६१ साहसम्

**अथ साहसाख्यपदस्य विधिर् उच्यते **

वध-लक्षण-साहसः

तत्र बृहस्पतिः ।

मनुष्यमारणं चौर्यं परदाराभिमर्शनम् ।
पारुष्यम् उभयं चेति साहसं स्याच् चतुर्विधम् ॥

अत्र आद्ये द्विविधे साहसे साहसिकज्ञानार्थम् आह स एव ।

हतस् तु दृश्यते यत्र घातकस् तु न दृश्यते ।
पूर्ववैरानुमानेन ज्ञातव्यः स महीभुजा ॥
विज्ञेयो ऽसाधुसंसर्गाच् चिह्नात् होढेन तस्करः ।
एषोदिता घातकानां तस्कराणां च भावना ॥

चिह्नं शोणितलेपादि । होढेन हृतहस्तस्थधनादिना । उदितभावनासंभवे तु कात्यायनः ।

विना चिह्नैस् तु यत् कार्यं साहसाख्यं प्रवर्तते ।
शपथैः स विशोध्यः स्यात् सर्ववादेष्व् अयं विधिः ॥ इति ।

स इति साहसकर्तृत्वेनाभियुक्तः प्रत्यवमृश्यते । तत्र बृहस्पतिः ।

दिव्यैर् विशुद्धो मान्यः स्याद् अशुद्धो वधम् अर्हति । इति ।

नारदो ऽपि ।

तत्कारिणो नार्थदमैः शास्या वध्याः प्रयत्नतः । इति ।

तत्कारिणः साहसलक्षणवधकारिणः । तेषां वधे विशेषम् आह व्यासः ।

ज्ञात्वा तु घातकं सम्यग् असहायं सबान्धवम् ।
हन्याच् चित्रवधोपायैर् उद्वेजनकरैर् नृपः ॥
बन्दिग्राहांस् तथा वाजिकुञ्जराणाम् च हारिणः ।
प्रसह्य घातिनश् चैव शूलान् आरोपयेन् नरान् ॥

यत् तु बृहस्पतिनोक्तम्,

प्रकाशवधकाराश् च तथा चोपांशुघातकाः ।
ज्ञात्वा सम्यग् धनं हृत्वा हन्तव्या विविधैर् वधैः॥

इति, तत् ब्रह्मघ्नक्षत्रियादिविषयम् । यद् आह बोधायनः - “क्षत्रियादीनां ब्राह्मणस्य वधे वधः सर्वस्वहरणं च, तेषाम् एव तुल्यापकृष्टवधे यथाबलम् अनुरूपान् दण्डान् प्रकल्पयेत्” इति । बहूनाम् एकघातकत्वे दोषानुरूपदण्डाभिधानार्थम् आह कात्यायनः ।

एकं चेद् बहवो हन्युः संरब्धाः पुरुषं नराः ।
मर्मघाती तु यस् तेषां स घातक इति स्मृतः ॥

तेन (?) स एव वधापराधदण्डभाक् । तथा च बृहस्पतिः ।

मर्मघाती तु तस् तेषां यथोक्तं दापयेद् दमम् । इति ।

तम् इति शेषः । यत्तदोर् नित्याभिसंबन्धात् । मर्महन्तृव्यतिरिक्तानाम् अपि दण्डो ऽनन्तरम् उक्तः ।

आरम्भकृत् सहायश् च तथा मार्गानुदेशकः ।
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ॥
युद्धोपदेशकश् चैव तद्विनाशप्रदर्शकः ।
उपेक्षी कार्ययुक्तश् च दोषवक्तानुमोदकः ॥

स्मृत्यन्तरे ऽपि ।

अनिषेद्धा क्षमो यः स्यात् सर्वे तत्कार्यकारिणः ।
यथाशक्त्यनुरूपं तु दण्डम् एषां प्रकल्पयेत् ॥ इति ।

अनुरूपं दोषानुरूपम् । अत एव मर्महन्तृदोषार्थभागित्वं द्वयोर् दर्शयति मनुः ।

आरम्भकृत् सहायश् च दोषभाजौ तदर्धतः । इति ।

एवं मार्गानुदेशकादेर् अपि दोषलाघवम् ऊह्यम् । याज्ञवल्क्यस् तु साहसप्रयोजकत्वतारतम्याद् दोषमहत्त्वतारतम्यं दण्डातिरेककथनमुखेनाह ।

यः साहसं कारयति स दाप्यो द्विगुणं दमम् ।
यश् चैवम् उक्त्वाहं दाता कारेयेत् स चतुर्गुणम् ॥

यद् इदं साहसं भवान् कुर्यात् तदैतावद् धनं भवते दास्यामीत्य् एवम् उक्त्वा साहसं कारयति स चतुर्गुणं दाप्य इत्य् अर्थः । द्विगुणं चतुर्गुणम् इत्य् अत्र साहसकर्तुर् उक्तदण्डात् द्विगुणं चतुर्गुणम् इत्य् अर्थो ऽवसेयः । मनुस् तु क्रोधाद् इतः प्रेरितानां साहसिकानाम् उक्तो यो दण्डस् तस्याभावं दोषाभावकथनमुखेन विधितः प्रेरितानां साहसिकानां कथयति -

शस्त्रं द्विजातिभिर् ग्राह्यं धर्मो यत्रोपरुध्यते ।
द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥
आत्मनश् च परित्राणे दक्षिणानां च संगरे ।
स्त्रीविप्राभ्यवपत्तौ च घ्नन् धर्मेण न दुष्यति ॥

धर्मः तटाकारामादिकः भेदनच्छेदनादिसाहसिकैः यत्र देशे काले चोपरुध्यते, तथा शूद्रेतरवर्णसंकरे परदाराक्रमणादिरूपे राजाभावकालकारिते, तथात्मनः परतः प्राणसंशये, तथा दक्षिणानां गवां संगरे ग्रहणनिमित्तकयुद्धे, तथा स्त्रीविप्राभ्यवपत्तौ दुर्बलहिंसानिवारणे, द्विजातिभिः क्षत्रधर्माश्रयणरहितैर् असमर्थैः शस्त्रं ग्राह्यम् इति संबन्धः । क्षत्रियस्य प्रजामात्ररक्षणार्थं शस्त्रग्रहणं प्राप्तम् इति तद्व्यतिरिक्तविप्रवैश्यविषयं द्विजातिग्रहणम् । तथा च बोधायनः ।

ब्राह्मणार्थे गवार्थे वा वर्णानां वापि संकरे ।
गृह्णीयातां विप्रविशौ शस्त्रं धर्मव्यतिक्रमे ॥

गौतमो ऽपि - “प्राणसंशये ब्राह्मणो ऽपि शस्त्रम् आददीत दुर्बलहिंसायां विमोचने शक्तश् चेत्” इति । ब्राःमणग्रहणं वैश्यस्यापि प्रदर्शनार्थम् । अत एव विष्णुः - “आत्मत्राणे वर्णसंकरे वा ब्राह्मणवैश्यौ शस्त्रम् आददीयाताम्” इति । यत् तु बोधायनेनोक्तम् - “भयार्थम् अपि ब्राह्मण आयुधं नाददीत” इति, यद् अप्य् आपस्तम्बेन - “परीक्षार्थो ऽपि ब्राह्मण आयुधं नाददीत” इति, उभयत्राप्य् अपिशब्देन बिभीषिकार्यं हिंशार्थं वा ब्राह्मणस्य शस्त्रग्रहणं दूरोत्सारितम् इति गम्यते । तेन बिभीषिकार्थं ब्राह्मणस्य शत्रग्रहणविधानं पूर्वोक्तं विरुध्यते । सत्यम्, अत एव पूर्वोक्तधर्मोपरोधादिशस्त्रग्रहणविधिविषयाद् अन्यत्र प्रतिषेधो ऽवतिष्ठते इति व्यवस्थापनीयम् । “घ्नन् धर्मेण न दुष्यति” इति वदता मनुना हिंसापर्यन्तो ऽयं शस्त्रग्रहणोपदेशो न बिभीषिकामात्रसंजननायेति दर्शितम् । “घ्नन् धर्मेण न दुष्यति” इत्य् अस्य यद्य् अपि क्षात्रयुद्धधर्मेण घ्नन् न दुष्यतीत्य् अर्थो भवति । तथापि धर्मोपरोधकादिहिंसाया अवश्यकर्तव्यत्वात् तत्र क्षात्रयुद्धधर्मेण घ्नन्न् इत्य् अर्थायोगाद् धर्मेण हिंशादिविधिना प्रेरितो बूत्वा घ्नन् न दुष्यतीत्य् अर्थो ऽवगन्तव्यः । एतद् उक्तं भवति - धर्मोपरोधकादिहिंसायाश् चोदितत्वात् तत्कर्ता न दुष्यतीति । तथा च मनुवृत्ताव् उक्तम् - “स्तेनादीनां वधः क्षात्रधर्मेणेत्य् अयुक्तम्, तद्घननस्यावश्यकर्तव्यत्वात् । तस्माद् धर्मेण शास्ता न दुष्यतीति द्रष्टव्यम्” इति । धर्मोपरोधकादिहननचोदना स्मृत्यनुमेया न प्रत्यक्षश्रुतेर् इति दर्शयितुम् उपक्रमस्मृतिवायम् आह मनुः ।

