिकं तस्करं च परस्यैव च योषितम् ॥ ४.१३३ ॥

न हीदृशम् अनायुष्यं लोके किंचन विद्यते ।
यादृशं पुरुषस्येह परदारोपसेवनम् ॥ ४.१३४ ॥

क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
नावमन्येत वै भूष्णुः कृशान् अपि कदाचन ॥ ४.१३५ ॥

एतत् त्रयं हि पुरुषं निर्दहेद् अवमानितम् ।
तस्माद् एतत् त्रयं नित्यं नावमन्येत बुद्धिमान् ॥ ४.१३६ ॥

नात्मानम् अवमन्येत पूर्वाभिर् असमृद्धिभिः ।
आ मृत्योः श्रियम् अन्विच्छेन् नैनां मन्येत दुर्लभाम् ॥ ४.१३७ ॥

सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यम् अप्रियम् ।
प्रियं च नानृतं ब्रूयाद् एष धर्मः सनातनः ॥ ४.१३८ ॥

भद्रं भद्रम् इति ब्रूयाद् भद्रम् इत्य् एव वा वदेत् ।
शुष्कवैरं विवादं च न कुर्यात् केनचित् सह ॥ ४.१३९ ॥

नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते ।
नाज्ञातेन समं गच्छेन् नैको न वृषलैः सह ॥ ४.१४० ॥

हीनाङ्गान् अतिरिकाङ्गान् विद्याहीनान् वयोऽतिगान् ।
रूपद्रविणहीनांश् च जातिहीनां च नाक्षिपेत् ॥ ४.१४१ ॥

न स्पृशेत् पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलान् ।
न चापि पश्येद् अशुचिः स्वस्थो ज्योतिर्गणान् दिवि ॥ ४.१४२ ॥

स्पृष्ट्वैतान् अशुचिर् नित्यम् अद्भिः प्राणान् उपस्पृशेत् ।
गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ ४.१४३ ॥

अनातुरः स्वानि खानि न स्पृशेद् अनिमित्ततः ।
रोमाणि च रहस्यानि सर्वाण्य् एव विवर्जयेत् ॥ ४.१४४ ॥

मङ्गलाचारयुक्तः स्यात् प्रयतात्मा जितेन्द्रियः ।
जपेच् च जुहुयाच् चैव नित्यम् अग्निम् अतन्द्रितः ॥ ४.१४५ ॥

मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् ।
जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ ४.१४६ ॥

वेदम् एव जपेन्[^२१६]** नित्यं यथाकालम् अतन्द्रितः ।**
तं ह्य् अस्याहुः परं धर्मम् उपधर्मो ऽन्य उच्यते ॥ ४.१४७ ॥

वेदाभ्यासेन सततं शौचेन तपसैव च ।
अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥ ४.१४८ ॥

पौर्विकीं संस्मरन् जातिं ब्रह्मैवाभ्यस्यते द्विजः ।
ब्रह्माभ्यासेन चाजस्रम् अनन्तं209** सुखम् अश्नुते ॥ ४.१४९ ॥**

सावित्रान् शान्तिहोमांश् च कुर्यात् पर्वसु नित्यशः ।
पितॄंश् चैवाष्टकास्व् अर्चेन् नित्यम् अन्वष्टकासु च ॥ ४.१५० ॥

दूराद् आवसथान् मूत्रं दूरात् पादावसेचनम् ।
उच्छिष्टान्ननिषेकं च दूराद् एव समाचरेत् ॥ ४.१५१ ॥

मैत्रं प्रसाधनं स्नानं दन्तधावनम् अञ्जनम् ।
पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥ ४.१५२ ॥

दैवतान्य् अभिगच्छेत् तु धार्मिकांश् च द्विजोत्तमान् ।
ईश्वरं चैव रक्षार्थं गुरून् एव च पर्वसु ॥ ४.१५३ ॥
अभिवादयेद् वृद्धांश् च दद्याच् चैवासनं स्वकम् ।
कृताञ्जलिर् उपासीत गच्छतः पृष्ठतो ऽन्वियात् ॥ ४.१५४ ॥
श्रुतिस्मृत्युदितं सम्यङ् निबद्धं स्वेषु कर्मसु ।
धर्ममूलं निषेवेत सदाचारम् अतन्द्रितः ॥ ४.१५५ ॥
आचाराल् लभते ह्य् आयुर् आचाराद् ईप्सिताः प्रजाः ।
आचाराद् धनम् अक्षय्यम् आचारो हन्त्य् अलक्षणम् ॥ ४.१५६ ॥

दुराचारो हि पुरुषो लोके भवति निन्दितः ।
दुःखभागी च सततं व्याधितो ऽल्पायुर् एव च ॥ ४.१५७ ॥ सर्वलक्षणहीनो ऽपि यः सदाचारवान् नरः ।
श्रद्दधणो ऽनसूयश् च शतं वर्षाणि जीवति ॥ ४.१५८ ॥
यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत् ।
यद् यद् आत्मवशं तु स्यात् तत् तत् सेवेत यत्नतः ॥ ४.१५९ ॥

सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् ।
एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥ ४.१६० ॥

यत् कर्म कुर्वतो ऽस्य स्यात् परितोषो ऽन्तरात्मनः ।
तत् प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ ४.१६१ ॥

आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् ।
न हिंस्याद् ब्राह्मणान् गाश् च सर्वांश् चैव तपस्विनः ॥ ४.१६२ ॥

नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।
द्वेषं स्तम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥ ४.१६३ ॥

परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत् ।
अन्यत्र पुत्राच् छिष्याद् वा सिष्ट्यर्थं ताडयेत् तु तौ ॥ ४.१६४ ॥

ब्राह्मणायावगुर्यैव द्विजातिर् वधकाम्यया ।
शतं वर्षाणि तामिस्रे नरके परिवर्तते ॥ ४.१६५ ॥

ताडयित्वा तृणेनापि संरम्भान् मतिपूर्वकम् ।
एकविंशतिम् आजातीः पापयोनिषु जायते ॥ ४.१६६ ॥

अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृग् अङ्गतः ।
दुःखं सुमहद् आप्नोति प्रेत्याप्राज्ञतया नरः ॥ ४.१६७ ॥

शोणितं यावतः पांसून्त् संगृह्णाति महीतलात् ।
तावतो ऽब्दान् अमुत्रान्यैः शोणितोत्पादको ऽद्यते ॥ ४.१६८ ॥

न कदाचिद् द्विजे तस्माद् विद्वान् अवगुरेद् अपि ।
न ताडयेत् तृणेनापि न गात्रात् स्रावयेद् असृक् ॥ ४.१६९ ॥

अधार्मिको नरो यो हि यस्य चाप्य् अनृतं धनम् ।
हिंसारतिश् च यो नित्यं नेहासौ सुखम् एधते ॥ ४.१७० ॥

न सीदन्न् अपि धर्मेण मनो ऽधर्मे निवेशयेत् ।
अधार्मिकाणां पापानाम् आशु पश्यन् विपर्ययम् ॥ ४.१७१ ॥

नाधर्मश् चरितो लोके सद्यः फलति गौर् इव ।
शनैर् आवर्तमानस्223** तु कर्तुर् मूलानि कृन्तति ॥ ४.१७२ ॥**

यदि नात्मनि पुत्रेषु न चेत् पुत्रेषु नप्तृषु ।
न त्व् एव तु कृतो ऽधर्मः कर्तुर् भवति निष्फलः ॥ ४.१७३ ॥

अधर्मेणैधते तावत् ततो भद्राणि पश्यति ।
ततः सपत्नान् जयति समूलस् तु विनश्यति ॥ ४.१७४ ॥

सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत् सदा ।
शिष्यांश् च शिष्याद् धर्मेण वाग्बाहूदरसंयतः ॥ ४.१७५ ॥

परित्यजेद् अर्थकामौ यौ स्यातां धर्मवर्जितौ ।
धर्मं चाप्य् असुखोदर्कं लोकसंक्रुष्टम् एव च ॥ ४.१७६ ॥

न पाणिपादचपलो न नेत्रचपलो ऽनृजुः ।
न स्याद् वाक्चपलश् चैव न परद्रोहकर्मधीः ॥ ४.१७७ ॥

येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यति ॥ ४.१७८ ॥

ऋत्विक्पुरोहिताचार्यैर् मातुलातिथिसंश्रितैः ।
बालवृद्धातुरैर् वैद्यैर् ज्ञातिसंबन्धिबान्धवैः ॥ ४.१७९ ॥
मातापितृभ्यां जामीबिर् भ्रात्रा पुत्रेण भार्यया ।
दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ ४.१८० ॥

एतैर् विवादान् संत्यज्य सर्वपापैः प्रमुच्यते ।
एतैर् जितैश् च जयति सर्वांल् लोकान् इमान् गृही ॥ ४.१८१ ॥

आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः ।
अतिथिस् त्व् इन्द्रलोकेशो देवलोकस्य चर्त्विजः ॥ ४.१८२ ॥

जामयो ऽप्सरसाम् लोके वैश्वदेवस्य बान्धवाः ।
संबन्धिनो ह्य् अपां लोके पृथिव्या मातृमातुलौ ॥ ४.१८३ ॥
आकाशेशास् तु विज्ञेया बालवृद्धकृशातुराः ।
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ॥ ४.१८४ ॥

छाया स्वा दासवर्गश् च दुहिता कृपणं परम् ।
तस्माद् एतैर् अधिक्षिप्तः सहेतासज्वरः231** सदा ॥ ४.१८५ ॥**

प्रतिग्रहसमर्थो ऽपि प्रसङ्गं तत्र वर्जयेत् ।
प्रतिग्रहेण ह्य् अस्याशु ब्राह्मं तेजः प्रशाम्यति ॥ ४.१८६ ॥

न द्रव्याणाम् अविज्ञाय विधिं धर्म्यं प्रतिग्रहे ।
प्राज्ञः प्रतिग्रहं कुर्याद् अवसीदन्न् अपि क्षुधा ॥ ४.१८७ ॥

हिरण्यं भूमिम् अश्वं गाम् अन्नं वासस् तिलान् घृतम् ।
प्रतिगृह्णन्न् अविद्वांस् तु भस्मीभवति दारुवत् ॥ ४.१८८ ॥

हिरण्यम् आयुर् अन्नं च भूर् गौश् चाप्य् ओषतस् तनुम् ।
अश्वश् चक्षुस् त्वचं वासो घृतं तेजस् तिलाः प्रजाः ॥ ४.१८९ ॥

अतपास् त्व् अनधीयानः प्रतिग्रहरुचिर् द्विजः ।
अम्भस्य् अश्मप्लवेनेव सह तेनैव मज्जति ॥ ४.१९० ॥

तस्माद् अविद्वान् बिभियाद् यस्मात् तस्मात् प्रतिग्रहात् ।
स्वल्पकेनाप्य् अविद्वान् हि पङ्के गौर् इव सीदति ॥ ४.१९१ ॥

