६४ द्यूतसमाह्वय-विधिः

अथ द्यूतसमाह्वयाख्यस्य पदस्य विधिर् उच्यते

तत्र नृपतिं प्रत्य् आह मनुः ।

प्रकाशम् एतत् तास्कर्यं यद् देवनसमाह्वयौ ।
तयोर् नित्यं प्रतीघाते नृपतिर् यत्नवान् भवेत् ॥

तास्कर्यं तस्करत्वम् । यत्नवान् भवेत् यत्नवान् भूत्वा तौ निवारयेत् । तथा चाह स एव ।

द्यूतं समाह्वयं चैव राजा राष्ट्रे निवारयेत् । इति ।

द्यूतसमाह्व्ययोः को भेद इत्य् अपेक्षिते स एवाह ।

अप्राणिभिर् यत् क्रियते तल् लोके द्यूतम् उच्यते ।
प्राणिभिः क्रियते यस् तु स विज्ञेयः समाह्वयः ॥

अप्राणिभिः अक्षादिभिः । प्राणिभिः मेषादिभिः । निवारणम् अत्र निर्वासनादिदण्डेन, दण्डस्यैव नीचनिवारणत्वात् । अत एव निवारणाय निर्वासनम् आह स एव ।

कुशीलवांश् च कितवान् पाषण्डस्थांश् च मानवान् ।
विकर्मस्थान् शौण्डिकांश् च क्षिप्रं निर्वासयेत् पुरात् ॥

कितवानां नीचकारित्वप्रख्यापनायात्र कुशीलवाद्यनेकनीचसाहचर्यकरणम् इति मन्तव्यम् । दुःसङ्गेन कुमार्गित्वम् अविलम्बेन प्रजानाम् अपद्यत इति क्षिप्रग्रहणं कृतम् । क्षिप्रग्रहणस्यएतद् एव प्रयोजनम् उक्तं तेनैव ।

एते राष्ट्रे वर्तमानाः राज्ञः प्रच्छन्नतस्कराः ।
विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ॥

एते कुशीलवादयः । बृहस्पतिस् तु मनोर् मतम् अन्येषां मतं चाह ।

द्यूतं निषिद्धं मनुना सत्यशौचधनापहम् ।
अभ्यनुज्ञातम् अन्यैस् तु राजभगसमन्वितम् ॥
सभिकाधिष्ठितं कार्यं तस्करज्ञानहेतुना । इति ।

सभां कृत्वा द्यूतकारकः सभिकः । कथं पुनः सभिकस्य द्यूतकारकत्वम् इत्य् अपेक्षिते स एवाह ।

सभिको ग्राहको द्रव्यं दद्याज् जेत्रे नृपाय च । इति ।

द्यूतपराजितकितवानां तु बन्धनादिना पणग्राहको भवेत् । पणग्रहणात् प्राग् एव स्वद्रव्यं जेत्रे नृपाय च यथाभागं दद्यात् सभिक इत्य् अर्थः । तथा च कत्ययनः ।

जेतुर् दद्यात् स्वकं द्रव्यं जिताद् ग्राह्यं त्रिपक्षकम् ।
सद्यो वा सभिकेनैव कितवात् तु न संशयः ॥

त्रिपक्षकम् इत्य् अनेन यथासामर्थ्यम् आ त्रिपक्षात् पणदानकालो देय इति दर्शितम् । जेत्रे राज्ञे च दत्तस्य स्वद्रव्यस्य पणप्रतिनिधेः वृद्धिः पणग्रहणकाले पणेन सह सभिकेन ग्राह्या,

दशकं तु शते वृद्धिं गृह्णीयात् तु पराजयात् ।

इति तेनैवोक्तत्वात् । पराजयात् पराजिताद् इत्य् अर्थः । सभिकाधिष्ठितम् इत्य् अस्यानित्यत्वम् आह स एव ।

अथ वा कितवो राज्ञे दत्वा भागं यथोदितम् ।
प्रकाशं देवनं कुर्याद् एवं दोषो न विद्यते ॥

दोषो राजवञ्चनलक्षणो द्यूतकारित्वलक्षणो वा । समाह्वयं प्रस्तुत्याह बृहस्पतिः ।

द्वंद्वयुद्धेन यः कश्चिद् अवसादम् अवाप्नुयात् ।
तत्स्वामिना पणो देयो यस् तत्र परिकल्पितः ॥

क्वचित् पणपरिकल्पनं कृताकृतम् इत्य् आह नारदः ।

परिहासकृतं यच् च यच् चाप्य् अविदितं भवेत् ।
तत्रापि नाप्नुयात् कामम् अथ वानुमतं तयोः ॥

काम्यत इति कामः पणः, नाप्नुयाद् द्यूतस्य तत्रालस्यापनोदनार्थत्वाद् इत्य् अभिप्रायः । तयोर् जेतृजितयोर् देवनात् प्राग् अनुमतं कामं परिहासकृतादाव् अपि जेता प्राप्नुयाद् इति शेषः । तत्र प्राप्तपणापादितभक्ष्यादिभक्षणादाव् आवृत्तिप्रतिषेधार्थम् आह स एव ।

भक्ष्यभोज्यान्नपानानि स्वल्पान्य् अन्यानि कानिचित् ।
प्रीत्या तु सकृद् आजीवेत् प्रसङ्गं तु विवर्जयेत् ॥

विवादनिर्णयस् तत्र सभिकादिसमयानुसारेण प्रसिद्ध इति तद्विषयाणि वचनान्य् अनस्थया नास्माभिः समुच्चितानि ॥

इति स्मृतिचन्द्रिकायां द्यूतसमाह्वयाख्यस्य पदस्य विधिवितानम्