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥

अत्र गुर्वादिपदान्य् अन्यपरतया प्रयुक्तानीति दर्शयितुं तेषां तात्पर्यार्थो वृत्तिकारेण दर्शितः - “गुरुं वा मान्यतमं वेत्य् अर्थः । बालवृद्धौ वा कृपाविषयम् अपीत्य् अर्थः । ब्राह्मणं वा बहुश्रुतं समस्तपात्रगुणयुक्तम् इत्य् अर्थः” । उत्तरार्धार्थो ऽपि तेनैव दर्शितः - “वधार्थम् अधिकारविच्छेदार्थम् अवश्यम् एतीत्य् आततयिनम् आयान्तं प्रवृत्तं प्राणाद्यपहारे हन्याद् एव, अविचारय्न्न् इत्य् अत्र धारणेति नियमः परः” इति । कात्यायनो ऽपि ।

विनाशहेतुम् आयान्तं हन्याद् एवाविचारयन् ।

विनाशहेतुम् उदासीनं जलभेदादिविनाशहेतुम् आततायिनम् इति यावत् । क्वचिद् अपि विचारयन्न् इति पाठादर्शनात् । एतद् उक्तं भवति - आततायिवधः सदोषो निर्दोषो वेति विचारो न कार्यः वैधत्वाद् इति । वसिष्ठो ऽपि वैधत्वं दर्शयति ।

आततायिनम् आयान्तम् अपि वेदान्तगं रणे ।
जिघांसन्तं जिघांसीयान् न तेन ब्रूणहा भवेत् ॥ इति ।

अत्र केचिद् आहुः । आततायिवधविधिवाक्यत्रये ऽप्य् आयान्तम् इति वचनाद् आत्तशस्त्रो हन्तुम् उन्मुखो ऽभिधावन् दारादीन् वा जिहीर्षन् हन्तव्यः । कृते त्व् अनर्थे किम् अन्यत् करिष्यतीत्य् उपेक्ष्य एवेति । अत्र कृते त्व् अनर्थ इत्याद्य् अयुक्तम् इत्य् अपरे दूषयन्ति । करिष्यन् कृतवांश् च द्वाव् अपि दौष्ठ्येन समौ वधार्हाव् एव । तस्माद् आयान्तम् इति पदं कृत्वागतस्याप्य् आततायिन उपलक्षणार्थम् उक्तम् इति । अन्ये पुनर् एवम् आहुः - वर्तमानार्थजिघांसन्तम् इति विधिवाक्यस्थपदपर्यालोचनया वर्तमानविषदानादिव्यापारा एवाततायिन उच्यन्ते । तद्व्यापारनिवारणं च यत्राततायिवधम् अन्तरेण न संभवति तत्रैव तद्वधाभ्यनुज्ञा, सत्यां गतौ वधस्यानुचितत्वात् । तेन विषोपादानादौ व्याप्रियमाणः प्रहरणादिमात्रेण अनिवार्यः, न हन्तव्यः । विषदानादौ व्यापृतस्य ग्रहणादिमात्रेण निवारयितुं शक्यस्य वा वधो दोषनिमित्तम् एवेति । तद् अपि न । न हि विषदानादिव्यापारेषु व्यापृतानां व्यापारनिवृत्ताव् अपि पूर्वसिद्धं परशरीरादिविनाशहेतुत्वलक्षणम् आततयित्वम् अपैति । तद् उक्तं मेधातिथिना (ओन् म्ध् ८।३५१) - “आततायित्वाच् चासौ हन्यते न हि कृतवतः श्ततायित्वम् अपैति” इति । तेन विषदानादौ व्यापृतो ऽप्य् आततायित्वाद् घन्तव्य इति मेधातिथेर् अभिप्रायः । ननु च दारादिरक्षणार्थो वध इति कृते दारादिविप्लवे पश्चाद् वधो व्यर्थ इत्य् उपेक्ष्य एव कृतवान् आततायी, न हन्तव्यः । मैवम्, न दारादिरक्षणार्थो वधविधिः, किं तु दाराद्युपद्रवादिनिमित्ते वधो विधीयते । रक्षणार्थस् तु वधविधिर् आत्मनश् च परित्राण इत्यादौ क्वचिद् एव । तस्मात् कृतवान् इत्य् आततायी नोपेक्ष्यः । अत एव मनुः ।

नाततायिवधे दोषो हन्तुर् भवति कश्चन ।
प्रकाशं वाप्रकाशं वा मनुस् तं मनुम् ऋच्छति ॥

एतद्भाष्यकारो मेधातिथिर् व्याचष्टे - “न कश्चनेति नेहाधर्मो न दण्डो न प्रायश्चित्तम् । प्रकाशम् आभाष्य जनसमक्षम् । अप्रकाशं विषदानादिना येन केनचिद् उपायेन । मनुः क्रोधाभिमानिनी देवता । स मन्युम् ऋच्छति । नात्र हतृहन्तव्यभावो ऽस्ति पुरुषयोः । आततायिक्रोधः इतरेण क्रोधेन हन्तव्य इत्य् अर्थवादो ऽयम्” इत्यादिग्रन्थेन । अत्राप्रकाशवधे ऽपि दोषाभावं वदन् मनुर् अप्य् उपप्लवं कृत्वा गते ऽप्य् आततायिनि विषदानादिना वधो न दोषायेति दर्शयति, उपप्लवकरणसमये विषदानासंभवात् । बृहस्पतिर् अपि ।

नाततायिवधे हन्ता किल्बिषं प्राप्नुयात् क्वचित् ।
विनाशार्थिनम् आयान्तं घातयन् नापराध्नुयात् ॥

अत्र करिष्यदाततायिविषयम् उत्तरवाक्यं विनाशार्थिनम् इति विशेषश्रुत्यैव प्रतिपन्नम् इति पूर्ववाक्यं कृत्वागताततायिविषयम् इति गम्यते । करिष्यदाततायिनो ऽपि यथाकथंचिद् विनाशार्थित्वापगमात् निवृत्तोद्यमाः तदा तान् घातयन् अपराध्नुयाद् इति दर्शयितुम् “विनाशार्थिनम् आयान्तम्” इत्य् उक्तम् । अत एवास्मिन् विषये वधस्थाने ग्रहणम् आह कात्यायनः ।

उद्यतानां तु पापानां हन्तुर् दोषो न विद्यते ।
निवृत्तास् तु यदारम्भात् ग्रहणं न वधः स्मृतः ॥

आततायित्वानिष्पत्तेर् इत्य् अभिप्रायः । आततायित्वनिष्पत्ताव् अपि क्वचिद् विषये न वध इत्य् आह सुमन्तुः - “आततायिवधे न दोषो ऽन्यत्र गोब्राह्मणाद् यदा हतः प्रायश्चित्तं स्यात्” इति । गौः ब्राह्मणो वा आततायी यदा हतः तदा प्रायश्चित्तं स्याद् दोषः स्याद् इत्य् अर्थः । आत्मपरित्राणव्यतिरिक्तविषयम् एतत् । यद् आह देवलः ।

आत्मत्यागः परत्यागात् पापीयान् पातकाद् अपि ।
पातके निष्कृतिः प्रोक्ता कथम् आत्मघ्ननिष्कृतिः ॥
आत्मानं बुद्धिसंपन्नं योग्यं सर्वार्थसिद्धिषु ।
श्रमदुःखभये त्यक्त्वा रौरवे परिपच्यते ॥
उद्यम्य शस्त्रम् आयान्तं भ्रूणम् अप्य् आततयिनम् ।
निहत्य भ्रूणहा न स्याद् अहत्वा भूणहा भवेत् ॥ इति ।

परवधार्हपातकाद् आत्मत्राणानास्थानाद् आत्मत्यागः पापीयान् इत्य् उक्तदोषम् अपैत्य भ्रूणम् अपि ब्राह्मणम् अपि दण्डापूपन्यायात् गाम् अप्य् आततायिनम् आत्मपरित्राणायावश्यं हन्याद् इत्य् अर्थः । यत् तु उशनसा ब्राह्मणस्य ब्राह्मणस्य रुधिरोत्पादननिमित्तदोषम् अभिधायाभिहितम् - “गृहीतशस्त्रम् आततायिनं हत्वा न दोषः स्यात्” इति, तद् अपि पूर्वोक्तात्मपरित्राणविषये द्रष्टव्यम् । यत् तु कात्यायनेनोक्तम्,

आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः ।
वधस् तत्र तु नैव स्यात् पापे हीने वधो भृगुः ॥

इति — तपःस्वाध्यायजन्मत उत्कृष्टे ब्राह्मणे न वध इत्य् अर्थः —, यच् च बृहस्पतिनोक्तम्,

