६० दायविभागः

अथ दायविभागाख्यस्य पदस्य विधिर् उच्यते

विभागकालकर्तृप्रदर्शनम्

तत्र मनुः ।

एष स्त्रीपुंसयोर् उक्तो धर्मो वो रतिसंहितः ।
आपद्य् अपत्यप्राप्तिश् च दायधर्मं निबोधत ॥

दायाख्यद्रव्यविषयधर्मं मयोच्यमानं यूयं निबोधतेत्य् अर्थः । किं पुनर् दायाख्यद्रव्यम् इत्य् अपेक्षिते निघण्टुकारेणोक्तम् ।

विभक्तव्यं पितुर् द्रव्यं दायम् आहुर् मनीषिणः । इति ।

विभागार्हपित्रादिद्वारागते द्रव्ये वृद्धा दायशब्दम् आहुर् इत्य् अर्थः । अत एव धारेश्वरेणैवम् एवोक्तम् - “दायशब्देन पितृद्वारा मातृद्वारागतं च द्रव्यम् एवोच्यते” इति । चशब्दः संबन्ध्यन्तरद्वारागतद्रव्यम् अपि दायशब्देनोच्यत इति सूचनार्थः । एवशब्दस् त्व् अनापन्नस्वत्वरूपम् इति ज्ञापनार्थः । स च अयुक्तः, आपन्नस्वत्वरूपस्यैव द्रव्यस्य पितृद्वारा पुत्रपौत्रेष्व् आगमनात् । एवं चान्यसंबन्धिनि धने विभागार्हदायशब्दो वर्तत इति निघण्टुकारेणोक्तम् इति मन्तव्यम् । दायविषयधर्मश् चात्र विभागलक्षणो ऽभिप्रेतः “स्त्रीपुंधर्मो विभागश् च” इति पदोद्देशावसरे तस्यैव पूर्वम् उक्तत्वात् । अत एव संग्रहकारः ।

पितृद्वारागतं द्रव्यं मातृद्वारागतं च यत् ।
कथितं दायशब्देन तद्विभागो ऽधुनोच्यते ॥

पितृद्वारागतम् इति यद् द्रव्यं दायशब्देन दायधर्मम् इति समासान्तर्गतेन कथितं तस्य विभागो ऽधुना स्त्रीपुंधर्माख्यपदप्रतिपाद्यजातस्य सर्वस्य प्रतिपादनानन्तरं मनुनोच्यत इति संग्रहशोकस्यार्थः । कथम् उच्यत इत्य् अपेक्षिते मनुः ।

ऊर्ध्वं पितुश् च मातुश् च समेत्य भ्रातरः समम् ।
भजेरन् पैतृकं रिक्थम् अनीशास् ते हि जीवतोः ॥

अस्यापि तात्पर्यम् आह संग्रहकारः ।

यस्मिन् काले यया भङ्ग्या यैर् एव क्रियते ऽपि च ।
यादृशस्य च दायस्य यथाशास्त्रं प्रदर्श्यते ॥

अस्यार्थः - यादृशस्य दायस्य पैतृकमातृकादेर् यस्मिन् काले यया समविषमादिभङ्ग्या प्रकारेण यैः पितृमातृभगिन्यादिभिः कर्तृभिर् विभागः कर्तव्यः तद् एतत् सर्वं वृद्धमन्वादिशास्त्रानतिक्रमेण “ऊरध्वं पितुश् च” इत्यादिना प्रदर्श्यत इति । “ऊर्ध्वं पितुश् च” इति पितृधनविभागकाल उक्तः । “मातुश् च” इति मातृधनविभागकालः । तेन मातरि जीवन्त्याम् अपि पितृधनविभागः कार्यः । तथा मातुर् ऊर्ध्वं पितरि जीवत्य् अपि मातृधनविभागः कार्य एव । अन्यतरधनविभागे उभयोर् ऊर्ध्वकालप्रतीक्षणानुपयोगात् । तथा च संग्रहकारः ।

पितृद्रव्यविभागः स्याज् जीवन्त्याम् अपि मातरि ।
न स्वतन्त्रतया स्वाम्यं यस्मान् मातुः पतिं विना ॥
मातृद्रव्यविभागो ऽपि तथा पितरि जीवति ।
सत्स्व् अपत्येषु यस्मान् न स्त्रीधनस्य पतिः पतिः ॥ इति ।

भार्यायाः पतिं विना पतिमरणे ऽपि यस्मात् पत्युर् धने स्वतन्त्रत्वेन न स्वामित्वम्, यस्माच् चापत्येषु विद्यमानेषु स्त्रीधनस्य भार्याधनस्य भार्यामरणे ऽपि पतिः भर्ता न पतिः न स्वामी । तस्मात् तयोर् मध्ये जीवत्य् अप्य् अन्यतरस्मिन् अन्यतरधनविभागो युक्त इत्य् अर्थः । अनेन पितरि जीवति तद्द्रव्यविभागो मातरि च जीवन्त्यां तद्द्रव्यविभागः पुत्रादैर् न कार्य इत्य् अर्थाद् उक्तम् । उक्तं चान्त्यपादेन मानवे - “अनीशास् ते जीवतोः” इति । अनीशाः अस्वतन्त्राः । तथा च शङ्खलिखितौ - “न जीवति पितरि पुत्रा रिक्थं भजेरन् यद्य् अपि स्यात् पश्चाद् अधिगतं तैर् अनर्हा एव पुत्रा अर्थधर्मयोर् अस्वातन्त्र्यात्” इति । यद्य् अपि तैः स्वकीयजन्मनः पश्चाद् अनन्तरम् एव पितृधने स्वाम्यम् अधिगतं प्राप्तं तथापि जीवति पितरि पितृधनं न विभजेरन् । यतो ऽर्थधर्मयोर् अस्वातन्त्र्यात् विभागं कर्तुम् अनर्हाः पुत्रा इत्य् अर्थः । अर्थास्वातन्त्र्यं अर्थादानप्रदानयोर् अस्वातन्त्र्यम्, तथा च हारीतः - “जीवति पितरि पुत्राणाम् अर्थदानविसर्गाक्षेपेष्व् अस्वातन्त्र्यम्” इति । अर्थदानं अर्थोपभोगः । विसर्गो व्ययः । आक्षेपः दासादिपरिजनस्यापराधेषु शिक्षार्थम् आक्षेपः । अस्वातन्त्र्यं पितुर् अनुज्ञाम् अन्तरेण स्वेच्छयार्थादानादाव् अप्रवृत्तिः । धर्मास्वातन्त्र्यम् अपि एवं पृथग् इष्टापूर्तादाव् अप्रवृत्तिः । धर्मास्वातन्त्र्यम् अपि एवं पृथग् इष्टापूर्तादाव् अप्रवृत्तिः । एवं च पित्रानुज्ञातेन पुत्रेण स्वकर्माग्निहोत्रादि कार्यं नाननुजातेनेति मन्तव्यम् । यत् तु देवलेनोक्तम्,

पितर्य् उपरते पुत्रा विभजेरन् पितुर् धनम् ।
अस्वाम्यं हि भवेद् एषां निर्दोषे पितरि स्थिते ॥

इति, तत्रास्वाम्यवचनम् अस्वातन्त्र्यप्रतिपादनार्थम् इति मन्तव्यम् । निर्दोषे पितरि स्थिते ऽपि पितृधने पुत्राणां जन्मना स्वाम्यस्य लोकसिद्धत्वात् । नन्व् अलोकिकं स्वाम्यं न पुत्राणां लोकसिद्धम् इति वृधैव (?) “अस्वाम्यं हि भवेत्” इति वचनस्वारस्यभङ्गः क्रियते । न च वाच्यं प्रतिज्ञामात्रम् अलौकिकं स्वाम्यम् इति, यतो न्यायम् आह संग्रहकारः ।

वर्तते यस्य यद् धस्ते तस्य स्वामि स एव न ।
अन्यस्वम् अन्यहस्तेषु चौर्याद् यैः किं न वर्तते ॥
तस्माच् छास्त्रत एव स्यात् स्वाम्यं नानुभवाद् अपि ॥ इति ।

यस्माद् यस्यान्तिके यद् धनं वर्तमानं दृष्टं तस्य स एव स्वामीत्य् अवधारयितुं न शक्यते । परकीयस्यापि चौर्यादिनान्यान्तिकस्थस्य दर्शने तस्यैव स्वामित्वापत्तेः । तस्माच् छास्त्रैकसमधिगम्यं स्वाम्यं न पुनर् मानान्तरगम्यम् अपीत्य् अर्थः । किं च यदि यद् यस्यान्तिके दृष्टं तस्य स एव स्वामी तर्ह्य् अस्य स्वम् एतेनापहृतम् इति न ब्रूयात्, यद्यैवान्तिके दृष्टं तस्यैव स्वामित्वात् । अपि च प्रमाणान्तरगम्ये स्वाम्ये “ब्राह्मणस्याधिकं लब्धम्, क्षत्रियस्य विजितम्, निर्विष्टं वैश्यशूद्रयोः” इति गौतमप्रणीते धर्मशास्त्रे यथाक्रमं वर्णानतिक्रमेण पृथक् पृथग् विभिन्नप्रकारेण विहितो ऽर्थागमो व्यर्थः स्यात्, मानान्तरस्यैव नियामकत्वात्, एतद् बाधकं चाह स एव ।

अस्यापहृतम् एतेन न युक्तं वक्तुम् अन्यथा ।
विहितो ऽर्थागमः शास्त्रे यथावर्णं पृथक् पृथक् ॥
प्रतिग्रहास्त्रवाणिज्यशुश्रूषाद्यैर् यथाक्रमम् ॥ इति ।

“अस्य” इत्यादिना “वक्तुम्” इत्यन्तेनात्र प्रथमं बाधकम् उक्तम्, अवशिष्टेन व्यर्थः स्याद् इत्य् अध्याहारसापेक्षेण द्वितीयम् इति मन्तव्यम् । एवं च स्वत्वम् अपि स्वाम्यवद् एव शास्त्रैकसमधिगम्यं विज्ञेयम् । यस्मात् स्वाम्यत्वत्वयोस् तुल्ययोगक्षेमयोर् एकतरम् अधिकृत्य साधिते ऽपि शास्त्रैकसमधिगम्यत्वे द्वयोर् एव साधितं भवति । अत एव संप्रति स्वत्वम् अधिकृत्यापि शास्त्रैकसमधिगम्यत्वं द्वयोः साधयितुम् आह स एव ।

न च स्वम् उच्यते तद्वत् स्वेच्छया विनियुज्यते ।
विनियोगो ऽपि सर्वस्य शास्त्रेणैव नियम्यते ॥

अस्यायम् अर्थः - न च न ब्रूमो ऽन्तिके वर्तमनतया परिदृष्टं स्वम् इति, किं तु यद् वस्तु येन यथेष्टं विनियुज्यते तत् तस्य स्वम् इत्य् उच्यते । ततश् च नातिप्रसङ्गादिदूषणम्, अपहृतादेर् अयथेष्टविनियोज्यस्य स्वव्यवहाराप्रसङ्गाद् इति वाच्यम्, यतः सर्वस्य स्वव्यवहाराविषयस्यापि धनस्य विनियोगः शास्त्रेणैव गुरुभृत्यादेः भरणादौ नियम्यत इति यथेष्टविनियोज्यं किम् अपि नास्तीति । प्रपञ्चितं चैतत् सर्वं धारेश्वरसूरिणा । तस्मात्

अस्वाम्यं हि भवेद् एषां निर्दोषे पितरि स्थिते ।

इति धर्मशास्त्राद् अस्वाम्ये सिद्धे “यद्य् अपि स्यात् पश्चाद् अधिगतं तैः” इति शङ्खवनस्यैवान्यथा व्याख्या न्याय्या ।

अत्रोच्यते - न ब्रूमो यथेष्टं विनियोज्यं स्वम् इति, किं तु यथेष्टविनियोगार्हं स्वम् इति ब्रूमहे । ननु शास्त्रेण गुरुभृयादेर् भरणादौ विनियोगनियमात् यथा यथेष्टविनियोज्यं दुर्निरूपं तथा यथेष्टविनियोगार्हत्वम् अपि यथेष्टविनियोगाभावाद् एव दुर्निरूपम् । मैवम्, यथेष्टविनियोगाभावे ऽपि यद् येनार्जितं तत् तस्य यथेष्टविनियोगार्हम् इत्य् एवं निरूप्यते । तथा च नयविवेके भवनाथेनैवं निरूपितम् “तच् च तस्य तद् अर्हं यद् येनार्जितम्” इति ग्रन्थेन । तस्यायम् अर्थः - यद् वस्तु येन पुरुषेणार्जितं तद् वस्तु तस्य पुरुषस्य तदर्हं यथेष्टविनियोगार्हम् इति । स्वत्वनिरूपणवद् यथेष्टविनियोगार्हत्वनिरूपणं चास्मिन् मते सुशकम् इति चशब्दर्थः । नन्व् एवं चोरस्य चौर्यार्जितं यथेष्टविनियोगार्हं स्यात् इत्य् आशङ्क्याह स एव - “लोकसिद्धं चार्जनं जन्मादि” इति । जन्मक्रयसंविभागपरिग्रहाधिगमाद्य् एवानिदंप्रथमलोकसिद्धं (?) धनार्जनं न पुनश् चौर्यादिकम् इत्य् अर्थः । अतिप्रसङ्गपरिहरणम् अपि सुशकम् इति चशब्दार्थः ।
नन्व् इदम् आर्जनम् अनिदंप्रथमलोकसिद्धम् इदं नेत्य् अत्र किं नियामकम् इत्य् आशङ्क्याह स एव - “अत एवानिदंप्रथमलोकधीविषयव्यवस्थितनिबन्धनार्था स्मृतिः व्याकरणादिस्मृतिवत्” इति । यत एवानिदंप्रथमलोकसिद्धार्जनम् एव स्वत्वापादकं ततश् च तद् एव लौकिकवैदिकव्यवहारसिद्ध्यर्थम् अवश्यं ज्ञेयम् । अत एवानिदंप्रथमलोकधीविषयतया व्यवस्थितार्जनानां स्वग्रन्थे निबन्धनार्थ “स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोः” इत्यादिका गौतमादिप्रणीता धर्मस्मृतिः साधुशब्दनिबन्धनार्थव्याकरणादिस्मृतिवत् कृतेत्य् अर्थः । रिक्थं रिक्थार्जनं पित्रादिधने स्वामित्वापादकं गौतमेनैव - “उत्पत्त्यैवार्थस्वामित्वं लभेतेत्य् आचार्यः” इति । उत्पत्त्यैव मातुर् गर्भे शरीरोत्पत्त्यैवेत्य् अर्थः । संविभागः पित्रादिधने विशेषनिष्ठस्वामित्वसंपादको विभागः । परिग्रहः काननादिगतजलतृणकाष्टादेर् अन्येनास्वीकृतस्य स्वीकारः । अधिगमो निध्यादेर् उपलब्धिः । एतेषु निमित्तेषु सत्सु पुत्रादिः क्रेता संविभक्ता परिग्रहीताधिगन्ता च यथाक्रमेण पित्रादिधनस्य क्रीतस्य संविभकांशस्य परिगृहीतस्याधिगतस्य च स्वामी भवति ।
तथा च लब्धं परिगृहीतं ब्राह्मणस्याधिकं प्रातिस्विकम् आर्जितम्, एवं क्षत्रियस विजितं विजयलब्धम्, एवं वैश्यस्य निर्विष्टं कृष्टादौ भृतिरूपेण लब्धम्, शूद्रस्यापि निर्विष्टं द्विजशुश्रूषादौ भृतिरूपेण लब्धम्, प्रातिस्विकम् आर्जितम् इत्य् एवम् आर्जननिबन्धनार्थाया गौतमस्मृतेर् अर्थो विज्ञेयः । एवं च यत् संग्रहकारेणोक्तम् - “वर्तते यस्य यद्धस्ते” इत्यादिना, यच् च धारेश्वरसूरिणा प्रपञ्चितम्, तत् सर्वम् अपास्तं वेदितव्यम् । ततश् च,
अस्वाम्यं हि भवेद् एषां निर्दोषे पितरि स्थिते ।

इति वचनानाञ्जस्येन शङ्खवचनविरोधपरिहारो युक्त एवेत्य् अलम् अतिबहुना ।

प्रकृतम् उच्यते - निर्दोषग्रहणात् पितरि स्थिते ऽपि दोषे सति न पुत्राणां तत्पारतन्त्र्यम् इति दर्शयति । येन पितरि स्थिते ऽप्य् अक्षमत्वादिदोषे सति अर्थादानविसर्गादौ ज्येष्ठस्य स्वातन्त्र्यम्, अनुजानां तु ज्येष्ठाधीनत्वम् अवगन्तव्यम् । अत एव शङ्खलिखिताभ्याम् उक्तम् - “पितर्य् अशक्ते कुटुम्बस्य व्यवहारान् ज्येष्ठः प्रकुर्याद् अनन्तरो वा कार्यज्ञस् तदनुमतेन” इति । तदनुमतेन ज्येष्ठानुमतेन, तदानीं तस्यैव स्वातन्त्र्यात् । तदनन्त्रग्रहणम् अनुजोपलक्षणार्थम्, कार्यज्ञस्यैवात्र विवक्षितत्वात् । अशक्तग्रहणं च दीनादेर् उपलक्षणार्थम् । अत एव हारीतः - “कामं दीने प्रोषिते आर्तिं गते वा ज्येष्ठो ऽर्थांश् चिन्तयेत्” इति । दीने इत्यादौ जीवति पितरीति पदद्वयम् अनुषज्यते । तस्य पूर्ववाक्ये श्रवणाद् इहाकाङ्क्षितत्वाच् च । कामम् इति वदन् पितृपरतन्त्रत्वं तदानीं गतम् इति दर्शयति । गते च पितृपरतन्त्रत्वे पुराणां पितृधनविभागकर्तृत्वार्हता जातेति पितृधनविभागो ऽपि तदानीं पुत्राणाम् एवेच्छया भवितुम् अर्हति । अत एव शङ्खलिखितौ - “अकामे पितरि रिक्थविभागो वृद्धे विपरीतचेतसि दीर्घरोगिणि च” इति । अकामे पितरि विभागेच्छाशून्ये पितरीत्य् अर्थः । वृद्धे अतिवृद्धे । विपरीतचेतसि अप्रकृतिस्थे । एतद् उक्तं भवति - वार्धकादिना पितर्य् अस्वतन्त्रत्वम् आपन्ने तदनिच्छ्यापि तद्धनविभागः पुत्राणाम् इच्छयैव भवतीति । दीर्घरोगिग्रहणं दीर्घकोपादेर् अप्य् उपलक्षणार्थम् । अत एव नारदः ।
व्याधितः कुप्तश् चैव विषयासक्तमानसः ।
अन्यथाशास्त्रकारी च न विभागे पिता प्रभुः ॥

अपि तु तत्पुत्र एव प्रभवति इति शेषः । अन्यथाशास्त्रकारी स्मृत्याचारव्यपेतमार्गवर्ती । निर्दोषे पितरि स्थिते ऽपि क्वचिद् विषये पुत्रकर्तृकम् एव विभागम् आह स एव ।

अत ऊर्ध्वं पितुः पुत्रा विभजेरन् धनं समम् ।
मातुर् निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निवृत्ते चापि रमणे पितर्य् उपरतस्पृहे ॥ इति ।

अत ऊर्ध्वम् इत्यादि सममित्यन्तम् आद्यं वाक्यं जीवद्विभागकालबोधकम्, तथाप्य् उत्तरवाक्यपूरणोपयोगार्थं पठितम् । पित्रोर् अपत्योत्पत्तिसामग्र्यभावनिश्चये स्त्र्यपत्यविवाहे च कृते पितुर् धनस्पृहायां च गतायां तद्धनं पुत्रा एव विभजेरन्न् इति द्वितीयवाक्यस्यार्थः । बोधायनस् त्व् अत्र पितुर् अपि कर्तृत्वम् अनुमतिद्वारेणाह - “पितुर् अनुमत्या दायविभागः” इति । क्व तर्हि पितृकर्तृको विभाग इत्य् अपेक्षिते नारदः ।

पितैव वा स्वयं पुत्रान् विभजेद् वयसि स्थितः । इति ।

वयसि स्थित इति वदन्न् अप्रतिहतस्वातन्त्र्ययुक्तपितृविषय एवायं नियम इति दर्शयति । एवकारेण पितृकर्तृकनियमलाभे ऽपि स्वयंग्रहणाद् अस्मिन् विषये पुत्राणाम् अनुमतिकर्तृत्वम् अपि निरस्तम् । वाशब्दः सहवासेन विकल्पार्थः, न पुनः पित्रादिकर्त्रन्तरेण, सहवासस्यैवात्र पक्षान्तरत्वात् । तथा च व्यासः ।

भ्रातॄणां जीवतोः पित्रोः सहवसो विधीयते । इति ।

पितुर् ऊर्ध्वम् अपि भ्रातॄणाम् अन्योन्यम् अर्थोपचयार्थं सहवासो ऽस्त्य् एव । तथा च शङ्खलिखितौ - “कामं सहवसेयुर् एकतः संहता वृद्धिम् आपद्येरन्” इति । पृथक् पृथक् व्ययाभावद् इति भावः । विभागे तु धर्मवृद्धिम् आपद्येरन्न् इत्य् आह गौतमः - “विभागे तु धर्मवृद्धिः” इति । कथम् इत्य् अपेक्षिते नारदः ।

भ्रातॄणाम् अविभक्तानाम् एको धर्मः प्रवर्तते ।
विभागे सति धर्मो ऽपि भवेत् तेषां पृथक् पृथक् ॥

धर्मः पितृदेवद्विजार्चनजन्यः । तथा च बृहस्पतिः ।

एकपाकेन वसतां पितृदेवद्विजार्चनम् ।
एकं भवेद् विभक्तानां तद् एव स्याद् गृहे गृहे ॥

नन्व् अग्निहोत्रादिजन्यो ऽपि धर्मो विभक्तानां वर्धते नाविभक्तानां स्वत्वाभावेनाविभक्तानां स्वस्याग्निहोत्रादिजन्यधर्मार्जनासंभवात् । तेनाग्निहोत्रादिहर्मो विभागपक्षोत्कृष्टत्वे हेतुतया वक्तव्यः । उक्तं च तथैव संग्रहकारेण ।

क्रियते स्वं विभागेन पुत्राणां पैतृकं धनम् ।
स्वत्वे सति प्रवर्तन्ते तस्माद् धर्म्या पृथक्क्रिया ॥

प्रवर्तन्ते स्वसाध्याग्निहोत्रादीनीति शेषः । अत्रोच्यते - पैतृकधनविभागेन पुत्राणां स्वं क्रियत इत्य् एतद् अयुक्तम्, जन्मनैव स्वं क्रियत इति प्राग् एव प्रतिपादितत्वात् । ततश् चाविभक्तानाम् अपि स्वत्वम् अस्तीति स्वसाध्याग्निहोत्रादिजन्यो धर्मः संपद्यत एवेति न कश्चिद् विभागपक्षस्याविभागपक्षाद् विशेष इति पूर्वोक्तप्रकारेणैव विभागपक्षे धर्मवृद्धिः गौतमादिभिर् उक्तेति दिक् ॥

इति स्मृतिचन्द्रिकायां विभागकालकर्तृप्रदर्शनम्

जीवद्-विभागप्रकारः

अथ जीवद्-विभागप्रकारः

तत्र शङ्खलिखितौ - “जीवति पितरि रिक्थविभागो ऽनुमतः प्रकाशं वा मिथो वा धर्मतः” इति । यो जीवद्विभागपक्षो ऽनुमतः स तावत् प्रकाशं बन्ध्वादिजनसमक्षं यथा भवति तथा मिथो वा रहसि वा धर्मतो धर्मानपेतेन प्रकारेण कार्य इत्य् अर्थः । तम् एवं प्रकारम् आह कात्यायनः ।

सकलं द्रव्यजातं यद् भागैः गृह्णन्ति तत्ससमैः ।
पितरो भ्रातरश् चैव विभागो धर्म्य उच्यते ॥

यन् मध्यगं द्रव्यजातं तत् सर्वं पित्रादयो यत्र विभागैः समैर् एव भागैर् गृह्णन्ति स विभागः शास्त्रावगतत्वात् धर्माद् अनपेत इत्य् उच्यत इत्य् अर्थः । ज्येष्ठभ्रातृभागाधिक्येन विधान्तरतो धर्म्यं विभागं वक्तुं बोधायनेनोक्तम् - “मनुः पुत्रेभ्यो दायं व्यभजत्, इति समो ऽंशः सर्वेषाम् अविशेषात्” इति । मनुः पुत्रेभ्यो दायं व्यभजद् इति जीवद्विभागाब्धिदायके ब्राह्मणे विशेषानभिधानात् “समं स्याद् अश्रुतत्वात्” इति न्यायबलाद् अस्माद् एव शास्त्रात् सर्वेषां पितृपुत्राणां सम एवांशो ऽवगम्यत इत्य् अर्थः । ज्येष्ठस्य त्व् आधिक्यं श्रुत्यन्तरसिद्धम् इत्य् आह स एव - “धनम् एकं चारु समुद्धरेज् ज्येष्ठस् तस्माज् ज्येष्ठं पुत्रं धनेन निरवसाययन्ति” इति श्रुतिः । धनम् एकम् इति वदन् धनेनेत्य् एकवचनं श्रुतिवाक्यगतं विवक्षितम् इति दर्शयति । निरवसाययन्ति तोषयन्तीत्य् अर्थः । तथा च आपस्तम्बः - “एकधनेन ज्यएष्ठं तोषयित्वा जीवन् पुत्रेभ्यो दायं विभजेत् समम्” इति । जीवन् पिता श्रेष्ठेनैकधनेन मध्यकद्रव्याद् उद्धृतेन ज्येष्ठं प्रथमपुत्रं तोषयित्वावशिष्टम् आत्मसहितज्येष्ठादिपुत्रेभ्यः समत्वेनैव विभजेद् इत्य् अर्थः । एवं च प्रथमोत्पन्नतया तदर्थम् एवोधारः । स चैकस्यैव सर्वधनश्रेष्ठस्य, उद्धृतावशिष्टस्य समत्वेनैव विभाग इति विधान्तरम् उक्तम् इत्य् अवगन्तव्यम् । एवं कात्यायनबोधायनोक्तपक्षयोर् मध्ये यं पक्षं पिता कर्तुम् इच्छति तम् एव पक्षं कुर्यात् । पितृकर्तृके विभागे तस्यैव प्रभुत्वेन तदिच्छाया एव पक्षविशेषपरिग्रहकारणत्वात् । तद् एतत् सर्वं संक्षिप्य याज्ञवल्क्येनोक्तम् ।

