अथ तृतीयो ऽध्यायः
षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् । तदर्धिकं पादिकं वा ग्रहणान्तिकम् एव वा ॥ ३.१ ॥
मेधातिथिः ...{Loading}...
द्विविधो ब्रह्मचारी पूर्वत्र प्रतिपादितः- नैष्ठिक उपकुर्वाणश् चेति । “आ समाप्तेः शरीरस्य यस् तु शुश्रूषते गुरुम्” (म्ध् २.२४४) इत्य् अनेन नैष्ठिकब्रह्मचर्यम् उक्तम् । “आ समावर्तनात्” (म्ध् २.१०८) इति पक्षान्तरम् अपि सूचितम् । तत्र नैष्टिकस्य नामधेयस्य प्रतिलम्भेनैव निमित्तवता अवधिशेषः सुगमितः । निष्ठाम् समाप्तिं गच्छति नैष्ठिकः । श्रुत्यैव कालो विहितः “आ समाप्तेः” इति । उपकुर्वाणस्य-
-
अनेन क्रमयोगेन । (म्ध् ६.८५)
-
तपोविशेषैर् विविधैर् व्रतैश् च विधिचोदितैः ।
-
वेदः कृत्स्नो ऽधिगन्तव्यः ॥ (म्ध् २.१६५)
इति संख्याया अविवक्षाया चैकद्वित्रिचतुःपञ्चषट्सप्तादिशाखाध्ययनं यथाशक्ति प्राप्तं नियम्यते ।
-
त्रैवेदिकं व्रतं चर्यम् । त्रयाणां वेदानां समाहारस् त्रिवेदी, तद्ग्रहणप्रयोजनं त्रैवेदिकम् । ग्रहणक्रिया वृत्ताव् अन्तर्भवति वेदाधिगमस्य प्राग्विहितत्वात् । व्रतं ब्रह्मचारिधर्मकलापः । चर्यं चरितव्यम् । कृत्यो विधौ ।
-
एवम् आहरणादीनां ग्रहणान्ततायां प्राप्तायाम् आह- षट्त्रिंशदाब्दिकम् इति । गृहीते ऽपि वेदे कालः पूरयितव्यः ।
-
यदि स्वाध्यायाध्ययनविध्यर्थो धर्मः, तस्य च स्वाध्यायविधेर् ग्रहणे निवृत्तिः, किमर्था तर्हि द्वादशवार्षिकी ग्रहणोत्तरकालं1 व्रतचर्यानुवृत्तिः ।
- अत्यल्पम् इदम् उच्यते । दर्शपूर्णमासादिष्व् अप्य् आग्नेयादियागेभ्यः पराञ्चि यान्य् अङ्गानि तत्राप्य् एतद् वक्तव्यम् । समस्ताङ्गानुष्ठान एवाराद्2 उपकारकाद्यङ्गयुक्ताद्3 विशिष्टक्रमकाद् विध्यर्थसंपद्य् अवगतायां परिचोदनाशब्दाद् एव विधिः संपद्यते4 ।
-
अथ महतो लधीयांसस् तदर्धिकपादिकग्रहणावधयः पक्षाः सन्ति । तेषु सत्सु कः खलु महाप्रयासम् अतिचिरकालं तावद् द्वादशवार्षिकं व्रचरणम् आद्रियेतेति चेत्,
-
फलभूमार्थिनो ऽङ्गभूयस्त्वम् अनुष्ठास्यन्ति । तद् उक्तं “प्रयत्नविशेषात् फलविशेषेण भवितव्यम्” इति ।
-
ननु च नार्थावबोधाद् ऋते ग्रहणद्वारेण स्वाध्यायाध्ययनस्य किंचिद् अपरं फलम् अस्ति । एवं ह्य् आहुः- न तस्याध्ययनमात्रं तत्रभवन्तो याज्ञिकाः फलं समामनन्तीति । तथा “दृष्टो हि तस्यार्थः कर्मावबोधनं नाम” (शब् १.१.१) इति शबरभाष्ये । तस्य न च कश्चिद् विशेषो दृश्यते ।
-
यद्य् एवं ग्रहणकाले ऽप्य् अन्तरेण व्रतधर्मानुष्ठानं ग्रहणानुष्ठानप्रसङ्गः5 । कश् चैवम् आह- अर्थावबोधार्थः स्वाध्यायविधिर् इति । स्वाध्यायविधिः स्वार्थ एव । नान्यस्यान्यार्थतायां प्रमाणम् अस्ति । अर्थावबोधो हि ग्रहणे सति वस्तुस्वभावत6 उत्पद्यते न विधितः ।
- अथ किं7 स्वर्गादिफलार्थिनो ऽयं विधिः ।
-
एतद् अपि कथं भविष्यति ।
-
का तर्हीयं वाचो युक्तिः- “फलविशेषेण” इति ।
-
एषा वाचो युक्तिः । संस्कारविधिस् तावद् अयं स्वाध्यायप्रधानः, तस्य स्वाध्याये कर्मण्य् उत्पन्नत्वात् । संस्कारविधयश् च न साक्षाद् अधिकारम् अर्हन्ति, किं तु संस्कार्यद्वारेण साधिकारविध्यन्तरम् अनुप्रविशन्ति । यथा “व्रीहिम् अवहन्ति” इति दर्शपूर्णमासाधिकारविषयाग्नेयादियागसाधनभूतपुरोडाशप्रभृतिव्रीहितुषकण-विप्रमोचनादिसंस्कारद्वारेण दर्शपूर्णमासापूर्वसंबन्धम् अनुभवति अवघातः, न तन्निरपेक्षः, स एव कर्तव्यतया प्रतीयते । एवम् हि वेदस्य संस्कार्यत्वं नान्यत्राशेषभूतस्य8 निर्वहति । दृष्टः9 स्वाध्यायाध्ययनानन्त्रम् अर्थावबोधः । अत इदम् अध्ययनम् अर्थावबोधपर्यन्तम् अवघात इव तण्डुलनिष्पत्तिपर्यन्तः । एतावांस् तु विशेषः । प्रकरणे ऽधीतत्वाद् अवघातो झट् इति लब्धाधिकारविध्यन्तरसंबन्धः । अयं त्व् अनारभ्याधीतत्वाद् अवबोधपर्यवसायी सकलफलकर्मानुष्ठानोपयोगितया गम्यमानो ऽधिकारः । तथा विध्यर्थनिवृत्तिर् एव फलविशेषो ऽभिप्रेतः । विधेर् हि पुरुषार्थत्वं व्युत्पन्नावगमम्, तत् साक्षाद् भवतु वा परंपरया वेति न विशेषः । गम्यमानाधिकारत्वाच् च स्वतन्त्र एवायं विधिः स्वात्मानम् अनुष्ठापयति, यद्य् अपि नित्यकामश्रुतिष्व् अर्थावबोध उपयुज्यते ।
-
ये त्व् अर्थावबोधद्वारेण ज्योतिष्टोमादिविध्येककार्यत्वम् इच्छन्ति तत्फलस्यैव च प्रयत्नविशेषाद् अतिशयम् आहुस् तेषाम् आचार्यकरणविधिना किम् अपराद्धम्, येन महता यत्नेन तदेककार्यता निषिध्यते । अप्रामाण्यं वेदस्य भवतीति चेत्, अस्तु । न प्रयोजनवशेन युक्तिसामर्थ्यायातो ऽर्थो हातुं शक्यते । युक्तिस् तु युक्त्यन्तरेण बलीयसा बाध्यते ।
-
आचार्यकरणविध्येककार्यत्वे त्व् अस्य विधिरूपतैव हीयते, स्वार्थस्याविवक्षितत्वात् । तत्तुल्यं ज्योतिष्टोमाद्यनुप्रवेशे ऽपि ।
-
यदा तु स्वतन्त्रो ऽयं विधिः स्वार्थानुष्ठापकस् तत्समानस्कन्धस् तदा स्वयम् एवेतिकर्तव्यतया युक्तो ऽनुष्ठीयते ।
-
तत्र ये विकल्पिताः कल्पा लघीसांसो गरीयांसश् च, तेषां लघियसा सिद्धे गरीयसाम् अनुष्ठानं विध्यर्थ एव विशेषम् आवहति । यथाधाने “एका देया तिस्रो देया द्वादश देयाः” (वार्श् ३.२.३.४५) इत्यादि10 । अनुष्ठिते चास्मिन् विधौ स्वसामर्थ्याच् छ्रुतो11 वा भवतु प्रतीयमानो वा कल्पो वा, प्रमाणभेदो ऽयं न संबन्धभेद, सर्वथोभ्यतः स्पर्शतो न मुच्यामहे, यद्य् अस्य विधिः स्वार्थानुष्ठापको ज्योतिष्टोमाद्युपकारकत्वं च12 ।
- ननु किम् इदं पूर्वापरविरुद्धं प्रलप्यते । प्रागुक्तम्- न साक्षात् संस्कारविधयो ऽधिकारसंबन्धिनः, इदानीं तु स्वतन्त्र एवायं विधिः स्वार्थानुष्ठापक इति । यथायं13 विशेषश्रुतेनान्वयिना न संबध्यते, गम्यमानस् त्व् अधिकारः संस्कारविधीनाम् अप्य् अविरुद्ध इति । नायं विशेषो यद्य् अस्य विधिप्रयुक्तम् अनुष्ठानम् अर्थावबोधांश इष्यते । पाठमात्रस्याचार्यविधिप्रयुक्तत्वात् संस्कारविधीनाम् अधिकारसंबन्धो ऽभ्युपगतः स्यात् । अथ विध्यन्तरोपकारकत्वात् तत्प्रयुक्तम् अनुष्ठानम्, तथा सत्य् अधिकृतस्याध्ययनं स्यान् नाधीतवेदस्याधिकारः14 । तदा च शूद्रस्याधिकारो दुर्निवारः । न चाध्ययनानन्तरं वेदार्थश्रवणं प्राप्नोति । यदैव हि यदृच्छया कुतश्चिद् अधिगतं भवति “ज्योतिष्टोमनाम कर्म वैदिकं स्वर्गफलम्” इति, तदैव तदितिकर्तव्यतां शिक्षेत् । तत्काल एव च तदुपयोगिनो मन्त्रान् याजमानान् अधीयीत ।
-
अत्र केचिद् आश्रयिन्यायेन (प्म्स् ४.१.१८) परिहरन्ति । यथैव हि स्विष्टकृदादय उभयरूपाः संस्कारार्थकर्मतया, एवं स्वाध्यायाध्ययनम् अप्य् अभिधानविनियोगानुसारितया क्रियाफलावबोधदर्शनेन च संस्कारकर्म फलवत् कर्मार्थकर्म । अतः साधिकारत्वसिद्धिः । कः पुनर् अधिकारी । उपनीतस् त्रैवर्णिको माणवक इति ब्रूमः । ब्रह्मचारिधर्मेषु ह्य् एतद् आम्नायते । लिङादयो ह्य् अविनाभूतनियोज्यार्थविध्यर्थप्रतिपादकाः । तत्र विशेषाकाङ्क्षायां क्वचिच् छब्दसमर्पितो विशेषो भवति- “स्वर्गकामो यावज्जीवम् अग्निहोत्रं जुहोति” । क्वचिद् श्रुतो ऽप्य् अन्विताभिधानसामर्थ्यबलेन कल्प्यो विश्वजिदादिषु । क्वचित् प्रकरणाद् वस्तुसामर्थ्याद् विध्यन्तरपर्यालोचनयापि च प्रतीयते । तद् एतद् इह सर्वम् अस्ति । प्रकृतो ब्रह्मचारी । वस्तुसामर्थ्येन चार्थावबोध उपजायते । स च सर्वविधिषूपयुज्यते, विदुषो ऽधिकारात् ।
-
तद् इदम् अपरे न मृश्यन्ति । संस्कारविधित्वेनैवास्य प्रतीयमानाधिकारता । यतः संस्कारकर्माणि संस्कार्यार्थतयानुष्ठीयन्ते । यदि च संस्कार्ये न दृश्येत विशेषस् ततः सक्तुवत् संस्काररूपता हीयेत । अस्ति चात्र फलवत्कर्मावबोधलक्षणो विशेषः । यत् तु “स्विष्टकृदादिवत्” इति, तत् प्रकृतिप्रत्ययविज्ञानागम्यत्वरूपहानितया युक्तोभयरूपता ।
-
तस्मात् स्थितं स्वतन्त्रो ऽयं विधिर् माणवकस्येति । अतश् च स्वत एवानुष्ठेयो नावघातादिवद् दर्शपूर्णमासाद्यधिकारनियोगाक्षेपेण ।
-
एवम् अनेकवेदाध्ययनम् अपि द्रष्टव्यम् । तत्रापि ह्य् एकेन वेदेन निर्वृत्ते विध्यर्थे किम् इत्य् अनेकवेदाध्ययनम् । फलबूम्ना तु युज्यते । फलं च पूर्ववत्, न तु वाक्यशेषाधीतं पयोदध्यादि । एवाम् स्थित एकवेदाध्यायिनः स्वशाखानदीतानां मन्त्राणां कर्मोपयोगिनां कर्मानुष्टानकाले सामर्थ्यात् तदाक्षिप्तम् अध्ययनम् अनुज्ञातं भवति । यद्य् अप्य् अधीतवेदस्याधिकारे “अधीत” इति ।
-
अन्ये तु “ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदो ऽध्येयः” (पत् इ- १) इति निष्कारण इत्य् एतस्याधिकारपदतां मन्यन्ते । निष्कारणः, कारणं प्रयोजनम् अनुद्दिश्य, नित्यकर्मवत् कर्तव्यम्। न ह्य् अस्याधिकारसमर्पकत्वम् अन्तरेण विषयद्वारेण क्रियाकारकतद्विशेषणत्वादिनान्वयः संभवति । तस्मात् सत्य् अपि संस्कारविधित्वे गम्यमानाधिकारत्वं श्रूयमाणाधिकारत्वं वाविरुद्धम् ।
-
अपरे तु संस्कारविधित्वाद् अनधिकारताम् एव ज्यायसीं मन्यन्ते । अनुष्ठानविशेषलाभार्थो ह्य् अधिकार उपास्यते । स चेह संस्कार्यविशेषदर्शनाद् एव सिद्धः । संस्कारविधयः प्रयोजनापेक्षाः15 । क्रियाफलम् एवात्र विधिसाध्यम् । तच् च कर्मस्थं ग्रहणलक्षणं दृश्यत एवाविरुद्धम् ।
- अश्रुते विभागे स्मृत्यन्तराद् विभागावगतिः- “प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि” (य्ध् १.३६) इति । के पुनर् अत्र त्रयो वेदा अभिप्रेताः । ऋग्वेदो यजुर्वेदः सामवेद इति । अथ किं नाथर्वणो वेद इति ।16 क एवम् आह । किं त्व् अत्र यथाश्रुतं संस्कार्यत्वनिर्बर्हणायाम् अर्थावबोधनिष्ठतया तस्य विधेर् अनुष्ठानलाभः । अवबोधो हि सकलकर्मानुष्ठानोपयोगीति । आथर्वणश् चाभिचाराद्युपदेशबहुलः । तस्मान् न ज्योतिष्टोमादिकर्माणि विधीयन्ते । नापि तेषां किंचिद् आङ्गम् । त्रय्यैव हौत्राध्वर्यवौद्गात्रादिसकलतदङ्गपरिसमाप्तिः । प्रधानोत्पत्तिविधयश् च त्रय्याम् एव ज्योतिष्टोमादीनां सन्ति । ब्रह्मत्वम् अपि त्रय्याम् एव विद्यते । त्रिशब्दश् च संख्यावचनः । न च संख्याशब्दाः कंचिद् धर्मम् एकम् अनपेक्ष्य प्रवर्तन्ते । अतो येषाम् एवेह कर्योपदेशपरता त एव त्रिशब्देनाभिगदितुं शक्यन्ते । न चाथर्वणस्य तत्कार्यानुप्रवेशः । न तत्र प्रधानविधयो ज्योतिष्टोमादीनाम्, नाङ्गविधयः । श्येनादिष्व् अभिचारयज्ञेषु त एवर्त्विजः सैवान्यापीतिकर्तव्यता । वेशेषो ऽपि यः सो ऽपि त्रय्याम् एवोपदिष्टः । अत ऋग्यजुषाम् ऋक्सामभ्यां17 चैकत्र कर्मणि समावेशाभावात् त्रिवेदीव्यपदेशानुपपत्तेर् नाथर्वणस्येह18 ग्रहणं स्वाध्यायशब्दवाच्यत्वात् त्व् अध्ययनविधेस् तद्विषयत्वम् अविरुद्धम् ।
-
तदर्धिकम् । षट्त्रिंशत्संख्या प्रत्यवमृश्यते । ततो ऽर्धम् अष्टादशवर्षाणि । अत्रापि विभागकल्पना षड्वर्षाणि । अत्रापि पादिकम् । पादश् चतुर्भागभागिनी सैव संख्या । नव वर्षाणि । चतुर्थो भागः । प्रतिवेदं त्रीणि ।
-
कथं पुनस् त्रिभिर् वर्षैर् वेदः शक्यो ग्रहीतुम् ।
-
अपर आह । न ग्रहणस्वरूपप्रयुक्ता धर्माः, किं तर्हि तद्विषयेण विधिना प्रयुज्यन्ते । तत्रापि निवृत्ते ग्रहणे यदि कानिचिद् अहानि नियमानुपालनम् अध्ययनकाले क्रियते तावत् संपाद्यत एव शास्त्रार्थः । भवेत् स्वाध्यायविध्यर्थं तावतैवाङ्गकलपानुष्ठानम् । असमाप्तग्रहणस्य तद्व्रतनिवृत्तौ व्रतस्नातकव्यपदेशः । अतः कालविशेषविधानं युक्तम् । त्रिभिर् वर्षैः विना न व्रतस्नातको भवति । तद् यद्य् अपि “स्नानं वेदसमाप्ताउ” इति केचित् स्मरन्ति, तथापि तदर्थव्रतसमाप्ताव् अपि प्रयोग उपचाराद् उक्त एव ।
-
तद् अयुक्तम् । सत्य् अपि विधिप्रयुक्ते यावदध्ययनभावितैव व्रतानां युक्ता । अध्ययनसंयोगेन हि तानि चोद्यन्ते । यावदध्ययनं भवितुम् अर्हन्ति21 । वचनाद् एव हि त्रिसांवत्सरी व्रतवर्या प्राग् अपि ग्रहणाद् यद्य् एतत् पृथग्वाक्यम् । अथ तु ग्रहणान्तिकम् एवेत्य् एकं वाक्यम्, ततो नास्त्य् अगृहीते वेदे व्रतनिवृत्तिः । एवकारेणैवम् एव पक्षम् अनुमन्यन्ते ।
-
यदि नास्त्य् अगृहीते वेदे तन्निवृत्तिः, कथं तर्हि व्रतस्नातको वेदस्नातक इति भेदेन व्यपदेशः ।
-
चतुर्थे वक्ष्यामः ।
-
षट्त्रिंशदब्दाः समाहृताः “षट्त्रिंशदब्दम्”, तत्र भवं षाट्त्रिंशदाब्दिकम् । एवं त्रैवेदिकम् । तदर्धपरिमाणं तदर्धिकम् । एवं पादिकं ग्रहणान्तिकम् इति । सर्वत्र “अत इनिठनौ” (पाण् ५.२.११५) इति मत्वर्थीयः । न तु यस्य यत्परिमाणं तत् तस्यास्तीति शक्यते ऽपदेष्टुम् ॥ ३.१ ॥
वेदान् अधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रमम् आवसेत् ॥ ३.२ ॥
मेधातिथिः ...{Loading}...
त्रैवेदिकम् अध्ययनम् उक्तम् । एकद्विवेदाध्ययनम् अप्राप्तं विकल्प्यते । वेदशब्दः शाखावचनो व्याख्यातः । तिस्रः शाखा अधीयीत द्वे एकां वैकैकस्माद् वेदान् न त्व् एकस्माद् एव । त्रयी त्रिविद्येति पठ्यते ।
- अधीत्य गृहीत्वा वेदम् उक्तया व्रतचर्यया । गृहस्थाश्रमम् आवसेत् । गृहस्थाश्रमस्य स्वरूपं वक्ष्यति “उद्वहेत द्विजो भार्याम्” (म्ध् ३.४) इत्यादि । आवसेद् अनुतिष्ठेत् । अनेकार्था धातवः । आङ् मर्यादायां वर्तते22 । कृतदारपरिग्रहो रूढ्या गृहस्थ उच्यते । गृहशब्दो दारवचनस् तत्र तिष्ठति । तस्य यो विहितः पदार्थसमूहो विधिनिषेधात्मकः स आश्रमशब्देनोच्यते । यथोपनीतस्य ब्रह्मचर्याश्रम आ समावर्तनात्, कृतविवाहस्य गार्हस्थ्यम् इति ।
- अविप्लुतम् अखण्डितं ब्रह्मचर्यं स्त्रीसंप्रयोगनिवृत्तिर् यस्य स एवम् उच्यते । वाक्यभेदश् चात्र द्रष्टव्यः । आख्यातव्यवहारेण- आविप्लुतब्रह्मचर्यो भवेद् गृहस्थाश्रमं च प्रतिपद्यते । एकवाक्यतायां कदाचन विप्लवे गार्हस्थ्याधिकार एव हीयेत । अद्य पुनः पुरुषार्थतया विधानेन तदतिक्रमे प्रायश्चित्तेन युज्यते, न त्व् अधिकारी न23 भवति ।
- अधीत्यावसेद् इति च पौर्वापर्यमात्रं विवक्षितम्, नाध्ययनसमनन्तरभाविता विवाहस्य ल्यप्कार्यात्24 पौर्वापर्यविधानाद् आनन्तर्यं न शब्दार्थः । अतश् च स्वाध्यायाध्ययनविवाहयोर् अन्तराले व्याकरणादिशास्त्रश्रवणं वेदार्थज्ञानार्थं लभ्यते । विद्वान् एव हि गार्हस्थ्ये ऽधिक्रियते, न यथाध्ययनविधौ25 मूर्खः । यद्य् अपि बाल्यावस्थायां तिर्यक्समानधर्मा स्वम् अधिकारं प्रतिपत्तुम् असमर्थस् तथापि पित्राचार्येण वानुष्ठाप्यते । वस्तुतस् तयोर् एवाधिकारः । अपत्यानुशासने पितुर् अधिकारो ऽपत्योत्पत्तिविधेस्26 तावताभिनिर्वर्त्यत्वात् । अनुशासनं च विधिनिषेधाधिकारद्वयप्रतिपादनम् । तत्र यत् प्रतिपाद्य्मानो ऽपि नावबुध्यते, तद् अन्ध इव हस्तग्राहिकया कार्यते । यथाग्निसंस्पर्शकूपादिपाताद् गाढहस्तावष्टम्भादिना27 धार्यते, एवम् अदृष्टाद् अपि मद्यपानादेः । यथा वानिच्छन्न् औषधापानादौ28 प्रवर्तते एवं शास्त्रीयेष्व् अपि पदार्थेषु । यदा त्व् ईषद्व्युत्पन्नस् तदैवं नियुज्येत29 “इदम् इदं कर्तुम् अर्हसि” इति । एवं सत्य् अधीतवेदो माणवकः पित्राचार्येणैवैवं प्रतिबोध्यितव्यो “गृहीतवान् असि वेदं त्वम् इदानीं तदर्थजिज्ञासायाम् अधिक्रियसे ततस् तदङ्गानि श्रोतुम् अरहसि” इति । एतावता पितुर् अपत्योत्पादनाधिकारनिवृत्तिः । तद् उक्तं “कियता पुनर् उत्पादितो भवति यावता स्वयम् अधिगतकृत्यो भवति” इति ।
- अतः स्थितम् एतत्- नाधीत्यैव विवाहो यावद् वेदार्थो नाधिगतः । एवं च पदयोजना कर्तव्या । अधीत्य अध्ययने निवृत्ते ऽप्य् अविप्लुतब्रह्मचर्यः स्यात् । प्राप्तायां च निवृत्तौ पुनर्वचनं नियमान्तराणां मधुमांसवर्जनादीनां निवृत्तिपरम् । तेन यावद् अध्ययनं तावत् सर्वे नियमा अनुष्ठातव्याः । समाप्ते त्व् अध्ययने ऽर्थावबोध्काले स्त्रीनिवृत्तिर् एव करणीया, स्त्रीसेवा न विधातव्या30 । ब्रह्मचर्यशब्दो यद्य् अपि ब्रह्मग्रहणार्थं यद्व्रतग्रहणं तत्र व्युत्पाद्यते तथापि स्त्रीनिवृत्तिपर एवास्य तत्र प्रयोग इति दर्शयिष्यामः ।
- यथाक्रमम् । य एवाध्येतॄणां पाठक्रमः प्रसिद्धस् तेनैव, प्रथमं चतुःषष्टिस् ततो ब्राह्मणं पितृपितामहाद्यभिजनप्रबन्धोपक्रमं भवति । न हीदृशे ऽर्थे वक्तारो न कुलेन न शीलेन न क्रमेणेति । एतेन चैतत् प्रतिपादितं भवति- या एव पित्रादिभिः शाखाधीता सा31 न त्याज्येति ॥ ३.२ ॥
तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
स्रग्विणं तल्प आसीनम् अर्हयेत् प्रथमं गवा ॥ ३.३ ॥
मेधातिथिः ...{Loading}...
तं ब्रह्मदायहरं प्रथमं गवार्हयेत् । ब्रह्म च दायश् च ते उभे हरति स्वीकरोतीति ब्रह्मदायहरः । दीयत इति दायो धनं, ब्रह्म वेदो, हरणं अधिगमः । गृहीतवेदः पित्रा कृतविभागो गार्हस्थ्यं प्रतिपद्यते, निर्धनस्यानधिकारात् । यदि तु पिता निर्धनस् तदा सांतानिकतया धनम् अर्जयित्वा विवाहयेत् ।
-
अन्ये तु ब्रह्मैव दायो ब्रह्मदाय इति पूर्वोकविध्यनुवादं मन्यन्ते पितुर् इति ।
-
ननु चाचार्यस्य माणवकाध्यापने ऽधिकार उक्तः किम् इदम् उच्यते पितुर् ब्रह्मदायहरम् इति ।
-
उच्यते । यस्य पिता विद्यते तस्य स एवाचार्यः । अभावे पितुर् अशक्तौ वान्यस्याधिकारः । आचार्यान्तरोपादानेन पितुर् अधिकारो निवर्तत एव । स्वयं वाध्यापयत्व् अन्योपादानेन वेति न विशेषः ।
-
यद् अप्य् आहुः- वरो दक्षिणेत्य् उपनयने नित्यवद् दक्षिणाम्नानात् परकर्तृकत्वम् एवेति ।
-
तद् असत् । उपनयने32 ह्य् अयं विधिः “वरो दक्षिणा” इति । उपनेता च पिता वाचार्यो वा, तौ द्वाव् अपि स्वाधिकारप्रवृत्तौ नानत्यन्तरम् अपेक्षेते । आनमनार्थं हि दक्षिणादानम् । न चाधिकारान्तरतः प्रवृत्तस्यानतिर् उपयुज्यते । तेनायं दक्षिणाशब्द आनमनार्थाभावाद् अर्थाद् धिरण्यदानवद् अदृष्टार्थदानोपलक्षणार्थो विज्ञेयः । पित्रैव चासौ तावता धनेन स्वामी कर्तव्यो येन वरदानम् अस्य संपद्यते ।
-
अथायम् आग्रहः- नानत्यर्थाद् दानाद् ऋते दक्षिणाशब्दस्योपपत्तिः । न वा मुख्ये सति लक्षणा न्यायेति ।
-
एवं तर्हि यस्य पिता न तत्स्थानीयो नाचार्यः स यदात्मानम् उपनयेत् सत्यकामवत् तद्विषयो दक्षिणाविधिर् भविष्यति । तस्यापि चेषदपेतशैशवस्यात्मसंस्कारायास्त्येवाधिकार इति प्रतिपादितम् ।
-
तस्माद् उभयथा पितुर् अधिकारः, स्वयम् उपनयमानस्यान्यम् आचार्यम् उपाददानस्य वा ।
-
प्रतीतम् अभिमुखीभूतं गृहाश्रमप्रतिपत्तौ । न तु नैष्ठिकम्, समाप्ताध्ययनविध्यर्थम् अपि ग्रामप्रतिपत्तौ । स्रग्विणम् । यावन्तः केचन गृह्यकारैर् मधुपर्ककर्मणि धर्मा आम्नातास् तेषां प्रदर्शनार्थम् एतत् । तल्प आसीनं महार्हपर्यङ्कशयनोपविष्टम् । पूजाधिकारार्हं शयानम्33 । गवा मधुपर्केण । मधुपर्के ऽसौ विधिः पाक्षिक आम्नातः । अतो गोशब्देन तत्साधनकर्मविशेषो लक्ष्यते । अर्हयेत् पूजयेत् । अधिकारात् पिताचार्यो वा । प्रथमं पूर्वं विवाहात्34 । प्रतीतं स्वधर्मेणेत्य् अनुवादः । स्वधर्मेण ब्रह्मदायहरम्, स्वधर्मेण चार्हयेद् इति संबन्धे न विशेषः ॥ ३.३ ॥
गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि ।
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥ ३.४ ॥
मेधातिथिः ...{Loading}...
सत्याम् अपि वेदव्रतसमाप्तौ गुरुणानुमतः अभ्यनुज्ञातः स्नायात् । स्नानशब्देन गृह्योक्तसंस्कारविशेषो लक्ष्यते, ब्रह्मचारिधर्मावधिः । यथा चात्र लक्षणा तथा प्राग् व्याख्यातम् । तद् अहर् एव गृह्यकारोक्तं कंचिन्35 मधुपर्कपूजाविहितसंस्कारं प्राप्य समावृत्तो गुरुकुलात् पितृगृहं प्रत्यागत इत्य् अनुवादः । उद्वहेतेत्य् एतद्विधिशेषम् एतत् सर्वं प्राप्तम् एव न तु समावर्तनं विवाहाङ्गम् । तेन यः पितृगृह एवाधीतवेदस् तस्य समावृत्त्यसंभवे ऽपि भवत्य् एव विवाहः36 ।
-
केचित् समावर्तनं विवाहाङ्गं स्नानं मन्यन्ते । क्त्वाश्रुत्या भेदप्रतिपत्तिर् इति चेद् एवं तर्हि समावर्तनं विवाहाङ्गं स्नानसंस्कारं वक्ष्यति । सविशेषं हि तत्र स्नानम् आम्नातम् एव “स्नातकेन” इत्यादि ।
-
अथ वा यमनियमत्यागाभिप्रायं समावृत्तिवचनम् । समावृत्तः प्राक्तनीम् एवावस्थां नियमरहितां प्रतिपन्न इत्य् अर्थः । विशेषाभिप्रायं च नियम्त्यागवचनम् । ब्रह्मचारिणो हि सातिशया यमनियमा न तथोत्तरेषाम् ।
-
यथाविधीति स्वधर्मेनेतिवत् । उद्वहेत द्विजो भार्याम् । उद्वहेतेति विवाहविधिः । संस्कारकर्म विवाहः, भार्याम् इति द्वितीयानिर्देशात् । न च प्राग्विवाहाद् भार्या सिद्धास्ति यस्या विवाहसंस्कारः क्रियेत,37 चक्षुष38 इवाञ्जनसंस्कारः । किं तर्हि निर्वर्त्यते विवाहेन । यथा यूपं छिनत्तीति, छेदनादयः संस्कारा यस्य क्रियन्ते स यूपः, एवं विवाहेनैव भार्या भवतीति ।
-
विवाहशब्देन पाणिग्रहणम् उच्यते । तच् चात्र प्रधानम् । एवं हि स्मरन्ति “विवाहनं दारकर्म पाणिग्रहणम्” इति । इहापि वक्ष्यति “पाणिग्रहणसंस्कारः” (म्ध् ३.४३) इति लाजहोमाद्यङ्गम् । तच् च गृह्याद् अखिलं ज्ञातव्यम् । “नोद्वहेत् कपिलां कन्याम्” (म्ध् ३.८) इति कन्याग्रहणात् कन्याया अयं संस्कारो न स्त्रीमात्रस्य । कन्याशब्दश् चात्र प्रकरणे ऽप्रवृत्तपुंसंप्रयोगायां योषिति वर्तत इति वक्ष्यामः ।
-
स्वर्णां समानजातीयाम् । लक्षाणान्विताम् । लक्षणानि अवैधव्यप्रजाधनसूचकानि वर्णरेखातिलकादिचिह्नानि ज्योतिःशास्त्रावगम्यानि, तैर् अन्वितां युक्ताम्, शुभलक्षणान्विताम् इत्य् अर्थः । यद्य् अप्य् अनिष्टसूचकम् अपि लक्षणं भवति, किं तु सूचकैर् एव शास्त्रैस् तादृशीं विवाहयेत्, अतः प्रशस्तलक्षणा लक्षणवती द्रष्टव्या । अभिप्रेतसूचक एव लक्षणशब्दो लोके प्रयुज्यते । सलक्षणो ऽयं पुरुषः सलक्षणा स्त्रीति या शुभलक्षणा सैवम् उच्यते ।
-
तत्राधिकारचिन्ता कर्तव्या । संस्कारविधित्वाद् एवाधानवद् अनुष्ठानलाभात् यथैव ह्य् आधानम् आहवनीयादिद्वारेण नित्यकाम्यकर्मोपयोगि तदङ्गाहवनीयादिनिर्वृत्त्यर्थम् अनुष्ठीयते, एवं विवाहो ऽपि, अस्यापि39 भार्यानिर्वर्तकत्वेन दृष्टादृष्टपुरुषार्थोपयोगित्वात् । तथा हि खेदात् पुंसः स्त्रीमात्रविषयायां40 प्रवृत्तौ प्रसक्तायां कन्यापरदारनिषेधात् स्वदारेषु कामिनः खेदनिवृत्तिः । “सहधर्मश् चरितव्यः” (शब् ६.१.१७; च्ड़्। ग्ध् ४.७) इति तया सह सर्वधर्मेष्व् अधिकाराद् अदृष्टपुरुषार्थसिद्धिस् तदधीना ।
- अत्र केचिन् मीमांसन्ते । रागिणः पूर्वोक्तेन प्रकारेण दृष्टसिद्ध्यर्थं विवाहं स्वतः कुर्वन्ति । तेषां च कृतविवाहानां संभवेत् स द्विजातिकर्मविधित्वेन कर्मानुष्ठानसिद्ध्यर्थो विवाहः । यस्य कथंचित् स्त्रीनिष्ठा निवृत्ता, न तस्य विवाहः । असति विवाहे कर्मानधिकाराद् अनधिकृतस्य चाननुष्ठाने दोषाभावात् पुरुषार्थानुष्ठानान्य् अननुतिष्ठतो41 ऽनाश्रमिणो ऽप्य् अवस्थानम् अविरुद्धम् ।
- तद् एतद् असत् । यथैव कामः पुरुषार्थस् तथैव धर्मो ऽपि पुरुषार्थत्वे प्रयोजकः । सर्वो ऽपि पुरुषार्थसिद्ध्यर्थं प्रवर्तते । यदि चैतद् एवं स्यात् “संवत्सरम् अनाश्रमी बूत्वा” (च्ड़्। मेध् ओन् ६.८७) इत्यादि नोपपद्येतेति । निपुणं चैतद् आश्रमविकल्पावसरे षष्ठे निर्णेष्यामः ॥ ३.४ ॥
यादृशी कन्या वोढव्या ताम् इदानीं दर्शयति ।
असपिण्डा च या मातुर् असगोत्रा च या पितुः ।
सा प्रशस्ता द्विजातीनां दारकर्माणि मैथुने ॥ ३.५ ॥
मेधातिथिः ...{Loading}...
मातुर् यासपिण्डा पितुश् च यासगोत्रा सा दारकर्मणि प्रशस्ता । सपिण्डग्रहणं मातृबन्धूपलक्षणार्थम् । मातुर् हि सापिण्ड्यं स्त्रीणां स्मृत्यन्तरे तृतीयपुरुषावधि । न तु त्रिभ्य ऊर्ध्वं मातृबन्धुभ्यो विवाह इष्यते, किं तर्हि, पञ्चमाद् ऊर्ध्वम् । एवं हि गौतमः पठति- “ऊर्ध्वं सप्तमात् पितृबन्धुभ्यो मातृबन्धुभ्यः पञ्चमात्” इति (ग्ध् ४.३–५) । तेन यथाश्रुतिसमन्वयाभावात् सापिण्ड्याभावः स्मृत्यन्तरवशेन मातृसंबन्धितया व्याकरणीयः । तेनैवम् उक्तं स्यात् मातुर् अन्वयजा जाया42 न भवति । अवधिश् च गौतमीय एव । तेन मातामहमातामहयोर्43 ऽन्वये जाता सा पुत्रसंततेर् बान्धवसामीप्यात् पञ्चमीं यावन् न विवाहयितव्या । अतो मातृष्वसृतद्दुहितॄणां प्रमातामहसंततिजानां44 च सर्वासां प्रतिषेधः, बन्धुत्वाविशेषात् ।
-
असगोत्रा च या पितुः । गोत्रं वसिष्ठभृगुगर्गादिवंशः स्मर्यते । समानगोत्रा वसिष्ठा न वसिष्ठैर् विवहन्ते न गर्गा गर्गैः । वासिष्ठे तु मातृसगोत्राया अपि प्रतिषेधः-
-
परिणीय सगोत्रां तु समानप्रवरां तथा ।
-
कृत्वा तस्याः समुत्सर्गं द्विजश् चान्द्रायणं चरेत् ।
-
मातुलस्य सुतां चैव मातृगोत्रां तथैव च ॥
गौतमेन तु पठ्यते- “असमानप्रवरैर् विवाहः” इति (ग्ध् ४.२) । तत्र गोत्रसमत्वे सत्य् अपि प्रवरभेदश् चेद् युज्यते विवाहः । तद् अयुक्तम्, यतः स्मृत्यन्तरे ह्य् उभयं निषिध्यते- “असमानार्षगोत्रजाम्” (य्ध् १.५३) इति । आर्षं प्रवर इत्य् एको ऽर्थः । कथं पुनर् गोत्रभेदे समानार्षेयत्वम् । किम् इति न भवति यदि स्मर्यते । श्रुतिस्मृतिप्रमाणको ऽयम् अर्थो न प्रत्यक्षगोचरो येन विरोधः स्यात् । के पुनर् अमी प्रवरा नाम । अत्यल्पम् इदम् उच्यते । इदम् अपि वक्तव्यम्- किं पुनर् एतद् ब्राह्मणत्वं नाम, तथा कतरद् एतद् गोत्रं नाम । यथैव समाने पुरुषत्वे ब्राह्मणत्वादिविशेषः, एवं समाने ब्राह्मणत्वे वसिष्ठादिगोत्रभेदः, प्रतिगोत्रं च समानार्षेयाणि । यस्यैतद् गोत्रं तस्य तैः शब्दैः प्रवराश्रयणं कर्तव्यम् । एवं विवाहनिषेधे ऽपि । स्मरन्ति च सूत्रकाराः गोत्रभेदसंबन्धेन प्रवरान्- “यस्यैतद् गोत्रं तस्येमे प्रवराः” इति । गोत्रभेदस् तु तद्गोत्रजैर् एव । स्मर्यते- “वयं पराशरा वयम् उपमन्यवः” इति । यद्य् अपि गोत्रवत् प्रवरान् अपि स्मरन्ति, तथापि बहुत्वात् कदाचिद् विस्मरेयुर् इति गोत्रम् उपलक्षणीकृत्य प्रवरस्मृतिर् उपनिबद्धा । गोत्रं तु स्मरन्ति । न च तस्य किंचिद् उपलक्षणम् अस्ति- य एवंरूपस् तस्येदं गोत्रम् इति । एतावत् तत्र स्मरणम् । यावद्गोत्रं संततिसमानजातीयत्वम्45 ।
- एष च गोत्रप्रवरभेदः ब्राह्मणानां न राजन्यविषाम्46 । तथा हि कल्पसूत्रकारः- “पौरोहित्याद् राजन्यवैशयोः” इति । यद्य् अपि गोत्रविशेषव्यपदेशे सति प्राप्तप्रतिषेधेनापि प्रवराधिकारे वचनम् इदम् उपपद्यते, किं तु न तेषां गोत्रस्मरणम् अस्ति । कस् तर्हि क्षत्रियवैश्ययोर् विवाहे ऽपि बन्धूनाम् अवधेर् नियमः ।
-
उच्यते । सर्ववर्णविषयम् एतत् “ऊर्ध्वं सप्तमात् पितृबन्धुभ्यः” (ग्ध् ४.३) इति । इहाप्य् असगोत्रा, चशब्दाद् असपिण्डा । तथा चानुवर्त्यमानः सपिण्डशब्दः पूर्ववद् बन्धुसंबन्धोपलक्षणार्थः । तेन पितृष्वसुर् अन्वयस्त्रीणाम् अन्यासां च प्रपितामहसंततिस्त्रीणां आ सप्तमात् पुरुषात् प्रतिषेधः सिद्धो भवति । सप्तमपुरुषावधयः सपिण्डाः स्मर्यन्ते ।
-
अन्ये तु गोत्रं वंशम् आहुः । न तत्रावध्यपेक्षा । यावद् एतज् ज्ञायते वयम् एकवंशा इति तावद् अविवाहः । अस्मिन्न् अपि पक्षे असपिण्डा चेत्य् अनुवर्तते । तेन पूर्ववत् पितृष्वस्रादिदुहितॄणां प्रतिषेधः । अस्मिंस् तु पक्षे समानार्षगोत्राणां प्रतिषेधो दुर्लभः । न हि तत्रैतद् अस्ति वयम् एकवंश्या इति ।
-
उच्यते । ऐतिहासिकेन तद्दर्शनेन समर्थयन्ते । तत्र हि वर्णयन्ति । “ऋषिर् वसिष्ठादिर् आद्यो वंशस्य कर्ता तद्गोत्रास् ततः प्रसूताः प्रवराः” इति तत्पुत्रपौत्रास् तपोविद्याद्यतिशयगुणयोगेन प्रख्याततमाः । स्मृत्यन्तराद् एष एव नियमः ।
-
इदं त्व् अत्र निरूप्यं यद् एतत् समानप्रवरैर् इति तत्र नामधेयतस् तावत् समानत्वं न संख्यातः । नामधेयसमानत्वे च किं यत्र सर्वाण्य् एव समानानि तत्र प्रतिषेध उतैकस्मिन्न् अपि समाने । तत्र यदि समुदितानां प्रवरत्वम्, तत्र समाने कस्मिंश्चिद् भिन्ने ऽन्यस्मिन्न् अन्यः समुदायः संजात इत्य् असमानप्रवरत्वाच् च प्रतिषेधः । एवं चोपमन्यूनां पराशराणां च स्याद् विवाहः । भिन्नं तयोर् गोत्रम् । एक उपमन्यवः अपरे पराशराः, पूर्वेण च न्यायेन प्रवरभेदः । उपमन्यूनां वासिष्ठभारद्वाजैकपाद् इति प्रवराः । पराशराणां वासिष्ठगार्ग्यपाराशर्येति । अथैकैकस्य प्रवरत्वम् एकस्मिन्न् अपि समाने प्रतिषेधः । तद् यथा माषा न भोक्तव्या, मिश्रा अपि न भुज्यन्ते ।
-
किं पुनर् अत्र युक्तम् । एकैकस्य प्रवरत्वम् । तथा हि सामानाधिकरण्यं दृश्यते । एकं वृणीते द्वौ वृणीते त्रीन् वृणीत इति प्रतिपन्न एकः । तत्साम्ये ऽप्य् आहैषाम् अविवाह इति ।
-
द्विजातिग्रहणम् उपलक्षणार्थम् । शूद्रस्यापि आ सप्तमात् पितृतः पञ्चमान् मातृत47 इत्य् अस्ति । दारकरणं दारक्रिया दारकर्म । तत्र प्रशस्ता प्रशंसया विहितेत्य् अर्थः । मैथुनी । मिथुने भवा मैथुनी, न मैथुनी अमैथुनी । पितुर् इति संबध्यते, पितृबीजाद् एवोत्पन्ना जातमात्रा । नियोगो विहितस् तत उत्पन्नाया नास्ति पूर्वोक्तविशेषणैर् निषेधः । अतः पृथङ् निषिध्यते अमैथुनीति । ततो नियोगोत्पन्ना कामतो न विवाह्या, मैथुनीत्वात् ।
- अन्ये तु अमैथुने इति पठन्ति । धर्मार्थे दारकर्मणि प्रशस्ता, न मैथुने । स्तुतिश् चेयं न प्रतिषेधः । ईदृशी योढा सा सत्य् अपि मैथुने धर्मार्थैव भवति ॥ ३.५ ॥
**महान्त्य् अपि समृद्धानि गोऽजाविधनधान्यतः । **
स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ॥ ३.६ ॥
मेधातिथिः ...{Loading}...
वक्ष्यमाणस्य प्रतिषेधस्य निन्दार्थवादो ऽयम् । समृद्धिः संपत्तिः । धनं विभवः । महान्त्य् अपि प्रकृष्टान्य् अपि । धनविशेषणार्थम् आह गोऽजाविधनधान्यतः । तृतीयार्थे तसिः । गोऽजाविधनेन च धान्येन च । धनग्रहणं गोऽजादीनां विशेषणार्थम् । धनरूपा ये गोऽजादयः । कूटसंपन्नता हि धान्यं । स्त्रीसंबन्धो विवाहः ।स्त्रीप्राप्त्यर्थं संबन्धः स्त्रीसंबन्धः ॥ ३.६ ॥
हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् ।
क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च ॥ ३.७ ॥
मेधातिथिः ...{Loading}...
हीनास् त्यक्ताः क्रिया यस्मिन् कुले जातकर्मादयः । संस्कारा न क्रियन्ते, नित्याश् च पञ्चयज्ञादयः । निष्पुरुषं स्त्रीप्रसु । यत्र प्रायेण कन्या जायन्ते न पुमांसः । निश्छन्दः वेदाध्ययनवर्जितम् । रोमशार्शसम् । द्वन्द्वैकवद्भावेन कुलद्वयं निर्दिष्टम् । बहुदीर्घैर् बाह्वादिषु लोमभिर् युतम् । अर्शांसि गुदेन्द्रियगतान्य् अधिमांसनिबद्धानि, तानि हि रोगरूपत्वात् पीडाकराणि । क्षयो राजयक्ष्माव्याधिः । आमयावी मन्दाग्निर् यस्य भुक्तम् अन्नं सम्यङ् न जीर्यति । अपस्मारः स्मृतिभ्रंशाद्युपघातकृत् । श्वित्रं शरीरगता च्छेदवती श्वेतता । कुष्ठं प्रसिद्धम् । सर्व एते व्याधिविशेषवचनाः शब्दा रोमशाद् आरभ्य मत्वर्थीयप्रत्ययान्ता निर्दिष्टाः । पूर्वैर् व्याख्यातृभिर् दृष्टमूलतास्य प्रतिषेधस्य वर्णिता । मातुः कुलं द्विपदो ऽनुहरन्ति । ततो हीनक्रियादीनां या प्रजा सापि तच्छीला स्यात् । व्याधयश् च संक्रामन्ति । एवं हि वैद्यके पठ्यते- “सर्वे संक्रामिणो रोगा वर्जयित्वा प्रवाहिकाम्” ॥ ३.७ ॥
नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
नालोमिकां नातिलोमां न वाचालां न पिङ्गलाम् ॥ ३.८ ॥
मेधातिथिः ...{Loading}...
पूर्वः कुलाश्रयः प्रतिषेधः । अयं तु स्वरूपाश्रयः । यस्या कद्रुवर्णाः48 कनकवर्णा वा केशाः सा कपिला । अधिकाङ्गी षडङ्गुलिः । रोगिणी बहुरोगा दुष्प्रतिकारव्याधिगृहीता च । भूम्नीनिः49 मत्वर्थीयो नित्ययोगे वा । अलोमिका अकेशा । लोमानि केशा अप्य् उच्यन्ते । बाहुमध्ये जङ्घाद्वये वा सर्वलोम्नाम् अभावः । वाचाला स्वल्प एव वक्तव्ये बहुलं परुषं च भाषते । पिङ्गला अक्षिरोगेण मण्डलाक्षी कपिलपिङ्गलाक्षी वा ॥ ३.८ ॥
नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥ ३.९ ॥
मेधातिथिः ...{Loading}...
ऋक्षं नक्षत्रम्, तन्नामिका, आर्द्रा ज्येष्ठा इत्यादि । वृक्षनाम्नीं शिंशपा आमलकीति । नदी गङ्गा यमुना, तन्नाम्नी । ऋक्षाणि च वृक्षाश् च नद्यश् चेति द्वन्द्वः तासां नामानीति षष्ठीसमासः । ततो द्वितीयेन नामशब्देनोत्तरपदलोपी समासः । अन्त्यनामिका बर्बरीशबरीत्यादि । पर्वता विन्ध्यमलयादयः । पूर्ववत् समासात्मकप्रत्ययः । पक्षिनाम्नी शुकी सारिका । अहिः सर्पस् तन्नाम्नी- व्याली भुजङ्गी । प्रेष्या दासी चेटी दरनी50 । बिभिषणं नाम भयजनकम्, डाकिनी राक्षसी ॥ ३.९ ॥
अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुलोमकेशदशनां मृद्वङ्गीम् उद्वहेत् स्त्रियम् ॥ ३.१० ॥
मेधातिथिः ...{Loading}...
अव्यङ्गाङ्गीं51 ।** **अव्यङ्गान्य् अङ्गानि यस्या सैवम् उच्यते । अव्यङ्गशब्दो ऽवैकल्यवचनः, प्रवीणोदारादिशब्दवद् यद्य् अपि52 व्युत्पाद्यते ऽविकलान्य् अङ्गानि यस्येति, अतश् चाङ्गशब्दस्य द्वितीयस्यावयविनि शक्तौचित्येन, संस्थानस्य परिपूर्णता साव्यङ्गशब्देनोच्यते । सौम्यं मधुरं नाम । “स्त्रीणां सुखोद्यम्” (म्ध् २.३३) अत्र दर्शितम् । हंस इव वारण इव गच्छति । यादृशी हंसानां हस्तिनां च विलासवती मन्थरा गतिर् यस्याः । तनुशब्दो नाल्पवचनः किं तर्ह्य् आनुपरिमाणे53 वर्तते । तन्वङ्गी सोच्यते या54 नातिस्थूला नातिकृशेति । मृदूनि सुस्पर्षाकठिनापरुषाण्य् अङ्गानि यस्याः सा । ताम् उद्वहेत् स्त्रियं कन्याधिकारात् कन्याम् ।
-
यद्य् एवं नालोमिकाम् इत्यादिप्रतिषेधो ऽनर्थको ऽस्माद् एव विधानात् या नैवंरूपा तस्या अविवाह्यता सिद्धा ।
-
सत्यम् एवम् । एक एवार्थो द्वाभ्यां विधिमुखेन प्रतिषेधमुखेन चोद्यमानस् तु स्पष्टो बुध्यते ।
-
कन्याशब्दश् चात्र प्रकरणाद् अननुभूतसंभोगासु स्त्रीषु प्रवर्तते । तथा च वसिष्ठः- “अस्पृष्टमैथुनां सदृशीं भार्यां विन्देत” (वध् ८.१) इति । न चान्येन संस्कृतान्येन पुनः संस्कर्तुं शक्या, कृतस्य करणाभावात् । अतश् चोढाया अप्रवृत्तभर्तृसंयोगायाः कथंचित् स्वैरिणीत्वे भर्तृप्रवासादिना नान्येन विवाहो ऽस्ति सत्य् अपि कन्यात्वे । तथा चेदृशी वसिष्ठोक्तिर् मध्ये पठिता । अन्यत्राप्य् उक्तम्- “अनन्यपूर्वां यवीयसीं भ्रातृमतीं स्त्रियम् उद्वहेत” इति (च्ड़्। य्ध् १.५२) ॥ ३.१० ॥
यस्यास् तु न भवेद् भ्राता न विज्ञायेत वा पिता ।
नोपयच्छेत तां प्राञ्जः पुत्रिकाधर्मशङ्कया ॥ ३.११ ॥
मेधातिथिः ...{Loading}...
यस्या भ्राता नास्ति तां न विवहेत् । पुत्रिकाधर्मशङ्कया पुत्रिकात्वशङ्कया । पुत्रिकाधर्मः कदाचिद् अस्याः कृतो भवेत् पित्रेत्य् अनया शङ्कया अनेन संदेहेन ।
-
कथं चेयं शङ्का भवति ।
-
यदि न विज्ञायेत पिता, देशान्तरे प्रोषितो मृतो वा । सा च मात्रा पितृसपिण्डैर् वा दीयते । प्राप्तकाला पितर्य् असंनिहित एतैर् अपि दातव्येति स्मर्यते । स्मृतिं चोत्तरत्र दर्शयिष्यामः । पितरि तु संविज्ञयमाने नास्ति पुत्रिकात्वशङ्का । स हि स्वयम् एवाह “कृता वा न कृता वा” इति । वाशब्दश् चेच् छब्दार्थे द्रष्टव्यः । यदि पिता न विज्ञायेत तदा कन्यका न वोढव्या ।
-
अन्ये तु स्वतन्त्रम् एतत् प्रतिषेधद्वयम् आचक्षते । यदि55 पिता न विज्ञायेत,56 अननेयं जातेति, गूढोत्पन्नायाः प्रतिषेधः । एवं च संबन्धः । यस्या भ्राता नास्ति तां पुत्रिकात्वशङ्कया नोपयच्छेत । न विज्ञायेत57 इत्य् अत्र पुत्रिकाशङ्कयेत्य् एतन् न संबध्यते ।
- अस्मिन् प्रकरणे यत्र नास्ति दृष्टगतः प्रतिषेधः यथा “असपिण्डा च” (म्ध् ३.५) इत्य् अत्र श्लोके, तदतिक्रमे विवाहस्वरूपानिर्वृत्तिर् एव । अतः सगोत्रादिविवाहः कृतो ऽप्य् अकृत एव । विध्यवगमरूपत्वाद् आधानवद् विवाहस्य विध्यतिक्रमरूपाद् अपगमात्58 । यथाधानविधौ यत् किंचिद् अङ्गं न ज्ञातं तदभावे नाहवनीयादिनिवृत्तिः, एवं सगोत्रादिकाया59 न भार्यात्वम् । तस्मात् त्याज्यैव कृततादृशसंस्कारप्रतिरूपिकापि60 । तत्रभवन्तो वसिष्ठादयः प्रायश्चित्तम् अपि स्मरन्ति तादृशविवाहे । यद्य् अपि कर्मण एव तदङ्गप्रतिषेधातिक्रमे वैगुण्यम्, न साक्षात् पुरुषस्य दोषः, तथापि वाचनिकं प्रायश्चित्तम् । अथ वा सगोत्रागमनं निषिद्धम् । तदर्थे व्यापारे प्रवर्तमाने यद् उक्तं तत् प्रायश्चित्तं भवेत् ।
- यस् तु हीनक्रियादिप्रतिषेधस् तस्य दृष्टदर्शनमूलत्वान् निर्वर्तते विवाहः, भवत्य् असौ भार्या, नास्ति तस्यास् त्यागः । एवमर्थ एव “महन्त्य् अपि” (म्ध् ३.६) इति पूर्वस्मात् प्रतिषेधाद् भेदः स्तवनार्थं पठितः । एवम् एव च शिष्टसमाचारः । कदाचित् कपिलादिरूपां उपयच्छति न सगोत्राम् ॥ ३.११ ॥
सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।
कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमश्ō ऽवराः ॥ ३.१२ ॥
मेधातिथिः ...{Loading}...
“उद्वहेत द्विजो भार्याम्” (म्ध् ३.४) इति सत्य् अपि द्वितीयानिर्देशे भार्यायाः प्रधानत्वे गुणकर्मत्वे च61 विवाहस्य विवक्षितम् एकत्वम्, अनुवादगतोद्देश्यत्वात्, यथा यूपं छिनत्तीति । यस्यान्यतः स्वरूपम् अवगतं तस्यान्यत्र कार्यान्तरविधानार्थम् अनूद्यमानस्य यथावगतस्वरूपस्यैवानुवादो भवति, यथा गृहं संमार्ष्टीति, पूर्वावगतिसापेक्षत्वाद् अनुवादस्य । निर्ज्ञातसंख्याका हि ग्रहा, “दश एतान् अध्वर्युः प्रातःसवने ग्रहान् गृह्णाति” इत्यादिवाक्यैः, कार्यं चवगतं ग्रहैर् जुहोतीति । अतो ऽवगत्यन्तरापेक्षत्वाद् ग्रहशब्दस्य न विवक्ष्यते संख्या । इह तु भार्यालक्षणो ऽर्थो नान्यतः सिद्धो ऽस्माद् एव वाक्याद् अवगन्तव्यो ऽतो यथाश्रुति प्रतीयते, प्रातिपदिकार्थवत् संख्यापि विवक्षितेति । पञ्चमे चैतद् विस्तरतस् तर्केण वक्ष्यते ।
-
स्थितायां संख्याविवक्षायां द्वितीयस्याः कृते ऽपि पाणिग्रहणे न भार्यात्वम् । यथा सत्य् आवहनीये न द्वितीय आहवनीयः । इष्यते च क्वचिन् निमित्ते भार्यान्तरपरिग्रहस् तदर्थम् इदम् आरभ्यते । एतद् एवाभिप्रेत्य गौतमीये पठितम्- “धर्मप्रजासंपन्ने दारे नान्यां कुर्वीत, अन्यतरापाये तु कुर्वीत” (=आप्ध् २.११.१२) इति ।
-
सवर्णा समानजातीया । सा तावद् अग्रे प्रथमतो ऽकृतविजातीयदारपरिग्रहस्य62 प्रशस्ता । कृते सवर्णाविवाहे यदि तस्यां कथंचित् प्रीतिर् न भवति, अथ वापत्त्यार्थो63 व्यापारो न निष्पद्यते तदा कामहेतुकायां प्रवृत्ताव् इमा वक्ष्यमाणाः सवर्णावराः श्रेष्ठाः शास्त्रात् तु ज्ञातव्याः । अत एकत्वस्य सवर्णानियमस्य चायम् अपवादः ।
-
ननु च सवर्णाविवाहे पारतन्त्र्यं प्रतीयते । न सवर्णाया बहुत्वं ।
-
एकत्वसंख्यातिक्रमस् तावत् प्रतीयते । असवर्णाभ्यनुज्ञानेनाप्य् अतिक्रान्तं चेत् कः सवर्णाया निषेधकः । तथा गौतमेनाविशेषेणैव पठितम्- “अन्यतरापाये तु कुर्वीत” ( = आप्ध् २.११.१२) इति । उत्तरश्लोके “सा च स्वा च” इति सवर्णाविवाहो ऽस्ति ॥ ३.१२ ॥
शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।
ते च स्वा चैव राज्ञश् च ताश् च स्वा चाग्रजन्मनः ॥ ३.१३ ॥
मेधातिथिः ...{Loading}...
वर्णभेदे सति सवर्णानियमः । यथैव ब्राह्मणस्य क्षत्रियादिस् त्रयो भवन्ति एवं शूद्रस्य जातिन्यूना रजकतक्षकादिस्त्रियः प्राप्ताः । अतः सवर्णेयम् उच्यते । उत्कृष्टजातीया तु पूर्वत्र क्रमग्रहणाद् अप्राप्ता ।
- सा च शूद्रा स्वा च वईश्या वैश्यस्य । ते च वैश्याशुद्रे स्वा च राजन्यस्य । एवम् अग्रजन्मनो ब्राह्मणस्य । ब्राह्मणक्रमेण64 निर्देशे कर्तव्ये शूद्रप्रक्रमेण निर्देशः पूर्वोक्तम् एवार्थम् उपोद्बलयति । यद् उक्तम् “विकल्प आनुपूर्व्येण नावश्यं समुच्चयः” ॥ ३.१३ ॥
न ब्राह्मणक्षत्रिययोर् आपद्य् अपि हि तिष्ठतोः ।
कस्मिंश्चिद् अपि वृत्तान्ते शूद्रा भार्योपदिश्यते ॥ ३.१४ ॥
मेधातिथिः ...{Loading}...
यद्य् अप्य् अत्यन्तरूपवती शूद्रा, विप्रराजन्यौ च वीरप्रकृती दशमीम् अपि दशाम् अश्नुवीयातां तथापि शूद्रां नाधिवोढारौ । अत्रार्थवादः । कस्मीम्श्चिद् अपि वृत्तान्ते न क्वचिद् इतिहासोपाख्याने ऽप्य् उपदिश्यते वर्ण्यते । आपदि गरीयस्याम् अधिकायाम् आपदि ।
-
पूर्वत्रानुज्ञातानेन प्रतिषिद्धा अतो विकल्पः ।
-
ननु च शास्त्रलक्षणयोर् एकविषयसंनिपाते षोडशिग्रहणाग्रहणवद् विकल्पो युक्तो न तु रागलक्षणायाः प्रवृत्तेर् निषेधेन । न च शूद्रा शास्त्रलक्षणा । केवलं रागतस् तत्र प्रवृत्तिर् अप्रतिषिद्धेति पूर्वशास्त्रस्यार्थः । निषेधस् तु शास्त्रलक्षण इत्य् अविवाह्यैव शूद्रा । एतद् एवाभिप्रेत्य याज्ञवल्क्येन पठितम् “यद् उच्यते द्विजातीनां शूद्रादारोपसंग्रहः । न तन् मम मतम्” इति (य्ध् १.५६) ।
-
अत्रोच्यते । सर्वत्रोपदेशानर्थकतयैव विकल्प आश्रीयते । यदि चात्यन्तम् एव शूद्राप्रतिषेधः स्यात् तदा क्षत्रियवैश्ये एव प्रतिप्रसूयेयाताम् आपद्य् अभ्यनुज्ञाने । प्रतिप्रसवशास्त्रम् (म्ध् ३.१३) अयं च प्रतिषेधः- द्वयम् अपि व्यर्थं स्यात् सवर्णाया नियमेन सिद्धत्वात् । तद् इदम् अनुज्ञातं प्रतिषेधश् च स्वं स्वं विरुध्यमाने विकल्प्येते65 ।
- ननु च विकल्पे कामचारः । तस्य च प्रतिप्रसवत एव सिद्धेः66 प्रतिषेधो वक्तव्यो नैव ।
- न यथाकामतः क्षत्रियवैश्ययोर् विवाह एवं शूद्रायाः, अन्यत्रापदो गरीयाः67 ।
- इदं तु प्रतिपत्तुं युक्तं यत् सवर्णानियमेनासवर्णानिवृत्तेर् अर्थतः कृतायाः पुनः शूद्रानिवृत्तिर् असवर्णानिवृत्तेर् अनित्यत्वं ज्ञापयति । अनित्यत्वे चापदि सवर्णाया अलाभे वा भवति चायम् अवगमः “शूद्रा न वोढव्या इतरे तु वोढव्ये” ॥ ३.१४ ॥
हीनजातिस्त्रियं मोहाद् उद्वहन्तो द्विजातयः ।
कुलान्य् एव नयन्त्य् आशु ससंतानानि शूद्रताम् ॥ ३.१५ ॥
मेधातिथिः ...{Loading}...
पूर्वस्य प्रतिषेधस्य शेषो ऽयं निन्दार्थवादः । हीनजातिः शूद्रैव, तस्या एव प्रकृतत्वात्, ससंतानानि शूद्रताम् इति निगमनात् । त एते द्विजातयः मोहाद् धनलोभजाद् अविवेकात् कामनिमित्तत्वाद् वा कुलानि शूद्रतां गमयन्ति । तस्यां जाताः पुत्राः शूद्रा भवन्त्य् एवं तत्पुत्रपौत्रा इति । अथ उच्यते ससंतानानीति । संतानो ऽपत्योत्पत्तिप्रबन्धः पुत्रपौत्रादिः ॥ ३.१५ ॥
शूद्रावेदी पतत्य् अत्रेर् उतथ्यतनयस्य च ।
शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः ॥ ३.१६ ॥
मेधातिथिः ...{Loading}...