आतत्यिनम् उत्कृष्टं वृत्तस्वाध्यायसंयुतम् ।
यो न हन्याद् वधप्राप्तं सो ऽश्वमेधफलं लभेत् ॥

— उत्कृष्टं ब्राह्मणम् इत्य् अर्थः, वधप्राप्तज्,

स्वाध्यायिनं कुले जातं यो हन्याद् आततायिनम् ।
न तेन भ्रूणहा भवति मन्युस् तं मन्युम् ऋच्छति ।

इत्यादिवचनापातमात्राद् वधम् अप्राप्तम् इत्य् अर्थः —, तद् एतद् वचनद्वयं पूर्वोक्तात्मत्राणव्यतिरिक्तविषये ब्राह्मणाततायिनि द्रष्टव्यम् । यत् तु बोधायनेनोक्तम् - “षट्स्व् अप्य् अनभिचरन् पतति” इति, षट्सु आततायिष्व् इति शेषः । के पुनस् त इत्य् अपेक्षिते वसिष्ठः ।

अग्निदो गरदश् चैव शस्त्रपाणिर् धनापहः ।
क्षेत्रदारहरश् चैव षड् एते ह्य् आततायिनः ॥

उदाहरणभूतानाम् अत्यन्तप्रसिद्धानां षड्विध्त्वाद् उभयत्र षड्ग्रहणम्, न पुनः परिसंख्यार्थम्, विधान्तरेणाततयिनां लोके विद्यमानत्वात् । अत एव,

उद्यतासिविषाग्निश् च चापोद्यतकरस् तथा ।
आथर्वणेन हन्ता च पिशुनश् चैव राजनि ॥
भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः ।
एवमाद्यान् विजानीयात् सर्वान् एवाततयिनः ॥

इति कात्यायनेनैव एवमाद्यान् इत्य् उक्तम् । एवमाद्यान् एवंप्रकारान् इत्य् अर्थः । अत एवाततायिन इत्य् अनुवृत्तौ तेनैवोक्तम् ।

यशोवृत्तहरान् पापान् आहुर् धर्मार्थहारकान् ।
अनाक्षारितपूर्वो यस् त्व् अपराधे प्रवर्तते ॥
प्राणद्रव्यापहारे च तं विद्याद् आततायिनम् ॥

प्राणद्रव्यापहारे ऽन्यस्मिन्न् अपि तत्तुल्यापराधे च यस् त्व् अनाक्षारितपूर्वो ऽभाधितपूर्वः प्रवर्तते तम् आततायिनं विद्याद् इत्य् अर्थः । अनेनार्थाद् आक्षारितपूर्वो यः पूर्वोक्तविषदानाद्यपराधे प्रवर्तते नासाव् आततायीत्य् उक्तम् । एवं च “आततायी वधोद्यतः” इत्य् अमरसिंहकृतो ऽर्थनिर्देशः क्षेत्रदारापहर्त्रादीनाम् अर्थानां प्रदर्शनार्थम् इति मन्तव्यम् । एवं च “षट्स्व् अप्य् अनभिचरन् पतति” इत्य् आततायिवधमात्रम् अकुर्वन् पतितो भवतीत्य् अर्थो ऽवगन्तव्यः । तद् एतद् बोधायनवचनम् आत्मत्यागविषये तद्व्यतिरिक्तधर्माद्युपरोधविषये ऽपि गोब्राह्मणेतरशेषाततायिविषये द्रष्टव्यम् । गवां पर्युदासवचनात् तदितरपश्वादितिर्यग्जातीनाम् अप्य् आततायिनां वधो विहित इत्य् अवगम्यते । अत एव कात्यायनेन आततायिपस्वादिवधे ऽपि दोषाभावो दर्शितः ।

नखिनां शृङ्गिणां चैव दंष्ट्रिणां चाततायिनाम् ।
हस्त्यश्वानां तथान्येषां वधे हन्ते न दोषभाक् ॥

अन्येषां चञ्च्वादिशालिनां पक्ष्यादीनाम् । एवं चाततायिनां वधे यत्र दोषाभाव उक्तः तत्र घातकानां वधनिबन्धनदण्डाभावः प्रत्येतव्यः, अस्मिन् साहसाख्यवधे दोषाभावकथनस्य दण्डाभावप्रतिपत्त्यर्थत्वात् ॥

इति स्मृतिचन्द्रिकायां वधलक्षणसाहसविषयाणि वचनानि निरूपितानि

साहस-स्तेय-विषयाः

अथ साहस-स्तेय-विषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र बृहस्पतिः ।

सांप्रतं साहसं स्तेयं श्रूयतां क्रोधलोभजम् । इति ।

साहसलक्षणकं स्तेयम् इत्य् अर्थः । किं तद् इत्य् अपेक्षिते याज्ञवल्क्यः ।

सामान्यद्रव्यप्रसभहरणं साहसं स्मृतम् । इति ।

सामन्यद्रव्यं बहुजनैः प्रहरादिकालक्रमेण रक्ष्यमाणं द्रव्यम् । एतत् छलेन हर्तुं न शक्यते, रक्षणे प्रमादासंभवात् । तेनास्य प्रायेण बलाद् अपहरणम्, तद् एतद् अभिसंधायोक्तम् - “सामान्यद्रव्यप्रसभहरणम्” इति । साहसं स्मृतं साहसलक्षणं स्तेयम् इत्य् अर्थः । तथा च कात्यायनः ।

सान्वयस् त्व् अपहारो यः प्रसह्य हरणं च यत् ।
साहसं च भवेद् एवं स्तेयम् उक्तं विनिह्नवः ॥

अन्वयो रक्षणकालक्रमप्राप्तपालकनरनैरन्तर्यम्, तस्मिन् सति यो ऽपहारः सः सान्वयो ऽपहारः । स च प्रसह्य क्रियमाणः साहसं च स्तेयं च इत्य् एवं द्विरूपम् आपद्यते । उक्तप्रकारविपरीतो ऽपि निह्नवो द्रव्यापहारः स्तेयरूपम् एवापद्यत इति स्मृताव् उक्तम् इत्य् अर्थः,

निरन्वयं भवेत् स्तेयं कृत्वापव्ययते च यत् ।

इति मनुस्मरणात् । अस्यार्थो मेधातिथिना स्पष्टीकृतः - “निरन्वयम् आरक्षकपुरुषवर्जितम् अवसरम् अभिज्ञाय क्रियते यच् चौर्यम्, प्रसह्य कृतं निह्नुते कृतम् इदं न मयेति, तद् अपि स्तेयम्” इति । एवं साहसस्तेयकेवलस्तेययोर् भेदकथनं तत्कर्तृषु दण्डभेदकथनार्थम् । तत्र तावत् साहसस्तेयकर्तृविषये दण्डान् आह बृहस्पतिः ।

क्षेत्रोपकरणं सेतुमूलपुष्पफलानि च ।
विनाशयन् हरन् दण्डः शताद्यम् अनुरूपतः ॥
पशुवस्त्रान्नपानानि गृहोपकरणं तथा ।
हिंसयन् चोरयन् दाप्यो द्विशताद्यं दमस् तथा ॥
स्त्रीपुंगोहेमरत्नानि देवविप्रधनं तथा ।
कौसेयं चोत्तमं द्रव्यम् एषां मूल्यसमो दमः ॥
द्विगुणो वा कल्पनीयः पुरुषापेक्षया नृपैः ।
हन्ता वा घातनीयः स्यात् प्रसङ्गविनिवृत्तये ॥ इति ।

अत्र विनाशयन् हरन् हिंसयन् चोरयन् हन्ता वेति च वदन् इदं दण्डशास्त्रं साहसस्तेयकर्तृविषयम् इति दर्शयति, तस्य क्रोधलोभवत्त्वेन हननोपेतस्तेयकारित्वात् । हन्ता वा घातनीय इत्य् ब्राह्मणविषयम् । तथा च साहसस्तेयं प्रकृत्य यमः ।

न शारीरो ब्राह्मणस्य दण्डो भवति कर्हिचित् ।
गुप्ते तु बन्धने बद्ध्वा राजा भक्तं प्रदापयेत् ॥
अथ वाप्य् अधनं रक्षाकर्म वा कारयेन् नृपः ।
मासार्धमासं कुर्वीत कार्यं विज्ञाय तत्त्वतः ॥
यथापराधं विप्रं तु विकर्माण्य् अपि कारयेत् ।
अबध्या ब्राह्मणा गावो लोके ऽस्मिन् वैदिकी श्रुतिः ॥ इति ।

रक्षाकर्म पश्वादिपालनरूपं गर्हितम् । यत् तु याज्ञवल्क्येन साहसस्तेयं प्रस्तुत्यानन्तरम् उक्तम् ।

तन्मूल्याद् द्विगुणो दण्डो निह्नवे तु चतुर्गुणः । इति ।

तन्मूल्यात् साहसस्तेयप्राप्तवस्त्रादिमूल्याद् इत्य् अर्थः । तद्वचनं वस्त्राद्युत्तमहरणे दृष्टसाहसकृते द्रष्टव्यम्,