विभागं चेत् पिता कुर्याद् इच्छया विभजेत् सुतान् ।
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥

अत्रोत्तरार्धेन प्राङ्निरूपितपक्षद्वयं पूर्वोक्तक्रमव्यत्यासेनोक्तम् । तयोर् अन्यतरपक्षपरिग्रहे पितुर् इच्छैव कारणं न पुनः पुत्राणाम् अपीच्छा कारणम् इति पूर्वार्धेनोक्तम् इति मन्तव्यम् । एवं चात्मेच्छया यः पक्षः पित्रा परिगृहीतः स सुतैर् अनपेक्षितो ऽपि अनुमन्तव्यः । तथा च स एव ।

न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः । इति ।

न्यूनतया विभक्तानां ज्येष्ठेतरेषां श्रेष्ठभागाभावेन तत्सद्भावात्, अधिकतया विभक्तो ज्येष्ठस् तेषां पितुर् इच्छया स्वीकृतो यद्य् उद्धारपूर्वको विभागः तदा सो ऽपि शास्त्रमूलत्वेन धर्म्यतया प्राक् स्मृत इति तैर् अप्य् अनुमन्तव्य इत्य् अर्थः । नारदो ऽप्य् अमुम् एवार्थम् आह ।

पित्रैव तु विभक्ता ये समन्यूनाधिकैर् धनैः
तेषां स एव धर्म्यः स्यात् सर्वस्य हि पिता प्रभुः ॥

समधनैः कृतो यो धनविभागप्रकारस् तत्र पित्रा मह्यम् एकम् अधिकं श्रेष्ठं धनं न दत्तम् इति ज्येष्ठेननुशयो न कार्यः । तथा यः पित्रा कृतो न्यूनाधिकधनैर् विभागस् तत्र पित्रास्मभ्यं न्यूनं दत्तं ज्येष्ठायाधिकम् इति अनुजैर् अनुशयो न कार्यः, पितुर् इच्छया प्राप्तस्यैव अत्र धर्म्यत्वात् । कुतस् तस्यैव धर्म्यत्वम् इत्य् अपेक्षिते ऽप्य् उक्तम् “सर्वस्य हि पिता प्रभुः” इति । सर्वविधस्य पितृकर्तृकविभागस्य यतः पितैव प्रभुर् इत्य् अर्थः । ये पुनर् धर्म्यं विभागम् अतिक्रामन्ति ये दण्ड्याः । यद् आह बृहस्पतिः ।

समन्यूनाधिका भागाः पित्रा येषां प्रकल्पिताः ।
तथैव ते पलनीया विनेयास् ते स्युर् अन्यथा ॥

पित्रा शास्त्रावगतप्रकारानुसारेणेति शेषः, प्रकारान्तरेण कल्पितानाम् अधर्म्यत्वेनापलनीयत्वात् । न हि स्वेच्छयैव स्वार्जितधने ऽपि कस्यचित् पुत्रस्य निष्कसहस्रेण कस्यचित् पुत्रस्य कपर्दिकामात्रेण विभागः कृतो धर्म्यो भवितुम् अर्हति । अनिदंप्रथमसंविभागस्यैव स्वत्वव्यवस्थापकत्वात् । न चैच्छिको विषमविभागो ऽनिदंप्रथम एव “इच्छया विभजेत् सुतान्” इति स्मृतिनिबद्धकत्वाद् इति वाच्यम्, अस्याः स्मृतेस् तथाविधविभागानिबन्धकत्वात् । तथा हि, स्वतस् तावद् अयुक्तत्वे ऽप्य् अपरार्केणास्याः स्मृतेः पारिशेष्यात् तथाविधविभागप्रतिपादनपरत्वम् आपादितम् । तत् प्राक्प्रतिपादितसम्यगर्थसद्भावे सत्य् अपास्तम् इति । स्वेच्छामात्रेण पित्रा स्वार्जितधने ऽपि कृतो विषमविभागः पुत्रैर् अनुशये सत्य् अपालनीय इति सिद्धम् । यत् पुनर् अपरार्केणोक्तम् “श्रेष्ठभागेनेत्य् एतद् उद्धारप्रदर्शनार्थम्, तेन ऽज्येष्ठस्य विंश उद्धारःऽ इत्यादिभिर् मन्वादिशास्त्रैर् यावन्त उद्धारप्रकारा अभिहिताः ते सर्वे ऽत्रोपलक्षिताः” इति, तद् अप्य् अपास्तम्, “धनम् एकं चारु समुद्धर्ज् ज्येष्ठः” इति जीवद्विभागोक्तोद्धारविशेषपरत्वस्यैव न्याय्यत्वात् । बृहस्पतिस् तु पितुर् भागाधिक्येन प्रकारान्तरम् आह ।

जीवद्विभागे तु पिता गृह्णीतांशद्वयं स्वकम् । इति ।

पिता विभजन्न् इति शेषः । तथा च नारदः ।

द्वाव् अंशौ प्रतिपद्येत विभजन्न् आत्मनः पिता । इति ।

विभजन्न् इति वदन् पितृकर्तृके जीवद्विभागे भागद्वयम् आत्मनो न पुनः पुत्रकर्तृके जीवद्विभाग इति दर्शयति । पितृकर्तृकविभागे ऽप्य् आत्मनो भागद्वयग्रहणे विशेषम् आहतुः शङ्खलिखितौ - “स यद्य् एकपुत्रः स्यात् द्वौ भागाव् आत्मनः कुर्यात्” इति । स इति प्रकृतः पिता प्रत्यवमृश्यते । एकपुत्रः स्यात् अतिक्रान्तपुत्रान्तरलाभकालः स्यात्, गलितवयस्कः स्याद् इति यावत् । अत एव बहुपुत्रसद्भावविषये ऽपि गलितवयस्कस्य भूयिष्ठभगग्रहणे पितृपुत्राणां भागवैषम्यम् आह हारीतः - “जीवन्न् एव वा विभज्य वनम् आश्रयेद् वृद्धाश्रमं वा गच्छेत् स्वल्पेन वा संविभज्य भूयिष्ठम् आदाय वसेत् स यद्य् उपदस्येत् पुनस् तेभ्यो गृह्णीयात् क्षीणांश् च विभजेत्” इति । स्वल्पेन भागेनात्मीयभागार्थप्रमाणकेन भागेन पिता पुत्रान् विभज्य द्वैगुण्येन भूयिष्ठं भागं स्वयम् आदाय गृह एव वा वसेत् । एवं वसन् यदि कथंचिद् उपदस्येद् अशनाद्यभावेन क्षीणः स्यात् पिता तदा तेभ्यः पुत्रेभ्यः स्वदत्तभागवशाद् उपचितद्रव्येभ्यः सकाशात् स्वकुटुम्बभरणपर्याप्तं धनं पुनर् गृह्णीयात् । अत पुत्रा एवाशनाद्यभावेन क्षीणाः तदा तान् पुनः पूर्ववद् विभजेद् इत्य् अर्थः । वनम् आश्रयेत् वानप्रस्थः स्यात् । वृद्धाश्रमः चतुर्थाश्रमः । वृद्धाश्रमम् इति वदन् गलितवयस्कविषयम् इति दर्शयति । एवं चापरवयसि पुत्राश्रयार्थित्वात् “यथा पिता पुत्रं क्षित उपधावति तादृग् एव तत्” इति श्रुतिविषयत्वं पितुर् युक्तम् । स्वल्पभागग्रहणाद् यथा पुत्रः पितरं क्षित उपधावति तादृग् एव तद् इति श्रुतिविषयत्वं पुत्रस्य युक्तम् इत्य् अभिसंधाय “यद्य् उपदस्येत्” इत्यादिना “यथा पिता पुत्रम्, यथा पुत्रः पितरम्” इत्यादितच्छ्रुतिद्वयार्थः उक्त इति मन्तव्यम् । अत एव “पुनस् तेभ्यो गृह्णीयात् क्षीणांश् च विभजेत्” इति स्वकीयस्मृत्योर् एवंविधश्रुतिमूलतां दर्शयितुम् एतत्समानार्थश्रुतिद्वयं प्रतीकेन तेनैव दर्शितम् - “अथाप्य् अत्र ग्रहोपदासोपदायिकीं श्रुतिम् उदाहरन्ति — पिताग्रयणः पुत्रा इतरे ग्रहा यद्य् आग्रयणः स्कन्देयुर् इति व्याख्याताम्” इति । ग्रहोपदासोपदायिकीं सोमग्रहशोषसमाधात्रीम् । आग्रयणः सोमग्रहविशेषः । इतरे आग्रयणव्यतिरिक्ता ग्राहा ऐन्द्रवायवादयः । उप वा दस्येत् उपदस्येद् वा शुष्येद् वेति यावत् । स्कन्देयुर् इतीतिकारो ऽत्रावशिष्टश्रुतिभागप्रतीकार्थः । व्याख्याताम् इति प्रतीकोपदर्शितश्रुतिभागस्य व्याख्यास्माभिः “यद्य् उपदस्येत् पुनस् तेभ्यो गृह्णीयात् क्षीणांश् च विभजेत्” इति वाक्यद्वयेन कृतेत्य् अर्थः । अत्रापि पितुर् इच्छया समविभागपक्षो ऽपि पक्षे कार्यः,

सकलं द्रव्यजातं यद्भागैर् गृह्णन्ति तत्समैः ।
पितरो भ्रातरश् चैव विभागो धर्म्य उच्यते ॥

इति जीवद्विभागं वदता कात्यायनेन समविभागपक्षस्य सार्वत्रिकत्वेनाभिधानात् । तेनात्र विषये यदि स्वकीयेच्छया पिता समभागपक्षं कुर्यात् तदा त्व् आह याज्ञवल्क्यः ।

यदि कुर्यात् समान् अंशान् पत्न्यः कार्याः समांशिकाः ।
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥

यदि वार्धके ऽप्य् आत्मना सह समविभागपक्षम् इच्छया पिता कुर्यात् तदा त्व् आत्मभागेन सह तत्समानं भागं प्रतिपत्नि गृह्णीयाद् इत्य् अर्थः । एवं च “जायापत्योर् न विभागो विद्यते” इति हारीतवचनविरोधशङ्का परिहृतेति सर्वम् अनवद्यम् । यत्र पुत्रः पितृधने धनार्जनसमर्थतया स्वांशं ग्रहीतुं नेच्छति तदा यावत् स्वीकरोति तावत् तस्मै दत्वा पृथक्क्रिया कार्येत्य् आह स एव ।

शक्तस्यानीहमानस्य किंचिद् दत्वा पृथक्क्रिया । इति ।

यदा पुनर् जीवति पितरि पुत्रकर्तृको विभागः क्रियते तदा “सकलं द्रव्यजातम्” इति कात्यायेनेनोक्तसमभागप्रकारेण कार्यः, पुत्रकर्तृकजीवद्विभागे प्रमाणान्तरप्रतिपादकशास्त्रान्तराभावात्, “पितुः पुत्रा विभजेरन् धनं समम्” इत्य् अनुवृत्तौ “मातुर् निवृत्ते रजसि” इत्यादिना समविभागनियमस्य नारदोक्तस्य पूर्वप्रकरणे पुत्रकर्तृकजीवद्विभागावसरे दर्शितत्वाच् च ॥

इति स्मृतिचन्द्रिकायां जीवद्विभागप्रकरणम्

अजीवद्-विभागे सम-विभाग-प्रकाराः

अथाजीवद्-विभागे सम-विभाग-प्रकाराः

तत्र पितरीत्य् अनुवृत्तौ हारीतः - “समेनैव मृते रिक्थविभागः” इति । मृते पितरि भ्रातृभिः क्रियमाणो रिक्थविभागः समांशेनैव कार्य इत्य् अर्थः । पैठीनसिर् अपि - “पैतृके विभाज्यमाने दायाद्ये भ्रातॄणां समो विभागः” इति । दायाद्ये दायधन इत्य् अर्थः । न च भ्रातॄणाम् इति बहुचवनबलात् द्वयोर् भ्रात्रोर् अविभाग एवेति वाच्यम्, मध्यकद्रव्यस्वामिसमर्पणमात्रार्थत्वात् तस्य । अत एव मध्यकद्रव्यस्वामिन एकस्यैव दायविभागः देवलेन प्रतिषिध्यते ।

एक एव सवर्णः स्याद् दायो ऽत्र न विभज्यते । इति ।

सवर्णासवरानेकभ्रातृविषये तु क्वचिद् देशे दायो न विभज्यत इति दर्शयितुं सवर्णः स्याद् इत्य् उक्तम् । उक्तं च मनुना ।

ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् । इति ।

एतद् उक्तं भवति - शूद्राशूद्रभ्रात्रोर् अनेकत्वे ऽपि विवाहशुन्यशूद्रापुत्रो रिक्थानर्ह इत्य् अशूद्र एव सर्वं गृह्णीयाद् इति । एवं विभागानधिकारिसवर्णसाहित्याद् अनेकत्वे ऽपि एक एव गृह्णीयात् । तथा च सम्ग्रहकारः ।

सर्वम् एव हरेज् ज्येष्ठो ऽनुजेष्व् अनधिकारिषु ।
मध्यमो वा कनिष्ट्ःओ वा ज्यायस्य् अनधिकारिणि ॥ इति ।

न त्व् अधिकारिसवर्णानेकभ्रातृविषये ऽपि दायो न विभज्यते । तत्र मनुः ।

ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनम् अशेषतः ।
शेषास् तम् उपजीवेयुः यथैव पितरं तथा ॥

न चैतद् वचनं सहवासपक्षशिक्षार्थम् इति वाच्यम् । यतस् तदर्थम् अन्यद् एव वचनम् “एवं सहवसेयुर् वा” इति तेनैव प्रणीतम् आस्ते । सत्यम् आस्ते, तथापि प्रगल्भभ्रातृषु सहवासपक्षशिक्षार्थम् एव सहवसेयुर् इत्य् अतिदेशः । अप्रगल्भानुजेषु तु तत्प्रागल्भ्यपर्यन्तं सहवास एव कार्यो ऽनेन प्रकारेणेति दर्शयितुम् “ज्येष्ठ एव तु गृह्णीयात्” इत्य् उपदेश इति नानेन वचनेन वचोभङ्ग्या सवरानेकभ्रातृषु दायविभागः प्रतिषिध्यत इति न कश्चिद् विरोधः । यत् तु नारदेनोक्तम्,

बिभृयाद् वेच्छतः सर्वान् ज्येष्ठो भ्राता यथा पिता ।
भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षा कुले स्थितिः ॥

इति, तद् अशक्ताखिलानुजविषयम् । यत् तु गौतमेनोक्तम् - “सर्वं वा पूर्वजस्य इतरान् बिभृयात् पितृवत्” इति । न चैतन् मानवेन समानार्थम् इति वाच्यम्, वाशब्देन प्रगल्भभ्रातृष्व् अनुजानां दयहर्त्वस्य पाक्षिकत्वप्रतिपादनार्थत्वावगतेः । सत्यम् — न मानवेन समानार्थम्, किं तु प्रत्यक्षश्रुतिविरुद्ध्त्वाद् अनदर्तव्यम् । तथा च आपस्तम्बः - “ज्येष्ठो दायाद इत्य् एके तच् छास्त्रैर् विप्रतिषिद्धं मनुः पुत्रेभ्यो दायं व्यभजद् इत्य् अविशेषेण श्रूयते” इति । ज्येष्ठ एव भ्रातॄणां मध्ये पैतृकधनभाग् इत्य् एके पुनर् आचार्या मन्यन्ते तन्मतं प्रत्यक्षश्रुतिविरुद्धम्, यतस् तैत्तिरीयकब्राह्मणे - “मनुः पुत्रेभ्यो दायं व्यभजत्” इत्य् अविशेषेण श्रूयत इत्य् अर्थः । स्वमतं चानन्तरं तेनैवोक्तम् - “सर्वे हि धर्मयुक्ता धर्मयुक्ता भागिनः” इति । सर्वे पुत्रा इत्य् शेषः । तथा च बृहस्पतिः ।

पितृरिक्थहराः पुत्राः सर्व एव समांशिनः । इति ।

रिक्थे ऋणे च समांशिन इत्य् अर्थः । तथा च याज्ञवल्क्यः ।

विभजेरन् सुताः पित्रोर् ऊर्ध्वं रिक्थम् ऋणं समम् । इति ।

ऋणम् अत्र पैतृकं विवक्षितम् । अपैतृकस्य तदैवापाकरणनियमात् । तथा च कात्यायनः ।

भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थम् ऋणं कृतम् ।
विभागकाले देयं तत् रिक्थिभिः सर्वम् एव तु ॥

नारदस् तु विभागकाले पैतृकम् ऋणम् अपि देयम् इत्य् आह ।

यच् छिष्टं पितृदायेभ्यो दत्वर्णं पैतृकं च तत् ।
भ्रातृभिस् तद् विभक्तव्यम् ऋणी स्याद् अन्यथा पिता ॥

“पितृदायात् नव श्राद्धानि, नवश्राद्धं सह दद्युः” इति गौतमब्राह्मणात्,

पितुर् ऊर्ध्वं विभागो य एकोद्दिष्टाद् अनन्तरम् ।

इति संग्रहकारवचनाच् च । एवं च पैतृकं धनं नवश्राद्धपैतृकादिऋणापाकरणार्थधनाद् अभ्यधिकं चेन् नारदोक्तम् एव कार्यम्, नो चेद् याज्ञवल्क्येनोक्तम् एवेर्त्य् अवगन्तव्यम् । पैतृकम् अपि किंचिद् ऋणं विभागकाले पैतृकधनाद् अनपाकरणीयम्, किं तु विभजनीयम् एवेत्य् आह कात्यायनः ।

धर्मार्थं प्रीतिदत्तं च यद् ऋणं स्यान् नियोजितम् ।
तद् दृश्यमानं विभजेन् न दानं पैतृकाद् धनात् ॥

यद् धर्मार्थं संकल्पितम्, यच् च पित्रा प्रीतेन वाचा दत्तम्, यच् च स्वेनैव पित्रा पुत्रैर् अपाकरणीयम् इति नियोजितं तद् एतत् त्रिविधम् ऋणं दृश्यमानं ज्ञयमानं विभजेद् एवेत्य् अर्थः । यः पुनः पुत्रः स्वकर्तृकधनार्जनकर्मणा धनं प्राप्तुं शक्तः सन् पितृद्वारागतं धनं नेच्छति तस्य सन्तानतस् तदंशनिमित्तकविवादपरिहारार्थम् असावितरैः पुत्रैर् विभाज्यधनात् किंचिद् धनं मूलधनार्थं दत्वा अवश्यं विभाज्य इत्य् आह ।

भ्रात्ड्णां यस् तु नेहेत धनं शक्तः स्वकर्मणा ।
स निर्भाज्यः स्वकाद् अंशात् किंचिद् दत्वोपजीवनम् ॥

भ्रातृविशेषस्य “कर्मभूयस्त्वात् फलभूयस्त्वम्” इति न्यायेन समभागाद् अभ्यधिकेन धान्यादिना विवर्धनम् इतरैर् भ्रातृभिः कार्यम् इत्य् आह नारदः ।

कुटुम्बार्थेषु चोद्युक्तं तत् कार्यं कुरुते तु यः ।
स भ्रातृभिर् बृहणीयो ग्रासाच्छादनवहनैः ॥

इति स्मृतिचन्द्रिकायाम् अजीवद्विभागे समविभागप्रकारः

विषमविभागप्रकारः

अथ विषमविभागप्रकारः

तत्र बृहस्पतिः ।

पितृरिक्थहराः पुत्राः सर्व एव समांशिनः ।
विद्याकर्मरतस् तेषाम् अधिकं लब्धुम् अर्हति ॥

ये पतितादिव्यतिरिक्ताः पितृरिक्थहराः पुत्राः विद्यादेर् असत्तया सत्तया वा सदृशास् ते सर्वे समांशिन एव स्युः । ये पुनर् विद्यादेर् असत्तया सत्तया व विसदृशास् तेषां मध्ये यो विद्याद्युपेतः स एवोद्धारेण वा विषमविभागेन वाधिकं धनं लब्धुम् अर्हतीत्य् अर्थः । तत्रापि कर्मानुष्ठातृत्वतारतम्ये लभ्यधनपरिमाणश्रेष्ठ्ययोस् तारतम्यं भवति । न पुनर् विद्वत्तातारतम्येनेत्य् आह कात्यायनः ।

यथा यथा विभागाप्तं धनं यागार्थताम् इयात् ।
तथा तथा विधातव्यं विद्वद्भिर् भागगौरवम् ॥ इति ।

द्रव्यबाहुल्ये सतीति शेषः । अत एव मनुः ।

उद्धारो न दशस्व् अस्ति संपन्नानां स्वकर्मसु ।
यत् किंचिद् एव देयं स्याज् ज्यायसे मानवर्धनम् ॥ इति ।

ज्येष्ठादेर् अर्पणार्थं विभाज्यद्रव्यराशेः सकाशाद् यो ऽर्थ उद्ध्रियते स उद्धारः । दशसु कतिपयेषु जीवनपर्याप्तधनेष्व् इति यावत् । स्वकर्मसु स्वाधिकारतो ऽनुष्ठेयकर्मसु संपन्नानां कर्तृत्वम् आपन्नानाम् अशेषभ्रातॄणां द्रव्यबाहुल्ये सत्य् अपि कर्मनिष्ठत्वसाम्याद् उद्धारो मानवर्धनार्थदानं च नास्ति । किं तु स्वल्पधनशालिषु विद्यादितो विसदृशेषु जीवनमात्रपर्याप्तधनत्वेनानुद्धारे ऽपि संमानार्थं ज्यायसे किंचिद् वस्त्रमात्रं देयमित्य् अर्थः । एवं च येषां भ्रातॄणां प्रभूतं धनं विद्यते, विद्यादौ च तारतम्यम् अस्ति तेषां विभागे उद्धार इति मन्तव्यम् । उद्धारप्रकारम् अप्य् आह मनुः ।

ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।
ततो ऽर्थं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥

ज्येष्ठस्य अग्रजस्य विद्यादिवशाद् उत्तमस्य विभाज्यद्रव्यराशेर् विंशतितमो भागः, तस्मिन्न् एव राशौ श्रेष्ठम् एकं च द्रव्यम् उद्धारः । ततो ऽर्थं तस्मिन्न् एव राशौ चत्वारिंशत्तमो भागो मध्यमम् एकं द्रव्यं जन्मतो विद्यादिवशतश् च मध्यमस्योद्धारः । तुरीयं तस्मिन्न् एव राशौ अशीतितमो भागः कणिष्ठम् एकं दर्व्यं जन्मतो विद्यावशाच् च यवीयस उद्धार स्याद् इत्य् अर्थः । अविशिष्टस्य च राशेर् विभागप्रकारम् आह स एव ।

एवं समुद्धृतोद्धारे समानंशान् प्रकल्पयेत् । इति ।

उद्धृतावशिष्टम् समं निभजेद् इत्य् अर्थः । अथ वा तस्मिन्न् एव विषये विषमविभाग एव स्यान् नोद्धार इत्य् आह् स एव ।

उद्धारे ऽनुद्धृते त्व् एषाम् इयं स्याद् अंशकल्पना ।
एकाधिकं हर्ज् ज्येष्ठः पुत्रो ऽध्यर्थं ततो ऽनुजः ॥
अंशम् अंशं यवीयांस इति धर्म व्यवस्थितः ॥

एकाधिकम् अंशं द्व्यंशम् इत् यवत्, “द्व्यंशी वा पूर्वजः स्यात्” इति गौतमस्मरणात् । पूर्वजो विध्यादिनापि ज्येष्ठ इत्य् अर्थः । अत एव बृहस्पतिः ।

जन्मविद्यागुणज्येष्ठो द्व्यंशं दायम् अवाप्नुयात् । इति ।

एवं च न जन्मतः प्राथम्यादिमात्रम् उद्धारे विषमविभागे वा कारणम्, किं तु विद्यादिनिबन्धनश्रेष्ठत्वाद्युपेतं प्राथम्यादिकम् इति मन्तव्यम् । अयं च विषमविभागप्रकारः कलियुगे तु न वर्तत् इत्य् आह संग्रहकारः ।

यथा नियोगधर्मो ऽद्य नानूबन्ध्यावधो ऽपि वा ।
तथोद्धारविभागो ऽपि नैव संप्रति वर्तते ॥

अद्य संप्रतीत्य् एतौ शब्दौ कलियुगम् अभिसंधायोक्तौ । अत एव पुराणम् ।

ऊढायाः पुनर् उद्वाहं ज्येष्ठांशं गोवधं तथा ।
कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥

ज्येष्ठांशं जन्मविद्यादिनिबन्धनश्रेष्ठांशम् । गोवधम् अनूबन्ध्यादिकर्माङ्गम् । कमण्डलुं गृहिणः कमण्डलुधारणम् । एतद् एव धारेश्वरेणोक्तम् - “ज्येष्ठस्य विंश उद्धारः इत्येवमादीनि वाक्यानि न विचार्यन्ते लोकेन अत्यन्तं परित्यक्तत्वात्” इति । कलाव् इति शेषः, द्वापरादाव् अनुष्ठेयत्वेनात्यन्तं परित्यागाभावात् । यत् पुनर् विश्वरूपेणोक्तम्, “यथा

महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।

इत्यस्य शिष्टाचारेण बाधितत्वाद् अकरणम्, एवम् एवोद्धारस्यापि” इति, तद् अयुक्तम्, स्मृतिशिष्टाचारयोर् विरोधे शिष्टाचारस्यैव दुर्बलस्य बाध्यत्वात् । दुर्बलत्वं च “श्रुतिस्मृतिविहितो धर्मस् तदलाभे शिष्टाचारः प्रमाणम्” इति वसिष्ठस्मरणाद् अवगम्यते । किं च महोक्षादेर् अनुपकल्पनं शिष्टाचाराभाव एवं न पुनः शिष्टाचार इति शिष्टाचारेण बधितत्वाद् इत्य् अयुक्तम् उक्तम्, “शिष्टाचाराभावाद् अकरणम्” इति श्रीकरोक्तिवद् वक्तव्यम्, न च तथोक्तम् । यत् पुनर् विज्ञानेश्वरेणोक्तम् - “सत्यम् अयं विषमो विभागः शास्त्रदृष्टः, तथापि लोकविद्विष्टत्वान् नानुष्ठेयः” इति, एतद् अपि वाङ्मात्रम् । न ह्य् उद्धारविभागादौ लोकविद्वेशो ऽस्ति, प्रत्युत विद्यागुणपुण्यकर्मसंपन्नज्येष्ठादौ भागाधिक्ये लोकानुरागो दृश्यत इति यत् किंचिद् एतत् । ये पुनः स्मृतिसमुच्चयकाराः शम्भुश्रीकरदेवस्वाम्यादयः उद्धारविषमविभागयोः शिष्टाचारं क्वापि मन्यमाना उद्धारादिविषयाणि बहूनि स्मृतिवाक्यानि विचारयितुं ग्रन्थविस्तरं चक्रिरे । तेषां धर्मज्ञसमयपुराणवचनाभ्यां कलौ सर्वत्र शिष्टाचाराभावस्य निश्चितत्वाद् वृथैव प्रयासो ग्रन्थविस्तरश् च जात इत्य् अस्माभिर् उद्धारादिविषये दिङ्मात्रम् एव प्रदर्शितम् ॥

इति स्मृतिचन्द्रिकायां विषमविभागप्रकारः

अजीवद्विभागविषयान्तराणि

अथान्यान्य् अप्य् अजीवद्विभागविषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र वसिष्ठः - “अथ भ्रातॄणां दयविभागो याश् चानपत्याः स्त्रियस् तासां चा पुत्रलाभात्” इति । याः पितृस्त्रियो ऽनपत्या गर्भावस्थापत्यास् तासाम् आ पुत्रलाभाद् आ प्रसवात् सहवासेन स्थितानां भ्रातॄणां प्रसूतापत्यलिङ्गानानन्तरं दायविभागो न पुनर् एवंविधविषये नवश्राद्धानन्तरं दायविभागो न पुनर् एवंविधविषये नवश्राद्धानन्तरं दायविभाग इत्य् अर्थः । नन्व् अस्य वचनस्य नवश्राद्धानन्तरं भ्रातॄणाम् अनपत्यपितृस्त्रीणां च दायविभागो भवतीति ऋज्वर्थः किम् इति परित्यज्यते । उच्यते - अनपत्यस्त्रीणाम् आ पुत्रलाभाद् इति विरुद्धार्थावगतेस् तत्परिहाराय परित्यज्यते । स्त्रीणाम् अदायानां दायविभागासंभवाच् च परित्यज्यते । स्त्रीणाम् अदायानां दायविभागासंभवाच् च परित्यज्यते । तथा च अर्हति स्त्रीत्य् अनुवृत्तौ बोधायनः - “न दायं निरिन्द्रिया ह्य् अदायाश् च स्त्रियो मता इति श्रुतिः” इति । हिशब्दो ऽत्र यस्मादर्थे । एवं चायम् अर्थः - यस्मान् निरिन्द्रिया व्याध्यादिनापगतेन्द्रियाः स्त्रियश् चादाया मता इति श्रुतिस् तस्मान् न स्त्री दायं विभक्तव्या, अन्यद्वारागत तद्द्रव्यम् अर्हतीति । “निरिन्द्रिया अदायाश् च स्त्रियो मताः” इत्य् अनेन “तस्मात् स्त्रियो निरिन्द्रिया अदायादीः” इति तैत्तिरीयकश्रुतिर् अर्थतः प्रदर्शितेति मन्तव्यम् । यद्य् अदायाः स्त्रियः कथं तर्हि याज्ञवल्क्येनोक्तम्,

पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेत् ।

इति, कथितं च व्यासेन,

असुतास् तु पितुः पत्न्यः समानांशाः प्रकीर्तिताः ।
पितामह्यश् च सर्वास् ता मातृतुल्याः प्रकीर्तिताः॥

इति, कथितं च विष्णुना - “मातरः पुत्रभागानुसारिभागहारिण्य अनूढाश् च दुहितरः” इति । न हि स्त्रीणां दायानर्हत्वे मात्रादीनां दुहित्रन्तानाम् अंशभागित्वोक्तिर् युज्यते । बाढं युज्यते, दायानर्हाणां तु दायराहित्वोक्तिर् विरुध्यते, न पुनर् अंशहारित्वोक्तिः । अंशशब्दो हि भागवचनो न दायवचनः, गणद्रव्यादाव् अप्य् अंशो देय इति प्रयोगदर्शनात् । तेन मात्रादीनां दायद्रव्याभावे ऽपि विभाज्यराशौ स्वाम्यस्य पत्न्यधिकरणसिद्धस्य विद्यमानत्वात् तत्र यावदर्थम् अर्थहरणं स्वकीयस्वाम्यव्यवस्थापकं मात्रादिभिर् अपि कार्यम् इति याज्ञवल्क्यादिभिर् उक्तम् इति मन्तव्यम् । न च दायशब्दो “यद् धनं स्वामिसंबन्धाद् एव निमित्ताद् अन्यस्य स्वं भवति तद् उच्यते” इति दायशब्दार्थनिरूपणार्थं मिताक्षरायाम् उक्तं युक्तम् । एवं हि नित्यं विभागार्हम् एव त्वन्मते पत्नीस्वं भवेत् दायशब्दार्थत्वात् । लोके दम्पत्योर् धने विभागार्हद्रव्यम् एव हि दायशब्देन प्रयुज्यते । त्वन्मते पत्नीस्वं पतिसंबन्धाद् एव भवतीति तस्यापि दायत्वापत्तिः । ततश् च “अदायाः स्त्रियः” इति श्रुतिविरोधो दुर्वारः स्यात् । अस्मिन् मते तु विभागार्हं स्वस्वामिसंबन्धाद् एव निमित्ताद् अन्यस्य स्वं जातं दायशब्दार्थ इति विभागानर्हं पत्नीस्वं न दायः । तथा हि, पतिद्वारागतं जायाधनं नित्यं विभागानर्हम् एव, लोके दम्पत्योर् धने विभागादर्शनात्, “जायापत्योर् न विभागो विद्यते,” इति हारीतस्मरणाच् च । तेनात्र न मातुः स्वाम्यव्यवस्थापको दायविभागः, किं तु यावदर्थम् एवार्थग्रहणम् इति मन्तव्यम् । अत एव स्मृत्यन्तरे निर्धनमातृविषयम् एवांशहरणं न मातृमात्रविषयम् एव ज्ञायते,

जनन्य् अस्वधना पुत्रैर् विभागे ऽंशं समं हरेत् ।

इति स्मरणात् । अस्वधना प्रातिस्विकस्त्रीधनशून्या जननी पुत्रैर् अजीवद्विभागे क्रियमाणे पुत्रांशसमम् अंशं हरेद् इत्य् अर्थः । जननीग्रहणं तत्स्पत्न्यादेर् उपलक्षणार्थम्, अस्वधनेतिविशेषणोपादानात् । स्वधनाद् एव स्वकीयजीवनस्य स्वानुष्ठेयस्य च धनसाध्यकर्मणः सिद्धिसंभवे जनन्यादीनां न भागग्रहणम् इति गम्यते । तथा स्वधनमात्रात् तयोः सिद्ध्यसंभवे जनन्यादीनां सधनानाम् अपि न समभागहरणम्, किं तु यथोपयोगं न्यूनभागस्यैव ग्रहणम् इति च गम्यते, तथा विभाज्यराशेर् अतिबहुत्वे निर्धनानाम् अपि जनन्यादीनां न समांशग्रहणम्, किं तु यथास्वोपयोगं न्यूनस्यैव हरणम् इत्य् अपि गम्यते, अस्वधनेति विशेषणस्योपयोगवशाद् अंशहरणम् जनन्याः न पुनः भ्रातृवद् दायभागित्ववशाद् इति ज्ञापनार्थत्वात् । समम् इति विशेषणस्य तूपयोगवशाद् असमांशस्य हरणे ऽप्य् अवैयर्थ्यम्, अल्पविभाज्यराशाव् उपयोगवशाद् अधिकहरणस्य प्राप्तस्य निवृत्त्यर्थत्वात् । यत् पुनर् विष्णुना दुहितॄणां पुत्रभागानुसारिभागहारित्वम् उक्तम्, तत्रापि जन्मना लब्धस्वाम्यस्य पितृमरणे ऽप्य् अस्वतन्त्रावस्थस्याप्य् अविभाज्यस्यादायत्वात्, अनूढा इति विशेषणोपादानाच् च विवाहार्थं पुत्रभागानुसारिभगहरणं न पुनः भ्रातॄणाम् इव दुहितॄणां दायविभागार्थम् इति गम्यते । यत एव न दायविभागार्थम् अंशहरणं किं तु विवाहसंस्कारार्थम् अत एव विभाज्यधनबाहुल्याभावविषयम् एतद् इति वक्ष्यते । अत एव च देवलेनोक्तम् ।

कन्याभ्यश् च पितृद्रव्ये देयं वैवाहिकं वसु ।

विवाहप्रयोजकं धनम् इत्य् अर्थः । अत एव च संस्कार्या इत्य् अनुवृत्तौ याज्ञवल्क्येनोक्तम् ।

भगिन्यश् च निजाद् अंशाद् दत्वांशं तु तुरीयकम् । इति ।

एकस्य पुत्रस्य यावान् निजांशस् तच्चतुर्थांशं प्रतिभगिनि प्रदाय भ्रातृभिर् भगिन्यः संस्कार्या विवाहयितव्या इत्य् अर्थः । स्मृत्यन्तरे ऽपि ।

भ्रातृभ्यो ऽंशचतुर्भागं तत्र कन्या हरेद् धनम् । इति ।

भ्रातृभ्यः सकाशाद् अंशं चतुर्थांशं धनं तत्र अजीवद्विभागे एकैका कन्या हरेद् इत्य् अर्थः । अनल्पविभाज्यविषयम् एतत् । तथा च कात्यायनः ।

कन्यकानां त्व् अदत्तानां चतुर्थो भाग इष्तते ।
पुत्राणां तु त्रयो भागाः साम्यं तु अल्पधने स्मृतम् ॥

कन्यकानां प्रत्येकम् इति शेषः । एवं पुत्राणाम् इत्य् अत्रापि शेषो द्रष्टव्यः । अल्पे विभाज्यधने पुत्रभागसाम्यं त्व् एकैककन्यकाभागस्य विष्ण्वादिना स्मृतम् इति तुरीयपादार्थः । एवं चानल्पे विभाज्यधने चतुर्थो भाग इति पारिशेष्याद् अवगम्यते । “पुत्राणां तु त्रयो भागाः” इत्य् एतत् समसंख्याकभ्रातृभगिनीविषयम् । यत्र तु भगिन्यो न्यूनसंख्याकास् तत्र पुत्राणां न त्रयो भागाः किं तु किंचिद् अभ्यधिकाः । यत् पुनर् मनुनोक्तम्,

स्वेभ्यो ऽंशेभ्यस् तु कन्याभ्यः प्रदद्युर् भ्रातरः पृथक् ।
स्वात् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर् अदित्सवः ॥

इति, यद्य् अप्य् अत्र स्वात् स्वाद् इति वीप्सया यावन्तो भ्रातॄणाम् अंशास् तावन्त एव चतुर्थांशाः कन्याभ्यो भ्रातृभिः प्रदेया इति ऋञ्वर्थः प्रतिभाति । तथाप्य् अधिकसंख्याककन्याविषयत्वान् न प्राचीनस्मृतिविरोधः । न चात्रैकैकस्याः स्वात् स्वाद् अंशाच् चतुर्थांशदानम्, येन प्राचीनस्मृतिविरोधः । किं तु समुदायस्येति सुतराम् अविरोधः । दत्तं च कन्याभिः समत्वेन विभज्य ग्राह्यम् । यत् पुनर् विष्णुनोक्तम् - “अनूढानां च कन्यानाम् अंशवान् स्ववित्तानुसारेण संस्कारं कुर्यात्” इति, तद् एकपुत्रतया दायविभागाभावविषयम् । यद् वा भ्रातॄणां सहवासविषयम् । कन्याग्रहणम् असंस्कृतानां पितुर् अपत्यानाम् उपलक्षणार्थम् । अत एव व्यासः ।

असंस्कृतास् तु ये तत्र पैतृकाद् एव ते धनात् ।
संस्कार्या भ्रातृभिर् ज्येष्ठैः कन्यकाश् च यथाविधि ॥

बृहस्पतिः ।

असंस्कृता भ्रातरस् तु ये स्युस् तत्र यवीयसः ।
संस्कर्याः पूर्वजैस् ते वै पैतृकान् मध्यकाद् धनात् ॥

तत्र अजीवत्पितृकेषु भ्रातृष्व् इत्य् अर्थः । असंस्कृताः पित्रेति शेषः । अत एव नारदः ।

येषां वै न कृताः पित्रा संस्कारविधयः क्रमात् ।
कर्तव्या भ्रातृभिस् तेषां पैतृकाद् एव ते धनात् ॥

पैतृकधनाभावे ऽप्य् आह स एव ।

अविद्यमाने पित्र्ये ऽर्थे स्वांशाद् उद्धृत्य वा पुनः ।
अवश्यकार्याः संस्कारा भ्रातॄणां पूर्वसंस्कृतैः ॥

संस्कारा जातकर्माद्या उपनयनान्ता विवक्षिताः, अवश्यकार्या इत्य् अभिधानात् । विवाहादिसंस्कारस्य तु नैष्ठिकत्वादिपक्षान्तरदर्शनाद् अवश्यकार्यताभावात् संस्कारशब्दस्य संकोचो ऽत्र विवक्षित इत्य् अनवद्यम् । कन्यकानां तु विवाहान्ताः संस्कारा उपनयनरहिताः पित्र्यार्थाभावे स्वार्थाद् उद्धृत्य कार्याः, विवाहस्योपनयनस्थानत्वेनावश्यकार्यत्वात् । विभागकाले ऽन्यद् अपि धनं कन्यका स्वधृतालंकारादिकं लभत इत्य् आह शङ्खः - “विभज्यमाने दायाद्ये कन्यालंकारे वैवाहिकं स्त्रीधनं च कन्या लभेत्” इति । दायाद्ये दायधने भ्रातृभिर् विभज्यमाने कन्या स्वधृतालंकारं वैवाहिकं तुरीयांशादिधनं स्त्रीधनं च पित्रादिना दत्तं लभेद् इत्य् अर्थः । बोधायनो ऽपि - “मातुर् अलंकारं दुहितरः सांप्रदायिकं लभेरन् अन्यद् वा” इति । सांप्रदायिकं मातृपरंपरायातम् । अन्यत् तद् इतरद् वा मात्रा धृतम् अलंकारं मातृकं तत्र विभयमाने दुहितरः कुमार्यो लभेरन्न् इत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायाम् अजीवद्विभागविषयाणि

दायांशानर्ह-विषयान्तराणि

अथ अन्यान्य् अपि दायांशानर्हविषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र देवलः ।

मृते न पितरि क्लीबकुष्ठ्युन्मत्तजडान्धकाः ।
पतितः पतितापत्यं लिङ्गी दायांशभागिनः ॥

मृते पितरि क्लीबादयो धनांशभागिनो न भवन्तीत्य् अर्थः । लिङ्गी नैष्ठिकवनस्थादिः । क्षपणकपाशुपतादिश् चात्र विवक्षितः । मृते पितरीति विभागकालप्रदर्शनार्थम् उक्तम् । तेन पितरि जीवत्य् अपि जीवद्विभागे क्लीबादयो दायभागिनो न भवन्ति । अत एव जीवद्विभागे ऽप्य् अभागित्वम् एतेषां वक्तुम् उक्तम् आपस्तम्बेन - “जीवन् पुत्रेभ्यो दायं विभजेत् समं क्लीबम् उन्मत्तं पतितं च परिहाप्य” इति । चशब्दः कुष्ठिजडान्धादीनां संग्रहार्थः । परिहाप्य वर्जयित्वेत्य् अर्थः । मनुर् अप्य् अनंशभागिन आह ।

अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश् च ये च केचिन् निरिन्द्रियाः ॥

निरिन्द्रियाः व्याध्यादिना विनष्टघ्राणादीन्द्रियाः । नारदो ऽपि ।

पितृद्विट् पतितः षण्डो यश् च स्याद् अपपात्रितः ।
औरसा अपि नैते ऽंशं लभेरन् क्षेत्रजाः कुतः ॥

अपपात्रितः अपपात्रीकृतः, “अपपात्रितस्य रिक्थपिण्डोदकानि व्यावर्तन्ते” इति शङ्खलिखितस्मरणात् । अपपात्रितस्य महापराधेन बन्धुभिर् बहिष्कृतस्येत्य् अर्थः । वसिष्ठो ऽप् - “अनंशास् त्व् आश्रमान्तरगताः” इति । गृहस्थाश्रमम् अपेक्ष्येति शेषः । न चैवम् उपकुर्वाणस्य ब्रह्मचारिविशेषस्याप्य् अंशशून्यत्वम् आयातम् इति वाच्यम्, गृहस्थाश्रमानर्हत्वकार्याश्रमान्तरस्यात्र विवक्षितत्वात् । विष्णुर् अपि - “पतितक्लीबाचिक्त्स्यरोगविकलास् त्व् अभागहराः” इति । विकलः इन्द्रियविकलः । अचिकित्स्यरोग इति वदन् अचिक्त्स्यक्लैब्यवैकल्यादिशालिनो ऽप्य् अभागहरा इति दर्शयति । तेन विभागकालस्थितक्लैब्यादिशालिनाम् अभागहरत्वं न पुनः सहजबाधिर्यक्लैब्यादिशालिनाम् एवेति मन्तव्यम् । कात्यायनः ।

अक्रमोढासुतश् चैव सगोत्राद्यस् तु जायते ।
प्रव्रज्यावसितश् चैव न रिक्तं तेषु चार्हति ॥

अक्रमोढासुतो वर्णक्रमजन्मक्रमातिक्रमेण परिणीतायाः सुतो यः । तथा सगोत्रात् सगोत्रस्त्रीपरिणेतुः सकाशाद् यः सुतः सगोत्रस्त्रियां जायते । तथा प्रव्रज्यावसितः स्वीकृतचतुर्थाश्रमत्यागी यो भवेत् । तेष्व् अक्रमोड्ःआसुतादिषु रिक्थं प्राप्तुं नार्हति, ते रिक्थानर्हा इत्य् अर्थः । मनुर् अपि ।

अनियुक्तासुतश् चैव पित्रिण्याप्तश् च देवरात् ।
उभौ तौ नार्हतो भागं जारजातककामजौ ॥

अनियुक्तायां परस्त्रियाम् अपरिणेतुः सकाशाद् उत्पन्नः सुतो जारजातकः, स्वार्थे कप्रत्ययः । परिणेत्रोत्पन्नपुत्रवत्यां देवरात् उत्पन्नः कामजः । ताव् उभौ भागं नार्हत इत्य् अर्थः । एतद् उक्तं भवति - जारजातः नियोगविध्यतिक्रमेण जातश् च क्षेत्रिणो धनभागं नार्हतीति । बृहस्पतिर् अपि ।

सवर्णजो ऽप्य् अगुणवान् नार्हः स्यात् पैतृके धने । इति ।

अगुणवान् पितृदृष्टादृष्टकार्योपयोगिगुणरहितः । तथा चानन्तरम् उक्तं तेनैव ।

उत्तमर्णाधमर्णाभ्यां पितरं त्रायते सुतः ।
अतस् तु विपरीतेन नास्ति तेन प्रयोजनम् ॥
तथा गवा किं क्रियते या न दोग्ध्री न गर्भिणी ।
को ऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः ॥
शास्रशौर्यार्थरहितस् तपोविज्ञानवर्जितः ।
आचारहीनः पुत्रस् तु मूत्रोच्चारसमः स्मृतः ॥ इति ।

उत्तमम् ऋणम् ऋषिदेवपितॄणाम् । अधमम् ऋणं धनिकहस्तात् गृहीतम् । यथा विद्यादिरहितः सूनुर् औरसो ऽपि हेयभूत इति मूत्रोच्चारसम इत्य् उक्तम् । मनुर् अपि ।

सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् । इति ।

विकर्मस्थाः निषिद्धकर्मैकनिरताः । धनं विभाज्यधनम् । एवं निरूपितनिरंशकाः सर्वे पोषणीयाः । तथा च याज्ञवल्क्यः ।

क्लीबो ऽथ पतितस् तज्जः पङ्गुर् उन्मत्तको जडः ।
अन्धो ऽचिकित्स्यरोगाद्या भर्तव्याश् तु निरंशकाः ॥

तज्जः पतितोत्पन्नः । आद्यशब्देनान्येषां प्राक्प्रतिपादितानां ग्रहणम् । भर्तव्याः दायहरैर् इत् शेषः, “रिक्थग्राहिभिस् ते भर्तव्याः” इत् विष्णुस्मरणात् । कथं भर्तव्या इत्य् अपेक्षिते मनुः ।

सर्वेषाम् अपि तु न्याय्यं दातुं शक्यं मनीषिणा ।
ग्रासाच्छादनम् अत्यन्तं पतितो ह्य् अददद् भवेत् ॥

अत्यन्तं यावज्जीवम् इत्य् अर्थः । कात्यायनः ।

ग्रासाच्छादनम् अत्यन्तं देयं तद्बन्धुभिर् मतम् ।
बन्धूनाम् अप्य् अभावे तु पितृद्रव्यं तदाप्नुयात् ॥
अपित्र्यं द्रविणं प्राप्तं दापनीया न बान्धवाः ॥ इति ।

तद्बन्धुभिः निरंशकबन्धुभिः । तत्पितृद्रव्यग्राहिभिर् ग्रासाच्छादनं देयम् इति मन्वादीनां मतम् इत्य् अर्थः । अपित्र्यम् इत्यादेर् अयम् अर्थः । निरंशकपितृद्रविणं तद्बन्धुभिर् अप्राप्तम्, राज्ञा तद्बन्धवो भरणाय न दापनीया इति । एतद् उक्तं भवति । निरंशकपितृधनाग्राहकबान्धवानाम् आवश्यकं निरंशकभरणम् इति । एवम् अशेषनिरंशकानां भरणं प्राप्तं कस्यचित् पर्युदासं कुर्वन्न् आह देवलः ।

तेषां पतितवर्ज्येभ्यो भक्तवस्तं प्रदीयते । इति ।

पतितोत्पन्नस्यापि पतितत्वात् सो ऽपि वर्ज्यः । अत एव बोधयनः - “अतीतव्यवहारान् ग्रासाच्छादनैः बिभृयुः अन्धजडक्लीबव्यसनिव्याधितादींश् चाकर्मिणः पतिततज्जातवर्ज्यम्” इति । अतीतव्यवहाराः मूकादयः । अकर्मिणः धर्मार्थवृत्त्यर्थकर्मस्व् अक्षमाः । वसिष्ठस् तु तन्त्रोक्यैव चतुर्णां भरणप्रतिषेधम् आह - “अनंशास् त्व् आश्रमान्तरगताः क्लीबोन्मत्तपतिताश् च भरणं क्लीबोन्मत्तानाम्” इति । अत्र विशेषग्रहणं शेषप्रतिषेधार्थम् इति न्यायेन पतिताश्रमान्तरगतविषयस्य भरणस्य प्रतिषेधो गम्यते । आश्रमान्तरगतिम् अन्तरेण प्रव्रज्यावसितत्वासंभवात् प्रव्रज्यावसितविषयभरणस्यापि प्रतिषेधो ऽत्रावगम्यते । एवं च पतिततज्जाताश्रमान्तरगतप्रव्रज्यावसिततज्जातानां निरंशकानां भरणम् अनावश्यकम् इति मन्तव्यम् । निरंशकपुत्राणाम् अंशग्रहणविरोधिक्लैब्याद्याभावे ऽपि निरंशकपुत्रत्वेन पैतामहधनानर्हत्वे प्राप्ते तदपवादम् आह देवलः ।