शूद्रां विन्दति परिणयति शूद्रावेदी स पतति पतित इव । अत्रिर् उतथ्यस्य तनयः पुत्रस् तयोर् एतन् मतम् इत्य् उपस्करः । अयं तावद् अर्धश्लोकः पूर्वप्रतिषेधशेषः । शौनकस्य सुतोत्पत्त्या । शास्त्रान्तरम् इदम् । अभ्यनुज्ञाय शूद्रायाम् ऋताव् उपगमनं निषेधति सुतोत्पत्तिर् ह्य् ऋतौ युग्मासु रात्रिषु भवति । ऋतौ शूद्रां न गच्छेद् इत्य् अर्थः । तदपत्यतया भृगोः । इदम् अपि स्मृत्यन्तरम् । तान्य् एव शूद्रोत्पन्नान्य् अपत्यानि यस्य स तदपत्यः, तद्भावस् तदपत्यता । भृगोर् एतन् मतम् । ऋताव् अप्य् उपपन्नतरासु जातापत्य उपेयात् । पतितत्ववचनं चात्र निन्दैव न त्व् अस्य पतितधर्मता “पतत्स्योदकम्” इत्यादि (म्ध् ११.१८२) । एतच् च वक्ष्यामः ॥ ३.१६ ॥
शूद्रां शयनम् आरोप्य ब्राह्मणो यात्य् अधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्याद् एव हीयते ॥ ३.१७ ॥
मेधातिथिः ...{Loading}...
अर्थवादो ऽयम् । यदि पुत्रम् उत्पादयति तस्यां ततो ब्राह्मण्याद् एव हीयते । अपत्यस्याब्राह्मणत्वम् इति निन्दैव । सुतम् इति च पुल्लिङ्गनिर्देशात् सुतोत्पत्तेर् इत्य् अत्र समानसंहितत्वे ऽपि पुत्रोत्पत्तिर् एवाभिप्रेता । तथा च दर्शितं “युग्मा रात्रयो वर्ज्याः” इति ॥ ३.१७ ॥
दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।
नाश्नन्ति पितृदेवास् तन् न च स्वर्गं स गच्छति ॥ ३.१८ ॥
मेधातिथिः ...{Loading}...
सार्वकालिको ऽयं निषेधः । यदि कथंचिच् छूद्रापि व्युह्यते तदैतानि कर्माणि तत्प्रधानानि न कर्तव्यानि । न च तया सह त्रैवर्णिकस्त्रीवद् धर्मे ऽधिकाओ ऽस्तीत्य् अर्थः । भार्यात्वाद् अधिकारे प्राप्ते निषेधो ऽयम् । अतः स्वधर्मे धनं विनियुञ्जानस्य न तदीयानुज्ञोपयुज्यते, यथा द्विजातिस्त्रीणाम् । अन्यत्र त्व् अर्थकामयोः साप्य् अनतिचरणीयैव । प्रेष्यावत् तत्कर्मोपयोगो न निषिध्यते, श्राद्धादाव् अवहननादिकार्ये तत्र न दोषः स्यात् । परिवेषणादि न कारयितव्या ।
-
तत्र दैवं कर्म दर्शपूर्णमासादि, देवतोद्देशेन च ब्राह्मणभोजनम्, “व्रतवत्” इत्य् (म्ध् २.१८९) अत्र यथा व्याख्यातम् । पित्र्यं श्राद्धोदकतर्पणादि । आतिथेयम् अतिथेर् आराधनं भोजनपाद्यादि ।
-
ननु च “सजात्या स्थितयान्यया” (म्ध् ९.८७) इत्य् अस्त्य् एव68 प्रतिषेधः ।
-
नैव । “स्थितया” इति तत्र श्रूयते । ऋतुमत्यां सवर्णायां कथंचिद् वासंनिहितायां प्राप्नोति क्षत्रियावैश्यावत् । अपि च नासाव् अधिकारे प्रतिषेस्हः, किं तर्हि आज्यावेक्षणादौ । पत्न्यावेक्षितम् आज्यं भवतीत्य् अङ्गत्वेनोपादीयते । पत्नीत्य् अत्र क्रत्वर्थेषु यथा कयाचिद् उपात्तया सिद्धिर् अनियमेन प्राप्ता । यथा बह्वीषु सवर्णासु यया कयाचित् सवर्णया क्रियते, एवम् असवर्णयापि मा कारीत्य् एवमर्थो ऽसौ प्रतिषेधः । प्राधान्यम् अधिकारित्वात् ।
-
नाश्नन्ति पितृदेवास् तम् इति कर्मनैष्फल्यम् आह । न च स्वर्गं स गच्छति । यद्य् अप्य् अतिथिर् अश्नाति तत्फलं स्वर्गादि न भवतीति । स्वर्गग्रहणम् अतिथिपूजाफलोपलक्षणार्थम्, अनुवादश् च “धन्यं यशस्यम्” (म्ध् ३.१०६ [९६]) इत्यादि ॥ ३.१८ ॥
वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
तस्यां चैव प्रसूतस्य निष्कृतिर् न विधीयते ॥ ३.१९ ॥
मेधातिथिः ...{Loading}...
अर्थवादो ऽयम् । वृषल्याः फेनो वृषलीफेनो वक्त्रासवः, स पीतो येन । पलाण्डुभिक्षितादिवत् परनिपातः । पाठान्तरम्69- वृषलीपीतफेनस्य । पीतः फेनो यस्येति विग्रहः वृषल्या पीतफेनः । “तृतीया” (पाण् २.१.३०) इति योगविभागात् समासः । पीतः फेनो वानेनेति विग्रहे वृषल्या इति षष्ठीसमासः (पाण् २.२.८) । अर्थस् तु सर्ववृत्तिष्व् एक एव । संप्रयुज्यमानयोर् अधरपरिचुम्बनाद्य् अवश्यंभावि तेन च सहचारिणा धर्मेण मैथुनसंबन्धो लक्ष्यते । प्रकरणाच् च विवाहप्रतिषेधशेषो ऽयं न पृथग्वाक्यम् । तत्त्वे हि चुम्बनादिवर्जं नियोगधर्मो बहुमतः स्यात् । तस्माद् गच्छञ् छूद्रां चुम्बनादिपरिवर्जनेन70 न किंचिच् छास्त्रार्थम् अनुलङ्घते71 ।
- तस्यां चैव प्रसूतस्य ऋतौ तु गच्छत इत्य् अर्थः । निष्कृतिः शुद्धिर् नास्ति इति निन्दातिशयो ऽयम्72 ॥ ३.१९ ॥
चतुर्णाम् अपि वर्णानां प्रेत्य चेह हिताहितान् ।
अष्टाव् इमान् समासेन स्त्रीविवाहान् निबोधत ॥ ३.२० ॥
मेधातिथिः ...{Loading}...
वक्ष्यमाणस्य संक्षेपोपन्यासः । हिताश् चाहिताश् च । केचिद् धिताः केचिन् न । अष्टाव् इति संख्यानिर्देशः । समासः संक्षेपः । स्त्रीसंस्कारार्था विवाहाः स्त्रीविवाहाः । कह् पुनर् एवं विवाहो नाम । उपायतः प्राप्ताया कन्याया दारकरणार्थः संस्कारः सेतिकर्तव्यताङ्गः सप्तर्षिदर्शनपर्यन्तो पाणिग्रहणलक्षणः ॥ ३.२० ॥
ब्राह्मओ दैवस् तथैवार्षः प्राजापत्यस् तथासुरः ।
गान्धर्वो राक्षसश् चैव पैशाचश् चाष्टमो ऽधमः ॥ ३.२१ ॥
मेधातिथिः ...{Loading}...
संख्ययाष्टव् इत्य् उद्दिष्टानां73 नामधेयानीमानि । अधमग्रहणं पैशाचस्य निन्दार्थम् ॥ ३.२१ ॥
यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ ।
तद् वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥ ३.२२ ॥
मेधातिथिः ...{Loading}...
धर्माद् अनपेतो धर्म्यः शास्त्रविहित इत्य् अर्थः । यस्य च विवाहस्य यौ गुणदोषौ इष्टानिष्टफलहेतुत्वाद् गुणदोषौ । प्रसवे ऽपत्यजन्मनि । गुणा गुणाह् अगुणाः दोषाः74 । वोडुर् एव स्वर्गनरकादिलक्षणौ गुणदोषौ, तत्प्रयोजनम् अर्थात् स्वर्गादिकम् । या ईदृशा एव भवन्ति । गतार्थम् अपि भूयः प्रतिपत्तये कथयन्ति ॥ ३.२२ ॥
षड् आनुपूर्व्या विप्रस्य क्षत्रस्य चतुरो ऽवरान् ।
विट्शुद्रयोस् तु तान् एव विद्याद् धर्म्यान् अराक्षसान् ॥ ३.२३ ॥
चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।
राक्षसं क्षत्रियस्यैकम् आसुरं वैश्यशूद्रयोः ॥ ३.२४ ॥
मेधातिथिः ...{Loading}...
आसुरगान्धर्वयोर् अयं निषेधो ब्राह्मणस्य पुनर् ब्राह्मादिविधानेन । एवं क्षत्रियस्य राक्षसम् एवैको न गान्दर्वासुरौ । आसुर एव वैश्यशूद्रयोः । विहितप्रतिषिद्धानां विकल्पः । ततश् च नित्यवद् विहिताभावे विकल्पितेषु प्रवृत्तिः । यस्य च यो विहितः स तद्विवाहाभावम् अनपेक्ष्य प्रथमत एव यदि विहितप्रतिषिद्धेषु प्रवर्तेत, तत्र पुरुषो दुष्येद् अपत्यं चानभिप्रेतम् उत्पद्येतेति शास्त्रकारेण दर्शितं “प्रसवे च गुणागुणान्” (म्ध् ३.२२) इत्यादिना न तु सपिण्डादिपरिणयनवत्77 विवाहस्वरूपानिवृत्तिः ॥ ३.२४ ॥
पञ्चानां तु त्रयो धर्म्या द्वाव् अधर्म्यौ स्मृताव् इह ।
पैशाचश् चासुरश् चैव न कर्तव्याउ कदाचन ॥ ३.२५ ॥
मेधातिथिः ...{Loading}...
क्षत्रियादिविषयेयं स्मृतिर् न ब्राह्मणविषया, राक्षसे विरोधात् । न हि वधभेदने ब्राह्मणः कर्तुम् अर्हति, अस्याचरणस्य क्षत्रियादिविषयतयोपपत्तेः ।
- पञ्चानां तु विवाहानां प्राजापत्यात् प्रभृति त्रयो विवाहा धर्म्याः78 । द्वौ न कर्तव्यौ पैशाचश् चासुरश् च । प्राजापत्यः क्षत्रियादीनाम् अप्राप्तो ऽपि विधीयते, राक्षसो ऽपि वैश्यशूद्रयोः । आसुरपैशाचयोः प्रतिषेधः ।
-
इदम् अत्र व्यवस्था । ब्राह्मणस्य षड् विवाहाः । तत्र ब्राह्मः सर्वतः श्रेष्ठस् ततो न्यूनौ दैवप्राजापत्यौ ताभ्याम् अप्य् आर्षस् ततो ऽपि गान्धर्वस् ततो ऽप्य् आसुरः ।
-
येषाम् अयं श्लोको ब्राह्मणविषयो ऽपि तेषां राक्षसो ऽपि ब्राह्मणस्य क्षत्रियवृत्ताव् अवस्थितस्य भवति । विकर्मस्थस्यापि वधभेदनाभ्यां प्रायश्चित्तियतो न तु79 राक्षसो न विवाह इति ते मन्यन्ते ।
- तत्र80 ब्राह्मस्य श्रैष्ठ्यं फलेनैव दर्शितम् । निषेधाभावेन चेतरेषां त्रयाणां न्यूनता फलापचयवचनाद् एव । आसुरस्य पुनर् वैश्यशूद्रयोर् विधानेन परिसंख्या ब्राह्मणक्षत्रिययोः प्रतीयते । षड् इति च विधानम् । अतो विकल्पः । स च व्यवस्थया । इतरासंभवेन तस्याश्रयणं तुल्यम् । विकल्पो हि व्रीहियवद् अनेकविवाहविधानेन च समुच्च्यासंभवाद् एव सिद्धः । सति वा संभवे क्रियेत चेत् तथापि धर्मापत्ययोर् न्यूनफलो ऽसौ ।
-
अथ क्षत्रियस्य राक्षसो मुख्यश् चतुर्भिः श्लोकैर् विकल्पेन विधानात् । चतुर इत्य् अनेनासुरगान्धर्वपैशाचा अपि, “राक्षसं क्षत्रियस्यैकम्” (म्ध् ३.२४) इत्य् अनेन ते प्रतिषिद्धः । अतो विकल्पिताः, न मुख्याः । प्रकृतापेक्षत्वाच् च राक्षसैकविधिः । प्राजापत्ये नास्ति परिसंख्यानम् । अतः प्राजापत्यो ऽपि क्षत्रियस्य राक्षसतुल्यः ।
-
एवं वैश्यशूद्रयोर् अपि प्राजापत्यो नित्यवद् आम्नातो न प्रतिषिद्धः । आसुरपैशाचौ तु तयोर् विहितप्रतिषिद्धौ । राक्षसो ऽप्य् “अराक्षसान्” (म्ध् ३.२३) इत्य् अनेन प्रतिषिद्धः, त्रयो धर्म्या इत्य् अनेन विहितः ।
-
ब्राह्मणस्य पैशाचो नैवास्ति, क्षत्रियादीनां ब्राह्मदैवार्षा इति स्थितम् ॥ ३.२५ ॥
पृथक् पृथग् वा मिश्रौ वा विवाहौ पूर्वचोदितौ ।
गान्धर्वो राक्षसश् चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥ ३.२६ ॥
मेधातिथिः ...{Loading}...
पृथक् पृथग् इत्य् अनुवादः, पूर्वेणैव सिद्धत्वात् । मिश्राव् इति विधीयते, निरपेक्षाणाम्81 इतरेषां गान्धर्वराक्षसयोर् विहितत्वात् । व्रीहियववद् अप्राप्ते मिश्रणवचनम् इदम् । व्रीहिभिर् यजेत यवैर् वेत्य् एकयागप्रयोगविषयत्वेनेतरेतरानपेक्षद्रव्यविधानाद् विकल्पो, न मिश्रीभावः । मिश्रीभावे हि न व्रीहिशास्त्रार्थो ऽनुष्ठितः स्यान् न च यवशास्त्रार्थः । एवम् इहैकस्यां कन्यायां स्वीकर्तव्यायां युगपद् उपायद्वयम् अप्राप्तं विधीयते ।
- तस्य विषयः- यदा पितृगेहे कन्या तत्रस्थेन82 कुमारेण कथंचिद् वृष्टिगोचरापन्नेन दूतिसंस्तुतेन तद्रतापि83 तथैव, परवती न च संयोगं लभते, तदा वरेण संविदं कृत्वा “नय माम् इतो येन केनचिद् उपायेन” इत्य् आत्मानं नाययति, स च शक्त्यतिशयाद् धत्वा छित्त्वा चेत्य् एवं हरति, तदा “इच्छयान्योन्यसंयोगः” (म्ध् ३.३२) इत्य् एतद् अप्य् अस्ति गान्धर्वे रूपम्, “हत्वा छित्त्वा” (म्ध् ३.३३) इति च राक्षसरूपम् ।
-
ताव् एतौ विवाहौ क्षत्रियसैव भवतः । धर्म्यौ क्षत्रियस्य तौ पूर्वचोदिताव् इत्य् अनुवादः ।
-
अन्ये त्व् आहुः- यः क्षत्रियो बहुविवाहान् कुरुते स कांचिद् गान्धर्वेन विवाहे परिणयते कांचिद् राक्षसेणेत्य् एष मिश्रपक्षः । अथ वा सर्वा एवान्यतरेणेति पृथक् पृथक् । अनेन चैतज् ज्ञायते । क्षत्रियस्यानयोर् एवानियमेन प्रवृत्तिः, प्राजापत्यादीनां तु य एव प्रथमं कृतस् तेनैवान्यापि विवाह्या ॥ ३.२६ ॥
इदानीं स्वरूपम् एतेषाम् आह ।
आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् ।
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥ ३.२७ ॥
मेधातिथिः ...{Loading}...
आच्छाद्येति । आच्छादनविशेषो ऽभिप्रेतः, अन्यस्यौचित्येनैव प्राप्तत्वात् । उत्कृष्टेनाच्छादनेन यथादेशं यथासंभवं यथायोग्येन वाससा परिधाप्य । अर्हयित्वा । अनेनालंकरणकटककणिकादिना प्रीतिविशेषसत्कारविशेषैर् अर्चनं कृत्वा । एतेनाच्छादनार्हणेन कन्याया वरस्य चान्यतरसंबन्धे प्रमाणाभावाद् उभयोपयोगः कार्यः । श्रुतशीलवते । अन्ये ऽपि स्मृत्यन्तरोक्ता वरगुणा द्रष्टव्याः “युवा धीमाञ् जनप्रियः । यत्नात् परीक्षितः पुंस्त्वे” इति (य्ध् १.५५) । स्वयं प्रागयाचितः । स्वपुरुषप्रेषणैर् आहूय अन्तिकदेशम् आनाय्य वरम् । यद् दानं स ब्राह्मो धर्मो विवाहः । अविशेषवचनो ऽपि धर्मशब्दः पूर्वापेक्षितत्वात्84 तत्पर एव द्रष्टव्यः । अयाचितलाभो ऽभ्यर्हणापूर्वको ब्राह्मो विवाह इति लक्षणार्थः ।
-
ननु चेदम् अयुक्तं स्त्रीस्वीकारार्थो विवाह इति ।
-
यावद् विवाहपर्यन्तं चैतद् दानम् । नाकृते विवाहे दानार्थनिवृत्तिः । स हि तस्याः प्रतिग्रहकालः । न चासति परिग्रहे दानं परिसमाप्यते । न स्वत्वनिवृत्तिमात्रं दानम् । परस्वत्वापत्तिपर्यन्तं हि तत् । तथा च वक्ष्यति “तेषां तु निष्ठा विज्ञेया विद्वद्भिः सप्तमे पदे” इति (म्ध् ८.२२७) । एवं विवाहकाल एव कन्या दातव्या । तथा च गृह्यकारस् तस्मिन्न् एव काले ब्राह्मविवाहे काण्डिकधर्मं दर्शयति ।यत् तु प्राग् विवाहाद् दानं तदुपसंवादनवचनमात्रम्85 । न हि तस्मिन्न् अक्रियमाणे ऽभिप्रेतकाले ऽवश्यं विवाहनिर्वृत्तिः । कश्चित् प्राग्निरूपिते न दद्याद् अपि, इतरो वा कदाचिन् न प्रतिगृह्णीयात् । तस्मात् प्राग्विवाहाद् उपसंवादः कर्तव्यः- तदा त्वयेयं देया मया चेयं वोढव्येति । यथैवान्तःक्रतुः सोपक्रियो86 ऽचोदिततत्सिद्धार्थो ऽर्थाद् बहिष्क्रियते ।
-
ये तु मन्यन्ते यथैव गवादेर् द्रव्यस्यादृष्टार्थतया दीयमानस्य मन्त्रपूर्वकेण प्रतिग्रहेण दानम् अपि निर्वर्तते, तेनैवेदम् उक्तं ददातिषु चैवं धर्मेष्व् इति । एवं चेह प्रतिग्रहमन्त्रस्थानीयो विवाह इति । तथा च उपयमनं विवाह इत्य् एको ऽर्थः । उपयमनं च स्वकरणम् । एवं ह स्म भगवान् पाणिनिः स्मरति “उपाद् यमः स्वकरणे” इति (पाण् १.३.५६) । अतो विवाहः कन्यास्वीकारार्थः ।
-
तद् अयुक्तम् । स्वीकृताया विवाहो भार्याकरणार्थः । नानेन कर्मणा प्रतिगृह्णीयाद् इति विधिर् अस्ति । न च वैवाहिका मन्त्रा प्रतिग्रहप्रकारकाः, यथा “देवस्य त्वा प्रगृह्णामि” इति मन्त्राः । यत् तु स्वकरण इति तन् न विरुद्धम् । विवाहस्याप्य् अस्ति स्वकरणरूपता । दानेन स्वत्वमात्रे प्रतिपन्ने विवाहेन विशिष्टं स्वत्वं क्रियते । नेयं गवादिद्रव्यवत् स्वं यथेष्टविनियोज्यतया, अपि तु जायात्वेन । विशिष्ट एव हि स्वस्वामिभावो जायापतिलक्षणसंबन्धः । तथा च दर्शयिष्यति- “मङ्गलार्थं स्वस्त्ययनं । । । विवाहेषु प्रदानं स्वाम्यकारणम्” इति (म्ध् ५.१५२) ॥ ३.२७ ॥
यज्ञे तु वितते सम्यग् ऋत्विजे कर्म कुर्वते ।
अलंकृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥ ३.२८ ॥
मेधातिथिः ...{Loading}...
वितते प्रारब्धतन्त्रे87 ज्योतिष्टोमादौ यज्ञे तत्कर्मकारिण ऋत्विजे ऽध्वर्यवे सुताय दुहितुर् दानम् । अलंकृत्येत्य् अनुवादः, कन्यादानस्य सर्वस्यैवंरूपत्वात् । “आच्छाद्यालंकृतां विवाहयेत्” इति सामान्यो ऽयं विधिः ।
- ननु गौश् चाश्वश् चाश्वतरश् चेत्याद्य् ऋत्विग्भ्यो दक्षिणात्वेन श्रुतम् । न क्वचित् कन्यादानं क्रत्वर्थतया चोदितम् ।
किम् अत्र क्रत्वर्थतया । प्रवृत्ते यज्ञ ऋत्विजे यां ददाति स दैवो विवाहः । अस्ति चोपकारगन्धस् तदीयकरणम् । अकर्मोद्देशेनापि दीयमानं तत्कर्मकरणप्रवृत्तस्य जनयत्य् एवानुमानविशेषम् । एतावतोपकारसंबन्धेन ब्राह्माद् दैवो न्यूनः ॥ ३.२८ ॥
एकं गोमिथुनं द्वे वा वराद् आदाय धर्मतः ।
कन्याप्रदानं विधिवद् आर्षो धर्मः स उच्यते ॥ ३.२९ ॥
मेधातिथिः ...{Loading}...
स्त्री गवी पुङ्गवश् च मिथुनम् । एकं द्वे वा वराद् गृहीत्वा कन्याया दानम् आर्षो धर्मः । धर्मत इति । धर्म एवायम्, नात्र विक्रयबुद्धिः कर्तव्या, उच्चनीचर्णापाकरणाभावाद् इत्य् अभिप्रायः ॥ ३.२९ ॥
सहोभौ चरतां धर्मम् इति वाचानुभाष्य च ।
कन्याप्रदानम् अभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ ३.३० ॥
मेधातिथिः ...{Loading}...
“सह धर्मो युवाभ्यां कर्तव्यः” इति वचनेन परिभाषां कृत्वा नियम्य यद् दानं स प्राजापत्यः । धर्मग्रहणम् उपलक्षणार्थम् । धर्मे चार्थे च कामे च तुल्ययोगक्षेमतेति मिथो ऽस्य परिभाषावचनस्यार्थः । धर्मशब्द एवोच्चार्यते- “सह धर्मश् चर्यताम्” इति, न तु धर्मार्थकामाः सहेति । स तु धर्मशब्दः स्मृत्यन्तरवशाद् अर्थकामयोर् उपलक्षणार्थो व्याख्यातः । “यद्य् एनां नातिचरसि धर्मार्थकामेषु तदा तुभ्यम् इयम् दीयते” इति कृतसंवित्कायाभ्युपगततदर्थाय विवाहकाले यद् दानं तत्रैवं समुच्चारयितव्यं सह धर्मं चरताम् इति । अर्थकामयोर् अभिप्रेते ऽपि सहत्वे तदप्रक्र्तत्वाद् अनुच्चारणम् । तथा च गौतमः- “प्राजापत्ये सह धर्मं चरताम् इति मन्त्रः” (ग्ध् ४.७) । मन्त्रग्रहणेन चैतद् दर्शयत्य् अधिकृतरूपम् एव प्रयोक्तव्यम्, मन्त्रवत् । न हि महासत्वानाम् अर्थकामविषये सहितत्वं परिभाषितुं युक्तम्, गम्यते तु स्मृत्यन्तरेभ्यः ।
-
अनयैव संविदा दोषेणास्य न्यूनता । अस्ति ह्य् अत्र दातुर् वराद् उपकारलिप्सा ।
-
स्वशब्देनैतद् वचनं वाच्यते, न पुनर् अयं दातुर् एव वचननियमः । अनुभाष्येत्य् अनेनैव सिद्धत्वाद् वाचेत्य् अनर्थकं स्यात्, अनुभाषणे वागिन्द्रियस्य साधनत्वात् । तथा च गृह्यकारः- “एतद् वः सत्यम् इत्य् उक्त्वा वरं वाचयेद् एतन् नः सत्यम्” इति । अनुशब्दश् च प्राप्तार्थस्यैव वाचा निश्चयम् आह ॥ ३.३० ॥
ज्ञातिभ्यो द्रविणं दत्वा कन्यायै चैव शक्तितः ।
कन्याप्रदानं स्वाच्छन्द्याद् आसुरो धर्म उच्यते ॥ ३.३१ ॥
मेधातिथिः ...{Loading}...
ज्ञातिभ्यः कन्याया एव पित्रादिभ्यः कन्यायै च स्त्रीधनं दत्वा कन्याया आप्रदानम् आनयनम् आसुरो विवाहः । स्वाच्छन्द्यात् स्वेच्छातः, न शास्त्रत इत्य् आर्षाद् भेदम् आह । तत्र हि शास्त्रं नियामकम् अस्ति “एकं गोमिथुनम्” इति । इह तु कन्याया रूपसौभाग्यादिगुणापेक्षं छन्दः ॥ ३.३१ ॥
इच्छयान्योन्यसंयोगः कन्यायाश् च वरस्य च ।
गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः ॥ ३.३२ ॥
मेधातिथिः ...{Loading}...
इच्छया च वर्स्य कुमार्याश् च प्रीत्या परस्परसंयोग एकप्रदेशे संगमनम् । तस्येयं निन्दा मैथुन्यः कामसंभवः । मिथुनप्रयोजनो मैथुनः, तस्मै हितो मैथुन्यः । एष एवार्थो विस्पष्टीकृतः कामसंभव इति । संभवत्य् अस्माद् इति संभवः । कामः संभवो ऽस्येति ॥ ३.३२ ॥
हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिर् उच्यते ॥ ३.३३ ॥
मेधातिथिः ...{Loading}...
प्रसह्य अभिभूय कन्यापक्षाद् बलात्कारेण कन्याया हरणं राक्षसो विवाह इत्य् एतावद् अत्र विवक्षितम् । हत्वेत्याद्य् अनुवादः । प्रसह्यापजिहीर्षतो यदि कश्चित् प्रतिबन्धो वर्तते तदा प्राप्तम् एव हननादि । हन्तुः शक्त्यतिशयं ज्ञात्वा स्वात्मभयाद् उपेक्षेरंस् तदा भवत्य् एव राक्षसो न वधाद्यवश्यं कर्तव्यम् ।
- हत्वा दण्डकाष्ठादिना ताडयित्वा । छित्त्वा खड्गादिप्रहारेणाङ्गानि खण्डशः कृत्वा । भित्त्वा प्राकारदुर्गादि88 । क्रोशन्तीं रुदन्तीं कन्याम् अनिच्छाम् । अयं गान्धर्वाद् विशेषः । “अनाथापह्रिये परित्रायद्वम्” इत्याद्य् उच्चैः शब्दकरणं क्रोशनम् । रोदनम् अश्रुकणमोक्षः । उद्विजितायाः स्त्रिया धर्मो ऽयम् ॥ ३.३३ ॥
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।
स पापिष्ठो विवाहानां पैशचः प्रथितो ऽधमः ॥ ३.३४ ॥
मेधातिथिः ...{Loading}...
राक्षसपैशाचयोर् अनिच्छा तुल्या । राक्षसे हननम्, पैशाचे वञ्चनम् । सुप्तां निद्रयाभिभूताम् । मत्तां क्षीबां मद्यपरवशाम् । प्रमत्तां वातसंक्षोभेण नष्टचेतनाम् । रहो ऽप्रकासम् उपगच्छति मैथुनधर्मे प्रवर्तते स पैशाचो विवाहः सर्वविहाहानां पापिष्ठः पापहेतुः । धर्मापत्यं न ततः संपद्यते ।
-
इह गान्धर्वराक्षसपैशाचानां प्रकृतविवाहसामानाधिकरण्यात् संयोगहरणोपगमा एव पाणिग्रहणसंस्कारनिरपेक्षा विवाहा इति मन्यन्ते ।
-
तेषां ब्राह्मादिष्व् अपि दानविवाहयोः सामानाधिकरण्यात् संस्कारो विनिवर्तते । यथा च न निवर्तते तथा दर्शितम् । लक्षणया विवाहप्रयोजनदाने विवाहशब्दः ।
-
गान्धर्वे तु भगवता कृष्णद्वैपायनेन दुष्यन्तशकुन्तलासंगमने वर्णितम्- “अनग्निकम् अमन्त्रकम्” इति, तद्दर्शनेन पाणिग्रहणसंस्कारो ऽस्ति, मन्त्रादि वर्जितस् तु89 ।
- पैशाचे90 पुनर् विवदन्ते- मुख्यं चोपगमनं । न91 च कन्यात्वम् अपैति, संस्कारैस् तद्विनिवर्तनात् । अतश् च “पाणिग्रहणिका मन्त्राः कन्यास्व् एव प्रतिष्ठिताः” (म्ध् ८.२२६) इति प्रतिषेधस्याप्रवृत्तेर् अस्त्य् एव मन्त्रवत् संस्कारसंबन्धः । स च प्रतिषेधः कृतः संस्कारप्रतिषेधार्थः । सा हि मन्त्रैः संकृतत्वाद् व्यपगतकन्याभावा । अत एव भवतु प्रथमम् उपगमस् ततो ऽकन्यादोषो नास्ति । तथा च कानीनः कर्ण इति दर्शनम् । यदि तु पुरुषप्रयोगेण कन्यात्वम् अपेयात् कथम् इयं वाचोयुक्तिः “कन्यायाः पुत्रः कानीनः” इति । अथ त्व् असंस्कृता कन्योच्यते ततो युक्तम् “कर्णादयो ह्य् अनूढायाः पुत्राः” इति । मुख्ये ऽभ्युपगमने कन्याया अपत्योत्पत्तेः संभवः । वर्ण्यते चेतिहासादिषु तथाभूताया विवाहः ।अथ मद्यमदादिना निर्वृत्ते रतिसंबन्धे किमर्थः संस्कार इति ।
-
अत्रोच्यते । यद्य् अपि स्त्रीपुंसधर्मो निवृत्तो ऽतिक्रान्तश् च कन्यागमनप्रतिषेधस् तथापि तया सहाधिकारार्थं पुनश् च गमने कन्यागमनं मा भुद् इति तदर्थं संस्कारकरणम् । कन्यागमनप्रतिषेधातिकर्मसंबन्धेन पुरुषार्थतयापि निन्द्यते विवाहो ऽयम् ।
-
तद् अयुक्तम् । यतो ऽयं लोके कन्याशब्दः पुंसासंप्रयुक्तां स्त्रियम् आचष्टे, न संस्कारभावसापेक्षाम् । अकृतसंस्कारा अपि पुरुषैः क्षतयोनयो न कन्या इति व्यवह्रियन्ते । तासां च वेशश्रितानां गमने न कन्यागमनदोषः । यद्य् अपि कुमारीकन्याशब्दौ प्रथमवयोवचनाव् इष्येते, तथापि विवाहविधाव् अनुपभुक्तपुर्वाम् एव स्त्रियम् आचक्षते । तथा च कुमारवेशधारिणीं नातिप्रकाशप्रवृत्तपुंसंप्रयोगां भार्यात्वेनार्थयमानो ऽन्यैर् अवबोध्यते “नैषा कुमारी नष्टो ऽस्याः कौमारो भावः” ।
-
संस्कारपरिलोपश् च स्यात् । गर्भाधानं हि मन्त्रवत् कर्तव्यम् “विष्णुर् योनिं कल्पयतु” (र्व् १०.१८४.१) इति कॢप्तायाश् च कल्पनम् अशक्यम् । तत्रायथार्थो मन्त्रप्रयोगः स्यात् । न चानूढायाः पैशाचधर्मे मन्त्रप्रयोगः, ऊढायास् तच्छ्रवणात् । न च92 पैशाचवर्जम् अन्येषु विवाहेषु तत्कल्पयितुं उक्तं युक्तम् अविशेषश्रवणात् ।
- तस्मान् मुख्योपगमपक्ष एवमादयो बहवो दोषाः प्राप्नुवन्ति । अत आलिङ्गनोपगूहनपरिचुम्बनादिषूपगमनार्थेषु व्यापारेषु साहचर्यात् तादर्थ्याच् चोपपूर्वो गमिर् द्रष्टव्यः । यत् तु “कानीनः पुत्रः” इति तत्र मुख्यार्थासंभवाल् लक्षणया संस्काराभावप्रतिपत्तिः93 । यत् तु संस्कारदर्शनं तत् तु क्वचिद् एव । यद्य् अपि “या गर्भिणी संस्क्रियते ज्ञाताज्ञतापि वा सती” (म्ध् ९.१७३) इति तत्र य एवोपगन्ता स एव न94 संस्कर्ता । न त्व् असौ पैशाचो विवाहः । पैशाचे हि येनैव समुपभुक्ता तस्मा95 एव दीयते, स एवैनां संस्करोतीति । गर्भिण्यास् तु संस्कारो वाचनिकः । एतच् च सर्वं निपुणतरं पुनर् नवमे वक्ष्यते ।
-
अपरे मन्यन्ते- “सत्यं मुख्यम् उपगमनम् अमुख्यत्वे तु गमनप्रतिषेधानुपपत्तिः” इति ।
-
यदि हि मुख्यम् उपगमस् तदा स एव विवाहो ऽन्यस्यानन्तरोक्तेन न्यायेनाभावात् । ततश् च नास्ति तस्य प्रतिषेधस्य विषयः, यतः इच्छया गान्धर्वो हठाद् राक्षसो ऽन्यथा पैशाचः । न चान्यः प्रकारो ऽस्ति येन स विषयः प्रतिषेधः96 स्यात् । अस्ति त्व् अस्य विषयः- यत्र हठाद् रहसि गमनम्, या वा पितृभ्यां दीयते न चोपसंस्क्रियते । न97 चासौ98 गान्धर्वः, कन्येच्छाया अभावात् । अत एव भर्तुर् अपि न कन्यागामित्वम्, विषयान्तरस्य संभवात् ।
-
तस्मात् क्षतयोन्याः संस्कारनिषेधाद् ब्राह्मादिवद् उपायत्वात् तद्वच् च विवाहशब्दोपपत्तेः प्रकरणसामर्थ्याड् गौण एवोपगमार्थः ।
-
एषाम् च भेदः- अप्रार्थितोपनतो भूमिहिरण्यादिवद् ब्राह्मः । ऋत्विक्त्वेन विशेषेण दैवः । गोमिथुनेनार्षः । याच्ञयायच्ञया वा “सहोभौ चरतां धर्मम्” इति वचनव्यवस्थया प्राजापत्यः । शेषाः सुबोधभेदाः ।
-
ब्राह्मादीनाम् इदम् अर्थे तद्धितः । ब्रह्मादिसंबन्धिता च स्तुत्यारोप्यते । एवं सर्वेषु । पैशाचः पिषाचानाम् अयं युक्त इति निन्दा ॥ ३.३४ ॥
अद्भिर् एव द्विजाग्र्याणां कन्यादानं विशिष्यते ।
इतरेषां तु वर्णानाम् इतरेतरकाम्यया ॥ ३.३५ ॥
मेधातिथिः ...{Loading}...
द्विजाग्र्याणां ब्राह्मणानां कन्यादानं कन्यां ददताम् अद्भिर् एव दानं शस्यते । ब्राह्मणाय यदा कन्यां ददाति तदाद्भिर् एव दद्यात् । कथं पुनर् आपोदानकरणम् । न हि ताभिर् विना दानम् अस्ति “अद्भिर् वाच्यं नमःपूर्वं99 भिक्षा दानं ददाति वै । एवं धर्मेषु” इति नियमात् । अथ वा अद्भिर् एवेत्य् अवधारणेनार्षासुरप्राजापत्यान् अपवदति । तत्र हि न केवला आपः कारणम्, गोमिथुनादिद्रव्यग्रहणम् अपि संविद्व्यवस्था च । तेनैतद् उक्तं भवति । यथा गोहिरण्यादि द्रव्यं दीयते, न किंचित् परिभाष्यते- “इयं गौस् त्वयैव संवाहनीयेदृशानि तृणान्य् अपि देयानि,” एवं कन्यापि देया, न दुहितृस्नेहेन जामात परिभाषणं कारयितव्यः । न च तस्माद् धनं ग्रहीतव्यम् इति ।
- क्षत्रियादीनां तु इतरेतरकाम्यया परस्परेच्छया100 यदि कन्यावरयोः परस्परम् अभिलाषो भवति तदा दानं कर्तव्य, नेतरथा ब्राह्मविवाहवत् ।
- अन्ये तु व्याचक्षते । धनं वा गृहीत्वाद्भिर् एव वेत्य्101 एष इतरेतरकाम्यार्थः । अस्मिन् पक्षे ब्राह्मणस्य सर्वविषयता ज्ञापिता भवति ॥ ३.३५ ॥
यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः ।
सर्वं शृणुत तं विप्राः सम्यक् कीर्तयतो मम ॥ ३.३६ ॥
मेधातिथिः ...{Loading}...
यद् उक्तम् “गुणदोषौ च यस्य यौ” (म्ध् ३.२२) इति तत् स्मारयति । बहवो वक्तव्यतया प्रतिज्ञातास् तत्र वक्ष्यमाणैः श्लोकैर् अयम् अर्थ उच्यत इति विशेषज्ञानार्थं युक्तः पुनर् उपन्यासः ।
- एषाम् विवाहानाम् इति निर्धारणे षष्ठी । एवं विवाहानां यस्य विवाहस्य यो गुणः कीर्तित आचार्येण मनुना सर्वं शृणुत तं गुणं विप्राः । भृगुर् महर्षीन् आमन्त्रयते । सम्यग् अवैपरीत्येनानाकुलं कीर्तयतः कथयतः ॥ ३.३६ ॥
दश पूर्वान् परान् वंश्यान् आत्मानं चैकविंशकम् ।
ब्राह्मीपुत्रः सुकृतकृन् मोचयत्य् एनसः पितॄन् ॥ ३.३७ ॥
मेधातिथिः ...{Loading}...
पूर्वे वंश्या पितृपितामहादयः । अपरे पुत्रपौत्रादयः । तान् मोचयत्य् एनसो नरकादियातनाभ्य उद्धरति । ब्राह्मेन विवाहेन ऊढा तस्यां यो जातः पुत्रः स सुकृतकृत् पुण्यकृद् यदि भवति । पितॄन् परलोकगतान् । पितृशब्दो ऽयं प्रेतपर्यायः न हि पुत्रादिसंततेर् अन्यथा पितृव्यपदेशसंभवः । दशशब्दः प्रत्येकम् अभिसंबध्यते पूर्वापरशब्दाभ्याम्, एकविंशकम् इति निर्देशात् ।
- अर्थवादश् चायम् । तेनागतान् अनुत्पन्नान् कथं मोचयतीति न वाच्यम् । पूर्वेषां त्व् अपत्यकृतेन शुभेन श्राद्धादिना भवत्य् एव पापान् मोक्ष इति श्राद्धाधिकारे कथयिष्यते । अतो दशापरान् एनसो मोचयतीत्य् एतद् उक्तं भवति- दशपुरुषा यस्मिन् कुले ऽपापा जायन्त इत्य् आलम्बनम् ॥ ३.३७ ॥
दैवोढाजः सुतश् चैव सप्त सप्त परावरान् ।
आर्षोढाजः सुतस् त्रींस् त्रीन् षट् षट् कायोढजः सुतः ॥ ३.३८ ॥
मेधातिथिः ...{Loading}...
दैवेन विधिनोढा दैवोढा । तस्यां जातो दैवोढाजः । सुतः पुत्रः । कः प्रजापतिः । स देवता यस्य विवाहस्य स कायः । संस्कारकर्मणि ग्रहणलक्षणे ऽसत्य् एव देवतासंबन्धे प्रजापतेर् देवतात्वम् अध्यारोप्यते भक्त्या । यद् अपि तत्र प्राजापत्यो यागो ऽस्ति स तु विवाहसाधारणः न कायव्यपदेशे कारणम् । आसुरादिषु च न काचिद् गतिः स्यात् । न ह्य् आसुरेभ्यो विवाहेभ्यो यागो ऽस्ति । कायोढज इति ह्रस्वत्वं “ङ्यापोः संज्ञाछन्दसोर् बहुलम्” इति (पाण् ६.३.६३) ।
-
ननु च यद् यन् न्यूनफलं तत् तत् पश्चान् निर्दिष्टम् । तत्रार्षस्य प्राजापत्यात् पश्चाद् अभिधानं युक्तम् ।
-
अस्त्य् अत्र कारणं येनाधिकफलस्य प्राजापत्यस्य पश्चान् निर्देशः । “पञ्चानां तु त्रयो धर्म्याः” (म्ध् ३.२५) इत्य् अत्र प्राजापत्यस्य ग्रहणम् इष्यते, इतरथार्षस्य स्यात् ॥ ३.३८ ॥
ब्राह्मादिषु विवाहेषु चतुर्ष्व् एवानुपूर्वशः ।
ब्रह्मवर्चसिनः पुत्रा जायन्ते शिष्टसंमताः॥ ३.३९ ॥
मेधातिथिः ...{Loading}...
“प्रसवे च गुणागुणान्” (म्ध् ३.२२) इत्य् उक्तम्, तद् इदम् । अनुपूर्वशः- आनुपूर्व्येणेत्य् अस्मिन्न् अर्थे स्मृतिकारैः प्रयुज्यते । श्रुताध्ययनविज्ञानसंपत्तिनिमित्ते च पूजाख्याती102 ब्रह्मवर्चसम् । तद्वन्तो ब्रह्मवर्चसिनः । इन्नन्तो ऽयम् । शिष्टानां संमता अनुमता अगर्ह्या अद्विष्टाः प्रिया इति यावत् । अतश्103 चामत्यर्थत्वान् मतिभुद्धीत्य् (च्ड़्। पाण् ३.२.१८८) अस्याविषयत्वेन, “क्तेन च पूजायाम्” (पाण् २.२.१२) इत्य् एतेन नास्ति समासप्रतिषेधः । संबन्धसामान्यविवक्षायां च षष्ठी ॥ ३.३९ ॥
रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः ।
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥ ३.४० ॥
मेधातिथिः ...{Loading}...
रूपं मनोहराकृतिः । सत्त्वं नाम गुणो द्वादशे वक्ष्यते । ताभ्याम् उपेता युक्ताः । आढ्या धनवन्तः । श्रुतशौर्यादिगुणयुक्ततया ख्याताः यशस्विनः । पर्याप्तभोगाः स्रगनुलेपनगीतवाद्यादिभिः सुखसाधनैर् अविकलैर् नित्ययुक्ताः । सुखसाधनैः पूर्वोक्तैर् अवियोगो भोगः, स पर्याप्तो ऽक्षतः समग्रो येषां ते पर्याप्तभोगाः । धर्मानुष्ठानतत्परा धर्मिष्ठाः । धर्मशब्दः केषांचिद् गुणवचनः । अतो गुणवचनाद् इत्य् आतिशायिकः । शतं वर्षाणि जीवन्ति ॥ ३.४० ॥
इतरेषु तु शिष्टेषु नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥ ३.४१ ॥
मेधातिथिः ...{Loading}...
ब्राह्मादिव्यतिरिक्तेषु गान्धर्वादिविवाहेषु नृशंसम् अनृतं च वदन्ति नृशंसानृतवादिनः । नृशंसं मातृभगिन्यादाव् अश्लीलाक्रोशवचनम् । अनृतं प्रसिद्धम् । नृशंसं चानृतं च नृशंसानृते । ते वदितुं शीलम् एषाम् इति शब्दव्युत्पत्तिः । ब्रह्मधर्मो वेदधर्मो वेदार्थस् तं द्विषन्ति निन्दति वा न श्रद्दधते वा । अत एव दुर्विवाहेष्व् इति निन्दा ॥ ३.४१ ॥
अनिन्दितैः स्त्रीविवहैर् अनिन्द्या भवति प्रजा ।
निन्दितैर् निन्दिता नॄणां तस्मान् निन्द्यान् विवर्जयेत् ॥ ३.४२ ॥
मेधातिथिः ...{Loading}...
समासतो विवाहानां फलप्रदर्शनम् एतत् । ये यस्य विवाहा विहितास् ते ऽनिन्दितास् तैर् ऊढानां या प्रजा पुत्रादिलक्षणा सानिन्द्या भवति प्रशस्येत्य् अर्थः । निन्दितैः प्रतिषिद्धैः निन्दिता गर्हिता । तस्माद् दुःखभागिनी प्रजा मा भूद् इति निन्द्यान् विवर्जयेत् ॥ ३.४२ ॥
पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।
असवर्णस्व् अयं ज्ञेयो विधिर् उद्वाहकर्मणि ॥ ३.४३ ॥
मेधातिथिः ...{Loading}...
पाणिग्रहणं नाम गृह्यकारोक्तः संस्कारः सवर्णासु समानजातीयासूह्यमानासु **उपदिश्यते **शास्त्रेण विधीयते, कर्तव्यतया प्रतिपाद्यते । असवर्णासु यद् उद्वाहकर्म तत्रायं वक्ष्यमाणो विधिर् ज्ञेयः ॥ ३.४३ ॥
शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।
वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥ ३.४४ ॥
मेधातिथिः ...{Loading}...
ब्राह्मणेनोह्यमानया क्षत्रियया शरो ब्राह्मणपाणिपरिगृहीतो ग्राह्यः, पाणिग्रहणस्थाने शरस्य विधानात् । प्रतोदो बलीवर्दानाम् आयासः क्रियते, येन वाह्यमानाः पीड्यन्ते हस्तिनाम् इवाङ्कुशः । वसनस्य वस्त्रस्य दशा ग्राह्या शूद्रया । उत्कृष्टजातीयैर् ब्राह्मणादिवर्णैर् वेदने विवाहे ॥ ३.४४ ॥
ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा ।
पर्ववर्जं व्रजेच् चैनां तद्व्रतो रतिकाम्यया ॥ ३.४५ ॥
मेधातिथिः ...{Loading}...
उक्तो विवाहः । तस्मिन् निर्वृत्ते समुपयाते दारत्वे तद् अहर् एवेच्छयोपगमे प्राप्ते तन्निवृत्त्यर्थम् इदम् आरभ्यते ।
- न विवाहसमनन्तरं तद् अहर् एव गच्छेत्, किं तर्हि ऋतुकालं प्रतीक्षेत । गृह्यकारैस् तु “अत ऊर्ध्वम् अक्षारलवणाशिनौ ब्रह्मचारिणाव् अधःशायिनौ स्यातां । त्रिरात्रं द्वादशरात्रं संवत्सरं वा” (आश्ग् १.७.११) पठितम् । तत्र सत्य् अपि संवत्सरस्यान्तरापतिते104 ऋतौ गमनं नास्ति । एवम् अस्मात् कालाद् ऊर्ध्वम् असत्य् ऋतौ गमनं नास्ति । एवम् एते स्मृती अविरोधिन्यौ भवतः । त्रिरात्रादीनां तु विकल्पः अत्यन्तरागपीडितयोर् गमनम्, दैयवतोर् तु ब्रह्मचर्यम् ।
-
ऋतुर् नाम स्त्रीणां शोणितदर्शनोपलक्षितः शरीरावस्थाविशेषो गर्भग्रहणसमर्थः काल उच्यते । उपलक्षणत्वाच् च दर्शनस्य निर्वृत्ते ऽस्मिन् वक्ष्यमाणकालानुवर्ती भवत्य् एव । तस्य काल ऋतुकालः । साहचर्याद् वा काल एव ऋतुः । तथा च समानाधिकरणसमासः । ऋतुकाले ऽभिगन्तुं व्रतम् अस्येत्य् ऋतुकालाभिगामी । व्रते इति णिनिः (पाण् ३.२.२०) यथा स्थण्डिलशायी अश्राद्धभोजीति । स्याद् भवेद् इत्य् अर्थः । यद्य् अप्य् अस्तिपरा विधिविभक्तिस् तथाप्य् उपगमव्यापारं निदधाति, अभिगामी स्याद् अभिगच्छेद् इत्य् अर्थः । न ह्य् अनुपगच्छन्न् अभिगामी भवति ।
-
कीदृशं पुनर् एतद् व्रतम् । किम् ऋताव् अभिगन्तव्यम् एव, अथर्ताव् एव गन्तव्यम् इति । एतद् उक्तं भवति । किम् अयं नियम उत परिसंख्येति । ननु च व्रतम् इति शास्त्रतो नियम उच्यते । तत्रैव चायं णिनिः । अतः परिसंख्या कथम् आशङ्क्यते ।
-
उच्यते । परिसंख्यायाम् अपि शास्त्रीयत्वं नियमरूपता च विद्यत इति दर्शयिष्यामः ।
-
कस् तर्ह्य् अन्योर् विशेषः ।
-
विधिविशेषो नियमः ।
-
अथ विधिः कः ।
-
यः शब्दः कर्तव्यताबोधकः “अग्निहोत्रं जुहुयात् स्वर्गकामः” इति । न ह्य् अग्निहोत्रस्यैतद् वचनम् अन्तरेणान्यतः कुतश्चित् कर्तव्यतावगमः । नियमः पुनर् यत्रादृष्टसिद्ध्यर्थस्य वचनम् अन्तरेण पाक्षिकी प्राप्तिः । यथा “समे यजेत” इति दर्शपौर्णमासादियागविधानाद् देशमात्रम् आक्षिप्तम् । न हि कश्चिद् देशम् अनाश्रित्य यागप्रयोगः संभवति । द्विविधश् च देशः, समो विषमश् च । यत्र यदा तावत् समे यजेत तदैतद् वचनम् अनुवाद एव । यदा त्व् इच्छाया निरङ्कुशत्वाद् विषमे यियक्षति तदैतद् वचनं समदेशं विदधद् अर्थवत्, विहिते समे विषमस्यानाश्रयणम् अविधानात् । एतत् सामर्थ्यात् तन्निवृत्तिः । विधिनिबन्धने ह्य् अनुष्ठाने किम् इत्य् अविहितं क्रियेत । तत्करणे हि न यथाचोदितानुष्ठानसिद्धिः ।
-
इदं चात्र स्मार्तम् उदाहरणम् । “प्राङ्मुखो ऽन्नानि भुञ्जीत” । भुञ्जानस्य यदृच्छया यां कांचिद् दिशम् आश्रित्य भोजनं प्राप्तम् । तत्र कदाचित् प्राची कदाचिद् इतरा या काचित् प्राप्ता । तत्र यदा प्राची न तदेतरा, यदेतरा न तदा प्राचीति । तत्राप्राप्तिपक्षे विध्यर्थं वचनं “प्राङ्मुखो ऽन्नानि भुञ्जीत” इति । तत्रातिक्रमाच् छास्त्रार्थं जहाति ।
-
एवम् इह यदृच्छयोपगमनम् ऋताव् अनुपगमनम्, पक्षे विधीयमानम् उपगमनम् अननुष्ठीयमानम्105, शास्त्रातिक्रमकारितां जनयेत् । यथान्ये शास्त्रविहितार्था अतिक्रम्यमाणाः प्रायश्चित्तहेतवो भवन्ति तथानुगमनम् ।
- अथर्ताव् अनृतौ च गमने रागतः प्राप्ते वचनम् ऋताव् उपेयाद् इति, तदैवं वचनं मृग्यते- ऋताव् एवोपेयाद् अनृताउ न गच्छेत् । यथा “पञ्च पञ्चनखा भक्ष्याः” इति क्षुत्प्रतिघातेनार्थेन शशकादिष्व् अपि पञ्चनखेषु भक्ष्यता प्रसक्ता तद्व्यतिरिक्तेष्व् अपि वानरादिषु । न च तत्र पर्यायेणैव प्रवृत्तिः । युगपत् तत्र चान्यत्र च प्रसक्तौ “पञ्च पञ्चनखा भक्ष्याः” इति वचनम् इतरपरिसंख्यानार्थं संपद्यते106 । एवम् इह परिसंख्येति ।
-
ननु च परिसंख्यां दोषत्रयवतीम् आचक्षते । त्रयो हि तत्र दोषाः प्रादुःष्युः, स्वार्थत्यागः परार्थकल्पना प्राप्तबाधश् च । “पञ्च पञ्चनखा भक्ष्याः” इति यदान्वयतः पञ्चनखविषयं भक्षणं प्रतीयते तदा तत्त्यक्तं भवति, तद्व्यतिरिक्तनिषेधपरत्वाद् वाक्यस्य । अश्रुतश् च निषेधः, अतः परार्थकल्पना । अर्थित्वाच् च सर्वविषयं भक्षणं यत् प्राप्तं तस्य बाधः । एवम् एतेन परिसंख्यायां त्रयो दोषाः ।
-
नैतत् सारम् । सत्य् अर्थित्वे श्रुत्यर्थासंभवे वाक्यस्यानर्थक्यं मा भूद् इत्य् एतत्परता न विरुद्धा ।
-
विधिर् अत्यन्तम् अप्राप्तौ नियमः पाक्षिके सति ।
-
तत्र चान्यत्र च प्राप्तौ परिसंख्या नखिष्व् इव ॥ (त्व् १.२.४२)
-
किं पुनर् अत्र युक्तम् । “तत्र चान्यत्र च प्राप्तौ” परिसंख्यालक्षणस्य विद्यमानत्वात् परिसंख्येति । ऋताव् अपि गमनं प्राप्तम् अनृताव् अपि । न तु यदर्तौ तदानृताव् इति । यथा सत्य् अर्थित्वे यद्107 भोजनं तत्र नियमो ऽश्राद्धम् न पुनर् आहारत्यागेन अश्राद्धम् एव भुञ्जान आस्ते । एवम् इह सति खेदे यद् गमनं तत्र नियमो ऽनृतौ न गच्छेद् इत्य् अवगच्छति । अर्थित्वाच् च गमने प्रसक्ते कालविदानपरतैव युक्ता वाक्यस्य । अन्यथानारब्धो ऽर्थ उपदिष्टः स्यात् । किंचापत्योत्पत्तिविधेः कृतविवाहस्यानुष्टेयत्वाद् ऋतौ च तत्संभवात् प्राप्तम् एव गमनम् । उत्पन्नपुत्रस्य च न द्वितीयपुत्रोत्पादनं वैधम् । अपत्यम् उत्पादयेद् इत्य् एकत्वविवक्षायां विध्यर्थनिवृत्तेः । न च गमनम् एवादृष्टार्थतया शक्यं विधातुम् । संकारविधित्वाधिकारग्रहणात्108 कल्पनायाश् चाशक्यत्वाद्109 अपत्योत्पत्तिविध्याक्षेपाद् ऋतौ गमनस्य । यदि चात्रर्ताव् उपेयाद् इति तद् अनृतुप्रतिषेधार्थम् । तत्रानुवादः परं परिसंख्या । तत्र ह्य् अर्थान्तरलक्षणयाप्य् अर्थवत्ता भवति ।
- एवं च110 कृत्वा गौतमीयेनाविप्रतिपत्तिः । एवं तत्रोक्तम्- “ऋताव् उपेयात् सर्वत्र वा प्रतिषिद्धवर्जम्” इति (ग्ध् ५.१–२) । “सत्वत्र वा” इत्य् एष विकल्पः कामचारानुज्ञानार्थः । न पुनः सर्वदर्ताव् अनृतौ च नियमोपपत्तिः । यदि च पूर्वत्र “ऋताव् उपेयात्” इति नियमः, “सर्वत्र वा” इत्य् अत्रापि स एवोपेयाद् इत्य् अनुप्रयुज्यमानशब्दो नियमार्थः प्राप्नोति एकप्रक्रमत्वात्, न हि111 स एव शब्दः पुनर् अनुच्चार्यमाणो भिन्नार्थो भवितुं युक्तः । न चर्तोर् अन्यत्र नियमार्थतोपपद्यते इत्य् उक्तम् । तस्माद् ऋतौ गमनवचनम् अनृतौ प्रतिषेधार्थम् । तत्रानुत्पन्नपुत्रस्य विध्यन्तरान् नियम एव । उत्पन्नपुत्रस् तु यथाकामी ।
-
अनृतौ प्रतिषिद्धे गमने भार्येच्छया पुनः प्रतिप्रसूयते पर्ववर्जं व्रजेच् चैनां तद्व्रत इति । तद् इति भार्यायाः प्रत्यवमर्शः । तच्चित्तग्रहणं व्रतम् अस्येति तद्व्रतः । रतिकाम्यया विनाप्य् अपत्यार्थेनोत्पन्नपुत्र ऋताव् अनुत्पन्नपुत्रो वानृतौ सुरतसंभोगेच्छया तद्व्रत एनां व्रजेन् नात्मेच्छयेत्य् अर्थः ।
-
अथ वा तच्छब्दो रतिकाम्ययेत्य् अत्राप्य् अपेक्ष्यते,112 स्मृतिशास्त्रत्वाद् अस्य । तद् रतिकाम्यया पर्ववर्जम् अन्यत्रापि व्रजेत् । तत्रैवाकारश्लेषो द्रष्टव्यः, अरतिकाम्यया अत्मन इति शेषः । यथा तु व्याख्यातं तथा न किंचिद् अत्राप्रश्लेषेणापि वा113 तच्छब्दस्य समासोपसर्जनस्यासंबन्धेन । पर्वाणि वक्ष्यति । अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीम् इति । स्वदारनिरतः114 । स्वदारेषु निरतः स्यात् तत्प्रीतिभावनापरः । अथ वा स्वदारेष्व् एव रमते न परदारान् रमयेद् इति परदारप्रतिषेधः । सदा यावज्जीवम् एतद् व्रतं परिपालनीयम् ।
- अतः स्थितम् एतत् । त्रीणि वाक्यान्य् अत्र- ऋतुकालाभिगामी स्याद् इत्य् एतद् एकम् । अनुत्पन्नपुत्रस्य नियमानुवादरूपं द्वितीयम्, भार्याप्रयुक्तस्य पर्ववर्जम् ऋताव् अनृतौ च न सुरतेच्छया । स्वदारनिरत इति तृतीयम् । एषां च पदयोजना- ऋतुकालाभिगामी स्याद् अपत्यार्थम्, रतिकाम्यया तु तद्व्रत एनां व्रजेत्, स्वदारनिरतश् च स्यात् ॥ ३.४५ ॥
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
चतुर्भिर् इतरैः सार्धम् अहोभिः सद्विगर्हितैः ॥ ३.४६ ॥
मेधातिथिः ...{Loading}...
ऋतुलक्षणार्थं श्लोको ऽयम् । वैद्यकादिशास्त्रावगम्यो ऽयम् अर्थो न विधिमूल एव । एवं “युग्मासु पुत्राः” (म्ध् ३.४८) इत्य् एताव् अपि श्लोकौ ।
- षोडशरात्रयस् ताः स्त्रीणां मासि मासि स्वाभाविक ऋतुः । प्रमाणान्तरमूलत्वाच् चाश्रुतम् अपि मासि मासीति गम्यते । स्वभावे भवः स्वाभाविकः स्वस्थप्रकृतीनां यो भवति । व्याध्यादिना कस्याश्चित् प्राप्तकालो ऽपि निवर्तते, घृततिलाध्यौषधोपयोगेन रतिवशेन चाकाले ऽपि संवर्तते । अतः स्वाभाविक ऋतुस् ता रात्रय उच्यन्ते । चतुर्भिर् इतरैः । चत्वार्य् अहानि यानि सद्भिर् विगर्हितानि, प्रतिषिद्धस्त्रीस्पर्शसंभाषणादीनि, तानि च प्रथमशोणितप्रदर्शनात् प्रभृति । अहर्ग्रहणं च सर्वाहोरात्रोपलक्षणार्थम् । तैः सह ॥ ३.४६ ॥
तासाम् आद्याश् चतस्रस् तु निन्दितैकादशी च या ।
त्रयोदशी च शेषास् तु प्रशस्ता दशरात्रयः ॥ ३.४७ ॥
मेधातिथिः ...{Loading}...
तासां रात्रीणां या** आद्याः** प्रथमशोणितदर्शनाच् चतस्रस् ता निन्दिताः, न तत्र गमनम् अस्ति । तिसृषु तावत् स्पर्शो ऽपि नास्त्य् अशुचित्वात् । चतुर्थ्यां तु स्नाताया वसिष्ठवचनात् सत्य् अपि शुचित्वे रतिसंभोगो नास्ति, चतसॄणां गर्हितत्ववचनात् । या चैकादशी या च त्रयोदशी सापि निन्दिता, एवं प्रतिषिद्धगमना115 । ऋतुदर्शनात् प्रभृत्य् एकादशीत्रदोश्यौ गृह्येते, न चन्द्रतिथी । तासाम् इति निर्धारणविषयत्वेन रात्रीणां संबन्धात् समानजातीयश् च निर्धार्यतया प्रतीयते, कृष्णा गवां संपन्नक्षीरेति । षड्रात्रगमनप्रतिषेधो ऽयम् अदृष्टार्थाः । शेषाः प्रशस्ता दशरात्रयः । षण्णां प्रतिषेधाद् दशसु प्राशस्त्यं सिद्धम् एवानूद्यते ॥ ३.४७ ॥
युग्मासु पुत्रा जायन्ते स्त्रियो ऽयुग्मासु रात्रिषु ।
तस्माद् युग्मासु पुत्रार्थी संविशेद् आर्तवे स्त्रियम् ॥ ३.४८ ॥
मेधातिथिः ...{Loading}...
तासु दशसु या युग्मा रात्रयः षष्ठ्य् अष्टमी दशमी द्वादशी चतुर्दशी षोषशी तासूपगच्छतः पुत्रा जायन्ते ।116 अयुग्मासु स्त्रियो दुहितरः । तस्मात् पुत्रोत्पत्तिसिद्ध्यर्थं युग्मासु संविशेद् भजेत मैथुनधर्मेण स्त्रियम् अर्तवे । अनुवादो ऽयम् । अयम् अपि नियम एव- अनुत्पन्नपुत्रस्यायुग्मास्व् अगमनम् ॥ ३.४८ ॥
पुमान् पुंसो ऽधिके शुक्रे स्त्री भवत्य् अधिके स्त्रियाः ।
समे ऽपुमान् पुंस्त्रियौ वा क्षीणे ऽल्पे च विपर्ययः ॥ ३.४९ ॥
मेधातिथिः ...{Loading}...