द्विगुणो वा कल्पनीयः पुरुषापेक्षया नृपैः ।

इति वस्त्राद्युत्तमद्रव्यहरणे बृहहस्पतिनोक्तत्वात् । निह्नवे तु न मयेदम् उत्तमद्रव्यप्रसभहरणं कृतम् इत्य् अपलापे तु कृते इत्य् अर्थः ॥

इति स्मृतिचन्द्रियायां साहसस्तेयविषयाणि

केवलस्तेयविषयाः

अथ प्रसङ्गाद् अस्मिन्न् एव पदे केवलस्तेयविषयान्य् अपि कानिचिद् वचनानि लिख्यन्ते, नारदीये पदोद्देशकवचने स्तेयसंग्रहयोर् अनुद्देशाद् उद्देशक्रमप्राप्तावसराभावात् । तत्र मनुः ।

द्विविधांस् तस्करान् विद्यात् परद्रव्यापहारिणः ।
प्रकाशांश् चाप्रकाशांश् च चारचक्षुर् महीपतिः ॥

बृहस्पतिर् अपि ।

प्रकाशाश् चाप्रकाशाश् च द्विविधास् तस्कराः स्मृताः ।
प्रज्ञासामर्थ्यमायाभिः प्रभिन्नास् ते सहस्रधा ॥

के पुनः प्रकाशास् तस्करा इत्य् अपेक्षिते स्वयम् एवाह ।

नैगमा वैद्यकितवा सभ्योत्कोचकवञ्चकाः ।
दैवोत्पातविदो भद्राः शिल्पज्ञाः प्रतिरूपकाः ॥
अक्रियाकारिणश् चैव मध्यस्थाः कूटसाक्षिणः ।
प्रकाशास् तस्करा ह्य् एते तथा कुहकजीवनाः ॥ इति ।

प्रतिरूपकाः प्रतिरूपकराः । तथा च नारदः ।

प्रकाशवञ्चकास् तत्र कूटमानतुलाः स्मृताः ।
उत्कोचकाः सोपधिकाः कितवाः पण्ययोषितः ॥
प्रतिरूपकराश् चैव मङ्गलादेशवृत्तयः ।
इत्य् एवमादयो ज्ञेयाः प्रकाशास् तस्करा भुवि ॥ इति ।

नैगमादिच्छद्मना परद्रव्यापहारिणश् चेत् प्रकाशतस्करा न स्वरूपत इत्य् अवगन्तव्यम् । नैगमादिव्याजेन परद्रव्यपहर्तृत्वे सिद्धे दण्डम् आह व्यासः ।

स्त्रीपुंसौ पञ्चयन्तीह मङ्गलादेशवृत्तयः ।
गृह्णन्ति छद्मना चार्थम् अनार्यास् त्व् आर्यलिङ्गिनः ॥
नैगमाद्या भूरिधना दण्ड्या दोषानुरूपतः ।
यथा ते नातिवर्तन्ते तिष्ठन्ति समये तथा ॥

दोषानुरूपतो दण्ड्या न पुनर् धनानुरूपत इत्य् अर्थः । ते च विधयो विस्तारभयान् न दर्शिताः ग्रन्थान्तरे द्रष्टव्याः । एअम् अप्रकाशतस्कराणां दण्डम् अभिधातुं तेषां स्वरूपम् आह स एव ।

साधनाद्यन्विता रात्रौ विचरन्त्य् अविभाविताः ।
अविज्ञातनिवासाश् च ज्ञेयाः प्रच्छन्नवञ्चकाः ॥

रात्राव् इति प्रायिकाभिप्रायेणोक्तम् । दिवाप्य् अरण्यादाव् अविभावितानां विचरतां संभवात् । एतेषाम् अवान्तरभेदम् आह स एव ।

उत्क्षेपकः संधिभेत्ता पान्तमुट् ग्रन्थिभेदकः ।
स्त्रीपुंगोऽश्वपशुस्तेयी चोरो नवविधः स्मृतः ॥

उत्क्षेपको धनिनाम् अनवधानम् अवधार्यान्तिकस्थं धनम् उद्धृत्य ग्राहकः । संधिभेत्ता गृहाणां विच्छेदाय कृतसंचरस्थाने पृष्ठसंधाव् अवस्थाय तत्रत्यभित्तिभेत्ता । पान्थमुट् उत्कटकान्तरादौ पतिकानां धनापहारकः । ग्रन्थिभेदकः परिधानादिग्रन्थिधनं ग्रहीतुं तद्ग्रन्तिविमोचकः । स्त्रीपुंगोऽश्वपशुस्तेयी द्वन्द्वान्तेश्रूयमाणः शब्दः प्रत्येकम् अभिसंबध्यते । अत एव नवविध इत्य् उक्तम् । अत्र याज्ञवल्क्यः ।

ग्राहकैर् गृह्यते चोरो लोप्त्रेणाथ पदेन वा । इति ।

बृहस्पतिर् अपि ।

संसर्गैश् चिह्नलोप्त्रैश् च विज्ञातो राजपूरुषैः ।
प्रदाप्यो ऽपहृतं शास्यो दमैः शास्त्रप्रचोदितैः ॥

संसर्गैः कुत्सितसंसर्गैः । चिह्नं चौर्यसाधनसंग्रहवत्त्वादिकम् । लोप्त्रं स्तेयावप्तं धनम् । प्रदाप्यः स्वामिन इति शेषः । अत एव विष्णुः - “स्तेनाः सर्व एवापह्र्तं धनिकस्य दाप्याः, ततस् तेषाम् अभिहितदण्डप्रयोगः” इति । कस्य स्तेनस्य कः पुनर् अभिहितो दण्ड इत्य् अपेक्षिते बृहस्पतिः ।

उत्क्षेपकस्य संदंशः छेत्तव्यो राजपूरुषैः । इति ।

संदंशो ऽत्राङ्गुल्यङ्गुष्ठात्मकः परवस्त्रादानहेतुर् विवक्षितः । मनुर् अपि ।

संधिं भित्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः ।
तेषां छित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥

तान् इति शेषः । तथा च व्यासः ।

संधिं भित्वानेकविधं धनं प्राप्नोति वै गृहात् ।
प्रदाप्य स्वामिने सर्वं तीक्ष्णशूले निवेशयेत् ॥

यः प्राप्नोति तं प्रदाप्य पश्चाच् छूले निवेशयेद् इत्य् अर्थः । अन्यस्य स्तेनस्य दण्डम् आह बृहस्पतिः ।

एकस्मिन् यत्र निधनं प्रापिते दुष्टचारिणि ।
बहूनां भवति क्षेमः तस्य पुण्यप्रदो वधः ॥
तथा पान्थमुषो वृक्षे गले बध्वावलम्बयेत् ॥ इति ।

अपरस्य मनुर् दण्डम् आह ।

अङ्गुली ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे ।
द्वितीये हस्तचरणौ तृतीये वधम् अर्हति ॥

अङ्गुली तर्जन्यङ्गुष्ठौ, ग्रन्थिभेदने तयोः साधकतमत्वात्,

प्रथमे ग्रन्थिभेदानाम् अङ्गुल्यङ्गुष्ठयोर् वधः ।

इति बृहस्पतिस्मरणाच् च । स्त्रीपुंस्तेनयोर् दण्डम् आह व्यासः ।

स्त्रीहर्ता लोहशयने दग्धव्यो वै कटाग्निना ।
नरहर्ता हस्तपादौ छित्वा स्थाप्यश् चतुष्पथे ॥

गोस्तेनस्य दण्डम् आह बृहस्पतिः ।

गोहर्तुर् नासिकां छित्वा बध्वाम्भसि निमज्जयेत् ।

अश्वपशुस्तेनयोर् दण्डम् आह व्यासः ।

अश्वापहरणे पादौ कटिं छित्वा प्रमाप्यते ।
पशुहर्तुस् त्व् अर्धपादं तीक्ष्णशस्त्रेण कर्तयेत् ॥

पशुहर्तुर् अर्थदण्डः पश्वनुसारेण कार्य इत्य् आह नारदः ।

महापशून् स्तेनयतो दण्ड उत्तमसाहसम् ।
मध्यमं मध्यमपशून् पूर्वं क्षुद्रपशौ हृते ॥

मध्यमं मध्यमसाहसम् । पूर्वं प्रथमसाहसम् । सुवर्णादिकं स्तेनयतो दण्डम् आह मनुः ।

सुवर्णरजतादीनाम् उत्तमानां च वाससाम् ।
पञ्चाशतस् त्व् अभ्यधिके हस्तच्छेदनम् इष्यते ॥
शेषेष्व् एकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ।
धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं वधः ॥
शेषे ऽप्य् एकादशगुणं दाप्यस् तस्य च तद् धनम् ॥ इति ।