तत्पुत्राः पितृदायांशं लभेरन् दोषवर्जिताः । इति ।

तत्पुत्राः निरंशकपुत्राः । अंशग्रहणविरोधिक्लैब्यादिदोषवर्जिताः पितृदायांशं पैतामहधनांशं लभेरन्न् इत्य् अर्थः । न चेदं वचनं पतितापत्यस्यापि पैतामहधनभागित्वं प्रापयति तत्पुत्रा इति सामान्येनाभिधानाद् इति शङ्कनीयम्, दोषवर्जिता इत्य् अनेन व्यदस्तत्वात् । पतितस्यापि पुमपत्यं पतितम् एव भवति । तथा च वसिष्ठः - “पतितोत्पन्नः पतितो भवतीत्य् आहुर् अन्यत्र स्त्रियाः सा हि परगामिनी” इति । पतितस्य पुत्रवत् प्रतिलोमायाः स्त्रियाः पुत्रस्य पुत्रो ऽपि पैतामहधनानर्हः अंशग्रहणविरोधिदोषसद्भावात् । अत एव विष्णुः - “तेषाम् एवौरसाः पुत्रा भागहारिणो न तु पतितस्य पतनीये कृते कर्मण्य् अनन्तरोत्पन्नाः प्रतिलोमासु स्त्रीषूत्पन्नाश् चाभागिनस् तत्पुत्राः पैतामहे ऽप्य् अर्थे” इति । अनन्तरोत्पन्नाः पश्चाद् उत्पन्नाः, आनन्तर्यस्याविवक्षितत्वात् । ते तु न भागहारिणः । एवं प्रव्रज्यावसितादिपुत्रेषु यत्र यत्र अंशग्रहणविरोधिदोषो ऽस्ति तत्र तत्र पैतामहधनाभागित्वं विज्ञेयम् । क्षेत्रजपुत्रविषये ऽप्य् उक्तं याज्ञवल्क्येन,

औरसक्षेत्रजास् तेषां निर्दोषा भागहारिणः ।

इति, तत् द्वापरादिविषयम् इति मन्तव्यम्, कलौ क्षेत्रजपुत्रनिषेधात् । सदोषास् त्व् औरसादयो भर्तव्या इत्य् एतत्

अन्धोचिक्त्स्यरोगाद्या भर्तव्यास् तु निरंशकाः ।

इत्य् अनेनैवोक्तम् इतीह नोक्तम्, किं तु पूर्वं यन् नोक्तं तद् आह स एव ।

सुताश् चैषां प्रभर्तव्या यावद् वै भर्तृसात्कृताः ।
अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः ॥
निर्वास्या व्यभिचारिण्यः प्रतिकूलास् तथैव च ॥ इति ।

सुताः कन्यकाः एषां निरंशकानाम् । भर्तव्याः निरंशकपितृद्रव्यग्राहिभिर् निरंशकभरणप्रकारेणैव । या वज्जीवम् इत्य् अस्यापवादो “यावद् वै भर्तृसात्कृताः” इति,यावद् विवाहसंस्कृता भवन्ति तावद् एवत्य् अपवादभागस्यार्थः । एषां निरंशकानाम् अपुत्रा योषितः परिणीताः स्त्रियः सदाचारा निरंशकपितृद्रव्यग्राहिभिर् एव निरंशकभरणप्रकारेणैव भर्तव्याः । व्यभिचारिण्यः भरणकर्तुः प्रतिकूलाश् च गृहाद् बहिः कार्याः । तत्रासाधुवृत्तयो निर्वासिता न भर्तव्याः । प्रतिकूलास् तु निर्वासिता न भर्तव्याः ॥

इति स्मृतिचन्द्रिकायाम् अंशानर्हविषयाणि

विभाज्यनिरूपणम्

अथ विभाज्यनिरूपणम्

तत्र कात्यायनः ।

पैतामहं च पित्र्यं च यच् चान्यत् स्वयम् आर्जितम् ।
दायादानां विभागे तु सर्वम् एतद् विभज्यते ॥

स्वयम् आर्जितं पित्र्याद्यविभक्तद्रव्योपयोगेन स्वयम् आर्जितम्, तदनुपयोगेन स्वयम् आर्जितस्याविभाज्यत्वात् । एवं त्रिविधं धनं सर्वं विभज्यते । यदि नास्ति पितामहादिकृतम् ऋणादिकम् इति शेषः । अस्ति चेन् न सर्वम्, अपि तु ऋणादिकं दत्वावशिष्टं विभज्यते । तथा च स एव ।

ऋणं प्रीतिप्रदानं तु दत्वा शेषं विभाजयेत् । इति ।

प्रीतिप्रदानं प्रीत्या प्रदत्तं शेषं विभाजयेद् इति वदन् विभाज्यबाहुल्यविषयम् एतद् इति दर्शयति । तद्बाहुल्यविषये तु रिक्थवद् ऋणम् अपि विभाज्यम् इत्य् अजीवद्विभागप्रकरणे प्रदर्शितम् । विभागकाले यद् ऋणं प्रीतिदेयं तस्याकूटत्वनिश्चयार्थं बन्धुभिः सह रिक्थग्राहिभिस् तद्विचार्यम् इत्य् आह स एव ।

ऋणम् एवंविधं शोध्य विभागे बन्धुभिः सह । इति ।

वञ्चनर्हं रिक्थम् अपि विशोध्यम् इत्य् आह स एव ।

गृहोपस्करवाह्याश् च दोह्याभरणकर्मिणः ।
दृश्यमाना विभज्यन्ते कोशं गूढे ऽब्रवीद् भृगुः ॥

कर्मिणः कर्मकरा दासादयः । गूढे द्रव्ये वञ्चनाशङ्कायां कोशाख्यं दिव्यं भृगुर् अब्रवीद् इत्य् अर्थः । तथा च स एव ।

गूढद्रव्याभिशङ्कायां प्रत्ययस् तत्र कीर्तितः । इति ।

प्रययो दिव्यम्, तद् अपि कोशाख्यम् एवेत्य् उक्तं प्राक् । बृहस्पतिर् अप्य् अत्र तद् एव दिव्यं भवतीत्य् आह ।

गृहोपस्करवाह्यादिदोह्याभरणकर्मिणः ।
दृश्यमाना विभज्यन्ते गूढे कोशो विधीयते ॥

न च कोशग्रहणं यथाप्राप्तदिव्योपलक्षणार्थम् इति वाच्यम्,

शङ्काविश्वाससंधाने विभागे रिक्थिनां सदा ।
क्रियासमूहकर्तृत्वे कोशम् एव प्रदापयेत् ॥

इति कात्यायनीये विभागविषये ऽभिहिते ऽपि कोशे पुनर् इह विषयाभिधानस्य नियमार्थत्वात् । तेन बार्हस्पत्ये ऽपि कोशग्रहणं नियमार्थम् एव ॥

इति स्मृतिचन्द्रिकायां विभाज्यनिरूपणम्

अविभाज्यनिरूपणम्

अथ अविभाज्यनिरूपणम्

तत्र व्यासः ।

विद्याप्राप्तं शौर्यधनं यच् च सौदायिकं भवेत् ।
विभागकाले तत् तस्य नान्वेष्टव्यं स्वरिक्थिभिः ॥

विद्याप्राप्तशब्देनात्र न विद्यामात्रप्राप्तं धनम् उच्यते, किं तु विद्याविशेषप्राप्तम् । तथा च कात्यायनः ।

परभक्तोपयोगेन विद्या प्राप्तान्यतस् तु या ।
तया प्राप्तं धनं यत् तु विद्याप्राप्तं तद् उच्यते ॥

परान्यशब्दाव् अत्राविभक्तापेक्षया यद् व्यक्त्यन्तरं तत्र प्रयुक्तौ । भक्तसब्दो ऽत्र द्रव्यमात्रोपलक्षकतया प्रयुक्तः । उक्तलक्षणया विद्यया धनप्राप्तौ निमित्तत्वम् अनेकविधम् इति निमित्तभावभेदेन तत्प्राप्तं धनम् अप्य् अनेकविधम्, तत् सर्वम् अविभाज्यम् इति संक्षेपतो विद्याप्राप्तशब्देनैव व्यासेनाभिहितम् । तत् स्वग्रन्थे प्रपञ्चितुम् अप्य् आह कात्यायनः ।

उपन्यस्ते तु यल् लब्धं विद्यया पणपूर्वकम् ।
विद्याधनं तु तद् विद्याद् विभागे न विभज्यते ॥
शिष्याद् आर्त्विज्यतः प्रश्नात् संदिग्धप्रश्ननिर्णयात् ।
स्वज्ञानशंसनद् वादाल् लब्धं प्राध्ययनाच् च यत् ॥
विधाधनं तु तत् प्राहुर् विभागे न विभज्यते ।
परं निरस्य यल् लब्धं विद्यातो द्यूतपूर्वकम् ॥
विद्याधनं तु तद् विद्यान् न विभाज्यं बृहस्पतिः ।
विद्याप्रतिज्ञया लब्धं शिष्याद् आप्तं च यद् भवेत् ॥
ऋत्विङ्न्यायेन यल् लब्धम् एतद् विद्याधनं भृगुः ।
शिल्पिष्व् अपि हि धर्मो ऽयं मूल्याद् यच् चाधिकं भवेत् ॥
विद्याबलकृतं चैव याज्यतः शिष्यतस् तथा ।
एतद् विद्याधनं प्राहुः सामान्यं यद् अतो ऽन्यथा ॥ इति ।

उपन्यस्ते वर्गत्यागादिवैचित्र्येणोपन्यस्ते । शिष्यात् अध्यापनात् । आर्त्विज्यतः आर्त्विज्यकरणात् । प्रश्नात् उपपातक्यादिकृतप्रायश्चित्तार्थप्रश्नात् । संदिघप्रश्ननिर्णयात् अर्थ्यादिकृतप्रश्नप्रतिप्रश्नयोर् निर्णयात् । स्वज्ञानशंसनात् अग्रपूजादौ स्वज्ञानप्रख्यापनात् । वादात् जल्पवितण्डादिभेदात् । प्राध्ययनात् घटिकाध्ययनात् ।विद्यातः अक्षहृदयज्ञानादिना । विद्याप्रतिज्ञया बहुविद्याढ्यत्वप्रतिज्ञया । शिष्याद् आप्तं गुरुपूजनार्थम् । ऋत्विङ्न्यायेन लब्धम् उपद्रष्टृत्वादिना लब्धम् । शिल्पिष्व् अपि शिल्पिविध्योपजीविष्व् अपि । अयं विद्याधनविभागरूपो धर्मो ऽस्ति । मूल्यात् भृतेः यद् धनम् अधिकं भृतकाध्ययनादौ भवेत् । तथा विद्याबलकृतं विद्याधिक्यकृतं यद् विशिष्टपूजादौ भवेत् । तथा विद्याबलकृतं विद्याधिक्यकृतं यद्विशिष्टपूजादौ भवेत् । तथा याज्यतः शिष्यतः सत्कारादौ भवेत् । तद् एतद् विध्याधनं प्रातिस्विकं प्राहुः । अतो विद्याधनाद् यदन्यथाभूतं विभक्तपित्रादिद्रव्योपयोगेन प्राप्तं तद्विभक्तानां सामान्यं साधारणं विभाज्यम् इति यावत् । शेषं व्यक्तार्थम् । नारदो ऽपि सामान्यं विद्याधनम् आह ।

कुटुम्बं बिभृयाद् भ्रातुर् यो विद्याम् अधिगच्छति ।
भागं विद्याधनात् तस्मात् स लभेताश्रितो ऽपि सन् ॥

अविभक्तधनोपयोगेन प्राप्तविद्याधनस्य विभाज्यत्वप्रदर्शनार्थम् एतत् । आश्रितो ऽपि अविद्यो ऽईत्य् अर्थः । एवम् अविभक्तपित्रादिग्राहितविद्यालब्धम् अपि धनं विभाज्यम् । तथा च कात्यायनः ।

कुले विनीतविद्यानां भ्रातॄणां पितृतो ऽपि वा ।
शौर्यप्राप्तं तु यद् वित्तं विभाज्यं तद् बृहस्पतिः ॥ इति ।

अविभक्तस्वकुले पितृद्रव्यादेः पितृतो ऽपि वा शिक्षितविद्यानां यद् वित्तं शौर्यादिप्राप्तं विद्ययैव प्राप्तं तत् विद्याधनं विभाज्यं बृहस्पतिर् अब्रवीद् इत्य् अर्थः । विभाज्यविद्याधने भागाधिक्यम् आरकस्यास्ति, “येन चैषां स्वयम् आर्जितं स्यात् स द्व्यंशम् एव हरेत्” इति वसिष्ठस्मरणात् । गौतमस् त्व् अविभाज्यविद्याधने ऽपि अंशदानम् आर्जकेच्छयापि क्वचिद् आह - “स्वयम् आर्जितं वैद्येभ्यो वैद्याः कामं दद्यात्” इत् । वैद्येभ्यः विद्यावद्भ्यः । नारदस् तु इच्छाशून्यो न दद्याद् इत्य् आह ।

वैद्यो वैद्याय नाकामो दद्याद् अंशं स्वतो धनात् ।
पितृद्रव्यं समाश्रित्य न चेत् तेन तद् आहृतम् ॥

पूर्वार्धे यद् धनाद् इति सामान्येनोक्तं तद् अविभाज्यविद्याधनविषयम् इत्य् उत्तरार्धेनावगन्तव्यम् । अवैद्याय सकामो ऽपि न दद्यात् । तथा च कात्यायनः ।

अविद्यानां तु वैद्येन देयं विद्याधनात् क्वचित् ।
समविद्याधिकानां तु देयं वैद्येन तद् धनम् ॥

अवैद्यानां न क्वचिद् देयम्, सकामेनापि न देयम् इत्य् अर्थः । शौर्यधनं च तेनैव निरूपितम् ।

आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते ।
तस्मिन् कर्मणि तुष्टेन प्रसादः स्वामिना कृतः ॥
तत्र लब्धं तु यत् किंचित् धनं शौर्येण तद् भवेत् ॥ इति ।

प्रसभो बलात्कारः । अन्यद् अप्य् अविभाज्यम् आह स एव ।

ध्वजाहृतं भवेद् यत् तु विभाज्यं नैव तत् स्मृतम् । इति ।

ध्वजाहृतपदप्रतिपाद्यम् अप्य् उक्तं तेनैव ।

संग्रामाद् आहृतं यत् तु विद्राव्य द्विषतां बलम् ।
स्वाम्यर्थे जीवितं त्यक्त्वा तद् ध्वजाहृतम् उच्यते ॥

एतद् अपि शौर्यधनशब्देनैव व्यासेनाभिहितम्, तद्वेइशेषत्वात् । कात्यायनेन भेदेन ध्वजाहृतस्याभिधानं प्रपञ्चनार्थम् इति मन्तव्यम् । अत्रापि विद्याप्राप्तवद् अविभाज्यत्वे पित्राद्यविभक्तधनानुपयोगेनार्जनं प्रयोजकम् इत्य् अवगन्तव्यम् । अत एव तदुपयोगेनार्जितं विषमविभागेन विभाज्यं भवतीत्य् आह व्यासः ।

साधारणं समाश्रित्य यत् किंचिद् वाहानायुधम् ।
शौर्यादिनाप्नोति धनं भ्रातरस् तत्र भागिनः ॥
तस्य भागद्वयं देयं शेषास् तु समभागिनः ॥ इति ।

साधारणं विभक्तानां धनम् । भ्रातृग्रहणम् अविभक्तोपलक्षणार्थम् । तस्य साधारणधनाश्रयाद् आर्जितस्येत्य् अर्थः । शौर्यादिनेति वदन् अन्यत्रापि धने कन्यागतवैवाहिकादौ साधारणं समाश्रित्य विवाहेन प्राप्ते विभाज्यत्वं दर्शयति । कन्यागतवैवहिकयोः स्वरूपम् आह कात्यायनः ।

यल् लब्धं दानकाले तु सजात्या कन्यया सह ।
कन्यागतं तु तद् वित्तं शुद्धं वृद्धिकरं स्मृतम् ॥
वैवाहिकं तु तद् विद्यात् भार्यया यत् सहागतम् ।
धनम् एवंविधं सर्वं विज्ञेयं धर्मसधकम् ॥ इति ।

कन्यागतं कन्यया सहागतम् । स्त्रीधनस्य तु सर्वविधस्यापि अविभाज्यत्वम् आह स एव ।

विवाहकाले यत् किंचिद् वरयोद्दिश्य दीयते ।
कन्यायास् तद् धनं सर्वम् अविभाज्यं च बन्धुभिः ॥
शौर्यप्राप्तं विद्यया च स्त्रीधनं चैव यत् स्मृतम् ।
एतत् सर्वं विभागे तु न च वैभाज्यम् अर्थिभिः ॥

बृहस्पतिर् अप्य् अविभाज्यधनम् आह ।

पितामहपितृभ्यां च दत्तं मात्रा च यद् भवेत् ।
तस्य तन् नापहर्तव्यं शौर्यभार्याधनं तथा ॥

मातृदत्ते तु विशेषम् आह नारदः ।

मात्रा च यद् धनं यस्मै स्यात् प्रीतिपूर्वकम् ।
तस्याप्य् एष विधिर् दृष्टो मातापीष्टे तथा पिता ॥

स्वधन इति शेषः । एष विधिः पितृदत्तविषयोक्तो विधिः । एवं मित्रदत्तादिकम् अप्य् अविभाज्यम् । तथा च याज्ञवल्क्यः ।

पितृद्रव्याविरोधेन यद् अन्यत् स्वयम् आर्जितम् ।
मैत्रम् औद्वाहिकं चैव माधुपर्किकम् एव च ॥ इति ।

मनुनात्र माधुपर्किकस्याप्य् अविभाज्यत्वम् उक्तम् ।

पितृद्रव्याविरोधेन यद् अन्यत् स्वयम् आर्जितम् ।

इत्य् अस्यार्थो मनुना स्पष्टीकृतः ।

अनुपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जयेत् । इति ।

उभयत्र पितृग्रहणम् अविभक्तोपलक्षणार्थम् । श्रमेण श्रमजनकेन कृष्यादिनेति यावत् । अनुपघ्नन् अपीडयन् । व्यासो ऽपि ।

अनाश्रित्य पितृद्रव्यं स्वशक्त्याप्नोति यद् धनम् ।
दायादेभ्यो न तद् दद्यात् ॥॥॥॥॥॥॥॥॥। ॥

अनाश्रित्य आर्जनसिद्ध्यर्थम् इत् शेषः । पितृग्रहणम् अविभक्तोपलक्षणार्थम् अत्रापि । प्रजापतिर् अपि ।

विद्याशौर्यश्रमैर् लब्धं स्त्रीधनं माधुपर्किकम् ।
मैत्रम् औद्वाहिकं भ्रातुः भ्रातृभिर् न विभज्यते ॥

श्रमः कृष्यादिः । एवं पूर्वपुरुषक्रमायातं परापहृतं स्वशक्त्याभ्युद्धृतं द्रव्यं दायादेभ्यो न दद्यात्,

क्रमाद् अभ्यागतद्रव्यं हृतम् अभ्युद्धरेत् तु यः ।
दायादेभ्यो न तद् दद्यात् ॥॥॥॥॥॥॥॥॥ ॥

इति याज्ञवल्क्यस्मरणात् । द्रव्यं भूव्यतिरिक्तम् । भूद्रव्ये ऽप्य् आह शङ्खः ।

पूर्वनष्टां तु यो भूमिम् एकश् चाभ्युद्धरेत् क्रमात् ।
यथाभागं लभन्ते ऽन्ये दत्वांशं तु तुरीयकम् ॥

क्रमाद् अभ्यागतां पुत्रपौत्रादीनां मध्ये यः पूर्वं नष्टां परापहृतां भूमिं स्वशक्त्याभ्युद्धरेत् तस्मै तच्चतुर्थांशं दत्वा शेषम् उद्धारकेण सहान्ये विभजेरन्न् इत्य् अर्थः । केचित् — अभ्युद्धृतं त्वम् एव गृहाणेत्य् अन्यानुमतिम् अन्तरेणाभ्युद्धृतभूम्यादिसर्वद्रव्यविषयम् एतद् वचनम्, याज्ञवल्क्यवचनं त्व् अन्यानुमत्याभ्युद्धृतभूम्यादिसर्वद्रव्यविषयम् — इति वदन्ति । यद् अत्र युक्तं तद् ग्राह्यम् । परेणापह्नुतुस्य (?) तु भूम्यादिद्रव्यस्योद्धारे व्यासेनोक्तम् ।

कृते ऽकृते वा विभागे रिक्थी यत्र प्रवर्तते ।
सामान्यं चेद् भावयति तत्र भागहरस् तु सः ॥

परापह्नुतं विभाज्यधनं यो रिक्थी साधयति स तत्र साधिते धने द्व्यंशी स्याद् इत्य् अर्थः । अन्यद् अप्य् अविभाज्यम् आह मनुः ।

वस्त्रं पत्रम् अलंकारं कृतान्नम् उदकं स्त्रियः ।
योगक्षेमप्रचारं च न विभाज्यं प्रचक्षते ॥

वस्त्रम् अविभक्तप्रावृतं वस्त्रम्, “यच् चाङ्गयोजितम्” इति कात्यायनस्मरणात् । पत्रं पत्रारूढम् ऋणम्, “धनं पत्रनिविष्टम्” इति तेनैवोक्तत्वात् । स्त्रियो दास्यः । उदकं स्वनिवेशनस्थकूपवाप्याद्यम्भः । योगक्षेमशब्दौ लोकाक्षिणा व्याख्यातौ ।

क्षेमं पूर्तं योगम् इष्टम् इत्य् आहुस् तत्त्वदर्शिनः ।
अविभाज्ये तु ते प्रोक्ते ॥॥॥॥॥॥॥॥॥॥॥। ॥ इति ।

अथ वा योगक्षेमार्थम् उपासितेश्वरसकाशाद् यो रिक्थिनां लाभः स एवात्र योगक्षेमशब्देनोच्यते । प्रचारशब्देन गोप्रचार उच्यते, कात्यायनेन “गोप्रचारश् च” इति विशेषितत्वात् । अथ वा प्रचारशब्देनाङ्कणादिकम् उच्यते । अविभाज्यं प्रचक्षते विचारहीनाः केचन स्मृतिकारा इति शेषः । अत एव बृहस्पतिः ।

वस्त्रादयो विभाज्या यैर् उक्तास् तैर् न विचारितम् ।
धनं भवेत् समृद्धानां पत्रालंकारसंश्रितम् ॥
युक्त्या विभजनीयं तद् अन्यथानर्थकं भवेत् ॥ इति ।

यद्य् अपि वस्त्रादाव् एकस्मिन् वस्त्रे धारणाय विभागे क्रियमाणे वस्तुनाशः । ऋणलेख्ये तु तत्प्रामाण्यनाशः । कृतान्ने प्रभूते विभज्यमाने स्वल्पाशनभोक्तृविषये तन्नाशः । कूपादौ तु दुष्करो विभाग इति अविभाज्यत्वम् एव भाति, तथापि यथा वस्तुनाशाद्यनवतारः तथा युक्त्या विभजनीयम्, अन्यथा साधारणतयावस्थिते सत्यसूयया परस्परोपभोगप्रतिबन्धे कस्यचिद् अप्य् उपकाराभावाद् अनर्थकं भवेद् इत्य् अर्थः । युक्त्या विभजनप्रकारो ऽपि तेनैव दर्शितः ।

विक्रीय वस्त्राभरणम् ऋणम् उद्ग्राह्य लेखितम् ।
कृतान्नं चाकृतान्नेन परिवर्त्य विभज्यते ॥
उद्धृत्य कूपवाप्यम्भस् त्व् अनुसारेण गृह्यते ।
एकां स्त्रीं कारयेत् कर्म यथांशेन गृहे गृहे ॥
बह्व्यः समांशतो देया दासानाम् अप्य् अयं विधिः ।
योगक्षेमवतो लाभः समत्वेन विभज्यते ॥
प्रचारश् च यथांशेन कर्तव्यो रिक्थिभिः सदा ॥ इति ।

ऋणम् उद्ग्राह्य अधमर्णसकाशाद् आदाय । अनुसारेण स्वभागानुसारेणेत्य् अर्थः । एवं च यद् उक्तम् उशनसा ।

अविभाज्यं सगोत्राणाम् आ सहस्रकुलाद् अपि ।
याज्यञ्ं क्षेत्रं च पत्रं च कृतान्नम् उदकं स्त्रियः ॥ इति ।

एतद् अपि अनादृत्य युक्त्या याज्यं च क्षेत्रं च विभजनीयम् । तथा हि — याज्यसकाशाद् उत्पन्नो लाभो विभजनीयः । क्षेत्रं तु अखिलदायादानुमत्या विभजनीयम्,

दायादैर् नाभ्यनुज्ञातं यत् किंचित् स्थावरे कृतम् ।
तत् सर्वम् अकृतं ज्ञेयं यद्य् एको ऽपि न मन्यते ॥

इति प्रजापतिस्मरणात् । यत् पुनस् तेनैवोक्तम्,

गृहक्षेत्राणि याज्याश् च प्रसादो यश् च पैतृकः ।
मातृकश् च प्रसादो यः तद्विभागो न विद्यते ॥ इति ।

तत्र तावद् विभागनिषेधम् अनादृत्यैव युक्त्या पूर्वोक्तप्रकारेण गृहादिकं विभजनीयम् । तथा च कात्यायनः,

दृश्यमानं विभज्येत गृहं क्षेत्रं चतुष्पदम् ।

इति गृहादेर् अपि विभागम् आह । पितृप्रसादलब्धस्य निषेधो ऽपि स्थावरे ऽनादृत्य एव,

पितृप्रसादात् सिध्यन्ति वस्त्राण्य् आभरणानि च ।
स्थावराणि न सिध्यन्ति प्रसादे पैतृके सति ॥

इति याज्ञवल्क्यस्मरणात् । यत् पुनस् तेनैव स्मृतम्,

लोके रिक्थविभागे ऽपि न कश्चित् प्रभुताम् इयात् ।
भोग एव तु कर्तव्यो न दानं न च विक्रयः ॥ इति ।

लोके कुलक्रमायाते स्थावरादौ न कश्चित् पित्रादिर् अपि रिक्थविभागे, अपिशब्दात् विक्रयादाव् अपि न प्रभुताम् इयात् । तेन तत्र दायादानुमतिम् अन्तरेण न विभागविक्रयदानानि कुर्याद् इति तस्यार्थः॥

**इति स्मृतिचन्द्रिकायाम् अविभाज्यनिरूपणम् **

पुत्रपौत्रादिविभाग-विषयाः

अथ पुत्रपौत्रादिविभाग-विषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र याज्ञवल्क्यः ।