शुक्रं वीर्यं पुरुषस्य रेतः, स्त्रियाः शोणितम् । उक्तं भगवता वसिष्ठेन “शुक्रशोणितसंभवः पुरुषः” इति (वध् १५.१) । स्त्रीबीजाद् अधिके पुंबीजे ऽयुग्मास्व् अपि पुत्रो जायते, युग्मास्व् अपि स्त्रीबीजस्याधिक्ये कन्यैव । अयुग्मास्व् अपि रात्रिषु पुत्रार्थिनो गमनानुष्ठानार्थम् एतत् । यदा परिपुष्टम् आत्मानं वृष्याहारयोगेन समधिकवीर्यं मन्येत स्त्रियाश् च कथंचिद् अपचयं तदा पुत्रार्थी गच्छेद् इत्य् उपदिष्टं भवति । आधिक्यं चात्र न परिमाणतः, किं तर्हि सारतः । समे ऽपुमान् मिश्रीकृते पुंस्त्रियौ । अपुमान् नपुंसकम् इति केचित् । अन्ये117 साम्य इति पठन्ति । उभयोः साम्ये पुमान् एव । पुंस्त्रियौ वा । गर्भाधान्यां यदा वायुर् द्रवरूपत्वात् संसृष्टे शुक्रशोणिते समं विभजत एकत्र भागम् अन्यत्र तावद् एव तदा यमौ जायेते । तत्र समे विभागे ऽपि स्त्रीबीजाधिक्ये स्त्री, पुंबीजाधिक्ये पुमान् । क्षीणे बीजे सारतः विपर्ययो ऽग्रहणं118 गर्भस्य नपुंसकोत्पत्तिर् वा ॥ ३.४९ ॥
निन्द्यास्व् अष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् ।
ब्रह्मचार्य् एव भवति यत्र तत्राश्रमे वसन् ॥ ३.५० ॥
मेधातिथिः ...{Loading}...
निन्द्यासु षट्स्व् अन्यासु चानिन्द्यास्व् अप्य् अष्टासु रात्रिषु स्त्रियो वर्जयन् परिहरन् द्वे रात्री अवशिष्टे यदि गच्छति, पर्ववर्जम्, तदा ब्रह्मचार्य् एव भवति ब्रह्मर्यफलं प्राप्नोति । यत्र तत्राश्रमे वसन् । अर्थवादो ऽयम् । न तु वानप्रस्थाद्याश्रमेषु रात्र्यभ्यनुज्ञा जितेन्द्रियत्वविधानात् सर्वाश्रमेषु गार्हस्थाद् अन्येषु वीप्सायाश् चार्थवादतयाप्य् उपपत्तेः । एताश् च रात्रयो वर्ज्या न क्रमेणैव, किं तर्हि यथेच्छया पर्ववर्जं गमनं यथा न भवति तथा रात्रिद्वयम् अभ्यनुज्ञायते । किं पुनर् ब्रह्मचर्यस्य फलम् । विशेषाश्रवणात् स्वर्गः । क्वचित् तु श्रूयते- “न ब्रह्मचारी प्रत्यवैति” इति, स्वल्पैर् अतिक्रमैर् न दुष्यतीति ॥ ३.५१ ॥
न कन्यायाः पिता विद्वान् गृह्णीयाच् छुल्कम् अण्व् अपि ।
गृह्णञ् छुल्कं हि लोभेन स्यान् नरो ऽपत्यविक्रयी ॥ ३.५१ ॥
मेधातिथिः ...{Loading}...
आसुरे शुल्कप्रतिषेधो ऽयम्, उत्तरत्र च कन्यार्थसंग्रहोपादानात् । विद्वान् ग्रहदोषज्ञः । कन्यापिता स्वल्पम् अप्य् अर्थं धनं न गृह्णीयात् । गृह्णानो ऽपत्यविक्रयदोषेण युज्यते । कः पुनर् एषः शुल्को नाम । आभाषणपूर्वं वराद् गृहीतम् । यत्र तूच्चनीचपणापणो भवति, कन्यागुणापेक्षमूल्यव्यवस्था, स क्रय एव । इह तु महागुणाया अपि कन्यायाः स्वल्पं धनम् । अनाभाषणपूर्वं वा ग्रहणम् । न विक्रयस्यैष धर्म इत्य् अतो विक्रयाध्यारोपेण निन्द्यते ॥ ३.५१ ॥
स्त्रीधनानि तु ये मोहाद् उपजीवन्ति बान्धवाः ।
नारीयानानि वस्त्रं वा ते पापा यान्त्य् अधोगतिम् ॥ ३.५२ ॥
मेधातिथिः ...{Loading}...
पूर्वस्यैव शेषः119 । स्त्रीनिमित्तानि धनानि, कन्यादाने वराद् यानि गृह्यन्ते । ये बान्धवाः पित्रादयः मोहाद् उपजीवन्ति । यथोक्तं “ज्ञातिभ्यो द्रविणं दत्वा” (म्ध् ३.३१) इति । सुवर्णरजतादि धनम् । नारीयानानि । यानम् अश्वादि । वस्त्रं वा । एतावन्मात्रम् अपि न जातूपजीवनीयं वासो यानादि, किं पुनर् बहु । उपजीवतां फलम् आचष्टे । ते पापाः शास्त्रप्रतिषिद्धसमाचरणाद् अधोगतिं नरकं यान्ति । अथ वा स्त्रीधनानीति नवमे दर्शयिष्यति । तानि ये मोहाद् उपजीवन्ति बान्धवाः, पिता तत्पक्षाश् च भर्ता भर्तृपक्षाश् च । एवं यानादि । एवं वस्त्रम् । स्त्रीणाम् बुद्धौ संनिधानाच् छाब्दः संनिधिः कल्प्यते यथा “राजपुरुषः कस्य । राज्ञः” इति ॥ ३.५२ ॥
आर्षे गोमिथुनं शुल्कं केचिद् आहुर् म्र्षैव तत् ।
अल्पो ऽप्य् एवं महान् वापि तावान् एव स विक्रयः ॥ ३.५३ ॥
मेधातिथिः ...{Loading}...
स्त्रीगवी च पुंगवश् च गोमिथुनम् । केचिद् आहुर् एतद् आदेयम् इति । मनोस् तु मतं मृषैव तत् मिथ्या । नादेयम् इत्य् अर्थः । अल्पो ऽप्य् एवम् । अल्पसाधनो ऽल्पः । एवं महान् भवति । तावान् एव विक्रयः ॥ ३.५३ ॥
यासां नाददते शुल्कं ज्ञातयो न स विक्रयः ।
अर्हणं तत् कुमारीणाम् आनृशंस्यं च केवलम् ॥ ३.५४ ॥
मेधातिथिः ...{Loading}...
किं वराद् धनाधिगमो विक्रयो भवति । नेति ब्रूमः । ज्ञातयः कन्यायाम् अधिकृताः स्वार्थम् आददते गृह्णन्ति तदा स विक्रयः । अर्हणं कन्यार्थे धनग्रहणं कन्यानां तद् अर्हणं पूजनं भवति । बहुमानः कन्यानाम् आत्मनि भवति- “ईदृश्यो वयं यद् धनं दत्वा विवाह्यामहे” । अन्यत्रापि पूज्या भवन्ति “सुभगा एताः” इति । आभरणादि वा तेन धनेन कर्तव्यम् अतो ऽभ्यर्हिताः शोभावत्यो भवन्ति । आनृशंस्यम् अपापत्वं केवलं न स्वल्पो ऽप्य् अधर्मगन्धो ऽस्ति । अतो ऽनेनार्थवादेन कन्यार्थं धनग्रहणं विधीयते ॥ ३.५४ ॥
पितृभिर् भ्रातृभिश् चैताः पतिभिर् देवरैस् तथा ।
पूज्या भूषायितव्याश् च बहुकल्याणम् ईप्सुभिः ॥ ३.५५ ॥
मेधातिथिः ...{Loading}...
न केवलं वराद् आदाय दातव्यं120 कन्याबन्धुभिर् अपि तु तैर् अपि दात्व्यम् । पितृभिः साहचर्यात् पितृशब्दः पितामहपितृव्यादिषु वर्तते । ततो बहुवचनं । व्यक्त्यपेक्षं वा बहुवचनम् । एवं पतिभिः श्वशुरादिभिर् व्यक्त्यपेक्षं वा । देवराह् पत्युर् भ्रातरः । पूज्याह् । पुत्रजन्माद्युत्सवेषु निमन्त्रणपूर्वकमानाश्रयबहुमानम् आदरेण भोजनादिना पूज्याः । भूषयितव्याः । वस्त्राद्यलंकारेणाङ्गलेपनादिभिर् मण्डयितव्याः । अत्र फलं बहुकल्याणम् ईप्सुभिः । कल्याणं कमनीयं पुत्रधनादिसंपदरोगतापरिभव इत्यादि बहुशब्दात् सर्वम् ईप्सुभिर् आप्तुम् इच्छुभिः प्राप्तुकामैः । फलार्थी विधिर् अयम् ॥ ३.५५ ॥
यत्र नार्यस् तु पूज्यन्ते रमन्ते तत्र देवताः ।
यतैतास् तु न पूज्यन्ते सर्वास् तत्राफलाः क्रियाः ॥ ३.५६ ॥
मेधातिथिः ...{Loading}...
देवता रमन्ते तुष्यन्ति प्रसीदन्ति । प्रसन्नाश् च स्वामिन एवाभिप्रेतेन फलेन योजयन्ति । यत्र तु न पूज्यन्ते तत्र सर्वाः क्रियाः यागहोमदानाद्या देवताराधनबुद्ध्या चोपहारादयो याः क्रियन्ते ऽफलास् ता इत्य् अर्थवादः ॥ ३.५६ ॥[^१२१]
वैवाधिके ऽग्नौ कुर्वीत गृह्यम् कर्म यथाविधि ।
पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही ॥ ३.५७ ॥
मेधातिथिः ...{Loading}...
अतिक्रान्तं विवाहप्रकरणम् । कृतो विवाहो यस्मिन्न् अग्नौ तत्र कुर्वीत गृह्यं कर्म, अग्निसाध्यम् अष्टकापार्वणश्राद्धहोमादि गृह्यस्मृतिकारैर् उक्तम् । पञ्चयज्ञा वक्ष्यमाणास् तेषां विधानम् अनुष्ठानम्, तस्मिन्न् एवाग्नौ ।
-
यद्य् अप्य् अविशेषेण पञ्चयज्ञविधानम् इत्य् उक्तं तथापि वैश्वदेवहोमो ऽग्निसाध्यः, उदकतर्पणादौ तु न किंचिद् अग्निना कार्यम् । कथं तर्हि निर्देशो ऽग्नौ पञ्चयज्ञविधानं कार्यम् इति ।
-
केचिद् आहुर् एकापि सप्तमी विषयभेदाद् भिद्यते । तस्मात् पञ्चयज्ञैकदेशे पञ्चयज्ञशब्दः प्रयुक्तः ।
-
अथ वा पञ्चयज्ञविधानम् इत्य् अत्र अग्नाउ इति न संबध्यते, वैश्वदेवहोमस्य पूर्वेणैवाग्न्यधिकरणस्य सिद्धत्वात् । एवं संबन्धः क्रियते- गृही तु पञ्चयज्ञविधानं कुर्यात् । अग्नौ तु वैवाहिके गृह्यकर्मपक्तिं121 चान्वाहिकीम् अग्नाव् इत्य् अपेक्ष्यते ।
- गृहशब्दो दारवचनः । गृही तु स कृतदारपरिग्रहो122 भार्याद्वितीय इदम् इदं कुर्याद् इति । विवाहे चाग्निः कैश्चिद् गृह्यकारैर् अरणिनिर्मन्थनाद् आधातव्य इत्य् उक्तम् । अपरैर् यतः कुतश्चिद् दीप्यमानम् आनीय होतव्यम् इति । अनेन तस्मिन् गृह्यम् इति वचनेन धारणम् अग्नेर् अर्थाद् उक्तं भवति ।
-
अत्र केचिद् आहुः । शूद्रस्यापि वैवाहिकाग्निधारणम् अस्ति, तस्यापि पाकयज्ञाधिकारात् । न चात्र जातिविशेष उपात्तः, केवलं “गृही” इति श्रुतम् । शूद्रो ऽपि गृही, तस्यापि दारपरिग्रहस्योक्तत्वात् । एतद् एवान्यत्र पठितम् ।
-
कर्म स्मार्थं विवाहाग्नौ कुर्वीत प्रयहं गृही । इति । (य्ध् १.९६)
-
अत्रोच्यते । गृह्यं कर्म वैवाहिके ऽग्नाव् इति श्रुतम् । न च गृह्यं नाम किंचित् कर्मास्ति । तत्र गृह्यस्मृतिकारोक्तं गृह्यम् इति लक्षणया मन्तव्यम् । गृह्यकारैश् च त्रैवर्णिकानां एव कर्माम्नातम्, न शूद्रस्य- “उक्तानि वैतानिकानि गृह्याणि वक्ष्यामः” (आश्ग् १.१.१) इति । उक्तानुकीर्तनस्य एतद् एव प्रयोजनं येषाम् एव वैतानिकेष्व् अधिकारस् तेषाम् एव गृह्येष्व् इति, न पुनर् यथान्यैर् व्याख्यातं तद् धर्मप्रात्यर्थम् । तादर्थ्ये हि विवक्षिते “तस्याग्निहोत्रेण प्रादुष्करणहोमकालौ व्याख्यातौ” (आश्ग् १.९.४) इति नावक्ष्यत् । न च गृहे भवं गृह्यम् इति युक्तम् । शालावचनो गृहशब्दो दारवचनो वा । न तावत् कस्यचित् कर्मणः शालाधिकरणत्वेन विशेषतः समाम्नाता यद् गृहम् इत्य् अनूद्य गृहिणो विधीयते । यद् अपि गृहसंस्कारकं वास्तुपरीक्षादि तद् अपि त्रैवर्णिकानाम् एव, न शूद्रस्य । अथ दारवचनस् तत्रापि गृहीत्य् अनेनैव गतत्वान् न किंचित् ।
-
यद् अपि123 स्मृत्यन्तरम्-
-
कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
-
दायकालाह्र्ते वापि श्रौतं वैतानिकाग्निषु ॥ (य्ध् १.९७)
इति, अत्रापि किंचित् स्मार्तम् इति विशेषानुपादानाद् अन्यसापेक्षतैव । न हि सर्वम् अग्नौ स्मार्तं कर्म संभवति । न च होमविषयत्वे प्रमाणम् अस्ति । न ह्य् अवश्यम् अग्न्यधिकरण एव होमः ।
- तस्माद् गृह्यकारोक्तं गृह्यम् इति वक्तव्यम् । एते हि स्मृती गृह्यकारविहितं कर्मानुवदतः । तथा च कुतः शूद्रस्याग्निपरिग्रहः । किं च “श्रौतं वैतानिकाग्निषु” इति अपरं तत्राम्नायते, तत्र अवश्यम् अयं त्रैवर्णिकविषय एषितव्यः । स एव पूर्वत्र चातुर्वर्ण्यपर उत्तरत्र त्रैवर्णिकपर इत्य् एकस्य शब्दस्य तात्पर्यभेदो ऽभ्युपगतः स्यात् । न चाभेदे संभवति भेदो न्याय्यः । अन्वहं भव्आन्वाहिक्ई । प्रतिदिवसं यः पाको भुक्त्यर्थः स तस्मिन्न् एवाग्नौ कर्तव्यः ॥ ३.५७ ॥
पञ्चसूना गृहस्थस्य चुल्ली पेषण्य् उपस्करः ।
कण्डनी चोदकुम्भश् च वध्यते यास् तु वाहयन् ॥ ३.५८ ॥
मेधातिथिः ...{Loading}...
पञ्चयज्ञविधेर् अधिकारनिर्देशो ऽयम् । सूना इव सूनाः । मांसविक्रयार्थपशुवधस्थानम् आपणदयो वा मांसस्योत्पादकतयानुष्ठीयमानाः पापहेतवः । एवं चुल्ल्यादयो ऽपि पापहेतुत्वाद् अध्यारोपेण सूनासमाः । न हि तेषां शास्त्रप्रतिषेधः साक्षात् । नापि सामान्यः कश्चित् प्रतिषेधो ऽस्ति । न हि तापघाताय कस्यचिन् न स्पृहा स्यात् । न काचित् तत्साध्यक्रिया दृश्यते या वचनान्तरेण निषिद्धा । न चास्माद् एव वचनात् प्रतिषेधानुमानम्, उत्तरेणैकवाक्यतावगमात् । प्रतिषेधपरत्वे वाक्यभेदः स्यात् । किं चैतत्पदार्थसाध्याम् अर्थक्रियां पदार्थान्तरेण साधयेत् तस्याः प्राप्तिं पञ्चयज्ञानाम् । न च लक्षणान्य् उक्तानि । येन तत्समानकार्यस्यान्यस्यापि प्रतिषेध उच्यते । यो वा परकीयम् अन्नम् अध्यान् नद्यादाव् उदकार्थं कुर्यात्124 तस्यैते यज्ञाः स्युः । यदि च चुल्ल्यादीनां निषेधो ऽभिप्रेतः स्यात् तदा प्रतिषेधार्थीयम् एव पदम् अधीयीत, किम् अनुमानेन । स्वशब्दाद् बलीयसी प्रतिपत्तिः । प्रायश्चित्तार्थत्वे त्व् एकादशे ऽभिधानं युक्तम्125 । निषेधैर् एवाननुष्ठानम् एव स्यात् । अपरिहार्यत्वाच् च चुल्ल्यादीनाम् अशक्यो निषेधः । असति च निषेधे कुतः प्रायश्चित्तम् ।
- तस्मान् न दोषविघातार्थं पञ्चमहायज्ञाः । किं तर्हि नित्यसंबन्धेषु चुल्ल्यादिष्व् आरोपितासद्दोषनिष्कृत्यर्थतया126 नित्यार्थतया नित्यत्वं यज्ञानाम् आह ।
-
वध्यते । आदिवर्णं वेत्य् एतद् दन्तोष्ठ्यं पठ्यते । हन्यते दुष्कृतेन, शरीरधनादिना नाश्यते । संबध्यते वा पापेन- परतन्त्रीकरणं वा बध्नातेर् अर्थः ।
-
वाहयन् । स्वकार्ये व्यापरणं वाहनम् । यस्य चुल्ल्यादेर् यदौचित्यप्राप्तं स्वसाध्यं कार्यं तत् ताभिः कुर्वन् वाहयन्न् इत्य् उच्यते ।
-
चुल्ली पाकस्थानं भ्राष्ट्रादि । पेषणी दृषदुपलो वा । उपस्करो गृहोपयोगि भाण्डं कुण्डकटाहादि । कण्डनी यया व्रीह्यादि कण्ड्यते । कुम्भो जलाधारः ॥ ३.५८ ॥
तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः ।
पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ ३.५९ ॥
मेधातिथिः ...{Loading}...
तासां चुल्ल्यादीनां सूनानां निष्कृत्यर्थं तदुत्पन्नदोषनिर्यातनार्थं क्रमेणाधिलेपनं चुल्ल्याश् तक्षणं पेषण्या इत्य् एवमादिक्रमः । महर्षिभिः कॢप्ताः कर्तव्यतया स्मृताः पञ्च महायज्ञाः । प्रत्यहं गृहमेधिनां गृहस्थानाम् । गृहमेधिशब्दो गृहस्थाश्रमे वर्तते । प्रत्यहम् इति । अनुपादानात् कालविशेषस्य, यावज्जीवम् इति प्रतीयते । अतश् च नित्यत्वसिद्धिः । महायज्ञा इति कर्मनामधेयम् एतत् ॥ ३.५९ ॥
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस् तु तर्पणम् ।
होमो दैवो बलिर् भौतो नृयज्ञो ऽतिथिपूजनम् ॥ ३.६० ॥
मेधातिथिः ...{Loading}...
एषाम् अयं स्वरूपविधिः । अध्यापनशब्देनाध्ययनम् अपि गृह्यते येन “जपो ऽहुतः” (म्ध् ३.६४) इत्य् अत्र वक्ष्यति । न च जपो ऽपि शिष्यान् अपेक्षते । सामान्येन च127 श्रुतं “स्वाध्यायेनर्षिभ्यः” इत्य् ऋणावेदनश्रुतौ (त्स् ६.३.१०.५) । अत उभे अध्यापनाध्ययने यथासंभवं ब्रह्मयज्ञः । तर्पणम् अन्नाद्येनोदकेन वेति वक्ष्यति (म्ध् ३.७२) । होमो वक्ष्यमाणाभ्यो देवताभ्यो ऽग्नौ । बलिः शिष्ट उलूखलादौ च । स भौतः । भूतादिदेवतास्येति भौतः । नामधेयम् एतत् कर्मविशेषस्य । दिवाचारिभ्यो भूतेभ्य इति हि तत्र बलिहरणं भूतशब्देन विहितम् । साहचर्यात् सर्व एष कर्मगणो भूतयज्ञशब्देनोच्यते । यथा चातुर्मास्येष्व् एकं हविर् वैश्वदेवम् आमिक्षा- कृत्स्नम् एव च पर्व वैश्वदेवेन यजेतेति । बलिशब्दो ऽनग्निहोमे वर्तते । देवेज्याबलिर् इति स्मरन्ति । अतिथीनां पूजनम् आराधनां नृयज्ञः ।
-
ननु च स्वाध्यायः कथं यज्ञः । न हि तत्र देवता इज्यन्ते नापि श्रूयन्ते । केवलं वेदाक्षराण्य् अविवक्षितार्थान्य् उच्चार्यन्ते । उक्तं चाम्नायशब्दाभ्यासे केचिद् आहुर् अनर्थकानीति ।
-
सत्यम् । स्तुत्यां यज्ञसब्दो भाक्तः महच्छब्दश् च । अतिथिपूजायाम् अपि भाक्तो128 यज्ञशब्दः । यद्य् अप्य् अतिथेर् देवतात्वं संभवति, तथाप्य् उत्पत्तौ भोजयेत् पूजयेद् इति च श्रुतं नातिथिभ्यो यजेतेति । यथा “पुरुषराजाय129 यत् कर्म वा” इति ।
-
एते पञ्चयज्ञा न युगपत् प्रयोज्याः, एकाधिकारासंबन्धात् पृथग् अधिकारश्रवणात् । एकाधिकारसंबन्धत्वे त्रिषु चतुर्षु वा कृतेषु न किंचित् कृतं स्याद् यावत् कृतं च न क्र्तं । यथाग्नेयाग्नीषोमीयोपांशुयागानां दर्शपूर्णमासयागानाम् एकद्व्यनुष्ठाने नाधिकारसिद्धिः । यथात्रैव वैश्वदेवहोमे स्विष्टकृदन्तानां देवतानां कस्यांश्चिद् अन्तराये न होमाधिकारनिर्वृत्तिः । एकैकस्य चात्राधिकारः श्रुतः । “स्वाध्याये नित्ययुक्तः स्यात्” (म्ध् ३.६५), “दैवे च नित्ययुक्तः स्यात्” (म्ध् ३.६५) इति । अधिकारपदानुषङ्गेण पृथक्प्रयोगः । आतिथ्ये चाधिकारान्तरं श्रुतं “धन्यं यशस्यम्” (म्ध् ३.९६) इति ।
-
तत्र चत्वारः स्वाधीनाः, आतिथ्यं तु संनिहिते ऽतिथौ । न चातिथिर् निमन्त्रयितव्यः, आतिथ्याभावात् । स्वयम् उपस्थितो ह्य् अतिथिर् भवतीति वक्ष्यामः । तस्मात् पञ्चानाम् अन्यतमानुष्ठाने इतरेषाम् अननुष्ठानाद् यदि नाम प्रत्यवेयान् न तु कृतं अकृतं भवति । अतो ऽनग्निकत्वाद् वैश्वदेवे ऽनधिकृतस्य स्वाध्यायोदकतर्पणादौ भवत्य् एवाधिकारः । अग्निपरिग्रहस्य च स्मृत्यन्तरे कालान्तरस्यापि श्रुतत्वान् नावश्यं विवाह एव परिग्रहः । एवं हि स्मृतिः “भार्यादिर् अग्निर् दायादिर् वा” (ग्ध् ५.७) इति ।
-
ननु चाकृतविवाहस्य दायकालम् आधानं भविष्यति ।
-
भवति ह्य् एतद् एवं यद्य् आधानविधिः130 स्वार्थः स्यात् । अग्न्यर्थं त्व् आधानम् । अग्निश् च कर्मार्थः । कर्माणि च भार्याद्वितीयस्य, न केवलस्य, श्रुतानि । यद् अपि131 कैश्चिद् गृह्यकारैः परमेष्ठिप्राणाग्निम् आधाय श्राद्धं कुर्याद् इत्य् उक्तं भवति, तद् अपि सभार्यस्यैव । स एवास्य दायकालः । न चानग्निकस्य श्राद्धं नास्ति । अनुपनीतस्यापि ह्य् एतद् विहितम् “अन्यत्र स्वधानिनयनात्” (ग्ध् २.५) इति । न च तस्याधानम् अस्ति, विदुषो ऽधिकाराद् इदानीं चाविद्यत्वात् । श्राद्धं तु वचनान् निषादस्थपतिवद् यथाशक्ति कार्यम् इति । पितृव्यादिनाग्निपरिग्रहे तु विदुषां संभवान् नावैद्यस्याधिकारः । अथ श्राद्धप्रकरण एवाग्न्याधानं विहितं तदा तदङ्गत्वेनाधाय निष्पन्ने श्राद्धे परित्यागो भविष्यति ।
- केचित् तु स्मृत्यन्तरम् उदाहरन्ति- “लौकिके ऽप्य् अग्नौ वैश्वदेवहोमः कर्तव्यः” । शुष्कान्नैर् अपरे ॥ ३.६० ॥
पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः ।
स गृहे ऽपि वसन् नित्यं सूनादोषैर् न लिप्यते ॥ ३.६१ ॥
मेधातिथिः ...{Loading}...
नित्यत्वम् अत्र विधीयते । अन्यद् अनूद्यते । विगुणा अप्य् एते यथाशक्ति कर्तव्याः । एतद् अपि नित्यत्वात् प्राप्तम् एव । तस्माद् यथासंभवं शक्तित इति । आद्यादित्वात् तसिः । हापयतीति प्रकृत्यर्थ एव, णिजर्थस्याविवक्षितत्वात् । अथ वा हननं हा, संपदादित्वात् क्विप्, ताम् आपयतीति ण्यत्, आप्नोतेः कर्तरि क्विप्, तदन्तात् प्रातिपदिकाद् धात्वर्थे णिच् । न हापयति न त्यजेद् इत्य् अर्थः । स्वगृहे वसन्न् अवश्यभाविनीषु सूनासु न तत्पापेन संबध्यत इति प्रशंसा ॥ ३.६१ ॥
देवतातिथिभृत्यानां पितॄणाम् आत्मनश् च यः ।
न निर्वपति पञ्चानाम् उच्छ्वसन् न स जीवति ॥ ३.६२ ॥
मेधातिथिः ...{Loading}...
अननुष्ठाननिन्दया प्रकृतविधिस्तुतिः । केचिच् चतुर्थ्या पठन्ति-
-
देवतातिथिभृत्येभ्यः पितृभ्यश् चात्मने तथा ।
-
न निर्वपति पञ्चभ्यः ॥ इति ।
निर्वापो ह्य् अत्र दानम्, न तादर्थ्योपकल्पनमात्रम् । तत्संबन्धेन प्रधानत्वाच् चतुर्थी युक्ता । एतेभ्यो यः प्रत्यहं न ददात्य् उच्छ्वसन्न् अपि प्राणन्न् अपि श्वासप्रश्वासवान् अपि न जीवति मृत एव, जीवितफलाभावात् । भृत्याश् चात्र “वृद्धौ तु मातापितरौ” (म्ध् ११.५ अद्देद् वेर्से) इति श्लोकनिर्दिष्टा वेदितव्याः, न दासाः, कर्मनिमित्तत्वात् तेभ्यो दानस्य । अथ वा गर्भदासादयो वार्द्धके कर्मस्व् अशक्ता अपि नियमतो लक्ष्यन्ते । भरणं जीर्णगवादीनाम् अवश्यम् इति विभागे वक्ष्यामः । उक्तं च गौतमेन “भर्तव्यस् तेन क्षीणवृत्तिः” (ग्ध् ६१) । देवताभ्यश् च निर्वापो ऽग्नौ होमः, स्थण्डिले च बलिहरणं तु वैश्वदेवेभ्यो दर्शपूर्णमासदेवताभ्य इति वा132 “अग्नये त्वा जुष्टं निर्वपामि” इति संबन्धाद् अन्यः को वास्ति निर्वापः । अतो देवताग्रहणेन गृहीतत्वाद् भूतानां133 पृथग् उपादानम् । आत्मग्रहणं दृष्टान्तः । यथात्मनो भोजनेन विना नास्ति जीवितं तदर्थम् अन्नोपयोगो ऽवश्यंभावी जीवितस्येष्टविषयत्वात् “सर्वत एवात्मानं गोपायेत्” (ग्ध् ९.३४) इति विधेश् च, एवं देवतादिभ्यो ऽपीति ॥ ३.६२ ॥
अहुतं च हुतं चैव तथा प्रहुतम् एव च ।
ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते ॥ ३.६३ ॥
मेधातिथिः ...{Loading}...
एतैः शब्दैः कस्यांचिद् वेदशाखायाम् एतेषां विधानम् । अतः श्रुतिमूलतां पञ्चयज्ञविधानस्य दर्शयितुं तत्प्रसिद्ध्या पुनर् निर्दिशति । यश् चाहुतादिशब्दैर् उद्दिश्य तत्प्रकरणे वा कश्चिद् धर्मो विहित इति नोक्तः सो ऽपि ग्रहीतव्य इति संज्ञान्तरनिर्देशे द्वितीयं प्रयोजनम् । यथा ब्रह्मयज्ञश्राद्धोद्वाहपरिक्रियेत्यादि ॥ ३.६३ ॥
जपो ऽहुतो हुतो होमः प्रहुतो भौतिको बलिः ।
ब्राह्म्यम् हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ॥ ३.६४ ॥
मेधातिथिः ...{Loading}...
यो ऽयम् अहुतो नाम यज्ञ उक्तः स जपो वेदितव्यः । “स्वाध्यायेनार्चयेद् ऋषीन्” (म्ध् ३.७१) इति श्रवणाद् वेदाध्ययनं जपार्थः । यद् वा मानसे व्यापारे स्मरणम् । उभयत्रापि जपतिः पठ्यते- व्यक्तायां वाचि मानसे चेति । अग्नौ होमो हुतम् । भूतबलिः प्रहुतम् । यद्य् अप्य् अयं134 होमस् तथाप्य् अग्नौ बाहुल्येन होमानां प्रसिद्धेर् भूतयज्ञो न होम इत्य् आशङ्कायां प्रहुत इत्य् उक्तम् । प्रकर्षेणासौ होम इति स्तुत्या । द्विजाग्र्यानां ब्राह्मणानाम् अर्चा ब्राह्म्यं हुतम् । आतिथ्यकर्म द्विजाग्र्यार्चा ॥ ३.६४ ॥
स्वाध्याये नित्ययुक्तः स्याद् दैवे चैवेह कर्मणि ।
दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम् ॥ ३.६५ ॥
मेधातिथिः ...{Loading}...
यद् उक्तं पञ्चसु महायज्ञेष्व् एकैकस्मिन् पृथगधिकारो न समुदाय एको ऽधिकार इति, तद् अनेन प्रकटीक्रोति । यदा दारिद्र्यादिदोषाद् अन्यतो वा कारणात् कथंचिद् असंपत्तौ नातिथ्यादिपूजा घटेत ततः स्वाध्याये नित्ययुक्तेन भवितव्यम् । दैवे कर्मणि135 । वैश्वदेवदेवताभ्यो ऽग्नौ होमो दैवं कर्म । भूतयज्ञपितृयज्ञयोः सत्य् अपि दैवत्वे प्रकरणाद् अग्नाव् एव होमो दैवम् उच्यते । अत्र अर्थवादम् आह । दैवे कर्मणि युक्तः तत्परो बिभर्ति धारयति चराचरं स्थावरं जङ्गमं च । सर्वस्य जगतः स्थितेर् हेतुर् भवतीत्य् अर्थः ॥ ३.६५ ॥
कथं पुनर् अग्न्याहुत्या सर्वस्य जगतः स्थितिर् भवतीत्य् अत आह ।
अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ ३.६६ ॥
मेधातिथिः ...{Loading}...
अग्नौ यजमानेन प्रास्ता क्षिप्ता आहुतिर् हूयमानं चरुपुरोडाशाद्य् उच्यते । आदित्यम् अदृश्येन रूपेण प्राप्नोति । सर्वरसानाम् आहर्तादित्यो ऽत आहुतिरसस्यादित्यप्राप्तिर् उच्यते । अतः स रस आदित्यरश्मिषु कालेन परिपक्वो वृष्टिरूपेण जायते । ततो** ऽन्नं** व्रीह्यादि । ततः प्रजाः सर्वप्राणिनः । एवम् अग्नौ जुह्वत् सर्वजगदनुग्रहे वर्तते यजमानः । पूर्वस्य विधेः शेषो ऽयम्, न पुनर् यथाश्रुतार्थनिष्ठः । तत्त्वे हि वृष्टिकामस्याधिकारः स्यात् । न च तच्छ्रुतम्136 । प्रकृतशेषतयान्वयसंभवे न कल्पनाया अवसरः ॥ ३.६६ ॥
यथा वायुं समाश्रित्य सर्वे जीवन्ति जन्तवः ।
तथा गृहस्थम् आश्रित्य वर्तन्ते इतराश्रमाः ॥ ३.६७ ॥
मेधातिथिः ...{Loading}...
अपरेण प्रकारेण महायज्ञानाम् अवश्यकर्तव्यतां दर्शयति । वायुः प्राणस् तम् आश्रित्य सर्वे जीवन्ति । न ह्य् अप्राणस्य जीवितम् अस्ति, प्राणधारणम् एव जीवनम् । जन्तुशब्दः प्राणिमात्रवचनः । सर्वग्रहणं देवर्षीणाम् अप्य् अतिशययुक्तानां वाय्वायत्तम् एव जीवनम् । एवं गृहस्थः प्राणतुल्यः सर्वाश्रमिणाम् । अतः सर्वोपजीवनीयेन भवितव्यम् इति विध्यर्थः । इतरग्रहणाद् यद्य् अपि गृहस्थाद् अन्य आश्रमिणः प्रतीयन्ते, तथापि न गृहस्थप्रतिषेधार्थम् एतत् । स्नातकस्य हि विशेषेणातिथ्यादिदानं विहितम् । तस्माद् इतरग्रहणं गृहस्थाश्रमतुल्यतार्थम् । न च श्रूयते नात्मनात्मनि वर्तन्ते शरीरकुटुम्बस्थितिं प्राप्नुवन्ति । इतरे च त आश्रमा इतराश्रमा इति समासः ॥ ३.६७ ॥
यस्मात् त्रयो ऽप्य् आश्रमिणो ज्ञानेनान्नेन चान्वहम् ।
गृहस्थेनैव धार्यन्ते तस्माज् ज्येष्ठाश्रमो गृहम् ॥ ३.६८ ॥
मेधातिथिः ...{Loading}...
यस्मात् त्रयो ऽप्य् आश्रमिणो ज्ञानेन वेदार्थव्याख्यानजन्येन अन्नेन च धार्यन्त उपक्रियन्ते137 गृहस्थेन तस्माज् ज्येष्ठः श्रेष्ठ आश्रमो गृहम् । गृहीति पाठे बहुव्रीहिः, गृहम् इति पाठे विशेषणसमासो ज्येष्ठाश्रम इति । अत्रापि गृहस्थैर् एवेत्य् औचित्यानुवादः, न वानप्रस्थादीनाम् अध्यापनादिप्रतिषेधः । वानप्रस्थस्य तावद् विहितम् एतत् “एतान्138 एव महायज्ञान् निर्वपेत्” (म्ध् ६.५) इति । प्रव्रजितस्य यद्य् अपि “समो भूतेषु हिंसानुग्रहयोः अनारम्भी” (ग्ध् ३.२४–२५) इत्य् अनुग्रहः प्रतिषिद्धस् तथापि वेदार्थव्याख्यानं भिक्षुशात्रे विहितम् । ज्ञानवैराग्यभावनाभ्यासातिशयविधानाच् च तयोर् नातिप्रयत्नो वेदार्थव्याख्याने । ब्रह्मचारिणस् स्वार्थलोपान्139 नाध्यापकत्वम्, भैक्षवृत्त्युपदेशाच् च कुतो ऽन्नदानम् । अतो गृहस्थानाम् एव प्रायेण तत्संभवाद् एवम् उक्तं गृहस्थैर् एव ॥ ३.६८ ॥
स संधार्यः प्रयत्नेन स्वर्गम् अक्षयम् इच्छता ।
सुखं चेहेच्छतात्यन्तं140** यो ऽधार्यो दुर्बलेन्द्रियैः ॥ ३.६९ ॥**
मेधातिथिः ...{Loading}...
स गृहाश्रमः । प्रयत्नेन संधार्यो ऽनुष्ठेयो ऽक्षयस्वर्गकामेन्एह च सुखम् इच्छता । अत्यन्तं यस्य सुखस्यान्तो नास्ति141 । अत्यन्तशब्दो नित्यतां गमयति । य आश्रमो ऽधार्यो ऽशक्यो142 धारयितुं दुर्बलेन्द्रियैः ।
- एतद् उक्तं भवति । यतः स्त्रीसंभोगसुसंस्कृतभोजनादि गृहस्थस्यावश्यंभावि ततश् चेन्द्रियाणां विषयसक्तौ दोषः, अत उच्यते-143 प्रयत्नेन आश्रमान्तरेभ्यो धारयितव्यः । अत्रापि महान् इन्द्रियसंयमः । अनृतौ न गन्तव्यम्, परदारा न गन्तव्याः, शेषान्नं भोक्तव्यम् । विषयसंनिधाने यो नियमः स दुष्करः ।
- स्वर्गम् अक्षयम् इति । नानेन सर्वेषां गृहस्थकर्मणां स्वर्गफलतोच्यते, केषांचिन् नित्यत्वात् केषांचित् फलान्तरश्रवणात् । ये ऽप्य् अश्रुतफलाः स्वर्गफलतया कल्प्यन्ते तेषाम् अपि केवलानाम् अनुवादे न कश्चिद् विशेषणे हेतुः । तस्माद् विहिताभिप्रेतफलानुवादो ऽयम् । न चाधिकारान्तरम् इदम् । तेषाम् एव यावज्जीविकं स्वर्गकामस्येति च शक्यं वक्तुम् । सुखं चेहेच्छता इत्यविधेयेन तुल्यत्वावगमात् । न हीह सुखकामेनेत्य् एतच्144 छक्यं कर्मफलतया ज्ञातुम्, विशेषस्यानिर्देशात् । सर्वा हि प्रीतिर् ग्रामपुत्रादिलाभैर् विशेषैर् अवच्छिन्ना प्रतीयते । अनवच्छेदेन प्रीतिमात्रं चेत् स्वर्ग एव । न च तस्यैहिकत्वम् । तस्माद् दृष्टसुखाप्तिकामानुवादो ऽयम् । अनिकेता ह्य् अन्य आश्रमिणो वृक्षमूलनिकेतनाः परगृहवासिनो दुःखम् आसते । तस्माद् अयं तावद् अनुवादः ॥ ३.६९ ॥
तत्तुल्यतयायम् अप्य् अनुवाद एव ।
ऋषयः पितरो देवा भूतान्य् अतिथयस् तथा ।
आशासते कुटुम्बिभ्यस् तेभ्यः कार्यं विजानता ॥ ३.७० ॥
मेधातिथिः ...{Loading}...
एते कुटुम्बिभ्यो गृहिभ्यः सकाशाद् अर्थयन्ते आदित्सन्ति145 । आत्मोपकारलिप्साशासनम् आकाङ्क्षा । अतस् तेभ्यो देवादिभ्यः कार्यं कर्तव्यं विहितहोमादि विजानता शास्त्रस्थितम् । कुटुम्बं दाराः । प्राकृतपुरुषेणापि या महायासोपनिबद्धा सा न युक्ता विफलीकर्तुं किं पुनर् देवतास्तुतिः ॥ ३.७० ॥
स्वाध्यायेनार्चयेतर्षीन् होमैर् देवान् यथाविधि ।
पितॄञ् छ्राद्धैश् च नॄन् अन्नैर् भूतानि बलिकर्मणा ॥ ३.७१ ॥
मेधातिथिः ...{Loading}...
“स्वाध्यायम् अधीयीत” (आश्ग् १.१.४) इति य एवार्थः स एव स्वाध्यायेनार्चयेद् ऋषीन् इति । यद्146 भवति श्राद्धादरेण पाद्यार्घमाल्यानुलेपनेन तद् अर्चोच्यते147 । स्तुतिवचनं चेदम् । न चोभयोर् अपि स्वाध्यायऋषिपूजयोः करणम् । अग्न्यादिदेवतास् तावका मन्त्रा ऋषीन् अभिष्टुवन्ति । तस्मात् प्रशंसामात्रम् ऋषीन् स्वाध्यायेनार्चयेद् इति ।
- अथ वा नेह मरीच्यादय ऋषयो ऽभिप्रेताः, किं तर्हि वेदा एव । स्वाध्यायशब्दश् च क्रियाशब्दो नात्र वेदवचनो यथा “स्वाध्याहो ऽध्येतव्यः” (ता २.१५) इति । तेनैतद्148 उक्तं भवति “अध्ययनेन वेदान् पूजयेत्” यथाविध्य् अभ्यसेत्,149 अन्यथा पूजाया असंभवात् । अत्राप्य् अर्चा भाक्त150 एव151 । न हि होमे152 देवता प्रधाना, कारकं हि देवतेति ।
- पितिॠन् श्राद्धेन । अत्र यथाश्रुत एव नियोगः । स च श्राद्धविधौ निर्णेष्यते । नॄन् अतिथिभिक्षुप्रभृतीन् अर्चयेत्153 । अर्चापूर्वकम् अन्नं तेभ्यो दद्याद् इत्य् अर्थः ॥ ३.७१ ॥
दद्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन वा ।
पयोमूलफलैर् वापि पितृभ्यः प्रीतिम् आवहन् ॥ ३.७२ ॥
मेधातिथिः ...{Loading}...
दद्यात् कुर्यात् । अहर् अहः प्रतिदिवसम् । श्राद्धम् । नाम्ना धर्मातिदेशः । श्राद्धं नाम पित्र्यं कर्मामावास्यायां विहितम् । तदीयेतिकर्तव्यता श्राद्धम् इत्य् अनेन नाम्नातिदिश्यते । अन्नाद्येनेति । “तिलैर् व्रीहियवैः” (म्ध् ३.२५७) इत्यादेर् अनुवादो ऽयम् । उत्तरत्र विवक्षितार्थः । उदेकेनेति । पयः क्षीरम् ॥ ३.७२ ॥
एकम् अप्य् आशयेद् विप्रं पित्रर्थं पाञ्चयज्ञिके ।
न चैवात्राशयेत् किंचिद् वैश्वदेवं प्रति द्विजम् ॥ ३.७३ ॥
मेधातिथिः ...{Loading}...
श्राद्धशब्देन विधानात् सर्वस्मिंस् तद्विधाने प्राप्ते कश्चिद् इतिकर्तव्यताभागो निवर्त्यते न चैवात्राशयेत् किंचित् । नात्रान्वाहिके श्राद्धे वैश्वदेवं प्रति विश्वान् देवान् उद्दिश्य द्विजभोजनम् ।
-
अत्र केचिद् आहुः । प्राप्ते भोजन आशयेद् इति पुनर्वचनम् अपूर्वत्वम् अस्य दर्शयति । तेनैतावद् एवैतच् छ्राद्धं यत् पितॄन् उद्धिश्य ब्राह्मण एको भोज्यते, न त्व् अन्या काचिद् अर्घपात्रादिहोमाद्येतिकर्तव्यतास्ति । ब्रह्मचर्यं स्वाध्यायनिषेध इत्य् एवमादि न भवति ।
-
एकम् अप्य् आशयेद् विप्रम् । त्रयाणां नियमाद् एकैकम् उभयत्रेत्य् अस्याविधित्वाद् अप्राप्त एको विधीयते । एकम् अपि भोजयेत्, सति संभवे बहून् अपि । पित्रर्थं पितृतृप्त्यर्थम् । पाञ्चयज्ञिकम् । पञ्चयज्ञभवं पाञ्चयज्ञिकं तदन्तर्गतम् । पाञ्चयज्ञिकशब्दः श्राद्धे प्रयुक्तः । न ह्य् एतत् पाञ्चयज्ञिकं तर्पणम् । तेन तर्पणभोजनयोः समुच्चयः । अस्य तु विकल्पो भविष्यति “यद् एव तर्पयत्य् अद्भिः” (म्ध् ३.२७३) इति ॥ ३.७३ ॥
वैश्वदेवस्य सिद्धस्य गृह्ये ऽग्नौ विधिपूर्वकम् ।
आभ्यः कुर्याद् देवताभ्यो ब्राह्मणो होमम् अन्वहम् ॥ ३.७४ ॥
मेधातिथिः ...{Loading}...
विश्वेदेवार्थो वैश्वदेवः पाक उच्यते । सर्वार्थो विश्वदेवशब्दो ऽपि संप्रदानमत्रोपलक्षणार्थः । तेनातिथ्याद्यर्थताप्य् उक्ता154 भवति । सिद्धस्य होमम् आभ्यो वक्ष्यमाणाभ्यो देवताभ्यः कुर्यात् । सिद्धशब्देन “देवतोद्देशेन देवस्य त्वेति मन्त्रवान् निर्वापो न कर्तव्यः” इति दर्शयति, केवलं सर्वार्थे निष्पन्नपाके155 होमादि कर्तव्यम् इति विध्यर्थः । गृह्ये । यथाविधिहोमादिकरणनिर्देशः156 । विधिपूर्वकं समाचारप्राप्तां परिसमूहनपर्युक्षणादिरुपाम् इतिकर्तव्यताम् आह । ब्राह्मणशब्दस् त्रैवर्णिकाधिकारप्रदर्शनार्थः157 । अन्वहं नित्यम् इत्य् अर्थः । देवताग्रहणं स्वाहाकारप्राप्त्यर्थम् । षष्ठीनिर्देशाद् अग्नेर् इदम् इति प्रयोगः स्यात् । देवताशब्देन तु स्वाहाकारेण वा देवेभ्यो हविः संप्रदीयत इति । याज्यान्ते पुनर् वषट्कारस्य विधानात्, स्मार्तहोमे त्व् अभावः । स्वाहाकारस् तु सर्वत्र । तस्मिंश् च सति “अग्नये स्वाहा” इति प्रयोगः ॥ ३.७४ ॥
अग्नेः सोमस्य चैवादौ तयोश् चैव समस्तयोः ।
विश्वेभ्यश् चैव देवेभ्यो धन्वन्तरय एव च ॥ ३.७५ ॥
मेधातिथिः ...{Loading}...
आदाव् इत्य् अनुवादः । पाठक्रमेणैवाग्नेर् आदौ सिद्धत्वात् ते पृथग् आहुती । तयोश् च समस्तयोर् अग्नीषोमाभ्याम् इति, विश्वेभ्यो देवेभ्य इति प्रयोगः । एकैवाहुतिर् धन्वन्तरये स्वाहा ॥ ३.७५ ॥
कुह्वैः चैवानुमत्यै च प्रजापतय एव च ।
सह द्व्यावापृथिव्योश् च तथा स्विष्टकृते ऽन्ततः ॥ ३.७६ ॥
मेधातिथिः ...{Loading}...
सह द्व्यावापृथिव्योः द्व्यावापृथिवीभ्यां स्वाहेति । तथा स्विष्टकृते ऽन्ततः । स्विष्टकृद् इति गुणपदम् । अग्निश् च गुणीभूतः स्वतः । स्मृत्यन्तरे “अग्नये स्विष्टकृते” इति वचनात्, श्रुतौ158 सर्वहोमेष्व् एव चाम्नानात् । अन्तत इति पाठात् सिद्धे वचनं स्मृत्यन्तरे ऽधिकानाम्159 आहुतीनाम् आम्नानात् सति समुच्चये प्राक् स्विष्टकृत आवापः कर्तव्य इति दर्शयितुम् ।
-
ननु चैकत्वाद् धोमस्य देवताविकल्पो युक्तः ।
-
कुतः पुनर् एकत्वं होमस्य । इयम् एव होमानाम् उत्पत्तिः “अग्नेः सोमस्य च” (म्ध् ३.७५) इत्यादि । तत्र चोत्पत्ताव् एव देवताविशेषेणावरुद्धत्वाद् भिन्ना एव होमाः प्रतीयन्ते ॥ ३.७६ ॥
एवं सम्यग् घविर् हुत्वा सर्वदिक्षु प्रदक्षिणम् ।
इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ॥ ३.७७ ॥
मेधातिथिः ...{Loading}...
सम्यग् अनन्यचित्ततया देवताध्यानपरः । एवम् एताभ्यो देवताभ्यो ऽग्नौ हुत्वा ततः सर्वासु दिक्षु यथासंख्यं प्रदक्षिणं । पर्थमं प्राच्यां ततो दक्षिणस्यां इत्य् एष प्रदक्षिणावर्तः160 । इन्द्रः अन्तिकः अप्पतिः इन्दुः प्रतिदिशम्161 ।
-
अपरश् चाह- अहविर्भाग् इन्दुर् इति । यदि नैतेन शब्देन बलिहरणं स्यात् कथम् इन्दोर् हविर्भाक्त्वम् । बलिहरणं च होम एवेति व्याख्यातम् ।
-
वृत्तभङ्गभयाच् चात्र न शब्दस्य रूपविवक्षेति स्मृत्यन्तरोपात्तैर् एव शब्दैर् उद्देशः कर्तव्यः ।
-
सनुगेभ्यः । अनुगा अनुचरास् तत्पुरुषाः। तथा चेन्द्रपुरुषेभ्य इत्यादि प्रयोगः ॥ ३.७७ ॥
मरुद्भ्य इति तु द्वारि क्षिपेद् अप्स्व् अद्भ्य इत्य् अपि ।
वनस्पतिभ्य इत्य् एवं मुसलोलूखले हरेत् ॥ ३.७८ ॥
मेधातिथिः ...{Loading}...
अत्रेतिकरणः रूपविवक्षार्थः । अप्स्व् इत्य् अधिकरणम् । अद्भ्य इति देवतानिर्देशः । वनस्पतिभ्य इति मुसलोलूखले । द्वन्द्वैकवद्भावे न विकल्पितम् आधारद्वयम् । निर्देशगुणवृत्त्या प्रधानभूताया आहुतेर् आवृत्तिर् युक्ता । न च मुसलोलूखलस्यैकीकृतस्याहुतिसंबन्धः शक्यः कर्तुम्, पृथक्त्वस्य तत्राप्य् उपलम्भात् । न हि क्षीरोदकवत् अनयोर् व्यामिश्रणसंभवः । तत्र यद्य् उलूखले क्रियते नेतरत्र होमः कृतः, अथोलूखले न मुसले । न च भागश आहुतिः संभवति नियतपरिमाणत्वात् । द्वन्द्वनिर्देशो ऽत्र संयुक्तयोर् अन्यतरत्र होमो युक्तः ॥ ३.७८ ॥
उच्छीर्षके श्रियै कुर्याद् भद्रकाल्यै च पादतः ॥
ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥ ३.७९ ॥
मेधातिथिः ...{Loading}...
उच्छीर्षकं प्रसिद्धदेवताशरणं शीर्षस्थानम्, तत्र श्रियै बलिं कुर्यात् । पादतः अधोभागे गृहस्य भद्रकाल्यै । तस्या अपि स्थानं द्वारस्य पूर्वभागे ।
-
अन्ये उच्छीर्षकं गृहशयनस्य शिरोभागम् आहुः, पादौ चस्याधोभागम् । तेन खट्वादाव् अयं होमः, भूप्रदेशे वा गृहस्थशयनस्थाने ।
-
ब्रह्मवास्तोष्पतिभ्याम् । सत्य् अपि द्वन्द्वनिर्देश्ē पृथग् एते आहुती, ब्रह्मणे वास्तोष्पतय इति च । यत्र तूभयदेवतात्वम् अग्नीषोमवत् तत्र सहग्रहणं समस्तग्रहणं वा करोति, “तयोश् चैव समस्तयोः” (म्ध् ३.७५), “सह द्यावापृथिव्योश् च” (म्ध् ३.७६) इति अप्रसिद्धसाहचर्यात्162 । वास्तु गृहम्, तन्मध्ये ॥ ३.७९ ॥
विश्वेभ्यश् चैव देवेभ्यो बलिम् आकाश उत्क्षिपेत् ।
दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ॥ ३.८० ॥
मेधातिथिः ...{Loading}...
चशब्दाद् एकैवेयम् आहुतिः । विश्वेभ्यो देवेभ्य इति गृहाकाशे, गृहान् निष्क्रम्य वा । दिवा दिवाचारिभ्यः, नक्तं नक्तंचारिभ्यः । भूतेभ्य इत्य् अनुषज्यते ।
- केचिद् एते आहुती सायंप्रातर् विभागेनाहुर् दिवाचारेभ्य163 इति ।
-
तद् अयुक्तम् । सायम् अमन्त्रहोमं वक्ष्यति ।
-
एतेन मन्त्रप्रतिषेधेन शब्दोद्देश्यता मा भून् मानसस् तूद्देशः केन निवार्यते । न च तेन विना होमसिद्धिः ।
-
एतद् एव तु वक्तव्यं कृतो ऽयं विभागावगमः ।
-
गृह्यकारैर् एवेति चेत्, अस्तु ॥ ३.८० ॥
पृष्ठवास्तुनि कुर्वीत बलिं सर्वान्नभूतये[^१६५]** ।**
पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् ॥ ३.८१ ॥
मेधातिथिः ...{Loading}...
पूर्वयोर् आहुत्योः शेषो ऽयम् । आधारविधानार्थम् आद्यो ऽर्धश्लोकः164 । आवासकस्योपरि य आवासस् तत् पृष्ठवास्तु । एकशालाया अप्य् उपरिभागः । तत्र बलिं कुर्वीत दिवाचारिभ्यो नक्तंचारिभ्यश् च । सर्वान्नभूतये । तादर्थ्ये चतुर्थी, न संप्रदाने । होमाद्यश्रुतत्वाद् बलिशब्दस्य पूर्वशेषत्वाद् आधारापेक्षत्वाच् च पूर्वयोर् आहुत्योः । न क्वचिद् अपि वैश्वदेवे “सर्वान्नभूतिर्” देवतात्वेन स्मृत्यन्तरे श्रुता । तस्माद् अयम् अस्यार्थः । सर्वेषाम् अन्नानां कॢप्त्यर्थम् एतच् च कर्तव्यम्, एतस्मिन् बलिहरणे कृते सर्वाण्य् अन्नानि भवन्ति । अवयवप्रसिद्ध्या त्व् अर्थावगम उपपद्यमाने समुदायार्थकल्पनम् उक्तम् । देवतापेक्षया वा ऽदृष्टः कश्चिद् अर्थः कल्पयितव्यः । बलिशेषं । शेषग्रहणात् पात्रे समुद्धृत्य ततो होमः कर्तव्यः, न तु स्थालीस्थाद् एव बलिदानानि ग्रहीतव्यानि । दक्षिणतः दक्षिणस्यां दिशि, तदभिमुख इति यावत् । सर्वं यावन् मात्रं गृहीतम्165 ॥ ३.८१ ॥
शुनां च पतितानां च श्वपचां पापरोगिणाम् ।
वायसां च166** कृमीणां च शनकैर् निर्वपेद् भुवि ॥ ३.८२ ॥**
मेधातिथिः ...{Loading}...
अन्नं पात्रे समुद्धृत्य श्वादीनाम् उपकाराय भुवि निःक्षिपेत् । पापरोगिणः कुष्ठिक्षय्यादयः167 । वयांसि पक्षिणः । शनकैर् भूम्युत्थितरजसा यथा न संसृज्येत । भूग्रहणं न पात्रप्रतिषेधाय, किं तर्हि श्वपचपतितकुष्ठिभ्यो न हस्ते दातव्यम् । उपकारविधानं चेदम् । अत एव षष्ठ्यायं श्लोकः पठ्यते, न चतुर्थ्यन्तेन । पक्षिणां तादृग्देशे विधातव्यं यत्राबिभ्यतः श्वादिभ्यः168 खादन्ति । कृमीणाम् इति तादृशे देशे यत्र तेषां संभवः ॥ ३.८२ ॥
एवं यः सर्वभूतानि ब्राह्मणो नित्यम् अर्चति ।
स गच्छति परं स्थानं तेजोमूर्तिः पथर्जुना ॥ ३.८३ ॥
मेधातिथिः ...{Loading}...
पूर्वस्योपसंहारः । सर्वग्रहणाद् अन्येषाम् अपि मृगकुक्कुटमार्जारादीनां ग्रामे संभवताम् अन्नेनोपकर्तव्यम् । अर्चतिर् अनुग्रहे169 न पूजायां, श्वादीनां तदसंभवात् । अवज्ञानप्रतिषेधार्थं चैवम् उपात्तम्, नानुगृह्णातीति पठितम् । परं स्थानं धाम ब्रह्म प्राप्नोति170 । पथर्जुना । न संसारयोनीर् बह्वीर् भ्राम्यति ।
-
किं पुनर् एतत् फलविधानम् ।
-
नेति ब्रूमः । नित्यो ऽयं विधिर् इत्य् उक्तम् । नित्ये च फलश्रवणम् अर्थवादः । न ह्य् अत्र विधिः श्रूयते । गच्छतीति वर्तमानापदेशो ऽयम् ।
-
तेजोमूर्तिः केवलतेजःशरीरः, न पाञ्चभौतिकं शरीरम् अभिसंबध्यते, बोधस्वभाव एव भवति । निष्कल्मषता वानेन लक्ष्यते । शुद्धप्रकृतिर् भवतीत्य् अर्थः । भूतानुकम्पनं चेदम् । असति शास्त्रातिक्रमे पापसंबन्धस्याभावाच् छुद्धता युक्ता । इतरथा पापस्य मलरूपत्वान् न तेजोमूर्तिः । असति च पापे परं धाम श्रेष्ठम् अदुःखरूपं प्राप्नोतीत्य् एतद् अपि युक्तम्171 एव ॥ ३.८३ ॥
कृत्वैतद् बलिकर्मैवम् अतिथिं पूर्वम् आशयेत् ।
भिक्षां च भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ॥ ३.८४ ॥
मेधातिथिः ...{Loading}...
अतिथिलक्षणं वक्ष्यति । तम् अभ्यागतं सन्तं पूर्वम् आशयेद् भोजयेत्, सर्वभोक्तृभ्यो गृहसंनिहितेभ्यः । भिक्षां भिक्षवे च याचमानाय दद्यात् । भिक्षाशब्देन स्वल्पपरिमाणम् अन्नदानम् उच्यते । उक्तं हि “प्रसृतिर् भिक्षा” । अन्तःपुरप्रसिद्धं चैतत् । ब्रह्मचारिणे विधिवत् । अन्यस्मा अपि पाखण्डादिरूपाय भिक्षवे न विधिवद् दातव्या । ब्रह्मचारिणे तु विधिवत् स्वस्तिवाचनपूर्वं भिक्षादानम् इत्य् एष विधिः ।
- अथ वा भिक्षुः परिव्राड्, ब्रह्मचारी प्रथमाश्रमी । चशब्दश् चास्थाने वृत्तानुरोधात् । ब्रह्मचारिणे च इति पठितव्यम् । एवं तु वानप्रस्थाय न दानं स्यात् । तस्माद् भिक्षते172 इति भिक्षुः, तस्यैव विशेषणं ब्रह्मचारिग्रहणम् । तेन त्रिभ्यो ऽप्य् आश्रमिभ्यो भिक्षादानं नियमतो ऽनुज्ञातं भवति । पाखण्डादीनां तु पतितादिवत् । सर्वग्रहणेन भिक्षोपकारो यथाशक्ति विहित एव ॥ ३.८४ ॥
यत् पुण्यफलम् आप्नोति गां दत्त्वा विधिवद् गुरोः ।
तत् पुण्यफलम् आप्नोति भिक्षां दत्त्वा द्विजो गृही ॥ ३.८५ ॥
मेधातिथिः ...{Loading}...
नित्यं भक्तदानम् अर्थिने शक्तितो दातव्यम् । इदं त्व् अधिकारान्तरम् । यद् गुरवे गा दत्त्वा फलम् आप्नोति तद् भिक्षां दत्त्वा, गोव्रतस्याविशिष्टम् इति । स्मृत्यन्तरे सर्वफलता पापप्रमोचनार्थतापि गोदानस्य श्रुता । यावताम् अल्पोपकाराणां महोपकारैः फलसाम्यम् उच्यते, तेषां लोकवत् परिमाणतः फलविशेषो ऽवगन्तव्यः । प्राप्यते तद् एव फलम्, न तु चिरकालम् । आवाच्यो173 ह्य् अयं न्यायः- “पणलभ्यं हि कः174 प्राज्ञः क्रीणाति दशभिः पणैः” इति । समानफलत्वे महाप्रयासानर्थक्यं प्राप्नोति । “अगुर् यथाविधि” इति केचित् पठन्ति । तत्र नञल्पवचनो द्रष्टव्यो ऽल्पगुर् इति । । पुण्यं धर्मस् तस्य फलम् ॥ ३.८५ ॥
भिक्षाम् अप्य् उदपात्रं वा सत्कृत्य विधिपूर्वकम् ।
वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ ३.८६ ॥
मेधातिथिः ...{Loading}...
अथ विधिवद् इत्य् उक्तम्, सो ऽयं विधिर् उच्यते । अप्रकृतस्योदपात्रस्य श्रवणं सर्वदा नृणाम्, न भिक्षादानस्यैवेति दर्शयितुम् । सत्कृत्य पूजयित्वा । विधिः पूर्वो यस्य दानस्य तद् विधिपूर्वकम् । पूर्वशब्दः कारणवचनः । शास्त्रनिमित्तकम् एतद् इत्य् अर्थः । इतिकर्तव्यता वा विधिः, सा पूर्वं कर्तव्या । उक्तं च पूर्वं भिक्षादानम्, ददाति सत्कृत्य पूजयित्वा175 । वेदस्य तत्त्वार्थः पारमार्थिको निःसंशयो ऽर्थस् तं वेत्ति, तस्मै ब्राह्मणायोपपादयेद् दद्यात् । ब्राह्मणायेति जातिनियमः । विदुष इति गुणनियमः । तेन यत् किंचिद् दातव्यं तद् ब्राह्मणाय, तस्मै च वेदार्थविदे पूजापूर्वकम् इत्य् अर्थत्रयविधानं176 सर्वं ददात्य् अर्थोद्देशेन, पौरुषेयत्वान् नानाकारार्थविधानम् ॥ ३.८६ ॥
प्राप्ते दाने दोषः ।
नश्यन्ति हव्यकव्यानि नराणाम् अविजानताम् ।
भस्मभूतेषु177** विप्रेषु मोहाद् दत्तानि दातृभिः ॥ ३.८७ ॥**
मेधातिथिः ...{Loading}...
पूर्वेण यादृश्ē देयं तत् पत्रम् उक्तम् । अनेनापत्रे ददतः प्रतिषेधः । नश्यन्ति निष्फलानि भवन्ति । हव्यानि देवतोद्देशेन यानि ब्राह्मणभोजनादीनि क्रियन्ते । पित्र्यकर्माङ्गभूतान्य् अन्यानि कव्यानि श्राद्धानि । भस्मभूतेषु । भस्मतां प्राप्ता भस्मभूता । उपमाने वा भूतशब्दः, भस्मानीव, यथा काष्ठभूत इति । किं पुनर् भस्मना साम्यम् । यथा तन् न क्वचिद् उपयुज्यते ऽवकररूपम् अपोह्यम् एवम् ईदृशो ब्राह्मणः क्रियाभ्यो ऽपोहितव्य इति तात्पर्यार्थः । नराणाम् अविजानतां नश्यन्तीति संबन्धः । मोहाद् दत्तानि दातृभिः । अविजानतां मोहाद् इति चानुवादः । यच् छास्त्रेणापोहितं तन् मोहाद् एव क्रियते ॥ ३.८७ ॥
कीदृशाः पुनर् अभस्मभूताः । तान् आह ।
विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु ।
निस्तारयति दुर्गाच् च महतश् चैव किल्बिषात् ॥ ३.८८ ॥
मेधातिथिः ...{Loading}...