स्वर्णरजतादीनां तुलया मेयानां पञ्चाशत्संख्याः देशव्यवहारानुसारेण कर्पादिना वेदितव्याः । “तथा गणिममेयानां शताद् अभ्यधिके वधः” इत्य् अत्रापि एवम् एव शतसंख्यावगन्तव्या । शेषशब्दो यद्य् अप्य् उक्तसङ्ख्यातिरिक्ते न्यूनाधिकसंख्याके वर्तितुम् अर्हति, तथापि लघुदण्डाभिधानान् न्यूनसंख्याक एव वर्तत इति मन्तव्यम् । कुम्भशब्दः खारीपर्यायः, तत्र क्वचिद् देशे कुम्भशब्दप्रयोगात् । खार्याः पुनर् इयत्ता स्मृत्यन्तरे दर्शिता ।

अङ्गुल्यग्रत्रग्राह्या शाणम् इत्य् अभिधीयते ।
शाणं पाणितलं मुष्टिः प्रसृतिश् च तथाञ्जलिः ॥
कुटुपश् च तथा प्रस्थः आढको द्रोण एव च ।
मानी खारी च विज्ञेयाः संख्यायाश् चतुरुत्तराः ॥ इति ।

“दाप्यस् तस्य च तद् धनम्” इत्य् अनेन यद्य् अपि प्रकृतधान्यात्मकम् एव धनं तत्स्वामिने स्तेनापहृतं दाप्य इति भाति, तथापि “स्तेनाः सर्व एवापहृतं दाप्याः” इति विष्णुस्मरणात् सर्वत्र कृते स्तेये योज्यम् । अन्यान्य् अपि बहूनि स्तेयविषयाणि विद्यन्ते वचनानि विस्तरभयाद् इह न लिखितानि मानवादौ द्रष्टव्यानि ॥

इति स्मृतिचन्द्रिकायां केवलस्तेयविषयाणि

साहसस्त्रीसंग्रहविषयाः

अथ साहसस्त्रीसंग्रहविषयाणि

तत्र बृहस्पतिः ।

अनिच्छया यत् क्रियते सुप्तोन्मत्तप्रमत्तया ।
प्रलपन्त्या वा रहसि बलात्कारकृतं तु तत् ॥

संवर्तो ऽपि ।

नेच्छन्त्या यानि चिह्नानि ब्लात्कारकृतानि च ।
पुंसः प्रसङ्गेषु नारीणां तानि शृण्वतः ॥
नखदन्तक्षतक्षामा कुचग्रहणविक्षता ।
सद्यो विध्वंसिता नारी बलात्कारेण दूषिता ॥
उच्चैर् विक्रोसयन्ती च रुदन्ती लोकसंनिधौ ।
तस्य नाम्ना वदन्ती च याथाहं तेन दूषिता ॥
शोचेद् एवंविधैर् लिङ्गैः क्षामीकृतपयोधरा ।
छिन्नालङ्कारकेशैश् च व्याकुलीकृतलोचना ॥
राज्ञा सभैः सभां नीत्वा स्वयम् अन्विष्य तत्क्षणात् ।
यद् ब्रूयात् सहजं वाक्यं तत् कर्तव्यं प्रयत्नतः ॥
विवादे साक्षिणाम् अत्र न कुर्वीत परिग्रहम् ।
प्रार्थनाद् अभिशस्तस्य न दिव्यं दातुम् अर्हति ॥ इति ।

बलात्कारेण सद्यो विध्वंसिता दूषिता नारी या नखदन्तक्षताद्यन्विता विध्वंसकस्य नाम्ना तत्कृतविध्वंसनप्रकारं वदन्ती शोचेत् तां तत्क्षणाद् राजा स्वयम् अन्विष्य सभ्यैः सह सभां प्राप्य का तव पीडेति पृच्छेत् । ततस् तदा तयावेदितं तद् आकर्ण्य चिह्नैर् एवात्र राज्ञा निर्णेतव्यम् इत्य् अर्थः । तत्रापरधिनो दण्डम् आह मनुः ।

सहस्रं ब्राह्मणो दण्ड्यो विप्रां गुप्तां बलाद् व्रजन् । इति ।

गुप्तां स्वनियमेन रक्षिताम् । ब्राह्मणेतरसवर्णाविषये तु बृहस्पतिर् अपराधिनो दण्डम् आह ।

सहसा कामयेद् यस् तु धनं तस्याखिलं हरेत् ।
उत्कृत्य लिङ्गवृषणौ भ्रामयेद् गर्दभेन तु ॥

कामयेत् परस्त्रियं व्रजेद् इत्य् अर्थः । उक्तदण्डस्य विषयं विषयान्तरे दण्डान्तरं चाह स एव ।

दमो नेयः समायां तु हीनायाम् अर्धिकस् ततः ।
पुंसः कार्यो ऽधिकायां तु गमने स प्रमापणम् ॥

दमः “सहसा कामयेत्” इत्यादिवाक्योक्तो दमः । समायां जारसवर्णपरभार्याविषये नेयो जारं प्रापणीयः । जारतो हीनाविषये तूक्तदमाद् अधिको दमो जारं नेयः । जारतो ऽधिकाविषये तु स एवोक्तो दमः पुंसः कार्यः प्रमापणम् अपि पुंसः कर्यम् इत्य् अर्थः । यत् तु कात्यायनेन प्रापणमात्रम् उक्तम्,

स्त्रीषु वृत्तोपभोगः स्यात् प्रस्ह्य पुरुषो यदा ।
वधे तत्र प्रवर्तेत कार्यातिक्रमणं हि तत् ॥

इति, तद् अगुणवतो जायायां द्रष्टव्यम् । अत्र मन्वादिभिः पुरुषस्यैव दण्डाभिधानं दण्डप्रपकस्त्रीगतपराधाभावाद् इति मन्तव्यम् । तथापीतरपुरुषसंसर्गजं पापं नार्याः संपद्यते । ततश् चासंव्यवहर्यतत्रापि दण्ड्यायाम् इव समाना । सा प्रायश्चित्तेन क्वचिद् अपैति क्वचिन् नेत्य् आह बृहस्पतिः ।

अनिच्छन्ती तु या भुक्ता गुप्तां तां वासयेद् गृहे ।
मलिनाङ्गीम् अधःशय्यां पिण्डमात्रोपजीविनीम् ॥
कारयेन् निष्कृतिं कृच्छ्रं पराकं वा समे गताम् ।
हीनवर्णाओपबुक्ता या त्याज्या वध्याथ वा भवेत् ॥ इति ।

गुप्तां पुनः संभोगरहिताम् । वासयेद् विशुद्धिपर्यन्तम् इति शेषः । समे गतां समे वर्णे पुंसि संगताम् इत्य् अर्थः । हीनवर्णोपभुक्ताविषये वचनान्तरपर्यालोचनया यद् वक्तव्यं तद् विस्तरभयाद् इह नोक्तम् । स्वावसरे प्रायश्चित्तकाण्डे वक्ष्यते ।

इति स्मृतिचन्द्रिकायां साहसस्त्रीसंग्रहविषयाणि

केवलस्त्रीसंग्रहविषयाः

**अथ प्रसङ्गाद् एवास्मिन् पदे केवलस्त्रीसंग्रहविषयाण्य् अपि **

कानिचिद् वचनानि लिख्यन्ते

तत्र बृहस्पतिः ।

छद्मना कामयेद् यस् तु तस्य सर्वहरो दमः ।
अङ्कयित्वा भगाङ्केन पुरान् निर्वासयेत् ततः ॥

छद्मना कामयेद् वञ्चनया संगच्छेत् । सर्वहरः सर्वस्वहरणम् । ततः भगाङ्ककरणान्तरम् इत्य् अर्थः । सहसा कामयेद् इत्यादिवाक्यस्येवास्यापि,

दमो नेयः समायां तु हीनायाम् अर्धिकस् ततः ।
पुंसः कार्यो ऽधिकायां तु गमने स प्रमापणम् ॥

इति विशेषो द्रष्टव्यः । तस्यायम् अर्थः - समायां जारसवर्णपरभार्यागमनविषये “छद्मना कामयेत्” इत्यादिवाक्योक्तो दमो नेयः पुमांसं जारभूतं प्रापणीयः । हीनायां जारतो हीनवर्णायां गमने ततः छद्मना गमननिमित्तकाद् दमाद् अर्धिको ऽर्धः दमः पुंसः कार्यः । अधिकायां जारतो ऽधिकवर्णायां गमने सप्रमापणम् अपि पुंसः कार्यम् सर्वस्वहरणं कृत्वा प्रमापयेद् इत्य् अर्थः । अत्रापि पुंस एवापराधित्वात् तस्यैव दण्डाभिधानम् इति मन्तव्यम् । तेनात्रापि स्त्रिया नस्ति दण्डः, तथापि परपुरुषसंपर्कजन्मदोषसद्भावाद् असंव्यवहारयतास्ति । ततश् चात्रापि ।

अनिच्छन्ती तु या भुक्ता सुप्तां तां वासयेद् गृहे ।
मलिनाङ्गीम् अधःशय्यां पिण्डमात्रोपजीविनीम् ॥
कारयेन् निष्कृतिं कृच्छ्रं पराकं वा समे गताम् ।
हीनवर्णोपभुक्ता या त्याज्या वध्याथ वा भवेत् ॥