प्रमीतपितृकाणां तु पितृतो भागकल्पना । इति ।

प्रमीता अविभक्ताः पितरो येषां भ्रातॄणां ते प्रमीतपितृकाः । तेषां पितृतो भागकल्पना । पितृद्वारेणैव पितृपितामहप्रपितामहद्रव्यविभागकल्पना, न पुनः स्वरूपेणेत्य् अर्थः । पितृतो भागकल्पनायां को विशेष इत्य् अपेक्षिते बृहस्पतिः ।

तत्पुत्रा विxअमसमाः पितृभागहराः स्म्र्ताः । इति ।

तत्पुत्राः प्रमीतपितृकाणाम् एकैकस्य पुत्रा विषमसमाः न्यूनाधिकसंख्याकाः स्वं स्वं पैतृकं भागम् एव लभन्त इत्य् अर्थः । एतद् उक्तं भवति - कस्यचित् प्रमीतस्य पितुर् एक एव पुत्रः, कस्यचित् द्वौ पुत्रौ, कस्चचिद् बहवः तत्र यथैकः स्वपितृभागहरः तथैव द्वाव् अपि स्वपितृभागमात्रहतौ । तथैव बहवो ऽपि स्वपितृभागमात्रहराः स्मृता इति । यद्य् अपि पितृभागमात्रहरत्वे नैकपितृकाणां पितृतो भागकल्पना स्वाम्याननुरूपा, तथापि वाचनिकत्वाद् अनुमन्तव्या । यदा ससुतयोर् अविभक्तयोर् भ्रात्रोः मध्ये कश्चिद् भ्राता मृतः तत्सुतस् तु पितामहाद् अप्य् अप्राप्तांशकः, पितामहो ऽपि नसीत्, तदा कात्यायन आह ।

अविभक्ते ऽनुजे प्रेते तत्सुतं रिक्थभागिनम् ।
कुर्वीत जीवनं येन लब्धं नैव पितामहात् ॥
लभेतांशं स पित्र्यं तु पितृव्यात् तस्य वा सुतात् ॥ इति ।

जीवनं दायधनम् । अनुजग्रहणं मृतभ्रातुर् उपलक्षणार्थम् । अस्मिन्न् एव विषये यदा प्रमीतस्य सुता बहवः तदाप्य् आह स एव ।

स एवांशस् तु सर्वेषां भ्रातॄणां न्यायतो भवेत् । इति ।

न्यायतो भवेत्, “समं स्याद् अश्रुतत्वात्” इति न्यायेन मिथः समभागतया भवेद् इत्य् अर्थः । यद् अपरं स एवाह ।

लभेत तत्सुतो वापि निवृत्तिः परतो भवेत् । इति ।

तस्यायम् अर्थःॡ तस्य विभाज्यधनस्वामिपौत्रस्य सुतो ऽपि वा स्वपितुर् अभावे तद्भागं लभेत, अथ तस्याप्य् अभावः किं तु तत्सुताद् एव विद्यमानत्वं तदा तु मृतभ्रातृसन्ततौ वृद्धप्रपितामहधनभागग्रहणनिवृत्तिर् इति । ननु प्रपौत्रस्य प्रपितामहधनग्रहणम् अपि न घटते, जन्मना पितृपितामहयोर् एव धने पुत्रपौत्रयोर् एव स्वत्वसिद्धिनियमात् । सत्यम्, यथा पुत्रादेर् मातृधने पिण्डं दत्वा तदैव मातुर् ऊर्ध्वं स्वत्वसिद्धिः जीवनक्रियया भवतीति वक्ष्यते तथा प्रपितामहधने प्रपौत्रस्यापि स्वत्वसिद्धिर् इति युक्तम् उक्तम् “लभेत तत्सुतो वापि” इति । एवं च यो यस्य धनस्वामिनः प्रमीतस्य पितृत्वेन पितामहत्वेन वा पिण्डदाता तस्य तद्धनभागित्वं धनस्वामिनः संतत्यन्तरे सत्य् अपि विद्यत इत्य् अवगन्तव्यम् । अत एव देवलः ।

समम् इच्छन्ति पिण्डानां दायार्थस्य विभाजनम् । इति ।

आ चतुर्थाद् दायार्थस्य विभागं पिण्डदातृत्वं च मन्वादय इच्छन्तीत्य् अर्थः । तथा च स एव ।

अविभक्तविभक्तानां कुल्यानां वसतां सह ।
भूयो दायविभागः स्याद् आ चतुर्थाद् इति स्थितिः ॥
तावत् कुल्याः सपिण्डाः स्युः पिण्डभेदस् ततः परम् । इति ।

अविभक्तविभक्तानाम् अविभक्तधनानां विभिन्नसंततिजातानां कूटस्थकुल्यानां भूयश् चिरं सहवसताम् आ चतुर्थात् कूटस्थप्रपौत्रपर्यन्तं दायधनविभागः स्याद् इत्य् अनेकसंततिकदायविभागमर्यादेयम् इत्य् अर्थः । जीवत्पितृकस्य पुनः पित्रा सह कथं पैतामहधनविभाग इत्य् अपेक्षिते कात्यायनः ।

पैतामहं समानं स्यात् पितुः पुत्रस्य चोभयोः । इति ।

व्यासो ऽपि ।

क्रमायाते गृहक्षेत्रे पुत्रपौत्राः समांशिनः । इति ।

बृहस्पतिर् अपि ।

द्रव्ये पितामहोपात्ते जङ्गमे स्थावरे ऽपि वा ।
समम् अंशित्वम् आख्यातं पितुः पुत्रस्य चैव हि ॥

याज्ञवल्क्यः ।

भूर् या पितामहोपात्ता निबन्धो द्रव्यम् एव वा ।
तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥

निबन्धः करतया याचकादिभिः पण्यदिषु गृह्यमाणो ऽंशः । सदृशं स्वाम्यं स्याद् इत्य् अनयैव वचोभङ्ग्या समांशत्वम् एवोक्तम् इति मन्तव्यम् । अन्यथा पूर्वोक्तवचनसमानार्थता स्वरसतो युक्ता न स्यात् । एवं च जीवद्विभागे पितामहादिधनविषये विषमविभागो न कदाचिद् अपीति मन्तव्यम् । स्वार्जितधनविषये तु विषमविभागो ऽपि युगान्तरे कदाचिद् अस्तीति जीवद्विभागप्रकरणे ऽभिहितम् । केचिद् यथाश्रुतार्थताम् एव चास्य वचनस्याङ्गीक्कुर्वन्ति । तथा च पौत्रमात्रेच्छयापि पितामहधनविभागो भवति । पितुर् इच्छामात्रेण च क्रमायातधनदानादिकं न भवति, तत्र पौत्रस्यापि स्वाम्याभिधानाद् इत्य् आहुः । तद् अत्रापि ग्राह्यम्, आञ्जसत्वात्, “अर्थे पैतामहे पितृपुत्र्योस् तुल्यं स्वाम्यम्” इति विष्णुनाप्य् उक्तत्वात् । अत्रार्थाद् अतुल्यं स्वाम्यं पितृपुत्रयोः पितृधन इति गम्यते । ननु पैतामहे पैतृके च जन्मनैव स्वाम्यम् इति का तत्र तुल्यातुल्यता । उच्यते - पैतामहे धने पितृपुत्रयोः स्वाम्ये स्वातन्त्र्यम् एव तुल्यता । पैतृके तु जीवति पितरि निर्दोषे तस्यैव स्वातन्त्र्यम् इत्य् अतुल्यता । अनेनैव भेदेन स्वाम्ये तुल्यात्य्ल्योक्तिः । यत् तु कत्यायनेनोक्तम्,

स्वयं चोपार्जिते पित्रा न पुत्रः स्वाम्यम् अर्हति ।

इति, एतत् पुत्रमात्रेच्छया पैतृकधनविभानर्हतां (?) वचोभङ्ग्या वक्ति, न पुनर् यथाश्रुतार्थपरम् इत्य् अनवद्यम् । व्यासेन तु स्पष्टम् एवोक्तम् ।

पैतृके न विभागर्हाः पुत्राः पितुर् अनिच्छतः । इति ।

यत् पुनर् बृहस्पतिनोक्तम्,

पैतामहं हृतं पित्रा स्वशक्त्या यद् उपार्जितम् ।
विद्याशौर्यादिनावाप्तं तत्र स्वाम्यं पितुः स्मृतम् ॥

इति, तत्रापि स्वाम्यम् इत्य् अनेन वचोभङ्ग्या पितुः स्वातन्त्र्यम् उक्तम् इति मन्तव्यम् । स्वातन्त्र्याभिधानस्य प्रयोजनम् अप्य् आह स एव ।

प्रदानं स्वेच्छया कुर्याद् भोगं कुर्यात् ततो धनात् ।
तदभावे तु तनयाः समांशाः परिकीर्तिताः ॥ इति ।

सुतानुमतिम् अन्तरेणापि पितुः स्वातन्त्र्यबलाद् दानादिकं जीवद्विभागोक्तविषयविशेषे विषमविभागकल्पनं च युज्यत इति तात्पर्यार्थः । स्वार्जितप्रायं यत् क्रमायातम्, यच् च स्वार्जितं पितृधनं तद्विभागे पुत्रैर् बलाद्कारो न कार्य इति वचोभङ्ग्याह कात्यायनः ।

स्वशक्त्यापहृतं नष्टं स्वयम् आप्तं च यद् भवेत् ।
एतत् सर्वं पिता पुत्रैर् विभागे नैव दाप्यते ॥

यत् परैर् अपहृतं क्रमायातं स्वशक्त्यैवोद्धृतम्, यद् विनष्टं वा क्रमायातं स्वेनैव लब्धम्, यच् च विद्याशौर्यादिना स्वयम् एवार्जितम् एतत् सर्वं पिता विभागे पुत्रैर् न दाप्य इत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायां पुत्रपौत्रादिविभागकल्पनाविषयाणि

स्त्रीधनविभागविषयाः

अथ स्त्रीधनविभागविषयाणि

तत्रादौ तावत् स्त्रीधनभेदान् आह मनुः ।

अध्यग्न्यध्यावहनिकं दत्तं च प्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥

अत्र पूर्वार्धस्यार्थः कात्यायनेन विवृतः ।

विवाहकाले यत् स्त्रीभ्यो दीयते ह्य् अग्निसंनिधौ ।
तद् अध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥
यत् पुनर् लभते नारी नीयमाना पितुर् गृहात् ।
अध्यावहनिकं चैव स्त्रीधनं तद् उदाहृतम् ॥
प्रीत्या दत्तं तु यत् किंचित् श्वश्र्वा व श्वशुरेण वा ।
पादवन्दनिकं चैव प्रीतिदत्तं तद् उच्यते ॥ इति ।

पादवन्दनिकं पादवन्दनावसरे दत्तम् । भ्रातृमातृपितृप्राप्तं यदा कदा वा जीवनर्थम् इति शेषः । षड्विधग्रहणम् उत्तरार्धोक्तम् एव स्त्रीधनम् इति भ्रमापनुत्त्यर्थं कृतम्, न पुनर् अवधारणार्थम् । अत एव,

मातापितृपतिभ्रातृदत्तम् अध्यग्न्युपागतम् ।
आधिवेदनिकाद्यं च ॥॥॥॥॥॥॥। ॥

इति याज्ञवल्क्येनाद्यग्रहणं कृतम् । विष्णुना तु षड्विधाद् अधिकम् उक्तम् - “पितृमातृसुतभ्रातृदत्तम् अध्यग्न्युपागतम् अधिवेदनिकं बन्धुदत्तं शुल्कम् अन्वाधेयिकं स्त्रीधनम्” इति । आधिवेदनिकम् अधिवेदननिमित्तम् । बन्धुदत्तम् इत्य् अत्र बन्धुशब्दः पूर्वोक्तपित्रादिव्यतिरिक्तबन्धुषु गोबलीवर्दन्यायाद् वर्तते । शुल्कान्वाधेयिकयोः स्वरूपं कात्यायनेनोक्तम् ।

गृहोपस्कारवाह्यानां दोह्याभरणकर्मिणाम् ।
मूल्यं लब्धं तु यत् किंचिच् छुल्कं तत् परिकीर्तितम् ॥
विवाहात् परतो यत् तु लब्धं भर्तृकुलात् स्त्रिया ।
भर्तुः पित्रोः सकाशाद् वा अन्वाधेयं तु तद् भृगुः ॥ इति ।

मूल्यं गृहोपस्करादिमूल्यम् लब्धं कन्याधनत्वेन वरादिसकाशात् कन्यार्हणोपाधितयेति शेषः । पितृमात्रादिभिः स्त्रियै जीवनार्थदानविषये विशेषम् आह स एव ।

पितृमातृपतिभ्रातृज्ञातिबिः स्त्रीधनं स्त्रियै ।
यथाशक्त्या द्विसाहस्राद् दातव्यं स्थावराद् ऋते ॥

यथाशक्ति स्थावरव्यतिरिक्तद्विसाहस्रकार्षापणपर्यन्तं दातव्यम् इत्य् अर्थः । व्यासो ऽपि ।

द्विसाहस्रः पणो दायः स्त्रियै देयो धनस्य च । इति ।

दीयत इति दायः । परः परमः । एवं च द्विसहस्रकार्षापणाधिकमूल्यो धनस्य भागो जीवनार्थम् ऋद्धेनापि न देय इति गम्यते । स्त्रियै देय इत्य् अत्र प्रत्यब्दम् इति विधेयसंख्या योग्यताबलाद् गम्यते । स्त्रियै देय इत्य् अत्र प्रत्यब्दम् इति विधेयसंख्या योग्यताबलाद् गम्यते । प्रत्यब्दम् असकृदर्पणे नियमो ऽयम् । अनेकाब्देषूपजीवनार्थं सकृद् एव दाने तु नयम् अविधिनियमो नापि स्थावरपर्युदासः । यत् तूत्सवादाव् एव धार्यम् इत्य् एवमाद्युपाधिनालंकारादिकं दत्तम्, यच् च दायाददिवञ्चनार्थं दत्तम्, तत् स्त्रीधनं न बवतीत्य् आह कात्ययनः ।

यत् तु सोपाधिकं दत्तं यच् च योगवशेन वा ।
पित्रा ब्रात्राथ वा पत्या न तत् स्त्रीधनम् इष्यते ॥

योगवशेन वञ्चनाद्युपायत एवेत्य् अर्थः । ननूपाधियोगयोर् अभावे ऽपि पित्रादिना दत्तं न स्त्रीधनं भवितुम् अर्हति,

भार्या पुत्रश् च दासश् च निर्धनाः सर्व एव ते ।
यत् ते समधिगच्छन्ति यस्यैते तस्य तद् धनम् ॥

इति स्मरणात् । मैवम्, पुत्रादिसाहचर्यान् नानेन परमार्थतो निर्धनत्वं भार्याया गम्यते, किं तु धनव्ययादाव् अस्वातन्त्र्यमात्रम् । तेन यस्य एते तस्यानुज्ञया स्वधनस्यापि विनियोगं भार्यादयः कुर्युर् इति स्मृतिवाक्यतात्पर्यम् अवसेयम् । अत एव चोक्तं मनुना ।

न निर्हारं स्त्रियः कुर्युः कुटुम्बाद् बहुमध्यगात् ।
स्वकाद् अपि च वित्ताद् धि स्वस्या भर्तुर् अनाज्ञया ॥

स्वतन्त्राननुज्ञ्या परतन्त्राः स्त्रियः स्त्रीपुंससाधारणवित्ताद् आत्मीयवित्ताद् वा त्यागभोगादिकं न कुर्युर् इत्य् अर्थः । अथ वा, निर्धनत्वाधिधायकस्मृतिवाक्यस्य शिल्पादिप्राप्तधनविषयत्वं विज्ञेयम् । तद् आह कात्यायनः ।

प्राप्तं शिक्ल्पैस् तु यद् वित्तं प्रीत्या चैव यद् अन्यतः ।
भर्तुः स्वाम्यं तदा तत्र शेषं तु स्त्रीधनं स्मृतम् ॥

अन्यतः सख्यादितः, पित्रादितः प्राप्तस्य स्त्रीधनत्वेन शेषकोटित्वात् ॥

**इति स्मृतिचन्द्रिकायां स्त्रीधनभेदाः **

स्त्रीधनकृत्यम्

अथ स्त्रीधनकृत्यम्

तत्र व्यासः ।

यच् च भर्त्रा धनं दत्तं सा यथाकामम् अश्नुयात् । इति ।

चशब्दात् “सौदायिकं यथाकामम्” इति वदन् भर्तृदायादौ स्वातन्त्र्यं दर्शयति । कात्यायनो ऽपि ।

सौदायिकं धनं यत् तु स्त्रीणां स्वातन्त्र्यम् इष्यते ।
तस्मात् तद् आनृशंस्यार्थं तैर् दत्तम् उपजीवनम् ॥
सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् ।
विक्रये चैव दाने च यथेष्टं स्थावरेष्व् अपि ॥
भर्तृदायं मृते पत्यौ विन्यसेत् स्त्री यथेष्टतः ।
विद्यमाने तु संरक्षेत् ॥॥॥॥॥॥॥॥॥॥॥ ॥ इति ।

द्वितीयश्लोकेन सौदायिकाख्यस्त्रीधने पत्यौ विद्यमाने ऽप्य् अविदमाने ऽपि स्वातन्त्र्यम् उक्तम्, सदेत्य् अभिधानात् । भर्तृदायो भर्तृदत्तम्, तस्मिन् धने तु तदनन्तरोक्तपादत्रयेनाविद्यमाने पत्यौ स्वातन्त्यम् उक्तम् । विद्यमाने तु संरक्षेत् भर्तृदत्तं भर्त्राज्ञया विन्यसेद् इत्य् अर्थः । सौदायिकपदं तेनैव निरूपितम् ।

ऊढया कन्यया वापि पत्युः पितृगृहे ऽपि वा ।
भ्रातुः सकाशात् पित्रोर् वा लब्धं सौदायिकं स्मृतम् ॥

लब्ध धनम् इति शेषः । तथा च व्यसः ।

यत् कन्यया विवाहे च विवाहात् परतश् च यत् ।
पितृभर्तृगृहात् प्राप्तं धनं सोदायिकं स्मृतम् ॥ इति ।

एतद्वचनद्वयेनैतद् उक्तं भवति । वाग्दानप्रभृति पतिगृहप्रवेशरूपोत्सवसमाप्तिपर्यन्तं पितृगृहे पतिगृहे वा पितृमातृपक्xअत एव स्त्रिया लब्धं यौतकादि धनं सौदायिकशब्दाभिधेयम् इति । ननु “यौतकादि तु यद् देयं सुदायः” इति निघण्टुपाठात् कथं सौदायिकशब्दो ऽत्र प्रयुक्तः । स्वार्थतद्धितान्ततयेत्य् अनवद्यम् । भर्तृदाये तु मृते भर्तरि न स्थावरे स्वातन्त्र्यम् । तथा च नारदः ।

भर्त्रा प्रीतेन यद् दत्तं स्त्रियै तस्मिन् मृते ऽपि तत् ।
सा यथाकामम् अश्नीयाद् दद्याद् वा स्थावराद् ऋते ॥

भर्तरि मृते ऽपि न तद्दत्तस्थावरे स्वातन्त्र्यम् इत्य् अर्थः । यथाकामम् इत्य् अनेन स्वातन्त्र्यम् उक्तम् । एवं च सौदायिके स्थावरेतरप्रीतिदत्ते च स्त्रीणां स्वातन्त्र्यम् अन्यत्र तु स्त्रीधने ऽप्य् अस्वातन्त्र्यम् इति मन्तव्यम् । पुरुषाणां तु स्त्रीधने सर्वत्रास्वातन्त्र्यम् एव । यद् आह कत्ययनः ।

न भर्ता नैव च सुतो न पिता भ्रातरो न च ।
आदाने च विसर्गे वा स्त्रीधने पर्भविष्णवः ॥

स्वामित्वाभावाद् इत्य् अभिप्रायः । अत एवानन्तरम् उक्तं तेनैव ।

यदि ह्य् एकतरो ऽप्य् एषां स्त्रीधनं भक्षयेद् बलात् ।
सवृद्धिकं प्रदाप्यः स्याद् दण्डं चैव समाप्नुयात् ॥
तद् एव यद्य् अनुज्ञाप्य भक्षयेत् प्रीतिपूर्वकम् ।
मूल्यम् एव प्रदाप्यः स्यात् यद्य् असौ धनवान् भवेत् ॥ इति ।

धनवान् यदि भवेद् इत्य् अभिधानात् मूल्यमात्रम् अपि निर्धनो न दाप्य इत्य् अर्थात् गम्यते । अनुज्ञाप्य भक्षणे ऽपि मूल्यप्रदानाभिधानात् भर्त्रादीनाम् अस्वातन्त्र्यम् अगगम्यते, न पुनः पारतन्त्र्यमात्रम् । एवं च विवाहेन भार्याया भर्तृधने नित्यपारतन्त्र्यं स्वामित्वं संपद्यते, न पुनर् भर्तुः भार्याधने तादृशम् अपीत्य् अवगन्तव्यम् । अत एव भर्तुः स्त्रीधनभोगे ऽप्य् अनर्हताम् आह देवलः ।

वृत्तिर् आभरणं शुल्कं लाभश् च स्त्रीधनं भवेत् ।
भोक्त्री तत् स्वयम् एवेदं पतिर् नार्हत्य् अनापदि ॥
वृथा मोक्षे च भोगे च स्त्रियै दद्यात् सवृद्धिकम् । इति ।

वृत्तिः वर्तनार्थं पित्रादिना दत्तम् । लभ्यत इति लाभः । एतद् उक्तं भवति - पार्वत्यादिप्रीत्यर्थं व्रतादौ स्त्रिया यल् लभ्यते तद् अपि स्त्रीधनम् इति । स्वयम् एवेत्य् एवकारः स्वापत्यानां व्युदासार्थः । भर्तृव्युदासस्य पतिर् नार्हतीत्य् अनेन सिद्धत्वात् । भर्तुर् व्युदासे ततो बहिरङ्गभ्रात्रादिव्युदासस्य दण्डापूपन्यायसिद्धत्वात् । वृथा आपदं विनेत्य् अर्थः । मोक्षस् त्यागः । स्त्रियाननुज्ञातबलात्काररहितत्यागभोगविषयम् एतत्, सवृद्धिकप्रदानस्य दण्डासहितस्याभिधानात् । पतिर् नार्हतीत्य् अनपदीति वदन् आपदि तु पतिर् एवार्हति स्त्रीधनं भोक्तुं नान्य इति दर्शयति । अत एव,

पुत्रार्तिहरणे वापि स्त्रीधनं भोक्तुम् अर्हति ।

इत्य् अनन्तरवचने भोक्तुम् अर्हतीत्य् अत्र पतिर् इति शेषो द्रष्टव्यः । पुत्रग्रहणं स्वकुटुम्बोपलक्षणार्थम् । आर्तिः धनालाभनिमित्ततो दुरपनोदात्र विवक्षिता । तस्याः हरणे परिहरेणे । वाशब्दाद् अन्यत्रापि धनालाभनिमित्ततो दुष्परिहरे महासङ्कटे स्त्रीधनम् अननुज्ञातम् अपि पतिर् भोक्तुं त्यक्तुं वार्हतीत्युक्तम् । ननु परधनत्यागभोगे परस्य स्वाम्यनुज्ञया विना कथम् अर्हता । उच्यते - स्वाम्यनुज्ञाभावे ऽपि पूर्वोक्तविषये स्वाधीनजनस्वाम्यके तु स्त्रीधने यथेष्टविनियोगानर्हे ऽप्य् आपदपनोदकत्यागभोगादाव् अर्हतास्तीत्य् अस्माद् एव वचनात् कल्प्यत इत्य् अदोषः । अत्र याज्ञवल्क्यः ।

दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।
गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुम् अर्हति ॥

धर्मकार्ये नित्ये नैमित्तिके च काम्ये ऽपि । क्वचिच् छान्तिके ग्रहयज्ञादौ । संप्रतिरोधके धनदानं विना निवारयितुम् अशक्ये धनिकासेधादौ । गृहीतं स्त्रीधनम्, गत्यन्तराभावेनेति शेषः । भर्ता प्रतिदानसमर्थधनाभावेन दरिद्रः इति शेषः, सति संभवे प्रतिदानस्यात्रावश्यकतात् । अत एव प्रतिदानस्य क्वचिद् एवावश्यकत्वम् उक्तं कात्यायनेन ।

व्याधितं व्यसनस्थं च धनिकैर् वोपपीडितम् ।
ज्ञात्वा निसृष्टं यत् प्रीत्या दद्याद् आत्मेच्छया तु सः ॥

ज्ञात्वा स्त्रियेति शेषः । निसृष्टम् अनुज्ञातम् । यद्य् अपीदं वचनं “न भर्ता नैव च सुतः” इत्यादिवचनत्रयानन्तर्यतो भर्त्रादिविषयम् इति प्रतिभाति, तथापि,

अथ चेत् स द्विभार्यः स्यान् न च ताम् भजते पुनः ।
प्रीत्या निसृष्टम् अपि चेत् प्रतिदाप्यः स तद्बलात् ॥
ग्रासाच्छादनवासानाम् आच्छेदो यत्र योषितः ।
तत्र स्वम् आददीत स्त्री ॥॥॥॥॥॥॥। ॥

इत्य् उपरितनवचनपर्यालोचनया भर्त्रेकविषयम् इति मन्तव्यम् । या पुनर् अतिदुष्टा स्त्री सा स्वधनम् अपि विनियोक्तुं नार्हतीत्य् आह स एव ।

अपकारक्रियायुक्ता निर्मर्यादार्थनाशिका ।
व्यभिचाररता या च स्त्रीधनं न च सार्हति ॥

स्वेच्छया विनियोक्तुम् इति शेषः । भर्त्राश्रुतं स्त्रीधनं त्व् अगृहीतम् अपि देयम्,