न वार्य् अपि प्रयच्छेत् तु बैडालव्रतिके द्विजे ।
न बकव्रतिके पापे नावेदविदि धर्मवित् ॥ ४.१९२ ॥

त्रिष्व् अप्य् एतेषु दत्तं हि विधिनाप्य् अर्जितं धनम् ।
दातुर् भवत्य् अनर्थाय परत्रादातुर् एव च ॥ ४.१९३ ॥

यथा प्लवेनौपलेन निमज्जत्य् उदके तरन् ।
तथा निमज्जतो ऽधस्ताद् अज्ञौ दातृप्रतीच्छकौ ॥ ४.१९४ ॥

धर्मध्वजी सदालुब्धश् छाद्मिको लोकदम्भकः ।
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥ ४.१९५ ॥

अधोदृष्टिर् नैष्कृतिकः स्वार्थसाधनतत्परः ।
शठो मिथ्याविनीतश् च बकव्रतचरो द्विजः ॥ ४.१९६ ॥

ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः ।
ते पतन्त्य् अन्धतामिस्रे तेन पापेन कर्मणा ॥ ४.१९७ ॥

न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥ ४.१९८ ॥

प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः ।
छद्मना चरितं यच् च व्रतं रक्षांसि गच्छति ॥ ४.१९९ ॥

अलिङ्गी लिङ्गिवेषेण यो वृत्तिम् उपजीवति ।
स लिङ्गिनां हरत्य् एनस् तिर्यग्योनौ च जायते ॥ ४.२०० ॥

परकीयनिपानेषु न स्नायाद् धि कदाचन ।
निपानकर्त्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥ ४.२०१ ॥

यानशय्यासनान्य् अस्य कूपोद्यानगृहाणि च ।
अदत्तान्य् उपभुञ्जान एनसः स्यात् तुरीयभाक् ॥ ४.२०२ ॥

नदीषु देवखातेषु तडागेषु सरःसु च ।
स्नानं समाचरेन् नित्यं गर्तप्रस्रवणेषु च ॥ ४.२०३ ॥

यमान् सेवेत सततं न नित्यं नियमान् बुधः ।
यमान् पतत्य् अकुर्वाणो नियमान् केवलान् भजन् ॥ ४.२०४ ॥

नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा ।
स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्वचित् ॥ ४.२०५ ॥

अश्लीलम् एतत् साधूनां यत्र जुह्वत्य् अमी हविः ।
प्रतीपम् एतद् देवानां तस्मात् तत् परिवर्जयेत् ॥ ४.२०६ ॥

मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ।
केशकीटावपन्नं च पदा स्पृष्टं च कामतः ॥ ४.२०७ ॥

भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चप्य् उदक्यया ।
पतत्रिणावलीढं च शुना संस्पृष्टम् एव च ॥ ४.२०८ ॥

गवा चान्नम् उपाघ्रातं घुष्टान्नं च विशेषतः ।
गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥ ४.२०९ ॥

स्तेनगायनयोश् चान्नं तक्ष्णो वार्धुषिकस्य च ।
दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ ४.२१० ॥

अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च ।
शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टम् एव च ॥ ४.२११ ॥

चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ।
उग्रान्नं सूतिकान्नं च पर्याचान्तम् अनिर्दशम् ॥ ४.२१२ ॥

अनर्चितं वृथामांसम् अवीरायाश् च योषितः ।
द्विषदन्नं नगर्यन्नं पतितान्नम् अवक्षुतम् ॥ ४.२१३ ॥

पिशुनानृतिनोश् चान्नं क्रतुविक्रयकस्य च ।
शैलूषतुन्नवायान्नं कृतघ्नस्यान्नम् एव च ॥ ४.२१४ ॥

कर्मारस्य निषादस्य रङ्गावतरकस्य च ।
सुवर्णकर्तुर् वेणस्य शस्त्रविक्रयिणस् तथा ॥ ४.२१५ ॥

श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च ।
रजकस्य नृसंसस्य यस्य चोपपतिर् गृहे ॥ ४.२१६ ॥

मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः ।
अनिर्दशं च प्रेतान्नम् अतुष्टिकरम् एव च ॥ ४.२१७ ॥

राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।
आयुः सुवर्णकारान्नं यशश् चर्मावकर्तिनः ॥ ४.२१८ ॥

कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च ।
गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥ ४.२१९ ॥

पूयं चिकत्सकस्यान्नं पुंश्चल्यास् त्व् अन्नम् इन्द्रियम् ।
विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥ ४.२२० ॥

य एते ऽन्ये त्व् अभोज्यान्नाः क्रमशः परिकीर्तिताः ।
तेषां त्वगस्थिरोमाणि वदन्त्य् अन्नं मनीषिणः ॥ ४.२२१ ॥

भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या क्षपणं त्र्यहम् ।
मत्या भुक्त्वा चरेत्264** कृच्छ्रं रेतोविण्मूत्रम् एव च ॥ ४.२२२ ॥**

नाद्याच् छूद्रस्य पक्वान्नं विद्वान् अश्राद्धिनो द्विजः ।
आददीतामम् एवास्माद् अवृत्ताव् एकरात्रिकम् ॥ ४.२२३ ॥

श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः ।
मीमांसित्वोभयं देवाः समम् अन्नम् अकल्पयन् ॥ ४.२२४ ॥