विद्यातपोभ्यां समृद्धास् तद्व्यतिरिक्ता भस्मभूताः । समृद्धिर् अतिशयिनी संपत्तिः । बहुविद्यय महता च तपसा युक्ता एवम् उच्यन्ते । समुदायसंबन्धिनी अपि विद्यातपसी संबन्धिसंबन्धाद् अवयवभूतमुखैः सामानाधिकरण्यं प्रतिपद्येते । विप्राणां मुखान्य् अग्नय इत्य् अत्र व्याघ्रादेर् आकृतिगणत्वात् समासः (च्ड़्। पाण् २.१.५६) । यथाग्नौ हुतं फलवद् भस्मनि हुतं निष्फलम्, एवम् ईदृशं भोजनं ब्राह्मणमुखनिक्षिप्तं हुतम् इति भोजनम् एव स्त्युत्योच्यते । यागहोमादि महाफलतया प्रसिद्धम् । अतः प्रख्याततमगुणेनाप्रख्यातम् उपमीयते । निस्तारयति दुर्गात् । दुर्गं व्याधिशत्रुराजपीडादिजीवितम् उपस्थितम् । ततो निस्तारयति रक्षति, न तेन संमृश्यते । महतश् च पापात् परलोके ऽपि नरकादिगतेस् त्रायते । न केवलम् आभ्युदयिककर्मेदृक्पात्रविषयम् । प्रायश्चित्तार्थम् अपि तद्गुणायैव दतव्यम् ॥ ३.८८ ॥
संप्राप्ताय त्व् अतिथये प्रदद्याद् आसनोदके ।
अन्नं चैव यथाशक्ति संस्कृत्य178** विधिपूर्वकम् ॥ ३.८९ ॥**
मेधातिथिः ...{Loading}...
संप्राप्ताय स्वयम् उपस्थिताय, न तु निमन्त्रिताय । न हि निमन्त्रितो ऽतिथिर् भवति । प्राप्तिदेशं च वक्ष्यति “भार्या यत्राग्नयो ऽपि वा” इति (म्ध् ३.९३) । आसनोदके दद्यात् । पादधावनोपयोगि प्रथमम् उदकं तत आसनं भोजनं च । यथाशक्ति संस्कृत्येत्य् अन्नविशेषणम् । सविशेषम् अन्नं संस्कृत्य दद्याद् भोजयेत् । विधिपूर्वकम् । विधिः पूर्वो यस्मिन् दाने तद् एवम् उच्यते । विधिः शास्त्रं तत् पूर्वं निमित्तं प्रमाणम् इत्य् अर्थः ॥ ३.८९ ॥
शिलान् अप्य् उञ्छतो नित्यं पञ्चाग्नीन् अपि जुह्वतः ।
सर्वं सुकृतम् आदत्ते ब्राह्मणो ऽनर्चितो वसन् ॥ ३.९० ॥
मेधातिथिः ...{Loading}...
अत्यन्तदरिद्रस्याप्य् अतिथिपूजाव्यतिक्रमो न युक्तः । शिलान् केदारलवनशेषान् । उञ्छत उच्चिन्वतः । एतच् च वृत्तिसंकोचोपलक्षणार्थम् । पञ्चाग्नीन् अपि जुह्वतः । अनेन शास्त्रानुष्ठानसंपन्नो ऽत्यन्तदरिद्रश् च यद्य् अतिथिम् आगतं न पूजयत्य् अन्नदानादिना, तदा तदनुष्ठानं स वृत्तिसंयमो निष्फलताम् एति । ततश् च सर्वं सुकृतं पुण्यम् आदत्ते अतिथिर् गृह्णाति निष्फलीकुरुते । अनर्चितो वसन् । तस्माद् अर्चयेद् इति विध्यर्थः । वसन्न् इति लिङ्गात् सायम् आगते विधिर् अयम् । पञ्चाग्नयस् त्रेता गृह्यः सभ्यश् च ।
-
अथ को ऽयं सभ्यो नामाग्निः ।
-
एवं ह स्माहुः । ग्रामान्तरे प्रोषितस्य यत्र लौकिकपाकः क्रियते महासाधनस्य बहुवेश्मसु यो गृह्यागाराद्179 एव शीतापनोदार्थं विह्रियते स सभ्यः ।
-
होमस् तर्हि तत्र कः ।
-
यावता “तस्मिन् गृह्याणि” (ग्ध् ५.८) इति नियमः । अस्माद् एव वचनात् वैश्वदेवहोमः प्रोषितस्य लौकिके ऽप्य् अस्तीति मन्यन्ते । व्रीहियवैः शुष्कधान्यैर् यत्र लेलिहानं सुसमिद्धं पश्येत् तत्राभिजुहुयाद् इति स्मृतिवचनम् उदाहरन्ति ।
-
इह भवन्तस् त्व् आहुः । उपनिषत्सु पञ्चाग्निविद्योक्ता । तत्र तेषां कल्पिताग्निरूपाणि । तद्रूपेण यद् उपासनं यच् च वेदनं स होम इति कल्प्यते । सा हि सर्वश्रौतेभ्यः कर्मभ्यो ऽतिशयफलेष्यते । एवं हि तत्राम्नायते “स्तेनो हिरण्यस्य सुरां पिबंश् च गुरोस् तल्पम् आवसन् ब्रह्महा च ते पतन्ति चत्वारः संसर्गी च” (छु ५.१०.९) । पञ्चानाम् अपि यत् फलं तद् अतिथाव् आराधिते ऽविमुखीकृते नश्यतीति प्रशंसातिशयेनावश्यकर्तव्यतां दर्शयति ।
-
यद्य् अपि प्रातराशे ऽप्य् अतिथिभोजननियमः, सायं तु तद्व्यतिक्रमे प्रायश्चित्ताधिक्यम् । यथाशक्तीति पूर्वश्लोके ऽन्नविषयं ये मन्यन्ते, त एवम् आहुर् यथाशक्त्य् अतिथयः पूजयितव्याः, एको द्वौ बहव इति ॥ ३.९० ॥
तृणानि भूमिर् उदकं वाक्चतुर्थी च सूनृता ।
एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ ३.९१ ॥
मेधातिथिः ...{Loading}...
यदि दारिद्र्यात् सायम् अन्नदानं न घटते तदा नैवं मन्तव्यम्- “प्रधानम् अतिथेर् भोजनम्, तच् च मे नास्तीति, किम् अनेन मद्गृहे प्रविष्टेन” इति । यतो ऽशक्तस्य तृणादिदानेनाप्य् आतिथिपूजाविधिः स्यात् । अथ वा नायं विधिर् भोजन एव पर्यवस्यति, किं तर्हि निवत्स्यतः शयनादि दातव्यम् । तृणग्रहणं स्रस्तरोपलक्षणार्थम् । भूमिर् आसनशयनविहारस्थानम् । सूनृता वाक् प्रियहितवचनं कथाप्रस्तावादि वा । एतान्य् अप्य् अन्नाभावे सताम् आगतस्यातिथेर् नोच्छिद्यन्ते, किं तु दीयन्ते सर्वकालम् ॥ ३.९१ ॥
एकरात्रं तु निवसन्न् अतिथिर् ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते ॥ ३.९२ ॥
मेधातिथिः ...{Loading}...
नातिप्रसिद्धो लोके ऽतिथिशब्दार्थ इति तदर्थलक्षणम् आह । एकरात्रं वसतः परगृहे ऽतिथित्वम् । तच् च ब्राह्मणस्य न जात्यन्तरे । द्वितीये ऽह्नि पूजाविधौ कामचारः । अभ्युदयविशेषार्थिनस् तदधिकारः, न नैयमिकः । तथा चापस्तम्बः- “एकरात्रिं वासयेत् पार्थिवांल् लोकान् अभिजयति द्वितीयाम् आन्तरिकांश् तृतीयां दिव्यान्” (आप्ध् २.७.१६) इति फलकामस्य द्वितीयादिरात्रिष्व् अधिकारं दर्शयति । अत्रैव निर्वचनं दार्ढ्यार्थम् आह- अनित्यं हि स्थितिः । तिष्ठतेर् अतिपूर्वस्यायं शब्दः । औणादिकैः कथ्ंचिद् व्युत्पत्तिः॥ ३.९२ ॥
नैकग्रामीणम् अतिथिं विप्रं सांगतिकं तथा।
उपस्थितं गृहे विद्याद् भार्या यत्राग्नयो ऽपि वा ॥ ३.९३ ॥
मेधातिथिः ...{Loading}...
एकस्मिन् ग्रामे यो वसति वैश्वदेवकलोपस्थितो ऽपि नातिथिः । सांगतिकः सहाध्यायी180 सख्युर् अन्यः । तस्य ह्य् उत्तरत्र विधिर् भविष्यति “वैशशूद्रौ सखा च” इति (म्ध् ३.१००) । यो ऽपि सर्वेण संगच्छते विचित्रपरिहासकथादिभिः, सांगतिकशब्देन युक्तः प्रतिषेद्धुं प्राग् अदृष्टपूर्वो ऽपि ।
-
न च गृहस्थस्य प्रोषितस्यास्य सर्वलक्षणलक्षितो ऽप्य् अतिथिः । किं तर्हि उपस्थितं गृहे विद्यात् । यत्रास्य नित्यं स्थानम्, वसतिस्थानम् यद् उच्यते । प्रोषितस्यापि भार्या यत्राग्नयश् च तत्रासंनिहितस्यापि गृहस्थस्य भवत्य् एवातिथिः । अतो यथा संविधायाग्निहोत्रदर्शपूर्णमासादिषु प्रवसति, तद्वद् अतिथये ऽपि संविधातव्यम् ।
-
वाशब्दात् त्व् एवं प्रतीयते । भार्याग्निभिः सह यदा प्रवासस् तदा भवत्य् एव ग्रामान्तरस्थस्याप्य् अतिथिः । असंनिहितस्यापि गृहे भार्याग्निषु सत्सु । ततश् च यदि भार्यया सह प्रवसेद् अग्नयश् च गृह एव भवेयुस् तदा नातिथिपूजानियम इति । वाशब्द उपस्थितं गृहे विद्याद् इत्य् एतदपेक्षया, न परस्परापेक्षया भार्याग्नीनाम् ॥ ३.९३ ॥
उपासते ये गृहस्थाः परपाकम् अबुद्धयः ।
तेन ते प्रेत्य पशुतां व्रजन्त्य् अन्नादिदायिनाम् ॥ ३.९४ ॥
मेधातिथिः ...{Loading}...
उपासनं तदभ्यासः । यो ब्राह्मणो ऽनयैव बुद्ध्या तत्र तत्रोपतिष्ठेत यथातिथिर् अवश्यं भोजनं लभेत तस्येयं निन्दा । यस् तच्छीलः परस्य संबन्धिनं पाकम् अन्नम् उपास्ते, न तु कदाचित् । तेन कर्मणा प्रेत्य पशुतां बलीवर्दादिजातिं व्रजति प्राप्नोति । अन्नादिदायिनस् तद्गृहे दन्तितां गर्दभताम् अश्वतां वा प्राप्नोति । गृहस्थस्यैष दोषः, उत्पन्नस्थालीपाकस्य ॥ ३.९४ ॥
अप्रणोद्यो ऽतिथिः सायं सूर्योढो गृहमेधिना ।
काले प्राप्तस् त्व् अकाले वा नास्यानश्नन् गृहे वसेत् ॥ ३.९५ ॥
मेधातिथिः ...{Loading}...
सायंकालो ऽस्तमयादिः प्रदोषान्तः । तस्यां वेलायाम् अतिथिर् आगतो ऽप्रणोद्यः अप्रत्याख्येयः, भोजनशयनासनादिभिः प्रतिपूज्यः । केन । गृहमेधिना । मेधो यज्ञः । गृहमेधो महायज्ञानाम् इयम् आख्या । तत्राधिकारी गृहमेधी । गृहस्थ इति यावत् । सूर्योढ इत्य् अर्थवादः, सूर्येणोढः प्रापितः । दैवोपनीतत्वाद् अवश्यं पूनार्हः । काले द्वितीये वैश्वदेवकाले प्राप्तः, अकाले वा सायं भोजने निवृत्ते ऽपि । नास्य गृहस्थस्य अनश्नन् गृहे वसेत् । यदि शेषम् अस्ति तन् निवेदनीयम् । न चेद् द्विः181 पाकः कर्तव्यः ॥ ३.९५ ॥
न वै स्वयं तद् अश्नीयाद् अतिथिं यन् न भोजयेत् ।
धन्यं यशस्यम् आयुष्यं स्वर्ग्यं वातिथिपूजनम् ॥ ३.९६ ॥
मेधातिथिः ...{Loading}...
सूपघृतदधिशर्करादि यद् उत्कृष्टम् अन्नं तत् स्वयं नाश्नीयाद् अतिथौ संनिहिते यावत् तस्मै न दत्तम् । यत् तु आतुरस्य यवागूरसकटुकादि तद् अनिच्छते न देयम् । तादृशम् अदत्तम् अश्नतो न दोषः । सर्वथा न संस्कृतम् अन्नं स्वयं भोक्तव्यम्, कदन्नम् अतिथिर् न भोजनीय इत्य् एवंपरम् एतत् । धनाय हितं धनस्य निमित्तं वेति धन्यम् । एवं यशस्यादयः शब्दाः ।
- अर्थवादो ऽयं नित्यत्वाद् अतिथिभोजनस्य, सति संनिधाने ऽतिथेः, पूर्वसेषत्वाच् च । स्तुतित्वेनान्वये संभवति नाधिकारान्तरकल्पना182 युक्ता ॥ ३.९६ ॥
आसनावसथौ शय्याम् अनुव्रज्याम् उपासनम् ।
उत्तमेषूत्तमं कुर्याद् धीने हीनं दमे समम् ॥ ३.९७ ॥
मेधातिथिः ...{Loading}...
बहुष्व् अतिथिषु युगपदुपस्थितेष्व् इतरेतरं समहीनज्यायस्स्व् आसनादिप्रकल्पनं गुणापेक्षम्, नाविशेषेण ।
- आसनं बृस्यादि । आवसथं विश्रामभूमिः । शय्या खट्वादि । अनुव्रज्या गच्छतो ऽनुगमनम् । उपासनं तत्समीपे कथाप्रस्तावेन संनिधानम् । एतद् उत्तमेषूत्तमम् । दूरम् अनुव्रज्यत उत्तमः, नातिदूरं मध्यमः, कतिचिदित्पदानि हीनः ॥ ३.९७ ॥
वैश्वदेवे तु निर्वृत्ते यद्य् अन्यो ऽतिथिर् आव्रजेत् ।
तस्याप्य् अन्नं यथाशक्ति प्रदद्यान् न बलिं हरेत् ॥ ३.९८ ॥
मेधातिथिः ...{Loading}...
सर्वार्थम् अन्नं वैश्वदेवशब्देनोच्यते । तस्मिन् निर्वृत्ते निष्पन्ने, भुक्तवत्सु सर्वेषु, निःशेषिते ऽन्ने, यद्य् अन्यो ऽतिथिर् आगच्छेत् तस्मै दद्यात् पुनः पक्वान्नम् । न तु तस्मात् पाकबलिं हरेत् । अग्नाव् अपि होमो नेष्यते, न केवलं बलिहरणम् । यतः सायंप्रातः पाके होमो बलिहरणम्, न चान्तरालिके । तथा च वक्ष्यति “सायं त्व् अन्नस्य” इति (म्ध्। ३.१११) । एवं च यद्य् अप्य् असकृद् अह्नः पचेत् तथापि न प्रतिपाकं वैश्वदेवम् आवर्तेत । यथाशक्ति संस्कारविशेषेणेतरथा वा ॥ ३.९८ ॥
न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् ।
भोजनार्थं हि ते शंसन् वान्ताशीत्य् उच्यते बुधैः ॥ ३.९९ ॥
मेधातिथिः ...{Loading}...
प्रासङ्गिको ऽतिथेर् अयम् उपदेशः । भोजनार्थ्य् एतत्कुलीनो ऽमुष्य पुत्रो ऽस्मीति न निवेदयेन् न कथयेत् । स्वे कुलगोत्रे आत्मीयं कुलं पितृपितामहाद्यभिजनो गोत्रं गर्गभार्गवादि नामधेयं वा । गोत्रस्खलितं नामान्तरविवक्षायां यन् नामान्तरम् उदाह्रियते तद् उच्यते । अध्ययनम् अपि स्मृत्यन्त्रप्रतिषिद्धम्, तद् अपि न निवेद्यम् । अस्यार्थवादः । भोजनार्थं “भोजनं लिप्से प्रख्यातकुलजातित्वात्” इत्य् अनेनार्थेन हेतुना कुलगोत्रे शंसन् कथयन् वान्ताशी वान्तम् उद्गीर्णम् अश्नाति निगिरतीत्य् एवम् उच्यते बुधैः ॥ ३.९९ ॥
न ब्राह्मणस्य त्व् अतिथिर् गृहे राजन्य उच्यते ।
वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुर् एव च ॥ ३.१०० ॥
मेधातिथिः ...{Loading}...
क्षत्रियो ब्राह्मणस्याध्वनीनो ऽपि प्रथमभोजनकाल उपस्थिते ऽपि नातिथिः । अतो न तस्मै नियमतो देयम् । एवं वैश्यशूद्राभ्याम् अपि । सखिज्ञाती आत्मसमे नातिथी । गुरुः प्रभुवद् उपचर्यः, “निवेद्य पचनक्रिया” (ग्ध् ५.२६) इत्य् उक्तम् ॥ ३.१०० ॥
यदि त्व् अतिथिधर्मेण क्षत्रियो गृहम् आव्रजेत् ।
भुक्तवत्सु च विप्रेषु कामं तम् अपि भोजयेत् ॥ ३.१०१ ॥
मेधातिथिः ...{Loading}...
तत्र अतिथेर् धर्मः- क्षीणपथ्योदनत्वं परग्रामवासो भोजनकालोपस्थानम् । तादृशेन रूपेण यदि क्षत्रियो गृहम् आगतो भवति, तदा तम् अपि भोजयेत् । भोजनवचनाद् अन्या परिचर्या निवर्तते । प्रियहितवचनं त्व् अविशेषेण गृहाभ्यागतस्य विहितम् । अयं च तस्य भोजनस्य कालः । भुक्तवत्सु विप्रेषु ब्राह्मनेष्व् अनतिथिषु वा गृहसंनिहितेषु प्रथमंभोजिषु ततः स भोजयितव्यः । कामम् इति नियमाभावम् आह । काम्यो ऽयं विधिर् न नित्य इत्य् अर्थः । कामश् चानिर्दिष्टः विशेषफलेषु स्वर्गः । यदि वा “धन्यं यशस्यम्” (म्ध् ३.९६) इत्याद्य् अत्र संबन्धनीयम् ॥ १११ ॥
वैश्यशूद्राव् अपि प्राप्तौ कुटुम्बे ऽतिथिधर्मिणौ ।
भोजयेत् सह भृत्यैस् ताव् आनृशंस्यं प्रयोजयन् ॥ ३.१०२ ॥
मेधातिथिः ...{Loading}...
अतिथेर् धर्मो ऽतिथिधर्मः । स ययोर् अस्ति ताव् अतिथिधर्मिणौ । अतिथिधर्मश् च प्राग् व्याख्यातः । कुटुम्बं गृहम्, तत्र प्राप्ताव् आगतौ वैश्यशूद्राव् अपि भोजयेत्, क्षत्रियवत् । तयोस् तु भोजनकालः क्षत्रियकालात् परेण । यत आह- भोजयेत् सह भृत्यैस् तौ । भृत्या अत्र दासा उच्यन्ते । तेषां च भोजनकालो भुक्तवस्व् अतिथिज्ञातिबान्धवेषु सर्वेष्व् अर्वाग् दम्पतिभ्याम् । सहशब्द एककालतामात्रलक्षणार्थः । आनृशंस्यं कारुण्यम् अनुकम्पां प्रयोजयन् प्रमाणीकुर्वन्न् आश्रयन्न् इति यावत् । अनेन पूज्यतां वारयति । अनुग्राह्यो ह्य् अनुकम्प्यो न पूज्यः । अनुकम्प्येषु यदि च शक्यते ऽनुग्रहः कर्तुं ततः क्रियते ऽभ्युदयार्थिना, न त्व् अकरणाद् अतिथेर् अतिक्रमः । एतद् उक्तं भवति । यादृशो ऽतिथिभोजनाद् उत्कृष्टो धर्मः अनुकम्प्यानुग्रहान् न तादृशस् ततो निकृष्टः ॥ ३.१०२ ॥
इतरान् अपि सख्यादीन् संप्रीत्या गृहम् आगतान् ।
प्रकृत्यान्नं यथाशक्ति भोजयेत् सह भार्यया ॥ ३.१०३ ॥
मेधातिथिः ...{Loading}...
सखा मित्रं स आदिर् येषाम् । आदिशब्दः प्रकारे ज्ञातिबन्धुसंगतसहाध्यायिप्रभृतीन् गृह्णाति, गुरुवर्जम् । संप्रीत्यागतान् । अतिथेर् धर्मस्य प्रकृतत्वान् निषेधार्थं संप्रीतिग्रहणम् । तान् भोजयेत् । प्रकृत्य प्रकर्षेणान्नं कृत्वा संस्कृत्य । यथाशक्तीति उपलक्षणार्थः शक्तिशब्दः । यावती शक्तिर् यादृशं च यो ऽर्हति तम् उद्दिश्य तादृश एव संस्कारः कर्तव्यः । भार्यया सह । यो भर्तुर् भोजनकालः स एव भार्याया अपि, पृथक् तस्या भोजनकालस्याभावात् । एवं ह्य् उक्तम् “अवशिष्टं तु दम्पती” इति (म्ध् ३.१०६) । महाभारते पत्युर् ऊर्ध्वं भार्याया भोजनं दर्शितम् । द्रौपदीसत्यभामासंवादे (म्भ् ३.२२२) द्रौपद्या स्त्रीधर्मान् कथयन्त्योक्तम्- “सर्वेषु पतिषु भुक्तवत्सु शेषान्नम् अश्नामि” । पतिशेषान्नभोजनं स्त्रीणां धर्मः । तस्मान् न भार्याभोजनकाले सख्यादीनां भोजनं विधीयते । नाप्य् एकपात्राशनं सहार्थः । किं तर्हि नैकाकिनस् ते भोजयितव्याः । अपि तु भार्यापि तत्र भुञ्जीत । ततश् च “अवशिष्टं तु दम्पती” (म्ध् ३.१०६) इति तद् अत्र बाध्यते । यदि पत्युः कश्चिद् अभ्यर्हितः प्रतीक्ष्यः स्याद् अरुच्या वा183 न भुञ्जीत, तदा भार्या तद्देशे भुञ्जीत । एवं सौहार्दं प्रकाशितं भविष्यति ॥ ३.१०३ ॥
सुवासिनीः[^१८६]** कुमारीश् च रोगिणो गर्भिणीः स्त्रियः ।**
अतिथिभ्यो ऽन्वग्184** एवैतान् भोजयेद् अविचरयन् ॥ ३.१०४ ॥**
मेधातिथिः ...{Loading}...
सुवासिन्यो185 वध्वो नवोढा स्त्रियः स्नुषा दुहितरश् च । अन्ये तु “जीवच्छ्वशुरा जीवत्पितृकाश् च प्रसूता अपि सुवासिन्य186 उच्यन्ते” इत्य् आहुः । अतिथिभ्यो ऽन्वग् एवैतान् अनुगतान् एव भोजयेत् । प्रारब्धभोजनेष्व् एवातिथिषु तत्समकालं भोजयेत् । अन्ये त्व् “अग्र” इति पठन्ति । अविचारयन् । कथम् अतिथिष्व् अभोजितेषु बाला भुञ्जत इत्य् एवं विचिक्त्सा न कर्तव्या ॥ ३.१०४ ॥
अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्ते ऽविचक्षणः ।
स भुञ्जानो न जानाति श्वगृध्रैर् जग्धिम् आत्मनः ॥ ३.१०५ ॥
मेधातिथिः ...{Loading}...
एतेभ्यो ऽतिथ्यादिभ्यो भृत्यपर्यन्तेभ्यो यो भोजनम् अदत्त्वा पूर्वं प्रथमम् अविचक्षणः शास्त्रार्थम् अजानानो भुङ्क्ते स श्वगृधैर् अद्यते प्रेतः । ताम् जग्धिम् आत्मनस् तैः खादनं न जानाति । एवं हि स मन्यते मूढमतिर् अत्राहम् एव भुञ्जे, एवं तु न बुध्यते यद् ईदृशम् अशनं तत् स्वशरीरस्य श्वगृध्रैर् अदनम् । तत्फलत्वाद् एवम् उच्यते ॥ ३.१०५ ॥
भुक्तवत्स्व् अथ विप्रेषु स्वेषु भृत्येषु चैव हि ।
भुञ्जीयातां ततः पश्चाद् अवशिष्टं तु दम्पती ॥ ३.१०६ ॥
देवान् ऋषीन् मनूष्यांश् च पितॄन् गृह्याश् च देवताः ।
पूजयित्वा ततः पश्चाद् गृहस्थः शेषभुग् भवेत् ॥ ३.१०७ ॥
मेधातिथिः ...{Loading}...
अनुवादमात्रम् इदं पूर्वस्य पञ्चयज्ञानुष्ठानविधेर् गृहस्थभोजनकालस्य च ।
- अन्ये त्व् अर्थान्तरविधानम् अपि वर्णयन्ति । पूर्वत्र जायापत्योर् एककालम् अवशिष्टभोजनं विहितम् । अनेन स्त्रिया अपोह्य पुंस एव विधीयते । ततश् च पूर्वं190 भृत्येभ्यः प्राक् पत्युर् भार्या भुञ्जीत । एवं वा कृत्वा भोजयेत् । एतद् अप्य् उपपन्नं भविष्यति । इतरथा तैः सह भार्या न भुज्ञीतेत्य् अर्थकल्पनायां तथाश्रुतपदान्वयभङ्गः स्यात् । यत् तु महाभारते दर्शनं तद्दर्शनम् एव न191 विधानम्, विधौ विकल्पयिष्यते ।
-
तद् अयुक्तम् अनुवादत्वाद् अस्य । न च गृहस्थ इत्य् एकवचनविरोधः, सहाधिकाराज् जायापत्योः । तत्र च सहार्थस्य प्राधान्यान् न द्विवचनापत्तिः । यथा “ब्राह्मणो ऽग्नीन् आदधीत” इति सत्य् अपि भार्यया सहाधिकारे नैकवचनं विरुध्यते । तत् कस्य हेतोः । एको हि तत्र प्रधानम् अपरो हि गुणभूतः । न च गुणः स्वसंख्याम् उपजनयितुं शक्नोति । अतः प्रधानस्यैकसंख्यत्वात्, सत्य् अपि पत्यर्थानुप्रवेशे, एकवचनम् एव युक्तम् । एक एव गृहस्थशब्दः पत्न्यां वर्तते, स च सहविवक्षायाम् । सा चैकबुद्धिविषयत्वेन प्रधानयोर् गुणयोर् वा । तस्मान् न पत्न्याः प्राक् पुंसो भोजनम् । अतः स्थितम् अनुवादो ऽयम्, प्रतिपत्तिदार्ढ्याय ।
-
ये ऽपि गृह्याश् च देवताः पूजयेद् इत्य् अर्थवादवचनं देवतापदं मत्वा पूजयेद् इति संबन्धाद् गौणम् एवार्चाविधित्वं समर्थयन्ते । न हि मुख्यस्य देवतार्थस्य पूज्यत्वसंभवः, यजिस्तुतिसंबन्धेनैव देवतात्वस्य मुख्यत्वात् । तथा च गृह्या इत्य् आह । गृहे भवा गृह्याः । ताश् च प्रतिकृतय एव । न हि यागसंप्रदानभूतानां गृहसंबन्धितासिद्धिः ।
-
तेषाम् अपि देवतार्थो गौणो न पूजार्थः । कुत एतत् । गृहस्थस्य या यष्टव्यास् ता गृह्या इत्य् उपपद्यते ॥ ३.१०७ ॥
अघं स केवलं भुङ्क्ते यः पचत्य् आत्मकारणात् ।
यज्ञशिष्टाशनं ह्य् एतत् सतां अन्नं विधीयते ॥ ३.१०८ ॥
मेधातिथिः ...{Loading}...
पापं केवलं स भुङ्क्ते, हृदये निधत्ते गृह्णाति, नान्नस्य मात्राम् अपि, यः पचेत् पाकं कारयेद् आत्मकारणाद् आत्मानम् उद्दिश्य- “क्षुधितो ऽहम् इदं वा मह्यं रोचत इति तद् एव पच्यताम्” । तस्माद् अनातुरेण नात्मार्थम् अन्नं192 पाचनीयम्193 । आतुरस्य तु शरीरधारणं येनोपायेन भवति विध्यन्तरातिक्रमेणापि194 तस्याश्रयणं युक्तम्, “सर्वत एवात्मानं गोपायेत्” (ग्ध् ९.३४) इति वचनात् । एवं केचिद् अस्यार्थम् आहुः ।
-
एतद् अयुक्तं स्मृत्यन्तरविरोधात् । एवं ह्य् आहुः-
-
यद् यद् इष्टतमं लोके यच् चास्य दयितं गृहे ।
-
तद् तद् गुणवते देयं तद् एवाक्षयम् इच्छता ॥ (म्भ् १३.५८.७)
“दयितम्” “इष्टं” स्पृहणीयम् । यदि च न पच्येत कृतस् तादृशस्य दानसंभवः ।
-
तस्माद् अयम् अस्यार्थः । तदुद्देशस् तावन् नित्यस्य पाकस्य नैव विद्यते । सुहृत्स्वजनादिष्व् आगतेषु तदुद्देशः । अन्यथा त्व् अनुद्दिष्टविशेषपाके अतिथ्यादिभ्यो दानं विधीयते । तेनैतद् उक्तं भवति । य तेभ्यो ऽदत्त्वा भुङ्क्ते तस्यायं दोषः । अथ वा सर्वस्मिन्न् अतिथ्यादिभिर् भुक्ते नात्मार्थं पुनः पाकः कर्तव्यः । तथा च वसिष्ठः- “शेषं दम्पती भुञ्जीयाताम् । सर्वोपयोगे न पुनः पाकः ।” (वध् ११.११)
-
यज्ञशिष्टाशनम् । पूर्वस्य शेषभोजनस्य प्रशंसैव । यज्ञो ज्योतिष्टोमादिः, शिष्टम् उपयुक्तशेषम्, तस्य चैतद् अशनम् । तत्तुल्यफलम्, यत् सतां शास्त्रानुष्ठानपराणां गृहस्थानाम् अतिथ्यादिभुक्तशिष्टं विधीयते195 ॥ ३.१०८ ॥
राजर्त्विक्स्नातकगुरून् प्रियश्वशुरमातुलान् ।
अर्हयेन् मधुपर्केण परिसंवत्सरान्196** पुनः ॥ ३.१०९ ॥**
मेधातिथिः ...{Loading}...
अतिथिपूजाप्रसङ्गेनान्येषाम् अपि केषांचित् पूज्यानां गृहागतानां पूजाविशेषो विधीयते । राजा अभिषिक्तो न क्षत्रियमात्रम् । अतिमहती ह्य् एषा पूजा, न तां सर्वः क्षत्रियो ऽर्हति । न हि स्नातकगुरुभ्यां तस्य सहोपदेशो युक्तः । पूजासाम्यं गुरुणा न तस्य युक्तम्, लिङ्गदर्शनाच् च । “तद् यथैवादो197 मनुष्यराज आगते” (ऐत्ब् १.१५) इत्य् आतिथ्येष्टिब्राह्मणम्, गोवधो मधुपर्कविधाव् उक्तो गोघ्नो ऽतिथिर् इति पुरुषराजविषयं दर्शयति । तेन क्षत्रिये ऽक्षत्रिये वा जनपदेश्वरे पूजेयं प्रयोक्तव्या । शूद्रे तु नास्ति मन्त्रवत्त्वम् ।
-
ननु च शूद्रस्य मन्त्रोच्चारणं निषिद्धम् । न पुनः शूद्रसंप्रदानके कर्मणि ब्राह्मणादीनाम् ।
-
नैष दोषः । अर्घाणाम् अपि “भूतेभ्यस् त्वा” इत्यादिमन्तोच्चारणम् अस्ति ।
-
ननु च महाभारते शूद्रकर्तृकम् अपि मधुपर्ककर्म श्रूयते ।
-
तद् अर्हम् आसनं चैव यथावत् प्रत्यवेदयत् ।
-
मधुपर्कं च गां चैव तस्मै भगवते स्वयम् ॥ (च्ड़्। म्भ् २.५.५)
भगवते वासुदेवाय विदुर इति । तत्साधने दधनि भक्त्या मधुपर्कशब्दः प्रयुक्तः । तादर्थ्यात् तच्छब्दो भवति, आयुर् वै घृतम् इतिवत्198 । राजशब्दस् तावज् जानपदेश्वरवचनो न क्षत्रियमात्रे वर्तते । प्रियो जामातेय् आहुः । स्नातको विद्याव्रताभ्याम् उभाभ्याम् । अन्यथार्त्विग्गुरवः सर्वे स्नातका एव । आश्रमान्त्रस्थानां भैक्षचर्या विहिता, न त्व् अतिथिधर्मेण भोजनम् । अथ वाचिरनिर्वृत्तवेदाध्ययनः स्नातको गृह्यते । एतान् अर्हयेत् पूजयेत् । मधुपर्कशब्दः कर्मनामधेयम् । गृह्यात् तस्य स्वरूपावगमः । परिसंवत्सरान् इति राजादिपूज्यविशेषणम् । परिगतो ऽतिक्रान्तः संवत्सरो येषां तान् । यदि संवत्सरे ऽतीते आगच्छन्ति तदा मधुपर्कार्हा अर्वाङ् न199 ।
-
केचिद् एवं व्याचक्षते । यदि संवत्सराद् अर्वाग् आगच्छन्ति तदानतीते ऽपि संवत्सरे प्रथमपूजायाः पुनर् लभते पूजाम् ।
-
अन्ये त्व् आहुः । सांवत्सरिकी तेषां पूजा, न यावद् आगमनम् । अस्मिन् पक्षे ऽर्वाग् आगमनं न पूजाप्रतिबन्धकम् ।
-
पाठान्तरं “परिसंवत्सराद्” इति । यावद् एव संवत्सरं तावत् परिसंवत्सरात् तत ऊर्ध्वं पुनः पूज्या इत्य् अर्थः ॥ ३.१०९ ॥
राजा च श्रोत्रियश् चैव यज्ञकर्मण्य् उपस्थिते ।
मधुपर्केण संपूज्यौ न त्व् अयज्ञ इति स्थितिः ॥ ३.११० ॥
मेधातिथिः ...{Loading}...
यज्ञे निमित्ते200 ऽर्वाग् अपि संवत्सरात् प्राप्त्यर्थो ऽयम् इति केचित् ।
- अन्ये तु पूर्वस्यैव राजश्रोत्रिययोर् उपसंहारम् आहुः । अनुपसंहारे हि न त्व् अयज्ञ इति नोपपद्यते । अत्र श्रोत्रियो यः स्नातकः प्राग् उक्तः, यदि वा ऋत्वग् एव । तस्य हि यज्ञकर्मणि प्रारिप्स्यमाने मधुपर्कदानं201 विहितम् । यद्य् अप्य् असकृत् संवत्सरस्य सोमेन यजेत, कृतार्घ्या एवैनं याजयेयुः । एवं कॢप्तमूलैषा स्मृतिर् भविष्यति । इतरथा कल्प्येत मूलम् ।
- अन्ये तु सर्वान् ऋत्विगादीञ् छ्रोत्रियशब्देन निर्दिष्टान् मन्यन्ते । तथा चाविशेषेण गौतमेन पठितम्- “ऋत्विगाचार्यश्वशुरपितृव्यमातुलानाम् उपस्थाने मधुपर्कः”202 इत्य् उक्त्वा “यज्ञविवाहयोर् अर्वाक्” इति पठितवान् (ग्ध् ५.२७, २९) । अतश् च सर्वेषाम् एवार्घ्याणां यज्ञे निमित्ते203 ऽर्वाग् अपि संवत्सराद् अर्घार्हता स्यात् । न त्व् अयज्ञ इति च प्रतिषेधो ऽर्वाक् संवत्सरान् नोर्ध्वम् इत्य् एवं ज्ञेयः ।
- इह द्वितीये पादे ऽनेकधा पाठप्रतिपत्तिः । केचित् पठन्ति । “तते यज्ञ उपस्थितौ” इति । तेषां अयम् अर्थः । “तते” प्रारब्धे यज्ञे यदि प्राप्तौ भवतो निमन्त्र्यानीतौ,204 तदेयं मधुपर्कक्रिया तयोः । न पुनः प्रारभ्यमाणे ।
- एष पक्षः कैश्चिद् दूष्यते । दीक्षितो न ददातीति दीक्षितस्य सर्वदानप्रतिषेधान् मधुपर्कदानम् अनुज्ञायमानं तद्विरुद्धं स्यात् । न च शक्यं वक्तुम्- “दानम् एतन् न भवति, अर्हयेद् इति नोदनात् पूजैषा विधीयते” । यतो ऽस्ति मधुपर्के दधिदानं मांसभोजनादिदानं च । अथोच्यते । “स्वयम् एव तत्परकीयं भुज्यते” इति । एवं सति स्तेयदोषः स्यात् । “वचनान् न” इति चेद् अस्त्य् एव तर्हि ददात्यर्थः । चोदितं च ददातिः,205 मधुपर्कं च दद्याद् इति । तस्माद् विरुद्धम् । दीक्षितो न ददातीत्य् अनेन स्याद् विरोधः यदि यज्ञशब्दः सोमयागेष्व् एव वर्तते । दर्शपूर्णमासादयो ऽपि यागाः, तद्विषयो ऽयं विधिर् भविष्यति ।
- नैतद् युक्तम् । एवं सति समाचारविरोधः । न हि शिष्टाः सोमयागेभ्यो ऽन्यत्र क्वचिद् अर्घ्याय मधुपर्कम् आहरन्ति । आचारो वेदादरः । अतो ऽयम् एव पाठो युक्तः- “यज्ञकर्मण्य् उपस्थिते” इति । प्रारभ्यमाणयज्ञ आगतं शिष्टा मधुपर्केण पूजयन्ति, न प्रवृत्तयज्ञाः । अतश् चैतद् अपि न विचारयामः । सामान्यतः प्राप्तस्य दानस्य भवतु निवृत्तिर् न पुनस् तद्विषयतयैव श्रुतस्य । यज्ञश् चासौ कर्म च तद् यज्ञकर्म तस्मिन्न् उपस्थिते प्राप्ते ॥ ३.११० ॥
सायं त्व् अन्नस्य सिद्धस्य पत्न्य् अमन्त्रं बलिं हरेत् ।
वैश्वदेवं हि नामैतत् सायंप्रातर् विधीयते ॥ ३.१११ ॥
मेधातिथिः ...{Loading}...
उक्तः प्रथमः । इदानीं द्वितीयः पाक उच्यते । सायं दिनान्तः प्रदोषस् तत्र सिद्धस्यान्नस्य सर्वः पाकयज्ञिकविधिर्206 आवर्तनीयो ब्रह्मयज्ञपितृयज्ञवर्जम् ।
-
ननु च बलिं हरेद् इत्य् एतावच् छ्रुतम् । बलिहरणं च प्रसिद्ध्या भूतयज्ञ एव । तत्र कुतो ऽग्नौ होमो ऽतिथ्यादिदानं च । अथ वैस्वदेवं हि नामैतद् इति वैश्वदेवशब्दः सर्वार्थतां प्रतिपादयति । विश्वेषां देवानाम् इदं विधीयते । सायंप्रातर् यादृशं प्रातस् तादृशम् एव सायम् एतदर्थम् एव प्रातःशब्दः । अन्यथा प्रातर्विहितम् एव, किम् अनेन सायंप्रातर् विधीयते । एवं तर्हि ब्रह्मयज्ञपितृयज्ञाव् अपि कर्तव्यौ ।
-
उच्यते । अन्नस्य सिद्धस्येति वचनाद् यद् अन्नसाध्यं तद् एव कर्तव्यम् । न त्व् अध्ययनसाध्यो ब्रह्मयज्ञो नाप्य् उदकसाध्यं तर्पणम् । एवं च संबन्धः क्रियते । सिद्धस्यान्नस्य बलिं हरेत् । एतद् वैश्वदेवाख्यं कर्मान्नस्य सिद्धस्योभयोः कालयोर् विधीयते । अन्नशब्दाद् वैश्वदेवशब्दाच्207 चैवं व्याख्यायते ।
- अमन्त्रम् । मन्त्रशब्देन देवतोद्देशेन शब्दवान् स्वाहाकारान्तो ऽग्नये स्वाहेत्य् एवमादिर् निषिध्यते । न ह्य् अन्ये मन्त्रा वैश्वदेवेषु विनियुक्ताः । तेषु च मन्त्रत्वं प्रशंसयोच्यते । न तु208 स्वाध्याये ऽपठितानां मन्त्रत्वम् अस्ति । स्वाध्यायैकदेशः कश्चिद् ऋग्यजुःसामाद्यात्मको वेदाध्यायिभिर् मन्त्र इति व्यवह्रियते । व्यवहारतश् च पदार्थावगमनम् । न च209 यैः शब्दैर् बलिहरणादि क्रियते ते कुत्रचित् पठ्यन्ते । “केवलम् अग्न्यादिभ्यो देवेभ्यो होमं कुर्यात्” इति श्रुतेः, “स्वाहाकारेण वा वषट्कारेण वा देवेभ्यो हविः संप्रदीयते” इति वाक्यान्तरेण सर्वहोमेषु स्वाहाकारो विहितः, याज्यान्ते वषट्कारो नियमितः- “याज्यायां वषट्करोति” इति । स्वाहाकारशब्दयोगे चतुर्थी स्मर्यते । अतो यागो देवताया उद्देश्यत्वात्, उद्देश्यत्वं च देवतायाः शब्दावगम्यरूपत्वात्, शब्देनैवोचितत्वात्, इयं घटना क्रियते “अग्नये स्वाहा” इत्यादि ।
-
यद्य् एवं तेषां निषेधः, कथं तर्हि यागनिर्वृत्तिः । न हि “तुभ्यम् इदं न मदीयम्” इति यावद् उद्देशो न कृतस् तावद् यागस्वरूपनिर्वृत्तिः । न हि त्यागः केवलो याग उद्देशशून्यः ।
-
सत्यम् । शब्दे210 निषिद्धे मनसोद्देशं देवतायाः पत्नी करिष्यति । यथा शूद्रो नमस्कारम् उच्चारयति । “अनुज्ञातो ऽस्य नमस्कारो ऽमन्त्रः”211 (ग्ध् १०.६४) नमस्कारेण प्रत्याम्नातः शूद्रस्य मन्त्र इति नमस्कारो ऽनुज्ञातो ऽस्य, न देवतापदम् । तत्र च212 देवताया विनियोगात् सिद्धिर्213 इत्य् उक्तम् । इह भवन्तस् त्व् आहुः- स्वाहाकारो नमस्कारेण प्रत्याम्नातः शूद्रस्य, देवतापदं त्व् अनिषिद्धम् ।
-
अथ सायंवैश्वदेवहोमे कः कर्ता ।
-
उक्तं पत्न्य् एव संनिधानाद् बलिहरणवद् अमन्त्रकं करिष्यतीति ॥ ३.१११ ॥
पितृयज्ञं तु निर्वर्त्य विप्रश् चन्द्रक्षये[^२१७]** ऽग्निमान् ।**
पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् ॥ ३.११२ ॥
मेधातिथिः ...{Loading}...
वैश्वदेविकाद् वैकल्पिकाच् छ्राद्धान् नित्यम् इदं श्राद्धान्तरम् उच्यते । चन्द्रक्षये ऽमावास्यायाम् । तत्रापि न यस्यां कस्यांचन वेलायां किं तर्हि पितृयज्ञं निर्वर्त्य । श्रौतो यः पिण्डपितृयज्ञस् तं कृत्वा । एवं च यस् तस्य कालः स एवास्यापि लभ्यते । तद् उक्तम् अमावास्यायाम् अपराह्णे पिण्डपितृयज्ञ इति । अनाहिताग्नेर् अप्य् औपासनयोगो ऽस्त्य् एव । तथा चाह । “एवम् अनाहिताग्निर् नित्ये श्रपयित्वा” इत्यादि । अग्निमान् वैवाहिकेनाग्निना तद्वान्, दायकालाहृतेन वा । विप्रग्रहणम् अविवक्षितम् । क्षत्रियवैश्ययोर् अपीष्यते । एवं स्मृत्यन्तरेषु ह्य् अविसेषणोक्तम् । पिण्डान्वाहार्यकम् इति । नामधेयम् इदम् अस्य श्राद्धस्य । पिण्डानाम् अनु पश्चाद् आह्रियते ऽनुष्ठीयते । तत् पिण्डान्वाहार्यकं भवति । मासश् चानुमासश् च, तयोर् भवं मासानुमासिकम् । मासानुमासशब्दसमुदायो मासगतां वीप्साम् आचष्टे । मासि मासि कर्तव्यम् इत्य् उक्तं भवति । अतश् च नित्यतासिद्धिः । यद्य् अप्य् अनुमासशब्दाद् वीप्सावगतिर् भवति, मासशब्दो ऽतिरिच्यते, तथापि पद्यग्रन्थे गौर्वं नाद्रियते । श्राद्धम् इत्य् एतद् अपि नामैव । कुर्याद् इति विधिः ॥ ३.११२ ॥
पितॄणां मासिकं श्राद्धम् अन्वाहार्यं विदुर् बुधाः ।
तच् चामिषेण कर्तव्यं प्रशस्तेन प्रयत्नतः ॥ ३.११३ ॥
मेधातिथिः ...{Loading}...
अन्वाहार्यं दर्शपौर्णमासयोः श्रौतयोर् दक्षिणर्त्विजाम् । यद् एतन् मासिकं श्राद्धम् अमावास्यायाम् एतत् पितॄणाम् अन्वाहार्यम् । यथान्वाहार्येणर्त्विजः प्रीयन्ते तद्वत् पितरः श्राद्धेन । एतेन पित्रर्थतां श्राद्धस्याह । यथाग्न्यादिदेवतार्थो दर्शादियाग एवं न श्राद्धे पितरः, किं तर्हि तदुपकारार्थम् एव श्राद्धम् । तथा च पितॄणाम् इति षष्ठी । केवले हि देवतात्वे चतुर्थ्याविरहायोगः ।
-
पक्षे पाठान्तरम् अर्थान्तरं च “पिण्डानां मासिकम्” इति ।
-
अन्वाहार्यं विदुर् बुधाः । अनेनापि पितृयज्ञवद् अवश्यकर्तव्यतोच्यते । न त्व् इदम् अङ्गम् । तद् एतद् आमिषेण मांसेन कर्तव्यम् । प्रशस्तेन अप्रतिषिद्धेन विसेषविहितेन वा । “द्वौ मासौ मत्स्यमांसेन” (म्ध् ३.२५८) इति यद् वक्ष्यति । अयं च मुख्यः कल्पः । तदभावे दहिघृतपयोऽपूपादि विधायिष्यते । मांसं च व्यञ्जनम्, भक्तादिभोज्यस्य । न पुनर् एतद् एव केवलं भोज्यम्, येन वक्ष्यति “गुणांश् च सूपशाकाद्यान्” (म्ध् ३.२१६), तथा “यावन्तश् चैव यैश् चान्नैः” (म्ध् ३.११४) इति ।
-
किं पुनः श्राद्धे होमब्राह्मणभोजनपिण्डनिर्वपणादीनि कर्माणि सर्वाण्य् एव समप्रधानानि श्राद्धशब्दवाच्यानि, उत किंचिद् अङ्गम् अत्र किंचित् प्रधानम् ।
-
उच्यते । “श्राद्धं भोजयेत्” (म्ध् ३.१३७), “श्राद्धं भुक्तम् अनेन” (पाण् ५.२.८५), इति सामानाधिकरण्याद् ब्राह्मणभोजनं मुख्यं प्रतीयते ॥ ३.११३ ॥
तथा चाह ।
तत्र ये भोजनीयाः स्युर् ये च वर्ज्या द्विजोत्तमाः ।
यावन्तश् चैव यैश् चान्नैस् तान् प्रवक्ष्याम्य् अशेषतः ॥ ३.११४ ॥
मेधातिथिः ...{Loading}...
तत्र तस्मिञ् छ्राद्धे ये द्विजोत्तमा ब्राह्मणा भोजनीया ये च परिहर्तव्याः, यावन्तो यत्संख्याका “द्वौ दैवे” (म्ध् ३.११५) इत्यादि, यैश् चान्नैः “तिलैर् व्रीहियवैः” (म्ध् ३.२५७) इत्यादि, तद् एतत् सर्वम् इदानीं वक्ष्यामि । तच् छृणुत ।
- एतद् अत्र प्राधान्येन संपाद्यम् । एतेन विना श्राद्धं न कृतं भवति । अन्यच् च यच् चाङ्गजातम् आराद् उपकारकं संनिपत्योपकारकं वा तस्मिन्न् असंपन्ने श्राद्धं न कृतं भवति, सगुणं तन् न स्यात् । अत एतेषां प्राधान्यख्यापनार्थं पुनर् उपन्यासः ॥ ३.११४ ॥
द्वौ दैवे पितृकृत्ये[^२१८]** त्रीन् एकैकम् उभयत्र वा ।**
भोजयेत् सुसमृद्धो ऽपि न प्रवर्तेत214** विस्तरे ॥ ३.११५ ॥**
मेधातिथिः ...{Loading}...
यद्य् अपि प्रतिज्ञातस्य वस्तुनस् तेनैव क्रमेण विशेषकथनं युक्तम्, तथापीह स्वल्पवक्तव्यत्वाद् “भोजनीया” (म्ध् ३.११४) इति प्राप्तं परित्यज्य संख्यानिर्देशो ऽनेन क्रियते ।
- देवान् उद्दिश्य द्वौ ब्राह्मणौ भोजयेत् । पितॄणां कृत्ये त्रीन् । उभयत्र वा दैव एकं पित्र्ये चैकम् । यद्य् अपि “पित्र्ये” इत्य् अत्र पितुर् इदम् इति पितृशब्देन देवताचोदना, तथापि पितृपितामहप्रपितामहा उद्देश्याः । तत्रैकैकस्यैकैअं भोजयेत्, न त्व् एवैकं सर्वेभ्यः, पृथक्पृथग् देवतात्वात् । उक्तं च गृह्यकरेण “न त्व् एवैकं सर्वेषाम्” (आश्ग् ४.७.४), “पिण्डैर् व्याख्यातम्” (आश्ग् ४.७.६) इति । यथैकः पिण्डः सर्वेभ्यो न निरुप्यते तथैव ब्राह्मणो ऽपि न भोज्यत इत्य् अर्थः । इहापि वक्ष्यति- “निमन्त्रयेत त्र्यवरान्” (म्ध् ३.१७७) इति । भोजनार्थम् एव तन्निमन्त्रणम्, नादृष्टार्थम् । अतश् च पितृकृत्ये त्रींस् त्रीन् इति द्रष्टव्यम् । तथा चाह- “न चावरान् भोजयेत्” इति (च्ड़्। ग्ध् १५.७) । एवं च कृत्वा “एकैकम् अपि विद्वांसम्” (म्ध् ३.११९) इत्य् एतद् अप्य् एवम् एव द्रष्टव्यम्-215 एकैकस्यैकैकम् इति । अपि च नैवात्रैकैकम् उभयत्रेत्य् एतद् विधीयते, विस्तरप्रतिषेधर्थो ऽयम् अनुवादः । यथा “विषं भक्षय, मा चास्य गृहे भुङ्क्ष्व” इति ।
-
यद्य् एवं “द्वौ दैवे” इत्य् एषो ऽपि विधिर् न स्याद् अस्याप्य् अन्यार्थतयोपपत्तेः । अथायं विधिर् अप्राप्तत्वाद् एकैकम् इत्य् एषो ऽपि कस्मान् न भवति ।
-
अत्राह । मा भूद् द्वयोर् एको ऽपि विधिः ।
-
कुतस् तर्हि संख्यावगमः ।
-
“निमन्त्रयेत त्र्यवरान्” इति (म्ध् ३.१७७) ।
-
ननु तत्र दैवग्रहणं नास्ति ।
-
स्मृत्यन्तरात् तर्हि संख्यावगमः- “अयुजो वा यथोत्साहम्” (ग्ध् १५.७–८) इति, “युग्मान् दैवे” (य्ध् १.२२६) इति ।
-
यदि वायं संख्याविधिः स्याद् विस्तरप्राप्त्यभावात् प्रतिषेधो ऽनर्थकः । तस्माद् यावद्भिर् ब्राह्मणैर् भोजितैर् विस्तरे ये दोषास् ते न भवन्ति ताद्वन्तो216 भोजनीयाः ।217 पित्र्ये ऽयुग्माः दैवे तु द्वाव् एव । अतिसमृद्धो ऽप्य् अत्यर्थम् आढ्यो ऽपि । न प्रवर्तेत विस्तरे । न चायम् अदृष्टार्थो विस्तरप्रतिषेधः ॥ ३.११५ ॥
किं तर्हि ।
सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदः ।
पञ्चाइतान् विस्तरो हन्ति तस्मान् नेहेत विस्तरम् ॥ ३.११६ ॥
मेधातिथिः ...{Loading}...
एतान् दोषान् आपादयति । विस्तरो ऽतो नेष्यते । यदि तु शक्यन्ते सत्क्रियादय उपपादयितुं तदा यथोत्साहम् । सत्क्रिया अन्नसंस्कारविशेषः । देशो दक्षिणप्रवणादिः “अवकाशेषु चोक्षेषु” (म्ध् ३.१९७) इति वक्ष्यमाणः । कालः अपराह्णः “मध्याह्नाच् चलिते सूर्ये” इति । शौचम् आत्मब्राह्मणप्रेष्यगतम् । ब्राह्मणानां संपत् गुणवद्ब्राह्मणलाभः । एते गुणा अवश्यं संपाद्याः । ते च विस्तरेण नश्यन्ति । विस्तारो वैगुण्यम् । ब्राह्मणबहुत्वे चासौ प्रसज्जति । तस्मान् नेहेत न कुर्यात् ॥ ३.११६ ॥
प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये ।
तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ॥ ३.११७ ॥
मेधातिथिः ...{Loading}...
न यथा दैवानि कर्माण्य् अदेवतार्थान्य् एवं पित्र्यं नाम तत्कर्मैतत् ।218 किं तर्हि, प्रथिता ख्याता वेदविदाम् प्रेतकृत्या प्रेतोपक्रिया । विधुक्षये । विधुश् चन्द्रस् तस्य क्षय अमावास्या । “तिथिक्षये” इति पाठान्तरम् । “विधिक्षये”219 इति तु पाठो निर्दुष्टः । एवं हि तत्र योजनम् । पित्र्यं नाम विधिचोदितं कर्म, क्षये गृहे । तस्मिन् कर्मणि पित्र्ये । युक्तस्य तत्परस्य । नित्यं कर्तुर् उपतिष्ठते । प्रेतकृत्यैव । तस्यापि प्रेतस्य कृत्या उपकारः श्राद्धादि पुत्रैः क्रियते । पुत्रपौत्रादिसंतत्यविच्छेदः श्राद्धफलम् अनेन प्रकारेण प्रतिपाद्यते । न च तत्फलकामस्यायम् अधिकारः, नित्यत्वस्य प्रतिपादितत्वात् ।
-
अन्ये त्व् अधिकारान्तरम् इदं संतत्यविच्छेदकामस्येच्छन्ति ।
-
लौकिकी इयं कर्तव्यता, स्मार्तेत्य् अर्थः ॥ ३.११७ ॥
**श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः । **
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ ३.११८ ॥
मेधातिथिः ...{Loading}...
श्रोत्रियः छान्दसः कृत्स्नमन्त्रब्राह्मणिकां शाखाम् अधीते यस् तस्मै हव्यानि श्राद्धाङ्गभोजनानि विश्वान् देवान् उद्दिश्य यानि विहितानि तानि देयानि । कव्यानि पितृभ्य उद्दिश्य यानि भोजनानि । अर्हत्तमाय । अर्हता पूज्यता योग्यता च । महाकुलीनः पूज्यते, महाकुले जातो विद्यावृत्तसंपन्नश् च । तस्मै दत्तं श्राद्धाद् अन्यद् अपि महाफलम् । एवं वा220 — अश्रोत्रियाय दानं निष्फलम्, श्रोत्रियाय221 अभिजनविद्यादिगुणरहिताय स्वल्पफलम्, अर्हत्तमाय महाफलम् ॥ ३.१२८ ॥
एकैकम् अपि विद्वांसं दैवे पित्र्ये च भोजयन्[^२२७]** ।**
पुष्कलं फलम् आप्नोति नामन्त्रज्ञान् बहून् अपि ॥ ३.११९ ॥
मेधातिथिः ...{Loading}...
यद् उक्तम् “अर्हत्तमाय” इति तद् दर्शयति । विद्वांसम् एकम् अपि भोजयन्222 पुष्कलं फलम् आप्नोति । विद्वत्ता च व्याख्याता वेदार्थवेदनम् । यत आह नामन्त्रज्ञान् बहून् अपि । मन्त्रग्रहणं वेदोपलक्षणार्थम् । असंभवे पञ्चानां वेदविदुषाम् एकैकम् अपि विद्वांसं भोजयेद् इति विध्यर्थः । पुष्कलं पुष्टं विपुलम् ॥ ३.११९ ॥
दूराद् एव परीक्षेत ब्राह्मणं वेदपरगम् ।
तीर्थं तद् धव्यकव्यानां प्रदाने सो ऽतिथिः स्मृतः ॥ ३.१२० ॥
मेधातिथिः ...{Loading}...
न वेदपरग इत्य् एव भोजयितव्यः । किं तर्हि दूरात् परीक्षेत निपुणतो मातापितृवंशद्वयपरिशुद्धिज्ञानम् । यथोक्तम् “ये मातृतः पितृतश् च दशपूरुषम् समनुष्ठितविद्यातपोभ्यां पुण्यैश् च कर्मभिः येषाम् उभयतो ब्राह्मण्यं निर्णयेयुः” इत्य् एषा दूरात् परीक्षा । तथा तत्त्वतो ऽध्ययनविज्ञानकर्मानुष्ठानवेदनं च । वेदस्य पारः समाप्तिः तं गतो223 वेदपरगः । न वेदसंहितां ब्राह्मणमात्रं वा पठन्न् अर्हो भवति । अस्माद् एव दर्शनात् श्रोत्रियशब्देन वेदैकदेशम् अप्य् अधीयान उच्यत इति गम्यते । तीर्थं तद् धव्यकव्यानाम् । तीर्थम् इव तीर्थं येनोदकं ग्रहीतुम् अवतरन्ति तत् तीर्थम् । तेन यथा मार्गेणोदकार्थिनो गच्छन्त उदकं लभन्ते एवं तादृशेन ब्राह्मणेन हव्यकव्यानि पितॄन् गच्चन्तीति प्रशंसा । अन्यस्मिन्न् अपि इष्टापूर्तदानेन ब्राह्मणो ऽतिथिः-224 यथातिथये स्वयम् उपस्थिताय निर्विचिक्त्सं दीयते, दत्तं महाफलम्, एवम् ईदृशाय ब्राह्मणाय हव्यकव्ये निर्विचिकित्सं दातव्ये, महाफले भवतः ॥ ३.१२० ॥
सहस्रं हि सहस्राणाम् अनृचां यत्र भुञ्जते ।
एकस् तान् मन्त्रवित् प्रीतः सर्वान् अर्हति धर्मतः ॥ ३.१२१ ॥
मेधातिथिः ...{Loading}...
अनृचां अनृगर्थविदाम् । उपलक्षणम्- यतो225 ऽनृचानां प्राप्तिर् एव नास्ति, श्रोत्रियायैवेति नियमात् । समासान्तः छान्दसत्वान् न कृतः, वृत्तानुरोधाच् च । एवं हि पठन्ति ।
- अपि माषं मषं कुर्यान् न तु छन्दो विचालयेत् । इति ।
अथ वा अनृचा इति प्रथमाबहुवचनम् । “अनृचाः सहस्रं यथा भुञ्जते” इति संबन्धः । यथा सहस्रं गाव इति । एकः प्रीतस् तर्पितो भोजितो मन्त्रविद् वेदार्थवित् सर्वांस् तान् अनृचान् अर्हति स्वीकरोति, आत्मसात् करोति,226 तैर् अभेदम् आपद्यते । अभेदे च यत् तेषु सहस्रेषु भोजितेषु फलं तद् एकस्मिन्न् अवाप्यते इत्य् अवगतिर् उत्पद्यते ।
- निन्देयम् अविदुषो विद्वद्विध्यर्था । न पुनः सहस्रसंख्यातानाम् एकस्य च समफलत्वम् उच्यते । विदुषां विधानाद् अविदुषां प्राप्तिर् एव नास्ति । अथाप्य् असति विदुषि श्रोत्रियायैवेत्य् अनेन पाक्षिकी अविदुषो ऽपि प्राप्तिर् आशङ्क्यते, तथापि विस्तरस्य प्रतिषेधो मा भूद् इत्य् अतो यथाश्रुतार्थसंभवः ॥ ३.१२१ ॥
ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च ।
न हि हस्ताव् असृग्दिग्धौ रुधिरेणैव शुध्यतः ॥ ३.१२२ ॥
यावतो ग्रसते ग्रासान् हव्यकव्येष्व् अमन्त्रवित् ।
तावतो ग्रसते प्रेतो दीप्तशूलर्ष्ट्ययोगुडान् ॥ ३.१२३ ॥
मेधातिथिः ...{Loading}...
सत्य् अपि श्राद्धप्रकरणे वाक्याद् भोक्तुर् अयं दोषानुवादः । तथा चोक्तम्-
- तस्माद् अविद्वान् बिभियाद् यस्मात् तस्मात् प्रतिग्रहात् । इति । (म्ध् ४.१९१)
शूलर्ष्ट्ययो आयुधविशेषाः231, अयोगुडः232 आयसः पिण्डः । यदर्थं श्राद्दम् आरब्धं स दीप्तान् तप्तायःपिण्डान् यमपुरुषैर् आश्यते233 ।
-
व्यासदर्शनात् तु भोजयितुर् अयं दोषो न भोक्तुः । न पितॄणां न तावन् मृतानाम् अन्यकृतेन प्रतिषेधातिक्रमेण दोषसंबन्धो युक्तः, कृताभ्यागमादिदोषापत्तेः । यदि हि पुत्रेण तादृशो ब्राह्मणो भोजितः को ऽपराधो मृतानाम् ।
-
ननु चोपकारो ऽपि पुत्रकृतः पितॄणाम् अनेन न्यायेन न प्राप्नोति । न234 प्राप्नुयाद् यदि तादर्थ्येन श्राद्धादि नोदितं स्यात् । इह तु नास्ति चोदना, पितुर् उपकारकामेनैवं कर्तव्यम्235, श्येनवत् । यत् तु तावतो ग्रसते प्रेतः इति तद् भोजयितृसंबन्धे ऽप्य् उपपद्यते । “यस्य ब्राह्मण ईदृशः श्राद्धं भुङ्क्ते स इदं फलम् आप्नोति” इति युक्तः संबन्धः । प्राकरणिकश् चायम् अविद्वद्भोजनप्रतिषेधः । तदतिक्रमणे कर्मवैगुण्यम्, तद्वैगुण्ये च श्राद्धाधिकारान् निवृत्तिर् एव दोषः । पितॄणां श्राद्धोपकाराल् लाभः । ततो ऽपि विध्यतिक्रमे पुत्रस्य युक्तः प्रत्यवायः । किं तर्हि तद् भगवतो व्यासस्य वचनम्-
-
ग्रसते यावतः पिण्डान् यस्य वै हविषो ऽविदः ।
-
ग्रसते तावतः शूलान् गत्वा वैवस्वतक्षयम् ॥
पाठान्तरं “प्रेत्य” इति । भोक्तुर् एव प्रेत्यता । नाविदुषा दैवपित्र्ययोर् भोक्तव्यम्236 ॥ ३.१२३ ॥
ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास् तथापरे ।
तपःस्वाध्यायनिष्ठाश् च कर्मनिष्ठास् तथापरे ॥ ३.१२४ ॥
मेधातिथिः ...{Loading}...
