६५ प्रकीर्णकविधिः

अथ प्रकीर्णकाख्यस्य पदस्य विधिर् उच्यते

तत्र बृहस्पतिः ।

एष वादिकृतः प्रोक्तो व्यवहारः समासतः ।
नृपाश्रयं प्रवक्ष्यामि व्यवहारं प्रकीर्णकम् ॥

वादिकृतः अर्थिप्रत्यर्थिभ्यां राजनि मिथो विसंवादम् आवेद्य कृतः । स च ऋणादानादिद्यूतान्तविषयो न द्यूतमात्रविषय इति । एषशब्दो ऽत्र प्रागुक्तसप्तदशपदान्तर्गताशेषगणे वर्तते, न पुनर् अनन्तरोक्तद्यूतसमाह्वयान्तर्गतविशेषेष्व् एवावतिष्ठेत् । समासत इत्य् उभयत्र सम्बध्यते । नृपाश्रयं दुष्टचेष्टोपेताश्रयान्तरसापेक्षनृपाश्रयम् । एकाश्रयव्यवहाराभावात् प्रकीर्णकं प्रकीर्णकव्यपदेशयोगिनम्, तद्योगश् च विप्रकीर्णानां नृपाश्रयाणाम् एकत्र संनिवेशात् । तथा च नारदः ।

राज्ञाम् आज्ञाप्रतीघातः तत्कर्मकरणं तथा ।
पुरप्रमाणं सम्भेदः प्रकृतीनां तथैव च ॥
पाषण्डनैगमश्रेणिगणधर्मविपर्ययः ।
पितापुत्रविवादश् च प्रायश्चित्तव्यतिक्रमः ॥
प्रतिग्रहविलोपश् च कोप आश्रमिणाम् अपि ।
वर्णसंकरदोषश् च तद्वृत्तिनियमस् तथा ॥
न दृष्टं यच् च पूर्वेषु सर्वं तत् स्यात् प्रकीर्णकम् ॥ इति ।

प्रतीघातो भङ्गः । तत्कर्म सिंहासनारोहनादिराजकर्म । पुरप्रमाणं पौरचरितलेख्यप्रमाणम् । सम्भेदः प्रकृतीनां राज्याङ्गानां मर्मोद्भेदो दूषणैः प्रसिद्धैः । पाषण्डादयः प्राग् अनेकधा व्याख्याताः । परधर्माणां करणं धर्मविपर्ययः । पितापुत्रविवादो ऽत्र ऋणादानाद्यनन्तर्भूतो ऽभिहितः । न दृष्टं यच् च पूर्वेष्व् इति प्रागुक्तसर्वशेषतयाभिधानात् । राजाज्ञाप्रतीघातविशेषे केनचित् कृते राज्ञा स्वयम् अन्विष्य भाविते दण्डम् आह याज्ञवल्क्यः ।

ऊनं वाभ्यधिकं वापि लिखेद् यो राजशासनम् ।
पारदारिकचोरौ वा मुञ्चतो दण्ड उत्तमः ॥

अन्यूनानतिरेकेण लेखनस्यादुष्टलक्षणस्य च राज्ञादिष्टस्यातिक्रमे तदाज्ञाप्रतिघातकत्वेनातिदौष्ट्याद् उत्तमसाहसदण्डो ऽत्र ग्राह्य इत्य् अर्थः । आज्ञाकारिणां सत्कारम् अन्यथाकारिणाम् अत्यन्तापकारम् आचरेद् इत्य् आह स एव ।

ये राष्ट्रे ऽधिकृतास् तेषां चारैर् ज्ञात्वा विचेष्टितम् ।
साधून् संमानयेद् राजा विपरीतांश् च घातयेत् ॥

अधिकृतस्थानानुसारेण वर्तमानाः साधवः । राष्ट्र इत्य् उपलक्षणम् । अत एव व्यासः ।

न्यायस्थाने ये ऽधिकृता गृहीत्वार्थं विनिर्णयम् ।
कुर्वन्त्य् उत्कोचकास् ते तु राजद्रव्यविनाशकाः ॥
उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत् । इति ।

कात्यायनो ऽपि ।

राजक्रीडासु ये सक्ताः राजवृत्त्युपजीविनः ।
अप्रियस्य च यो वक्ता वधं तेषां प्रवर्तयेत् ॥

पुरप्रमाणप्रकृतिसंभेदादौ राज्ञा यत् कर्तव्यं तद् अस्माभिः प्राग् एव प्रसङ्गाद् अस्मिन् काण्डे सदाचारकाण्डे चाभिहितम् इत्य् उपरम्यते । तेन प्रकीर्णकाख्यपदप्रतिपाद्यं किंचिद् एवेह प्रतिपादितम् । अवशिष्टम् इह तत्र तत्र प्रसङ्गाद् उक्तम् अनुसंधेयम् ॥

इति सकलविद्याविशारदश्रीकेशवादित्यभट्टोपाध्ययसूनु-

याज्ञिकदेवणभट्टोपाध्यायसोमयाजिविरचितायां

**स्मृतिचन्द्रिकायां व्यवहारकाण्डे द्वितीयपरिच्छेदः **

काण्डश् च समाप्तः