तान् प्रजापतिर् आहैत्य मा कृढ्वं विषमं समम् ।
श्रद्धापूतं वदान्यस्य हतम् अश्रद्दयेतरत् ॥ ४.२२५ ॥

श्रद्धयेष्टं च पूर्तं च नित्यं कुर्याद् अतन्द्रितः ।
श्रद्धाकृते ह्य् अक्षये ते भवतः स्वागतैर् धनैः ॥ ४.२२६ ॥

दानधर्मं निषेवेत नित्यम् ऐष्टिकपौर्तिकम् ।
परितुष्टेन भावेन पात्रम् आसाद्य शक्तितः ॥ ४.२२७ ॥

यत् किंचिद् अपि दातव्यं याचितेनानसूयता ।
उत्पत्स्यते हि तत् पात्रं यत् तारयति सर्वतः ॥ ४.२२८ ॥

वारिदस् तृप्तिम् आप्नोति सुखम् अक्षयम् अन्नदः ।
तिलप्रदः प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम् ॥ ४.२२९ ॥

भूमिदो भूमिम् आप्नोति दीर्घम् आयुर् हिरण्यदः ।
गृहदो ऽग्र्याणि वेश्मानि रूप्यदो रूपम् उत्तमम् ॥ ४.२३० ॥

वासोदश् चन्द्रसालोक्यम् अश्विसालोक्यम् अश्वदः ।
अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥ ४.२३१ ॥

यानशय्याप्रदो भार्याम् ऐश्वर्यम् अभयप्रदः ।
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ॥ ४.२३२ ॥

सर्वेषाम् एव दानानां ब्रह्मदानं विशिष्यते ।
वार्यन्नगोमहीवासस्तिलकाञ्चनसर्पिषाम् ॥ ४.२३३ ॥

येन येन तु भावेन यद् यद् दानं प्रयच्छति ।
तत् तत् तेनैव भावेन प्राप्नोति प्रतिपूजितः ॥ ४.२३४ ॥

यो ऽर्चितं प्रतिगृह्णाति ददात्य् अर्चितम् एव वा ।
ताव् उभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ ४.२३५ ॥

न विस्मयेत तपसा वदेद् इष्ट्वा च नानृतम् ।
नार्तो ऽप्य् अपवदेद् विप्रान् न दत्वा परिकीर्तयेत् ॥ ४.२३६ ॥

यज्ञो ऽनृतेन क्षरति तपः क्षरति विस्मयात् ।
आयुर् विप्रापवादेन दानं च परिकीर्तनात् ॥ ४.२३७ ॥

धर्मं शनैः संचिनुयाद् वल्मीकम् इव पुत्तिकाः ।
परलोकसहायार्थं सर्वभूतान्य् अपीडयन् ॥ ४.२३८ ॥

नामुत्र हि सहायार्थं पिता माता च तिष्ठतः ।
न पुत्रदारं न ज्ञातिर् धर्मस् तिष्ठति केवलः ॥ ४.२३९ ॥

एकः प्रजायते जन्तुर् एक एव प्रलीयते ।
एको ऽनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् ॥ ४.२४० ॥

मृतं शरीरम् उत्सृज्य काष्टलोष्टसमं क्षितौ ।
विमुखा बान्धवा यान्ति धर्मस् तम् अनुगच्छति ॥ ४.२४१ ॥

तस्माद् धर्मं सहायार्थं नित्यं संचिनुयाच् छनैः ।
धर्मेण हि सहायेन तमस् तरति दुस्तरम् ॥ ४.२४२ ॥

धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम् ।
परलोकं नयत्य् आशु भास्वन्तं खशरीरिणम् ॥ ४.२४३ ॥

उत्तमैर् उत्तमैर् नित्यं संबन्धान् आचरेत् सह ।
निनीषुः कुलम् उत्कर्षम् अधमान् अधमांस् त्यजेत् ॥ ४.२४४ ॥

उत्तमान् उत्तमान् एव गच्छन् हीनांस् तु वर्जयन् ।
ब्राह्मनः श्रेष्ठताम् एति प्रत्यवायेन शूद्रताम् ॥ ४.२४५ ॥

दृढकारी मृदुर् दान्तः क्रूराचारैर् असंवसन् ।
अहिंस्रो दमदानाभ्यां जयेत् स्वर्गं तथाव्रतः ॥ ४.२४६ ॥

एधोदकं मूलफलम् अन्नम् अभ्युद्यतं च यत् ।
सर्वतः पर्तिगृह्णीयान् मध्व् अथाभयदक्षिणाम् ॥ ४.२४७ ॥

आहृताभ्युद्यतां भिक्षां पुरस्ताद् अप्रचोदिताम् ।
मेने प्रजापतिर् ग्राह्याम् अपि दुष्कृतकर्मणः ॥ ४.२४८ ॥

नाश्नन्ति पितरस् तस्य दशवर्षाणि पञ्च च ।
न च हव्यं वहत्य् अग्निर् यस् ताम् अभ्यवमन्यते ॥ ४.२४९ ॥

शय्यां गृहान् कुशान् गन्धान् अपः पुष्पं मणीन् दधि ।
धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ॥ ४.२५० ॥

गुरून् भृत्यांश् चोज्जिहीर्षन्न् अर्चिष्यन् देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान् न तु तृप्येत् स्वयं ततः ॥ ४.२५१ ॥

गुरुषु त्व् अभ्यतीतेषु विना वा तैर् गृहे वसन् ।
आत्मनो वृत्तिम् अन्विच्छन् गृह्णीयात् साधुतः सदा ॥ ४.२५२ ॥

