६२ वाक्पारुष्यम्

**अथ वाक्पारुष्यस्य पदय विधिर् उच्यते **

तत्र ब्र्हस्पतिः ।

समजातिगुणानां तु वाक्परुष्ये परस्परम् ।
विनयो ऽभिहितः शास्त्रे पणा अर्धत्रयोदशाः ॥

अर्धं त्रयोदशं येषां द्वादशानां ते तथोक्ताः । केवलजातिसाम्ये तु मनुर् आह ।

समवर्णे तु सर्वेशां द्वादशैव व्यतिक्रमे । इति ।

परस्परं वाचैवेति शेषः । वाचा व्यतिक्रमस्य पौर्वापर्यादिकृतवेशेषाभवे द्वयोः समदोषयोर् द्वादश पणा एव दण्डो भवति न पुनर् अन्यतरस्य न्यूलो ऽधिको वेत्य् अर्थः । अत एव स्मृत्यन्तरम् ।

पारुष्यदोषानृतयोः युगपत्संप्रवृत्तयोः ।
विशेषश् चेन् न दृश्येत विनयः स्यात् समस्तयोः ॥

विशेषदर्शने तु तदनुसारेण विषम एव दमः स्याद् इत्य् अभिप्रायः । अत एव बृहस्पतिः ।

स्मानयोः समो दण्डओ न्यूनस्य द्विगुणस् ततः ।
उत्तमस्यार्धिकः प्रोक्तो वाक्पारुष्ये परस्परम् ॥
अयुगपत् संप्रवृत्तयोः समानयोर् अपि विषमो दण्डः । तथा च नारदः ।

पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् ।
पश्चाद् यः सो ऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ॥

पूर्वे त्व् आक्षारणे तन्निमित्तको विनयः पश्चाद् आक्षारणनिमित्तकविनयाद् अभ्यधिको भवेद् इत्य् अर्थः । वर्णादितः समयोर् निबन्धे तु विशेषदर्शने तन्निमित्तम् अपि विनयगौरवं भवतीत्य् आह स एव ।

द्वयोर् आपन्नयोस् तुल्यम् अनुबध्नाति यः पुमान् ।
तयोर् दण्डम् अवाप्नोति पूर्वो वा यदि वोत्तरः ॥

तुल्यम् आपन्नयोः समत्वेनैव आक्षेपकरयोर् इति यावत् । तयोर् दण्डम् अवाप्नोति तुल्यम् आपन्नयोर् द्वयोः । दण्डो मिलितयोर् यावान् तावन्तम् आप्नोतीत्य् अर्थः । यः पुनर् अनुतापान् निबन्धं त्यजति तस्य दण्डह्रासकल्पनस्य प्रकारम् आह उशना ।

मोहात् प्रमादात् संघर्षात् प्रीत्या वोक्तं मयेति यः ।
नाहम् एवं पुनर् वक्ष्ये दण्डार्धं तस्य कल्पयेत् ॥

एवं जातिगुणवयोविद्याविशेषदर्शने, तथा प्रथममध्यमोत्तमभावेन त्रिधाभिहितवाक्पारुष्यान्तर्गतभेददर्शने तथा निष्ठुराश्लीलतीव्रत्वादिवाक्पारुष्यविशेषदर्शने, तथा श्रुताभिजनदेशकर्मशरीरपितृमातृगुर्वाद्यधिक्षेपविशेषदर्शने तत्तन्निबन्ध्नोच्चावचदण्डविधायिकाः स्मृतयो यद्य् अपि वचःसमुच्चयकारैः समुच्चिताः । अस्माभिस् तु संप्रति तदर्थानुष्ठाननिष्ठप्रजाशिक्षकाभावात् वृथाग्रन्थविस्तरापत्तिर् मा भूद् इति न समुच्चिताः । क्वचिद् वाक्पारुष्यदण्डस्यापवादम् आह वचोभङ्ग्या बृहस्पतिः ।

गुणहीनस्य पारुष्ये ब्राह्मणो नापराध्नुयात् । इति ।

सत्यवादित्वे ऽपि वाक्पारुष्यदण्डो नापैतीत्य् आह वचोभङ्ग्या नारदः ।

पतितं पतितेर्य् उक्त्वा चोरं चोरेति व पुनः ।
वचनात् तुल्यदोषः स्यान् मिथ्या द्विर्दोषतां व्रजेत् ॥

वचनात् तथ्यवचनात् । तथा च स एव ।

दुष्टस्यैव तु यो दोषान् कीर्तयेत् क्रोधकारणात् ।
अन्यापदेसवादी च वाग्दुष्टं तं नरं विदुः ॥

क्रोधकारणाद् इति वदन् दुष्टपरिहरणकारणाद् दोषकीर्तनं न दोषकारीति दर्शयति । दर्शितं च कत्यायनेन ।

यत्र स्यात् परिहारार्थं पतितस् तेन कीर्तनम् ।
वचनात् तत्र न स्यात् तु दोषो यत्र विभावयेत् ॥

वचनात् पतितादिकीर्तनाद् इत्य् अर्थः । यत्राभियोगादौ पातित्यादिकं साधयेत् तत्रापि वचनाद् दोषो न स्याद् इत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायां वाक्पारुष्यस्य पदस्य विधिवितानम्