६३ दण्डपारुष्यम्

अथ दण्डपारुष्याख्यस्य पदस्य विधिर् उच्यते

अत्र मनुः ।

एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः ।
अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥

दण्डपारुष्यस्य प्रतिव्यक्ति दण्डनिर्णयम् अत ऊर्ध्वं प्रवक्ष्यामीत्य् अर्थः । दण्डपारुष्यव्यक्तयस् तु दिङ्मात्रतः परिशिष्टकारेण प्रदर्शिताः ।

दुःखं रक्तं व्रणं भङ्गं छेदनं भेदनं तथा ।
कुर्यद् यः प्राणिनां तद् धि दण्डपरुष्यम् उच्यते ॥

स्थावरजङ्गमप्राणिनां प्राण्यन्तरकृतं नखादिना त्वग्भेदादिभवं दुःखं रक्तव्रणादिकं च दण्डपारुष्यम् उच्यत इत्य् अर्थः । व्यासेनापि दिङ्मात्रेण प्रदर्शिताः ।

भस्मादिना प्रक्षिपणं (?) ताडनं च करादिना ।
आवेष्टनं चांशुकाद्यैर् दण्डपारुष्यम् उच्यते ॥ इति ।

आदिग्रहणेनोपरि प्रक्षेपणाद् दुःखकरं कर्दमपांसुमलादि द्रव्यं गृह्यते । करादिनेत्य् अनेनदिशब्देन लगुडपाषाणेष्टकायुधादि द्रव्यम्, आद्यग्रहणेन रज्जुशृङ्खलादि द्रव्यम् । प्रदर्शितव्यक्तीनां मध्ये कासुचिद् व्यक्तिषु दण्डे निर्णयम् अह मनुः ।

त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
मांसभेत्ता तु षण्णिष्कान् प्रवास्यस् त्व् अस्थिभेदकः ॥

मांसभेत्ता व्रणकर्ता । अस्थिभेदको ऽस्थिभञ्जकः । कात्यायनो ऽपि ।

कर्णोष्ठघ्राणपादाक्षिजिह्वाशिश्नकरस्य च ।
छेदने चोत्तमो दण्डो भेदने मध्यमो भृगुः ॥

बृहस्पतिर् अपि ।

भस्मादिना प्रक्षिपणं ताडनं च करादिना ।
प्रथमं दण्डपारुष्यं दमः कार्यो ऽत्र माषकः ।
इष्टकोपलकाष्ठैश् च ताडने तु द्विमाषकः ।
कार्यः कृतनुरूपस् तु लग्ने घाते दमो बुधैः ॥
एष दण्डः समेषूक्तः परस्त्रीष्व् अधिकेषु च ।
द्विगुणास् त्रिगुणो ज्ञेयः प्राधान्यापेक्षया बुधैः ॥ इति ।

याज्ञवल्क्यस् त्व् अप्रदर्शितास्व् अपि दण्डपारुष्यव्यक्तिषु दण्डम् आह ।

पादकेशांशुककरोल्लुञ्छनेषु पाणान् दस ।
पीषाकर्षांशुकावेष्टपादाध्यासे शतं दमः ॥

अत्र अंशुकावेष्टनं च अंशुकादैर् इति प्रदर्शितम् । शेषास् त्व् अप्रदर्शिता व्यक्तत्यः । एवम् अन्यास्व् अप्य् अप्रदर्शितव्यक्तिषु प्रतिव्यक्तिदण्डनिर्णयस्मृतयो यद्य् अपि समुच्चयकारैः समुच्चिताः । अस्माभिस् तु विस्तरभयान् समुच्चिताः । कात्यायनस् तु वाक्पारुष्योक्तप्रतिव्यक्तिदण्डनिर्णय इहानुक्तदण्डविषये क्वचिद् अनुसंधेय इति दर्शयति ।

वाक्पारुष्ये यथैवोक्ताः प्रातिलोम्यानुलोम्यतः ।
तथैव दण्डपारुष्ये पात्या (?) दण्डा यथाक्रमम् ॥

एवं चात्र प्रतिव्यक्ति दण्डनिर्णयः प्रातिलोम्यादाव् अपि कात्यायनेन स्मृत इति न क्वचिद् अस्मृताः दण्डाह् पात्याः ।

नन्व् एवम् अपि क्वचिद् अत्रापराधानुसारेण कल्पिता दण्डा पात्याः, अनन्तव्यक्तिषु प्रतिव्यक्ति दण्डनिर्णयस्मरणयोगात् ।
सत्यम् । अत एवोक्तम् उशनसा ।
यत्र नोक्तो दमः सर्वैर् आनन्त्यात् तु महात्मभिः ।
तत्र कार्यं परिज्ञाय कर्तव्यं दण्डधारणम् ॥

आनन्त्यात् पारुष्यव्यक्तीनाम् इति शेषः । कार्यं प्राणिषु प्राण्यन्तरैर् उत्पादितं दुःखम् । अत एव मनुः ।