आर्धिकः कुलमित्रं च गोपालो दासनापितौ ।
एते शूद्रेषु भोज्यान्ना यश् चात्मानं निवेदयेत् ॥ ४.२५३ ॥

यादृशो ऽस्य भवेद् आत्मा यादृशं च चिकीर्षितम् ।
यथा चोपचरेद् एनं तथात्मानं निवेदयेत् ॥ ४.२५४ ॥

यो ऽन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते ।
स पापकृत् तमोलोके स्तेन आत्मापहारकः ॥ ४.२५५ ॥

वाच्य् अर्था नियताः सर्वे वाङ्मूला वाग्विनिःसृताः ।
तां292** तु यः स्तेनयेद् वाचं स सर्वस्तेयकृन् नरः ॥ ४.२५६ ॥**

महर्षिपितृदेवानां गत्वानृण्यं यथाविधि ।
पुत्रे सर्वं समास्ज्य वसेन् माध्यस्थ्यम् आस्थितः ॥ ४.२५७ ॥

एकाकी चिन्तयेन् नित्यं विविक्ते हितम् आत्मनि ।
एकाकी चिन्तयानो हि परं श्रेयो ऽधिगच्छति ॥ ४.२५८ ॥

एषोदिता गृहस्थस्य वृत्तिर् विप्रस्य शाश्वती ।
स्नातकव्रतकल्पश् च सत्त्ववृद्धिकरः शुभः ॥ ४.२५९ ॥

अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित् ।
व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥ ४.२६० ॥