सर्वगुणेभ्यो विद्यां प्रशंसितुं गुणविभागकथनम्, प्रशंसा च विदुषे दानार्था । ज्ञाने विद्यायां निष्ठा प्रकर्षो येषां ते ज्ञाननिष्ठाः ज्ञानाधिकारिणः । गमकत्वाद् व्यधिकरणानाम् अपि बहुव्रीहिः । भृशम् अभ्यस्तवेदार्थास् तत्परा एवम् उच्यन्ते । एवं सर्वत्र निष्ठान्तेषु द्रष्टव्यम् । तपश् च स्वाध्यायश् चेति द्वन्द्वगर्भो बहुव्रीहिः । तपांसि चान्द्रायणादीनि, स्वाध्यायो वेदाध्ययनम् । कर्माण्य् अग्निहोत्रादीनि । सर्व एते गुणाः सर्वेषु समुच्चिता इति द्रष्टव्याः । न हि एकगुणसद्भाव इतरगुणहीनस्य पात्रताम् आपादयति, किं तु कस्यचित् को ऽपि प्रकर्ष उच्यते । यथा च निष्ठाशब्दः समाप्तिवचनः प्रकर्षं लक्षयति । तन्निष्ठस्237 तत्पर उच्यते । सर्वगुणसद्भावे ऽपि यदि एकत्र238 प्रकर्षो ऽन्ये च गुणाः239 मध्यमाः, तथा च भवत्य् एव पात्रम् । अप्रकृष्टे त्व् एकस्मिन् सर्वगुणसद्भावे ऽपि न पात्रतां लभन्ते ।
- समुच्चयश् च व्याख्यायते, येन240 ज्ञानरहितस्य कर्मानुष्ठानसद्भाव इत्य् उक्तं द्वितीये ।
- अन्यैस् तु ज्ञाननिष्ठः परिव्राजको241 व्याख्यायते । तस्य हि आत्मज्ञानाभ्यासः कर्मन्यासेन विशेषतो विहितः । तपोनिष्ठो वानप्रस्थः । स हि तापस इत्य् आख्यायते- “ग्रीष्मे पञ्चतपास् तु स्यात्” (म्ध् ६.२३) इति । तपःस्वाध्यायनिष्ठाः ब्रह्मचारिणः । कर्मनिष्ठा गृहस्थाः । अतश् चानाश्रमिणो242 निषिध्यन्ते । तथा च पौराणिकाः “चातुराश्रम्यबाह्येभ्यः श्राद्धं नैव प्रयोजयेत्” ॥ ३.१२४ ॥
ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः ।
हव्यानि तु यथान्यायं सर्वेष्व् एव चतुर्ष्व् अपि ॥ ३.१२५ ॥
मेधातिथिः ...{Loading}...
गुणविभागे प्रयोजनम् आह । कव्यानि पितॄन् उद्दिश्य यद् दीयते तत् कव्यम् । तानि ज्ञाननिष्ठेषु प्रतिष्ठाप्यानि प्रदेयानीत्य् अर्थः । यत्नवचनात् तदभावे चतुर्ष्व् अपि हव्यवत् । पित्र्ये ज्ञाननिष्ठाः पात्रतमाः । उक्तं हि “पात्राणाम् अपि तत् पात्रम्” (वध् ६.२६) इति । अन्नदानम् अविशेषेण चतुर्भ्यो ऽपि इति श्लोकार्थः । न्यायः शास्त्रीयो विधिः ॥ ३.१२५ ॥
अश्रोत्रियः पिता यस्य पुत्रः स्याद् वेदपरगः ।
अश्रोत्रियो वा पुत्रः स्यात् पिता स्याद् वेदपारगः ॥ ३.१२६ ॥
मेधातिथिः ...{Loading}...
संशयोपन्यासार्थः श्लोकः ॥ ३.१२६ ॥
ज्यायांसम् अनयोर् विद्याद् यस्य स्याच् छ्रोत्रियः पिता ।
मन्त्रसंपूजणार्थं तु सत्कारम् इतरो ऽर्हति ॥ ३.१२७ ॥
मेधातिथिः ...{Loading}...
यस्य पिता अपाठः स्वयं तु वेदपारगः साङ्गवेदाध्यायी, इतरस्य तु पिता वेदपारगः स्वयं तु मूर्खः, तयोः कः श्रेयान् इति संशयं कृत्वा सिद्धान्तम् आह ।
-
अनयोः स्वयंश्रोत्रियपितृमूर्खस्वयंमूर्खपितृश्रोत्रिययोः स्वयंमूर्खपितृश्रोत्रियं ज्यायांसं प्रशस्यं श्राद्धे योग्यं जानीयात्, यद्य् अस्य श्रोत्रियः पिता । इतरो मन्त्रपूजनार्थं न ब्राह्मणबुद्ध्या, किं तु मन्त्रास् तेन ये ऽधीतास् ते तत्र पूज्यन्ते । न मन्त्राणां श्राद्धे पूजा विहिता, तस्मान् नासौ भोजयितव्यः ।
-
श्लोकद्वयेन संशयसिद्धान्तरूपोपन्यासेनार्थवादभङ्ग्या पितृश्रोत्रियत्वम् आत्मश्रोत्रियत्वं च श्राद्धभोजने कारणम् इत्य् एतद् उच्यते, न केवलम् आत्मश्रोत्रियत्वम् । न तु स्वयम् अनधीयानस्य पितृश्रोत्रियत्वेन भोज्यता विधीयते । तद् उक्तम् “दूराद् एव परीक्षेत” (म्ध् ३.१२०) इति । अत्राध्ययनपरीक्षा पुरुषद्वयविषयानेन नियम्यते । जातिगुणपरीक्षा तु ततो ऽधिकपुरुषविषयापि यथा । अतस् तस्यैव विशेषाभिधानार्थत्वाद् अपौनरुक्त्यम् ॥ ३.१२७ ॥
न श्राद्धे भोजयेन् मित्रं धनैः कार्यो ऽस्य संग्रहः ।
नारिं न मित्रं यं विद्यात् तं श्राद्धे भोजयेद् द्विजम् ॥ ३.१२८ ॥
मेधातिथिः ...{Loading}...
सत्याम् एव श्रोत्रियत्वादिपूर्वगुणसंपदि मैत्र्यादिनिमित्तेन प्रतिषेधो ऽयम् । मित्रं समानसुखदुःखम् आत्मनिर्विशेषं न श्राद्धे भोजयेत् । धनैर् अन्यैर् अस्य मित्रस्य स्वीकारो मैत्रीकरणम् । अविच्छेदो वा मैत्र्यम्, उपकार इति यावत् । न केवलं न मित्रं भोजयेत्, यावद् अरिं शत्रुम् अपि । नारिं न मित्रं यं विद्यात् । यत्र न रागो न द्वेषो न चान्यः कश्चित् संबन्धो यत्र प्रीतिनिमित्ता कार्यार्थता शङ्क्यते, अरिमित्रयोः प्रदर्शनार्थत्वात् । तथा संबन्धाशङ्कयैव मातामहादयो ऽनुकल्पपक्षोक्ताः ।
-
शत्राव् अपि मैत्रीकरणार्थदानसंभावना यदि, मैत्रीकरणम् इति संग्रहः, अरिसंग्रहणं न कर्तव्यम् ।
-
विस्पष्टार्थं भविष्यति ॥ ३.१२८ ॥
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।
तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥ ३.१२९ ॥
मेधातिथिः ...{Loading}...
पूर्वस्य प्रतिषेधस्यार्थवादो ऽयम् । मित्रशब्दो ऽयं भावप्रधानः, मित्रप्रधानानि मैत्रीप्रधानानि । तेनोभयोर्243 मित्रयोः शेषः । देवतोद्देसेन दानम् अदृष्टार्थं वा केवलं ब्राह्मणभोजनं244 हवींषि इति लक्ष्यते । प्रेत्य फलं नास्ति ।
- ननु चासमानकर्तृत्वात् कार्यानुत्पत्तिः । प्रेणः245 कर्ता पुरुषः श्राद्धकृत्, अस्तिताया246 नञर्थोपहितायाः फलम् ।
- केचिद् आहुः । प्रेत्येतिशब्दान्तरं परलोकवचनं निपातसंज्ञम्247 ।
यः संगतानि कुरुते मोहाच् छ्राद्धेन मानवः ।
स स्वर्गाच् च्यवते लोकाच् छ्राद्धमित्रो द्विजाधमः ॥ ३.१३० ॥
मेधातिथिः ...{Loading}...
संगतानि मित्रभावान्250 यः कुरुते श्राद्धेन मोहात् शास्त्रार्थम् अजानानः स स्वर्गाच् च्यवते । न प्राप्नोति स्वर्गम् इत्य् अर्थः । असंबन्धसामान्याच् च्यवत इत्य् उच्यते । यथा प्राप्तः स्वर्गं ततश् च्युतः स्वर्गेण न संबध्यते एवम् अयम् अपि । अनेन च स्राद्धफलाप्राप्तिर् एव कथ्यते । सर्वशेषता हि तथा भवति । श्राद्धमित्रः श्राद्धं मित्रम् अस्येति । मित्रलाभहेतुत्वात् श्राद्धम् एव मित्रम्, अतो बहुव्रीहिः । द्विजानाम् अधमः । द्विजग्रहणं प्रदर्शनार्थम् । शूद्रेणापि न मित्राणि भोजनीयानि ।
-
ननु चाब्राह्मण्याद् एव शूद्रस्य मित्रत्वप्राप्तिर् नास्ति ।
-
केनैषा परिभाषा कृता- शूद्रस्य ब्राह्मणैर् मित्रैर् न भवितव्यम् ।
-
समानजातीयानाम् एव मित्रव्यवहारो नोत्तमजातीयानां हीनजातीयैः सह, इति चेत् ।
-
एतद् अपि न । एवं ह्य् आह- “श्वेतकेतुर् ह वा आरुणेयः”, “अस्ति मे पञ्चालेषु क्षत्रियो मित्रम्” इति । किं च संबन्धोपलक्षणार्थं च मित्रप्रतिषेधो व्याख्यातः । भवन्ति च शूद्रस्य ब्राह्मणा अर्थसंबन्धिनः, पारशवस्य ज्ञातयो ऽपि ॥ ३.१३० ॥
संभोजनी साभिहिता पैशाची दक्षिणा द्विजैः ।
इहैवास्ते तु सा लोके गौर् अन्धेवैकवेश्मनि ॥ ३.१३१ ॥
मेधातिथिः ...{Loading}...
संशब्दः सहार्थे वर्तते । सह भुज्यते यया सा संभोजनी । मैत्र्या हि सहभोजनं251 प्रवर्तते । गोष्ठीभोजनं वा संभोजनम् इष्यते । पिशाचानाम् अयं धर्मो यत् श्राद्धे मित्रसंग्रहः । रथ्याः पुरुषाः पिशाचाः । सा दक्षिणा इहैव लोके आस्ते, नामुत्र फलं दातुं समर्था । गौर् यथान्धैकस्मिन्न् एव गृहे तिष्ठति, एवम् इयं दक्षिणा इहैवास्ते, मित्रजनार्थैव भवति । न पितृभ्य उपकारार्थाय प्रभवति । दानं दक्षिणा ॥ ३.१३१ ॥
यथेरिणे बीजम् उप्त्वा न वप्ता लभते फलम् ।
तथानृचे हविर् दत्वा न दाता लभते फलम् ॥ ३.१३२ ॥
मेधातिथिः ...{Loading}...
इरिणम् ऊषरम् । यस्मिन् क्षेत्रे भूमिदोषात् बीजम् उप्तं न चोद्गच्छति तद् इरिणम् । यत्र वप्ता कर्षको न252 लभते फलम् । एवम् अनृचे वेदाध्ययनरहिते हविर् दैवं पित्र्यं च दत्वा न लभते फलम् । अनृच इति सप्तम्यन्तम् । ऋचो वेदोपलक्षणार्थम् ॥ ३.१३२ ॥
दातॄन् प्रतिग्रहीतॄंश् च कुरुते फलभागिनः ।
विदुषे दक्षिणां दत्वा विधिवत् प्रेत्य चेह च ॥ ३.१३३ ॥
मेधातिथिः ...{Loading}...
विदुषे या दक्षिणा दीयते सा दातॄन् फलभागिनः कुरुते इति युक्तम् । प्रतिग्रहीतारस् तु कतरत् फलं भुञ्जते । यदि तावद् अदृष्टम्, तद् अयुक्तम् अनोदितत्वात् प्रतिग्रहस्य दृष्टफललाभेन प्रवृत्तेः । अथ दृष्टम्, तद् अविदुषो ऽपि दृश्यते ।
-
सत्यम् । प्रशंसैषा । ईदृशम् एतद् विदुषे दानं यत् प्रतिग्रहीताप्य् अदृष्टफलभाग् भवेत् । सत्य् अपि दृष्टे किं पुनर् दातेति ।
-
प्रेत्य स्वर्ग इह कीर्तिः- यथाशास्त्रम् अनुतिष्ठतीति जनैः साधुवादो दीयते । विधिवद् इत्य् अनुवादो ददाति चैवं धर्म्येष्व्253 इति ॥ ३.१३३ ॥
कामं श्राद्धे ऽर्चयेन् मित्रं नाभिरूपम् अपि त्वरितम् ।
द्विषता हि हविर् भुक्तं भवति प्रेत्य निष्फलम् ॥ ३.१३४ ॥
यत्नेन भोजयेच् छ्राद्धे बह्वृचं वेदपारगम् ।
शाखान्तगम् अथाध्वर्युं छन्दोगं तु समाप्तिकम् ॥ ३.१३५ ॥
मेधातिथिः ...{Loading}...
वेदपारगशाखान्तगसमाप्तिकाः शब्दा एकार्थाः समन्त्रब्राह्मनिकायाः कृत्स्नायाः शाखाया अध्येतॄन् आचक्षते । न मन्त्रसंहिताया नापि ब्राह्मणस्य, तदेकदेशस्य वा । वेदैकशाखाध्यायिनो ऽपि श्रोत्रिया उच्यन्ते । अतस् तन्निवृत्त्यर्थम् उक्तं श्रोत्रियाय देयम् इति । श्रोत्रियश् च वेदाध्यायी । वेदशब्दश् च समन्त्रब्राह्मणिकां शाखाम् आचष्टे । तदेकदेशम् अपि या कृत्स्नशाखाध्यायी254 कथं गृह्येतेत्य् एवमर्थम् इदम् ।
-
ननु चाश्रमिणो भोजनीया इत्य् उक्तम् । तत्रानधीतसकलस्वाध्यायानां नैव गार्हस्थ्याद्याश्रमसंभवः । एवं ह्य् उक्तम् “वेदः कृत्स्नो ऽधिगन्तव्यः” (म्ध् २.१६५) इति ।
-
ब्रह्मचारिणस् तर्हि प्रक्रान्तवेदाध्ययनस्य असमाप्तिगस्यापि स्यात् । वेदपारगशाखान्तगसमाप्तिकशब्दैर् एकार्थैः कार्त्स्न्यं सर्वैर् एव प्रतिपाद्यते ।
-
एकेनैव सिद्धे वृत्तानुरोधान् नानारूपैकार्थानेकशब्दोच्चारणम् । वेदानां पारं गच्छति । शाखाया अन्तःसमाप्तिर् अस्यास्तीति समाप्तिकः । अध्वर्युर् यजुर्वेदशाखाध्यायी, नायम् ऋत्विग् विशेषवचनो ऽध्वर्युशब्दः । अध्वर्यवः प्रवचनम् उच्यते । तदध्ययनसंबन्धात् पुरुषो ऽध्वर्युः । छन्दोगः सामवेदाध्यायी । स्मृत्यन्तरे त्रिसाहस्रविद्यः समाप्तिक उक्तः । तत्र सहस्रशब्दः सहस्रगीतिसंबन्धात् सामवेदे वर्तते, तस्य इमाः साहस्र्यस् तिस्रः साहस्र्यः विद्या यस्य त्रिसाहस्रविद्यः । ताण्डवमौक्तिक्यं सामगानाम् इति सहस्रवर्त्मनः सामवेदस्य तस्य तिस्रो विद्याः । दशतयी चतुःषष्टि ब्राह्मणं च बाह्वृच्यम् ।
-
अन्ये त्व् आथर्वणिकनिषेधार्थम् इदं श्लोकम् मन्यन्ते । कार्त्स्न्याद् विवक्षायाम् एतद् एवावक्ष्यत्-
-
अधीते वेदशाखां यः कृत्स्नां तं भोजयेद् द्विजम् । इति ।
-
ननु चाथर्वणिकनिषेधे ऽप्य् एतत्समानम् । तत्रापि शक्यम् एवं वक्तुं तन्निषेधे प्रायेण “न भोज्य आथर्वणिकः” इत्य् एवम् एवावक्ष्यत् । स्वशब्देन निषेधप्रतिपत्तिर् लाघवं च ।
-
नैतद् एवम् । किम् अन्यविधानेनान्यनिषेधो ऽवगम्यते स्वशब्देन वा निषेधः । विचित्रा धर्मोपदेशस्य कृतिर् मनोः ॥ ३.१३५ ॥
एषाम् अन्यतमो यस्य भुञ्जीत श्राद्दम् अर्चितः ।
पितॄणां तस्य तृप्तिः स्याच् छाश्वती साप्तपौरुषी ॥ ३.१३६ ॥
मेधातिथिः ...{Loading}...
कश्चिन् मन्येत “पितृकृत्ये त्रीन्” (म्ध् ३.११५) इत्य् उक्तम् । पूर्वश्लोके च नानाशाखाध्यायिन उपात्ताः । तत्र सब्रह्मचारिणां नास्ति प्राप्तिर् इति तदाशङ्कानिवृत्त्यर्थम् इदम् ।
- एषां त्रयाणां त्रैविद्यानाम् अन्यतमो भोजनीयः । एतद् उक्तं भवति । समानशाखाध्यायिनो नानाशाखाध्यायिनो वा भोजनीयाः । अर्चितः पूजितः प्रार्थित अर्घादिना । साप्तपौरुषी तृप्तिः । सप्तपुरुषान् व्याप्नोति । अनुशतिकादेर् आकृतिगणत्वाद् उभयपदवृद्धिः । कालमहत्वोपलक्षणार्थं चैतत् । दीर्घकाला पितॄणां तृप्तिर् भवति । यावत् सप्तपुरुषा आगामिनः पुत्रपौत्रादयो जाता जनिष्यन्ते वा तावत् तथाविधब्राह्मणदानात्255 पितरस् तृप्यन्ति । शाश्वती नान्तरा विच्छिद्य पुनर् उद्भवति । किं पुनः सर्वदा स्थितैव ॥ ३.१३६ ॥
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकपस् त्व् अयं ज्ञेयः सदा सद्भिर् अनुष्ठितः ॥ ३.१३७ ॥
मेधातिथिः ...{Loading}...
“पितृयज्ञम्” (३.११२) इत्य् आरभ्य पञ्चविंशतिमात्राः256 श्लोका अतिक्रान्तास् तत्रैतावन् अर्थो ऽभिहितः । अमावास्यायां श्राद्धं कर्तव्यम् । श्रोत्रियो विद्वान् साधुचरणः प्रत्याख्याताभिजनः श्रोत्रियापत्यम् असंबन्धी भोजनीयः । परिशिष्टं सर्वम् अर्थवादार्थम् ।
- एषो ऽनन्तरोकतः प्रथमो मुख्यः कल्पो विधिः, श्राद्धे यद् असंबन्धिने दीयते । अयं तु वक्ष्यमाणो ऽनुकल्पो ज्ञेयः । मुख्याभावे यो ऽनुष्ठीयते प्रतिनिधिन्यायेन सो ऽनुकल्प उच्यते । सदेत्यादि स्तुत्यर्थः ॥ ३.१३७ ॥
मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुम् ऋत्विग्याज्यौ च भोजयेत् ॥ ३.१३८ ॥
मेधातिथिः ...{Loading}...
स्वस्रीयो भगिन्याः पुत्रः । विट्पतिर् जामाता, प्रजावचनत्वात् विट्शब्दस्य । अतिथिर्257 अन्ये । स हि सर्वविशांपतिः गृहाभ्यागतो लोके ऽपि विट्शब्देनोच्यते । बन्धुः शालः सगोत्रादिः ॥ ३.१३८ ॥
न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् ।
पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ॥ ३.१३९ ॥
मेधातिथिः ...{Loading}...
नायं दैवे कर्मणि ब्राह्मणपरीक्षाप्रतिषेधः, किं तर्हि काणश्लीपद्यादीनां कदाचिद् दैवे ऽभ्यनुज्ञानार्थः । पित्र्ये कर्मणि श्राद्धकाले प्राप्ते परीक्षां यत्नेन कुर्यात्, न दैवे । कदाचिद् वक्ष्यमाणान् अपि भोजयेत् । येत् चाभ्यनुज्ञायन्ते तान् दर्शयिष्यामः । अन्ये258 तु वक्ष्यमाणस्य प्रतिषेधप्रकरणस्य यत्नतो वर्जनार्थम्259 उपक्रममात्रं श्लोकः, न तु काणादीनां दैवे ऽभ्यनुज्ञानार्थः ॥ ३.१३९ ॥
ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः ।
तान् हव्यकव्ययोर् विप्रान् अनर्हान् मनुर् अब्रवीत् ॥ ३.१४० ॥
मेधातिथिः ...{Loading}...
स्तेनः चौरः । पतितः पञ्चानां महापातकानाम् अन्यतमस्य कर्ता । क्लीबो नपुंसकः उभयव्यञ्जनो वातरेताः षण्ढश् च । नास्तिका लोकायतिकादयः । नास्ति दत्तं नास्ति हुतं नास्ति परलोक इति ये स्थितप्रज्ञास् तेषां वृत्तिर् आचारः अश्रद्दधानता नास्तिकवृत्तिर् येषां ते नास्तिकवृत्तयः । उत्तरपदलोपीसमासः । नास्तिका इत्य् एव सिद्धे वृत्तिपदसमाश्रयणं260 श्लोकपूरणार्थम् । अथ वा नास्तिकेभ्यो वृत्तिर् जीवनं येषां त एवम् उच्यन्ते । तान् हव्यकव्ययोर् दैवे पित्र्ये च अनर्हान् मनुर् अब्रवीत् । प्रतिषेधादरार्थं261 मनुग्रहणम्, सर्वधर्माणां मनुनोक्तत्वात् ॥ ३.१४० ॥
जटिलं चानधीयानं दुर्वालं कितवं तथा ।
याजयन्ति च ये पूगांस् तांश् च श्राद्धे न भोजयेत् ॥ ३.१४१ ॥
मेधातिथिः ...{Loading}...
जटिलो ब्रह्मचारी, तस्य ह्य् अयं केशविशेषः पाक्षिको विहितो “मुण्डो वा जटिलो वा स्यात्” (म्ध् २.२१९) इति । उपलक्षणं च जटा ब्रह्मचारिणस् ततो मुण्डो ऽपि प्रतिषिध्यते । तस्य चानधीयानस्य प्रतिषेधः ।
-
ननु “श्रोत्रियायैव देयानि” (म्ध् ३.११८) इति चानधीयानस्य प्राप्तिर् एव नास्ति ।
-
प्रक्रान्ताध्ययनः अनधीतवेदः अगृहीतवेदश् चेत्262 प्राप्नुयात् ।
-
ननु च “वेदपारगः” (म्ध् ३.१३५) इति वचनात् कुतः प्रक्रान्ताध्ययनस्य प्राप्तिः ।
-
एवं तर्हि अधीतवेदो ऽप्य् अस्वीकृतवेदो ऽनधीयानो ऽभिप्रेतः । “व्रतस्थम् अपि दौहित्रम्”263 (म्ध् ३.२२४) इत्य् अनेन वा दौहित्रतैवात्र264 नाध्ययनम् इति कश्चिन् मन्येत तदर्थम् इदम् । अनधीयानस्य प्रतिषेधाद् विदुषस् तस्याधिकारो ऽस्तीत्य् अवगम्यते ।
- दुर्वालः स्खलितलोहितकेशो विकलेन्द्रियो265 वा । तस्य हि266 निर्वचनं कुर्वन्ति । दूर्वया267 शाद्वलेनाप्य् अलं तस्य वासो भवतीति । स हि दूर्वयैव प्राव्रियते लज्जया च वाससाम् अभावे तावन्मात्रेणाप्य् अपिदधाति268 शेफम् । कितवो द्यूतकारः । याजयन्ति च ये पूगान् संघान् । व्रात्यस्तोमादिभिर् व्रात्यानां हि संहितानां यागो विहितः । प्रतिषिद्धं च तद् याजनं “व्रात्यानां याजनं कृत्वा” (म्ध् ११.१९६) इति । वयं ब्रूमः । यः क्रमशः प्रत्येकम् अपि बहून् याजयति बहुकृत्व आर्त्विज्यं करोति, सो ऽपि न भोज्यः । तथ् च वसिष्ठः- “यश् चापि बहुयाज्यः स्याद् यश् चोपनयते बहून्” (वध् १४.१७) इति ।
-
केचिद् आहुः- श्राद्धग्रहणात् पित्र्य एवैषां प्रतिषेधो न तु दैवे।
-
तद् अयुक्तम् । तद् अपि श्राद्धाङ्गम् एव श्राद्धशब्देन युक्तं वक्तुम् ॥ ३.१४१ ॥
चिकित्सका देवलका[^२७५]** मांसविक्रयिणस् तथा ।**
विपणेन च जीवन्तो वर्ज्याः स्युर् हव्यकव्ययोः ॥ ३.१४२ ॥
मेधातिथिः ...{Loading}...
भिषजः चिकित्सकाः । देवलकाः प्रतिमापरिचारकाः । आजीवनसंबन्धेनैतौ प्रतिषिध्येते । धर्मार्थत्वे तु चिकित्सकदेवकत्वयोर् अदोषः । मांसविक्रयिणः सौनिकाः । द्वितीयान्तपाठे पूर्वश्लोकाद् आख्यातानुषङ्गः । विपणेन जीवन्तः प्रतिषिद्धेन पणेन । प्रतिषिद्धाः पणा269 दशमाध्याये वक्ष्यन्ते । तेन ये जीवन्ति ते वर्ज्याः उभयत्र । मांसविक्रयिणस् तु धर्मार्थम् अपि निषिध्यन्ते । यस्य केनचिन् मांसम् उपहृतम्, अन्यस्य च तेनार्थः, उपहृतमांसस्य घृतेन होमोपयोगिना, “स मांसं घृतेन विनिर्मिमीते,” भवत्य् असौ धर्मार्थो विनिमयः । विक्रयशब्दवाच्यता विनिमयस्यापि भवतीत्य् अत ईदृशा धर्मार्थमांसविकयिणो ऽपि प्रतिषिध्यन्ते ॥ ३.१४२ ॥
प्रेष्यो ग्रामस्य राज्ञश् च कुनखी श्यावदन्तकः ।
प्रतिरोद्धा गुरोश् चैव त्यकाग्निर् वार्धुषिस् तथा ॥ ३.१४३ ॥
मेधातिथिः ...{Loading}...
प्रेष्य आज्ञाकरः । ग्रामेण यो यत्र कुत्रचित् कार्येण प्रेष्यते । एवं राजप्रेष्यः । कुनखी श्यावदन्तकः । प्रतिरोद्धा गुरोर् वाग्व्यवहारे ऽन्यत्र च यो गुरोः प्रतिबन्धे प्रातिकूल्ये च वर्तते । त्यक्ताग्निस् त्रेतावसथ्ययोर् अन्यतरस्यापि । वार्धुषिः सत्य् अन्यस्मिन् जीविकोपाये वृद्धिजीविकः ।
-
वृद्धिस् तु योक्ता धान्यानां वार्धुषित्वं तद् उच्यते ।
-
इति यत् स्मरणं तत् स्वप्रक्रियायाम् एव । वैयाकरणा हि वृद्धिजीविनो धान्याद् अन्यत्रापि वार्धुषिकशब्दं स्मरन्ति । ते च शब्दार्थस्मरणे प्रमाणतरा अभियोगवशात् ॥ ३.१४३ ॥
यक्ष्मी च पशुपालश् च परिवेत्ता निराकृतिः ।
ब्रह्मद्विट् परिवित्तिश् च गणाभ्यन्तर एव च ॥ ३.१४४ ॥
मेधातिथिः ...{Loading}...
यक्ष्मी व्याधितः । राजयक्ष्मगृहीत इत्य् अन्ये । पशुपालः यष्टिहस्तस् तद्वृत्तिजीवनः ।
- निराकृतिः सत्य् अधिकारे महायज्ञानुष्ठानरहितः । अद्यत्वे ऽप्य् अनुपजीव्यः अनद्धा निराकृतिर् उच्यते । एवं हि शतपथे- “यो न देवान् अर्चति न पितॄन् न मनुष्यान्” (श्ब् ६.३.१.२४) इति । यैस् तु पठ्यते- “अस्वाध्यायश्रुतधनैर् निराकृतिर् उदात्दृतः” इति, न ते शब्दार्थसंबन्धविदः । तस्येहाप्राप्तिर्270 एव, श्रोत्रियनियमात् । निराकर्ता देवादीनां निराकृतिर् इति धात्वर्थानुगमो ऽस्ति । धर्मधर्मिणोश् चाभेदविवक्षायां क्तिनापि271 प्रयोग उपपन्न इति । निपूर्वो ऽयं धातुर् अपवर्जने वर्तते । निराकृता अपवर्जिता उच्यन्ते- भोजनान् निराकृता, अधिकारान् निराकृता इति । अवर्जनं चाकृतिः सा निर्गतास्माद् इति निराकृतिः । संस्थानं चाकृतिस् तथा च कुत्सायां निर्द्रष्टव्यो दुराक्र्तिर् निषिध्यते । आह च “वाग्रूपवयःशीलसंपन्नः” (ग्ध् १५.९) । वाक्संपन्नो वाग्मी पटुवागिन्द्रियश् च । बहुजिह्वो न भोज्याः । रूपसंपन्नो मनोहरावयवसंनिवेशः । वयःसंपन्नः272 । “युवभ्यो दानं प्रथमं प्रतिवयस इत्य् एके” (ग्ध् १५.१०–११) इति । संज्ञाशब्दो वायं क्तिजन्तः ।
- ब्रह्मद्विट् ब्राह्मणानां वेदस्य वा द्वेष्टा, ब्रह्मशब्दस्योभयार्थवाचित्वात्- “ब्रह्मज्ञो ब्राह्मणः स्मृतः” इति । गणः सङ्घः । सहैकया क्रियया जीवन्ति ये ते गणशब्दवाच्यास् तदर्तर्गताश् चातुर्विद्यब्राह्मणाः । परिवेत्तृपरिवित्ती वक्ष्यमाणस्वरूपौ ॥ ३.१४४ ॥
कुशीलवो ऽवकीर्णी च वृषलीपतिर् एव च ।
पौर्नर्भवश् च काणश् च यस्य चोपपतिर् गृहे ॥ ३.१४५ ॥
मेधातिथिः ...{Loading}...
चारणनटनर्तकगायनादयः कुशीलवाः । अवकीर्णी विप्लुतब्रह्मचर्यः । वृषली शूद्रा तस्याः पतिः । असत्याम् अन्यस्यां273 च मन्यन्ते । वृषल्या एव च यः पतिः, यस्य द्विजातिभार्या नास्ति ।
-
कुत एतत् ।
-
प्रकरणान्तरे विगर्हिताचारसंग्रहं श्रूयते “एतान् विगर्हिताचारान्” (म्ध् ३.१५७) इति । शूद्राविवाहश् च सर्वेषाम् अनुज्ञातत्वात्, न गर्हितः । स च कृतसजातीयापरिणयनस्यानुज्ञातः । अतो ऽसत्यां सजातीयायां वृषल्या भर्ता प्रतिषिध्यते अत्र ।
-
पौनर्भवः । पुनर्भूः पुनरूढा274 । वक्ष्यति नवमे ऽध्याये “पत्या वा परित्यक्ता” (म्ध् ९.१७५) इति । काण एकेनाक्ष्णा विकलः । यस्य च उपपतिर् जायाजारो ऽवस्थितायां भार्यायाम् अस्ति । उपेक्षया निन्द्यते । तद् उक्तं “अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी” (म्ध् ८.३१७) इति ॥ ३.१४५ ॥
भृतकाध्यापको यश् च भृतकाध्यापितस् तथा ।
शूद्रशिष्यो गुरुश् चैव वाग्दुष्टः कुण्डगोलकौ ॥ ३.१४६ ॥
मेधातिथिः ...{Loading}...
भृतकाध्यापकः भृतकः सन् यो स्थितो ऽध्यापकः । भृतक इति “यदीयद् ददासि वेदम् अध्यापयामि” इति यः प्रवर्तते पणेन स भृतकाध्यापकः । एषा हि भृतिः प्रसिद्धा कायवाहादिषु । यस् त्व् “इयता धनेनेयद् अध्यापयामि “इति न निश्चित्य वचनव्यवस्थया, पूर्वम् अध्यापयति लभते चाध्यापनार्थम्, नासौ भृतकाध्यापकः । अनिरूपितपरिमाणपूर्वे चार्थदाने275 विहितम् अध्यापनम् ।
- एवं भृतकाध्यापितः । यो व्युत्पन्नबुद्धिः276 सत्यकामवत् स्वयं भृतिं दत्वाधीते स एवम् उच्यते । यस् तु पित्रादिना भृतिं दत्वा उपाध्यायान्तराभावे ऽध्याप्यते न तस्य विगर्हिताचारत्वम् । बालो हि पित्रा प्रतिषिद्धेभ्यो निवर्तनीयः । एतद् उक्तम् “गुरौ शिष्यश् च याज्यश् च” (म्ध् ८.३१७) इति ।
- शूद्रस्य शिष्यो व्याकरणादिविद्यासु गुरुश् च शूद्रस्यैव । उपसर्जनीभूतस्यापि संबन्धः, स्मृतिशास्त्रत्वात्, विगर्हिताचारत्वस्य सर्वशेषत्वात् । शूद्रगुरुत्वं च गर्हितं नान्यत् । वाचा दुष्टः परुषानृतभाषी । अभिशस्त इत्य् अन्ये । कुण्डगोलकौ वक्ष्यमाणौ ॥ ३.१४६ ॥
अकारणे परित्यक्ता मातापित्रोर् गुरोस् तथा ।
ब्राह्मैर् यौनैश् च संबन्धैः संयोगं पतितैर् गतः ॥ ३.१४७ ॥
मेधातिथिः ...{Loading}...
असति कारणे यः परित्यजति मातरं पितरं आचार्यं च । गुरुशब्दः सामान्यशब्दत्वाद् उपाध्याये ऽपि प्रवर्तते ।
-
यत् तु तथा सति मातापितृग्रहणं न कर्तव्यं स्यात्, गुरुत्वाद् एव सिद्धेर् अत आचार्य एवेह गुरुर् इति व्याचक्षते ।
-
तद् अयुक्तम् । असति मातापितृग्रहणे गुरुशब्दः पितर्य् एव कृत्रिमाकृत्रिमन्यायेन प्रवर्तते । पृथगुपादाने तु शास्त्रान्तरवद् आचार्यः श्रेष्ठो गुरूणाम् इति सामान्यशब्दता सिद्धा भवति ।
-
परित्यागकारणं च “त्यजेत् पितरं राजघातकम्” (ग्ध् २०.१) इत्यादि । मातापित्रोः परित्यागस् तत्पादसेवादेः शुश्रूषायाः अकरणम्, तदाराधने अतत्परत्वम् । गुरोर् एवम् एव । अध्यापनसमर्थे ऽध्यापयितरि च तत्त्यागेनान्यत्राध्ययनम् ।
-
पतितैः संयोगं गतः संबन्धं कृतवान् । ब्राह्मैर् याजनाध्यापनाधिभिर् यौनैः कन्यादादिभिः ।
-
ननु च पतितत्वाद् एवासौ वर्यः ।
-
केचिद् आहुः-“संवत्सरेण पतति पतितेन सहाचरन्” (म्ध् ११.१७९) नार्वाग् अयं प्रतिषेधः ।
-
अथ केयं वाचो युक्तिः संबन्धसंयोगं गत इति ।
-
नात्र संबन्धशब्दो वैशेषिकादिप्रसिद्ध्या संयोगादिवचनः, किं तर्हि क्रियैवात्र संबन्धहेतुत्वात् संबन्धशबेनोच्यते । याजनादिलक्षणे संयोगशब्दश् च संबन्धमात्रम् उपलक्षयति ॥ ३.१४७ ॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
समुद्रयायी बन्दी च तैलिकः कूटकारकः ॥ ३.१४८ ॥
मेधातिथिः ...{Loading}...
अगारस्य गृहस्य दग्धा । गरं ददातीति । प्रदर्शनार्थं च गरग्रहणं विषादीनाम् अपि । कुण्डस्य अन्नम् अश्नाति । एवं गोलकस्य, प्रदर्शनार्थत्वात् कुण्डस्य । सोमं विक्रीणीते । ओषधिः सोमस् तं यो विक्रीणीते, यागार्थम् औषधार्थं वा । अन्ये तु सोमसाधनान् ज्योतिष्टोमादियागान् आहुः । तेषां च विक्रयो यद्य् अपि न संभवति, अमूर्तत्वात् क्रियायास्, तथाप्य् अविदुषाम् एवंविधस्याचारस्य दर्शणाद् अयं प्रतिषेधः । दृश्यन्ते ह्य् अविद्वांस एवं वदन्तो “यन् मया सुकृतं कृतं तत् ते ऽस्तु” इति । सुकृतं सुकृतैः साधितं धर्मम्277 । तथा च “यां च रात्रीम् अजायेथा यां च प्रेतासि तद् उभयम् अन्तरेणेष्टापूर्तं ते लोकं सुकृतम् आयुः प्रजां वृञ्जियं यदि मे द्रुह्युः” इति । यथैव शपथा एवं दानविक्रयाव् अपि वाचा यः करोति स वर्ज्यते । अकार्यता चात एव ईदृशानां शपथदानविक्रयादीनां वाचा क्रियमाणानाम् अनुमीयते । समुद्र उदधिस् तं यो याति । बन्दी स्तुतिपाठकः । तैलिकः तिलादीनां बीजानां पेष्टा । कूटकारकः साक्ष्येष्व् अनृतवादी ॥ ३.१४८ ॥
पित्रा विवदमानश् च कितवो मद्यपस् तथा ।
पापरोग्य् अभिशस्तश् च दाम्भिको रसविक्रयी ॥ ३.१४९ ॥
मेधातिथिः ...{Loading}...
पित्रा यो विवदते परुषं भाषते, राजकुले व्यवहरतीति पूर्वपक्षोत्तरपक्षभङ्ग्या भागादिनिमित्तम् । तथा च गौतमः- “पित्राकामेन विरक्तान्” इति (ग्ध् १५.१९) ।
-
प्रतिरोद्धा गुरोर् इत्य् अनेनैतत् कथं पुनरुक्तम् उच्यते ।
-
अन्यः प्रतिरोधः अन्यश् च विवादः । यत् किंचित् गुरोर् अभिप्रेतं वस्तु “कथम् इदं सिध्येत्” इति तत्र संबन्धकथनम्278 प्रतिरोधः279 । न्याय्ये ऽपि वस्तुनि तदिच्छाप्रतिघातः प्रतिरोद्धृत्वम् । प्रतिराद्धेति तत्र पाठान्तरम् । आभिमुख्येन हिंसिता हस्तादिना गुरोः प्रतिरोद्धा चपेटादिदानेन । अस्मिन् पक्षे स्थितम् अन्यत्वं विवादस्य ।
-
कितवो द्यूतस्य कारयिता सभिकः । यस् तु स्वयंवेदिता स प्राग् एव निषिद्धः । “केकरम्” अन्ये पठन्ति, केकरो मद्यप इति । स च वलितप्रेक्षी अध्यर्धदृष्टिः । कातरम् अन्ये । स च शुकपक्षतारकः ।
-
मद्यपः । सुराया अन्यस्यारिष्टादेर् मद्यस्य पाता सुरापः, पतितत्वेनैव निरस्तः ।
-
पापरोगी कुष्ठी । स हि लोके ऽत्यन्तनिन्द्यः, पापरोगीत्य् अभिधातुं युक्तः । अस्माद् एव च प्रतिषेधात् यक्ष्मीत्य् अत्र न सर्वो व्याधिगृहीतो गृह्यते, कस् तर्हि, क्षयी । यदि हि सर्वो गृह्येत तेनैव सिद्धत्वात् पापरोगीति नाकरिष्यत् ।
-
अभिशस्तः पातकोपपातकयोः कर्तेति लोके प्रसिद्धः, असत्य् अपि तत्कर्तृकत्वनिश्चये ।
-
दाम्भिकः छद्मना धर्मं चरति280 लोकपक्त्यर्थम्, न कर्तव्यम् इति कृत्वा करोति ।
- रसविक्रयी विषस्य विक्रेता । तस्य ह्य् एतद् अभिधानम् । “उपांशुभेदी रसदः,” “रसदः सत्त्री”281 इत्यादि विषदो रसद उच्यते ॥ ३.१४९ ॥
धनुःशराणां कर्ता च यश् चाग्रेदिधिषूपतिः ।
मित्रध्रुग् द्यूतवृत्तिश् च पुत्राचार्यस् तथैव च ॥ ३.१५० ॥
मेधातिथिः ...{Loading}...
धनुः शरांश् च यः शिल्पीव करोति । यश् चाग्रेदिधिषूपतिः । दिधिषूशब्दः काकाक्षिवद् उभयेन संबध्यते । स्मृतिशास्त्रत्वाच् चेदृशः संबन्धो लभ्यते । लेखालोष्ठादयो ऽपि स्मृत्यर्थं संकेत्यन्ते भवन्ति चार्थकराः । अत एतन् न वाच्यम् “कथम् एकशब्दः समासान्तर्गतो द्वाभ्यां भिन्नप्रस्थानाभ्याम् अभिसंबध्येत इति । गौतमेन हि द्वयं निषिद्धम् (ग्ध् १५.१६) । इहापि संबन्धभेदे लिङ्गम् । द्विपदः समासः । न ह्य् अग्रेदिधिषूपतिर् नाम कश्चिद् अस्ति । एतौ च वक्ष्यमाणलक्षणौ ।
- मित्रध्रुक् । मित्रं यो द्रुह्यति । मित्रस्य यः कार्योपघाते वर्तते ।282 द्यूतवृत्तिर् द्यूतं283 जीविका यस्य ।
-
ननु च “कितवो मदयपः” इत्य् अत्रोक्तम् एव ।
-
नावश्यं द्यूतवृत्तिर् एव द्यूतस्य प्रयोजकः, किं तर्हि यः स्वयं देवितुं न जानाति गुरुभयाद् वा न दीव्यति । व्यसनी तु देवैः शप्ततयान्यं देवयति । तदर्थो द्वितीयः कितवशब्दः । अथ वा अनृतश्तीका284 द्यूतसभास्थाणवो द्यूतवृत्तयः ।
- पुत्र आचार्यो ऽध्यापको यस्य । मुख्यम् आचार्यत्वं न पुत्रे संभवति ॥ ३.१५० ॥
भ्रामरी गण्डमाली च श्वित्र्य् अथो पिशुनस् तथा ।
उन्मत्तो ऽन्धश् च वर्ज्याः स्युर् वेदनिन्दक एव च ॥ ३.१५१ ॥
मेधातिथिः ...{Loading}...
व्याधिवेशेषवचा एते । भ्रामरी अपस्मारी । गण्डमाली कपोले कण्ठे पिटका मालाकारा जायन्ते । श्वित्री श्वेतकुष्ठः । पिशुनः परमर्मप्रकाशकः कर्णेजपः । उन्मत्तः अनवस्थितचित्तो धातुसंक्षोभेण285 पिशाचगृहीतः यत्किंचनवादी यत्किंचनकारी वा । अन्धः चक्षुर्विकलः । वेदनिन्दकः ।
-
ननु च ब्रह्मद्विट्शब्देनैव ब्रह्मशब्दस्यानेकार्थकत्वात् वेदनिन्दको गृहीत एव ।
-
नैवम् । अन्या निन्दा अन्यो द्विषः । चित्तधर्मो द्वेषः, तदुपर्यप्रीतिशब्देन कुत्सनं निन्दा ॥ ३.१५१ ॥
हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर् यश् च जीवति ।
पक्षिणां पोषको यश् च युद्धाचार्यस् तथैव च ॥ ३.१५२ ॥
मेधातिथिः ...{Loading}...
हस्त्यादीनां विनेत दमकः,286 गतिशिक्षयिता । नक्षत्रैर् यश् च जीवति । नक्षत्रशब्देन ज्योतिःशास्त्रं लक्ष्यते, तेन जीवति ज्योतिषिकः । पक्षिणां श्येनादीनाम् आखेटार्थं पोषयिता । युद्धाचार्यो धनुर्वेदोपदेशकः ॥ ३.१५२ ॥
स्रोतसां भेदको यश् च तेषां चावरणे रतः ।
गृहसंवेशको दूतो वृक्षारोपक एव च ॥ ३.१५३ ॥
मेधातिथिः ...{Loading}...
स्रोतांसि उदकागमाः, तेषां भेदकः । सेतुं भित्त्वा देशान्तरे व्रीह्यादिसेकार्थं नयति । तेषां च स्रोतसाम् एव चावरणे287 रतः । आवरणं आच्छादनम् । यतः प्रदेशाद् उदकम् उद्भवति तत् स्थगयति । गृहाणां संनिवेशोपदेशकः, वास्तुविद्याजीवी, स्थपतिः सूत्रधारादिः । न त्व् आत्मनो गृहाणां संनिवेशयिता । दूतो राज्ञः प्रेष्यो दासवद् विनियोज्यः । दूतस् तु संधिविग्रहादाव् एव प्रेष्यते । वृक्षान् रोपयति मूल्येन । धर्मार्थं तु न दोषः, अविगर्हिताचारत्वात् । विहितं वृक्षारोपणम् “दशाम्रवापी नरकं न याति” ॥ ३.१५३ ॥
श्वक्रीडी श्येनजीवी च कन्यादूषक एव च ।
हिंस्रो वृषलवृत्तिश् च गणानां चैव याजकः ॥ ३.१५४ ॥
मेधातिथिः ...{Loading}...
श्वभिः क्रीडति श्वक्रीडी । क्रीडार्थं शुनो बिभर्ति । श्येनैर् जीवति क्रयविक्रयादिना । प्रागुक्तः288 पक्षिणां पोषकः पञ्जरादिसंस्थितानां धारयिता । कन्याम् अकन्यां य करोति स कन्यादूषकः । हिंस्रः स्वभावक्रूरः वधरतः । वृषलवृत्तिः शूद्रेभ्यः सेवादिना यो जीवति । “वृषलपुत्रः” इति पाठान्तरम् । केवला एव वृषलाः पुत्रा यस्य । “शूद्रापत्यैश् च केवलैः” (म्ध् ३.६४) इति गर्हिताचारः । गणानां देवतायाजकः । गणयागाः प्रसिद्धाः ॥ ३.१५४ ॥
आचारहीनः क्लीबश् च नित्यं याचनकस् तथा ।
कृषिजीवी श्लीपदी च सद्भिर् निन्दित एव च ॥ ३.१५५ ॥
मेधातिथिः ...{Loading}...
आचारो गृहाभ्यागतानां पूजादिप्रयुक्तेर् लौकिकसमाचारः, तेन वर्जितः । क्लीबो ऽल्पसत्वः, भग्नोत्साहः कर्तव्येषु । याचनकः सदैव यो याचते, यश् च याच्ञया परान् उद्वेजयति । वस्तुस्वभावो ऽयं याच्ञया याच्यमानोद्वेजनम् । “नन्द्यादिभ्यो युः”289 (३.१.१३४) स्वार्थे कः । कृषिजीवी स्वयंकृतया कृष्या जीवति, सति चोपायान्तरे अस्वयंकृतयापि । श्लीपदी एकः पादो महान् यस्य । सद्भिर् निन्दितः दुर्भगः, विनापि दोषेण सतां द्वेष्यः ॥ ३.१५५ ॥
औरभ्रिको माहिषिकः परपूर्वापतिस् तथा ।
प्रेतनिर्यापकश् चैव वर्जनीयाः प्रयत्नतः ॥ ३.१५६ ॥
मेधातिथिः ...{Loading}...
उरभ्रा मेषास् तैश् चरति, क्रयविक्रयादिना व्यवहरति, तद्धनप्रधानो वा । एवं माहिषिकः । परः पूर्वो यस्याः, तस्याः पतिः भर्ता । या अन्यस्मै दत्ता अन्येन वा ऊढा तां पुनः यः संस्करोति, पुनर् भवति भर्ता पौनर्भवो नरो भर्त्तासाव् इति शास्त्रेण । प्रेतान् यो निर्यापयति वहति । एते यत्नतो वर्जनीयाः ॥ ३.१५६ ॥
एतान् विगर्हिताचारान् अपाङ्क्तेयान् द्विजाधमान् ।
द्विजातिप्रवरो विद्वान् उभयत्र विवर्जयेत् ॥ ३.१५७ ॥
मेधातिथिः ...{Loading}...
विगर्हितो निन्दितः आचारः कर्मानुष्ठानम् एषाम् इति । काणादयः पूर्वदोषलिङ्गेन । स्तेनादयो ऽनुभूयमानदोषाः प्रत्यक्षादिना । उभयत्र दैवे पित्र्ये च । वर्जयेत् परिहरेत् । अपाङ्क्तेयाः पङ्क्तिं नार्हन्ति । भवार्थे ढक् कर्तव्यः । अनर्हत्वम् एव पङ्क्तावभवनेन प्रतीयते । अन्यैर् ब्राह्मणैः सह भोजनं नार्हन्ति । अत एव पङ्क्तिदूषका उच्यन्ते । तैः सहोपविष्टा अन्ये ऽपि दूषिता भवन्ति ॥ ३.१५७ ॥
ब्राह्मणो ह्य्[^२९७]** अनधीयानस् तृणाग्निर् इव शाम्यति ।**
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ ३.१५८ ॥
मेधातिथिः ...{Loading}...
यथैते स्तेनादयः पङ्क्तिदूषकाः, एवम् अनधीयानस् तत्तुल्यदोष इत्य् एवमर्थं पुनर्वचनम् ।
-
अन्ये तु व्याचक्षते । अधीयानानां काणादीनाम् असति वर्तमाने विगर्हिताचारत्वे दैवे कदाचित् प्राप्त्यर्थम् । अनधीयानो ब्राह्मणो वर्ज्यः, यस् तु अधीते तस्मै हव्यं कव्यम् इति न दीयते — एवमर्थम् एवात्र हव्यग्रहणम् । हव्ये अनधीयानः केवलो वर्ज्यः । ये च दृश्यमानगर्हिताचाराः । अतो ये च वचनेन उभ्यत्र प्रतिषिद्धास् ते दैवे पित्र्ये च वर्ज्याः, अन्ये तु पित्र्य एव । तथा च वसिष्ठः-
-
अथ चेन् मन्त्रविद् युक्तः शारीरैः पङ्क्तिदूषणैः ।
-
अदूष्यं तं यमः प्राह पङ्क्तिपावन एव सः ॥ इति । (वध् ११.२०)
तृणाग्निर् इव शाम्यतीति । तृणाग्निर् यथा न शक्नोति हवींषि पक्तुम्, हुतमात्रेण हविषा शाम्यति उद्वाति च । यस्मिन्न् अग्नौ हुतं न भस्मीभवति । न ततो होमात् फलम् । एवं हि श्रूयते- “असमिद्धे न होतव्यम् । अग्निर् वै सर्वा देवतः” इति । एवम् अनधीयानो ब्राह्मणस् तृणाग्नितुल्यः । एतद् एवाह- न हि भस्मनि हूयते इति । यथा तृणाग्निः प्राग् भस्मीभवति, न तत्र हूयते, एवं तादृशो ब्राह्मणो न भोज्यते ॥ ३.१५८ ॥
अपङ्क्त्यदाने यो दतुर् भवत्य् ऊर्ध्वं फलोदयः ।
दैवे कर्मणि290** पित्र्ये वा तं प्रवक्ष्याम्य् अशेषतः ॥ ३.१५९ ॥**
मेधातिथिः ...{Loading}...
अस्य प्रतिषेधविधेः फलम् आह । पङ्क्तिम् अर्हन्तीति पङ्क्त्याः । न पङ्क्त्याः अपङ्क्त्याः । दण्ड्यादिदर्शनाद् रूपसिद्धिः । तेभ्यो दाने यः फलोदयः फलोत्पत्तिर् भवति दातुः, तं सर्वम् इदानीं ब्रवीम्य् अवहिता भवतेति ॥ ३.१५९ ॥
अव्रतैर् यद् द्विजैर् भुक्तं परिवेत्त्रादिभिस् तथा ।
अपाङ्क्तेयैर् यद् अन्यैश् च तद् वै रक्षांसि भुञ्जते ॥ ३.१६० ॥
मेधातिथिः ...{Loading}...
अव्रताः असंयताः शास्त्राचारवर्जिताः । परिवेत्तृप्रभृतयो यद्य् अपि शास्त्रबाह्यास् तथापि भेदेन स्मरणार्थं दोषगुरुत्वार्थं वा कथ्यन्ते । अन्ये चापङ्क्तेयाः काणश्लीपद्यादयः । तैर् यद् अन्नं291 भुक्तं श्राद्धे भवति, तद् रक्षांसि देवद्विषो भुञ्जते, न च पितरः । अतो निष्फलं तच्छ्राद्धं भवतीत्य् उक्तं भवति । रक्षोग्रहणम् अर्थवादः ॥ ३.१६० ॥
दाराग्निहोत्रसंयोगं कुरुते यो ऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्वजः ॥ ३.१६१ ॥
मेधातिथिः ...{Loading}...
अग्रे आदौ जातः अग्रजः सोदर्यो भ्रातोच्यते । एवम् हि पठ्यते-
-
पितृव्यपुत्रान् सापत्नान् परनारीसुतांस् तथा ।
-
दाराग्निहोत्रसंयोगे न दोषः परिवेदने ॥ इति । (प्स्म् ४.२८)
अत्र सोदर्यो ऽग्रजः । तस्मिन् स्थिते ऽकृतदाराग्निसंयोगे । तिष्ठति प्रकृतव्यापारनिवृत्तौ प्रयुक्तः । अग्निहोत्रशब्दः कर्मवचनो ऽपि तदर्थे ऽग्न्याधाने वर्तते । स्मृत्यन्तरे विशेषः पठ्यते-
-
उन्मत्तः किल्बिषी कुष्ठी पतितः क्लीब एव च ।
-
राजयक्ष्मामयावी च न योग्यः स्यात् प्रतीक्षितुम् ॥
एतद् अप्य् अनधिकारोपलक्षणार्थम् । अतश् चापाङ्क्तेयो ऽपि गृह्यते292 । कालविशेषो ऽधिको व्यपेक्षते । तथा च स्मृतिः- “अष्टौ वर्षान्य् उदीक्षेत षड् इत्य् एके” (ग्ध् १८.१९) इति । एषा च वर्षसंख्या यदा कनीयान् प्राप्तविवाहकालः ततः प्रभृति द्रष्टव्यः293 । विवाहकालश् च स्वाध्यायविधिनिवृत्तिः ।
-
ननु च प्रोषिताधिकारे तत् पठितम् । भर्तरि प्रोषिते यः स्त्रीणां प्रवासकालस् तम् उपक्रम्य भ्रातरीत्यादि पठितम् ।
-
सत्यम् । वाक्यान्तरे प्रोषितशब्दस्य प्रत्यक्षः संबन्धो ऽवगतः । वाक्यान्तरे तु संबन्धे प्रमाणं वक्तव्यम् । न च तद् अस्ति, यथा स्वरितेनाधिकार इति (च्ड़्। पाण् १.३.११) । न चात्र तच्छब्दो ऽस्ति । न च तदपेक्षया विनैव तस्य वाक्यस्यापरिपूर्णत्वम् । वसिष्ठेन चाविशेषेणाग्निशब्देन स्मार्तस्याप्य् अग्नेर् ग्रहणं कृतम्294 ।
-
केचित् पितर्य् अप्य् अकृताधाने विधिम् इच्छन्ति । अग्रजशब्दस्य यौगिकत्वात् पिताप्य् अग्रजो भवतीति ।
-
यद्य् अप्य् एवम् अन्यो ऽपि यो ऽग्रजस् तत्राप्य् एवं प्राप्नोति । न चायम् अग्रजानुजव्यवहारः पितापुत्रयोर् विद्यते । स्मृत्यन्तरे ऽपि तु पठ्यते “भ्रातरि च ज्याससि” (ग्ध् १८.१८) इति ।
-
परिवित्तिः पूर्वजो ज्येष्ठः ॥ ३.१६१ ॥
परिवित्तिः परीवेत्ता यया च परिविद्यते ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ ३.१६२ ॥
मेधातिथिः ...{Loading}...
प्रसङ्गात् परिवेदनसंबन्धिनाम् अन्येषाम् अपि दोषदर्शनद्वारेण निषेधं करोति । निषेधपरिवर्जितः295 परिभूतो वा वेदनेन परिवित्तिः । परिवर्ज्यं ज्येष्ठं करोति परिवेदनं परीवेत्ता296 । यया कन्यया च परिविद्यते । सर्वे ते नरकं यान्ति । दाता याजकश् च येषां नरकगामिनां पञ्चमः । दाता कन्याया एवं प्रकृतत्वात् पित्रादिः । याजको विवाहे यः करोति होमं यो वा तत्रोपदेष्टा । अथ वा तेषाम् एव परिवेत्तृपरिवित्तितत्कन्यादातॄणां ज्योतिष्टोमादीनाम् अपि यज्ञानाम् ऋत्विक् । तस्माज् ज्येष्ठेन तथा कर्तव्यं यथास्य कनीयसो भ्रातुर् विवाहे विघनकतृत्वं न भवति । कनीयसापि कालप्रतीक्षा द्वादशाष्टषड्वार्षादिविषया कर्तव्या । कन्ययापि तादृशाय297 दातुं न देयम् । दातृयाजकौ पञ्चमौ येषाम् इति द्वन्द्वगर्भो बहुव्रीहिः ॥ ३.१६२ ॥
भ्रातुर् मृतस्य भार्यायां यो ऽनुरज्येत कामतः ।
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ ३.१६३ ॥
मेधातिथिः ...{Loading}...
नियोगधर्मेण प्रवृत्तो भ्रातुर् मृतस्य तद्भार्यागमने यो ऽनुरज्येत प्रीतिं भावयेत् । कामतः । नियोगधर्मातिक्रमेण “सकृत् सकृद् ऋतौ” (म्ध् ९.७०) इत्येवं विधिं हित्वा इच्छानुरागं गाढालिङ्गनपरिचुम्बनादि कुर्याद् असकृद् वा प्रवर्तेत, चेतसा वा विक्रियेत, कामिनीप्रेमदृष्टिबन्धवचनादिलिङ्गेनानुरागित्वेन विभावितो दिधिषूपतिर् वेद्यः । अग्रेदिधिषूपतिलक्षणं तु स्मृत्यन्तरात् ज्ञेयम्- “जीवत्य् अग्रेदिधिषूपतिः” इति ।
- केचित् तु नैवायं समाम्नाये श्लोको ऽस्तीत्य् आहुः । अपरिपूर्णं च लिङ्गं ब्रुवते । द्वयस्य लक्षणे कर्तव्ये, न कर्तव्यकरिणाम्298 एकस्योपपद्यते । स्मृत्यन्तरे चैतद् उभयं लक्ष्यते-
-
परपूर्वापतिं धीरा वदन्ति दिधिषूपतिम् ।
-
यस् त्व् अग्रेदिधिषूर् विप्रः सैव यस्य कुटुम्बिनी ॥
न त्व् इह संभवति, परपूर्वापतेः पृथग् एव निषिद्धत्वात् । तस्माद् अन्यो दिधिषूपतिः ॥ ३.१६३ ॥
परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डः स्यान् मृते भर्तरि गोलकः ॥ ३.१६४ ॥
मेधातिथिः ...{Loading}...
पत्यौ जीवति तद्गृहे स्थितायां तद्भार्यायां यो गूढोत्पन्नः भङ्ग्या उपपतित्वेन वा पत्युः क्षमया जायते सो ऽन्यजातः कुण्ड उच्यते । मृते तु गोलकः ।
-
एताव् अनियुक्तासुताव् इति केचित् ।
-
तद् अयुक्तम् । तयोर् अब्राह्मण्याद् एवाप्राप्तिः । तस्मान् नियोगोत्पन्नौ कुण्डगोलकौ ।
-
कथं पुनर् अनियुक्तासुतयोर् अब्राह्मण्यम् इतरयोस् तु ब्राह्मण्यम् ।
-
जातिलक्षणे पत्नीग्रहणात्, “सर्ववर्णेषु तुल्यासु पत्नीषु” (म्ध् १०.५) इति । संबन्धिशब्दश् च पत्नीशब्दो भर्तृशब्दवत् । यज्ञसंयोगे च पत्नीशब्दो व्युत्पाद्यते299 न चान्यदीयया भार्यया सहान्यस्य यज्ञाधिकारः ।
-
यद्य् एवं नियोगोत्पन्नयोर् अपि समानन्यायत्वान् नैव ब्राह्मण्यम् ।
-
दशम एतन् निर्णेष्यामः ।
-
मा भूद् वा नियुक्तानियुकासुतयोः कस्यचिद् अपि ब्राह्मण्यम् ।
-
ननूक्तम् असति ब्राह्मण्ये प्राप्त्यभावात् प्रतिषेधानुपपत्तिः । पतितप्रतिषेधाद् एव एतद् भविष्यति । द्विजातिकर्मभ्यो हानिः पतनम् । द्विजतिकर्मत्वे सति श्राद्धभोजनस्य कुतः पतिते प्राप्तिः । आम्नायते च प्रतिषेधो “ये स्तेनपतिताः” (म्ध् ३.१४०) ॥ ३.१६४ ॥
ते तु जाताः परक्षेत्रे प्राणिनः प्रेत्य चेह च ।
दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम् ॥ ३.१६५ ॥
मेधातिथिः ...{Loading}...
“जात्याख्यायाम्” (पाण् १.२.५८) इति बहुवचनं प्राणिन इति । ब्राह्मण्यादिव्यपदेशम् अवजानते प्राणिन इत्य् एवं व्यपदेशार्हा, न व्यपदेशान्तरम् अर्हन्ति । अतस् ते नाशयन्ति हव्यकव्यानि निष्फलीकुर्वन्ति प्रदायिनां दातॄणाम् । परिवेत्त्रादीनां लोके नातिप्रसिद्धत्वात् शब्दैश् चास्मृतत्वाद् व्यवस्थार्थं लक्षणप्रणयनम् ॥ ३.१६५ ॥
अपङ्क्त्यो यावतः पङ्क्त्यान् भुञ्जानान् अनुपश्यति ।
तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥ ३.१६६ ॥
मेधातिथिः ...{Loading}...