भर्त्रा प्रतिश्रुतं देयम् ऋणवत् स्त्रीधनं सुतैः ।

इति तेनैवोक्तत्वात् । सुतग्रहणं पौत्रस्याप्य् उपलक्षणम् ऋणवद् इत्य् अभिधानात् । अनेनापि स्त्रीधने सुतादीनां नास्ति स्वाम्यम् इति गम्यते । ततश् च स्त्रीधने जीवद्विभागो नस्त्य् एव स्त्र्येकस्वामिकत्वात् । अत एव मनुः ।

जीवन्तीनां तु तासां ये तद् धरेयुः स्वबान्धवाः ।
तान् शिष्याच् चोरदण्डेन धार्मिकः पृथिवीपतिः ॥
पत्यौ जीवति यः स्त्रीभिर् अलंकारो धृतो भवेत् ।
न तं भजेरन् दायादाः भजमानाः पतन्त्य् अधः ॥ इति ।

घृतः सातत्येनेति शेषः । सातत्येन धृते योगोपाधिराहित्येन स्त्रीधननिश्चयो भवति । पूर्वार्धस्य च निश्चितस्त्रीधनकथनार्थत्वात् सातत्येनेति शेषेण भाव्यम् इति गम्यते । दायादा दुहित्रादयः ।

इति स्मृतिचन्द्रिकायां स्त्रीधनकृत्यम्

स्त्रीद्वारागतधनविभागः

अथ स्त्रीद्वारागतधनविभागः

तत्र तावद् आगमनप्रकारम् आह मनुः ।

अन्वाधेयं च यद् दत्तं पत्या प्रीतेन चैव यत् ।
पत्यौ जीवति वृत्तायां प्रजायास् तद् धनं भवेत् ॥

अन्वाधेयं विवाहाद् ऊर्ध्वं स्त्रिया भर्तृकुलात् पितृकुलाच् च लब्धम्,

विवाहात् परतो यत् तु लब्धं भर्तृकुलात् स्त्रिया ।
अन्वाधेयं तु तद् द्रव्यं लब्धं पितृकुलात् तथा ॥

इति कात्यायनस्मरणात् । विवाहात् परत इत्य् अनेनान्वाधेयपदस्थानुशब्दार्थो विवृतः । लब्धम् इत्य् अनेन तत्रस्थाधेयशब्दार्थ इति मन्तव्यम् । यद् अन्वधेयम्, यच् च प्रीतेन पत्यैव दत्तं तद् द्विविधं स्त्रीधनं धनस्वामिन्यां मृतायाम् अनन्तरक्षणवर्तिन्याः स्त्रीपुंसप्रजायाः स्वं भवेद् इत्य् अर्थः । एतद् उक्तं भवति - सप्रजस्त्रीधनं धनस्वामिमरणानतरक्षणजीवनशालित्वे ऽपि न पत्युर् भवति, किं तु तच्छालिन्याः प्रजाया इति । एवं चास्माद् इदम् अवगम्यते - धनस्वामिन ऊर्ध्वं धनागमने धनस्वामिमरणान्तरक्षणजीवनक्रियैव धनग्रहणाधिकारितया धर्मशात्रप्रतिपादितजनस्य स्वत्वापत्तिकारणम् इति । तेन यत्र यत्र धनस्वामिन ऊर्ध्वम् एव धनागमनम् अपुत्रस्वर्यातधनदौ तत्र तत्र रिक्थग्राहिणः स्वत्वापत्ताव् इदम् एव कारणं कल्प्यम् । प्रजाया इति सामान्येनाभिधानाद् अत्र स्त्रीपुंसप्रजाया उक्तद्विविधरिक्थग्रहणाधिकारः समसमय एव ज्ञायत इति । स्वत्वापत्तिर् अपि तथैव, न पुनः पूर्वं भगिनीनां तदभावे भ्रातॄणां भवतीति मन्तव्यम् । विभागो ऽप्य् अत्र भ्रातृभगिनीकर्तृको विज्ञेयः । एवं च यद् उक्तम्,

जनन्यां संस्थितायां तु सर्वं सर्वे सहोदराः ।
भजेरन् मातृकं रिक्थं भगिन्यश् च सनाभयः ॥

इति, तत् स्वोक्तान्वाधेयादिद्विविधरिक्थविषयम् इति मन्तव्यम् । अस्मिन्न् एव विषये वेशेषम् आह बृहस्पतिः ।

स्त्रीधनं स्याद् अपत्यानां दुहिता च तदंशिनी ।
अप्रत्ता चेत् समुढा तु लभते सा न मातृकम् ॥

अपत्यानां पुत्रापत्यानाम् । वचनद्वये ऽपीतरेतरयोगे चशब्दः, तेनात्रेतरेतरयुक्तानां विभागकर्तृत्वं विज्ञेयम् । अत एव कात्यायनः ।

भगिन्यो बान्धवैः सार्धं विभजेरन् सभर्तृकाः । इति ।

बान्धवैः सहोदरैर् भ्रातृभिर् इत्य् अर्थः । सभर्तृका इति विशेषणं विधवानिवृत्त्यर्थम् । न पुनः कन्यानिवृत्त्यर्थम्, पूर्वोक्तवचनविरोधात् । सहोदरभ्रातृभिः सार्धं भागहरा भगिन्यो यास् ताः प्रकृत्याह मनुः ।

यास् तासां स्युर् दुहितरस् तासाम् अपि यथार्हतः ।
मातामह्या धनात् किंचित् प्रदेयं प्रीतिपूर्वकम् ॥

यथार्हतः शीलोपयोगदारिद्र्याद्यपेक्षयेत्य् अर्थः । ननु दुहितृदुहितॄणां भ्रातृभगिनीसद्भावे मातामहीधने स्वाचित्वाभावात् किम् इति किंचित् प्रदीयते । उच्यते - यथा पैतृके धने कन्यानां दायार्हत्वाभावे ऽपि वचनात् ताभ्यस् तुरीयांशो भ्रातृभिर् दीयते, तथात्र स्वामित्वाभावे ऽपि भ्रातृभगिनीभिर् वचनबलात् किंचिद् दीयते । इयांस् तु भेदः - तत्र दायानर्हत्वे ऽपि जन्मना स्वाम्यम् अस्तीत्य् अभिसंधाय “पतिताः स्युर् अदित्सवः” इति दोषकीर्तनाद् अवश्यं दातव्यम्, इह तु स्वामित्वम् अपि नास्तीत्य् अभिसंधाय प्रीतिपूर्वकम् इति स्ववचनात् प्रीतौ सत्यां देयम्, नो चेन् न देयम् इति । अन्यत् किंचिन् मातृकं रिक्थम् अप्रत्तानाम् एव न पुनः सर्वासां दुहितृसोदरप्रजानां भवतीत्य् आह स एव ।

मातुस् तु यौतकं यत् स्यात् कुमारीभाग एव सः । इति ।

यौतकं समानासनोपवेशनप्रत्यासन्नयोर् वधूवरयोर् विवाहादौ येन केनचित् समर्पितं धनम्,

तद्वधूवरयोर् देयं युतयोर् यौतकं मतम् ।

इति निघण्टुकारोक्तत्वात् । अन्योन्यान्वितयोर् वधूवरयोर् यद् देयं तद् धनं युतयोर् इदम् इति व्युत्पत्त्या यौतकं मतम् इत्य् अर्थः । देवस्वामी तु, “पितृगृहाल् लब्धं भर्तृगृहाल् लब्धापेक्षया पृथक्धनतया मातुर् यौतकं मातृधनं मातुर् एव” इत्य् आह । तच् चिन्त्यं पक्षद्वयस्यापि कल्पनामात्रत्वात् । कुमारीणाम् अनेकत्वे “समं स्याद् अश्रुतत्वात्” इति न्यायेन यौतकविभागः कार्यः भागविशेषास्मृतेः । एवम् उक्तं त्रिविधव्यतिरिक्तं मातृकं रिक्थं कुमारीणाम् अकुमारीणाम् अप्य् अप्रतिष्टितानाम् एव, न पुनः सर्वासां दुहितॄणाम् इत्य् आह गौतमः - “स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां च” इति । अध्यग्न्यादि स्त्रीधनं कुमारीणाम् अप्रतिष्ठितानाम् अनूढानां च दुहितॄणाम् एवेत्य् अर्थः । ततश् च तद् धनं ता एव दुहितरो विभजेरन्न् इत्य् अभिप्रायः । अप्रतिष्ठिता अनपत्या निर्धनाः दुर्भगाः विधवा वा । एवम् अपरार्कानुसारेण गौतमवचनं व्याख्यातम् । अस्य विज्ञानेश्वरकृता व्याख्या हेया, स्वबुद्धिमात्रेणाध्याहारादिकरणात् । अस्मिन्न् एव विषये विशेषम् आह याज्ञवल्क्यः - “मातुर् दुहितरः शेषम् ऋणात्” इति । मातृऋणापाकरणावशिष्टं मातृकं रिक्थं मातुर् ऊर्ध्वं समम् अप्रत्ताप्रतिष्ठितदुहितरो विभजेरन्न् इत्य् अर्थः । एवंभूतदुहित्रभावे ऽप्य् आह स एव - “ताभ्य ऋते ऽन्वयः” इति । एतद् एव नारदः स्पष्टयति - “अभावे दुहितॄणां तदन्वयः” इति । अप्रत्तदुहितृष्व् अन्वयासंभवात् प्रत्तदुहित्रन्वय इति पारिशेष्याद् अवगम्यते । स्त्रीगामिधनत्वात् स्त्रीरूपान्वय इति च गम्यते । प्रत्तदुहितॄणां स्त्रीरूपान्वयाभावे दौहित्राणां यथा स्याद् इति सामान्येन तदन्वय इत्य् उक्तम् । दौत्राणाम् अप्य् अभावे तु,

विभजेरन् सुताः पित्रोर् ऊर्ध्वं रिक्थम् ऋणं समम् ।

इति याज्ञवल्क्यवचनतः मातुर् ऊर्ध्वं मातृकं रिक्थं मातृकृतं च ऋणं समं सुता विभजेरन्न् इत्य् अवगमात् सुतानां मातृऋणधनविभागकर्तृत्वं सिद्धम्, अन्यथा “विभजेरन् सुताः पित्रोः” इत्य् एकशेषोक्तिर् अपार्थिका स्यात् । सुतानाम् अप्य् अभावे पौत्राणां पितामहीऋणधनभोक्तृत्वम् “पुत्रपैत्रै ऋणं देयम्” इति पौत्राणाम् अपि पितामहीकृतऋणापाकरणाधिकारात्, “रिक्थभाजः ऋणं प्रकुर्युः” इत् स्मरणाच् च । भिन्नपितृकाणां विषमसंख्यानां पौत्राणां समवाये पितामहीऋणधनविभागः पितामहधनविभागवत् “पितृतो भागकल्पना”, एवम् एव भिन्नमातृकाणां दौहित्राणां दौहितीणां च विषमसंख्यानां समवाये मातृतो भगकल्पना । अत्र “प्रतिमातृ स्ववर्गे भागवेशेषः” इति गौतमस्मरणात् । यत् तु कात्यायनेनोक्तम्,

दुहितृणाम् अभावे तु रिक्थं पुत्रेषु तद् भवेत् ।

इति, तद् अप्रत्तदुहितृविषयम् । तत्र ऋतुकालभर्त्रोर् असंभवेनान्वयासंभवात् । एवं च कात्यायनेनोक्तं यौतकविषयम् इति मन्तव्यम् । भार्याया ऊर्ध्वम् अन्वयाभावे भर्तरि भार्यारिक्थं भवेत्,

अप्रजः स्त्रीधनं भर्तुः ब्राह्मादिषु चतुर्ष्व् अपि ।

इति याज्ञवल्क्यस्मरणात् । अपिशब्दात् गान्धर्वे ऽपि । अत एव मनुः ।

ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद् धनम् ।
अतीतायाम् अप्रजसि भर्तुर् एव तद् इष्यते ॥

उक्तपञ्चविवाहेषु संस्कृतायाः भार्याया यद् धनं तत् तस्याः दुहित्रादिपौत्रान्तधनहारिसंततेर् अभावे सत्य् अतीतायाः भर्तुर् एवेष्यते, न पुनर् मात्रादीनां बन्धूनाम् इत्य् अर्थः । यत् तु कात्यायनेनोक्तम्,

बन्धुदत्तं तु बन्धूनाम् अभावे भर्तृगामि तत् ।

इति, तत् उक्तपञ्चविधेतरविवाहसंस्कृतस्त्रीधनविषयम् । तथा च स एव ।

आसुरादिषु यल् लब्धं स्त्रीधनं पैतृकं स्त्रियाः ।
अभावे तदपत्यानां मातापित्रोस् तद् इष्यते ॥

पैतृकं मातापितृसकाशाद् दानेनागतम् । तदपत्यानाम् अभावे आसुरादिषु संस्कृतस्त्रियाम् उत्पन्नापत्यानाम् अभावे । अपत्यग्रहणं पूर्वोक्तदौहित्रादिपौत्रान्तानां स्त्रीधनहारिणाम् उपलक्षणार्थम् । यत् तु यमेनोक्तम्,

आसुरादिषु यद् द्रव्यं विवाहेषु प्रदीयते ।
अप्रजायाम् अतीतायां पितैव तु धनं हरेत् ॥

इति, तत्र प्रदीयते पित्रेति शेषो द्रष्टव्यः । ततश् च न पूर्वोक्तवचनविरोधः । एवं पितृव्यभ्रातृमातुलादिबन्धुदत्तं स्त्रीधनं सति संभवे पितृव्यादिबन्धूनाम्, अन्यथा भर्तुर् एवेत्य् आसुरादिष्व् अवगन्तव्यम् । किंचिद् बन्धुदत्तं न दातुर् भवतीत्य् आह गौतमः - “भगिनीशुल्कः सोदर्याणाम् ऊर्ध्वं मातुः” इति, शुल्काख्यं स्त्रीधनं पूर्वतरप्रकरणे निरूपितम्, तद्दातारो वरादयः, तेषां दातृत्वे ऽपि तद्धनं न भवति, किं तु धनस्वामित्वं सोदरभ्रातॄणाम्, तेषाम् अभावे तन्मातुर् भवतीत्य् अर्थः । यत् पुनर् अर्हतीत्य् अनुवृत्तौ शङ्खेनोक्तम् - “स्वं च शुल्कं वोढा” इति, तत् अपरिसमाप्ते विवाहे सति मृतायां वध्वां द्रष्टव्यम् । “मृतायां दत्तम् आदद्यात्” इति याज्ञवल्क्यस्मरणात् । दत्तं शुल्कम् अलंकारादिकं वा आदद्यात् वोष्हेति शेषः । कन्याधनं प्रय् आह बोधायनः ।

रिक्थं मृतायाः कन्यायाः गृह्णीयुः सोदराः स्वयम् ।
तदभावे भवेन् मातुस् तदभावे पितुर् भवेत् ॥

गौणमातृपरिगणनपूर्वकं धनहर्तॄन् आह बृहस्पतिः ।

मातृष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा ।
श्वश्रूः पूर्वजपत्नी च मतृतुल्याः प्रकीर्तिताः ॥
यद्य् आसाम् औरसो न स्यात् सुतो दौहित्र एव वा ।
तत्सुता वा धनं तासां स्वस्त्रीयाद्याः समाप्नुयुः ॥ इति ।

स्वस्रीयो धनस्वामिन्या भागिनेयः स्वमातृष्व्सुर् धनम् अवाप्नुयात् । एवमाद्यशब्दपरिगृहीताः यथाक्रमेण स्वकीयमातृतुल्यायाः धनं समाप्नुयुः । एवम् एव सपत्नीसंतानो ऽप्य् उपमातृधनं तत्संतानतद्भर्त्राद्यभावे सत्य् अवाप्नुयात् । क्वचिद् भर्त्रादिसद्भावे सत्य् अवाप्नुयात् । क्वचिद् भर्त्रादिसद्भावे ऽपि सपत्नीनां संतानविशेषस्योपमातृधनभाक्त्वम् आह मनुः ।

स्त्रियास् तु यद् भवेद् दत्तं पित्रा दत्तं कथंचन ।
ब्राह्मणी तद् धरेत् कन्या तदपत्यस्य वा भवेत् ॥

पित्रा दत्तम् इति वदन् पूर्वोक्तधनहर्तृभर्तृपितृप्रभृतिषु सत्स्व् अपीति दर्शयति । भर्तृविजातीयस्त्रीधनं तत्संतानाभावे सति भर्तृसजातीयस्त्र्यन्तरकन्या तत्संततिर् वा हरेद् इत्य् अर्थः । एवं च भर्तृसजातीयानेकस्त्रीषु संतानशून्याया मृताया धनं स्त्र्यन्तरकन्या तत्संततिर् वा न हरेत् । किं तु ब्राह्मादिषु भर्तैव, शेषेषु धनदातैवेत्य् अनुसंधेयम् । उक्तार्थोपसंहारस् तु कात्यायनेन कृतः ।

स्त्रीधनस्येति धर्मो ऽयं विभागश् च प्रकल्पितः ।

इत्य् एवं निरूपितो धर्मो ऽयं प्रकल्पितश् च विभागः स्त्रीधनस्याध्यवसेय इत्य् अर्थः \

इति स्मृतिचन्द्रिकायां स्त्रीद्वारागतधनविभागः

गौणपितृद्वारागतधनविभागः

अथ गौणपितृद्वारागतधनविभागः

तत्र मनुः ।

न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः । इति ।

ननु,

एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।

इति तेनैवोक्तत्वात्, पितृरिक्थ भ्रात्रादीनां न प्रसक्तिर् इति कथं तत्प्रतिषेधो ऽवकल्पते । न च प्रनष्टपुत्रविषये ऽवकल्पत इति वाच्यम्, पुत्रा रिक्थहरा इति विधानानवकल्पनात् । उच्यते - “पुत्रा रिक्थहराः पितुः” इत्य् अत्र पितृपुत्रशब्दौ गौणौ । एवं चायम् अर्थॡ क्षेत्रजादिपुत्राः क्षेत्रस्वाम्यादिपितृरिक्थहरा न तद्भ्रात्रादय इति । क्षेत्रजादिपुत्रा अपि तेन दर्शिताः ।

यस् तल्पजः प्रमीतस्य क्लीबस्य पतितस्य वा ।
स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥
माता पिता वा दद्यातां यद् अद्भिः पुत्रम् आपदि ।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥
सदृशं तु प्रकुर्याद् यं गुणदोषविचक्षणम् ।
पुत्रं पुत्रगुणैर् युक्तं स विज्ञेयस् तु कृत्रिमः ॥
उत्पद्यते गृहे यस् तु न विज्ञायेत कस्यचित् ।
स गृहे गूढ उत्पन्नस् तस्य स्याद् यस्य तल्पजः ॥
मातापितृभ्याम् उत्सृष्टं तयोर् अन्यतरेण वा ।
यं पुत्रं परिगृह्णीयाद् अपविद्धस् तु स स्मृतः ॥
पितृवेश्मनि यं पुत्रं जनयेत् कन्यका रहः ।
तं कानीनं वदेन् नाम्ना वोढुः कन्यासमुद्भवम् ॥
या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती ।
वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥
क्रीणीयाद् यस् त्व् अपत्यार्थं मातापित्रोर् यम् अन्तिकात् ।
स क्रीतकः सुतस् तस्य सदृशो ऽसदृशो ऽपि वा ॥
या पत्या वा परित्यक्ता विधवा वेच्छयात्मनः ।
उत्पादयेत् पुनर्भूत्वा स पौनर्भव उच्यते ॥
मातापितृविहीनो यस् त्यक्तो वा स्याद् अकारणात् ।
आत्मानं स्पर्शयेद् यस्मै स्वयं दत्तस् तु स स्मृतः ॥
यं ब्राह्मणस् तु शूद्रायां कामाद् उत्पादयेत् सुतम् ।
स पारयन्न् एव शवस् तस्मात् पारशवः स्मृतः ॥
क्षेत्रजादीन् सुतान् एतान् एकादश यथोदितान् ।
पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिणः ॥ इति ।

अद्भिर् इति पुत्रदानविधानस्योपलक्षणार्थम् । तद्विधानं चास्माभिर् दत्ताप्रदानिकपदे दर्शितम् । आपदि दुर्भिक्षादौ, अथ वा ग्रहीतुर् आपदि पुत्राभावे । सदृशं दातुः प्रतिग्रहीतुश् च सवर्णम् । प्रीतिसंयुक्तं न लोभादिसंयुतम् । प्रकुर्यात् अनाथं पुत्रत्वेन स्वीकुर्यात् । “सदृशो ऽसदृशो ऽपि वा” इत्य् अत्र गुणापेक्षयेति शेषः । गृहे भार्यया उत्सृष्टं दुष्टमुहूर्तजत्वादिहेतुतो न पातित्यतः । पारयन्न् एव शवः जीवन्न् एव शवः । पुत्रप्रतिनिधीन् गौणपुत्रान् । क्रियालोपात् औरसाभावे तत्कर्तृकश्राद्धादिक्रियालोपात् बिभ्यतो मनीषिण आहुर् इति संबन्धः । एवं निरूपितगौणपुत्राणां सर्वेषां युगान्तरे पुत्रत्वेन परिग्रहः, कलौ तु दत्तस्यैव,

दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः ।

इति कलेर् आदौ धर्मगुप्त्यर्थं महात्मभिः दत्तकौरसेतरेषां पुत्रत्वेन परिग्रहनिवारणात् । पुत्रिकाकरणम् अप्य् अस्माद् एव वाक्यात् कलौ निवारितम्, दत्तौरसेतरत्वात् पुत्रिकायाः । एवं च कलाव् औरसपुत्रपौत्रयोर् अभावे दत्तक एव पुत्रो गौणो भवति नान्य इत्य् अनुसंधेयम् । मुख्यो ऽपि पुत्रः कलाव् असवर्णभार्याभवो नास्ति, असवर्णकन्याविवाहनिषेधात् । तथा च धर्मवाक्यम् ।

कन्यानाम् असवर्णानां विवाहश् च द्विजन्मभिः । इति ।

अत्रापि कलेर् आदौ धर्मगुप्त्यर्थं महात्मभिः निवारित इति वाक्यसेषो द्रष्टव्यः । अत एवास्माभिर् असवर्णापुत्राणां दत्तकेतरगौणपुत्राणां पुत्रिकायास् तत्पुत्रस्य च विभागविधयो न निबध्यन्ते, संप्रत्य् अननुष्ठेयतया वृथा ग्रन्थविस्तरापत्तेः । यत् पुनर् मनुनोक्तम्,

भ्रातॄणाम् एकजातानाम् एकश् चेत् पुत्रवान् भवेत् ।
सर्वे ते तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् ॥

इति, तन् न परमार्थतो भ्रात्रन्तर्स्यापि तेनैव पुत्रेण पुत्रवत्त्वम् आचष्टे, भ्रातृपुत्रसद्भावे ऽपि भ्रात्रन्तरस्यापुत्रत्वावगमात् । अत एव याज्ञवल्क्येन “पत्नी दुहितरः” इत्यादिना भ्रातृपुत्रसद्भावे ऽपि “स्वर्यातस्य ह्य् अपुत्रस्य” इत्य् उक्तम् । भ्रातृपुत्रस्य च पत्नीदुहितृपितृभावे सत्य् अपुत्रधनभागित्वं च अत एव तत्रोक्तम् । एवं तर्हि मनुवचनस्य का गतिः । उक्तम् अस्माभिः श्राद्धाधिकारनिरूपणप्रकरणे भ्रात्रन्तराणां पुत्रत्वोक्तिः ग्रामस्य तात इतिवद् औरसप्रशंसार्थेति । यत् तु संग्रहकारेणोक्तम्,

यद्य् एकजाता बहवो भ्रातरस् तु सहोदराः ।
एकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः ॥
बह्वीनाम् एकपत्नीनाम् एष एव विधिः स्मृतः ।
एका चेत् पुत्रिणी तासां सर्वासां पिण्डदस् तु सः ॥

इति, तस्य पूर्वोक्तेन सहाविरोधाय देवस्वामिना तात्पर्यार्थ उक्तः, “उभयत्र नान्यः प्रतिनिधिः कार्यः” इत्य् अनेन ग्रन्थेन । उभयत्रापि “यद्य् एकजाताः” इत्यादिवचनद्वये ऽपि भ्रातृसुते सपत्नीसुते पुत्रप्रतिनिधितया कथंचित् कर्तुं शक्ये सति तदन्यो न प्रतिनिधिः कार्य इति तात्पर्यार्थो बोद्धव्य इत्य् अर्थः । एवं च गौणपितृद्वारा धनागमनं कलौ दत्तकाख्यं पुत्रं प्रत्य् एव । अत्र मनुः ।

उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः ।
स हरेतैव तद् रिक्थं संप्राप्तो ऽप्य् अन्यगोत्रतः ॥

अपिशब्दात् सगोत्रतः संप्राप्तो ऽपि । अत्र तृतीयपादार्थो देवस्वामिना विवृतः - “तदीयं सर्वं रिक्थं गोत्रं च हरेतैव” इति । एवं च पुत्रत्वापादकक्रिययैव दत्त्रिमस्य प्रतिग्रहीतुर् धने स्वत्वं तत्सगोत्रत्वं च भवतीति मन्तव्यम् । दातुर् धने तु दानाद् एव पुत्रत्वनिवृत्तिद्वारा दत्त्रिमस्य स्वत्वनिवृत्तिर् दातुर् गोत्रनिवृत्तिश् च भवतीति चावगन्तव्यम् । अनेनैवाभिप्रायेणोक्तम् ।

गोत्ररिक्थे जनयितुर् न हरेद् दत्रिमः सुतः । इति ।

प्रतिग्रहीतृरिक्थग्रहणे ऽपि सर्वं क्वचिद् विषये न हरेत् । तथा च वसिष्ठः - “तस्मिंस् चेत् प्रतिगृहीत औरसपुत्र उत्पद्येत चतुर्थभागी स्यात्” इति । विष्णुः ।