  1. M G: ityādivṛttir ↩︎

  2. M G: sāmānyair asyopadeśa- ↩︎

  3. M G: vā svayaṃ ↩︎

  4. M G: na hy akurvata ātmasthitiḥ ↩︎

  5. DK (5: 1160) suggests omitting: atha vā ↩︎

  6. M G 1st ed.: loke ↩︎

  7. M G: vā ↩︎

  8. J DK (5: 1161): vā ↩︎

  9. J DK (5: 1161): jīvitavyam; G 2nd ed.: jīvet ↩︎

  10. M G: arucistavanārthaḥ ↩︎

  11. M G: svatvāt ↩︎

  12. M G: bhaikṣitam ↩︎

  13. M G J: bhaikṣyasyātma- ↩︎

  14. M G: yat ↩︎

  15. M G J: evodaka- (I follow DK 5: 1161) ↩︎

  16. DK (5: 1161) suggests: amṛtaśabde- ↩︎

  17. DK (5: 1161) suggests: apratigrahādyarthā ↩︎

  18. DK (5L 1161): naiva ↩︎

  19. M G J: evedam ṛtāmṛta- (I follow DK 5: 1161; see the same expression in the last paragraph) ↩︎

  20. M G 1st ed.: yuktimatā ↩︎

  21. M G J: pratigrāhyasyaiva karuṇayā ↩︎

  22. M G 1st ed add: yathā ↩︎

  23. M G: jātyādir ↩︎

  24. M G 1st ed.: -vṛttaṃ ↩︎

  25. M G: yāñcā yā ↩︎

  26. M G J: khalajanapadakarma (I follow DK 5: 1162) ↩︎

  27. M G 1st ed.: cātrāparimāṇaṃ ↩︎

  28. M G: kusūle ↩︎

  29. M G 1st ed.: vyavasthām āha parigraho ↩︎

  30. M G add: ‘prāptaputro ↩︎

  31. J: aprāptaputraḥ ↩︎

  32. M G 1st ed. omit: prakṛtāni ↩︎

  33. M G 1st ed.: -vāṇijyādhyāpanayājanapratigraḥāḥ ↩︎

  34. DK 5: 1165: cādhyayanādīnām ↩︎

  35. M G omit: one tatra ↩︎

  36. DK (5: 1166): nirvartate ↩︎

  37. M G 1st ed.: jyāyān varavṛttir ↩︎

  38. M G: tatra ↩︎

  39. M G: abharaṇabhedaś ↩︎

  40. DK (5: 1168) suggests: dravyāsādhyam ↩︎

  41. M G 1st ed.: vārayitum ↩︎

  42. DK (5: 1168) suggests adding: strīdhanasya ↩︎

  43. M G 1st ed.: tu ↩︎

  44. DK (5: 1169) suggests: priyaṃ ↩︎

  45. M G J: dviprayogaḥ (I follow DK 5: 1169) ↩︎

  46. M G omit: ca ↩︎

  47. M G 1st ed. omit: na ↩︎

  48. M G 1st ed.: bādhyate ↩︎

  49. M G: hi na sā yuktā (G 1st ed.: yukto) ↩︎

  50. M G add: na ca ↩︎

  51. M G: kāmyatve nānvaye ↩︎

  52. M G: vidyamāneṣv ↩︎

  53. M G 1st ed.: tāvad urūpapadakatvaṃ ↩︎

  54. M G: -lābhā bhavanti ↩︎

  55. M G: kuṭumbavibhavataś ↩︎

  56. G 1st ed. omits: sārūpyam aucityam, anyasyākṛtyādeḥ sādṛśyāsaṃbhavāt | veṣaḥ keśābaraṇādivinyāsaḥ | ↩︎

  57. M G 1st ed.: nīyate ↩︎

  58. M G 1st ed.: dharmapradhānakarmānurūpo ↩︎

  59. M G 1st ed. omit: ca ↩︎

  60. M G: bārhaspatyośanasādīni ↩︎

  61. M G: vaidyakajyotiṣādīni ↩︎

  62. M G 1st ed. omit: ṛco ↩︎

  63. M G: ato ↩︎

  64. M G: karmabhedahetur ↩︎

  65. M G: grāsena ↩︎

  66. M G: na cecchanti ↩︎

  67. M G: tatsaṅgamam ↩︎

  68. M G 1st ed. J: sāyaṃ ↩︎

  69. M G: āśravaṇāt ↩︎

  70. M G 1st ed.: tulyaṃ ↩︎

  71. M G: pratipattibhedād ↩︎

  72. M G: pratipattibhedād ↩︎

  73. M G: rupād vacanam ↩︎

  74. M G 1st ed.: dviśabdo ↩︎

  75. M G add: darśena yajet ↩︎

  76. M: ayanasyādau; G 1st ed.: ayanādau te; G 2nd ed: ayanānte te ↩︎

  77. M G 1st ed.: yady api ↩︎

  78. M G: -śyāmakayor ↩︎

  79. M G 1st ed.: etaṃ; G 2nd ed. omits: sasyaṃ ↩︎

  80. M G: prakalpanāya ↩︎

  81. M G: satva- ↩︎

  82. M G: pākhaṇḍino ↩︎

  83. G 1st ed.: vaiśyavṛttyādi ↩︎

  84. M G 1st ed.: vidyārthaṃ jijñāsitavantaḥ; G 2nd ed: vidyārthajijñāsādivṛttāḥ ↩︎

  85. M G 1st ed. J: tad uktam; G 2nd ed. omits: tad yuktam; (the reading is conjectural; Jha’s translation presupposes this reading: “But this is not right.”) ↩︎