मनुष्याणां पशूनां च दुःखाय प्रहृते सति ।
यथा यथा महद् दुःखं दण्डं कुर्यात् तथा तथा ॥

केनचित् कस्यचिद् दुःख्याय प्रहृते सति स्वल्पं दुःखं महद् वा भवतु, दण्डस् तु महान् एवेत्य् अह स एव ।

येन केनचिद् अङ्गेन हिंस्याच् छ्रेयांसम् अन्त्यजः ।
छेत्तव्यं तत् तद् एवास्य तन् मनोर् अनुशासनम् ॥

हिंस्यात् प्रहरेत् । श्रेयांसं द्विजम् । अन्त्यजः शूद्रः । तथा च बृहस्पतिः ।

येनाङ्गेन द्विजातीनां शूद्रः प्रहरते रुषा ।
छेत्तव्यं तद् भवेत् तस्य मनुना समुदाहृतम् ॥

येन केनचिद् अङ्गेनेति सामान्येनोक्तिं स्वयम् एव मनुर् विशेषनिष्ठां कर्तुम् आह ।

पाणिम् उद्यम्य दण्डं वा पाणिच्छेदनम् अर्हति ।
पादेन प्रहरन् कोपात् पादच्छेदनम् अर्हति ॥
अवनिष्ठीवतो दर्पाद् द्वाव् ओष्ठौ छेदयेन् नृपः ।
अवमूत्रयतो मेढ्रम् अवशर्धयतो गुदम् ।
केशेषु गृह्णतो हस्तौ छेदयेद् अविचारयन् ।
पादयोर् दाढिकायां च ग्रीवायां वृषणेषु च ॥ इति ।

पाणिं दण्डं वा उद्यम्येत्य् अत्र प्रहरन्न् इत्य् अनुषज्यते । केशेष्व् एकेन हस्तेन गृह्णतो ऽप्य् उभयहस्तच्छेदनविधिः द्विवचनाद् गम्यते । दाढिका पुरुषस्य प्रधानं लिङ्गम् उच्यते । कोपाद् दर्पाद् इति च वदन् मोहप्रमाददिना प्रहारावष्ठीवनादिकं कुर्वन् न दण्ड्य इति दर्शयति । दर्शितं च याज्ञवल्क्येन ।

हीनेष्व् अर्धदमो मोहमदादिभिर् अदण्डनम् । इति ।

हीनेषु पारुष्यकृदपेक्षया जात्यादिना हीनेषु पुरुषेषु पारुष्ये कृते तत्कर्तुर् अर्धदमः समेषूक्तदमपेक्षया भवतीत्य् अर्थः । परस्परपारुष्यकारिषु दमम् आह बृहस्पतिः ।

द्वयोः प्रहरतोर् दण्डः समयोस् तु समः स्मृतः ।
आरम्भको ऽनुबन्धी च दाप्यः स्याद् अधिकं दमम् ॥

संख्यया समभावाभावे त्व् आह याज्ञवल्क्यः ।

एकं घ्नतां बहूनां तु यथोकाद् द्विगुणो दमः । इति ।

बहूनां प्रत्येकं द्विगुणो दमो न पुनः समुदायस्य प्रहारकस्य, प्रत्येकम् एवापराधधिक्यात् । अत एव विष्णुः - “एकं घ्नतां बहूनां प्रत्यकेस्योक्तदण्डो द्विगुणः” इति । प्रत्येकस्य प्रत्येकम् इत्य् अर्थः । व्रणादिदुःखेष्व् अतिदुःसहेषु जातेष्व् आह कत्यायनः ।

देहेन्द्रियविनाशे तु यथा दण्डं प्रकल्पयेत् ।
तथा तुष्टिकरं देयं समुत्थानं च पण्डितैः ॥

तुष्टिकरं दुःसहव्रणतुष्टिकरं देयं दुःसहव्रणादिकारिणा देयम् । समुत्थानं व्ययं पण्डितैः व्रणगुरुत्वानुसारेण कल्पितम् इति शेषः । समुत्थानं च आ व्रणरोपणाद् देयम्,

समुत्थानव्ययं चसौ दद्याद् आ व्रणरोपणात् ।

इति तेनैवोक्तत्वात् । समुत्थानव्ययं भिषग्भेषजपथ्यपानाद्यर्थं क्रियमाणं व्ययम् । बृहस्पतिर् अपि ।

अङ्गावपीडने चैव छेदने भेदने तथा ।
समुत्थानव्ययं दप्यः कलहापहृतं च यत् ॥

समुत्थानव्ययम् अङ्गादिपीडनदिदुःखोत्पादको दाप्य इत्य् आह याज्ञवल्क्यः ।

दुःखम् उत्पादयेद् यस् तु स समुत्थानं व्ययम् ।
दाप्यः । । । ॥ इति ।

दुःखम् उत्पादयेन् मनुष्यग्राम्यपशूनाम् इति शेषः । तथा च विष्णुः - “सर्वे च पुरुषपीडाकरास् तदुत्थं व्ययं दाप्याः ग्राम्यपशुपीडाकराश् च” इति । ग्राम्यपशुपीडातिशयेन पशुमरणे त्व् आह स एव - “ग्राम्यपशुघाती कार्षापणशतं दण्ड्यः पशुस्वामिनश् च तन्मूल्यं दद्यात्” इति । प्राणिघातनिबन्धो दण्डः क्वचित् क्वचिद् अशक्यप्रतीकारविषय दोषाभावान् नेत्य् आह मनुः ।