अनेकपितृकाणां तु पितृतो ऽंशस्य कल्पना ।
यद् यस्य पैतृकं रिक्थं स तद् गृह्णीत नेतरः ॥

यत्र भ्रातॄणाम् एकस्यौरसः पुत्र इतरेषां क्षेत्रजादयः यदा ते अविभक्तधना मृताः तदा तेषाम् औरसादीनां मुख्यगौणपितृद्वारा पैतामहद्रव्यविभागकल्पना कर्तव्या । तताप्य् औरसोत्पत्तौ चतुर्थांशभागित्वम् एव, इतरेषां पूर्वन्यायानपायात् । यत्र भ्रातरः केचिज् जीवन्ति केचिन् नष्टाः तत्राप्य् अयम् एव न्याय इति ॥

इति स्मृतिचन्द्रिकायां गौणपितृद्वारागतधनविभागः

पुत्रद्वारागतधनविभागः

अथ पुत्रद्वारागतधनविभागः

तत्र मनुः ।

पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा । इति ।

अक्षरार्थो व्यक्तस् तात्पर्यार्थस् त्व् अव्यक्तः संग्रहकारेण दर्शितः ।

अशेषात्मजहीनस्य मृतस्य धनिनो धनम् ।
केनेदानीं ग्रहीतव्यम् इत्य् एतद् अधुनोच्यते ॥

अस्यायम् अर्थः - मुख्यगौणपुत्रविहीनस्य धनवतो मृतस्य धनम् इदानीं तन्मरणानन्तरं केन जनेन हर्तव्यम् इत्य् आकाङ्क्षायां पित्रादिना हर्तव्यम् इत्य् एतत् अधुना पित्राद्यपेक्षयेह बहुविधोपकारकासन्नजनाभावे मनुनोच्यत इति । अत एव पित्रादिभ्यो गौणपुत्राणाम् आसन्नतरत्वं ज्ञात्वा संग्रहकारेण “पिता हरेद् अपुत्रस्य” इत्य् अस्य अशेषात्मजहीनस्येति तात्पर्यम् उक्तम्, तद् अनवद्यम् एव । किं तु यथा गौणपुत्राणां दृष्टादृष्टोपकारकत्वेन पित्राद्यपेक्षयाग्रेसरत्वात् तदपेक्षयासन्नतरत्वम्, तथा पत्न्या अपि दृष्टादृष्टोपकारकरणे श्रुतिस्मृत्यादिपर्यालोचनया पित्राद्यपेक्षयाग्रेसरत्वात् तदपेक्षयासन्नतरत्वम् अस्तीति पत्न्या अप्य् अभावे “पिता हरेद् अपुत्रस्य” इत्य् एतन् मनुनोच्यत इत्य् एवं तात्पर्यम् ऊह्यते । अत एव दृष्टादृष्टोपकारकत्वल(क्ष?)णसंबन्धेनान्यापेक्षया पत्न्याः प्रत्यासन्नत्वम् अभिधाय बृहस्पतिना गौणपुत्राभावे तिष्ठत्स्व् अपि पित्रादिषु सकुलान्तेषु पत्न्या एव पतिधनभागित्वं दर्शितम् ।

आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः ।
शरीरार्धं स्मृता भार्या पुण्यापुण्यफले समा ॥
यस्य नोपरता भार्या देहार्धं तस्य जीवति ।
जीवत्य् अर्धशरीरे ऽर्थं कथम् अन्यः समाप्नुयात् ॥
कुल्येषु विद्यमानेषु पितृभ्रातृसनाभिषु ।
असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥

अत्र द्वितीयार्धेन दृष्टादृष्टोपकारसंपदने पुत्रादिभ्यः पत्न्याः प्रत्यासन्नत्वम् उक्तम् । अवयवार्थस् तु — आम्नाये वेदे “अर्धो वा एष आत्मनः यत् पत्नी” इत्येवमादौ । आत्मनो देहस्येत्य् अर्थः । एतद् उक्तं भवति - देहार्धं यथा अर्थात् अर्धं दृष्टादृष्टोपकारि तथा जायापीति । स्मृतितन्त्रे धर्मशास्त्रे ।

पतत्य् अर्धं शरीरस्य यस्य भार्या सुरां पिबेत् ।
पतितार्धशरीरस्य निष्कृतिर् न विधीयते ॥

इत्येवमादौ । लोकाचारे लोकानुसार्यर्थशास्त्रे ।

शरीरार्धमयीं भार्यां को विहास्यति पण्डितः ।

इत्येवमादौ । पुण्यापुण्यफले स्मार्तकर्मणि सहाधिकारात् । असुतस्य मुख्यगौणसुतहीनस्य । पत्नी यज्ञाधिकारापादकप्रशस्तब्राह्मादिविवाहसंस्कृता, “पत्युर् नो यज्ञसंयोगे” इति पाणिनिस्मरणात् । नेतरा, पत्नीपदेन व्यावर्तितायाः तस्याः पत्नीत्वायोगात् । तथा च स्मृत्यन्तरम् ।

क्रयक्रीता तु या नारी न सा पत्न्य् अभिधीयते ।
न सा दैवे न सा पित्र्ये दासीं तां कवयो विदुः ॥

पत्नीत्वाभावे केवलदृष्टोपकारत्वं स्त्रिया इति दर्शयितुं दासीं विदुर् इत्य् उक्तम् । एवं च पित्र्यादिकर्मण्य् अर्हतापि पतिभागहारित्वे प्रयोजिकेति पत्नीग्रहणेन ज्ञापितम् । अत एव श्रौतस्मार्तादिकर्मणि पातिव्रत्येन परिरक्षिताया अधिकारार्हाया एव पत्न्याः पतिधनलाभ इत्य् आह प्रजापतिः ।

पूर्वं प्रमीताग्निहोत्रं मृते भर्तरि तद्धनम् ।
लभेत् पतिव्रता नारी धर्म एष सनातनः ॥

अग्निहोत्रशब्देन तत्साधनाग्निर् लक्ष्यते । पतिव्रता सुसंयता, स्वतः प्रायश्चित्तेन वा श्रौतस्मार्तकर्माधिकारार्हतया वा भर्त्रा सहवासेन स्थितेति यावत् । नारी पत्नी, अग्निहोत्रलाभोक्तेः पत्नीत्वावगमार्थत्वात् । कर्मार्हायाः पित्र्ये कर्मणि भ्रात्राद्यपेक्षयाग्रेसरत्वं बृहस्पतिना दर्शितम् ।

पुत्राभावे तु पत्नी स्यात् पत्न्यभावे तु सोदरः । इति ।

अत्र वृद्धमनुः ।

अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्न्य् एव दद्यात् तत्पिण्डं कृत्स्नम् अंशं लभेत च ॥

उत्तरार्धे त्व् अर्थक्रमेण पाठक्रमबाधो द्रष्टव्यः । ततश् चायम् अर्थः - उक्तलक्षणा पत्न्य् एव कृत्स्नं भर्त्रंशं पूर्वं लभेत पश्चात् पतिपिण्डं दद्यात् । न पुनस् तस्यां सत्यां भ्रात्रादिर् इति । भर्तुः शयनं पालयन्ती सुसंयतेत्य् अर्थः, वर्ते स्थिता पत्यौ जीवत्य् अपि भर्तुर् अजुज्ञया व्रतादिपरा “कामं भर्तुर् अनुज्ञया व्रतोपवासनियमेज्यादीनाम् आरम्भः स्त्रीधर्मः” इति शङ्खलिखितस्मरणात् । अनेनास्तिकतापि पत्यंशलाभे प्रयोजिकेति वचोभङ्ग्या ज्ञापितम् इति मन्तव्यम् । यद्य् अपि विवाहाद् एव पतिधने कृत्स्ने पत्न्या अपि स्वाम्यम् आजीवनात् परतन्त्रतया सिद्धम्, तथापि स्वतन्त्रतया स्वामित्वान्तरं लभ्यत इत्य् एवमर्थं लभेत चेत्य् उक्तम् । तत्पिण्डकृत्स्नपदयोर् अर्थः प्रजापतिना प्रपञ्चितः ।

जङ्गमं स्थावरं हेम कुप्यं धान्यरसाम्बरम् ।
आदाय दापयेच् छ्राद्धं मासषाण्मासिकादिकम् ॥
पितृव्यगुरुदौहित्रान् भर्तुः स्वस्रीयमातुलान् ।
पूजयेत् कव्यपूर्ताभ्यां वृद्धानाथातिथींस् तथा ॥ इति ।

कुप्यं त्रपुसीदादि । कव्यं पित्रर्थं संकल्पितम् अन्नम् । पूर्तं पूर्ताख्यकातादिकर्माङ्गभूतं दक्षिणादिकम् । एतद् उक्तं भवति - स्थावरेणापि सहितं कृत्स्नम् अंशम् आदाय धनसाध्यं स्त्र्यधिकारश्राद्धपूर्तादिकं दानादिकं च पत्युर् आत्मनश् च श्रेयःसाधनं कर्मजातं पतिपक्षीयऋत्विगाचार्यादिपुरःसरं पत्न्या गृहीतधनानुसारेण कार्यम् इति । एवं च यत् कैश्चिद् उक्तम् - पत्नीगृहीतं धनं योग्यपतिपक्षाभोग्यं धनिकानुपकारकं वृथा यास्यतीति न पत्नी पतिधनभागिनीति, तत् असिद्धहेतुकत्वाद् धेयम् । एतच् च पत्नीस्वामित्वं विभक्ते पत्यौ द्रष्टव्यम् । यद् आह बृहस्पतिः ।

यद् विभक्ते धनं किंचिद् आध्यादि विविधं स्मृतम् ।
तज्जाया स्थावरं मुक्त्वा लभेत मृतभर्तृका ॥

यत् किंचिद् आध्यादि विविधं धनं स्थावरजङ्गमात्मकं भर्तृस्वामिकात्मकं स्मृतम्, तत् सर्वं विभक्तविषये लभेतेत्य् अर्थः । विभक्तग्रहणाद् अविभक्तविषये तु सहवासिन एव पितृभ्रात्रादया मृतापुत्रधनं लभेरन्न् इति गम्यते । जाया पत्नी । स्थावरं मुक्त्वेत्य् एतद् दुहितृरहितपत्नीविषयम् । पत्नीमात्रविषयते तु,

जङ्गमं स्थावरं हेम कुप्यं धान्यरसाम्बरम् ।
आदाय (दापयेच् छ्राद्धं मासषाण्मासिकादिकम्) ॥

इति पूर्वोक्तवचनविरोधः स्यात् । न च तद्विरोधपरिहारायाविभक्तपत्यंशविषयं वृत्तहीनपत्नीविषयं वेदं वचनम् अस्त्व् इति वाच्यम् । यत एवंप्रकारां व्यवस्थां निराकर्तुम् आह स एव ।

वृत्तस्थापि कृते ऽप्य् अंशे स्त्री स्थावरम् अर्हति ।

इति । संतानवृत्तिभूतस्थावरलब्ध्यर्हता तु संतानशालितायत्तेति तच्छून्या स्त्री वृत्तस्थापि विभक्तविषये ऽपि स्थावरं नार्हतीत्य् अर्थः । यद् अपरम् उक्तं तेनैव,

मृते भर्तरि भर्त्रंशं लभेत कुलपालिका ।
यावज्जीवं हीनस्वाम्यं दानाधमनविक्रये ॥

इति, कुलपालिका वंशपालिका वृत्तस्थेति यावत् । तत् वृद्धानाथाद्युपजीवनायादृष्टार्थदानविधानात् तदितरदृष्टार्थनर्तकादीनां दानादाव् अस्वातन्त्र्यप्रतिपादनार्थम् इति मन्तव्यम् । एवं च धर्मार्थदाने स्वातन्त्र्यम् अस्त्य् एव । अत एव धर्मार्थदानम् अनिशम् आवर्तनीयम् इत्य् आह स एव ।

व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता ।
धर्मदानरता नित्यम् अपुत्रापि दिवं व्रजेत् ॥

न हि पारतन्त्र्ये नित्यदानक्रिया युज्यते । एवं चादृष्टसाधकद्रव्यसंपादनार्थयोर् आधिविक्रययोर् अपि स्वातन्त्र्यम् अप्रतिषिद्धम् इति मन्तव्यम् । यद् अपरम् उक्तं कात्यायनेन,

अपुत्रा शयनं भर्तुः पालयन्ती गुरौ स्थिता ।
भुञ्जीतामरणात् क्षान्ता दायादा ऊर्ध्वम् आप्नुयुः ॥

इति — क्षान्ता दायादकारितधनविनियोगप्रतिबन्धं सहमानेत्य् अर्थः — तत् अविभक्तदशायां रक्षणभरणासमर्थेषु कार्यान्तरव्यग्रेषु वा श्वशुरादिषु पत्न्या स्वयम् एव जीवनार्थम् उपात्ताविभक्तद्रव्यविषयम् । विभक्तद्रव्यविषयत्वे वृद्धमन्वादिवचनपरिनिश्चितार्थविरोधपत्तेः । रक्षणादिसमर्थेषु श्वशुरादिष्व् अविभक्तमृतधनग्राहिषु सत्सु तैर् एव गृहीतधनैर् भरणं कर्यम् । तथा च नारदः ।

यावत्यो विधवाः साधव्यो ज्येष्ठेन श्वशुरेण वा ।
गोत्रजेनापि वान्येन भर्तव्याश् छादनाशनैः ॥

धनग्राहिणेति सर्वत्र ज्येष्ठादौ शेषो द्रष्टव्यः । धनग्रहणनिमित्तत्वात् भरणस्य । अत्र वेशेषम् आह कात्ययनः ।

स्वर्याते स्वामिनि स्त्री तु ग्रासाच्छदनभगिनी ।
अविभक्ते धनांशं तु प्राप्नोत्य् आमरणान्तिकम् ॥

धनांशं यावता धनेनाक्लिष्टजीवनं धनसाध्यं च नित्यनैमित्तिकं कर्म स्त्र्यधिकारकं काम्यव्रतादिकं च सिध्यति तावन्तम् इत्य् अर्थः । तुशब्दो वाशब्दार्थे, धनांशं वा प्राप्नोतीत्य् अर्थः । एतावद् धनसंपादकं क्षेत्रांशं वा प्रप्नोति, धनग्रहणस्य वर्तनाद्युपायोपलक्षणार्थत्वात् । अत्राद्यपक्षः पत्नीव्यतिरिक्तभार्याविषयः, जीवनमात्रसाधनस्वल्पार्थभागित्वाभिधानात् । जीवनमात्रसाधनस्य स्वल्पाम् इयत्ताम् आह नारदः ।

आढकांस् तु चतुर्विंशत् चत्वारिंशत् पणांस् तथा ।
प्रतिसंवत्सरं साध्वी लभेत मृतभर्तृका ॥

आढको ऽष्टोनद्विशतप्रसृतिपरिमितो धान्यचयः । पणः कार्षापणः । स च व्यावहारिकनिष्काशीतितमभगस्य स्थाने क्वचिद् देशे प्रवर्तते । तेन यत्र देशे पणो न प्रवर्तते तत्र तत्स्थाने व्यावहारिकनिषाशीतितमभागः लभ्यते । कृते ऽप्य् अंश इत्य् अनुवृत्तौ बृहस्पतिः ।

प्रदद्यात् त्व् एव पिण्डं वा क्षेत्रांशं वा यदृच्छया । इति ।

पिण्डग्रहणम् अशनाच्छादनोपलक्षणार्थम् । एवं चायम् अर्थः - अशनाच्छादनं पूर्वोक्तपरिमाणकं पूर्वोक्तधनांशसंपादकक्षेत्रांशं वा । स च रुच्या भर्त्रंशर्हपत्नीव्यतिरिक्तविधवायै अविभक्तविषये जीवनार्थं प्रदद्याद् इति । एवकारः प्रदानस्यावश्यकत्वज्ञापनार्थः । श्वश्र्वाद्यशुश्रूषकस्त्रीविषयो ऽत्राद्यः पक्षः । तत्र ज्ञापकम् उपरिष्टात् भविष्यति । दत्तं च दायकेतरैर् अपि पालनीयम् इत्य् आह स एव ।

स्थावराज् जीवनं स्त्रीभ्यो यद् दत्तं श्वशुरेण तु ।
न तच् छक्यम् अपाहर्तुम् इतरैः श्वशुरे मृते ॥

श्वशुरग्रहणं भरणकारिण उपलक्षणार्थम् । स्थावरग्रहणं च धनस्योपलक्षनार्थम् । तेन धनाद्य् अपि जीवनार्थं स्त्रीभ्यो दत्तम् अपाहर्तुम् अशक्यम् इतरैर् इत्य् अवगन्तव्यम् । क्वचिद् अपहर्तव्यम् इत्य् आह कात्यायनः ।

भोक्तुम् अर्हति कॢप्तांशं गुरुशुश्रूषणे रता ।
न कुर्याद् यदि शुश्रूषां चेलपिण्डे नियोजयेत् ॥

कॢप्तांशम् अपहृत्येति शेषः । एवम् अकार्यकारिण्यादाव् अपि कॢप्तांशापहरणं कार्यम् इत्य् आह स एव ।

अपचारक्रियायुक्ता निर्लज्जा चार्थनाशिका ।
व्यभिचाररता या च स्त्री धनं न च सार्हति ॥ इति ।

धनं जीवनार्थम् उपकॢप्तधनांशम्, क्षेत्रांशं वा जीवनाद्यर्थम् उपकॢप्तम् उक्ता चतुर्विधा स्त्री नार्हतीत्य् अर्थः । धनग्रहणम् अशनाच्छादनाद्युपलक्षणार्थम् । अत एव नारदः ।

भरणं चापि कुर्वीरन् स्त्रीणाम् आ जीवनक्षयात् ।
रक्षन्ति शय्यां भर्तुश् चेत् आच्छिन्द्युर् इतरासु तत् ॥

इतरासु व्यभिचाररतासु । भरणम् अशनाच्छादनाय कल्पितं धान्यवस्त्रमूल्यद्रव्यम् आच्छिन्द्युः अपहरेयुर् इत्य् अर्थः । यद् अत्र मनुनोक्तम्,

एवम् एव विधिं कुर्याद् योषित्सु पतितास्व् अपि ।
वस्त्रान्नम् आसां देयं तु वसेयुश् च गृहान्तिके ॥

इति, तत् भर्तृकर्तृकभरणविषयम् इति पूर्वार्धत एवावगम्यत इत्य् अविरोधः । या पुनः शङ्कितव्यभिचारा तस्यास् तु विभक्तविषये पत्नीत्वे ऽपि हारीतोक्तम् कार्यम् ।

विधवा यौवनस्था चेत् नारी भवति कर्कशा ।
आयुषः क्षपणार्थं तु दातव्यं जीवनं तदा ॥ इति ।

कर्कशा क्रूरा साहसार्हा संभावितव्यभिचारेति यावत् । यत् पुनर् मनुना “पत्न्य् एव कृत्स्नम् अंशं लभेत च” इति वृद्धमनूक्तविरुद्धम् उक्तम्,

येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो वापि तस्य भगो न लुप्यते ॥
सोदर्या विभजेरंस् तं समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा भगिन्यश् च सनाभयः ॥

इति — हीयते पातित्यादिनिमित्तेनेति शेषः — यद् अपि नारदेन,

संसृष्टानां तु यो भागस् तेषाम् एव स इष्यते ।

इत्य् उक्त्वोक्तम्,

भ्रातॄणाम् अप्रजाः प्रेयात् कश्चिच् चेत् प्रव्रजेत वा ।
विभजेयुर् धनं तस्य शेषास् ते स्त्रीधनं विना ॥

इति, तद् एतद् वयम् अपि संसृष्टद्रव्यविषयम् इति स्पष्टम् एव । तेन नस्ति विरोधः । एवं च “पत्न्य् एव समस्तम् अंशं लभेत” इति विभक्तासंसृष्टविषयम् इत् मन्तव्यम् । तथा च संग्रहकारः ।

भ्रातृषु प्रविभक्तेषु संसृष्टेष्व् अप्य् असत्सु च ।
गुर्वादेशान् नियोगस्था पत्नी धनम् अवाप्नुयात् ॥

“गुर्वादेशान् नियोगस्था” इति धारेश्वरमतं विश्वरूपादिभिः सम्यग् दूषितत्वाद् उपेक्षणीयम् । ततश् च संग्रहकारोक्तविषये वृद्धमनूक्तगुणविशिष्टा पत्नी भर्तृधनम् अखिलम् अवाप्नुयाद् इत्य् एतद् एव मतम् आदर्तव्यम् । यत् तु श्रुताव् उक्तम् - “तस्मात् स्त्रियो निरिन्द्रिया अदायादीः” इत्य्, तद् अपि न वृद्धमन्वादिवचनबाधकम्, निरिन्द्रियपुत्रसाहचर्याद् अपत्यभूतस्त्रीविषयत्वावगतेः । भवतु वा सर्वस्त्रीविषयत्वावगतिः, तथापि दायादतया शृङ्गग्राहिकोक्तपत्न्यादिस्त्रीव्यतिरिक्तविषयार्थवादश्रुतिर् इति सर्वं सुस्थम् । पत्नीबहुत्वे समं विभय अपुत्रभर्तृधनग्रहणं सर्वासां युक्तम् । एवं सर्वस्मृत्येकवाक्यतया निश्चितं पत्नीधनं ये प्रतिबध्नन्ति ते राज्ञा नियन्तव्या इत्य् आह प्रजापतिः ।

तत्सपिण्डा बान्धवाश् च ये तस्याः परिपन्थिनः ।
हिंस्युर् धनानि तान् राजा चोरदण्डेन शासयेत् ॥

इति स्मृतिचन्द्रिकायां पुत्रद्वारागतधनविभागे पत्नीविषयाणि

दुहित्रादिविषयाः

अथ दुहित्रादिविषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र बृहस्पतिः ।

भर्तुर् धनहरी पत्नी तां विना दुहिता स्मृता ॥ इति ।

तां विना तस्या अभाव इत्य् अर्थः । अत एव विष्णुः - “अपुत्रस्य धनं पत्न्यभिगामि तदभावे दुहितृगामि” इति । अस्मिन् क्रमे न्यायम् आह बृहस्पतिः ।

अङ्गाद् अङ्गात् संभवति पुत्रवद् दुहिता नृणाम् ।
तस्मात् पितृधनं त्व् अन्यः कथं गृह्णीत मानवः ॥

शरीरावयवसंबन्धेन दुहिता पुत्रसमा, पुत्रे हि पित्रवयवानां बाहुल्येन संक्रान्तिः, दुहितरि त्व् अल्पतया,

पुमान् पुंसो ऽधिके शुक्ले स्त्री भवत्य् अधिके स्त्रियाः ।

इति स्मरणात् । तेन किंचित्सामान्यात् पुत्रवद् इत्य् उक्तम् । अन्यः पुत्रपत्नीव्यतिरिक्तः पित्रादिर् मानवः त्ष्ठन्त्याम् दुहितरि पुत्रधनं कथं गृह्णीतेत्य् अर्थः । तथा च मनुः ।

यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
तस्याम् आत्मनि तिष्ठन्त्यां कथम् अन्यो धनं हरेत् ॥

आत्मनि आत्मतुल्यपुत्रसमायाम् इत्य् अर्थः । नन्व् एवम् अपि गौणपुत्रपत्न्योर् अभावे दुहितेतिक्रमे न्यायो नोक्तः, औरसाभावमात्रे दुहितेत्य् एतावन्मात्रसाधकत्वाद् उक्तन्यायस्य । सत्यम्, किं त्व् इदम् एव गौणपुत्रपत्न्योर् अभावे दुहितेत्य् अत्रापि क्रमे न्याय ऊहनीय इत्य् अभिप्रायेणोक्तम् । अत एव नारदेन तयोर् अप्य् अभावे दुहितेति क्रमानुसारी न्यायः स्वयम् ऊहितो मन्दानुग्रहाय प्रदर्शितः ।

पुत्राभावे तु दुहिता तुल्यसंतानदर्शनात् । इति ।

स्वयम् एव न्यायं विवृणोति ।

पुत्रश् च दुहिता चोभौ तुल्यसंतानकारकौ । इति ।

उभौ स्वपितृश्रेयःकरसंतानकारकाव् इत्य् अर्थः । तथा हि पौत्रदौहित्रयोः पुत्रदुहितृसंतानयोः स्वरूपतस् तुल्यत्वाभावात् कार्यतो ऽत्र तुल्यत्वम् अभिप्रेतम् । न च ऋणापाकरणकार्यतस् तुल्यत्वं संभवति “पुत्रपौत्रैः ऋणं देयम्” इति स्मरणात् । तथा पितामहद्रव्यम् अधिकृत्य,

तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ।

इति स्मरणतश् च पौत्रस्याधिक्यप्रतीतेः, तेनात्रादृष्टकार्यतस् तुल्यत्वम् अभिप्रेतम् । तच् च, श्राद्धदातृत्वम्

पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रका मताः ।

इति विष्णुस्मरणात् । एवं च दुहितुः स्वसंतानमुखेनादृष्टोपकारकसंबन्धेनासन्नता च । एतावता निमित्तेन “पुत्राभावे तु दुहिता” इत्य् अत्र पुत्रग्रहणं पत्न्या अपि प्रदर्शनार्थम् इति मन्तव्यम् । ननु पिता श्राद्धदाने स्वयम् एवादृष्टोपकारक इति दुहितुर् अपेक्षयासन्नत्वात् पत्न्यभावे “पिता हरेद् अपुत्रस्य” इत्य् अस्यायम् अवसर इति कथं दुहितुर् अर्थग्रहणम् । मैवम्,