  86. M G 1st ed.: mṛtāya ↩︎

  87. M G J: śāstrāntaparyālocanayā (I follow DK 5: 1170) ↩︎

  88. M G 1st ed.: āhṛtaṃ ↩︎

  89. DK (5: 1170) suggests: -prasūtitayaḥ ↩︎

  90. M G: punar narakaikaviṃśatyā yogaḥ ↩︎

  91. M G 1st ed.: vṛtte ↩︎

  92. M G 1st ed.: dhānyadhanavatve; DK (5: 1170) suggests omitting: dhānya ↩︎

  93. M G: neṣyate ↩︎

  94. M G: asya ↩︎

  95. M G: aśucir avasthāne ↩︎

  96. M G 1st ed.: apsu tarpeta ↩︎

  97. M G 1st ed.: saṃniṣedhya ↩︎

  98. M G 1st ed.: arcā ↩︎

  99. M G 1st ed.: ghṛtamahācaryān ↩︎

  100. M G: pratiṣedhadvayam ↩︎

  101. M G: gatvocchiṣṭe prati- ↩︎

  102. M G 1st ed.: aśeṣaśabdārtho ↩︎

  103. M G: teṣv asti ↩︎

  104. M G: pūryamāṇāyāṃ ↩︎

  105. M G: cāsīnām ↩︎

  106. M G 1st ed.: -yantīṃ ↩︎

  107. M G 1st ed.: spṛhantīṃ ↩︎

  108. M G 1st ed.: sarvāsu saṃsthānā ↩︎

  109. M G 1st ed.: vekṣaṇīyā ↩︎

  110. M G 1st ed.: anyonyachādakādi; G 2nd ed.: anyoṅgachādakādi ↩︎

  111. M G 1st ed. add: iti ↩︎

  112. M G: pratiṣedhaḥ ↩︎

  113. M G: cāsane ↩︎

  114. M G 1st ed.: bhavati tathāsannaparvatasya ↩︎

  115. M G 1st ed.: vākyacakre; G 2nd ed.: vātyācakre ↩︎

  116. J place this sentence before verse 4.53. ↩︎

  117. M G: -rātribhūto ↩︎

  118. M G: yathāsukhamukham ↩︎

  119. M G: yayā hi prāṅmukhaṃ bhavati ↩︎

  120. M G 1st ed.: pādā ↩︎

  121. M G 1st ed. omit: pādau ↩︎

  122. M G 1st ed.: pādau yena kuryāt ↩︎

  123. M G: rāgādi- ↩︎

  124. M G 1st ed.: -pratirūpakālaḥ; G 2nd ed.: -pratirūpakaḥ ↩︎

  125. M G: nṛpatijanapadaiśvaryaṃ ↩︎

  126. M G: pākhaṇḍijanair ↩︎

  127. M G 1st ed.: ṛtur paryuṣitānāṃ; G 2nd ed. omits kratu- ↩︎

  128. M G omit: ca ↩︎

  129. J: apare ↩︎

  130. M G: na tat ↩︎

  131. M G: prāhve ↩︎

  132. M G: astasamayamaye ↩︎

  133. M G 1st ed.: bhuñjan ↩︎

  134. M G: virāvayet ↩︎

  135. M G: ayaṃ pratiṣedho na ↩︎

  136. M G 1st ed.: anyo ↩︎

  137. M G 1st ed.: parituṣṭya ↩︎

  138. M G 1st ed.: etadgṛhādau ↩︎

  139. M G add: avinītā adāntāḥ (which is a repetion of the initial phrase) ↩︎

  140. M G 1st ed. omit: yasya ↩︎

  141. M G 1st ed.: prasiddham ↩︎

  142. M G: -ātudan ↩︎

  143. M G: karṇaśobhādinā ↩︎

  144. J: chinnaṃ ↩︎

  145. M G 1st ed.: -kariṣyatā; G 2nd ed.: -kariṣyat ↩︎

  146. M G add: ca ↩︎

  147. M G 1st ed.: nānayet ↩︎

  148. G 1st ed.: sarpacaurārdair; G 2nd ed.: sarpacaurādair ↩︎

  149. M G 1st ed. omit one nirūpaṇaṃ ↩︎

  150. M G 1st ed.: - prakṣaṇāni bhavanti iti | ↩︎

  151. M G 1st ed.: vṛkabhaye ↩︎

  152. M G 1st ed.: bhagnasya śakalāni ↩︎

  153. M G: tathā ↩︎

  154. M G 1st ed.: anyatvam asaṃgataṃ vā; G 2nd ed.: anyad vāsaṃgataṃ vā ↩︎

  155. M G: yathā ↩︎

  156. M G 1st ed.: vikalpete ↩︎

  157. M G omit: iti ↩︎

  158. M G 1st ed.: na na ↩︎

  159. M G 1st ed.: na cāsti ↩︎

  160. M G: vidhipratiṣedhādhikṛtakramāt ↩︎

  161. M G: vāsyopadiśet ↩︎

  162. M G in place of iha vadanti read idaṃ tu bahuyuktam ↩︎

  163. M G: -sāreṇa na ↩︎

  164. J: anenāgatatvāt ↩︎

  165. M G: ’nyahastena ↩︎

  166. M G: tatra ↩︎

  167. M G: paśumāraṇasaṃjñakapūrvakeṇa ↩︎

  168. M G: dvajī ↩︎

  169. M G: śrutaśīlaṃ ↩︎

  170. M G 1st ed. place the phrase “śrutaśīlaṃ ca vijñāyetyādi after sāmantakādibhyaḥ ↩︎

  171. DK (5: 1174) suggests: nātīva ↩︎

  172. The reading should be avidvān ↩︎

  173. M G: śayanaṃ rātrau ↩︎

  174. M G 1st ed.: puruṣas taṃ kurvīta ↩︎

  175. M G omit: kṛtaṃ ↩︎

  176. M G 1st ed. omit: brahma brāhmaṇam, yajurvede brahma ↩︎

  177. M G: gāyatryādiyuktāś ca mantrāḥ ↩︎

  178. M G omit: mantrā ↩︎

  179. M G add: saha ↩︎

  180. M G 1st ed.: tasmān nāpady ↩︎

  181. M G place this phrase after jyotiṣṭomādi ↩︎

  182. M G 1st ed. omit: jyotiḥ ↩︎

  183. M G 1st ed.: api ↩︎

  184. J: -vedhā ↩︎

  185. M G 1st ed.: ācamanārhapratyayamātra- ↩︎

  186. M G 1st ed.: nānyatrādhyāye ↩︎

  187. M G: chrāddhakṛto ↩︎

  188. M G: iriṇaṃ ↩︎

  189. M G 1st ed.: adhyetavyam ↩︎

  190. M G 1st ed.: nānujñāto ↩︎

  191. M G omit: vā ↩︎

  192. M G: vātasya ↩︎

  193. G 2nd ed.: -yajuṣayoḥ ↩︎

  194. M G omit: na ↩︎

  195. M G: prayujyamāne ↩︎

  196. M G: munyukta ↩︎

  197. M G: ‘rdharātrikaḥ ↩︎

  198. M G 1st ed. omit: striyam ↩︎

  199. M G 1st ed. omit: na ↩︎

  200. M G: ajīrṇakārabhojanādi ↩︎

  201. M G omit: na ↩︎

  202. M G: cedṛśam ↩︎

  203. M G 1st ed. omit: nirdahet ↩︎

  204. M G 1st ed.: sarpo ‘dṛṣṭyā ↩︎

  205. M G J: gṛha- (my reading conjectural; see the subhāṣita cited below) ↩︎

  206. M G: gṛhasthitim ↩︎

  207. M G 1st ed.: garbhiṇyā garbhiṇīti ↩︎

  208. M G: ‘gre cāpratiṣedhaḥ ↩︎

  209. M G: ānantyaṃ ↩︎

  210. M G 1st ed. omit: na ca ↩︎

  211. M G: ekatarasukhaṃ ↩︎

  212. M G omit: api akṣayyam; DK (5: 613) akṣayam ↩︎

  213. M G: anyalakṣaṇaṃ ↩︎

  214. M G 1st ed. places the phrase yat tv ātmano . . . karma kuryāt after bhṛtyādi svīkriyate; DK (5: 614): svalpo ‘pi taṃ svayam eva kuryāt ↩︎