पङ्क्तिम् अर्हन्तीति पङ्क्त्याः । सद्भिर् एकत्रासनभोजनाद्यर्हता पङ्क्त्यता, तदभावाद् अपङ्क्त्यः । स यावतः पङ्क्त्यान् विद्वत्तपस्विश्रोत्रियान् भुञ्जानान् अनुपश्यति, तावतां न तत्र पितृतृप्त्याख्यं फलं भवति । अतः स्तेनादयः श्राद्धं कुर्वता ततः प्रदेशाद् अपसारणीयाः । बालिशो मूर्खः ॥ ३.१६६ ॥
वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य च ।
पापरोगी सहस्रस्य दातुर् नाशयते फलम् ॥ ३.१६७ ॥
मेधातिथिः ...{Loading}...
ननु चान्धस्य कुतो दर्शनम्, येनेदम् उच्यते **वीक्ष्यान्धो नवतेर्** इति ।
- सत्यम् । तत्प्रदेशसंनिधानम् अनेन लक्ष्यते । यावान् देशश् चक्षुष्मतो दृष्टिगोचरस् तावतो देशाद् अनावृताद् अन्धो विवासनीयः । काणः षष्टेः । नात्रायम् अर्थो ऽत ऊर्ध्वं भोज्या इति । केवलं संख्यापचयेन दोषलाघवं प्रायश्चित्तविशेषार्थं ज्ञाप्यते । श्वित्री कुष्ठी भण्यते । पापरोगी प्रसिद्धः ॥ ३.१६७ ॥
यावतः संस्पृशेद् अङ्गैर् ब्राह्मणाञ् छूद्रयाजकः ।
तावतां न भवेद् दतुः फलं दानस्य पौर्तिकम् ॥ ३.१६८ ॥
मेधातिथिः ...{Loading}...
यावतो ब्राह्मणान् स्पृशत्य् अङ्गैः पङ्क्तिगतः300 । अत्राप्य् अङ्गस्य स्पर्शनं न विवक्षितम्, किं तर्हि, पूर्ववत् तद्देशसंनिधिः । पौर्तिकं फलम् । पूर्ते भवं पौर्तिकम् । बहिर्वेदिदानाद् यत् फलं तत् पौर्तिकम् ॥ ३.१६८ ॥
वेदविच् चापि विप्रो ऽस्य लोभात् कृत्वा प्रतिग्रहम् ।
विनाशं व्रजति क्षिप्रम् आमपात्रम् इवाम्भसि ॥ ३.१६९ ॥
मेधातिथिः ...{Loading}...
प्रसङ्गाच् छूद्रयाजकस्याप्रतिग्राह्यतानेन कथ्यते । वेदविद् अपि यदि तस्य शूद्रयाजकस्य संबन्धिनो द्रव्यस्य प्रतिग्रहं करोति, लोभाद् इत्य् अनुवादः, सो ऽपि विनाशं व्रजति, अभिलषितेनार्थेन वियुज्यते धनपुत्रपशुशरीरादिना । किं पुनर् अवेदवित् । वेदविदः किल प्रतिग्रहे नातीव दोष इति वक्ष्यति । आमपात्रम् अपक्वं शरावादिभाजनम् । अम्भसि जले क्षिप्तम् ॥ ३.१६९ ॥
सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ।
नष्टं देवलके दत्तम् अप्रतिष्ठं तु वार्धुषौ ॥ ३.१७० ॥
मेधातिथिः ...{Loading}...
तस्यां जातौ जायते यत्र विष्ठास्य भोजनं भवति । एवं भिषजे । नष्टं निष्फलम् उद्वेगकरं वा । नष्टं हि द्रव्यं उद्वेगं जनयति । अविद्यमाना प्रतिष्ठा स्थितिर् यस्य तद् अप्रतिष्ठम् । नानारूपैः शब्दैर् एवंविधस्य दानस्य नैष्फल्यम् कर्तुश् च दोषसंबन्धः प्रतिपाद्यते । नष्टम् अप्रतिष्ठम् इति नानयोर् अर्थाभेदशङ्का कार्या, कार्यविभेदात् ॥ ३.१७० ॥
यत् तु वाणिजके दत्तं नेह नामुत्र तद् भवेत् ।
भस्मनीव हुतं द्रव्यं तथा पौनर्भवे द्विजे ॥ ३.१७१ ॥
मेधातिथिः ...{Loading}...
अयम् अपि पूर्ववद् व्याख्येयः । वाणिजकस्य भोजनं निषिद्धम् । न तद्देशसंनिधिः । न हि यथा पूर्वत्र वीक्ष्येति दृष्टिगोचरे देशे लक्षणया संनिधिस् तद्वद् इह तादृशं किंचिन् निबन्धनम् अस्ति । पौनर्भवो नवमे वक्ष्यते (म्ध् ९.१७५) ॥ ३.१७१ ॥
इतरेषु त्व् अपङ्क्त्येषु यथोद्दिष्टेष्व् असाधुषु ।
मेदोऽसृङ्मांसमज्जास्थि वदन्त्य् अन्नं मनीषिणः ॥ ३.१७२ ॥
मेधातिथिः ...{Loading}...
ये ऽस्मिन्न्301 अपङ्क्त्यदानफलप्रदर्शनप्रकरणे पठिताः अन्धादयस्, तेभ्यो ऽन्ये स्तेनादयः प्रतिकाण्डोद्दिष्टास्, तेषु यथोद्दिष्टेषु भोजितेषु दातुर् इमान्य् उपतिष्ठन्ते, मेदोऽसृङ्मांसादीनि । तादृशजातौ जायते यत्रैतदाहारो भवति, कृमिक्रव्याद्गृध्रादिजाताव् इति । मनीषिणो वेदविदो वदन्ति ।
- सर्वस्यायम् अर्थः । अपङ्क्तेषु302 भोजितेषु श्राद्धाधिकारो न कृतो भवत्य् अकरणे च विध्यतिक्रमदोषो ऽवश्यंभावी, नित्यत्वाद् अस्य विधेः ॥ ३.१७२ ॥
अपङ्क्त्योपहता पङ्क्तिः पाव्यते यैर् द्विजोत्तमैः ।
तान् निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥ ३.१७३ ॥
मेधातिथिः ...{Loading}...
अपङ्क्त्यैः पूर्वोक्तैर् उपहता दूषिता पङ्क्तिः परिषद् यैर् ब्राह्मणैः पाव्यते निर्दोषा क्रियते । तान् वक्ष्यमाणैः श्लोकैः शृणुत । कार्त्स्न्येन निःशेषेण ब्रवीमि । अर्थवादरूपाण्य् अन्यानि पदानि । यथैवैकत्र भुञ्जानो दुष्टो दूषयति अदुष्टान् एवं पङ्क्तिपावनः स्वगुणातिशयाद् अन्येषाम् अपि दोषान् अपनुदतीत्य् अस्यार्थः । न चानेनापङ्क्त्यानां भोजनम् अनुज्ञाप्यते, किं तर्हि पङ्क्तिपावनो ऽवश्यम् अन्वेषितव्यः । तस्मिंश् च लब्धे यद्य् अन्ये नातिनिपुणतः परीक्षिताः त्रिपुरुषं यावत् तथापि, तथापि न चेद्303 उपलभ्यमानदोषाः, वृथापि भोजयितव्या इत्य् एवमर्थः पङ्क्तिपावनोपदेशः ॥ ३.१७३ ॥
अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश् चैव विज्ञेयाः पङ्क्तिपावनाः ॥ ३.१७४ ॥
मेधातिथिः ...{Loading}...
अग्र्याः उत्तमाः सर्वसंशयव्युदासेन निपुणतः स्वीकृतवेदाः । सर्वेषु च प्रवचनेषु अग्र्याः इत्य् एवम् । प्रोच्यते व्याख्यायते यैर् तानि304 वेदार्थः प्रवचनान्य् अङ्गानि । षडङ्गो वेदो यैर् अभ्यस्तो ऽभ्यस्यते च । श्रोत्रियान्वये जाताः पितृपितामहादयो येषां तादृशा एव ।
- ननु चेदृशा एव भोज्यतया विहितास् तत्र को ऽतिशयो येनेदानीं305 पङ्क्तिपावनत्वम् उच्यते ।
-
किंचिद्विद्वद्भ्यो दानम्, सति श्रोत्रियत्वे विहितम् । न चेह विद्वत्तोपात्ता । न च तया पङ्क्तिपावनत्वोपपत्तिः । गुणविशेषापेक्षं हि पङ्क्तिपावनत्वं न गुणापचये युक्तम् । तस्माद् विद्वदभावे केवलश्रोत्रियाय दानार्थम् एतत् । असति विदुषे श्रोत्रियाय दानं मुख्यम् एव न गौणम् इत्य् उक्तं भवति ।
-
बहुवचनं व्यक्त्यपेक्षम् ।306 चकारः समुच्चये ॥ ३.१७४ ॥
त्रिणाचिकेतः पञ्चाग्निस् त्रिसुपर्णः षडङ्गवित् ।
ब्रह्मदेयानुसंतानो ज्येष्ठसामग एव च ॥ ३.१७५ ॥
मेधातिथिः ...{Loading}...
त्रिणाचिकेताख्यो वेदविभागो ऽध्वर्यूणाम्- “पीतोदका जग्धतृणाः” (च्ड़्। काटु १.३) इत्यादिः । तदध्ययनसंबन्धात् पुरुषो ऽत्र त्रिणाचिकेत उच्यते । अन्ये च त्रिणाचिकेतम् अधीयानानां व्रतम् आम्नातम् । तत् येन चरितं स त्रिणाचिकेतः307 । अत्रापि लक्षणयैव पुरुष उच्यते ।[^३१६]
-
न चैवं मन्तव्यं तावन्मात्रेण पङ्क्तिपावनत्वम्, किं तर्हि सति श्रोत्रियत्वादिगुणयोगे ऽधिको ऽयं गुणो द्रष्टव्यः पङ्क्तिपावनहेतुतया ।
-
पञ्चाग्निविद्या नाम छान्दोग्योपनिषदि (छु ५.३–१०) विद्याम्नायते, “स्तेनो हिरण्यस्य” इत्यादि (छु ५.१०.९) यस्याः फलम् । तदध्ययनसंबन्धात् पुरुषो ऽपि पञ्चाग्निः पूर्ववत् ।
-
अन्ये तु पञ्चाग्नयो यस्य, त्रयस् त्रेताग्नयः सभ्यावसथ्यौ च द्वौ, पञ्चाग्निः । तत्र सभ्यो नाम यो महासाधनस्य शीतापनोदार्थम् एव बहुषु देशेषु व्यवह्रियते ।
-
त्रिसुपर्णो नाम मन्त्रस् तैत्तिरीयके बाह्वृच्ये च- “ये ब्राह्मणास् त्रिसुपर्णं पठन्ति” इत्यादिः । षडङ्गो वेदस् तं वेत्तीति षडङ्गवित् । ब्राह्मधर्मेण आहूय दानेन या दत्ता तस्यानुसन्तानस् ततो जातः । ज्येष्ठसामगश् च । ज्येष्ठदोहानि आरण्यके सामानि, तानि गायति स एवम् उच्यते । अत्रापि सामगानेन तद्व्रताचरणेन वा पुरुष इत्य् उच्यते ॥ ३.१७५ ॥
वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः ।
शतायुश् चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥ ३.१७६ ॥
मेधातिथिः ...{Loading}...
वेदस्यार्थं जानाति ।
-
ननु च षडङ्गविद् उक्त एव ।
-
सत्यम् । अङ्गैर् विना स्वयम् अप्य् ऊहति प्रज्ञया308 यः स इह वेदार्थविद् अभिप्रेतः । अथ वा तस्यैवायम् अनुवादः पुनः पुनः क्रियते । न वेदार्थज्ञानेन विना सत्य् अप्य् अन्यगुणयोगे श्राद्धार्हाः ।
- प्रवक्ता व्याख्याता वेदार्थस्यैव । ब्रह्मचारी । सहस्रदः । अविशेषोपादानेन गवां सहस्रं यो दत्तवान् । इदं च युक्तम् । सहस्रशब्दस्य बहुनामत्वात्, बहु यो ददाति, उदारो वेत्य् अर्थः । न हि गवां संख्येयत्वे प्रमाणम् अस्ति । वेदे ऽप्य् उक्तम् “गावो वै यज्ञस्य मातरः” इति । अविशेषचोदनायां गावः प्रतीयन्ते । शतायुर् वृद्धवयाः । स हि परिपक्वकषायतया309 पावनत्वम् अश्नुते । शतम् आयुर् अस्येति शतायुः । वर्षाणि संख्येयानि, प्रसिद्धेः । अथ वा शतशब्दो बह्वर्थः, बह्वायुः । वृद्धवयस्त्वं चात्राभिप्रेतम् । उक्तं तु गौतमीये- “युवभ्यो दानं प्रथमम् एके पितृवत्” इति (ग्ध् १५.१०–११) । एवमर्थम् एव च ब्रह्मचारिग्रहणम् इह व्याचक्षते । स हि पूर्ववया भवति ॥ ३.१७६ ॥
पूर्वेद्युर् अपरेद्युर् वा श्राद्धकर्मण्य् उपस्थिते ।
निमन्त्रयीत310** त्र्यवरान् सम्यग् विप्रान् यथोदितान् ॥ ३.१७७ ॥**
मेधातिथिः ...{Loading}...
उक्ता यादृशा ब्राह्मणा भोजनीयाः । इदानीम् अन्येतिकर्तव्यतोच्यते । पूर्वेद्युर् यद् अहः श्राद्धं कर्तव्यम् अमावास्यायां त्रयोदश्यां वा, ततः पूर्वस्मिन्न् अहनि चतुर्दश्यां द्वादश्यां वा, श्वः श्राद्धे कर्तव्ये ब्राह्मणान् निमन्त्रयेत् । अपरेद्युस् तदहर् एव वा । विकल्पश् चात्र नियमापेक्षः । यः शक्नोति नियमान् पालयितुं स पूर्वेद्युः, अशक्तस् तदहर् एव । अधिकनियमानुपालनाच् च महाफलम् । निमन्त्रणे कर्तव्ये अध्येषणपूर्वकम् व्यापारणम् अभ्युपगमनं च । त्रयो ऽवरा येषां ते त्र्यवराः । यद्य् अत्यन्तं न्यूनास् तदा त्रयः । शक्तौ त्व् अयुजो यथोत्साहम् इत्य् उक्तम् । अवशिष्टः पदसंघातः श्लोकपूरणार्थः । उपस्थिते प्राप्ते । यथोदितान् यथोक्तान् ॥ ३.१७७ ॥
निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत् सदा ।
न च छन्दांस्य् अधीयीत यस्य श्राद्धं च तद् भवेत् ॥ ३.१७८ ॥
मेधातिथिः ...{Loading}...
पित्र्ये श्राद्धे निमन्त्रितो नियतात्मा311 भवेत् । संयतात्मा ब्रह्मचर्यं परिरक्षेत्,312 अन्यांश् च यमनियमान् अनुतिष्ठेत स्नातकव्रतादीन् । पुरुषव्रतानां नृत्यगीतादिप्रतिषेधानां कर्माङ्गता विधीयते । तथा कर्तव्यं श्राद्धकृता यथासौ ब्राह्मणो निमन्त्रणात् प्रभृति संयतेन्द्रियो भवति, अन्यथा श्राद्धं दुष्येत् । न च छन्दांसि वेदान् अधीयीत313 । यच् च वेदाक्षरोच्चारणम् अध्ययनं तन् निषिध्यते । जपस् तु संध्योपासनादाव् अप्रतिषिद्धः । यस्य तत्कर्तव्यं स्राद्धं भवेत् । पित्र्ये श्राद्धे निमन्त्रितवन् नियतात्मा भवेत् । संयतात्मा च सो ऽपि नियतात्मा भवेद् इति पदयोजना । अतो भोक्तुः कर्तुश् च निमन्त्रणात् प्रभृति तुल्यो नियमो ऽनध्ययनं च ॥ ३.१७८ ॥
निमन्त्रितान् हि पितर उपतिष्ठन्ति तान् द्विजान् ।
वायुवच् चानुगच्छन्ति तथासीनान् उपासते ॥ ३.१७९ ॥
मेधातिथिः ...{Loading}...
निमन्त्रितेन नियतात्मना भवितव्यम् इत्य् अस्य विधेर् अर्थवादो ऽयम् । यस्मान् निमन्त्रितान् ब्राह्मणान् अदृश्येन रूपेण पितर उपतिष्ठन्ति तच्छरीरम् अन्प्रविशन्ति, यथा भूतग्रहाविष्टम् । वायुवद् अनुगच्छन्ति314 । यथा वायुः प्राणः पुरुषं गच्छन्तम् अनुगच्छति,315 न गच्छन्तं प्राणो जहति, एवं पितरो वायुभूता भवन्ति । तथासीनान् ब्राह्मणान् उपासते । गच्छत्स्व् अनुगच्छन्ति, उपविष्टेषूपविशन्ति । निमन्त्रिता द्विजा पितृरूपापन्ना भवन्तीत्य् अर्थः । तस्मान् न स्वतन्त्रैर् निमन्त्रितैर् भवितव्यम् ॥ ३.१७९ ॥
केतितस् तु यथान्यायं हव्ये कव्ये द्विजोत्तमः ।
कथंचिद् अप्य् अतिक्रामन् पापः सूकरतां व्रजेत् ॥ ३.१८० ॥
मेधातिथिः ...{Loading}...
केतित उपनिमन्त्रितः । हव्ये कव्ये दैवे पित्र्ये च । अङ्गीकृत्य निमन्त्रणम् अभ्युपगम्य श्राद्धभोजनम्, यदि कथंचिद् अतिक्रामति, भोजनकाले न संविधीयते, ब्रह्मचर्यं च न रक्षति, तदा सूकरतां गच्छति स ब्राह्मणः । कथंचित् कामाद् विस्मृत्य वा । यथान्यायम् इति वृत्तपूरणम् ।
-
अन्ये त्व् आहुः । प्रार्थ्यमानस्यानभ्युपगम एवातिक्रमः । तथा च स्राद्धकल्पे उक्तम्- “अनिन्दितेनामन्त्रितो नातिक्रामेत्” इति ।
-
एतच् चायुक्तम् । लिप्सया प्रवृत्तिः श्राद्धे, न पुनः शास्त्रतः । तत्रासत्यां316 लिप्सायां यदि नाङ्गीकरोति तदा को दोषः ॥ ३.१८० ॥
आमन्त्रितस् तु यः श्राद्धे वृषल्या सह मोदते ।
दातुर् यद् दुष्कृतं किंचित् तत् सर्वं प्रतिपद्यते ॥ ३.१८१ ॥
मेधातिथिः ...{Loading}...
वृषलीशब्दः स्त्रीमात्रोपलक्षणार्थः, सामान्येन ब्रह्मचर्यस्य विधानात् । अतो ब्राह्मण्य् अपि वृषल्य् एव । वृषस्यति चालयति भर्तारम् इति यौगिकत्वं दर्शयति । अतो ऽयम् अर्थः । भोजनम् अङ्गीकृत्य तदहः यः स्त्रिया सह मोदते रमते, तया सह सुरतसंभोगेच्छया संलापालिङ्गनाद्य् अपि यो जनयति, तस्यायं दोषः । दातुः श्राद्धस्य कर्तुः, यद् दुष्कृतं पापं किंचित् तत् सर्वं तस्मिन् संक्रामति । अनिष्टफलयोगमात्रम् अनेन निर्दिश्यते । अन्यथा यत्र दाता पुण्यकृत् तत्र न कश्चिद् दोषः स्यात् । मोदनं हर्षोत्पत्तिः । तेन संलापालिङ्गनाद्य् अपि न कर्तव्यम् ॥ ३.१८१ ॥
अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ।
न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ ३.१८२ ॥
मेधातिथिः ...{Loading}...
अक्रोधनाः क्रोधवर्जिताः । शौचपराः । शौचं शुद्धता मृद्वारिभ्यां प्रायश्चित्तेनान्तःशुद्ध्या वा । सततं शुद्धेर् विशेषनम् । तेन निष्ठीवनादाव् आचमनादि तत्क्षणम् एव कर्तव्यम् । ब्रह्मचारिणः स्त्रीसंभोगं परिहरति । न्यस्तशस्त्राः । न्यस्तं त्यक्तं शस्त्रं यैः । शस्त्रग्रहणं दण्डपारुष्योपलक्षणार्थम् । महाभागाः । औदार्यधनित्वादिगुणयोगो महाभागता । यत317 एवंविधं पितॄणां रूपम्, ते च318 ब्राह्मणान् आविशन्ति, अतस् तैस् तद्रूपधारिभिर् भवितव्यम् इत्य् अर्थवादेनायम् अर्थो विधीयते ।319 पूर्वदेवताः पितरो नाम, कल्पान्तरे ऽप्य् एते320 देवता एवेति स्तुतिः । पूर्वकालं पितॄणाम् अर्चनीयत्वात् पूर्वग्रहणम् ॥ ३.१८२ ॥
यस्माद् उत्पत्तिर् एतेषां सर्वेषाम् अप्य् अशेषतः ।
ये च यैर् उपचर्याः स्युर् नियमैस् तान् निबोधत ॥ ३.१८३ ॥
मेधातिथिः ...{Loading}...
य एतेषां प्तॄणाम् उत्पत्तिर् ये च पितरो यैर् उपचर्याः । ब्राह्मणेन सोमपाः, क्षत्रियेण हविष्मन्तः इत्यादि । तत् सर्वम् अप्य् अशेषत इदानीम् उच्यमानं निबोधत बुध्यध्वम् । नियमैर् इत्य् अनुवादः, पूर्वम् एव विहितत्वात् “नियतात्मा भवेत्” इति (म्ध् ३.१७८) । बहुवचनं बहुत्वान् नियमानाम् ॥ ३.१८३ ॥
मनोर् हैरण्यगर्भस्य ये मरीच्यादयः सुताः ।
तेषाम् ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥ ३.१८४ ॥
मेधातिथिः ...{Loading}...
हिरण्यगर्भः प्रजापतिः । तस्य पुत्रो हैरण्यगर्भो मनुः । तथा चोक्तं प्रथमाध्याये- “एवं सर्वं स सृष्ट्वेदं मां च” इति (म्ध् १.५१) । तस्य मनोर् ये मरीच्यादयः पुत्राः अत्र्यङ्गिरसाव् इत्यादयस् तेषाम् ऋषीणां ये पुत्रास् त एते पितृगणाः ।
- ननु च पित्रादयः सर्वस्यात्मीयाः पितरः321 । एवं हि चोदितम्-322 “पित्रे पितामहाय प्रपितामहाय पिण्डान् निर्वपेत्” । तथा “अत ऊर्ध्वं पुत्रास् त्रिभ्यो दद्युः” इति । तत्र किम् इदम् उच्यते “ऋषीणां पुत्राः पितरः सोमपा नाम विप्राणाम्” इति । न च विकल्पः शक्यः प्रतिपत्तुम्- “सोमपेभ्यो दद्यात् पितृपितामहेभ्यो वा” इति । अत उत्पत्तौ “पुत्रेण कर्तव्यम्” इति श्रूयते । संबन्धिशब्दश् च पुत्रशब्दः । तथा “पिता यस्य तु वृत्तः स्यात्” इति (म्ध् ३.२११) । तस्माद् वक्तव्यो ऽस्य प्रकरणस्यार्थः ।
-
उच्यते । स्तुतिर् इयं पूर्वविधिशेषभूता । नात्र तेषां संप्रदानता श्रुता ।
-
ननु च “उपचर्याः” (म्ध् ३.१८३) इति विधिर् अस्ति ।
-
नायं चरतिः सामान्यक्रियारूपो विधिविषयो भवितुम् अर्हति । उपचारो नाम कश्चिद् दानयागादिवद् वेदे न प्रतीयते । प्रायेण ह्य् अयं करोतिवत् संनिहितक्रियापरतया प्रयुज्यते । संनिहितं च श्राद्धम् । तत्र विशिष्ठसंप्रदानकं323 विहितं न शक्यं पुनर् विधातुम्, विधेयत्वेन324 च न संनिधिर् अस्ति । संनिहितस्य चरतिर् बाधकः । यो ऽपि लोके “गुरव उपचर्याः” इतिप्रयोगस् तत्रापि शुश्रूषालक्षणार्थः पादधावनादिः प्रतीयते । सो ऽपि यथोदितानां पितॄणां न संभवति । प्रकृत्यैकवाक्यतया चार्थवत्तोपपत्तेर् नार्थान्तरकल्पनापि संभवति । यदि च सोमपादयो यथावर्णं श्राद्धे325 देवतात्वेनाभिप्रेताः स्युस् ततो ऽभिजनवर्णनम् उपयोगि । स्तावकत्वे326 तु सर्वम् उपपद्यते ।
- यः कश्चित् पितृद्वेषात् पित्र्ये कर्मण्य् उपहतबुद्धिर् अनादरवान्त् स्यात् तस्य प्रवृत्त्यर्थम् इदम् आरभ्यते । मैवं मंस्थाः “मृतमनुष्यरूपाः पितरः, ये न327 तर्पिताः, श्राद्धे किं दोषं करिष्यन्ति, तर्पिता वा किं गुणम्” इति । यत एते महाप्रभावाः । सर्वस्य जगतः प्रभुर् हिरण्यगर्भस् तस्य पुत्रो मनुः तस्यैते पौत्राः । अत एव ऋषीणां चेत्य् उच्यते । न मनोर् ये केचिद् अन्ये पुत्राः, किं तर्हि ऋषयस् ते च328 प्रथितप्रभावा मरीच्यादयः । तेषां पुत्राः पितरः । बहुविधाश् च प्रतिपत्तारो य एतादृशेभ्यो ऽर्थवादवाक्येभ्यः प्रवर्तन्तेतराम् ।
-
ये च व्याचक्षते, “सोमपादिदृष्टिः पितृषु कर्तव्या” इति, ते प्रमाणाभावाद् उपेक्षणीयाः । न हि यथादित्ये ब्रह्मदृष्टिः उपदिश्यते एवम् इह तादृशं किंचन वचनम् अस्ति ।
-
ये ऽप्य् आहुः “गृहीत्वा गोत्रनामनी पितृभ्यो दद्यात्” इति, तच् चैतद्गोत्रं सोमपाः इत्यादिवर्णभेदेन । तद् अप्य् अयुक्तम् । नामनिर्देशो ऽयं न गोत्रनिर्देशः, सोमपानाम् इति श्रवणात् । गोत्रनामधेयत्वे ऽपि नामशब्द उपपद्यत एवेति चेत्, एवं तर्हि गोत्रनिर्देशे329 वैयधिकरण्यं स्यात्, “पितॄणां सोमपा गोत्रम्” इति, न तु पितरः सोमपा इति ।
-
अथाभेदोपचारेण गोत्रेण संतानव्यपदेशो दृष्ट इत्य् उच्यते, यथा बभ्रुर् मन्दुर् इति ।
-
अत्रोच्यते । इदम् इह निरूप्यं किम् एतद् गोत्रं नाम । आदिपुरुषः संज्ञाकारी विद्यावित्तशौर्यौदार्यादिगुणयोगेन ख्याततमो येन कुलं व्यपदिश्यते330 । एवं तर्हि सर्वेषाम् एव ब्राह्मणादीनाम् अवान्तरगोत्रभेदाः सन्तीति । स्मरन्ति च यादृशं पुरुषं तत्संतानजाः पुरुषा “वयम् अमुष्यकुले जाताः” इत्य् अतस् तेनैव व्यपदेशो युक्तः । न हि “सोमपा वयम्” इति कश्चिद् गोत्रत्वेन सोमपान् स्मरति, यथा भृगुगर्गगालावान् । ब्राह्मणानां च तैर् एव गोत्रव्यपेदेशो युक्तः । तानि हि मुख्यानि गोत्राणि । रूढिरूपेण न तत्र गोत्रशब्दः प्रवर्तते । न हि तेषां गोत्रत्वे एतल्लक्षणम् अस्ति “आदिपुरुषः संज्ञाकारी गोत्रम्” इति, अनादित्वाद् एतद्गोत्राणाम्, ब्राह्मणादिजातिवत् । न हि पराशरजन्मत ऊर्ध्वं पाराशरव्यपदेशः केषांचिद् ब्राह्मणानाम् । एवं सति आदिमत्ता वेदस्य प्रसज्येत331 । अतो नित्यत्वाद् एतस्य332 गोत्रव्यपदेशस्योदकतर्पणादौ तद् एव गोत्रं श्रयितव्यम् । ये तु संज्ञाकारिणस् ते न नित्याः, इदानींतनाः । न च नित्ये संबवत्य् अनित्यसोमपादानं वैदिके कर्मणि युक्तम् । अतो ब्राह्मणैर् यथागोत्रं गार्ग्याय गर्गगोत्राय वा स्वधा इदम् उदकम् अस्त्व् इति एवमादिशब्देनोद्देशं कृत्वा ततो नामोच्चार्य उदकदानादि कर्तव्यम् ।
-
क्षत्रियादीनां नैतादृशो गोत्रव्यवहारो विद्यते । न हि यथा ब्राह्मणो गोत्रं नियतं स्मरति, एवं क्षत्रियादयः । तस्मात् तेषां लौकिकम् एव गोत्रम्, आदिपुरुषः संज्ञाकारी ख्याततम इति । अतस् तेन गोत्रेण श्राद्धादौ व्यपदिश्यन्ते आदिमतापि नामधेयेनैव । न तु तेषां क्षत्रियाणां हविर्भुगित्यादिगोत्रतया श्राद्धादौ व्यपदेशम् अर्हन्ति ।
-
ये ऽप्य् आहुर् अज्ञातपित्रादिनामका ये तेषाम्333 एतैः शब्दैः श्राद्धादि चोद्यते “सोमपान् आह्वयामि सोमपेभ्यः स्वधा” इति ।
- एतद् अपि न सम्यक् । उक्तं हि “नामान्य् अविद्वांस् ततः पितामहप्रपितामहेति” । यदि चार्थवादतया न प्रकृतशेषत्वेनार्थ्वत्ता लभ्येत, तत एव कल्पा आश्रियेरन् । न त्व् एकवाक्यतयान्वये संभवति वाक्यभेदकल्पनेनार्थो न्याय्यः ॥ ३.१८४ ॥
विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः ।
अग्निष्वात्ताश् च देवानां मारीचा लोकविश्रुताः ॥ ३.१८५ ॥
मेधातिथिः ...{Loading}...
श्राद्धार्थवादा अमी श्लोकाः, अशेषेणैकवाक्यत्वात् । न हि साध्यानां पितरः श्राद्धसंप्रदानं शिष्यन्ते, देवतात्वात् साध्यानाम्334 । देवतानां च न335 कर्मस्व् अधिकारः336, नियोज्यत्वाभावात् । न हि देवता नियोक्तुं शक्यते, देवतात्वहानिप्रसङ्गात् । अधिकारे सति प्रतिपत्तव्यं कर्तृत्वम् । कर्तृत्वे च कुतः संप्रदानभावः । न चान्यद् देवतारूपम् । विराजः सुताः विराट्सुताः सोमसदो नाम, ते साध्यानां पितरः । ईदृशम् एव नित्यं कर्मावश्यं कर्तव्यम्, यत् साध्याः पूर्वदेवाः कृतकरणीया337 अपि पितॄन् अर्चयन्ति । अग्नौ पक्वं चरुपुरोडाशादिकं स्वदन्ते अग्निष्वात्ताः देवानाम् इन्द्राग्न्यादीनां पितरः । मरीचेर् जाता मारीचाः । लोकविश्रुताः प्रसिद्धाः ॥ ३.१८५ ॥
दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
सुपर्णकिन्नराणां च स्मृता बर्हिषदो ऽत्रिजाः ॥ ३.१८६ ॥
मेधातिथिः ...{Loading}...
सर्व एते दैत्यादयह् शास्त्रानधिकृताः अर्थवादार्थं संकीर्त्यन्ते । तेषां च स्वरूपम् इतिहासप्रसिद्धम् । सुपर्णा पक्षिविशेषाः । किन्नरा अश्वमुखास् तिर्यञ्चः । एवंविधम् एतत् पित्र्यं338 कर्म यद् दैत्यदानवरक्षांसि यज्ञविध्वंसकराण्य् अपि नातिवर्तन्ते तथा तिर्यञ्चो ऽप्य् असंज्ञास्मृतिकाः । अत्रेर् जाता बर्हिषदो नाम ॥ ३.१८६ ॥
सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः ।
वैश्यानाम् आज्यपा नाम शूद्राणां तु सुकालिनः ॥ ३.१८७ ॥
मेधातिथिः ...{Loading}...
उक्तार्थः प्राग् एवायं स्लोकः । सोमं पिबन्ति ज्योतिष्टोमादिदेवता339 इन्द्रादयः340 । हविर्भुजश् चरुपुरोषाशादिदेवताः । आज्यपा आघारावाज्यभागप्रयाजादिदेवताः । सुकालिनः । कालयन्ति अपवर्जयन्ति कर्मेति सुकालिनः । कर्मापवर्गहोमदेवता “अयाश् चाग्नेस्यनभिशस्तीश् च” (म्स् १.४.३) इत्यादिविहिताः ॥ ३.१८७ ॥
सोमपास् तु कवेः पुत्रा हविष्मन्तो ऽङ्गिरःसुताः ।
पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥ ३.१८८ ॥
मेधातिथिः ...{Loading}...
हविर्भुज एव हविष्मन्तः । कविर् भृगुः । “काव्यं वदन्त्य् उशनसम्” इति स्मरन्ति भार्गवं च । यथैता देवता ऋषीणां पुत्रा एवं त्वदीयाश् चापि पितरो देवतारूपा एवेति मावमंस्थाः ॥ ३.१८८ ॥
अनग्निदग्धान् अग्निदग्धान् काव्यान् बर्हिषदस् तथा ।
अग्निष्वात्तांश् च सौम्यांश् च विप्राणाम् एव निर्दिशेत् ॥ ३.१८९ ॥
मेधातिथिः ...{Loading}...
अनग्निदग्धः सोमः । न ह्य् अग्निना तस्य पाको ऽस्ति । तेन या देवता इज्यन्ते ता अप्य् अनगिदग्दाः समृद्धास् तद्गुणत उच्यन्ते । एवम् अग्निदग्धानि चरुपुरोडाशादीनि हवींषि अग्निना पच्यन्ते । तैर् या देवता इज्यन्ते ता अग्निदग्धाः । पूर्ववद् एवम् अभिसंबन्धः क्रियते । ये अग्निदग्धा उच्यन्ते तान् अग्निदग्धान् निर्दिशेत् । ये अनग्निदग्धास् तान्त् सोमपान् एव निर्दिशेत् । एवं काव्यान् बर्हिषद इति । कवेः पुत्राः काव्यास् ते च “सोमपास् तु कवेः पुत्राः” (म्ध् ३.१८८) इत्य् उक्ताः । बर्हिषदो ऽत्रिजा उक्ताः । नायम् एवकारो यथादेशम् द्रष्टव्यः । तथा ह्य् अयम् अर्थः स्यात् । विप्राणाम् एवेति पितरो न क्षत्रियादीनाम् । तच् च प्रागुक्तेन विरुध्यते । न चैते वर्णभेदेन पितृत्वेनोक्ताः, येन तस्माद् आच्छिद्य ब्राह्मणादिसंबन्धिता एषाम् उच्यते । तस्माद् अपकृष्य एवकारो ऽग्निष्वात्तन् एव सौम्यान् एव निर्दिशेद् इत्य् एवं संबन्धनीयः । विप्रग्रहणम् अनुवादत्वात् क्षत्रियादिप्रदर्शनार्थम् । एवंनामानश् चैते पितरो वेदे श्रूयन्ते “अग्निष्वात्ताः पितरो ये ऽग्निदग्धा ये अनग्दग्धाः” इति तान् मन्त्रान् उदाहृत्य विवृणोति ।
- अथ वैवं341 संबन्धः क्रियते । य एतैः शब्दैः पितर उच्यन्ते तान् विप्राणाम् एव निर्दिशेत् स्वपितॄन् । न च शब्दभेदेनार्थभेदशङ्का कर्तव्या । विप्रग्रहणम् अधिकार्युपलक्षणार्थं प्राधान्यात् । प्रधानेन ह्य् उपलक्षणं भवति “राजा गच्छति” इति ॥ ३.१८९ ॥
य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः ।
तेषाम् अपीह विज्ञेयं पुत्रपौत्रम् अनन्तकम् ॥ ३.१९० ॥
मेधातिथिः ...{Loading}...
एते तु मुख्या गणाः सोमपादयः पितॄणाम् । तेषाम् अपि पुत्रपौत्राः अनन्ता विद्यन्ते । ते ऽपि पितर एव । अस्माद् वानियमवचनाद्342 एतद् गम्यते । न सोमपादय उद्देश्याः । यदि हि तेषाम् अपि पुत्रपौत्राः पितरस् ते ह्य् उद्देश्याः स्युः, न च तेषां किंचिन् नामधेयम् आम्नातम् । तस्माद् अर्थवादतैवावसीयते । गवाश्वप्रभृतित्वात् पुत्रपौत्रम् इत्य् एकवद्भावः । अनन्तकम् अपरिमितम् । स्वार्थे कः ॥ ३.१९० ॥
ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः ।
देवेभ्यस् तु जगत् सर्वं चरं स्थाण्व् अनुपूर्वशः ॥ ३.१९१ ॥
मेधातिथिः ...{Loading}...
न पित्र्यं कर्म दैवात् कर्मणो न्यूनं द्रष्टव्यम् । अपि तु तद् एव प्रधानतमम् । यतो जन्मज्येष्ठाः पितरो देवानाम् । तथा हि ऋषिभ्यः पितर उत्पन्नाः पितृभ्यो देवा इत्य् एष सृष्टिक्रमः । देवेभ्यो ऽन्यत् सर्वं जगत् चरं जङ्गमं स्थाणु स्थावरम् अनुपूर्वशः, प्रथमे ऽध्याये उक्तः क्रमः । अतिक्रान्तो ऽर्थवादसंपातः ॥ ३.१९१ ॥
राजतैर् भाजनैर् एषाम् अथो वा रजतान्वितैः[^३५२]** ।**
वार्य् अपि श्राद्धया दत्तम् अक्षयायोपकल्पते ॥ ३.१९२ ॥
मेधातिथिः ...{Loading}...
राजतानि च भाजनानि रूप्यमयानि पात्राणि । तदभावे रजतान्वितैः दारुमयानि ताम्रमयानि सौवर्णानि343 वा रौप्येणैकदेशयुक्तानि कर्तव्यानि । एतच् च पात्रं देयं घृतमध्वादिव्यञ्जनसौहित्याक्षिप्तं पात्रम्, तत्रेयं रूप्यमयता विधीयते पात्रे । यच् च पिण्डनिर्वपणादि तद्धस्ताभ्याम् एव कर्तव्यम् । यद् अप्य् उदकनिनयनं पिण्डेष्व् अवनेजनादि च तद् अपि हस्ताभ्याम् एव, “अपसव्येन हस्तेन” (म्ध् ३.२०४) इति वचनात् । यत् तूदकतर्पणम् आन्वहिकं तद् अपि हस्तेनापसव्येन सव्येन वा कर्तव्यम् ।
-
इदं हि श्राद्धप्रकरणे पठितम् ।
-
तन् न । अप्राकरणिकस्य कर्मणो ऽङ्गम् अप्य् अनारभ्याधीतम् ।
-
तत्रैव वचनम् अस्ति ।
- वार्य् अपि । अपिशब्दः पात्रप्रशंसां सूचयति । तिष्ठतु तावत् संस्कृतभोजनदानं वारिमात्रम् अपि यदि रूप्यपात्रेण दीयते तद्रूप्यगुणसंबन्धाद् अक्षयं भवति । अक्षयायोपकल्पते । अक्षयायास् तृप्तेर् हेतुर् भवतीत्य् अर्थः । श्रद्धयेति सर्वदानेषु विहितत्वाद् अनुवादः ॥ ३.१९२ ॥
देवकार्याद् द्विजातीनां पितृकार्यं विशिष्यते ।
दैवं हि पितृकार्यस्य पूर्वम् आप्यायनं स्मृतम् ॥ ३.१९३ ॥
मेधातिथिः ...{Loading}...
देवान् उद्दिश्य यत् क्रियते तद् दैवं कार्यम् । ततः पितृकार्यं विशिष्यते, विशेषेण कर्तव्यम् उद्दिश्यते । अनेन पित्र्यस्य प्राधान्यम् आह । दैवं तत्राङ्गं कर्मेत्य् उक्तं भवति । अङ्गकर्मताम् एव स्पष्टयति । दैवं हि यद् ब्राह्मणभोजनं तत् पितृकार्यस्याप्यायनं वृद्धिकरम् । न स्वतःप्रधानं पित्र्यस्यैव पोषकम् ॥ ३.१९३ ॥
तेषाम् आरक्षभूतं तु पूर्वं दैवं नियोजयेत् ।
रक्षांसि विप्रलुम्पन्ति श्राद्दम् आरक्षवर्जितम् ॥ ३.१९४ ॥
मेधातिथिः ...{Loading}...
रक्षैव आरक्षं तत् प्राप्तं आरक्षभूतं आरक्षार्थम् इत्य् उक्तं भवति । उपमायां वा भूतशब्दः, रक्षार्थम् इव346 । यदा तु रक्षार्थम् अतः पूर्वं दैवं ब्राह्मणं नियोजयेत् निमन्त्रयेत्347 आसने चोपवेशयेत् । अपरो ऽर्थवादः । रक्षांसि अदृश्यानि कानिचित् सत्वात्नि इतिहासे । क्रिया विप्रलुम्पन्ति आच्छिद्यन्ति पितृभ्यः श्राद्धम् । के पुनर् देवा उद्देश्याः । गृह्ये तावत् “विश्वान् देवान् हवामहे” इति मन्त्रस्य विनियोगाद् विश्वेदेवाः प्रतीयन्ते । पुराणे ऽप्य् उक्तम्- “विश्वेदेवा इति श्रुतिः” इति ॥ ३.१९४ ॥
दैवाद्यन्तं तद् ईहेते पित्राद्यन्तं न तद् भवेत् ।
पित्र्याद्यन्तं त्व् ईहमानः क्षिप्रं नश्यति सान्वयः ॥ ३.१९५ ॥
मेधातिथिः ...{Loading}...
आदिश् च अन्तश् च आद्यन्तौ । दैवं आद्यन्ताव् अस्येति दैवाद्यन्तम् । दैवेन कर्मणा आदिर् उपक्रमः श्राद्धस्य कर्तव्यः । अतश् च निमन्त्रणं देवानां पूर्वं कर्तव्यम् । अन्तः समाप्तिः । विसर्जितेषु पित्र्येषु ब्राह्मणेषु पश्चाद् देवानां विसर्जनं कर्तव्यम् ।
-
गन्धादिदाने ऽपि दैवोपक्रमतां मन्यन्ते ।
-
न तु तेषां पदार्थानां दैवेनोपक्रमसमाप्ती संभवतः, आवृत्तिप्रसङ्गात् । प्रयोगधर्मश् चायं दैवाद्यन्तता, न प्रतिपदार्थधर्मः । पदार्थानां तु गन्धमाल्यादीनां दैवोपक्रमताविशेषेण348 कर्तव्यम् उद्दिश्यते । तावत् प्रवृत्तिकेनैव349 क्रमेण सिद्ध्यति । निमन्त्रणं तावद् दैवपूर्वं कर्तव्यम् । यत एव प्रथमः पदार्थ आरब्धस् तत एवान्येषाम् आरम्भो युक्तः । पदार्थः पदार्थान्तरारम्भं नियच्छति यतः । तद् उक्तम्- “प्रकृत्या कृतकालानां गुणानां तदुपक्रमात्” इति350 ।
-
तच् छ्राद्धकर्म ईहेत कुर्यात् । परिशिष्टो ऽर्थवादः । पित्र्याद्यन्तं न तद् भवेत् । दैवाद्यन्तत्वस्य विहितत्वात् पित्र्याद्यन्तप्रेतिषेधो ऽर्थवादतया लौकिकवाक्यवन् नेयः । लोके हि किंचिद् विधाय तद्विपरीतम् अप्राप्तम् अपि निषेधति । क्रिया हि द्र्वयं विनयति नाद्रव्यम् इति । क्षिप्रं नश्यति सान्वयः । संतानाफलप्रदर्शनरूपो ऽयं निन्दार्थवादः । अतश् च सर्वं परिवेषणादि दैवपूर्वकं कर्तव्यम् ।
-
यत् त्व् अन्तरा भक्ताद्युपनयनं पिपासतां च पानादिदानं तद् यस्यैवेच्छा प्रथमम् उपजाता तस्मा एवोपनेतव्यम् । अनर्थिनस् तदनुरोधेनोपनीयमाने प्रधानविधिबाधः स्यात् “हर्षयेत् ब्राह्मणान्” इति । तथा कश्चिन् मधुररसप्रियो ऽपरो ऽम्लरससात्म्यस् तत्र, “भक्ष्यं भोज्यं च विविधं पानानि सुरभीणि च” (म्ध् ३.२१७) इति बहुषु पानकेषु सत्सु यद्य् अन्यानुरोधेन न अन्यत्र रससात्म्यम् आपादयेत् ततो व्याधिर् अस्य जनितः स्यात् । तस्माद् उपक्रमसमापने एव दैवादिना351 ॥ ३.१९५ ॥
शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ।
दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ ३.१९६ ॥
मेधातिथिः ...{Loading}...
शुचिर् भस्मास्थिकपालकाद्यनुपहतः । विविक्तो विस्तीर्णो बहुभिर् जनैर् अनाकीर्णः । दक्षिणाप्रवणो दक्षिणस्यां दिश्य् अवनतः । तादृशं देशं यत्नेन संपादयेत् । स्वभावतश् चेत् तादृशो न लभ्यते तथा कर्तव्यं यथा स्वव्यापारेण संपाद्यते । तं च गोशकृतोपलेपयेत् । मृदादयो निवर्तन्ते, गोमयेनोपलेपनियमात् ॥ ३.१९६ ॥
अवकाशेषु चोक्षेषु जलतीरेषु चैव हि ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ ३.१९७ ॥
मेधातिथिः ...{Loading}...
अवकाशो देशः । चोक्षाः स्वभावशुचयो मनःप्रसादजनका अरण्यादयः । जलतीराणि सरित्समीपपुलिनादीनि । विविक्तेषु विजनेषु तीर्थेषु च । विध्यन्तरम् इदम् । अतश् च गोमयोपलेपननियमो नास्ति, उपपादयेद् इति वचनात् । यत्र संपाद्यं शुचित्वं तत्रासौ नियमः । स्वभावतः शुचिषु “दृष्टम् अद्भिर् निर्णिक्तम्” (म्ध् ५.१२५) इत्य् एतावतैव योग्यता । एतेषु देशेषु दत्तेन कृतेन श्राद्धेनात्यन्ततुष्टाः352 पितरो भवन्तीति ॥ ३.१९७ ॥
आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथक् पृथक् ।
उपस्पृष्टोदकान् सम्यग् विप्रांस् तान् उपवेशयेत् ॥ ३.१९८ ॥
मेधातिथिः ...{Loading}...
उपकॢप्तेषु कल्पितेषु विन्यस्तेषु पृथक् पृथक् विभागेन । नैकम् आसनं दीर्घधौतफलकादि सर्वेभ्यो दद्यात् । परस्परं यथा न स्पृशन्ति तथोपवेशनीया इति पृथग्ग्रहणम् । बर्हिष्मत्सु दर्भविष्टरास्तीर्णेषु । उपस्पृष्टोदकान् स्नातान् कृताचमनविधींश् च । तान् पूर्वनिमन्त्रितान् उपवेशयेत् ॥ ३.१९८ ॥
उपवेश्य तु तान् विप्रान् आसनेष्व् अजुगुप्सितान् ।
गन्धमाल्यैः सुरभिभिर् अर्चयेद् देवपूर्वकम् ॥ ३.१९९ ॥
मेधातिथिः ...{Loading}...
उपवेशनानन्तरं गन्धमाल्यैर् अर्चयेत् । गन्धान् कुकुङ्कुमकर्पूरादीन् दद्यात् । माल्यानि कुसुमस्रजः । सुरभिग्रहणं माल्यविशेषणम् । निर्गन्धानि पुष्पाणि न दद्यात् । गन्धेष्व् अपि युक्तं विशेषणम्, सन्ति गन्धा असुरभयस् तन्निवृत्त्यर्थम् । अथ वा सुरभिभिर् धूपैः । स्वतन्त्रं सुरभिग्रहणम् । दैवेभ्यो ब्राह्मणेभ्यः पूर्वं दत्त्वा ततः पित्र्येभ्यो दात्वयम् ।
-
इदं तु दैवपूर्वग्रहणं प्राग्भोजनप्रवृत्तेः पदार्थानां तदादिनियमार्थम् । प्रवृत्तभोजनानां तु पानव्यञ्जनादिषु न नियम इत्य् एवमर्थं आहुः । अन्यथा को ऽर्थः पुनर् अभिधाने स्यात् ।
-
अजुगुप्सितान् अनिन्दितान् विप्रान् । अनुवादो ऽयम् । तादृशानाम् एव विधानम् । अथ वा सत्य् अपि भूतप्रत्ययनिर्देशे प्रकृत्यर्थकर्तव्यतानिषेध एवायम् । उपरिष्टान् न जुगुप्सेत न निन्देतेत्य् उक्तं भवति । प्रत्ययार्थमात्रत्यागो वरं न सर्वपदार्थत्याग इति मन्यन्ते । अनुवादे हि कृत्स्नम् एव पदम् अनर्थकम् ॥ ३.१९९ ॥
तेषाम् उदकम् आनीय सपवित्रांस् तिलान् अपि ।
अग्नौ कुर्याद् अनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥ ३.२०० ॥
मेधातिथिः ...{Loading}...
अनुलिप्तेषु स्रग्विषु सुरभिधूपाञ् जिघ्रत्सु अर्घोदकम् उपनेतव्यम् । तेनैव सपवित्रांस्353 तिलान् अपि । पवित्रशब्दो दर्भेषु वर्तते । तेषां ब्राह्मणानाम् उदकम् आनीय दत्वा तैर् अनुज्ञातो ऽग्नौ होमं कुर्यात् । ब्राह्मणैर् अनुज्ञातः कुर्याद् इति संबन्धः । सह सर्वे युगपद् अनुज्ञां दद्युः ।
- अनुज्ञापनवाक्यम् अपि सामर्थ्यप्राप्तम् । न हि ते ऽप्रार्थिता354 अनुजानीरन् । ततश् च “अग्नौ कर्वाणि, करिष्ये” इत्य् एवमादीनि प्रश्नवाक्यानि लभ्यन्ते । अनुज्ञावाक्यम् अपि सामर्थ्यात् प्राप्तम् । सर्वं चैतत् साधुभिः शब्दैः कर्तव्यम् । प्रदर्शितं चैतत् गृह्यकारैः “अग्नौ करवाणि करिष्ये इति चानुज्ञापयेद् ॐकुर्व् इत्य् एवं ब्रूह्युः” ॥ ३.२०० ॥
अग्नेः सोमयमाभ्यां च कृत्वाप्यायनम् आदितः ।
हविर्दानेन विधिवत् पश्चात् संतर्पयेत् पितॄन् ॥ ३.२०१ ॥
मेधातिथिः ...{Loading}...
यद् अग्नौ कर्तव्यं तद् उच्यते । अग्नेः चतुर्थ्यर्थे षष्ठी । अग्निर् एका देवता । सोमयमाभ्याम् इति द्वन्द्वस्य देवतात्वम् अग्नीषोमवत् । अनयोर् देवतयोर् आदित आप्यायनं हविर्दानेन कृत्वा पश्चात् संतर्पयेत् पितॄन् । पिण्डनिर्वपणं ब्राह्मणभोजनं च कुर्याद् इत्य् अर्थः । गृह्ये त्व् अन्या देवताः समाम्नाताः । येषां गृह्यं नास्ति तेषाम् इदं देवतावचनम् । आप्यायनं पोषणम् । “हविषा देवताः पुष्यन्ति” इत्य् अर्थवादः ॥ ३.२०१ ॥
अग्न्यभावे तु विप्रस्य पाणाव् एवोपपादयेत् ।
यो ह्य् अग्निः स द्विजो विप्रैर् मन्त्रदर्शिभिर् उच्यते ॥ ३.२०२ ॥
मेधातिथिः ...{Loading}...
स्मार्तस्य वैवाहिकस्य दायादेर् वा अग्नेर् अभावे विधिर् अयम् उच्यते । लौकिकस्य तु पितृयज्ञनिषेधात् भावाभावाव् अचिन्त्यौ । “न पैतृयज्ञिको होमो लौकिके ऽग्नौ” इति वक्ष्यति (म्ध् ३.२७२) ।
-
कथं पुनस् तस्याग्नेर् अभावः ।
-
प्रोषितस्याग्निना विना द्रव्यब्राह्मणदेशसंपत्तौ च श्राद्धकाल उक्तः, नामावस्यैव । तत्र355 प्रोषितेन यदि पङ्क्तिपावनः प्राप्तो द्रव्यं वा कालशाकादि तत्रायं विधिर् उच्यते ।
- ननु च प्रोषितस्य कथं श्राद्धाधिकारः । यदि तावद् भार्या प्रवसति अग्निनापि तत्रैव संनिधातव्यम् । यतो नोभाभ्याम् अग्नेर् विरह इष्यते, भार्यया356 यजमानेन च । एवं हि श्रूयते- “नाग्निर् अन्तरितव्यः प्रवस्ताम्” इति । अथ केवल एव गृहस्थः प्रवसेत् तदा भवेद् अग्न्यभावः । किं तु मध्यकत्वाद् एतस्य सहाधिकाराच् च, भार्यायाम् असंनिहितायाम्, तदिच्छाया अभावात् कथं साधारणस्य श्राद्धे विनियोगः । साधारणे हि द्रव्ये अन्यतरानिच्छायां त्याग एव न संवर्तते ।
- अथोच्यते । तीर्थेष्व् अपि श्राद्धकरणम् अनेन न्यायेन न357 प्राप्नोति । तत्रेमानि वचनानि विरुध्यन्ते-
-
पुष्करेष्व् अक्षयं श्राद्धं तपश् चैव महाफलम् ।
-
महोदधौ प्रभासे च तद्वद् एव विनिर्दिशेत् ॥ इति ।
-
नैष दोषः । भार्यया सह तीर्थयात्रां गच्छतः साग्निकस्योपपत्स्यते । इह तु भार्यया सह प्रवासः, तदा नास्त्य् अग्नेर् अभावः । अथ केवलस्य, तदा भार्येच्छाया अपरिज्ञानाद् अनधिकारः ।
-
उच्यते358 । प्रवसन् भार्याम् अनुज्ञापयति “धर्माय विनियोगं द्रव्यस्य करिष्यामि” इति । तत्प्राप्तानुज्ञो ऽधिकरिष्यते ।
- प्राक् चोपनयनाद्359 असत्य् अग्निपरिग्रहे विधिर् अयं भविष्यति । अस्ति चानुपनीतस्य श्राद्धाधिकारः । “स्वधानिनयणाद्” (म्ध् २.१७२) इति दर्शितम् । स्नातस्य च प्राग् विवाहात् पितृमरणादाव् अग्न्यभावः ।
-
ननु च परमेष्ठिमरणे ऽग्निपरिग्रहः काठके पठ्यते ।
-
कृतदारस्यासौ द्रष्टव्यो न स्नातकमात्रस्य । द्वौ हि कालौ स्मार्तकस्याग्नेर् विहितौ- “भार्यादिर् दायादिर् वा”360 (ग्ध् ५.७) । तत्र येन विवाहकाले न परिगृहीतो ऽग्निः, पित्राविभक्तत्वात्, ज्येष्ठेन वा सह वसता “भ्रातॄणाम् अविभक्तानाम् एको धर्मः प्रवर्तते” (न्स्म् १३.३७) इति अनेन, तस्यासौ द्वितीयः कालः “दायकालाद् ऋते वा” इति । एष एव दायकालो यदा पिता म्रियते । तदपेक्षम् एवैतत् । “शुचिर् भूतः पितृभ्यो दद्यात्”, “भ्राष्ट्र्यो हाग्निम् आनीय प्रतिजागृयात्” इति । न चेद् अग्न्याधानं श्राद्धाङ्गम् । तथा361 सति न362 तदर्वाग् यस्योत्पत्तिः श्राद्धं वा वर्तते । न चाप्य् अत्यागो ऽस्ति । “एष औपसदो ऽग्निस् तस्मिन् पाकयज्ञः” इति पठ्यते । न च पाकयज्ञे ऽप्य् अभार्यस्याधिकारः । “पत्न्यवेक्षितम् आज्यं भवति” । “व्रतं च पत्न्य् उपेयात्” इति दर्शपूर्णमासयोः श्रूयते । न च यदा पत्नी तदैतत् व्रतोपायनाज्यावेक्षणे पत्नीकर्तृके भविष्यत इति शक्यम् अवकल्पयितुम्, नित्यवद् आम्नानात् । विधिर् होतव्यः प्राप्नोति ।
-
ननु च न पितृमरणम् एव दायकालः । एवं हि पठ्यते- “सपिण्डीकरणं कृत्वा विभजेरन् ततः सुताः” इति ।
-
विभागस्यायं कालो न दायस्य । विभागे ऽपि नायं नियमः, यतो “धर्म्या363 पृथक्क्रिया” (म्ध् ९.१११) इति पठ्यते । तस्याश् च धर्मत्वं विभक्तानां पृथक् पृथक् श्राद्धकरणेनातिथ्यादिपूजया च ।
- न च364 “नव श्राद्धं सह दद्युः” इत्यादीनि वाक्यानि समाप्तविद्याविषयाणि । ईषद्विद्यो रागोद्रेकात् स्वदारनियमं मातिक्रमिषम् इति कृतविवाहः प्रक्रान्तवेदार्थप्रवणस् तस्य संवत्सरमात्रेण विद्यासमाप्ताव् इदम् उच्यते- “सपिण्डीकरणं कृत्वा विभजेरन्” इति । तदा मृतभार्यस्य पुनर् दारांश् चिकीर्षत आ दारप्राप्तेर् भवत्य् अग्नेर् अभावः । सर्वथा पत्न्या सह यष्टव्यम् इत्य् अस्तित्ववचने सति नाकृतविवाहस्याग्निपरिग्रहः ।
- एवं स्थिते ऽग्नेर् अभावे आहुती ब्राह्मणस्य हस्ते प्रक्षिपेत् । कस्य ब्राह्मणस्य । य एव निमन्त्रितास् तेषाम् अन्यतमस्य दैव उपवेशितस्यान्यस्य वा निमन्त्रितस्य । अर्थवादो यो ह्य् अग्निः इति । मन्त्रदर्शिभिः संमतश् चेदम्365 अर्थविद्भिः ॥ ३.२०२ ॥
अक्रोधनान् सुप्रसादान् वदन्त्य् एतान् पुरातनाः[^३७६]** ।**
लोकस्याप्यायने युक्तान् श्राद्धे देवान् द्विजोत्तमान् ॥ ३.२०३ ॥
मेधातिथिः ...{Loading}...
अयम् अर्थवाद एव । ब्राह्मणानां देवतारूपत्वं संपादयति । अग्निर् देवता । तत्र हुतं तन्मुखेन देवता अश्नन्ति । ब्राह्मणो ऽप्य् एवंरूपः । तद्धस्ते ऽपि क्षिप्तं देवता अश्नन्त्य् एव ।
-
किं पुनर् देवतानां रूपं येन ब्राह्मणो ऽपि देवतारुप उच्यते ।
-
अत आह अक्रोधनान् इति । कथं366 ब्रुवते । तदर्थं दर्शयति । य एवंस्वभावा ब्राह्मणास् तेषां हस्ते आज्याहुती प्रक्षेप्तव्ये ।
-
अन्ये त्व् आहुः । पूर्वत्राक्रोधना इत्यादिना पितॄन् उद्दिश्य निमन्त्रितानां स्तुत्यानाम् अक्रोधनादिधर्मो विहितः । अनेन देवनिमन्त्रितानाम् इति विशेषः ।
-
तथा चाह- श्राद्धे देवान् इति । पुरातना मुनय367 एवं वदन्ति । द्वितीयान्तो वा पठितव्यः । पुरातनान् एतान् देवान्त् साध्यदेवान् अस्मिन् कल्पे समुत्पन्नान् । लोकस्याप्यायने युक्तान् । एवं श्राद्धं भुञ्जते । तत्र नैवं मन्तव्यम्- दृष्टसुखार्थ्नो लोभात् स्वार्थे प्रवर्तन्ते ऽतश् च किम् इत्य् एषां पूजा क्रियते । यत आप्याययन्ति लोकं पृथिवीम् अन्तरिक्षं दिवं चातो नैषाम् अवज्ञा कर्तव्या ॥ ३.२०३ ॥
अपसव्यम् अग्नौ कृत्वा सर्वम् आवृत् परिक्रमम् ।
अपसव्येन हस्तेन निर्वपेद् उदकं भुवि ॥ ३.२०४ ॥
मेधातिथिः ...{Loading}...
अग्नौ यत् कर्तव्यम् “अग्नये स्वधा नमः” इति आहुतिप्रक्षेपलक्षणं कार्यं तद् अपसव्यम् । दक्षिणेन हस्तेन कर्तव्यम्, न सव्येन, नोभाभ्याम्, “उभयोर् हस्तयोर् मुक्तम्” (म्ध् ३.२१५) इति निषेधात् ।
-
हस्तद्वयसंयोगेन कर्तव्यताशङ्कायाम् अपसव्येनेत्य् उक्तम् इति केचित् ।
-
इदं त्व् अयुक्तम् । या अग्नाव् आहुतयो हूयन्ते तासां च या आवृत् परिक्रमस् तस्यापसव्यता विधीयते । दक्षिणासंस्था आहुतीः कुर्यात् नोदक्संस्थाः, यथा दैवे । दर्व्या वा हविर्भिस् तु कारयितव्यं नोदीच्यां किं तर्हि दक्षिणाभिमुखं यथोदकं पित्र्येण तीर्थेन कार्यते ।
-
सर्वग्रहणाद् अन्यद् अपि परिवेषणाद्य् अपसव्यम् एव कर्तव्यम् । अपसव्येन हस्तेनोदकं निर्वपेत् । “शनैः” इति वा पाठः । अत्रार्थः । अन्यथा “राजतैर् भाजनैः” (म्ध् ३.१९२) इत्य् अनेन राजतभाजनप्राप्तये सव्यहस्तविधिः । आवृत् तिरावृत् ॥ ३.२०४ ॥
त्रींस् तु तस्माद् धविःशेषात् पिण्डान् कृत्वा समाहितः ।
औदकेनैव विधिना निर्वपेद् दक्षिणामुखः ॥ ३.२०५ ॥
मेधातिथिः ...{Loading}...
यत् तद्धोमार्थं पात्रे गृहीतम् अन्नं तस्माद् धुतशिष्टात् त्रीन् पिण्डान् कृत्वा दक्षिणस्यां दिशि मुखं कृत्वा निर्वपेत् । दर्भेषु पितॄन् उद्दिश्य प्रक्षिपेत् । संहतं द्रव्यं पिण्डशब्देनोच्यते । तेन विशदम् अन्नं न दातव्यम् । औदकेन । औदको विधिर् यः समनन्तरम् एवोक्तः “अपसव्येन” इत्यादि (म्ध् ३.२०४) ।
- अत्रेदं संदिह्यते । किं यत् तदन्नं ब्राह्मणभोजनार्थं साधितं ततो ऽप्य् उद्धृत्य हविःसंस्कारः कर्तव्यः, उत368 पृथक् चरुः साधनीय369 इति । किंपरिमाणं च तद् धविर् इति । न ह्य् अत्र “चतुरो मुष्टीन्” इत्यादिपरिमाणसंभवः ।
- विचारितम् एतत् । विशेषाश्रवणात् कामचारः । परिमाणं यावता अर्थसिद्धिर् भवति । औदकविध्यतिदेशाच् च स्वहस्तेनापसव्येन पिण्डनिर्वपणम्, न राजतैः पात्रैः । समाहितग्रहणं वृत्तपूरणार्थम् ॥ ३.२०५ ॥
न्युप्य पिण्डांस् ततस् तांस् तु प्रयतो विधिपूर्वकम् ।
तेषु दर्भेषु तं हस्तं निर्मृज्याल् लेपभागिनाम् ॥ ३.२०६ ॥
मेधातिथिः ...{Loading}...