छिन्ने नस्ये युगे भग्ने तिर्यक्प्रतिमुखागत् ।
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥
छेदने चैव यन्त्राणां योक्त्ररश्मेस् तथैव च ।
आक्रन्दे चाप्य् अपैहीति न दण्डं मनुर् अब्रवीत् ॥ इति ।

छिन्ने नस्ये बलीवरान् नासिकास्थरज्ज्वादौ त्रुटिते । युगे शकटादियुगकाष्ठे भग्ने । तिर्यक्प्रतिमुखागते कथंचिद् भूवैषम्यदिना तिर्यगभिमुखं वा परावृत्ते याने । यन्त्राणि शकटादिकाष्टानां बन्धनार्थं रज्ज्वादीनि । बलीवर्दादिनियन्तृकपाशप्रग्रहयोर् योक्त्ररश्मिशब्दाभ्यां पृथग् अभिधानाद् यन्त्रशब्देन न ग्रहणम् । अपैहीत्य् आक्रन्दे अपैहीत्य् उच्चैर् उच्चारिते । अपैहीतिशब्दो ऽपसरेत्यादितत्समानार्थाखिलशब्दानां प्रदर्शनार्थम् । तेनापभ्रंशभाषयाप्य् आक्रन्दे कृते न दण्डः । शक्यप्रतीकारे ऽत्रोपेक्षकस्य दण्डम् अह स एव ।

यत्रापवर्तते युग्यं वैवुण्यात् प्राजकस्य तु ।
तत्र स्वामी भवेद् दण्ड्यो हिंसायां द्विशतं दमम् ॥

प्राजकस्य नोदकस्य, शकटादिनेतुर् इति यावत् । द्विशतग्रहणं तत्तत्प्राणिहिंसायां विशेषविहितदण्डोपलक्षणार्थम् । प्राजकस्य वैगुण्याद् एकहस्तत्वादिकात् स्वामिना वेतनलाघवार्थमनुमतात् । प्रगुणप्राजकप्रमादादिना प्रवृत्ते युग्ये न स्वामी दण्ड्यः, किं तु प्राजक इत्य् अह स एव ।

प्राजकश् चेद् भवेद् आप्तः प्राजको दण्डम् अर्हति । इति ।

आप्तः प्रगुण इत्य् अर्थः । नारदो ऽपि क्वचिद् दण्ड्यः प्रभुर् इत्य् आह ।

पुत्रापराधे न पिता न स्वामी शुनि दण्डभाक् ।
न मर्कटे च तत्स्वामी तैर् एव प्रहितो न चेत् ॥

स्थावरप्राणिपीडाकराणां तु दण्डम् आह मनुः ।

वनस्पतीनां सर्वेषाम् उपभोगो यथा यथा ।
तथा तथा दमः कार्यो हिंसायाम् इति धारणा ॥

स्थावरप्राणिजातोपलक्षणार्थं वनस्पतिग्रहणम् । फलबोगार्थेषु पनसादिमहाभोगकारणेषु उत्तमसहसदण्डः, पुष्पबोगार्थेषु चम्पकादिषु पक्वापक्वफलभोगापेक्षयाल्पबोगकारणेषु मध्यमसाहसदण्डः, पत्रभोगार्थेषु पुष्पबोगापेक्षया स्वल्पबोगकारणेषु वल्लीगुल्मलतादिस्थावरप्राणिषु कार्षापणशतम्, अत्यल्पभोगार्थेषु तृणेष्व् एकः कार्षापण इत्य् उपभोगानुसारेण दमो ऽवगन्तव्यः । तथा च दण्ड इत्य् अनुवृत्तौ विष्णुः - “फलोपभोगद्रुमच्छेदी तूत्तमसाहसम्, पुष्पोपभोगच्छेदी मध्यमसाहसम्, वल्लीगुल्यलताच्छेदी कार्षापणशतम्, तृणच्छेद्य् एकम्, सर्वे च तत्स्वामिनां तदुत्पत्तिम्” इति । सर्वे फलोपभोगद्रुमच्छेदकादयः तत्स्वामिनां छिन्नद्रुमादिस्वामिनां तदुत्पत्तिं फलोपभोगद्रुमाद्युत्पत्तिं पुनः प्ररोपितद्रुमादिभोगकालपर्यन्तं दाप्या इति शेषः ॥ऽ

इति स्मृतिचन्द्रिकायां दण्डपारुष्याख्यस्य पदस्य विधिवितानम्