  215. DK (5: 614) suggests: na tu ↩︎

  216. M G: prayatnenātikrāntaṃ ↩︎

  217. M G omit: ayam ↩︎

  218. M G: -pratiṣedhaś ceti ↩︎

  219. M G omit: kiṃ ↩︎

  220. M G 1st ed.: duḥkhabalātipattāv daṇḍādipīḍākarapadārthaḥ; J G 2nd ed.: pīḍākarapadārthaḥ (I follow DK 5: 1174) ↩︎

  221. M G 1st ed. omit: apy ↩︎

  222. G 1st ed. J: atītyarthaḥ ↩︎

  223. DK (5: 616): āvartamānas ↩︎

  224. M G J: tu phalataḥ kartavyatāpratiṣiddhaparihāre; I follow DK 5: 616. ↩︎

  225. M G: ca ↩︎

  226. M G: pīḍanam ↩︎

  227. M G: dharmakoyaṃ ↩︎

  228. DK (5: 618) suggests: tīrthasnānaṃ dharmārjanaṃ samakṣāpekṣā ↩︎

  229. M G: nindyate; DK (5: 618) suggests: vidyate ↩︎

  230. DK (5: 618) suggests: prasiddhaṃ mūlam ↩︎

  231. M G 1st ed.: sahetāṃ sajvaraḥ ↩︎

  232. M G: anukampā dayā ↩︎

  233. M G J: avidvān na bibhīyāt ↩︎

  234. M G J: pratigrahamantradravyāṇāṃ (I follow DK 5: 1176) ↩︎

  235. M G J: pratigrahītāraṃ (I follow the suggestion of DK 5: 1176) ↩︎

  236. DK (5: 1176) suggests deleting gamyate and adding tathā ↩︎

  237. M G J: dadānaś (I follow the suggestion of DK 5: 1176) ↩︎

  238. M G 1st ed.: naśyen ↩︎

  239. M G 1st ed.: kāmyayuktam ↩︎

  240. M G 1st ed. omit: kva ↩︎

  241. M G: ekaprakāragatāni ↩︎

  242. M G 1st ed.: śrautārtha- ↩︎

  243. M G: yasya ↩︎

  244. J: baiḍālavratike (but Jha’s translation presupposes the reading “saptamī”) ↩︎

  245. M G 1st ed. omit: yaḥ ↩︎

  246. M G: tasyaiva mukhāj jātam iti ↩︎

  247. M G 1st ed.: arthaḥ svābhāvyāt ↩︎

  248. M G: paraliṅgadhāraṇāt ↩︎

  249. M G: mahatvaṃ smaryamāṇakartṛkatvena ↩︎

  250. M G: sannidhopāsanādibhir (this reading is also presupposed in Jha’s translation) ↩︎

  251. Jha’s translation “light food” presupposes the reading: āhāralāghavam. ↩︎

  252. M G 1st ed.: anyeṣām api pātakinā spṛṣṭasya ↩︎

  253. G 2nd ed: taiḥ pātakibhiḥ avekṣitasya niṣedhaḥ ↩︎

  254. M G 1st ed. omit: taiḥ spṛṣṭasya tu pratiṣedhaḥ; G 2nd ed. omits: taiḥ ↩︎

  255. M G: gaṇasaṃghātas ↩︎

  256. The ascription of this passage to Āpastamba is curious. It is from the well-known passage of Baudhāyana on the unique practices of the north and the south. Either Medh has made a mistake here, or the medieval editor for King Madana made a mistake here. ↩︎

  257. This sentence is omitted in Jha’s translation. This abrupt beginning of the commentary is curious; possibly there is a missing passage here that dealt with cikitsaka, prior to the citation of this smṛtyantara. ↩︎

  258. M G 1st ed: veṇuvāditrajīvitaḥ; J: veṇuḥ vāditrajīvitaḥ ↩︎

  259. M G 1st ed. omit: yasya ↩︎

  260. M G: naivaṃ ↩︎

  261. M G 1st ed.: parijanyasya ↩︎

  262. M G 1st ed.: pretānnaṃ kṛtaṃ ↩︎

  263. M G 1st ed.: carmāvakṛttaṃ ↩︎

  264. M G J: bhuktvācaret; but Medh’s commentary clearly takes the term to be caret and not ācaret. ↩︎

  265. M G 1st ed.: matyā ↩︎

  266. M G 1st ed.: yāvan na ↩︎

  267. M G 1st ed.: bhavati dāyāgataṃ ↩︎

  268. DK (5: 1168) suggests adding: na ↩︎

  269. M G J: bhṛtim eva (I follow DK 5: 1179) ↩︎

  270. M G 1st ed.palce api tu after śauryārtīti. ↩︎

  271. M G: śauryārti ↩︎

  272. M G 1st ed.: svatvānutpattipāṭhavibhāgakṛtāṃ ↩︎

  273. M G 1st ed.: dakṣiṇādīnām’ G 2nd ed.: dakṣiṇādānīyāt ↩︎

  274. M G 1st ed.: muktvā lāṅgala- ↩︎

  275. M G: svargaḥ prāpyate ↩︎

  276. J: tārayatī ↩︎

  277. M G 1st ed.: naiveśikasvarṇapuryāṃ ↩︎

  278. M G 1st ed.: yadaivecchati tadaiva ↩︎

  279. M G: arthakṛtaṃ ↩︎

  280. M G 1st ed.: sahaika; G 2nd ed. J: sa eka (I follow DK 5: 319) ↩︎

  281. M G J: -siddha- (I follow DK 5: 320) ↩︎

  282. J: svena and svaśarīrī (Jha seems to take the term as “sva” rather than “kha” in both his edition and his translation) ↩︎

  283. J: svam ↩︎

  284. M G omit: yena ↩︎

  285. M G: saṃbandhinaḥ ↩︎

  286. M G 1st ed.: anapāyas tāṃ tulyatāṃ ↩︎

  287. M G: yathā ↩︎

  288. This reading makes little sense. Jha’s translation presupposes “abhaya” — abhayadakṣiṇā is really not a gift, because there is no transfer of ownership. DK (5: 1179) suggests: anyarūpatā ↩︎

  289. DK (5: 1180) suggests: edhādyatirekeṇa ↩︎

  290. M G: sthāpita ↩︎

  291. DK (5: 1181) suggests: partīṣyatām ↩︎

  292. M G: tāṃs ↩︎

  293. M G omit: na ↩︎

  294. M G: pāpakalmaṣaṃ ↩︎