न्युप्य दत्त्वा दर्भेषु तान् पिण्डान् तं हस्तं निर्मृज्याद् दर्भेषु तेषु येष्व् एव पिण्डनिर्वपणं कृतम् । स्मृत्यन्तरदर्शनात्, दर्भमूलेषु मार्जनम् ।
- अपरे च न हस्तसंलग्नस्यान्नस्योदकस्यैव370 दर्भेषु संश्लेषणम् । यदि न किंचिद् अपि हस्ते संश्लिष्येत् तथापि हस्तं दर्भेषु निमृज्याद् एव । न ह्य् एतत् प्रतिपत्तिकर्मैव । येनासति वचनप्रयोजने न क्रियेत371 । नेह श्रूयते “हस्तलग्नं निर्मृज्यात्” किं तर्हि हस्तम् एव ।
-
ननु च लेपभागिनाम् इति स्रूयते । तत्रासति लेपे न प्राप्नोति । अतः किम् उच्यते “यदि न किंचिद् अपि हस्ते संश्लिष्येत् तथापि कर्तव्यम्” इति ।
-
उच्यते । साक्षात् मूर्तम् अन्नं कदाचिन् न श्लिष्यति । पिण्डेष्व् अनुवर्त्यमानेषु अन्नरस उष्मावसंपर्कात् संक्रामति372 हस्ते । स एव लेप उच्यते ।
-
लेपभागिनाम् इति षष्ठी निर्मार्जनस्य तत्संबन्धिताम् आह । न च लेपभागिनः प्रत्यक्षदृश्याः सन्ति येषां स्वस्वाम्यादिसंबन्धो लेपस्य क्रियेत । तस्माऌ लेपभागिनाम् अयं भागो ऽस्त्व् इति मनसा ध्यायेत । शब्देन वोद्दिशेत् ।
-
अन्ये तु प्रपितामहात् पूर्वे ये पितरस् तान् लेपभागिन आहुः । अस्मिन् दर्शने प्रपितामहपित्रे प्रपितामहपितामहायेत्यादिभिः शब्दैर् उद्देशः कर्तव्यो ऽसति तन्नामनिवेदने ।
-
हस्तम् इत्य् एकवचननिर्देशाद् एकेनापसव्येन हस्तेन पिण्डनिर्वपणं दर्शयति । प्रयत इत्य् अनुवादह्, विहितत्वात् । विधिपूर्वकम् इति शास्त्रान्तरदृष्टं विधिं परिगृह्णाति । “गन्धमाल्यधूपाच्छादनसिद्धोपहारैः पिण्डं निर्वपेत्” इति शङ्खः । यस् त्व् इह विधिः श्रुतः स स्वमतेनैवोक इति विधिपूर्वकम् इत्य् एतद् अनर्थकम् । तस्माच् छास्त्रान्तरविध्युपसंहारार्थं विधिपूर्वकम् इति वचनम् ॥ ३.२०६ ॥
आचम्योदक् परावृत्य त्रिर् आयम्य शनैर् असून् ।
षडृतूंश् च नमस्कुर्यात् पितॄन् एव च मन्त्रवत्373** ॥ ३.२०७ ॥**
मेधातिथिः ...{Loading}...
दर्भेषु पिण्डान् दत्त्वोदीचीं दिशं परावर्तेत । सव्येन मार्गेण । स्मृत्यन्तरे हि “सव्यावृद् उदक् परावृत्त्य” इति पठ्यते । उत्तराभिमुखः स्थित्वा आचामेत् । आचम्य त्रीन् प्राणायामान् कुर्यात् । असून् प्राणान् आयम्य संनिरुध्य इत्य् एव । अत्र च “गायत्रीं शिरसा” (य्ध् १.२३) इत्यादिविधिर् नास्ति । शनैर् यथा नातिपीडा भवति । तथा चाह । यथावाक्यं प्राणान् आसित्वा । तद् अभिमुख एव सकृण् नमस्कुर्यात् । वसन्ताय नम इत्यादि । पितॄंश् च नमस्कुर्यात् । मन्त्रवत् । “नमो वः पितरः” इत्यादिना मन्त्रेण । पितॄणां नमस्कारः पिण्डाभिमुखेन कर्तव्यः । “अभिपर्यायवृत्त्या” इति हि स्मृत्यन्तरम् ॥ ३.२०७ ॥
उदकं निनयेच् छेषं शनैः पिण्डान्तिके पुनः ।
अवजिघ्रेच् च तान् पिण्डान् यथान्युप्तान् समाहितः ॥ ३.२०८ ॥
मेधातिथिः ...{Loading}...
यत एव पात्राद् उदकेन प्राक् पिण्डदानाद् दर्भेषूदकनिनयनं कृतं तत एव पुनर् निनयनं पिण्डान्तिके पिण्डसमीपे कर्तव्यम् इति । शेषग्रहणं प्रतिपत्त्यर्थं तस्योदकस्य । तथा हि शेषशब्द उपपन्नो भवति । अतश् च कथंचित् तस्याभावे नास्ति पुनर् निनयनम् । गृह्ये तु “नित्यं निनयनम्” इत्य् उक्तम् । अवजिघ्रेच् च तान् पिण्डान् । अवघ्राणं गन्धोपलब्धिः । गृह्ये तु “चरोः प्राणभक्षं भक्षयेत्” इत्य् उक्तम् । यथान्युप्तान् येन क्रमेण निरुप्तान् पित्रे पितामहाय प्रपितामहायेति । समाहित इति श्लोकपूरणम् ॥ ३.२०८ ॥
पिण्डेभ्यस् स्वल्पिकां[^३८५]** मात्रां समादायानुपूर्वशः ।**
तान् एव विप्रान् आसीनान् विधिवत् पूर्वम् आशयेत् ॥ ३.२०९ ॥
मेधातिथिः ...{Loading}...
अत्यन्त्आल्पिका मात्रा अवयवो भागस् तम् एव । यो ब्राह्मणो ऽयं पितरम् उद्दिश्य उपवेशितः, तदीयात् पिण्डात् किंचिन्मात्रं स एवाशयितव्यः । अनुपूर्वश इत्य् उक्तार्थम् । इह तच्छब्दात् प्रकृतपरामर्शकाद् अग्न्यभाव इत्य् अत्र न प्रकृतवचनम् । पूर्वम्374 अन्यस्माद् अदनीयात् ॥ ३.२०९ ॥
ध्रियमाणे तु पितरि पूर्वेषाम् एव निर्वपेत् ।
विप्रवद् वापि तं श्राद्धं स्वकं पितरम् आशयेत् ॥ ३.२१० ॥
मेधातिथिः ...{Loading}...
उक्तं “पितृभ्यः पिण्डान् निर्वपेत्” इति । क एते पितरो नाम । अनेकार्थो हि पितृशब्दो जनयितरि वर्तते । जनकः पितेति संबन्धिशब्दो दृश्यते । पूर्वप्रमीताः पित्रादयो ऽन्ये च संबन्धिनः प्रेताः पितर उच्यन्ते । तथा च “नमो वः पितरः” इत्यादिमन्त्रा बहुवचनान्ताः समर्था निगदा भवन्ति । अत एव स्त्रीश्राद्धे नोह्यन्ते । नमस् ते मातर् नमस् ते पतामही इत्यादि न क्रियते । अत एकोद्दिष्टे संख्योहः क्रियते, न प्रातिपदिकोहः । तथा च सूत्रकारः- “एकवन् मन्त्रान् ऊहेत” इत्यादि । “नमस् ते पितर्” इत्य् एवम् ऊहः क्रियते । यो भ्रातुः पितामहादेर् वा एकोद्दिष्टं करोति स चैवम् ऊहति- नमस् ते भ्रातः,375 नमस् ते पितामह, नमस् ते पितृव्येत्यादि । पितृव्यादीनाम् अनपत्यानां श्राद्धं विहितम् । “यो यत आददीत स तस्मै दद्यात्” इति । देवताविशेषवचनो ऽप्य् अस्ति पितृशब्दः कूटस्थनित्ये ऽर्थे वर्तते । निरुक्तकारा हि दैवते मध्यस्थान् पितॄन् समामनन्ति “मरुतः रुद्राक्षभृतः पितरः” इति ।
-
एवम् अनेकार्थे पितृशब्दे विशेषावधारणार्थम् आह । ध्रियमाणे जीवति पितरि सति पूर्वेषां पितामहप्रपितामहतत्पितॄणां निर्वपेत्, त्रयाणां, बहुवचननिर्देशात् । तथा च गृह्ये- “येभ्यः पिता दद्यात् तेभ्यः पुत्रो दद्यात् पितापुत्रौ चेद् आहिताग्नी स्याताम्” इति ।
-
ननु च न चतुर्थं पिण्डो गच्छतीयाहुः ।
-
सत्यम् । नैवात्र चतुर्थः पिण्डो दीयते ।
-
पक्षान्तरम् आह विप्रवद् वा । यथा ब्राह्मणा376 निमन्त्रणापूर्वकं ब्रह्मचारिणो नियमवण्तश् च पूज्यन्ते, तथैव जीवत्पितृकेण पिता भोजनीयः । श्राद्धं स्राद्धर्थम् अन्नं स्राद्धम् ।
- अत्र च पितृत्वम् एव भोज्यत्वे करणं न जातिगुणाव् अपेक्ष्यौ । एवं ह्य् आहुः- पितृप्रीत्यर्थं श्राद्धम्, तत्र मृतस्य प्रीतौ कर्तव्यायां को जीवति पितरि परिभवो येनासौ न भोजयेत्377 ।
-
स्वकम् इत्य् अनुवादः, संबन्धिशब्दत्वाद् एव सिद्धेः ।
-
भोजनम् अत्र पितुश् चोदितं हितम्378, पिण्डनिर्वपणं तु दर्भेषु पितॄणां कर्तव्यम् एतत् त इति विरोधात् । यदि हि पात्रस्थानीया दर्भास् तदा जीवतः पितुः स्वाम्ये दानोत्पत्तौ अल्पिकां मात्राम् आशयेद् इति न युज्यते । जीवतो हि स्वम् इच्छाविनियोज्यम् । न च तस्मिन् पिण्डे ऽञ्जनादिदानम्379 उपपद्यते अर्धजरतीयप्रसङ्गात् । न ह्य् अत्राञ्जनादिसंस्कृतेन पितुः किंचित् प्रयोजनम् अस्ति । तस्माद् अदृष्टार्थम्380 अञ्जनादिदानम् । अञ्जनादिरहितं तु कदाचिद् आत्मनः पितुः परस्य वा भोजनयोग्यं भवतीत्य् एवम् अर्धजरतीयम् । तस्माद् अस्मिन् पक्षे पिण्डनिर्वपणं द्वयोः पितामहप्रपितामहयोः । गृह्यकारास् तु स्मरन्ति- “जीवत्पितृकस्य न पिण्डपितृयज्ञो न श्राद्धम्”, किं तर्हि “अनारम्भ एव तस्य कर्मणो होमान्तता वा” ॥ ३.२१० ॥
पिता यस्य तु वृत्तः[^३९३]** स्याज् जीवेच् चापि पितामहः ।**
पितुः स नाम संकीर्त्य कीर्तयेत् प्रपितामहम् ॥ ३.२११ ॥
मेधातिथिः ...{Loading}...
पितुर् नामसंकीर्तनेन तदीयावाहनपिण्डदानब्राह्मण्भोजनानि लक्ष्यन्ते । कीर्तयेत् प्रपितामहम् । जीवते पितामहाय न दद्यात् । किं तर्हि ततः पूर्वाभ्यां “पितुः पितृभ्यो निपृणीयात्” इति स्मरन्ति ॥ ३.२११ ॥
पितामहो वा तच्छ्राद्धं भुञ्जीतेत्य् अब्रवीन् मनुः ।
कामं वा समनुज्ञातः स्वयम् एव समाचरेत् ॥ ३.२१२ ॥
तेषाम् दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम् ।
तत् पिण्डाग्रं प्रयच्छेत् तु स्वधैषाम् अस्त्व् इति ब्रुवन् ॥ ३.२१३ ॥
मेधातिथिः ...{Loading}...
यद् उक्तं “पिण्डेभ्यः स्वल्पिकां मात्राम् आशयेत्” (म्ध् ३.२०९) इति, तस्यायं कालविधिर् देशविधिश् च । अग्रदेशात् पिण्डस्य मात्रा आदातव्या । दर्भांस् तिलोदकं च दत्त्वा तदनन्तरं पिण्डभागं प्रयच्छेत् । स्वधैषाम् अस्त्व् इति ब्रुवन् । एषाम् इति सर्वनाम्ना विशेषनामानि गृह्यन्ते । एवं संबन्धः क्रियते- येषां यानि नामानि तान्य् उच्चार्य स्वधास्त्व् इति ब्रूयात् । अतः स्वधाशब्दयोगे चतुर्थ्या निर्देशः कर्तव्यः- स्वधा देवदत्तायास्तु, स्वधा यज्ञदत्तायास्त्व् इति । एवं व्याख्याने शास्त्रान्तरविरोधो न भवति ॥ ३.२१३ ॥
पाणिभ्यां तूपसंगृह्य स्वयम् अन्नस्य वर्द्धितम् ।
विप्रान्तिके पितॄन् ध्यायन् शनकैर् उपनिक्षिपेत् ॥ ३.२१४ ॥
मेधातिथिः ...{Loading}...
उभाभ्यां हस्ताभ्यां स्वयं गृहीत्वा अन्नस्य वर्धितम् अन्नेन पूर्णं भाजनं विप्रान्तिके रसवत्यगारादीनाम्, यत्र ब्राह्मणा भोज्यन्ते, तस्मिन् देशे उपनिक्षिपेत् ब्राह्मणानां समीपे स्थापयेत् ।
-
अन्ये तु व्यचक्षते । वर्धितं परिवर्तुलम् अन्नम् उच्यते । तद् विप्रान्तिके पितॄन् ध्यायन् “तुभ्यम् इदम्” इति ध्यात्वा निक्षिपेत्, यथा विकिरम् ।
-
तद् अयुक्तम् । “उपनीय सर्वं परिवेषयेत्” इति वक्ष्यति (म्ध् ३.२१८) । अतः परिवेषणार्थं प्रदेशान्तराद् आनीय तस्योपनिक्षेपो ऽयम् ॥ ३.२१४ ॥
उभयोर् हस्तयोर् मुक्तं यद् अन्नम् उपनीयते ।
तद् विप्रलुपन्त्य् असुराः सहसा दुष्टचेतसः ॥ ३.२१५ ॥
मेधातिथिः ...{Loading}...
द्वाभ्यां हस्ताभ्यां अन्नम् उपनेतव्यं परिवेष्टव्यम्, न चैकेनेति । पर्वेषणम् उपनयनम् एव । ततस् तत्राप्य् अयम् एव धर्मः पूर्वोक्तः । तस्यार्थवादः ।
- उभाभ्यां हस्ताभ्यां मुक्तं वर्जितम् अपरिगृहीतं यद् अन्नम् उपनीयते परिवेषणार्थं तद् विप्रलुम्पन्ति विनाशयन्त्य् असुराः । सहसा बलेन । दुष्टचेतसः पापात्मानः । असुरा देवद्विषः । उभयोर् इत्य् अधिकरणे सप्तमी । मुक्तम् अकृष्टम् अस्थितम् । भवन्ति च प्रतिषेधोपसंनिधाने ऽपि कारकविभक्तयः- ग्रामान् नागच्छत्य् आसने नोपविशति त्रिरत्रं नोपवसति383 ॥ ३.२१५ ॥
गुणांश् च सूपशाकाद्यान् पयो दधि घृतं मधु ।
विन्यसेत् प्रयतः पूर्वं भूमाव् एव समाहितः ॥ ३.२१६ ॥
मेधातिथिः ...{Loading}...
गुणा व्यञ्जनानि । एषाम् एव384 प्रदर्शनार्थम् उत्तरः प्रपञ्चः । सूपशाकाद्यान् विन्यसेद् भूवाव् एव उपयच्छेत, न दारुमये फलकादौ ॥ ३.२१५ ॥
भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च ।
हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥ ३.२१७ ॥
मेधातिथिः ...{Loading}...
धानाशष्कुल्यादयो भक्ष्याः । खरविशदम् अभ्यवहरणीयं हि भक्ष्यम् इत्य् उच्यते । भोज्यं घृतपूरादिः385 ॥ ३.२१७ ॥
उपनीय तु तत् सर्वं शनकैः सुसमाहितः ।
परिवेषयेत् प्रयतो गुणान् सर्वान् प्रचोदयन् ॥ ३.२१८ ॥
मेधातिथिः ...{Loading}...
उपनीय विप्रान्तिके सर्वम् एतड् ढौकयित्वा । ततः परिवेषयेत् । भुज्यधिकरणोपादानम् आवर्जनम् । भुञ्जानस्य परिवेषणं यद्य् अप्य् अन्तिकदेश अपेक्षितं तथापि तेषाम् अन्तिके निधातव्यं यथा भुञ्जानानाम् उच्छेषणेन न संसृज्यते । गुणान् भक्ष्यभोज्यादेर् द्रव्यस्य ये गुणा अम्लत्वादयस् तान् प्रणोदयमान इदं अम्लम् इदं मधुरम् इदं खाण्डवम् इत्य् एवम् आवेदिते तेषां यद् रोचते तत् तद् दद्याद् इति वक्ष्यमाणेन संबन्धः । शनकैर् इत्याद्य् अनुवादः श्लोकपूरणार्थः ॥ ३.२१८ ॥
नास्रम् आपातयेज् जातु न कुप्येन् नानृतं वदेत् ।
न पादेन स्पृशेद् अन्नं न चैतद् अवधूनयेत् ॥ ३.२१९ ॥
मेधातिथिः ...{Loading}...
अस्रं अश्रुरोदनम् । तन् न पातयेन् न कुर्यात् । प्रायेण प्रेतश्राद्धादाव् इष्टवियोगजेन दुःखानुस्मरणेनाश्रुपातो जायते । तस्य निषेधः । आनन्दाश्रुणस् त्व् अकस्मात् पततो न दोषः । न जातु कदाचिद् अप्य् अश्रुविमोचनं कुर्यात् । न कुप्येत् क्रोधं न गृह्णीयात् । अनृतवचनस्य पुरुषार्थतया निषिद्धस्य कर्मार्थो ऽयं प्रतिषेधः । न पादेन स्पृशेद् अन्नम् उच्छिष्टम् अनुच्छिष्टं च । न चैतद् अन्नम् अवधूनयेद् अवकम्पयेत् । हस्तादिनोत्क्षिप्य पुनर् न विक्षिपेत् ।
- अन्ये तु व्याचक्षते- वाससा धूल्याद्यपनयनार्थं यद् अवधूननं न तद् अन्नस्योपरि कर्तव्यम् ॥ ३.२१९ ॥
अस्रं गमयति प्रेतान् कोपो ऽरीन् अनृतं शुनः ।
पादस्पर्शस् तु रक्षांसि दुष्कृतीन् अवधूननम् ॥ ३.२२० ॥
मेधातिथिः ...{Loading}...
अस्यार्थवादः । अश्रुविमोचनं क्रियमाणं प्रेतान् गमयति प्रापयति श्राद्धम् । न पितॄणाम् उपकारकं भवति । प्रेताश् चात्र पिशाचवद् भूतविशेषा विवक्षिताः, न त्व् असपिण्डीकृताः संप्रतिमृताः । रक्षांसि भूतप्रेतवद् अवगन्तव्यानि । अरयः प्रसिद्धाः । तथा दुष्कृतीन् दुष्कृताचरणान् पातकिनः ॥ ३.२२० ॥
यद् यद् रोचेत विप्रेभ्यस् तत् तद् दद्याद् अमत्सरः ।
ब्रह्मोद्याश् च कथाः कुर्यात् पितॄणाम् एतद् ईप्सितम् ॥ ३.२२१ ॥
मेधातिथिः ...{Loading}...
यद् यद् अन्नं व्यञ्जनं पानं चाभिलषेयुस् तत् तद् अमत्सरः अलुब्धो दद्यात् । मत्सर इति लोभनाम । रोचेत प्रीतिं जनयेत् । ब्रह्मोद्याः । ब्रह्मणि वेदे या उद्यन्ते कथ्यन्ते ता ब्रह्मोद्याः देवासुरयुद्धं वृत्रवधः सरमाकृत्यम्386 इत्याद्याः । अथ वा “कः स्विद् एकाकी चरति” (व्स् २३.९) इत्यादि । “ब्रह्माद्याश्387 च कथाः” इति पाठः । तत्प्रधानमन्त्रार्थनिरूपणाद्याः कथाः संलापा लौकिकैः शब्दैः । पितॄणाम् एतद् ईप्सितम् अभिलषितम् इत्य् अर्थवादः ॥ ३.२२१ ॥
स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि ।
आख्यानानीतिहासांश् च पुराणानि खिलानि च ॥ ३.२२२ ॥
मेधातिथिः ...{Loading}...
स्वाध्यायो वेदः । मन्वादिग्रन्था धर्मशास्त्राणि । आख्यानानि सौपर्णमैत्रावरुणादीनि बाह्वृच्ये पठ्यन्ते । इतिहासा महाभारतादयः । पुराणानि व्यासादिप्रणीतानि सृष्ट्यादिवर्णनरूपाणि । खिलानि श्रीसूक्तमहानाम्निकादीनि ॥ ३.२२२ ॥
हर्षयेद् ब्राह्मणांस् तुष्टो भोजयेच् च शनैः शनैः ।
अन्नाद्येनासकृच् चैतान् गुणैश् च परिचोदयेत् ॥ ३.२२३ ॥
मेधातिथिः ...{Loading}...
सत्य् अपि निमित्ते न स्वं दुःखं केनचित् प्रकारेण दीर्घेणोच्छ्वासादिना प्रकटयेद् अपि हृष्टवत् स्यात् । ब्राह्मणान् हर्षयेत् । गीतादिना परप्रयुक्तेन,388 अविरुद्धेन वा प्रसङ्गागतेन परिहासेन । स्वाध्याये पठ्यमाने चिरं कश्चिद् उद्विजेत् । तदा ततो विरम्याख्यानकैर् गीतादिना च रमयेत् । शनैर् भोजयेत् । कतिचिद् ग्रासान् गृह्णीत साध्व् एतत्389 सम्यक् भोजनम् इत्य् एवमादिभिः प्रियवचनैर् भोजयेत् । शनैर् न संरम्भेण ब्रूयात् । अन्नाद्येन पायसादिना । गुणैश् च व्यञ्जनैर् दानार्थम् उद्यतै रसवत्तया योजयन् भोजनार्थम् उत्साहयेत् । स्वाद्याः इमाः शष्कुल्यः, सुरसेयं क्षीरिणीति पात्रस्थम् एवमादिहस्तगृहीतं कृत्वा पुरस्थितः पुनः पुनर् ब्रूयाद् इत्य् एषा परिचोदना ॥ ३.२२३ ॥
व्रतस्थम् अपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।
कुतपं चासनं दद्यात् तिलैश् च विकिरेन् महीम् ॥ ३.२२४ ॥
मेधातिथिः ...{Loading}...
अनुकल्पपक्षे दौहित्रस्य यत्नेन भोज्यतोच्यते । कुतपो ऽजलोमसूत्रैः कम्बालाकारः पटः । उदीच्येषु कम्बल इति प्रसिद्धः । तं आसनं दद्यात् । न दौहित्रपक्षे, किं तर्हि अन्यदापि । यतो वक्ष्यति “त्रीणि श्राद्धे पवित्राणि” (म्ध् ३.२२५) इति श्राद्दमात्रविषयत्वात् । तिलैश् च विकिरेन् महीम्390 । तिलांश् च मह्यां भुवि निक्षिपेत् ॥ ३.२२४ ॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस् तिलाः ।
त्रीणि चात्र प्रशंसन्ति शौचम् अक्रोधम् अत्वराम् ॥ ३.२२५ ॥
मेधातिथिः ...{Loading}...
पवित्राणि पावनानि साधुत्वसंपादकानि । आद्यः श्लोकार्धो ऽनुवादः । उत्तरस् तु विधेयार्थः । शौचम् अशुचिसंसर्गपरिहारः । प्रमादाद् वा जातस्याशुचित्वस्य मृद्वार्यादिना यथाशास्त्रं शुद्धिः । अत्वरां विश्रब्धं भोजनाद्यनुष्ठानम् ॥ ३.२२५ ॥
अत्युष्णं सर्वम् अन्नं स्याद् भुञ्जीरंस् ते च वाग्यताः ।
न च द्विजातयो ब्रूयुर् दात्रा पृष्टा हविर्गुणान् ॥ ३.२२६ ॥
मेधातिथिः ...{Loading}...
उष्णम् एव अत्युष्णम् अतिगतम् उष्णम् इति । प्रपतितपर्णः प्रपर्ण इति यथा । सर्वम् अन्नं गुणाश् च । यस्योष्णस्य भोजनम् उचितं तत्रैवेदम् उष्णताविधानम्, न तु दध्योदनादेः, यत् तद् उष्णम् अप्रीतिकरं व्याधिजनकं च । तत्र “हर्षयेद् ब्राह्मणान्” (म्ध् ३.२२३) इति विरुध्येत ।
- उष्णभोजनविधानाच् च न सकृत् सर्वम् अन्नं परिवेष्टव्यम् । तथा हि बहुभोजिनां शीतं भवेद् अन्नम् । तस्माद् भुक्ते पुनर् दद्यात् । न च भुञ्जानेभ्य उच्छिष्टत्वात्391 दानम् अयुक्तम् इति वाच्यम् । भोजनविधिर् एवंरूप एव । आ टृप्तेर् भोजयितुर् व्यापारः । न ह्य् अत्रौदनादि प्रतिग्राह्यतया संबध्यते । अत एव न तत्र प्रतिग्रहमन्त्र ओदनादिषु प्रयुज्यते ।
-
वाग्यताः वाक् यता नियमिता यैः । छान्दसः परनिपातः । वाचा वा यताः । साधनं कृतेति समासः । कर्तृवचनश् च तदा यतशब्दः व्यापारनिषेधो नियमनम्, वाचश् च व्यापारः शब्दोच्चारणम्, तत्प्रतिषेधः क्रियते । व्यक्ताव्यक्तशब्दोच्चारणं न कर्तव्यम् । हविषो गुणा न च वक्तव्याः । “इष्टैः सद्भिर् भुञ्जानैर् दात्रे न विवक्षितम्” इति स्मरन्ति ।
-
ननु वाङ्नियमाद् एवैतत् सिद्धम् ।
-
सत्यम् । अभिनयादिनापि392 न कर्तव्यम् । ब्रूविः प्रतिपादने वर्तते । ब्रूयुर् इति न शब्दोच्चारणम् एव ॥ ३.२२६ ॥
यावद् उष्मा[^४०६]** भवत्य् अन्नं यावद् अश्नन्ति वाग्यताः ।**
पितरस् तावद् अश्नन्ति यावन् नोक्ता हविर्गुणाः ॥ ३.२२७ ॥
मेधातिथिः ...{Loading}...
पूर्वस्य विधेर् अर्थवादो ऽयम् । उष्मा औष्ण्यम् ॥ ३.२२७ ॥
यद् वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते दक्षिणामुखः ।
सोपानत्कश् च यद् भुङ्क्ते तद् वै रक्षांसि भुञ्जते ॥ ३.२२८ ॥
मेधातिथिः ...{Loading}...
वेष्टितम् उष्णीषादिना । उदीच्या हि शाटकैः शिरो वेष्टयन्ति । ये393 तु व्याचक्षते “चूडाकारैर् अपि केशैर् वेष्टितशिरा भवति” इति, न ते युक्तिवादिनः । केशास् ते वेष्ट्यन्ते, न शिरः । न च केशा एव शिरः । शिरस्था हि ते । सूत्रादेस् तु न निषेधः । न हि तत्र वेष्टनव्यवहारो लोके394 ।
- दक्षिणाभिमुखस्य दोषवचनात् स्वल्पे प्रदेशे दक्षिणेतरदिगभिमुखस्यापि भोजनम् अनुजानाति । अन्यथा उदङ्मुखानां विधानात् कुतो दक्षिणस्याः प्राप्तिः ।395
- उपानहौ चर्ममयं396 पादत्राणम् । अन्ये तु चर्मपादुके उपानहाव् इति व्याचक्षते । रक्षांसि भुञ्जते न पितर इति निन्दा ॥ ३.२२८ ॥
चाण्डालश् च वराहश् च कुक्कुटः श्वा तथैव च ।
रजस्वला च षण्ढश् च नेक्षेरन्न् अश्नतो द्विजान् ॥ ३.२२९ ॥
मेधातिथिः ...{Loading}...
वराहः शूकरः । स च ग्राम्यः । श्वसंनिधानतो नेक्षेरन्न् इति यद्य् अपि श्रुतम्, तथापि तत्प्रदेशसंनिधिम् एव शिष्टा नानुमन्यन्ते । तथा च “घ्राणेन शूकरः” (म्ध् ३.२३१) इत्यादि क्रियान्तरम् अर्थवादेन श्रूयते । न चानीक्षमाणस्य घ्राणं संभवति । संनिहितानां तु स्वरूपानुवादो ऽयम् । सूकरो विजिघ्रति । कुक्कुटः पक्षान् उद्धुनोति । “तस्मात् परिश्रिते दद्यात्” (ग्ध् १५.२५) इति विधिः । प्रयोजनम् एतद् दोषाभावे ऽपरिश्रिते ऽपि दद्यात् । षण्ढो नपुंसकम् ॥ ३.२२९ ॥
होमे प्रदाने भोज्ये च यद् एभिर् अभिवीक्ष्यते ।
दैवे हविषि397** पित्र्ये वा तद् गच्छत्य् अयथातथम् ॥ ३.२३० ॥**
मेधातिथिः ...{Loading}...
होमे अग्निहोत्रादौ शान्त्यादिहोमे वा । प्रदाने गोहिरण्यादिद्रव्यविषये । अभ्युदयार्थे । भोज्ये ब्राह्मणा यत्र धर्माय भोज्यन्ते । दैवे हविषि दर्शपौर्णमासादौ । पित्र्ये श्राद्धे । यद् अभिवीक्ष्यते क्रियमाणं398 कर्म । तद् गच्छत्य् अयथातथम् । यदर्थं क्रियते तद्विपरीतं भावयति । यद्य् अपि श्राद्धप्रकरणं तथापि वाक्याद् अन्यत्रापि होमादाव् अयं प्रतिषेधः ॥ ३.२३० ॥
घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः ।
श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्णजः ॥ ३.२३१ ॥
मेधातिथिः ...{Loading}...
पक्षकृतेन वायुना कुक्कुटो हन्ति । व्याख्यातम्399 एतत् । तावति देशे निवारणीयम् एषां संनिधानं यावति स्थिताः पश्यन्ति । अवरवर्णजश् चाण्डालः प्रकृतित्वात्400 ।
- स्पर्शादयश् च प्रकृतक्रियापराः, न व्यवक्षितस्वरूपा401 इति व्याख्यातम् । अतो ऽवाद्यम्402 एतत्- “चाण्डालस्य सामान्यतः स्पर्शप्रतिषेधाद् असत्यां प्राप्तौ प्रतिषेधानर्थक्यम् । अतः शूद्रो ऽवरवर्णजः, तस्य च द्विजातिश्राद्धस्पर्शनिषेधो नात्मीये इति” ।
- विवक्षिते ऽपि नान्नपानादिस्पर्शदोषो ऽयम् उच्यते, किं तर्हि यो देशः परिगृहीतो नदीपुलिनादिर् अपरिश्रितस् तस्य स्पर्शः403 । तस्य हि वाय्वादित्यादिना शुद्धिर् उक्ता । अतः सत्यां प्राप्तौ युक्तः प्रतिषेधः ॥ ३.२३१ ॥
खञ्जो वा यदि वा काणो दातुः प्रेष्यो ऽपि वा भवेत् ।
हीनातिरिक्तगत्रो वा तम् अप्य् अपनयेत् पुनः ॥ ३.२३२ ॥
मेधातिथिः ...{Loading}...
प्रेष्यो भृतकः । अपिशब्दाद् अन्यो ऽपि यदृच्छया संनिहितो बान्धवादिर् अपनेयः । तस्मात् प्रदेशाद् अपसारयेत् । खञ्जो गतिविकलः अजङ्गमादि । हीनातिरिक्तगात्रः षण्डः कुणिखण्डीकः श्लीपद्यादिः ॥ ३.२३२ ॥
ब्राह्मणं भिक्षुकं वापि भोजनार्थम् उपस्थितम् ।
ब्राह्मणैर् अभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ ३.२३३ ॥
मेधातिथिः ...{Loading}...
अतिथित्वेनागतं ब्राह्मणं भिक्षुकं भिक्षार्थिनं ब्राह्मणम् अपि भोजनप्रवृत्तैर् ब्राह्मणैर् अनुज्ञातः शक्त्या पूजयेत् । भोजनेन भिक्षादानेन वा युक्तार्थतयार्चयेत् । यतः स पाकस् तदहस् तदर्थ एव ॥ ३.२३३ ॥
सार्ववर्णिकम् अन्नाद्यं संनीयाप्लाव्य वारिणा ।
समुत्सृजेद् भुक्तवताम् अग्रतो विकिरन् भुवि ॥ ३.२३४ ॥
मेधातिथिः ...{Loading}...
वर्णशब्दः प्रकारे द्रष्टव्यः । सर्वप्रकारैर् व्यञ्जनैर् उपेतम् अन्नाद्यं संनीय एकीकृत्य वारिणा आप्लाव्य भुक्तवतां तृप्तानां “तृप्ताः स्म” इतिवचनानन्तरम् अग्रतः समुत्सृजेत् विकिरेत्, नैकस्मिन्न् एव देशे, किं तर्हि विशीर्णम् । भुवि । न पात्रेषु । भूमाव् अपि न शुद्धायाम्, किं तर्हि वक्ष्यति “दर्भेषु विकिरः” (म्ध् ३.२३५) इति । “सकृत् त्रिर् वा विकिरं कुर्यात्” इति शङ्खः ॥ ३.२३४ ॥
असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्याद् दर्भेषु विकिरश् च यः ॥ ३.२३५ ॥
मेधातिथिः ...{Loading}...
404“नास्य कार्यो ऽग्निसंस्कारः” इत्य् अत्रिवर्षा असंस्कृतास् तेषां प्रमीतानाम् । पात्रस्थम् उच्छिष्टं दर्भेषु विकिरश् च तेषां भागधेयम् । भाग एव405 भागधेयशब्देनोच्यते406 ह हि तेषां श्राद्धोपकारो नास्ति । त्यागिनां गुर्वादीनाम् । अथ वा कुलयोषितां कुलस्त्रीणाम् अदृष्टदोषाणां भार्याणां त्यक्तारः । स्वतन्त्रे407 तु कुलयोषिताम् इत्य् अस्मिन्न् अनूढाः कन्याः कुलयोषित इति व्याचक्षते । अत उच्छिष्टं तेभ्य उद्देष्टव्यम् ।
- न च वाच्यम् “अपवित्रम् उच्छिष्टं कथं भागधेयेन कल्पताम्” इति । वचनान् नास्त्य् अपवित्रता, सोमोच्छिष्टवत् ॥ ३.२३५ ॥
**उच्छेषणं भूमिगतम् अजिह्मस्याशठस्य च **
दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते ॥ ३.२३६ ॥
मेधातिथिः ...{Loading}...
पात्रस्थस्य पूर्वेण प्रतिपत्तिर् उक्ता । भूमौ निपतितस्योच्छिष्टस्य दासवर्गार्थतानेन कथ्यते । अजिह्मो ऽकुटिलः । अशठः अनलसः । तादृशस्य दासवर्गस्य स भागः । तस्मात् प्रभूतं दातव्यम्, येन भूमौ बुञ्जानस्य पततीति ॥ ३.२३६ ॥
आ सपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु ।
अदैवं भोजयेच् छ्राद्धं पिण्डम् एकं च408** निर्वपेत् ॥ ३.२३७ ॥**
मेधातिथिः ...{Loading}...
संस्थितस्य द्विजातेर् आ सपिण्डक्रियाकर्म प्रथममृतस्य आ सहपिण्डकरणाख्यं कर्म कर्तव्यम् । सहपिण्डदानं पूर्वाभ्यां न कर्तव्यम् । कथं तर्हि कर्तव्यम् । पिण्डम् एकं च निर्वपेद् इति । चशब्द एवशब्दस्यार्थ्,ए तस्मा एव प्रेतायैकं पिण्डं निर्वपेत् । ब्राहमणो हि तस्मा एव भोजयितव्यः ।
-
स्मृत्यन्तरे अन्यापि इतिकर्तव्यता वैशेषी स्मर्यते- “आवाहनाग्नौकरणरहितम्” (य्ध् १.२५१) इति । अग्नौकरणशब्देन चात्र “अग्नौ करिष्ये” इत्य् अनुज्ञापनं प्रतिषिध्यते, न पुनर् होमः । तथा हि गृह्ये प्रेतश्राद्धम् एवाधिकृत्य होम आम्नायते ।
-
यस्मिंश् च काले कर्म कर्तव्यं यावन्तं च कालं तत्409 स्मृत्यन्तराद् अन्वेष्टव्यम् । “आद्यम् एकादशे ऽहनि” ।
-
मृताहे ऽपि च कर्तव्यं प्रतिमासं तु वत्सरम् ।
-
प्रतिसंवत्सरं चैव श्राद्धं वै मासिकार्थवत् ॥ इति । (य्ध् १.२५६)
तथा च काठके- “एवं सांवत्सत्सरिकम्” इति । एकादशग्रहणं चाशौचनिवृत्त्युपलक्षणार्थम् । यतः “शुचिर् भूतः पितृभ्यो दद्यात्” इति श्रूयते । संवत्सरान्ते हि सपिण्डीकरणं गृह्यकाराः स्मरन्ति । एतच् च श्राद्धम् एकोद्दिष्टं तदङ्गभूतं च निर्वपणम् । यत् तु श्रौते “पितृभ्यो दद्यात्” इतिवचनात् पितृपितामहाय प्रपितामहाय चेति अकृते सपिण्डीकरणे नेह दानं युक्तम् । न हि स्मृत्या श्रुतिर् बाधितुं शक्यत इति ॥ ३.२३७ ॥
सहपिण्डक्रियायां तु कृतायाम् अस्य धर्मतः ।
अनयैवावृता कार्यं पिण्डनिर्वपणं सुतैः ॥ ३.२३८ ॥
मेधातिथिः ...{Loading}...
यदा तु सपिण्डीकरणं कृतं भवति तदा अनयैवावृता पार्वणश्राद्धविधिना त्रिभ्यो दद्यात् । आवृद् इतिकर्तव्यता ।410 सपिण्डीकरणश्राद्धं दैवपूर्वं नियोजयेत् । पितॄन् एवाशयेत्411 । अत्र पुनः प्रेतं न निर्दिशेत्412 । पितरश् चात्र प्राक् सपिण्डीकृताः पितृवर्गम् अनुप्रवेशिताः पितामहादय उच्यन्ते । तान् आशयेत् । तत्र पुनः शब्दस् तेष्व् एव ब्राह्मणेषु प्रेत आवाहयितव्यः, तत्र हि सर्वैस् तैः सह संसर्गस् तस्य संसृजनाय तत्कर्म ।
- यद् अपि विष्णुना पठितम्- “प्रेताय ब्राह्मणान् भोजयेत् प्रेतपित्रे प्रेतपितामहाय च प्रेतप्रपितामनय” (च्ड़्। विध् २१.१२) इति, अत्रापि नैवं श्रूयते पृथक् भोजयेद् इति । तत्र यथा बहुदैवत्यं हविर् बह्वीर् देवता उद्दिश्य सकृद् एकं हूयते, एवं ब्राह्मणो ऽपि बहून्413 उद्दिश्य भोज्येतेति न किंचिद् अनुपपन्नम् । तथा हि सहवचनम् अनुगृहीतं414 भवति, पित्र्ये च न युग्मा भोजिता भवन्ति । यथा “एकैकम् उभयत्र वा” (म्ध् ३.११५) इति येषां विधिस् तन्मते एकः सर्वोद्देशेन भोज्यते । एवम् एतद् द्रष्टव्यम् ।
-
ननु एवं सति “पितृकृत्ये त्रीन्” (म्ध् ३.११५) इति सर्वदेवसहोद्देशः प्राप्नोति । एकैकस्मिन् ब्राह्मणे सर्व उद्देश्येरन् तत्रापि न पृथग् ग्रहणम् अस्ति ।
-
कथं नास्ति । गृह्ये हि पठ्यते- " न त्व् एवैकं सर्वेषाम् । पिण्डैर् व्याख्यातम्” (आश्ग् ४.७.४, ६) । किं च “प्रेतपात्रं पितृपात्रेषु सेचयेद् अर्घार्थम्” (च्ड़्। य्ध् १.२५३) इत्य् आह । तत्र कृतासन्नपात्राभावे प्रेतपात्रोदकस्य कुतः पात्राद् अर्घदानम् । यदि तावत् संमीलितात्,415 तद् अयुक्तम्, पितामहादेस् तत् कल्पितम्, न पितुः । न चान्यार्थं कल्पिताद् इत्य् अन्यार्थता युक्ता । अथ कृत्वार्घदानं पश्चात् संनयनं कुर्यात् । तदा कृत्वार्घदानं तदर्थं संनयनस्य स्वतन्त्रार्घर्थं प्रसेचयेद् इति विरुध्येद्416 वचनम् । उक्तेनात्र प्रकारेण न कश्चन विरोधः ।
-
अथ को ऽयं प्रेतो नाम । प्रपितामहाय पिण्डः सपिण्डीकरणाद् ऊर्ध्वं न दीयते यतस् तेष्व् एवानुप्रविष्टः । तथा च स्मृतिः ।
-
यः सपिण्डीकृतं प्रेतं पृथक् पिण्डेन योजयेत् ।
-
विधिघ्नस् तेन भवति पितृहा चोपजायते ॥ इति ।
पृथग् एव हि तस्मै निरूप्यते । न त्व् एकः सर्वेभ्य इति । मन्त्राश् च एतम् एवार्थम् अभिवदन्ति “ये समाना” (म्द् ३.११.१०) इत्यादयः ।
- अत्रोच्यते । नायं प्रेतशब्दो ऽयतेः417 क्रियायोगेन वर्तते । रूढिर् इयं मृतः प्रेत “इदानीं प्रेतः” उच्यते । न हि दूरम् अध्वानं गतः प्रेत उच्यते । अस्ति च क्रियायोगः अविशेषेण पूर्वप्रेत इदानीं प्रेते च । तथा च श्रुतिः- “प्रयन्न् एवास्माल् लोकाद् ये समानाः” इति अचिरमरणे प्रेतप्रयोगं दर्शयति- “प्रेतायान्नं दिनत्रयम्” (य्ध् ३.१६) इति सद्यःसंस्थितम् अधिकृत्य । यत् तु “पृथक् पिण्डेन” इति अस्यायम् अर्थः । सपिण्डीकरणाद् ऊर्ध्वम् एकोद्दिष्टं न कर्तव्यम् । यदा यदा श्राद्धं तदा तदा त्रिभ्यः, मृताहनि पितृभ्यस् त्रिभ्य एव कर्तव्यम् । नैकस्मा एव पित्रे । तथा अनयैवावृता कार्यम् इति पार्वणश्राद्धे कर्तव्यता वातिदिश्यते ।
-
ननु च अनयैव इति प्रकृतपरामर्शाः प्रतीयन्ते, संनिहितवचनत्वात् सर्वनाम्नाम्, संनिहितश् चैकोद्दिष्टविधिः ।
-
नैवम् । यदि हि कृते ऽपि सपिण्डीकरणे एकस्यैव क्रियेत, तदा भेदनिर्देश एव नोपपद्यते । तुशब्दश् च प्रकृतायाम् इतिकर्तव्यतायां भेदं सूचयति- “असपिण्डक्रियायाम् एष विधिः, सहपिण्दक्रियायां पुनः कृतायां नायं मन्तव्यः” इति । अतो व्यवहितापि बुद्धिस्थत्वात् पार्वणतातिदिश्यते । किं च क्र्ते सपिण्डीकरणे यदैकोद्दिष्टं स्यात् कर्तव्यम्, तदा “त्रिभ्यो दानम्” इति अमावास्यायां इति चेत्,418 को विशेषः । तत्रापि सहपिण्डक्रियाम् इत्य् एवमर्थः किं नास्ति । न च मानवशास्त्रे कालान्तरं मृताहे प्रतिसंवत्सरं चेत्यादि प्रतीतं येन तद्विषयम् एतद् व्याख्यायते । अतो विशेषात् सर्वत्रैकोद्दिष्टानि प्राप्नुवन्ति । तत्र महाभारतवचनं विरुध्येत, तीर्थानि प्रकृत्योक्तं- “श्राद्धेन तर्पयामास स वै पूर्वं पितामहान्” इति
- यद् अपि स्मृत्यन्तरं “प्रतिसंवत्सरं चैव श्राद्धं वै मासिकार्थवत्” (य्ध् १.२५६), तत्रापि मासिकशब्देनामावास्ययाम् एव श्राद्धम् उच्यते, सर्वश्राद्धानां तस्य प्रकृतित्वात् । तत्र हि धर्माः समाम्नाताः । न तु “प्रतिमासं तु वत्सरम्” इति एतन् मासिकशब्देनाभिधातुं युक्तम् । न हि तस्य विशिष्टाः केचिद् धर्माः समाम्नाता यैर् भिद्येत । एकोद्दिष्टं त्व् आद्यम् एकादशे, क्षत्रियस्य त्रयोदशे इत्याद्य् अत्रापि विद्यते । अतो नैकोद्दिष्टं मासिकशब्देनाभिदातुं युक्तम् । मासकालसंबन्धाद् धि तन् मासिकम् उच्यते । न च तस्य मासेनैव संबन्धः, कालान्तरेणापि संबन्धस्य दर्शितत्वात् । “शुचिर् भूतः पितृभ्यो दद्यात्” इति मासाद् ऊर्ध्वम् अपि करणान् मासे चाकरणान् नात्र मासिकशब्देन तस्याभिधानम् । अमावास्याया उत्पत्तौ पौर्णमासिकशब्दश्रवणात्,419 “पिण्डानां मासिकश्राद्धम्” इति नियतत्वात्, कालान्तरसंयोगस्याभावात्, धर्मत्वाच् च युक्तस् तदीयधर्मातिदेशः ।
-
आमश्राद्धम् अपि पार्वणप्रकृतिकम् एव । तत्प्रकृतित्वे च त्रिभ्यो दाने प्राप्ते एकोद्दिष्टता विधीयते । यद् अपि याज्ञवल्क्यवचनम्-
-
मृताहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् ।
-
प्रतिसंवत्सरं चैवम् आद्यम् देकादशे ऽहनि ॥ (य्ध् १.२५६)
तत्राप्य् एवम् एतादृशीतिकर्तव्यता उच्यते । तत्रापि ह्य् अमावास्यम् एव प्रकृतत्वेनावगतम् । अतो न मासकालयोगे ऽपि एकोद्दिष्टे तदीयधर्मातिदेशो ऽन्यत्र युक्तः । न हि420 भिक्षुको भिक्षुकाद् याचते । सो ऽपि यतो यस्य विकारः ।
- किं च एकम् एव श्राद्धम् । तस्मान् न मासिकशब्दस्य सामान्यस्यैकोद्दिष्टविशेषविष्यतायां421 प्रमाणम् अस्ति । याज्ञवल्क्ये ऽप्य् एवम् इति । यद्य् अनन्तरावमर्शः तदा सपिण्डीकरणेतिकर्तव्यतातिदेशः प्राप्नोति । तदनन्तरं ह्य् एतच् छ्रुतम् । “एतत् सपिण्डीकरणम्” (य्ध् १.२५४) इति पठित्वा, “अर्वाक् सपिण्डीकरणात्” (य्ध् १.२५५) इति च, ततो ऽनन्तरम् उक्तम् “मृताह्नि” इत्यादि (य्ध् २.२५६) ।
-
तस्मात् संनिधानम् अकारणीकृत्य धर्मवत्वेनामावास्यस्यैवम् इति निर्देशः । मन्त्राश् चास्मत्पक्षम् सुतराम् अवद्योतयन्ति । “संसृज्यध्वं पूर्वैः पितृभिः सह” इति, “पूर्वैः पितृभिः सह” वर्तमाना उच्यन्ते । “संसृज्यध्वम्” इति बहुवचनं पूजायाम् । तथा च निरुक्तकारः- “एता उ त्या उषस (र्व् १.९२.१) इति । एतास् ता उषस इत्य् एकस्या एव पूजनार्थे बहुवचनम्” इति ।
-
अथ “संसृज्यध्वम्” इति येषु पिण्डेषु निक्षिप्यन्ते त उच्यन्ते । यश् च निक्षिप्यते स422 बहुवचनेन पूर्ववत् पूर्वेभिः पितृभिर् इति । एवं च पूर्वेभिर् इत्य् एवम् एव423 बहुवचनं प्रायोगिकं भविष्यति । इतरथा “संसृज्यध्वम्” इति निक्षिप्यमाणपिण्डाभिधाने उपयत्र बहुवचनम् अयथार्थं कल्प्यम् इति ।
-
तद् एतद् अपि न किंचित् । यत एकैकेन पिण्डेन पिण्डांशः संसृज्यते । “चतुर्थं पिण्डम् उत्सृज्य त्रैधं कृत्वा पिण्डेषु निदध्यात्” इति । अतो नैवात्र युगपदधिकरणवचनतास्ति येन बहुवचनम् अवकल्पेत ।
-
एकैकाभिधानेन कुत आन्वयिकं संसृज्यध्वम् इति बहुवचनं परोक्षवत्त्वाभिधानं न कल्प्यते । पूर्वेभिर् इति निक्षिप्यमाणपिण्डवचनाच् च न एभिर् इति निर्देशो युक्तः स्यात् ।
-
न चायं मन्त्रो विधायको येन तदर्थनिर्णये प्रयतामहे । अभिधायको ऽयम् । अभिधानगुणं च विनियोगतः । विनियोगश् च संसर्गः तं च424 प्रकाशयति । संख्यात्र न विनियुक्ता न प्रकाशाप्ता, संभवमात्रेणान्वीयते । तस्य च मन्त्रात् पूर्वं प्रतिपत्तिः425 ।
- ये ऽप्य् आहुः- चतुर्थशब्दः426 पूर्वतर उपपद्यते । पिता हि प्रथमः तदपेक्षया प्रपितामहात् पूर्वश् चतुर्थ इति ।
- एतद् अपि न सम्यक् । पूर्वेषां पिण्डान् निधाय चतुर्णां पूणश् चतुर्थः प्रेतपिण्ड एव भवति । पित्रुपक्रमं चेदं श्राद्धं न प्रेतोपक्रमम् । एवं ह्य् उच्यते- “पितॄन् एवाशयेत्427 पुनः प्रेतं न निर्दिशेत्” इति । यस्यायं428 प्रेताय प्रथमः पिण्डस् ततस् तत्पित्रे इत्यादिक्रमः, तस्यापि कृतो ऽयं नियमः, य एवासौ चतुर्थस् तस्यैवेदं त्रैधं करणं पिण्डेषु निधानं विधीयते । एतावद् धि तद् वाक्यं429 चतुर्थं पिण्डम् उत्सृजेत् त्रैधं कृत्वेति । तत्रानन्तर्याद् उत्सृजतिना संबन्धश् चतुर्थपिण्डम् इत्य् अनयोः प्रतीयते । त्रैधं कृत्वेत्य् अत्र तु कस्येदं त्रैधं करणम् इत्य् अपेक्षायां संनिहितः पिण्डः संबध्यते । तावतैव निराकाङ्क्षीकृते वाक्ये चतुर्थम् इत्य् अस्य संबन्धे न किंचित् प्रमाणम् अस्ति ।
-
तत्र यस्य कस्य विभागे प्राप्ते स्मृत्यन्तरान् निर्णयः-
-
निरुप्य430 चतुरः पिण्डान् पिण्डदः प्रतिनामतः ।
- ये समाना इति द्वाभ्याम् आद्यं तु विभजेत् त्रिधा ॥ इति ।
आद्यत्वं दानाभिप्रायेण, न पुनर् आदिपुरुषसंबन्धात् । तथा हि प्रपितामहादिः स्यात् पितामहात् पूर्वः, पितामहो ऽपि पितुः पूर्व इत्य् अनवस्थानाद् अप्रतिपत्तिः । दानं तु नियतक्रमतो व्यवस्थितम् आदित्वम् ।
-
एवं च चतुर्थम् इति पदेन विशिष्टे पिण्डे क्रियात्रये ऽपि स्मृत्यन्तरवशाद् दानक्रमेणैवाद्यस्य विभागो युक्तः । अतो यद् उक्तं काठके- “पूर्वप्रेतस्येष्टो विभागः प्रतीयते” इति कासावस्येष्टता ।
-
यच् चोक्तम्- “अत एव तस्मै अदानम् यत एव वासाव् अन्तर्भावितः,” तन् न431 किंचित् । वचनान् न दीयते- “न चतुर्थं पिण्डो गच्छति” इति । तथा “त्रिषु पिण्डः प्रवर्तते” इति । यत् स्वयं स्वकृतः पाठः “पुनः प्रेतं निर्दिशेत्” इति व्याख्यातं च “अन्तर्भाविते पूर्वप्रेते पुनर्दानं निषेधति” — नैवायं पाठो ऽस्ति प्रतिषेधार्थीयो “नऽ पठ्यते, समुच्चयार्थश् चकारः432 पठ्यते । सत्य् अपि वा तत्र पाठे “यः433 सपिण्डीकृतम्” इत्य् अत्र पृथक्पिण्डप्रतिषेधस्य या गतिर् उक्ता सैवात्र वेदितव्या । यानि तु वाक्यानि,
-
सपिण्डीकरणाद् ऊर्ध्वं प्रतिसंवत्सरं सुतः ।
-
एकोद्दिष्टं तु कुर्वीत पित्रोर् अन्यत्र पार्वणम् ॥
इत्यादीनि, यद्य् एतानि434 वाक्यानि सन्ति तदा किम् अयामावास्याया435 नामघोषणिकया । न चैतानि वाक्यानि शिष्टपरिगृहीतासु प्रसिद्धासु स्मृतिषु कासुचिद् उपलभ्यन्ते ।
-
तस्मान् न किंचिद्विशेषे लिङ्गम् अस्ति येन पूर्वप्रेतपिण्डान् निधीयत इति प्रतिपद्येमहि । तस्मात् समाचारो न त्याज्यः । अयम् एव पक्षो युक्तियुक्त इति दर्शितः । तस्मान् मतभेदेनापच्छेदतः पूर्वप्रेतनिधानपक्षोपन्यासः केषाम्चित् ।
-
असपिण्डक्रियाकर्म द्विजातेः संस्थितस्य च ।
-
अदैवं भोजयेच् छ्राद्धं पिण्डम् एकं च निर्वपेत् ॥ (म्ध् ३.२३७)
-
अत्र436 सपिण्डीकरणं मृते पितरि जीवति पितामहे पाक्षिकं ज्ञेयम् । यदा “न जीवन्तम् अतिक्रम्य ददाति” इत्य् एवं नाश्नीयते । यदा तु स एषाग्रता स्याद् इति पक्षस् तदा पितामहम् अतिक्रम्य पूर्वैः संसर्जनीयः । एवं तु पुत्रस्यापि मृतस्य पित्रा विकल्पेनैव कर्तव्यम् एवम् अनपत्यभार्यामरणे जीवन्मातृकस्यैष एव विधिः । “प्रमत्तानाम् इतरे कुर्वीरंस् ताश् च तेषाम्” इति ।
- सुतैर् अपत्यैर् इत्य् अर्थः । यद्य् अपि सुतग्रहणं तत्स्थानापन्नानाम् अन्येषाम् अपि ग्रहणम्, यदि स्वशब्देन नास्ति निषेधः ॥ ३.२३८ ॥
श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति ।
स मूढो नरकं याति कालसूत्रम् अवाक्शिराः ॥ ३.२३९ ॥
मेधातिथिः ...{Loading}...
यद्य् अपि श्राद्धभुजो दोषग्रहणं तथापि कर्तुर् अयम् उपदेशः । तेन तथा कर्तव्यं यथा न प्रयच्छति । ऋत्विङ्नियमवत् । वृषलः शूद्रः । अवाक्शिरा ऊर्ध्वपादः । प्रकृत एव सपिण्डीकरणं मा विज्ञायीति श्राद्धग्रहणम् ॥ ३.२३९ ॥
श्राद्धभुग् वृषलीतल्पं तद् अहार् यो ऽधिगच्छति ।
तस्याः पुरीषे तं मासं पितरस् तस्य शेरते ॥ ३.२४० ॥
मेधातिथिः ...{Loading}...
वृषली स्त्रीमात्रोपलक्षणार्थम् एतद् इत्य् आहुः । निरुक्तं कुर्वन्ति । वृषस्यति437 चलयति भर्तारम् इति वृषली । सा च ब्राःमणी अन्या वा सर्वा निषिध्यते । तथा च स्मृत्यन्तरं “तदहर् ब्रह्मचारी स्यान् नियतः” (ग्ध् १५.२३) इति । तल्पशब्देन मैथुनसंयोगो भण्यते । न शयनारोहणप्रतिषेध एव । अहर्ग्रहणम् अहोरात्रलक्षणापरम् । रात्राव् अपि निषेधः स्यात् । पुरीष इति निन्दार्थवादो निवृत्त्यर्थः । पितरस् तस्य श्राद्धबुजः । अयम् अपि पूर्ववद् वचनीयः । इदं तु युक्तं यद् उभयोर् नियम इति । नैमित्तिको ऽयं भोक्तुर् धर्मः श्राद्धभोजने निमित्ते विधीयते । प्रकर्णाच्438 च कर्मार्थो ऽपि ॥ ३.२४० ॥
पृष्ट्वा स्वदितम् इत्य् एवं तृप्तान् आचामयेत् ततः ।
आचान्तांश् चानुजानीयाद् अभितो439** रम्यताम् इति ॥ ३.२४१ ॥**
मेधातिथिः ...{Loading}...
आचमनिकम् अन्नपानं दत्त्वा प्रष्टव्याः, स्वदितम् इत्य् अनेन शब्देन । स्मृत्यन्तराच् चान्नं परिगृह्य प्रश्नो ऽयं कर्तव्यः । भवति हि कस्यचिद् अयं स्वभावो यद्440 असंनिहितम् अन्नं सत्य् अपि तदभिलाषे यन्त्रणया न441 मृग्यते संनिहितं तु442 गृह्णाति । तृप्तान्443 आचामयेत् । अन्ये तु “तृप्ताः स्थ” (य्ध् १.२४१) इत्य् अनेन शब्देन प्रष्टव्याः444 । ज्ञात्वा च तृप्ताण् “स्वदितम्” इति अनेन शब्देन बृंहणीयाः । वक्ष्यति “पित्रे स्वदितम् इत्य् एव वाच्यम्” इति (म्ध् ३.२४४) । आचान्तांश् चानुजानीयाद् अभितो445** रम्यताम्** इति । अभितः उभतः, इहैव स्वगृहे वा यथेष्टम् आस्यताम् इत्य् अर्थः ॥ ३.२४१ ॥
स्वधास्त्व् इत्य् एव तं ब्रूहुर् ब्राह्मणास् तदनन्तरम् ।
स्वधाकारः परा ह्य् आशीः सर्वेषु पितृकर्मसु ॥ ३.२४२ ॥
मेधातिथिः ...{Loading}...
भुकवद्भिर् गृहगमनाभ्यनुज्ञातैर् अनन्तरं स्वधेति वाच्यम् । स्वधाकारः स्वधाशब्दोच्चारणम् । प्रकृष्टा आशीः । पितृकार्येषु सर्वेषु पक्वान्नापक्वान्नश्राद्धेषु ॥ ३.२४२ ॥
ततो भुक्तवतां तेषाम् अन्नशेषं निवेदयेत् ।
यथा ब्रूयुस् तथा कुर्याद् अन्ज्ञातस् ततो द्विजैः ॥ ३.२४३ ॥
मेधातिथिः ...{Loading}...
भुक्तम् अन्नं तेभ्यो निवेदयितव्यम् । प्रष्टव्यास् ते “इदम् अस्ति” इति । यथा ब्रूयुस् तथा कुर्याद् अनुज्ञातः । अतो446 ऽननुज्ञातेन नान्यत्र विनियोक्तव्यम् ॥ ३.२४३ ॥
पित्र्ये स्वदितम् इत्य् एव वाच्यं गोष्ठे तु सुशृतम्[^४६१]** ।**
संपन्नम् इत्य् अभ्युदये दैवे रुचितम् इत्य् अपि ॥ ३.२४४ ॥
मेधातिथिः ...{Loading}...
अन्येनापि तत्कालोचितोपस्थितेनैवम् एभिः शब्दैः मोदयितव्यः । अन्यस् त्व् आह- अनुज्ञापनम् एतैः शब्दैर् भोजनादिप्रवृत्तौ447 कर्तव्यम् । अतश् च श्राद्धकृता परितुष्ट्यैवं448 वक्तव्यम् । स्वदध्वम् इति न हि स्वदितम्449 । स्वदतु450 इत्य् वा पाठः । एतस्यार्थस्य प्रतिपादकम् एतद् व्याख्यानं स्मृत्यन्तरसमाचारसापेक्षं तस्मात् प्रवृत्तभोजनाः श्राद्धकृतान्येन वैवं प्रीणयितव्याः451 । गोष्ठे गोषु तिष्ठन्तीष्व् एकदेशेषु सुशृतम्452 इति वाच्यम् । अस्त्व् इति सर्वत्र प्रतीयते । दैवे रुचितं रोचितम् इति वा ॥ ३.२४४ ॥
अपराह्णस् तथा दर्भा वास्तुसंपादनं तिलाः ।
सृष्टिर् मृष्टिर् द्विजाश् चाग्र्याः श्राद्धकर्मसु संपदः ॥ ३.२४५ ॥
मेधातिथिः ...{Loading}...
अप्राह्णे श्राद्धं कर्तव्यम् । श्राद्धकर्मसु संपदः । संपादयितव्यान्य् एतानि453 वस्तूनि । अविशेषाभिधाने ऽप्य् अपराह्णे न454 सर्वश्राद्धेषु । एवं हि स्मृत्यन्तरम्-
-
पूर्वाह्णे दैविकं कार्यम् अप्राह्णे तु पैतृकम् ।
-
एकोद्दिष्टं तु मध्याह्ने प्रातर् वृद्धिनिमित्तकम् ॥ इति ।
वास्तु वेश्म, तस्य संपादनं संमार्जनं सुधादिना भित्तीनां गोमयेन भूमेर् उपलेपनं दक्षिणप्रवणता455 च । सृष्टिर् विसर्गः, अकार्पण्येनान्नव्यञ्जनदानम् । मृष्टिर् मार्जनं । अन्नसंस्कारविशेषः ।
- अन्ये तु व्याचक्षते । संपद् एषा विभवशक्तिः, न त्व् एतैर् विना अकरणम् ॥ ३.२४५ ॥
दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः ।
पवित्रं यच् च पूर्वोक्तं विज्ञेया हव्यसंपदः ॥ ३.२४६ ॥
मेधातिथिः ...{Loading}...