इत्युक्तम् अनुसंधेयम् । स्त्रीपुंसयोः परस्परानुरागजोपगमने तु दण्डम् आह याज्ञवल्क्यः ।

सजाताव् उत्तमो दण्डः आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः पुंसां स्त्रीणां नासादिकर्तनम् ॥

अत्र नार्या अपि दण्डाभिधानाद् अन्योन्यानुरागजोपभोगविषयम् इदं वचनम् इति गम्यते, गुरुदण्डाभिधानात् संबन्धिभिः प्रसह्य परिपालितचरितशालिनीविषयम् इति च गम्यते । मध्यमो दण्डः चत्वारिंशत्सहितपञ्चशतकार्षापणात्मकः । एवं च पञ्चशताधिकत्वाद् अयम् अपि गुरुदण्डः,

ऋणं वा यदि वा दण्डः प्रायश्चित्तम् अथापि वा ।
यत्र पञ्चशताधि स्यात् तत् कार्यं गुरु कीर्तितम् ॥

इति स्मरणात् । तेन गुरुत्वान् मधय्मो ऽपि पूर्वोक्तगुप्ताविषय एव । कर्णादिकर्तनं तु प्रातिलोम्य एव, तदनन्तराभिधानाद् वधार्धतुल्यत्वाच् च । एवं च स्वजाताव् आनुलोम्ये च नार्याः पुंसो ऽभिहितार्थदण्डार्धदण्डः कल्पनीय इति वधार्धतुल्यकर्णादिकर्तनाभिधानाद् एवाधिगन्तव्यम् । अत एव कात्यायनः ।

सर्वेषु चापराधेषु पुंसो यो ऽर्थदमः स्मृतः ।
तदर्धं योषितो दद्युः । । । ॥ इति ।

पुरुषवद् अपराधक**त्र्य इति शेषः । यत् तु मनुना सानुरागया ब्राह्मण्या सह संगतस्य मध्यमसाहसम् उक्तम्,

शतानि पञ्च दण्ड्यः स्याद् इच्छन्त्या सह संगतः ।

इति, तद् अरक्षितचरितशालिनीविषयम् । यत् पुनर् आनुलोम्ये ऽप्य् एवम् एव तेनोक्तम् ।

अगुप्ते वैश्यराजन्ये शूद्रां वा ब्राह्मणो व्रजेत् ।
शतानि पञ्च दण्ड्यः स्यात् सहस्रं चान्त्यजे स्मृतम् ॥ इति ।

अन्त्यजः प्रसिद्धश् चर्मकरादिः । अगुप्ते मानसव्यभिचाराद् अरक्षिते वृहे ऽवरुद्धे इति यावत्,

अरक्षिता गृहे रुद्धा पुरुषैर् आप्तकारिभिः ।

इति तेनैवोक्तत्वात् । एवं च रुद्धाम् इत्य् अत्र गृहे रुद्धाम् इत्य् अध्याहर्तव्यम् । एवं चैतद् आप्तकारिभिः प्रसह्य रक्षितचरितशालिनीविषयम् इत्य् अवसेयम् । यत् तु ब्राह्मणस्य शूद्रतरानुलोम्ये तेनोक्तम्,

सहस्रं ब्राह्मणो दण्डं दाप्यो ऽगुप्ते तु ते व्रजन् ।

इति, ते क्षत्रियावैश्ये अगुप्ते मानसव्यभिचारानवकाशाय गृहव्यापारावसक्तचित्ततया सुरक्षिते विवक्षिते, न तु स्वगृहे ऽवरुद्धे गुरुतरदण्डत्वात् । द्विविधगुप्ताव्यतिरिक्तविषये तु व्यास आह ।

गुप्तायां संग्रहे दण्डो यथोक्तः समुदाहृतः ।
इच्छन्त्याम् आगतायां तु गच्छतो ऽर्धदमः स्मृतः ॥

गुप्तां गच्छतो यावान् दण्ड उक्तस् तदितरां गच्छतस् तदर्धो दण्डः स्मृतः इत्य् अर्थः । एवं च गुप्तायाः संग्रहे यत्र वध उक्तः तत्र तदितरस्याः संग्रहे मध्यमसाहसः । यत्र पुनः मध्यमसाहस उक्तस् तत्र प्रथमसाहस इत्य् अनुसंधेयम् । प्रातिलोम्ये तु जातिविशेषतो दण्डविशेषान् आह मनुः ।

शूद्रो गुप्तम् अगुप्तं वा द्वैजातं वर्णम् आवसन् ।
अगुप्तम् अङ्गसर्वस्वी गुप्तं सर्वेण हीयते ॥

अस्यार्थः - शूद्रः स्वेतरवर्णजां परस्त्रियं गच्छन् महापराधी भवति । तत्र गुप्तायां संग्रहे तावद् अङ्गसर्वस्वी ताभ्यां हीयते, लिङ्गेन धनेन च हीयत इति यावत् । अगुप्तायां संग्रहे तु सर्वेण लिङ्गेन शरीरेण हीयत इति । तथा च शूद्रस्येत्य् अनुवृत्तौ गौतमः - “आर्यस्त्र्यभिगमने लिङ्गोद्धारः सर्वस्वहरणं च गोप्ता चेद् वधो ऽधिकः” इति । आर्यस्त्र्यभिगमने तैवर्णिकस्त्र्यभिगमन इत्य् अर्थः । गुप्तं द्वैजातं वर्णम् आवसन्न् इत्य् अनुवृत्तौ मनुः ।

वैशः सर्वस्वदण्डः स्यात् संवत्सरनिरोधितः ।
सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ॥

संवत्सरनिरोधितः बन्धनागार इति शेषः । मूत्रेण गर्दभस्य गोर् वेत्य् शेषः । एतयोर् एवागुप्तां ब्राह्मणीं गच्छतोः दण्डम् आह स एव ।

ब्राःमणीं तु यदागुप्तां गच्छेतां वैश्यपार्थिवौ ।
वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥

पञ्चशतं कुर्यात् पञ्चशतकार्षापणदण्डेन दण्डयेद् इत्य् अर्थः । एतयोर् एव गुप्तायां ब्राह्मण्यां दण्डाधिक्यम् आह स एव ।

उभाव् अपि तु ताव् एव ब्राह्मण्या गुप्तया सह ।
विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥

शूद्रवद् दण्ड्यौ लिङ्गेन धनेन शरीरेण च हीनौ कार्याव् इत्य् अर्थः । विष्यान्तरे ऽप्य् एतयोर् एव दण्डान्तरम् आह स एव ।

वैश्यस् चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजन् ।
यो ब्राह्मण्याम् अगुप्तायां ताव् उभौ दण्डम् अर्हतः ॥

“वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम्” इतिउक्तदण्डम् अर्हत इत्य् अर्थः । प्रातिलोमे ऽप्य् अल्पदण्डार्हत्वायात्यन्तनिर्गुणपतिपत्नीविषय एव वैस्यदण्डो ऽयम् द्रष्टव्यः । आनुलोम्ये तु गुरुदण्डार्हत्वायात्यन्तसगुणपतिपत्नीविषय एवायं क्षत्रियदण्डो द्रष्टव्यः । एवं च पारिशेष्यात् “वैश्यः सर्वस्वदण्डः स्यात्” इत्यादिनोक्तो गुरुदण्डः स्वजताव् एवत्यन्तसगुणपतिपनीविषय एवावतिष्ठत इत्य् अवगन्तव्यम् । स्वजाताव् अपि क्वचिच् छारीरदण्डम् अपराधाधिक्यं प्रदर्शयन्न् आह नरदः ।

माता मातृष्वसा श्वश्रूर् मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसाम् अन्यतमां गत्वा गुरुतल्पग उच्यते ।
शिश्नस्य कर्तनं तत्र नान्यो दण्डो विधीयते ॥ इति ।

अन्यो ऽस्मान् न्यून इति शेषः, अधिकस्य विधानात् । तथा च याज्ञवल्क्यः ।

पितुः स्वसारं मतुश् च मतुलानीं स्नुषाम् अपि ।
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ॥
आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः ।
छित्वा लिङ्गं वधस् तस्य सकामायाः स्त्रियास् तथा ॥ इति ।

ब्राह्मणव्यतिरिक्तविषयम् एतत्, वधस्यापि विधानात् । अस्मिन्न् एव विषये स्त्रिया अपि वधः, “सकामायाः स्त्रियास् तथा” इति वचनात् । अन्यत्रापि क्वचित् स्त्रिया वधम् आह मनुः ।

भर्तारं लङ्घयेद् यात् तु जातिस्त्रीगुणदर्पिता ।
तां श्वभिः खादयेद् राजा संस्थाने बहुसंस्थिते ॥

लङ्घयेत् किम् अनेनात्यन्ताननुरूपेण पत्येति उपपतिं संआश्रयेद् इत्य् अर्थः । यमो ऽपि ।

वृषलं सेवते या तु ब्राह्मणी मदमोहिता ।
तां श्वभिः खादयेद् राजा संस्थाने वध्यघातिनाम् ।
वैश्यं वा क्षत्रियं वापि ब्राह्मणी सेवते तु या ।
शिरोसो मुण्डनं तस्याः प्रयाणं गर्दभेन तु ॥ इति ।