दर्भाः प्रसिद्धाः । पवित्रं मन्त्राः । हविषे हितानि योग्यानि हविष्याणि पूर्वश्लोके456 तान्य् वक्ष्यन्ते । पवित्रं पावनं शुच्याचारता । यच् च पूर्वोक्तम्457 । वास्तुसंपादनं सृष्टिर् मृष्टिर् ब्राह्मणाश् च श्रेष्ठाः श्रुतशीलसंपन्नाः । हव्यसंपदः । हव्यं देवतोद्देशेन यागादि ब्राह्मणभोजनं च । हव्यशब्दः कर्म दैविकम् उपलक्षयति ॥ ३.२४३ ॥
मुन्यन्नानि पयः सोमो मांसं यच् चानुपस्कृतम् ।
अक्षारलवणं चैव प्रकृत्या हविर् उच्यते ॥ ३.२४७ ॥
मेधातिथिः ...{Loading}...
मुनिर् वानप्रस्थः, तस्य्आन्नानि आरण्यानि नीवारादीनि । एतच् च प्रदर्शनं ग्राम्याणाम् अपि व्रीह्यादीनाम् । तथार्वाचीने श्लोके सर्वग्रहणम् । उत्तरत्र च “हविर् यच् चिररात्राय” (म्ध् ३.२५६) इति प्रक्रम्य “तिलैर् व्रीहियवैर् माषैः” (म्ध् ३.२५७) इति ग्राम्याणाम् अप्य् अनुक्रमणम् । पयः क्षीरम् । तद्विकारा अपि दध्यादयो गृह्यन्ते, स्मृतिसमाचाराभ्याम् । सोम ओषधिविशेषः । अनुपस्कृतम् अधिकृतम् अप्रतिषिद्धम् । सूनामांसाद्य् अनुपस्कृतम् । अक्षारलवणम् । अत्र संदिह्यते- “किं द्वंद्वगर्भो नञ्समासः, उत नञ्समास एव । अक्षारलवणम्, उत लवणविशेषः ऽक्षारलवणम्ऽ ततो ऽन्यद् अभ्यनुज्ञायते” । लवणम् एवं भवितुम् अर्हम्458 । द्वन्द्वगर्भे459 हि वृत्तिद्वयम् आश्रयणीयम् । प्रतिपदं च नञः संबन्धभेदः । तद् गुरु भवति । प्रकृत्या हविर् अनाश्रिते विशेषे एतद् धविर् विज्ञ्ēयम्460 । “हविष्येण वर्तते,” “हविष्यात् प्रातराशाद् भुङ्क्ते” इत्यादि सामान्यचोदनासु तद् धविष्यं ज्ञेयम् ॥ ३.२४७ ॥
विसर्ज्य ब्राह्मणांस् तांस् तु प्रयतो[^४७६]** वाग्यतः शुचिः ।**
दक्षिणां दिशम् आकाङ्क्ष्यन् याचेतेमान् वरान् पितॄन् ॥ ३.२४८ ॥
मेधातिथिः ...{Loading}...
प्रासङ्गिकः पूर्वश्लोकः । इदानीं प्रकृतशेषम् एवाह । विसर्ज्यानुज्ञाय यथासुखविहारे । ब्राह्मणांस् तान् प्रभुक्तवतः । अनन्तरं दक्षिणां दिशम् ईक्षमाण इमान् वरान् अभिलषितार्थान् पितॄन् याचेत स्वपितॄन् प्रार्थयेत् । स्वपितॄन् ध्यायन् “युष्मासु प्रसन्नेष्व् इदं नः संपद्यताम्” इत्य् एवं याचितव्यम् ॥ ३.२४८ ॥
के पुनस् ते वरा याचितव्या इत्य् अत आह ।
दात्तारो नो ऽभिवर्द्धन्तां वेदाः संततिर् एव च ।
श्रद्धा च नो मा व्यगमद् बहुदेयं च नो ऽस्त्व् इति ॥ ३.२४९ ॥
मेधातिथिः ...{Loading}...
मन्त्रवद् अयं श्लोकः पठितव्यः ॥ ३.२४९ ॥
एवं निर्वपणं कृत्वा पिण्डांस् तांस् तदनन्तरम् ।
गां विप्रम् अजम् अग्निं वा प्राशयेद् अप्सु वा क्षिपेत् ॥ ३.२५० ॥
मेधातिथिः ...{Loading}...
तदनन्तरं वरयाचनानन्तरं पिण्डान् पितृभ्यो निरुप्तान् गवादीन् प्राशयेत् । अग्नौ प्रक्षेप एव प्राशनम् । “प्रापयेत्” इति पाठान्तरम् ॥ ३.२५० ॥
पिण्डनिर्वपणं केचित् परस्ताद्[^४७७]** एव कुर्वते ।**
वयोभिः खादयन्त्य् अन्ये प्रक्षिपन्त्य् अनले ऽप्सु वा ॥ ३.२५१ ॥
पतिव्रता धर्मपत्नी पितृपूजनतत्परा ।
मध्यमं तु ततः पिण्डम् अद्यात् सम्यक् सुतार्थिनी ॥ ३.२५२ ॥
मेधातिथिः ...{Loading}...
आद्यन्तयोः पिण्डयोर् एषा प्रतिपत्तिः । मध्यमं तु ततः । तेषां पिण्डानां यो मध्यमः तं धर्मपत्नी पुत्रार्थिनी अद्यात् । या न कामार्थमूढा । पतिर् एव मया परिचरणीयो मनसापि व्यभिचारो न कर्तव्य इति यस्या नियमः सा पतिव्रता पतिक्भक्ता465 । पितृपूजने श्राद्धादिकर्मणि तत्परा श्रद्धावती । प्रयत्नेन तदाराधनादौ प्रवर्तते । संयग् अद्याद् आचमनादिविधिना नियमेन च ॥ ३.२५२ ॥
आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् ।
धनवन्तं प्रजावन्तं सात्विकं धार्मिकं तथा ॥ ३.२५३ ॥
मेधातिथिः ...{Loading}...
भक्षयित्वा तु तं पिण्डं सुतं पुत्रं सूते जनयति । मेधा ग्रहणशक्तिः, तया समन्वितं युक्तम् । सत्वं नाम गुणः सांख्येषु प्रसिद्धः दैर्योत्साहादिद्योत्यस् तद्युक्तम् ॥ ३.२५३ ॥
प्रक्षाल्य हस्ताव् आचम्य ज्ञातिप्रायं प्रकल्पयेत् ।
ज्ञातिभ्यः सत्कृतं दत्वा बान्धवान् अपि भोजयेत् ॥ ३.२५४ ॥
मेधातिथिः ...{Loading}...
पिण्डेषु प्रतिपादितेषु तौ हस्तौ प्रक्षालयेत् । ततः आचमनविधिं कुर्यात् । ज्ञातीन् प्रैति गच्छति प्राप्नोतीति ज्ञातिप्रायं कुर्यात् । ज्ञातिभ्यो दद्यात् । तेभ्यः सत्कृतं दत्वा बान्धवेभ्यो ऽपि दद्यात् । ज्ञातयः सगोत्राः मातृश्वशुरपक्षा बान्धवाः ।
-
अत्र चोच्यते- यद् उक्तम् “यथा ब्रूयुस् तथा कुर्यात्” (म्ध् ३.२४३) इति । यदि तैर् उक्तम् “गृहान् अस्मदीयान् एतद् अन्नं प्राप्यताम्” इति, तदा वैश्वदेवहोमादीनां का गतिः ।
-
पाकान्तरं कर्तव्यम् । अथ वादृष्टार्थम् एवान्नशेषनिवेदनं नित्यवद् आम्नायते । शेषम् अन्नम् इत्य् उक्ते इष्टेभ्य466 इति ब्रूयुर् इति, पाक्षिकं चैतत् स्याद् यदि ते गृह्णीयुः ॥ ३.२५४ ॥
उच्छेषणं तु तत् तिष्ठेद् यावद् विप्रा विसर्जिताः ।
ततो गृहबलिं कुर्याद् इति धर्मो व्यवस्थितः ॥ ३.२५५ ॥
मेधातिथिः ...{Loading}...
भुञ्जानानां यत्किंचिद् भुज्यधिकरणपात्रसंलग्नं भूमिपतितं च तन् न467 तस्माद् देशाद् अवमार्ष्टव्यम्, यावद् ब्राह्मणा न निष्क्रान्ताः । ततो गृहबलिं निष्पन्ने श्राद्धकर्मण्य् अनन्तरं वैश्वदेवहोमान्वाहिकातिथ्यादिभोजनं कर्तव्यम्, बलिशब्दस्य प्रदर्शनार्थत्वात् ।
- अन्ये तु भूतयज्ञ468 एव बलिशब्देन प्रसिद्धतरः । ततश् चाग्नौ होमो न प्राग् विरुध्यते इत्य् आहुः । न चैतद् वाच्यम्- पित्र्ये कर्मणि प्रारब्धे कथं कर्मान्तरस्य तदन्तःकरणम् । यथैव पूर्वेद्युर् निमन्त्रितेषु ब्राह्मणेषु सायंप्रातर् होमकरणं द्व्यहकल्पे श्राद्धस्य विरुद्धम् एवं वैश्वदेवहोमो ऽप्य् औपसदाग्निकः । तेन भूतयज्ञात् पराञ्चः पदार्था उत्कृष्यन्ते, नार्वाञ्चः ।
- अत्रोच्यते । यदि प्राग् अग्नौ वैश्वदेवहोमः क्रियते ततः श्राद्धानन्तरं बलिहरणम्, तथा सति देवयज्ञभूतयज्ञौ व्यवधीयेताम् । ततश् च क्रमोपरोधः । न च वैश्वदेवस्य कालबाधः क्रियते, पितृश्राद्धकालहानेः । तस्मात् सर्वं महायज्ञानुष्ठानं श्राद्धाद् औत्तरकालिकम् ॥ ३.२५५ ॥
हविर् यच् चिररात्राय यच् चानन्त्याय कल्पते ।
पितृभ्यो विधिवद् दत्तं तत् प्रवक्षाम्य् अशेषतः ॥ ३.२५६ ॥
मेधातिथिः ...{Loading}...
चिररात्र्अशब्दो दीर्घकालवचनः । यच् चानन्त्याय कल्पते दीर्घकालतृप्तये जायते, तद् उभयं469 ब्रवीमीति प्रणिधानार्थम् उच्यते । कल्पते, प्रेत इत्य् अध्याहर्यम् ॥ ३.२५६ ॥
तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलेन वा ।
दत्तेन मासं तृप्यन्ति विधिवत् पितरो नृणाम् ॥ ३.२५७ ॥
मेधातिथिः ...{Loading}...
तिलादिग्रहणं नेतरधान्यपरिसंख्यानार्थम्, अपि तूक्तानां फलविशेषप्रदर्शनार्थम् । एतैर् विधिवद् दत्तैर्470 अपि मासं प्रीयन्ते । विधिवत् पितरो नृणाम् इत्याद्यनुवादपदानि वृत्तपूरणार्थानि ॥ ३.२५७ ॥
द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।
औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥ ३.२५८ ॥
मेधातिथिः ...{Loading}...
उरभ्रा मेषाः । शकुनय आरण्याः कुक्कुटाद्याः । मत्स्याः पाट्ःईनाद्याः ॥ ३.२५८ ॥
षण्मासांश् छागमांसेन पार्षतेन च सप्त वै ।
अष्टाव् एणस्य मांसेन रौरवेण नवैव तु ॥ ३.२५९ ॥
मेधातिथिः ...{Loading}...
रुरुपृषतैणा मृगजातिविशेषवचनाः । रौरवेण पार्षतेन ऐणेयेति विकारे तद्धितः ॥ ३.२५९ ॥
दशमासांस् तु तृप्यन्ति वराहमहिषामिषैः ।
शशकूर्मयोस् तु मांसेन मासान् एकादशैव तु ॥ ३.२६० ॥
मेधातिथिः ...{Loading}...
वराहश् चारण्यसूकरः ॥ ३.२६० ॥
संवत्सरे तु गव्येन पयसा पायसेन च ।
वार्ध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी ॥ ३.२६१ ॥
मेधातिथिः ...{Loading}...
श्रुतानुमितयोः श्रुतसंबन्धस्य बलीयस्त्वात्, “गव्येन पयसा” इति संबन्धः, न मांसेन प्राकरणिकेन । अन्ये तु चशब्दं समुच्चयार्थीयं पठित्वा व्याख्यानयन्ति- मांसेन गव्येन पयसा पायसेन वा । पयोविकारः पायसं दध्यादि । पयःसंस्कृत ओदनः प्रसिद्धः । वार्ध्रीणसो जरच्छागः । एवं हि निगमेषु पठ्यते ।
-
त्रिपिबं त्व् इन्द्रियक्षीणं श्वेतं वृद्धम् अजापितम् ।
-
वार्ध्रीणसं तु तं प्राहुर् याज्ञिकाः पितृकर्मणि ॥
पिबतो यस्य त्रीणि जलं स्पृशन्ति कर्णौ जिह्वा च, स त्रिभिः पिबतीति त्रिपिबः । यत् तु शङ्खेन गोमांसभक्षणे प्रायश्चित्तम् आम्नातं तन् मधुपर्काष्टकाश्राद्धेभ्यो ऽन्यत्र ज्ञेयम् ॥ ३.२६१ ॥
कालशाकं महाशल्काः खड्गलोहामिषं मधु ।
आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः ॥ ३.२६२ ॥
मेधातिथिः ...{Loading}...
कालशाकं विशिष्टशाकं प्रसिद्धम् । कृष्णे वास्तुकभेदे वा ।471 महाशल्काः शल्यका उच्यन्ते । अन्ये तु मत्स्यान् सशल्कान् आहुः । खड्गो गण्डकः । लोहः कृष्णश् छागः सर्वरक्तश् च । तथा पुराणम्-
- कृष्णश् छागस् तथा रक्त आनन्त्यायैव कल्पते ।
लोहशब्दो वर्णलक्षणया तद्वर्णयुक्ते छागे वर्तते । अयःकृष्णं ताम्रं लोहितं उभयत्रापि लोहशब्दः प्रयुज्यते । यद्य् अपि चैष वर्णो मेषादिष्व् अपि संभवति तथापि स्मृत्यन्तरप्रसिद्ध्या छाग एव गृह्यत इति व्याचक्षते । अन्ये तु शकुनिर् लोहितपृष्ठः नामैकदेशेन, देवदत्तो दत्त इतिवत्, प्रतिपाद्यत इत्य् आहुः । समाचारश् चोभयत्राप्य् अन्वेष्यः । मधु माक्षिकम् । सर्वत्रात्र प्रीत्यतिशयोत्पत्तिर् विवक्षिता, न तु यथाश्रुत एव कालः । तथा हि द्वादशवर्षाण्य् अकरणं स्यात् । तत्र विरुध्येत “पित्र्यम् आ निधनात् कार्यम्” (म्ध् ३.२६९) इति ॥ ३.२६२ ॥
यत् किंचिन् मधुना मिश्रं प्रदद्यात् तु त्रयोदशीम् ।
तद् अप्य् अक्षयम् एव स्याद् वर्षासु च मघासु च ॥ ३.२६३ ॥
मेधातिथिः ...{Loading}...
यत् किंचिद् अन्नं मधुना संयुक्तम् । त्रयोदश्यां वर्षासु च मघासु चाधिकम् इति । तदा च तद् अक्षयम् एव । ऋतुनक्षत्रतिथीनां च समुच्चयः । आपस्तम्बवचनात् तु वर्षासु त्रयोदश्यष्टमीदशमीष्व्472 अपि । मघासु चान्तरेणाविवक्षा । एवं ह स्माह “मघासु चाधिकम्” इति (आप्ध् २.१९.२०) ॥ ३.२६३ ॥
अपि नः स कुले भूयाद् यो नो दद्यात् त्रयोदशीम् ।
पायसं मधुसर्पिर्भ्यां प्राक्छाये कुञ्जरस्य च ॥ ३.२६४ ॥
मेधातिथिः ...{Loading}...
प्रकृतां त्रयोदशीं वर्षादिगुणयुक्ताम् अधिकृत्येदम् उच्यते । एवं पितर आशास्ते । अस्मकं कुले भूयात् स तादृशो जायताम् उत्कृष्टगुणः यः प्रागुक्तायां त्रयोदश्याम् अस्मभ्यं दद्यात् पायसं मधुसर्पिःसंयुक्तम् । तथा कुञ्जरस्य हस्तिनः प्राक्छाये प्राच्यां दिशि गतायां छायायाम्, अपराह्णेतरे काल इत्य् अर्थः । शेषे ऽहनि हस्तिनो दीर्घा प्राची छाया भवति । “प्राक्छायाम्” इति वा पाठः । छायायां हि ब्राःमणा भोज्यन्ते । अग्रिमं कर्म तु यद्य् अल्पत्वाच् छायायां न संभवति, तद्देशान्तरे तत्समीपे कर्तव्यम् । अङ्गत्वात् सति संभवे तत्सर्वाङ्गोपेतं प्रधानं हस्तिछायायाम् एव ।
-
यत् तु व्याचक्षते- ग्रहोपरागो हस्तिछायोच्यते । “हस्ती वै भूत्वा स्वर्भानुर् आसुरिर् आदित्यं तमसाविध्यत्” (च्ड़्। प्ब् १४.११.१४) इति
-
तद् अयुक्तम् । तत्र हि गौणो हस्तिशब्दप्रयोगः । स्मृत्यन्तरे च पृथग् एव हस्तिछाया ग्रहोपरागाद् आम्नाता “हस्तिछाया ग्रहणं चन्द्रसूर्ययोः” (य्ध् १.२१८) इति ॥ ३.२६४ ॥
यद् यद् ददाति विधिवत् सम्यक् श्रद्धासमन्वितः ।
तत् तत् पितॄणां भवति परत्रानन्तम् अक्षयम् ॥ ३.२६५ ॥
मेधातिथिः ...{Loading}...
यद् यद् इति वीप्सायाम् अप्रतिषिद्धं सर्वम् अन्नम् अनुजानाति । विधिवत् सम्यक् शब्दानुवादः । श्रद्धासमन्वित इत्य् एतद् अत्र विधीयते । श्रद्दया दातव्यम् । तथा दत्तम् अनन्तम् अक्षयं भवति पितॄणां परलोके । अनन्तम् इति वा कालावधिनिषेधः । अक्षयम् इति मात्रया व्ययाभावम् आह । सर्वकालं भवति प्रभूतं च ॥ ३.२६५ ॥
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
श्राद्धे प्रशस्तास् तिथयो यथैता न यथेतराः ॥ ३.२६६ ॥
मेधातिथिः ...{Loading}...
दशम्यादीनां वचनात् फलातिशयोत्पत्तिः । अन्यास्व् अपि तु सत्यां श्रद्धायां कर्तव्यम् । चतुर्दश्यां तु निषेध एव ॥ ३.२६६ ॥
युक्षु कुर्वन् दिनर्क्षेषु सर्वान् कामान् समश्नुते ।
अयुक्षु तु पितॄन् सर्वान् प्रजां प्राप्नोति पुष्कलाम् ॥ ३.२६७ ॥
मेधातिथिः ...{Loading}...
युञ्जि दिनानि द्वितीयाचतुर्थ्यादीनि । ऋक्षं नक्षत्रं तानि भरण्यादीनि युञ्जि भवन्ति । प्रतिपत्तृतीयापञ्चमीसप्तमीनवम्यास्473 तिथयो ऽयुज उच्यन्ते । द्वितीयाचतुर्थीषष्ठ्यष्तमीदशम्यो युजः । एवम् एकादश्ययुक्प्रभृतौ द्रष्टव्यम् नक्षत्रेष्व् अपि । सर्वान् कामान् । ते च कामा इतिहासपुरानयोर् भेदेनोपत्ताः । पुष्कलां प्रजाम् । धनविद्याबलपुरुषैः पुष्टा पुष्कला ॥ ३.२६७ ॥
यथा चैवापरः पक्षः पूर्वपक्षाद् विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्णाद् अपराह्णो विशिष्यते ॥ ३.२६८ ॥
मेधातिथिः ...{Loading}...
पूर्वपक्षः शुक्लपक्षः अपरः कृष्णपक्षः । चैत्रसिताद्या मासा इति । यथा श्राद्धस्य शुक्लपक्षात् कृष्णपक्षो विशिष्यते प्रकृष्टफलदो भवति, तथा पूर्वाह्णाद् अपराह्णो विशेषवचनात् । पूर्वाह्णे ऽपि कदाचित् कर्तव्यम् एवेति प्रतीयते ।
-
ननु च प्रसिद्धेन दृष्टान्तेन भवितव्यम् । न चापरपक्षस्य पूर्वपक्षाच् छ्राद्धं प्रति विशेष उक्तः ।
-
केचिद् आहुः । “कृष्णपक्षे दशम्यादौ” (म्ध् ३.२६६) इत्य् एतस्मात् प्रतीयते ।
-
एवं तु ब्रूमः । “वचनात् त्व् अपूर्वत्वात्” (प्म्स् ३.५.२१) इत्य् अनेन न्यायेनाप्रतिसिद्धस्य दृष्टान्ततास्तीति । विधिर् अपि दृष्टान्तवचनाद् एव शक्यो ऽवगन्तुम् ॥ ३.२६८ ॥
प्राचीनावीतिना सम्यग् अपसव्यम् अतन्द्रिणा ।
पित्र्यम् आ निधनात् कार्यं विधिवद् दर्भपाणिना ॥ ३.२६९ ॥
मेधातिथिः ...{Loading}...
यत् किंचित् पित्र्यं तत्र कर्मण्य् अयं विधिः । पदार्थाः प्राग् व्याख्याताः । अतन्द्रिणा अनलसेन श्रद्दधानेनेति यावत् । आ निधनाद् आ मरणात्, यावज्जीविको ऽयं विधिर् इत्य् अर्थः । दर्भपाणिना । तद् उक्तम् “दर्भाः पवित्रम्” (म्ध् ३.२४६) इति । तद् ग्रथितशीर्षकं दर्भमयं पवित्रम् उच्यते ॥ ३.२६९ ॥
रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा ।
संध्ययोर् उभयोश् चैव सूर्ये चैवाचिरोदिते ॥ ३.२७० ॥
मेधातिथिः ...{Loading}...
ननु चापराह्णविधानात्[^४९१] कुतो रात्र्यादिषु प्राप्तिः । अथ मतविशेषवचनेन,[^४९२] अन्यत्राप्य् अस्तीति ज्ञापितम् । सत्यम् । "पूर्वाह्णाद् अपराह्णो विशिष्यते" (म्ध् ३.१६८) इति यदपेक्षं विशेषवचनं तत्रैवास्तीति सामान्यज्ञानं प्रवर्तते ।
-
तेन पूर्वाह्ण एव कदाचित् तस्यान्य उत्तरकाल इति केचिद् आहुः । “ग्रहणं चन्द्रसूर्ययोः” (य्ध् १.२१८) इति चन्द्रग्रहादिषु रात्र्यादाव् अपि प्राप्तः, तन्निषेधार्थम् । अतश् च संध्यायां चन्द्रसूर्ययोर् उपरागेण रात्रौ चन्द्रग्रहणे प्रतिषेधात्, विधानाद् विकल्पः ।
-
अन्ये त्व् आहुः- मध्याह्नकालः पूर्वाह्णापराह्णाभ्याम् अन्यस् तत्राप्य् एतेन प्रतिषेधेन कर्तव्यम् इति ज्ञाप्येत् ।
-
सूर्ये चैव पूर्वाह्णकालत्वात् प्रथमोदिते सूर्ये प्रतिषेधः । राक्षसीत्य् अर्थवादः ॥ ३.२७० ॥
अनेन विधिना श्राद्धं त्रिर् अब्दस्येह निर्वपेत् ।
हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकम् अन्वहम् ॥ ३.२७१ ॥
मेधातिथिः ...{Loading}...
पूर्वोक्तेन विधिना इतिकर्तव्यताकलापेन पूर्वेदुर् निमन्त्रणादिभिः संवत्सरस्य त्रिः श्राद्धं कुर्वीत । केषु मासेष्व् इत्य् अत आह- हेमन्तग्रीष्मवर्षासु । “मासानुमासिकम्” (म्ध् ३.११२) इत्य् अस्य त्रिः संवत्सरविधिर् वैकल्पिकः । पाञ्चयज्ञिकः पञ्चमहायज्ञमध्ये यः पठितः सो ऽन्वहं कर्तव्यः । अस्य च प्राचीनावीत्यपसव्योदङ्मुखब्राह्मणभोजनम् इत्य् एतावत्य् एवेतिकर्तव्यता । एवमर्थम् एव पुनर् उपन्यासः । एवं त्रिःसंवत्सरविधिर् अनाहिताग्नेर् इत्य् एवं पूर्वे व्याचक्षते, प्रमाणं तु त एव विदन्ति ॥ ३.२७१ ॥
न पैतृयज्ञियो होमो लौकिके ऽग्नौ विधीयते ।
न दर्शेन विना श्राद्धम् आहिताग्नेर् द्विजन्मनः ॥ ३.२७२ ॥
मेधातिथिः ...{Loading}...
पितृयज्ञाङ्गभूतो होमः पैतृयज्ञिकः स लौकिके स्मार्ते ऽग्नौ न विधीयते । शास्त्रेण कर्तव्यतया न चोद्यते । तस्मात् त्रिः संवत्सरस्यानाहिताग्निना कर्तव्यम् । यद्य् अपि त्रिःकृतम् अपि भवत्य् एव कृतं लौकिके ऽग्नौ, तथापि संवत्सरापेक्षया अकृतम् एव तद् भवति । प्रस्थभोजनो हि न्यूने भुक्ते ऽभुक्त इति474 । अर्थवादतया पूर्वशेषम् इदं पूर्वे व्याचक्षते ।
- इदं तु युक्तम्475 । यदि लौकिको476 ऽग्निर् विवाहादाव् अपरिगृहीतस् तस्मिञ् छ्राद्धाङ्गभूतो होमो न कर्तव्य इत्य् उच्यते । होमप्रतिषेधेन च तद्व्यतिरिक्तम् अन्यत् कर्म कर्तव्यम् इत्य् उक्तं भवति । इतरथा परिगृहीताग्नेर् अपि477 पार्वणश्राद्धाङ्गत्वेन विधानाद् अनग्निकस्य श्राद्धानधिकार एव स्यात् । यथान्धस्याज्यावेक्षणाशक्त्या न दर्शपौर्णमासयोर् अधिकारः478 । अस्मिंस् तु सति साग्निकस्य होमवत् श्राद्धम् अनग्निकस्य तद्वर्जितम् अपि ज्ञापितं भवति । तथा च “अग्न्यभावे” (म्ध् ३.२०२) इत्य् अस्यायम् एव विषयः ।
- ये ऽपि व्याचक्षते पिण्डपितृयज्ञो ऽभिप्रेतः तत्र यो होमः स लौकिके स्मार्ते ऽग्नौ नास्ति, ते ऽपि न युक्तम् आहुः । अस्त्व् एवम्479 अनाहिताग्निर् नित्यत्वे480 श्रपयित्वा जुहुयाद् इत्यादि । न दर्शेण विना श्राद्धं ग्रहोपरागादाव् आहिताग्निः481 प्रतिषेध इत्य् आहुः । एतत् तु समाचारविरुद्धम् ।
- अन्ये तु पठन्ति- न विना दर्श इत्य् अस्याहिताग्निना482 मासानुमासिकं कर्तव्यम्, नास्य त्रिःसंवत्सरविधिः । नैवायं पाठो ऽस्तीत्य् अन्ये ।
- कस् तर्ह्य् अस्यार्थः । दार्शात् श्राद्धाद् अन्यद् आहिताग्नेर् मघाश्राद्धादि न नियमेन भवतीति दार्शम् एव तस्य नियतम् । अनाहिताग्नेस् तु हेमन्तादिविहितान्य् अपि नियतानीति ॥ ३.२७२ ॥
यद् एव तर्पयत्य् अद्भिः पितॄन् स्नात्वा द्विजोत्तमः ।
तेनैव कृत्स्नम् आप्नोति पितृयज्ञक्रियाफलम् ॥ ३.२७३ ॥
मेधातिथिः ...{Loading}...
पाञ्चयज्ञिकं यच् छ्राद्धम् अहर् अहर् इत्य् उक्तं तस्य वैकल्पिकत्वम् अनेनोच्यते । उदकतर्पणं यत् क्रियते स्नात्वा तेनैव पितृयज्ञक्रियाफलं प्राप्नोति । यद् उक्तम् “एकम् अप्य् आशयेत्” (म्ध् ३.७३) इति तस्य नास्ति नियमेन कर्तव्यता । उकदतर्पणम् अवश्यं कर्तव्यम् ॥ ३.२७३ ॥
वसून् वदन्ति तु पितॄन् रुद्रांश् चैव पितामहान् ।
प्रपितामहांस् तथादित्यान् श्रुतिर् एषा पुरातनी483** ॥ ३.२७४ ॥**
विघसाशी भवेन् नित्यं नित्यं वामृतभोजनः ।
विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम् ॥ ३.२७५ ॥
मेधातिथिः ...{Loading}...
आद्येन श्लोकपादेनातिथ्यादिभुक्तशिष्टस्यान्नस्य यद् भोजनं विहितं तद् अनूद्यते । माङ्गलिकतया मङ्गलावसानानि शास्त्राणि प्रथन्ते । पित्र्याद् दैवं कर्म शस्ततरम् । यज्ञशेषम् । अनेन ज्योतिष्टोमादिहविःशेषस्य भोजनं विघसस्य तुल्यतयोच्यते । उत्तरेणार्धश्लोकेन सौहार्दम् एव तस्य वेदार्थव्याख्यानम् । कस्यांचिच् छाखायाम् आभ्यां शब्दाभ्यां विधानं दृष्टम् अतो व्यामोहं निवर्तयति । विघसम् अश्नातीति विघसाशी । अमृतं भोजनम् अस्येत्य् अमृतभोजनः । भृत्यशेषं486 भृत्यभुक्तशिष्टम् इति द्रष्टव्यम् । भुक्तशेषम् इति पाठे सामर्थ्याद्487 अतिथ्यादिभुक्तम् इति द्रष्टव्यम् ।
- अन्ये तु488 प्रकृतत्वाच् छ्राद्धभुक्तशेषम् इति द्रष्टव्यम् । तथा च स्मृत्यन्तरम् “भुञ्जीत पितृसेवितः” (य्ध् १.२४९) इति । श्राद्धाङ्गं चैतद् भोजनं केचिद् आहुः ।
-
अन्ये तु पुरुषार्थो भोजननियमो ऽयम् इत्य् आहुः । “वसून् वदन्ति” (म्ध् ३.२७४) इत्य् अनेनैव श्राद्धप्रकरणस्याप्रवृत्तत्वात् ।
-
यज्ञशेषं यज्ञोपयुक्तद्रव्यशेषम् इति द्रष्टव्यम् ॥ ३.२७५ ॥
एतद् वो ऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम् ।
द्विजातिमुख्यवृत्तीनां विधानं श्रूयताम् इति ॥ ३.२७६ ॥
मेधातिथिः ...{Loading}...
पूर्वं हि व्यवहितस्य पाञ्चयज्ञिकम् इति महायज्ञविधेर् उपसंहारो माङ्गलिकतयैव । उत्तरेण श्लोकार्धेन वक्ष्यमाणाध्यायार्थैकदेशोपन्यासः । तौ चोक्तप्रयोजनौ489 । द्विजातिमुख्या ब्राह्मणास् तेषां वृत्तयो जीविकाः कर्माणि । द्विजातीनां वा मुख्यवृत्तय इति । उत्तरत्रैव दर्शयिष्याम इति प्रसिद्धम् ॥ ३.२७६ ॥
**इति मानवे धर्मशास्त्रे भृगुप्रोक्तायाम् संहितायां **
तृतीयो ऽध्यायः ॥
-
मान्या कापि मनुस्मृतिस् तदुचिता व्याख्या हि मेधातिथेः ।
-
सा लुप्तैव विधेर् वशात् क्वचिद् अपि प्राप्यं न यत् पुस्तकम् ॥
-
क्षोणीन्द्रो मदनः सहारणसुतो देशान्तराद् आहृतैर्
-
जीर्णोद्धारम् अचीकरत् तत इतस् तत् पुस्तकैर् लेखितैः ॥
इति श्रीभट्टविरस्वामिसूनोर् भट्टमेधातिथिस्वामिनः कृतौ मनुभाष्ये
तृतीयो ऽध्याय्ः समाप्तः ॥
-
M G: grahaṇoktakālaṃ ↩︎
-
M G: evam atrārād ↩︎
-
M G: upakārakāṅgayuktād ↩︎
-
M G 1st ed.: vidhiḥ saṃvādopagamo yataḥ ↩︎
-
M G 1st ed.: grahaṇadarśanānuṣṭhānaprasaṅgaḥ; G 2nd ed.: grahaṇānananuṣṭhānaprasaṅgaḥ ↩︎
-
M G 1st ed.: vastusvato vṛtta ↩︎
-
M G 1st ed. omit: atha kiṃ ↩︎
-
M G: anyatrāśeṣa- ↩︎
-
M G 1st ed. : dṛṣṭa ↩︎
-
M G: dvādaśa daśaḥ vetyādi; J omits: dvādaśa deyāḥ, but gives twelve in translation. ↩︎
-
M G 1st ed.: chrutau ↩︎
-
M G omit: ca ↩︎
-
M G 1st ed.: atha vā ↩︎
-
M G 1st ed.: -dhyayanasyānadhītavedasyādhikāraḥ ↩︎
-
M G: prayojanāpekṣayā ↩︎
-
M G 1st ed. add here: yady etat pṛthagvākyam | atha tu grahaṇāntikam eva cety etan naikaṃ vākyaṃ tan nāsti gṛhīte vede vratanivṛttiḥ | ↩︎
-
M G: ṛksāmābhyāṃ ↩︎
-
M G: ātharvaṇasyeha ↩︎
-
M G here add: asamāptagrahaṇasya ca vratanivṛttau vratasnātakavyapadeśe ↩︎
-
M G: medhāvittamaḥ ↩︎
-
M G: arhati ↩︎
-
M G 1st ed. place this sentence after “tatra tiṣṭhati” ↩︎
-
M G 1st ed. omit: na ↩︎
-
M G 1st ed.: yatkāryāt ↩︎
-
M G 1st ed.: yathā nādhyayanavidhau ↩︎
-
M G 1st ed.: -vidhau ↩︎
-
M G: -ṣṭambho ↩︎
-
M G: auṣadhādānādau ↩︎
-
M G 1st ed.: niyujyata ↩︎
-
M G 1st ed. omit: karaṇīyā, strīsevā na vidhātavyā ↩︎
-
M G 1st ed.: sāpi ↩︎
-
M G 1st ed.: upanayanasya ↩︎
-
M G 1st ed. place pūjādhikārārhaṃ śayānam after vivāhāt ↩︎
-
M G: pūrvavivāhāt ↩︎
-
M G 1st ed.: kaścin ↩︎
-
M G 1st ed.: samāvṛttasya saṃbhavaty eva vivāhaḥ; G 2nd ed.: asamāvṛttasya saṃbhavaty eva vivāhaḥ ↩︎
-
M G: kriyate ↩︎
-
M G 1st ed.: na cakṣuṣa ↩︎
-
M G 1st ed. omit: asyāpi ↩︎
-
M G 1st ed.: -viṣayārthaṃ; G 2nd ed: -viṣayāṃ ↩︎
-
M G 1st ed.: anutiṣṭhato ↩︎
-
M G 1st ed.: yā ↩︎
-
M G 1st ed.: mātāmahī= ↩︎
-
M G 1st ed.: pramātāmahī- ↩︎
-
M G: saṃtatiḥ ↩︎
-
M G 1st ed.: brāhmaṇarājanyaviṣām ↩︎
-
M G 1st ed. omit: pañcamān mātṛta ↩︎
-
M G 1st ed.: asuvarṇāḥ ↩︎
-
M G: bhūmnīni ↩︎
-
M G: vālī ↩︎
-
M G omit: avyaṅgāṅgīṃ ↩︎
-
M G: yady api ↩︎
-
M G 1st ed.: ānuparibhāve ↩︎
-
M G 1st ed omit: yā; G 2nd ed.: sā ↩︎
-
M G: yady api ↩︎
-
M G: vijñāyate ↩︎
-
M G: vijñāyata ↩︎
-
M G: avagamāt ↩︎
-
M G: asagotrādikāyā ↩︎
-
M G 1st ed.: kṛtā tādṛśa- ↩︎
-
M G 1st ed.: ca guṇakarmatve ↩︎
-
M G 1st ed.: prathamataḥ kṛta- ↩︎
-
M G 1st ed.: kṛtāvapattyārtho ↩︎
-
M G omit: brāhmaṇa- ↩︎
-
M G 1st ed.: cāsvavirudhyamāne vikalpate ↩︎
-
M G 1st ed.: siddhaḥ ↩︎
-
M G 1st ed.: garīyaḥ syāt ↩︎
-
M G 1st ed.: sthitayātyaye nāsty eva ↩︎
-
M G: pāṭhāntare ↩︎
-
M G 1st ed.: cumbanādipariphenena ↩︎
-
M G 1st ed.: anutiṣṭhati ↩︎
-
M G add here: yataḥ saṃbhava evātra kaiścit saptamīpañcamyau nānujñāte “saptamī pañcamī caiva mātṛtaḥ pitṛtas tathā” iti anyais tu “ūrdhvaṃ saptamāt pañcamāc ca” tatra vikalpalabhyamānā pañcamī na vivāhyā asaṃbhave tu na doṣaḥ | ↩︎
-
M G 1st ed.: vyuddiṣṭānāṃ ↩︎
-
M G 1st ed. : aguṇo doṣaḥ ↩︎
-
M G 1st ed.: kramaṃ ↩︎
-
M G: kramam ↩︎
-
M G 1st ed.: sapiṇḍādipariṇayana ↩︎
-
M G 1st ed.: tayor vivāhau dharmyau ↩︎
-
M G omit: na tu ↩︎
-
M G 1st ed.: tad ↩︎
-
M G 1st ed.: nirapekṣāyāṃ ↩︎
-
M G: tatrasthe ↩︎
-
M G 1st ed.: itarāpi ↩︎
-
M G add: asya ↩︎
-
M G 1st ed.: -vācanamātram ↩︎
-
M G 1st ed.: so ‘pakriyo; G 2nd ed.: sapariṣkaryaḥ ↩︎
-
M G 1st ed.: prārabdhe tantre ↩︎
-
M G 1st ed.: prākārapuradurgādi ↩︎
-
M G: varjitas tu paiśāce for mantrādi varjitas tu ↩︎
-
M G 1st ed. omit: paiśāce ↩︎
-
M G omit: na ↩︎
-
M G omit: na ca ↩︎
-
M G: saṃskārabhāva- ↩︎
-
M G 1st ed. omit: na ↩︎
-
M G 1st ed.: yasmā ↩︎
-
M G: sarvaviṣayapratiṣedhaḥ ↩︎
-
M G: nā ↩︎
-
M G 1st ed. add: teṣām api ↩︎
-
M G 1st ed.: na me pūrvaṃ ↩︎
-
M G 1st ed. omit: itaretarakāmyayā parasparecchayā ↩︎
-
M G: evety (omit vā) ↩︎
-
M G 1st ed.: pūjākhyāti ↩︎
-
M G 1st ed.: yataś ↩︎
-
M G 1st ed.: -patitaṃ ↩︎
-
M G: anuṣṭhīyamānaṃ ↩︎
-
M G: parisaṃpadyate ↩︎
-
M G 1st ed. omit: yad ↩︎
-
M G: saṃkāravidhitvād adhikāragrahaṇāt ↩︎
-
M G 1st ed.: ca śakyatvād ↩︎
-
M G omit: ca ↩︎
-
M G: tarhi ↩︎
-
M G 1st ed.: atrāpekṣyate ↩︎
-
M G omit: vā ↩︎
-
M G omit: svadāranirataḥ ↩︎
-
M G 1st ed.: -gamane ↩︎
-
M G add: yugmāsu putrārthī saṃviśed ārtave striyam ↩︎
-
M G 1st ed. omit: anye ↩︎
-
M G 1st ed.: ’lpagrahaṇaṃ ↩︎
-
M G 1st ed. place pūrvasyaiva śeṣaḥ after gṛhyante ↩︎
-
M G: varād ādātavyaṃ ↩︎
-
M G: gṛhadharmapaktiṃ ↩︎
-
M G 1st ed.: satkṛtadāra- ↩︎
-
M G: yady api ↩︎
-
M G: kuryān na ↩︎
-
M G: na yuktaṃ ↩︎
-
M G: cullyādidhāraṇe ‘pi taddoṣaḥ tanniṣkṛtyarthatayā ↩︎
-
M G omit: ca ↩︎
-
M G: iti cokto ↩︎
-
M G 1st ed.: puruṣarājaḥ ↩︎
-
M G: yathādhānavidhiḥ ↩︎
-
M G: yady api ↩︎
-
M G: ca vā ↩︎
-
M G 1st ed.: bhṛtyānāṃ ↩︎
-
M G 1st ed.: yady ayaṃ ↩︎
-
M G 1st ed.: daivakarmaṇi ↩︎
-
M G 1st ed.: tacchrutasya ↩︎
-
M G: upari kriyante ↩︎
-
M G 1st ed.: tān ↩︎
-
M G: tvārthalopān ↩︎
-
M G: cehecchatā nityaṃ ↩︎
-
M G 1st ed. omit: atyantaṃ yasya sukhasyānto nāsti ↩︎
-
M G 1st ed.: ‘śakyaṃ ↩︎
-
M G 1st ed.: doṣeṇa kim ucyate ↩︎
-
M G: sukhakāmenetarac ↩︎
-
M G: āditsata ↩︎
-
M G 1st ed. omit: yad ↩︎
-
M G 1st ed.: -lepanena | atrocyate ↩︎
-
M G 1st ed.: naitad ↩︎
-
M G 1st ed.: tathā vidyābhyāsāt ↩︎
-
G 2nd ed.: bhaktiḥ ↩︎
-
M G 1st ed.: aprāṇyarcākārata eva ↩︎
-
M G 1st ed.: homo ↩︎
-
M G 1st ed.L nārcayet ↩︎
-
M G: -arthatāyuktā ↩︎
-
M G: sarvārthaniṣpannapākena (G 2nd ed.: sarvārthe) ↩︎
-
M G 1st ed.L vā vidhihomādi- ↩︎
-
M G: - kārāt pradarśanārthaḥ ↩︎
-
M G: śrutaḥ ↩︎
-
M G: ‘dhikāram ↩︎
-
M G 1st ed.: -āvartam ↩︎
-
M G 1st ed.: pratidivasam ↩︎
-
M G 1st ed.: -sahacaryāt ↩︎
-
M G: divācāribhya ↩︎
-
J: ‘rdhaḥ ślokaḥ ↩︎
-
M G 1st ed.: mantragṛhītam; G 2nd ed.: mātraṃ (pātre) gṛhītam ↩︎
-
M G 1st ed.: vāyasānāṃ ↩︎
-
M G 1st ed.: -kṣayyāmayāvyādayaḥ ↩︎
-
M G 1st ed.: śvādayaḥ ↩︎
-
M G 1st ed.: anugrahaṃ ↩︎
-
M G: brahmaprāptiḥ ↩︎
-
M G: evaṃ yuktam ↩︎
-
M G 1st ed: bhikṣa ↩︎
-
M G 1st ed.: āvacyo ↩︎
-
M G: tat ↩︎
-
M G 1st ed. omit: satkṛtya pūjayitvā ↩︎
-
M G 1st ed.: arthatraya- ↩︎
-
M G: bhasmībhūteṣu ↩︎
-
M G 1st ed.: satkṛtya ↩︎
-
M G: gṛhāgārād ↩︎
-
G 1st ed. adds: saṃśliṣṭaḥ ↩︎
-
M G: dhi ↩︎
-
M G: nādhikaraṇāntarakalpanā ↩︎
-
M G: anyo vā ↩︎
-
M G 1st ed.: ‘gra ↩︎
-
G: svavāsinyo ↩︎
-
G: svavāsinya ↩︎
-
M G: jātyādayaḥ ↩︎
-
M G 1st ed. omit: idam ↩︎
-
M: ardhaśloko; G 1st ed: asyārdhaśloko — for ādyo ‘rdhaśloko ↩︎
-
M G omit: pūrvaṃ ↩︎
-
M G 1st ed. omit: na ↩︎
-
M G 1st ed. add: mṛṣā ↩︎
-
M G: pacanīyam ↩︎
-
M G: vidhyantareṇātikrameṇāpi ↩︎
-
M G omit the section: evaṃ hy āhuḥ . . . atithyādibhuktaśiṣṭaṃ vidhīyate (G 2nd ed. includes just evaṃ hy āhuḥ and the verse that follows. ↩︎
-
M G 1st ed.: parisaṃvatsarāt ↩︎
-
M G J: yathaivānyo (I follow AitB reading) ↩︎
-
M G 1st ed.: āyuṣyam iti for āyur vai ghṛtam itivat ↩︎
-
G 1st ed.: arcārhāḥ ↩︎
-
M: yajñanimitte; G: yajñe nirvṛtte ↩︎
-
M G 1st ed.: gor madhu- ↩︎
-
M G 1st ed. omit: ācārya ↩︎
-
M G: nirmite ↩︎
-
G: nimantrānītau ↩︎
-
M G: dadaditi ↩︎
-
M G: pākayajñiyo vidhir ↩︎
-
J: -śabdaś ↩︎
-
M G: nanu ↩︎
-
M G 1st ed. omit: na ca ↩︎
-
M G: śabdair ↩︎
-
M G 1st ed. omit: anujñāto ‘sya namaskāro ‘mantraḥ ↩︎
-
M G: na ca for tatra ca ↩︎
-
M G 1st ed.: viniyogasiddhir ↩︎
-
M G: prasajjeta ↩︎
-
M G 1st ed. omit: draṣṭavyam ↩︎
-
G 1st ed.: tādvad ↩︎
-
G 1st ed. adds: atrāha | mā bhūd dvayor eko ‘pi tāvanto bhojanīyāḥ | ↩︎
-
M G 1st ed. add: vidhukṣaye tasmin yuktasyaiti nityaṃ pretakṛtyaiva laukikī na yathā daivāni karmāṇi | ↩︎
-
M G: vidhukṣaye ↩︎
-
M G: ca ↩︎
-
M G: aśrotriyāya ↩︎
-
M G: bhojayet ↩︎
-
M G 1st ed.: pāragaḥ samāptigaḥ vedaparagaḥ ↩︎
-
M G: yathātithir ↩︎
-
M G: ṛco yato ↩︎
-
M G 1st ed. omit: ātmasāt karoti ↩︎
-
M G: utkṛṣṭā adhikāḥ tebhyo ↩︎
-
M G 1st ed. add: tair yad arthaṃ śrāddham ārabdhaṃ saṃdīptān taptāyaḥpiṇḍān yamapuruṣair āśyate | ↩︎
-
M G 1st ed. omit: hastau; G 2nd ed.: hastau rudhiradigdhau ↩︎
-
M G add: pāṭhāntaraṃ pretyeti bhoktur eva pretyatā | nāviduṣā daivapitryayor bhoktavyam | J puts this at end of commentary on 2.123. ↩︎
-
M G: āyudhaviśeṣe ↩︎
-
M G: ayolaguḍaḥ ↩︎
-
M G 1st ed. omit: yadarthaṃ śrāddam ārabdhaṃ sa dīptān taptāyaḥpiṇḍān yamapuruṣair āśyate | G 2nd ed. places it after doṣo na bhoktuḥ. ↩︎
-
M G 1st ed. omit: na ↩︎
-
M G add: syāt ↩︎
-
M G place this at the end of the previous verse. ↩︎
-
M G: tasmin niṣṭhas ↩︎
-
M G 1st ed.: tatra ↩︎
-
M G 1st ed.: prakarṣo ‘sty eva guṇāḥ ↩︎
-
M G 1st ed.: tena ↩︎
-
M G 1st ed.: jñānaniṣṭhaparivrājako; G 2nd ed.: jñānaniṣṭhāparivrājako ↩︎
-
M G: ca nāśramiṇo ↩︎
-
M G 1st ed. add: api ↩︎
-
M G 1st ed.: kevalayor brāhmaṇayor bhojanaṃ ↩︎
-
M G 1st ed.: prāyeṇa ↩︎
-
M G 1st ed.: śrāddhakṛcchratāyā ↩︎
-
M G: niyatasaṃjñam ↩︎
-
M G 1st ed.: prāyeṇāpi ↩︎
-
M G 1st ed.: āpyāpi ↩︎
-
M G: mitrabhāvād ↩︎
-
M G: maitryādisahabhojanaṃ ↩︎
-
M G 1st ed.: na karṣako ↩︎
-
J: dharmeṣv ↩︎
-
M G: kṛtsnaśākhā tatrādhyāyī ↩︎
-
M G: -brāhmaṇādānāt ↩︎
-
M G 1st ed. omit: pañca- ↩︎
-
M G 1st ed.: atithim ↩︎
-
M G 1st ed.: agre ↩︎
-
M G 1st ed. add: kāṇādivarjanārtham ↩︎
-
M G: vṛttidvaya- ↩︎
-
M G: manupratiṣedhā- ↩︎
-
M G 1st ed.: anadhītavedaś cet agṛhītavedaś cet ↩︎
-
M G omit: api dauhitram ↩︎
-
M G add: tatra ↩︎
-
M G: vikeśendriyo ↩︎
-
M G: ca hi ↩︎
-
M G: dūrvā ↩︎
-
M G: tāvanmātreṇāpi dadhāti ↩︎
-
M G 1st ed omit: pratiṣiddhāḥ paṇā; G 2nd ed.: te in place of pratiṣiddhāḥ paṇā ↩︎
-
M G 1st ed.: tatas tasyehāprāptir ↩︎
-
M G 1st ed.: kenāpi ↩︎
-
M G: rūpasaṃpannamanoharāvayavasaṃniveśavayaḥsaṃpannaḥ | ↩︎
-
M G 1st ed.: apratyakṣanyāyaṃ ↩︎
-
M G: punarūḍhāṃ ↩︎
-
M G: cārthavāde ↩︎
-
M G: hy utpannabuddhiḥ ↩︎
-
M G 1st ed.: śapathena vihitaṃ sukṛtaiḥ sādhitān svair iti, for: sukṛtaṃ sukṛtaiḥ sādhitaṃ dharmam ↩︎
-
G 2nd ed.: saṃbādhakatvaṃ ↩︎
-
M G 1st ed.: apratirodhaḥ ↩︎
-
M G 1st ed.: vadati ↩︎
-
M G: upāṃśubhedī rasadaḥ satrī ↩︎
-
M G 1st ed. add: dyūtajñaḥ ↩︎
-
M G omit: dyūtaṃ ↩︎
-
M G 1st ed.: anṛtastrīka; G 2nd ed.: anṛtaśrīka ↩︎
-
M G: dhātuḥsaṃkṣobheṇa ↩︎
-
M G: damanakaḥ ↩︎
-
M G: evāvaraṇe ↩︎
-
M G: prāgukta ↩︎
-
The Pāṇinian sūtra reads: nandigrahipacādibhyo lyuṇinyatraḥ | ↩︎
-
M G: haviṣi ↩︎
-
M G 1st ed.: yad dattaṃ ↩︎
-
M G: ca paṅktāv api gṛhyete ↩︎
-
M G 1st ed.: praṣṭavyaḥ ↩︎
-
It is difficult to identify the passage precisely, but see VaDh 6.11; 8.3; 12.27 etc. ↩︎
-
M G: niṣedhaparivarjane varjitaḥ ↩︎
-
M G 1st ed.: parivettā ↩︎
-
M G: tādṛśyayā ↩︎
-
M G: nāpūrvakāriṇām ↩︎
-
M G 1st ed.: hy upohyate ↩︎
-
M G J: paṅktiṃ gataḥ ↩︎
-
M G: yasminn ↩︎
-
M G: apāṅkteṣu ↩︎
-
M G 1st ed.: na ced ↩︎
-
M G place tāni after aṅgāni ↩︎
-
M G 1st ed.: nedānīṃ ↩︎
-
M G 1st ed. omit the section sati śrotiyatve . . . vyaktyapekṣam, and instead give the following: sati śrotriyatvād viguṇayoge adhiko ‘yaṃ guṇo draṣṭavyaḥ paṅktipāvanahetutayā na bahuvacanaṃ vyaktyapekṣam | ↩︎
-
G 1st ed. in place of triṇāciketākhyo . . . sa triṇāciketaḥ, reads: triṇāciketaṃ yajurvekaikadeśaḥ tad vrataṃ ca | tadvratācaraṇena tadadhyāyī triṇāciketaḥ | ↩︎
-
G: prājñayā ↩︎
-
G 1st ed.: pārapakva- ↩︎
-
M G: nimantrayeta ↩︎
-
G adds: yo ‘sau ↩︎
-
M: parirakṣan; G: parirakṣeta ↩︎
-
M G 1st ed.: nādhīyīta ↩︎
-
M G: vāyavo ’nugacchanti ↩︎
-
M G 1st ed.: vāyupramāṇaḥ puruṣo gacchaty anugacchati ↩︎
-
M G 1st ed.: tatra satyāṃ ↩︎
-
G: yat ↩︎
-
M G omit: te ca ↩︎
-
M G 1st ed. add: pūrvaṃ ↩︎
-
M: kalpāntare te ‘py ete; G 1st ed.: kalpāntareṇa te ‘py ete ↩︎
-
M G: sarvasyātmīyapitaraḥ ↩︎
-
M G: coditaḥ ↩︎
-
M G: vasiṣṭha- ↩︎
-
M G: vidheyatve ↩︎
-
M G: yathāvarṇaśrāddhe ↩︎
-
M G: tāvakatve ↩︎
-
M G: yena na ↩︎
-
M G add: prathitaprabhāvāḥ | ṛṣayaś ca ↩︎
-
M: gotranirdeśo; G 1st ed.: gotranirdeśa ↩︎
-
M G add: putrikānuliṅgā iti ↩︎
-
M G: prasajyate ↩︎
-
MG add: gotrasya ↩︎
-
M G: -nāmakās teṣām ↩︎
-
M G add: ca ↩︎
-
M G omit: ca na ↩︎
-
M G add: na ↩︎
-
M G: kṛtakaraṇīyatayā ↩︎
-
G 1st ed: etan nityaṃ ↩︎
-
M G 1st ed.- devatāṃs tv ↩︎
-
G 2nd ed. omits uktārthaḥ . . . indrādayaḥ ↩︎
-
M G: caivaṃ ↩︎
-
M G: vā niyamavacanād ↩︎
-
M G 1st ed.: sauvarṇena ↩︎
-
M G: vādaḥ ↩︎
-
M G add this passage: harṣayed brāhmaṇān iti | tathā kaścin madhurarasapriyo ‘paro kṣārarasapriyas tatra bhakṣyaṃ bhojyaṃ ca vividhaṃ pānāni surabhīṇi ceti bahuṣu pānakeṣu satsu yady anyānurodhena bhavatu ↩︎
-
M G omit: rakṣārtham iva ↩︎
-
M G: nimantrayeta ↩︎
-
M G: daivopakramaṃ viśeṣeṇa ↩︎
-
M G 1st ed.: tāvatprāvṛttikenaiva; G 2nd ed.: tatprāvṛttikenaiva ↩︎
-
M G1st ed. add: padārthadharmaḥ ↩︎
-
M: tasmād upakramaḥ samāno devādiḥ; G: devādinā ↩︎
-
M G: śrāddhe nityatuṣṭāḥ ↩︎
-
M G: sahapavitrāṃs ↩︎
-
M G: tena hi te prārthitā ↩︎
-
G 1st ed. omits: tatra ↩︎
-
G: bhāryāyā ↩︎
-
M G 1st ed. omit: na ↩︎
-
M G 1st ed.: anadhikārā ucyante ↩︎
-
M G: copanayād ↩︎
-
M G 1st ed.: bhāryāvivāhe ↩︎
-
M G: tadā ↩︎
-
M G omit: na ↩︎
-
M G: dharmāt ↩︎
-
M G: tataś ca ↩︎
-
M G: ced ↩︎
-
M G 1st ed.: vedaṃ ↩︎
-
M G: purātanamunaya ↩︎
-
M G: tataḥ ↩︎
-
M G: carusādhanīya ↩︎
-
M G 1st ed.: -dakasya vā ↩︎
-
M G: kriyate ↩︎
-
G 1st ed: uṣmā ca saṃkrāmati; G 2nd ed.: uṣmā vā saṃkrāmati; M omits: saṃkrāmati ↩︎
-
M G: mantravit ↩︎
-
M G: prakṛtavacanair evāpūrvam ↩︎
-
M G omit: namas te bhrātaḥ ↩︎
-
M G: brāhmaṇa ↩︎
-
M G: bhojyet ↩︎
-
M G 1st ed: pitṛbhyo hitam ↩︎
-
J: piṇḍe ujjanādi ↩︎
-
M G: dṛṣṭārtham ↩︎
-
M G: anujñātvāpi mātāmaham prārthya ↩︎
-
M G: eṣv akāmaṃ ↩︎
-
M G add: vaser arthasyeti ↩︎
-
M G: eṣām etat ↩︎
-
M: ghṛtapūpādi; G: ghṛtapūpādiḥ ↩︎
-
M G: saramādūtyam ↩︎
-
M G: brahmodyaṃ ↩︎
-
M G: pariyuktena ↩︎
-
M G: grāsā grahītavyā hy etat ↩︎
-
M G omit: mahīm ↩︎
-
M GL ucchiṣṭadānatvāt ↩︎
-
M G 1st ed.: api bhayādināpi; G 2nd ed.: abhinayādir api ↩︎
-
M G: yat ↩︎
-
M G omit: sūtrādes tu na niṣedhaḥ | na hi tatra veṣṭanavyavahāro loke ↩︎
-
M G add: prākpitrādes tu na niṣedhaḥ | na hi tatra veṣṭanavyavahāro loke (*see previous note) ↩︎
-
M G: carmamayyau ↩︎
-
M G: karmaṇi ↩︎
-
M G: kriyamāṇamātraṃ ↩︎
-
M G: vyākhyānam ↩︎
-
M G: jaḍaprakṛtitvāt ↩︎
-
M G 1st ed.: vyavakṣitatvarūpā ↩︎
-
M G: ‘vadyam ↩︎
-
M G: sparśe ↩︎
-
M omits the commentary on this verse ↩︎
-
M G 1st ed. omit: bhāga eva ↩︎
-
G 1st ed. J: -ocyete ↩︎
-
M G: svatantrāḥ, and add: anye ↩︎
-
M G: tu ↩︎
-
M G 1st ed. omit: tat ↩︎
-
M G add: na ↩︎
-
M G: āvāhayet ↩︎
-
M G 1st ed. omit: na nirdiśet ↩︎
-
M G: vidvān ↩︎
-
M G 1st ed.: sahavacanagṛhītaṃ ↩︎
-
M G 1st ed.: saṃmīlitās ↩︎
-
M G: virudhyeta ↩︎
-
M G 1st ed.: ‘yataḥ ↩︎
-
M G: iti kecit ↩︎
-
M G 1st ed.: amāvāsyāyās tatprāptau māsikaśabdaśravaṇāt; G 2nd ed: amāvāsyāyā utpattau māsikaśabdaśravaṇāt ↩︎
-
M G 1st ed. omit: na hi ↩︎
-
M G: tasmān na māsikam eva śrāddhaṃ tasmān na māsikaśabdasyaikoddiṣṭaviśeṣaviṣyatāyāṃ ↩︎
-
M G omit: sa ↩︎
-
G 2nd ed. omits: ta ucyante | yaś ca nikṣipyate . . . ity evam eva ↩︎
-
M G: viniyogaś ca saṃsarjanaṃ na ↩︎
-
M G: tasmān na mantrāt pūrvapratipattiḥ ↩︎
-
M G: caturthaḥ śabdaḥ ↩︎
-
M G: āvāhayet ↩︎
-
M G 1st ed.: yathāyaṃ; G 2nd ed: yo ‘yaṃ ↩︎
-
M G: vācyaṃ ↩︎
-
M G: nirūpya ↩︎
-
M G 1st ed.: tatra ↩︎
-
M G: samuccayārtho yaś cakāraḥ ↩︎
-
M G 1st ed.: ca ↩︎
-
M G 1st ed.: yadyanaṃtāni ↩︎
-
G 1st ed: kim ayāmāvāsyāyāṃ’ G 2nd ed: kinayāmāvāsyāyāṃ ↩︎
-
M G omit: atra ↩︎
-
M G: vṛṣasyantī ↩︎
-
M G: prakarṇārthaś ↩︎
-
M G: abhibho ↩︎
-
M G: yady ↩︎
-
M G: yantraṇayātraṃ ↩︎
-
M G omit: tu ↩︎
-
G 1st ed: tṛptānām ↩︎
-
M omits: tṛptān . . . praṣṭavyāḥ ↩︎
-
M G: abhibho ↩︎
-
M G omit: anujñātaḥ ato ↩︎
-
M G: -pravṛttaiḥ ↩︎
-
G: pariśiṣṭyaivaṃ ↩︎
-
G: khāditam ↩︎
-
G: svadita ↩︎
-
M omits: ataś ca śrāddhakṛtā . . . prīṇayitavyāḥ ↩︎
-
M: suśritam; G: śrutam ↩︎
-
M G 1st ed.: saṃpādayitavyāḥ anyāni ↩︎
-
M G 1st ed: ataḥ ↩︎
-
M G: dakṣiṇā- ↩︎
-
M G omit: haviṣyāṇi pūrva- ↩︎
-
M G: yac coktaṃ pūrvoktaṃ vā ↩︎
-
M G: arhaḥ ↩︎
-
M G: kiṃ dvandvagarbhe ↩︎
-
M G: anāśritaviśeṣeṇa tad dhavir jñēyam ↩︎
-
M G: purastāt ↩︎
-
M G omit: kecit ↩︎
-
M G: evānuditam ↩︎
-
M G: purastāt ↩︎
-
M: pitṛbhaktiḥ; G 1st ed.: patikavratā ↩︎
-
M G 1st ed.: ukte ‘dṛṣṭebhya ↩︎
-
M G: tatra ↩︎
-
M G: bhūtasya yajña ↩︎
-
M G 1st ed.: yac cānantyāya kenacid vacanaṃ naivaitad ubhayaṃ; G 2nd ed.: yac cānantyāya kalpate | dīrghakālatṛptaye jāyate kenacid vacanaṃ naivaitad ubhayaṃ ↩︎
-
M G 1st ed.: vividhadattair ↩︎
-
M G add: yathā ↩︎
-
M G: trayodṛśy- ↩︎
-
M G: -navamyas ↩︎
-
M G 1st ed.: nyūne bhukte bhavanti vaktāto nāsmābhir atyabhuktam iti; G 2nd ed.: nyūne bhukte ‘bhukte iti bhavanti vaktāto nāsmābhir atyabhuktam iti ↩︎
-
J: tv ayuktam (but Jha’s translation appears to presuppose yuktam) ↩︎
-
M G: yal laukiko ↩︎
-
M G: homasya ↩︎
-
M G: (omits na) darśapaurṇamāsayor anadhikāraḥ ↩︎
-
M G: asty eva evam ↩︎
-
M G: anāhitāgner nitye ↩︎
-
M G: āhitāgneḥ ↩︎
-
M G: ata āhitāgninā ↩︎
-
M G J: sanātanī (but see the commentary, which as purātanī) ↩︎
-
M G: tristhānāvasthādyā ↩︎
-
M G add: tu ↩︎
-
J: bhuktaśeṣaṃ ↩︎
-
J: pāṭhasāmarthyād ↩︎
-
M G: anyat tu ↩︎
-
M G: -nyāsopagate coktaprayojanāni ↩︎