मदमोहितेति वदन् वधदण्डस्यासार्वत्रिकत्वं दर्शयति । तेन नार्याः कर्णादिकर्तनम् इति प्रागुक्तो दण्डो रागाद् अत्यन्तासक्ताविषय इति मन्तव्यम् । अत्यन्तासक्तिरहिताविषये तु न शारीरो दण्डः, संव्यवहारार्थम्,

यत् पुंसः परदारेषु तच् चैनां चारयेद् व्रतम् ।

इति प्रायस्चित्तविधानात् । एवं च यत् कात्यायनेनोक्तम्,

नास्वतन्त्राः स्त्रियो ग्राह्याः पुमांस् तत्रापराध्यति ।
प्रभुना शासनीयास् ता राजा तु पुरुषं नयेत् ॥
प्रोषितस्वामिका नारी प्रापिता यद्य् अपि ग्रहे (?) ।
तावत् सा बन्धने स्थाप्या यावत् प्रत्यागतः प्रभुः ॥

इति, तद् व्रतचारणार्हास्वतन्त्रासु द्रष्टव्यम् । योषीद् उत्थापितानुरागजसंग्रहे तु बृहस्पतिर् आह ।

गृहम् आगत्य या नारी प्रलोभ्य स्पर्शनादिना ।
कामयेत् तत्र सा दण्ड्या नरस्यार्धदमः स्मृतः ॥

दण्ड्या योषितो ऽभिहितदण्डेनेति शेषः । अर्धदमो योषिद्दमाद् अर्धदमः । यत् तु यमेनोक्तम्,

परदारसवर्णासु दण्ड्याः स्युः पञ्चकृष्णलान् ।
असवर्णाः स्वानुलोम्ये दण्डो द्वादशको मतः ॥

इति — द्वादशकः द्वादशकार्षापण इत्य् अर्थः — तद् एतद् बधकीविषयम्, बन्धक्यधिकारे तेनस्य् दण्डस्य विधानात् । वेश्याविषये तु व्यास आह ।

परोपरुद्धागमने पञ्चाशत्पणको दमः ।
प्रस्ह्य वेश्यागमने दण्डो दशपणः स्मृतः ॥ इति ।

इति स्मृतिचन्द्रिकायां केवलस्त्रीसंग्रहविषयाणि

साहस-पदान्तर्गतोभय-पारुष्य-विषयाः

अथ साहस-पदान्तर्गतोभय-पारुष्य-विषयाणि

तत्र नारदः ।

फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।
भङ्गाक्षेपावमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥
वासःप्रश्वन्नपानानां गृहोपकरणस्य च ।
एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥
व्यापादो विषशस्त्राद्यैः परदाराभिमर्शनम् ।
प्राणोअरोधि यच् चान्यद् उक्तम् उत्तमसाहसम् ॥
तस्य दण्डः क्रियापेक्षः प्रथमस्य शतवरः ।
मध्यमस्य तु शास्त्रज्ञैः दृष्टः पञ्चशतावरः ॥
वधः सर्वस्वहरणं पुर्या निर्वासनाङ्कने ।
तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसे ॥
स्यातां संव्यवहार्यौ द्वौ घृतदण्डौ तु पूर्वयोः ।
धृतदण्डो ऽप्य् असंभाष्यो ज्ञेय उत्तमसाहसे ॥ इति ।

एतेनैव प्रकारेणेत्य् अनेन भङ्गाक्षेपावमर्दाद्यः प्रकार उक्तः । भङ्गः फलादिरूपस्य । आक्षेपः आक्रोशः फलमूलादेर् वाचा न्यग्भावकरणम् इति यावत् । अवमर्दः स्वरूपावशेषेण पीडनम् । आद्यशब्देनामेध्यादिना उपघातादि गृह्यते । अत्राक्षेपशब्देन वाक्पारुष्यम् उक्तम् । भङ्गावमर्दाद्यैर् इत्य् अनेन दण्डपारुष्यम् । तयोः प्रथममध्यमादिसाहसभेदोक्त्या तु सहशाकृतविषयतापि ज्ञापिता । एवं च फलमूलादिषु सहसा कृतं वाक्पारुष्यं दण्डपारुष्यं वा प्रथमसाहसम् । वासःपश्वादिषु कृतं तु मध्यमसाहसम् । प्राणिषु प्राणोपरोधितया कृतं पुनर् उत्तमसाहसम् इति मन्तव्यम् । तस्य साहसवाक्पारुष्यस्य साहसदण्डपारुष्यस्य वापराधस्य दण्डः क्रियापेक्षः अपराधक्रियापेक्षः कल्पनीय इति शेषः । तत्र प्रथमस्य दण्डः शतावरः । शतकार्षापणाद् ऊनो नास्तीत्य् अर्थः । एवम् उत्तरवाक्यस्याप्य् अर्थो व्याख्येयः । प्रथमसाहसदण्डस्य क्रियापेक्षया आधिक्यं मध्यमसाहसदण्डात् कल्प्यम् । वधाद्युत्तमसाहसदण्डपञ्चके ऽपि क्रियापेक्षया व्यवस्था कल्प्या, “तस्य दण्डः क्रियापेक्षः” इत्य् अस्य प्रथममध्यमोत्तमसाहसाधारस्येहाभिधानात् । क्रियापेक्षः सहसाकृतः पारुष्यतारतम्यापेक्ष इत्य् अर्थः ॥

**इति स्मृतिचन्द्रिकायां साहसपदान्तर्गतोभयपारुष्यविषयाणि **

साहस-कल्पापराध-दण्ड-विषयाः

**अथ प्रसङ्गात् साहस-कल्पापराध-दण्ड-विषयाणि **

कानिचिद् वचनानि लिख्यन्ते

तत्र मनुः ।

कूटशासनकर्तॄंश् च प्रकृतीनां च दूषकान् ।
स्त्रीबालब्राह्मणघ्नांश् च हन्याद् द्विट्सेविनस् तथा ॥

द्विट्सेविनः शत्रुसेवकान् । द्वितीयपादस् तु “स्वाम्यमात्यदुर्गकोशदण्डराषृरमित्राणि प्रकृतयस् तद्दूषकांश् च हन्यात्” इति विष्णुवचनाद् एव व्याख्यातः । दण्डशब्दो ऽत्र सेनामात्रम् आचष्ट्ते, “राष्ट्रदुर्गबलानि च” इत्य् अमरसिंहेनाभिधानात् । मानवे ब्राह्मणग्रहणं मनुष्योपलक्षणार्थम् । अत एव राजा हन्याद् इत्य् अनुवृत्तौ विष्णुः - “स्त्रीबालपुरुxअघातिनश् च” इति । अथ वा ब्राह्मणघ्नग्रहणं महापातिकिनाम् उपलक्षणार्थम् । तथा च तत्रैवोक्तम् -

ब्रह्महा च सुरापश् च तस्करो गुरुतल्पगः ।
एते सर्वे पृथग् वध्या महापातकिनो नराः ॥

यस्य प्रतिषिद्धा सुरा स इह सुरापो विवक्षितः । तस्करो ऽप्य् अत्र सुवर्णस्तेयी विविक्षितः, “महापातकिनः” इत्य् अभिधानात् । विप्रेतरमहापातकिविषयम् एतत् । विप्रविषये त्व् आह बृहस्पतिः ।

महापातकयुक्तो ऽपि न विप्रो वधम् अर्हति ।
निर्वासनाङ्कने मौण्ड्यं तस्य कुर्यान् नराधिपः ॥

कामकृतविषयम् एतत् । निवासनादिदण्डे कृते ऽप्य् अत्र दोषो नापैति, उत्तमसाहसकल्पापराधत्वात्,

धृतदण्डो ऽप्य् असंभाष्यो ज्ञेय उत्तमसाहसे ।

इत्य् अस्य तत्कल्पापराधे ऽप्य् अतिदिष्टत्वात् ।

धृतदण्डो ऽप्य् असंभाष्यो ज्ञेय उत्तमसाहसे ।

इत्य् अस्य तत्कल्पापराधे ऽप्य् अतिदिष्टत्वात् ।

अत एव निर्वासितानाम् अङ्कितानाम् अप्य् असंव्यवहार्यतां प्रपञ्चितवान् मनुः ।
असंभोज्या ह्य् असंयाज्या अपाठ्याश् चाविवाहिनः ।
चरेयुः पृथिवीं सर्वां सर्वधर्मबहिष्कृताः ॥
ज्ञातिसंबन्धिभिश् चैते कर्तव्याः कृतलक्षणाः ।
निर्वाच्या निर्नमस्कारास् तन् मनोर् अनुशासनम् ॥ इति ।

सर्वधर्मबहिष्कृताः श्रौतस्मार्तकर्मपरिभ्रष्टा इत्य् अर्थः । कृतलक्षणाः ललाटे कृताङ्काः । ज्ञात्यादिभिः निर्वाच्याः निर्नमस्काराः कर्तव्या इत्य् अन्वयः । यत् तु तेनैवोक्तम्,

आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः ।
विवास्यो वा भवेद् राष्ट्रात् सद्रव्यः सपरिच्छदः ॥ इति ।

आगःसु महापातकेष्व् इत्य् अर्थः । तद् अकामकृतविषयम् । तत्रापि प्रायश्चित्तम् अकुर्वतो मधयमसाहसो दण्डः कार्यः । तद् अप्य् अकुर्वतो विवास इति व्यवस्था ज्ञेया । ब्राह्मणेतरमहापातकिविषये त्व् अकामकृते स्रवस्वहरणं कामकृते वध इत्य् अह स एव,

इतरे कृतवन्तस् तु पापान्य् एतान्य् अकामतः ।
सर्वस्वहारम् अर्हन्ति कामतस् तु प्रमापणम् ॥
एते सर्वे पृथग् वध्या महापातकिनो नराः ॥

इत्य् अनेन विप्रेतरेषु निष्कारणं वध्यसोक्तत्वात्,

ब्राह्मणान् बाधमानं तु कामाद् अवरवर्णजम् ।
हन्यच् चित्रवधोपायैर् उद्वेजनकरैर् नृपः ॥

इत्य् तेनैव ब्रह्मघवधे विशेषस्मरणाच् च । अवरवर्णजं ब्राह्मणेतरवर्णजम् । सर्वस्वहारम् अर्हन्ति प्रायश्चित्तम् अकुर्वन्त इति शेषः । कुर्वन्तस् तु कर्म हन्तीत्य् (?) अपेक्षिते स एवाह ।

प्रायश्चित्तं तु कुर्वाणाः पूर्वे वर्णा यथोदितम् ।
नाङ्क्या राज्ञा ललाटे तु दाप्यस् तूत्तमसाहसम् ॥

नाङ्क्याः नापि सर्वस्वदण्डार्हाः किं तूत्तमसाहसं दाप्या इत्य् अर्थः । यत् तु बोधायनेनोक्तम् - “क्षत्रियादीनां ब्राह्मणवधे वधः सर्वस्वहरणं च” इति, तत् साहसरूपवधविषयम् । यत् त्व् अनन्तरम् उक्तम् - “तेषाम् एव तुल्यापकृष्टवधे यथाबलम् अनुरूपं दण्डं प्रकल्पयेत्” इति, तेषां क्षत्रियादीनां तुल्यापकृष्टवधे बलानुरूपं दण्डं प्रकल्पयेद् इत्य् अर्थः । तत् कण्ठोक्त्यैव स्पष्टविषयम् । दण्डप्रकल्पनप्रकारश् चानन्तरम् उक्तम् - “क्षत्रियवधे गोसहस्रम् ऋषभैकाधिकं राज्ञ उत्सृजेद् वैरनिर्यातनार्थं शतं वैश्ये दश शूद्रे वृषभश् चात्राधिकः शूद्रवधेन स्त्रीवधो गोवधश् च व्याख्यातः” इति । उत्सृजेत् दद्याद् इत्य् अर्थः । वैश्यस्य वधे शतं गोशतम् । शूद्रे शूद्रवधे दश गाः तासु वृषभो ऽधिकः । वैरनिर्यातनार्थं राज्ञ उत्सृजेद् इत्य् उभयत्रानुषज्यते । वैरनिर्यातनार्थम् इत्य् अनेनायं दण्डो न दोषनिर्यातनार्थम् इत्य् उक्तम् । तेनात्र धृतदण्डस्याप्य् असंभाष्यत्वादिकं नापैतीति दर्शितम् । एवं च जडाधिकृतक्षत्रियादिवधे कामकृते पादोनो गोसहस्रादिको दण्डः कल्पनीयः । अकामकृते त्व् अर्धोन इति ज्ञेयम् । प्रणाड्या कृत्वाकामतश् चेत् त्रिपादोनः कल्पनीयः, दोषानुसारित्वाद् दण्डस्य । दोषाभावं क्वचित् प्रणाड्या वधे त्व् आह याज्ञवल्क्यः ।

अमनुष्यकृतो दोषो नापैहीति प्रजल्पतः ।
काष्ठलोष्टेषुपाषाणबाहायुधकृतस् (?) तथा ।

अस्यार्थः - अमनुष्यैः पशुपक्ष्यादिभिः स्वत एव कृतो हिंसादिदोषः तत्स्वामिनां तेषु बलवर्धनघासादिदायित्वे ऽपि न भवति । तथान्यप्रेषितकाष्ठलोष्टपाषाणपृष्ठयानवाहादिकृतो हिंसादिदोषः प्रेरकस्यापसरेति पुनः पुनर् उच्चैर् उच्चरितुः न भवतीति । ततो ऽत्र दण्डो नास्तीत्य् अभिप्रायः । दण्डाभावस्यात्राभिप्रेतस्य क्वचिद् अपवादम् अह स एव ।

शक्तो ह्य् अमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा ।
प्रथमं साहसं दद्याद् विक्रुष्टे द्विगुणं तथा ॥

विक्रुष्टे मोचय मोचयेत् पीड्यमानेन आक्रन्दिते ऽप्य् अमोक्षयन् प्रथमसाहसद्वयं दद्याद् इत्य् अर्थः । बृहस्पतिर् अपि साहसकल्पापराधे दण्डम् आह ।

दण्डाजिनादिना युक्तम् आत्मानं दर्शयन्ति ये ।
हिंसन्ति छद्मना शून्ये वध्यास् ते राजपूरुषैः ॥

याज्ञवल्क्यस् तु संबन्धिवधे दण्डम् आह ।

विषाग्निदां पतिगुरुनिजपत्यप्रमापणीम् ।
विकर्णकरनासोष्ठीं कृत्वा गोभिः प्रमापयेत् ॥

असंबन्धिपुरुषे तु विषाग्निदानादौ साहसिकवधवत् सहायादेर् वधो न कार्यः, किं तु तस्यैव कार्य इत्य् आह यमः ।

विषाग्निदायकाश् चोराः घातकाश् चोपघातकाः ।
स्वशरीरेण दण्ड्याः स्युः मनुर् आह प्रजापतिः ॥

उपघतकाः अन्यद्वारा घातकाः । गुर्वादिघातकस्यापि स्त्रीवद् दण्डः, विशेषास्मृतेः दण्डापूपन्यायसिद्धत्वाच् च । तथा हि, यत्र स्त्रिया अपि गुरुदण्डस् तत्र सुतरां पुंश इति गम्यते । विविधवधो वा, स्त्रीदण्डापेक्षया पुरुषस्यान्यत्र दण्डाधिक्यदर्शनात् । संबन्धिवधनिमित्तदण्डो ऽयं कामकृते द्रष्टव्यः, कामकृतमहापतकदण्डाधिक्यस्य अकामकृतविषये कल्पनायोगात् । अकामकृतसंबन्धिवधविषये तु अकामकृतमहापातकदण्डाधिकदण्डत्वाय पुरान् निर्वासनान्तं सर्वस्वहरणं प्रायश्चित्तम् अकुर्वतो दण्डः कल्पनीयः । कुर्वतस् तूत्तमसाहसद्वयम् इत्य् ऊह्यम् । मनुर् अपि साहसकल्पापराधे दण्डम् आह ।

तटाकभेदकं हन्याद् अप्सु सुद्धवधेन वा ।
तच् चापि प्रतिसंस्कुर्याद् दद्याद् वोत्तमसाहसम् ॥

तटाकमहत्त्वाल्पत्वानुसारेणात्र दण्डविकल्पे व्यवस्था कार्या । तथा,

यस् तु पूर्वनिविष्टस्य तटाकस्योदकं हरेत् ।
आगमं वाप्य् उपारुन्ध्यात् स दाप्यः पूर्वसाहसम् ॥

आगमम् उदकस्य तटाकं प्रत्य् आगमनम् । हरेत् स्वतटाकादिपूरणायेति शेषः । एवम् उपारुन्ध्याद् इत्य् अत्रापि शेषो द्रष्टव्यः । कात्यायनो ऽपि ।

हरेद् भिन्द्याद् दहेद् वापि देवानां प्रतिमा यदि ।
तद्गृहं चैव यो भिन्द्यात् प्राप्नुयात् पूर्वसाहसम् ॥
प्रमाणेन तु कूटेन मुद्रया वापि कूटया ।
कार्यं तु साधयेद् यो वै स दाप्यो दमम् उत्तमम् ॥ इति ।

प्रमाणं लिखितादि । बृहस्पतिर् अपि ।

मन्त्रौषधिबलात् किंचित् संभ्रान्तिं दर्शयन्ति ये ।
मूलकर्म च कुर्वन्ति निर्वायास् ते महीभुजा ॥

मूलकर्म वशिक्रियाविशेषो मूलद्यौषधसाध्यः ॥

**इति स्मृतिचन्द्रिकायां साहसकल्पपराधदण्डविषयाणि **

समाप्तं च साहसाख्यपदस्य प्रासङ्गिकस्य विधिवितानम्