तस्याम् आत्मनि तिष्ठन्त्यां कथम् अन्यो धनं हरेत् ।

इत्यनेनैवोक्तत्वात् । तथा हि, यद्य् अप्य् अदृष्टोपकारसंबन्धेन व्यवहिता, तथापि शारीरसम्बन्धेनाव्यवहितेत्य् उभयथासंबन्धाद् दुहितैवाग्रेसरी । एवं तर्हि दुहित्रभावे “पिता हरेत्” इत्य् अस्यावसरः स्यात् । नाधुनापि तस्यावसरः, दुहित्रभावे ऽपि दौहित्रस्य तत्कोटित्वेन पित्राद्यपेक्षयासन्नत्वात्,

अपुत्रपौत्रसंताने दौहित्रा धनम् आप्नुयुः ।
पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रका मताः ॥

इति विष्णुस्मरणाच् च । एवं सोपपत्तिकां पत्न्यभावे दुहितृगामितां ब्रुवता बृहस्पत्यादिनैव दौहित्रगामि धनम् इति विधायकं यद् वचनजातं तत् पुत्रिकाविषयम् एव, न पुनर् अपुत्रिकादुहितृविषयम् इति धारेश्वरदेवस्वामिदेवरातमतं स्मृतितन्त्राभिज्ञत्वाभिमानोन्मादकल्पितं निरस्तं वेदितव्यम् । तथा हि, “तृतीयाह् पुत्रः पुत्रिका विज्ञायते” इति वसिष्ठस्मृत्या गौणपुत्रकोटिनिविष्टायाः पुत्रिकायाः पत्न्यां सत्याम् अपि क्षेत्रजादेर् इव,

न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ।

इत्यादिवचनान्तरैर् एव औरसाभावे रिक्थग्राहिण्याः पत्न्याः प्राग् एव दण्डापूपन्यायेनैव धनभागित्वे सिद्धे पुनः किं सोपपत्तिकं धनभागित्वं स्मर्तुं बृहस्पत्यादीनां वचनान्तरारम्भेण । तेन तैर् एव तन्मतं निरस्तम् इत्य् अलं धारेश्वरादिमतान्तरनिराकरणयत्नेनास्मदीयेन । यत् तु नारदेन पुत्रहीनपत्नीम् अधिकृत्योक्तम्,

स्यात् तु चेद् दुहिता तस्याः पित्र्यो ऽंशो भरणे मतः ।
आ संस्काराद् धरेद् भागं परतो बिभृयात् पतिः ॥

इति, तस्यार्थः - तस्याः पत्न्याः पुत्ररहितायाः यदि दुहिता विद्यते तदा दुहितुर् भरणे भ्रणाय पित्र्यो ऽंशो ऽभिमतः । तस्माद् आ विवाहसंस्कारात् भरणार्थम् एव दुहिता पितृभागं हरेत् । न पुनर् यथेष्टविनियोगार्थम् इति । एवं च सर्वासाम् एव कन्यानां पितृधनप्राप्तिर् उत्सर्ग इति गम्यते । ततश् चास्यापवादकानि दुहितुः पितृधनप्राप्तिप्रतिपादकानि वचनानि सर्वाणि पुत्रिकाविषाण्य् एवेति वाच्यम्, दुहितृमात्रविषयत्वे तूत्सर्गवत् सामान्यतया तदपवादाक्षमत्वाद् अनर्थकानि भवेयुः । तस्माद् धारेश्वरादीनाम् एव मतम् अनुसर्तव्यः (?) स्याद् एव यदि नारदवचनं विभक्तविषयं स्यात् । संसृष्टिविषयं तु तद् इति तस्यैव पूर्वापरपर्यालोचनया स्फुटम् अवगम्यते । ततश् च विभक्तविषये यानि दुहितृदायप्रतिपादकवचनानि तेषां तत्प्रापकत्वम् एव नापवादकत्वम् इति न पुत्रिकाविषयत्वकल्पने किंचिन् मूलम् उपलभामहे इत्य् अलम् अतिबहुना । एवम् अपि न दुहितृमात्रविषयाणि तानि वचनानि, यत् आह कात्यायनः ।

पत्नी भर्तुर् धनहरी या स्याद् अव्यभिचारिणी ।
तदभावे तु दुहिता यद्य् अनूढाप्रतिष्ठिता ॥ इति ।

एवं च कात्यायनवचनान्य् अनूढादुहितृविषयाणि, अथ वा निर्धनोढादुहितृविषयाणीति मन्तव्यम् । निर्धनत्वेनैवाप्रतिष्ठितात्र विवक्षिता, न पुनर् वन्ध्यात्वादिना संतानराहित्येनाप्रतिष्ठिता, तस्याः संतानमुखेनादृष्टोपकारकसंबन्धाभावेन धनहारित्वायोगात् । तदभावे इत्य् अनेन पूर्वोक्तायाः अव्यभिचारिण्याः पत्न्या अभावः प्रत्यवमृश्यते, न पत्नीस्वरूपमात्रस्य, न केवलं पत्न्या स्वरूपाभावे दुहिता धनहारिणी किं त्व् अव्यभिचारित्वलक्षणविशेषणाभावे ऽपीति मन्तव्यम् । अत एव संग्रहकारेण,

तादृक्पत्न्या अभावे ऽपि पुत्रिका धनम् अर्हति ।

इत्य् उक्तम् । न परं पत्नीस्वरूपाभावे, किं तु धनभागिनीति निरूपणार्थम् उक्तविशेषणविशिष्टपत्न्यभावे ऽपि पुत्रिका धनम् अर्हतीत्य् अर्थः । पुत्रिका धनम् अर्हतीति तु प्राग् एव निरस्तत्वाद् उपेक्षणीयम् । तेन पत्न्याः स्वरूपाभावे दुहितृगामि द्रव्यम्, विशेषणाभावे तु पिता हरेद् इत्यादिवचनोक्तपित्रादिगामीति कैश्चित् कृता विषयव्यवस्थाप्य् उपेक्षणीया । बृहस्पतिस् तु पत्न्या ऊर्ध्वम् अर्थग्राह्णीनां मुख्यपुत्राद् ऊर्ध्वम् अर्थग्राहिणीनां च दुहितॄणां विशेषणान्य् आह ।

सदृशी सदृशेनोढा साध्वी शुश्रूषणे रता ।
कृताकृता वापुत्रस्य पितुर् धनहरी तु सा ॥

सदृशी पितृसवर्णा । अत्राद्यानि चत्वारि विशेषणानि पत्न्या ऊर्ध्वं धनग्राहिदुहितृविषयाणि । प्राग्धनग्राहिण्या दुहितुर् विशेषणे त्व् अवशिष्टे । कृताकृतेत्य् अत्र पुत्रिकेति विशेष्यस्याध्याहारः कर्तव्यः । इतरत्र दुहितेति विशेष्यस्याध्याहारः कार्यः । वाशब्दो व्यवस्थितविकल्पाभिधानार्थः । एवं चायम् अर्थः - औरसपुत्रविहीनस्य पितुर् धनं द्विविधापि पुत्रिका पत्याः पूर्वं गृह्णीयात्, सवर्णादिविशेषणोपेताप्रतिष्ठितानूढानां दुहितॄणां समवाये ऽनूढैव गृह्णाति, पित्रा भर्तव्यत्वात् । तदभावे ऽप्रतिष्ठिता, भर्त्रा भर्तव्यते ऽपि भरुत्र् भरणसामर्थ्याभावेनाप्रतिष्ठितत्वात् । तदभावे सवर्णादिविशेषणोपेता प्रतिष्ठिता, प्रतिष्ठितत्वे ऽपि धनग्रहणयोग्यत्वात् । तदभावे दौहित्रः, तत्कोटित्वाद् इत्य् अनुसंधेयम् । दौहित्रस्याभावे तु पित्रपेक्षयान्यस्यासन्नतरस्याभावात् । “पिता हरेद् अपुत्रस्य रिक्थम्” इत्युक्तस्यावसरत्वात् पितृगामि धनं भवति । अस्मिन्न् एवावसरे मात्रपेक्षयाप्य् अन्यस्यासन्नतरस्याभात्,

अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् ।

इत्य् उक्तस्यावसरत्वान् मातृगामि धनं भवति । अत एव याज्ञवल्क्येन “पत्नी दुहितरश् चैव पितरौ” इत्य् उक्तम् । चशब्देन सूचितस्य दौहित्रस्यानन्तरम् एव मातापितरौ समसमये धनभाजौ । तयोर् अवान्तरक्रमे न्यायाभावाद् इत्य् अभिप्रायो याज्ञवल्क्यस्यावगन्तव्यः । अभिप्रायम् अबुध्वात्रापि कैश्चित् पण्डितंमन्यैः कश्चिन् न्याय उत्प्रेक्षितः, मातुर् गर्भधारणपोषणद्वारेणात्यन्तोपकारित्वात्,

सहस्रं तु पितुर् माता गौरवेणातिरिच्यते ।

इति स्मरणाच् च, पितरि विद्यमाने ऽपि मातुर् एव धनग्रहणे ऽधिकार इति । नायं न्यायो मातुर् आदौ अंशग्रहणाधिकारापादनायालम्, पितुर् अपि बहुधा संविधातृत्वात्, विद्याप्रदत्वात्,

तयोर् अपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ।

इति स्मरणाच् च । अन्यैः पुनर् अन्यथा उत्प्रेक्षितः - “पिता सपत्नीपुत्रेष्व् अपि साधारणः माता तु न साधारणीति प्रत्यासत्त्यतिशयो ऽस्ति” इति । विप्रलम्भसदृक्षम् इदम्, न हि जननीजनकयोर् जन्यं प्रति संनिकर्षे तारतम्यम् अस्ति । न च बहुसंबन्धतः साक्षात्संबन्धनिबन्धनायाः प्रत्यासत्तेर् अतिशयो ऽप्य् अपैति । यद् अपि तैर् एवोक्तम् - “एकशेषश्रवणे ऽपि कथंचिन् मतुः प्राथम्यम् अवगम्यते” इति, तद् अपि मन्दम्, “सारस्वतौ भवतः” इत्य् उत्पत्तिवाक्ये क्रमावगत्यभावेन याज्याक्रमेण प्रधानयोः क्रमः पञ्चमे दर्शितो न पुनः सारस्वताव् इत्य् एकशेषत एव कथंचित् क्रमावगतिर् उपपादितेति निर्निबन्धनम् एव मातुः प्राथम्यसमर्थनम् । अत एव श्रीकरेण पित्रोर् विभज्यधनग्रहणम् उक्तम् । तद् अप्य् अयुक्तम्, “पिता हरेद् अपुत्रस्य रिक्थम्,” “स्वर्यातस्य ह्य् अपुत्रस्य माता दायम् अवाप्नुयात्” इत्य् एताभ्यां व्रीहियवयोर् निरपेक्षसाधनत्ववन् निरपेक्षस्वाम्यप्रतीतेः । अपरे पुनर् अन्यथा मातुः प्रत्यासत्तिम् उन्नयन्ति - “सोदरस्य तु सोदरः” इत्य् अत्र मातृद्वारेण सोदरे दायवचनान् मातुः प्रत्यासत्तिर् गम्यत इति, तद् एतत् काशकुशावलम्बनमात्रम्, तथा हि भ्रातुर् भिन्नोदराद् एकोदरयोर् एकमातृकत्वेन प्रत्यासत्तौ विशेषो ऽस्ति जनकात् पुनर् जनन्याः पुत्रं प्रति प्रत्यासत्तौ विशेषः किंनिबन्धनो भविष्यतीति न विद्मः । तस्माद् अत्र पित्रोः सद्भावे कः क्रम इत्य् अपेक्षायां वक्तव्य विशेषः । यत् तूक्तं शम्भुना - “मध्यकधनत्वात् दम्पत्योर् येन केनचित् गृह्यमाणम् उभयार्थम् इति न विशेषो वक्तव्यः” इति, तद् अयुक्तम् । मात्रा गृह्यमाणं मात्रर्थम् एवाध्यग्न्यादिस्त्रीधनवन् नोभयार्थम् इति विशेषो वक्तव्य एव । सो ऽभिधीयते - न्यायाभावाद् अत्र अत्र क्रमे वचनम् एव शरणम्, वचने च पितुर् एव प्रथमं धनग्रहणे ऽधिकारः प्रतिपाद्यते । तथा च “अपुत्रस्य धनं पत्न्यभिगामि, तदभावे दुहित्रृगामि” इत्य् अनुवृत्तौ बृहद्विष्णुः - “तदभावे पितृगामि तदभावे मातृगामि” इति । यद्य् अप्य् अपुत्रधनस्य दुहित्रभावे पितृगामित्वम् उक्तम् । तथापि दुहित्रभावे दौहित्रगामित्वस्य न्यायवचनाभ्याम् उक्तत्वात् । दौहित्रस्याभावे तु पितृगामित्वम् अवगन्तव्यम्, दौहित्रस्यापि दुहितृकोटित्वात् पृथक् दौहित्रगामित्वानभिधानं बृहद्विष्णोर् इति च मन्तव्यम् । मात्रभावे तु सोदरभ्रातृगामित्वम् एकमातृकत्वेन मृतभ्रातृप्रत्यासत्त्यतिशयलक्षणन्यायात् प्राप्तम्, तदभावे भिन्नोदरभ्रातृगामित्वं च, तत् याज्ञवल्क्येन न्यायमूलक्रमम् एवाभिदधताभिहितम् - “पितरौ भ्रातरस् तथा” इति । भ्रातरः सोदरा एवात्र भिन्नोदरापेक्षया धनिनं प्रति पत्यासन्नत्वाद् अभिप्रेताः । ततश् च मात्रभावे सोदरभ्रातृगाम्य् अपुत्रधनम् इत्य् उत्सर्गो याज्ञवल्क्येन दर्शितः । तथा सोदरत्वरूपविशेषविवक्षायाम् अपि भ्रातर इति सामान्यशब्दप्रयोगेण सोदराभावे भिन्नोदरा इति चोत्सर्गस् तेनैव दर्शितः । उत्सर्गस्य वक्ष्यमाणविषयद्वये ऽपवादम् आह कात्यायनः ।

विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् ।
भ्राता वा जननी वाथ माता वा तत्पितुः क्रमात् ॥

तत्पितुर् माता विभक्तमृतापुत्रस्य पितुर् माता, पितामहीति यावत् । पुत्रग्रहणम् आसन्नतरोपलक्षणार्थम् । तेन पुत्रादिदौहित्रान्तानां पित्रपेक्षया दृष्टादृष्टोपकारकादिसंबन्धेनासन्नतराणाम् अभावे प्रथमं पिता हरेद् इत्य् अर्थः । वाशब्दास् त्रयो ऽप्य् अत्राभावविकल्पार्थाः । स्वाम्याख्ये सिद्धरूपे वस्तुनि “न हि वस्तु विकल्प्यते” इति न्यायेन तुल्यवद् विकल्पासंभवात् । एवं चैतद् उक्तं भवति - पित्रभावे भ्राता हरेत् तदभावे जननी तदभावे पितामहीति । क्रमात् उक्तपाठक्रमेनेत्य् अर्थः । अनेनैव च क्रमेण विभक्तसंस्थितविषये मनुर् अपि पुत्रपत्नीदुहितृदौहित्राणाम् आसन्नतराणाम् अभावम् अपुत्रस्येत्य् उपलक्षकशब्देन अपुत्रस्येत्य् उक्त्वा पितृभ्रातृमातृपितामहीनां धनग्रहणं सार्धश्लोकेनाह ।

पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा ।
अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् ॥
मातर्य् अपि च वृत्तायां पितुर् माता धनं हरेत् । इति ।

अपुत्रस्य पुत्रपत्नीदुहितृदौहित्रशून्यस्येत्य् अर्थः । एवं च कात्यायनमनुप्रतिपादितः पित्रादिपितामह्यन्तानां धनग्रहणक्रमो वचनैकनिबन्धनः स्वविरुद्धनैयायिकक्रमबाधक इति न्यायविरोधशङ्कात्र न कार्या । याज्ञवल्कीयम् एव वचनं क्रमपरम्, तत्पर्त्वस्य तत्र “पूर्वाभावे परः परः” इति कण्ठोक्त्या व्यक्तत्वात् । तेन तद्विरुद्धानि वचनानि “पिता हरेद् अपुत्रस्य” इत्येवमादीनि त्व् अधिकारमात्रपराण्य् एवेति व्याख्याप्य् उपेक्षणीया । “माता वा तत्पितुः क्रमात्” इति, “मातर्य् अपि च वृत्तायाम्” इति कात्यायनवचनयोर् अपि कण्ठोक्त्या क्रमस्मृतेः । मातुः पूर्वं भ्राता धनहारीत्य् अत्र विशेषम् आह बृहस्पतिः ।

भार्यासुतविहीनस्य विभक्तस्य मृतस्य तु ।
माता रिक्तहारी ज्ञेया भ्राता वा तदनुज्ञया ॥ इति ।

तस्य मृतस्य । भार्याग्रहणं न्यायतो बद्धक्रमाणां दुहितृदौहित्रपितॄणाम् उपलक्षणार्थम् । तेन सुतभार्यादुहितृदौहित्रपितृविहीनस्येत्य् अर्थो विज्ञेयः । एवं च “पितरौ भ्रातरस् तथा” इत्य् उक्तक्रमस्य मातुर् अनुज्ञाविषये विद्यमानपितामहीविषये च कात्यायनाद्युक्तक्रमेणापवादो ऽनुसंधेयः । एतेनेदं निरस्तम्, यत् कैश्चिद् उक्तम् - “मातृपितृभ्रातृसुतानां ऽपितरौ भ्रातरस् तथा तत्सुताःऽ इति वचनेन बद्धक्रमत्वान् मध्ये ऽनुप्रवेशाभावात् भ्रातृसंतानानन्तरं पितामही गृह्णाति, तस्याः क्रमविशेषोक्त्यभावेनाविरोधात्” इति । न हि पितामह्याः क्रमविशेषोक्त्यभावः, कात्यायनवचने पाठतस् तद्गताथशब्देन, मानवीये “मातरि वृत्तायाम्” इति पदद्वयेन च पितामह्याः क्रमविशेषोक्तेः प्राक्प्रदर्शितत्वात् । बद्धक्रमस्यापि तस्य न्यायमूलस्य मध्ये वचनमूलकम् अविशेषसंभवाच् च । यत् तु शङ्खलिखितोक्तम् - “स्वर्यातस्य ह्य् अपुत्रस्य भ्रातृगमि द्रव्यम्, तदभावे पितरौ हरेयाताम्” इति, तत् सामान्यविशेषन्यायेन विभक्तसंस्थितविषयाद् अन्यत्र संसृष्टस्वर्यातविषये ऽवतिष्ठत इत्य् अविरोधः । यत् तु बृहस्पतिनोक्तम्,

पुत्राभावे तु पत्नी स्यात् पत्न्यभावे तु सोदरः ।
तदभावे तु दायादः पश्चाद् दौहित्रकं धनम् ॥

इति, तत् पत्न्याः पूर्वं सोदरनिवृत्त्यर्थम्, न पुनर् दायादशब्दनिर्दिष्टदुहितृभ्यः पूर्वं सोदरप्राप्त्यर्थम् । तथात्वे “अङ्गाद् अङ्गात् संभवति पुत्रवद् दुहिता” इत्यादिस्ववचनविरोधापत्तेः । यत् तु देवलेनोक्तम्,

ततो दायम् अपुत्रस्य विभजेरन् सहोदराः ।
तुल्या दुहितरो वाथ ध्रियमाणः पिताथ वा ।
सर्वर्णा भ्रातरो माता भार्या वेति यथाक्रमम् ॥ इति ।

यद्य् अप्य् अत्र व्यवहितान्वयो वचनरचनाञ्जस्येनावगम्यते, तथापि पूर्वोक्तसर्ववचनन्यायाविरोधाय व्यवहितान्वयेनैवार्थो ऽवगन्तव्यः । तथा हि, अपुत्रस्य दायं भार्या पत्नी वाप्नुयात् अथ वा तुल्याः सवर्णाः दुहितरो विभजेरन् अपि वा ध्रियमाणो विद्यमानः पिता हरेत्, अनर्थकध्रियमाणशब्दाद् अध्यमाणे पितरि मातेत्य् अन्वयावगमात् पितुर् अभावे मातावाप्नुयात्, ततः सहोदराः सवर्णाश् च भ्रातरो यथाक्रमं पूर्वं सहोदरास् तत्तदभावे सवर्णा इति क्रमानतिक्रमेण विभजेरन्न् इति । मात्रनुज्ञायाः पितामह्याश् चाभावविषय एतद् द्रष्टव्यम् । अस्मिन्न् अपि विषये कात्यायनेन सुबोधाय क्रमो दर्शितः ।

अपुत्रस्याथ कुलजा पत्नी दुहितरो ऽपि वा ।
तदभावे पिता माता भ्राता पुत्राश् च कीर्तिताः ॥

पुत्रशब्दः संअन्धिशब्दत्वात् पदन्यायेन भ्रातृपुत्रेष्व् एव वर्तते । अत एव याज्ञवल्क्येन “भ्रातरस् तथा तत्सुताः” इत्य् उक्तम् । यत् तु संग्रहकारेणोक्तम्,

तादृग्दुहित्रभावे ऽपि माता धनम् अवाप्नुयात् ।
विद्यमाने ऽपि पितरि सपत्नीसुतसंततौ ॥
तादृङ्मातुर् अभावे ऽपि पितुर् माता हरेद् धनम् ।
विद्यमाने ऽपि पितरि क्षत्रियासुतसंततौ ॥
पितामह्या अभावे ऽपि पिता धनम् अवाप्नुयात् ॥

इति —सुतसंतताव् इत्य् अत्र विद्यमानायाम् इत्य् अध्याहारे कृते सत्य् अस्यार्थः सुगमः — तद् एतद् धारेश्वरोत्प्रेक्षितन्यायमूलत्वाद् विश्वरूपादिभिस् तन्न्यायनिराकरणान् मूलभूतन्याये असत्य् अनादृत्यम् एव । यत् पुनस् तेनैवोक्तम्,

सोदर्याः सन्त्य् असोदर्या भ्रातरो द्विविधा यदि ।
विद्यमाने ऽप्य् असोदर्ये सोदर्या एव भागिनः ॥

इति, तत् सम्यङ्न्यायमूलत्वाद् आदरणीयम् । भ्रातृसुतेष्व् अप्य् अयं विसेषः सोदरासोदरभ्रातृसुतसमवाये ग्राह्यः । ततश् च् सोदरभ्रातृसुताभावे सपत्निभ्रातृसुता धनभाजः । तेषाम् अभावे के धनभाज इत्य् अपेक्षिते याज्ञवल्क्यः “गोत्रजाः” इति । धनभाज इति शेषः । गोत्रजशब्दो ऽत्र गोबलीवर्दन्यायात् पूर्वोक्तपितृभ्रातृतत्सुतव्यतिरिक्तपितामहतत्सुतादिगोत्रजेषु वर्तते । तत्रापि सरूपैकशेषस्य स्वतो ऽवगतेः पितामहदुहित्रादिस्त्रीव्यतिरिक्तेषु वर्तते । कारणान्तराद् एव हि “कुक्कुटावनय (?) मिथुनीकरिषामहे” इत्यादौ विरूपैकशेषावगतिः । न चेह तथास्तिकारणान्तरम्, प्रत्युत भ्रातृतत्सुतसाहचर्यात् पुमांस एव गोत्रजा गम्यन्ते । किं च पत्नीदुहित्रादीनां शृङ्गग्राहेण दायादत्वस्मृतेर् अगत्या “तस्मात् स्त्रियो निरिन्द्रिया अदायादीः” इति श्रुतेस् तद्व्यतिरिक्तविषयतोक्ता । तेनेह सरूपैकशेषतया स्मृतेः सत्यां संगतौ श्रुतिविरोधिनी विरुपैकशेषता दूरोत्सारिता । अत एव “जीवन् पुत्रेभ्यो दायं विभजेत्” इत्य् आपस्तम्बसूत्रं व्याचक्षाणेन तद्भाष्यकारेण पुत्रेभ्य एव दायं विभजेन् न स्त्रीभ्यो दुहितृभ्य इत्य् उक्तम् । यद्य् अपि “भ्रातृपुत्रो स्वसृदुहितृभ्याम्” इति शब्दस्मृत्या पुत्रेभ्य इत्य् अत्र विरूपैकशेषं कृत्वा दुहितॄणाम् अप्य् अनुप्रवेशः सूत्रे कर्तुं शक्यते, तथापि पुमांसो दायादा न स्त्रियः “तस्मात् स्त्रियो निरिन्द्रिया अदायादीः” इति श्रुतेर् इति । एतेनैतन् निरस्तम्, यत् कैश्चिद् उक्तम्, गोत्रजा पितामही तत्सपिण्डाः समानोदकाश् च, तत्र पितामही प्रथम्ं धनभाक् “मातर्य् अपि च वृत्तायां पितुर् माता धनं हरेत्” इति मात्रन्तरं पितामह्या धनग्रहणे प्राप्ते पुत्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्ये ऽनुप्रवेशाभावाद् उत्कर्षे तत्सुतानन्तरम् अपि पितामही गृह्णाति अविरोधाद् इति । भ्रातृसुतानन्तरम् अपि तेषां गोत्रजानां च बद्धक्रवत्वाविशेषात् पितामह्या सहैवात्र क्रमो बाध्यत इत्य् असंबन्धसरूपैकशेषत्वेन पुंसाम् एव गोत्रजानां भ्रातृसुतैः सह क्रमबन्धनात्, न चान्यगोत्रजा पितामही मृतगोत्रजापीत्य् अलं बहुना । गोत्रजा इत्य् एकशेषकरणम् अपि पितराव् इतिवन् न्यायामूलावान्तरक्रमाभावाद् एव याज्ञवल्क्यस्येति मन्तव्यम् । न हि भ्रातृसुताभावे पितामहसुतो धनभाग् इत्य् एवमाद्यवान्तरक्रमे कश्चिन् न्यायो ऽस्ति । ननु पितामहम् अतिक्रम्य तत्सुतो धनभाग् इति केनोच्यते । भ्रातरस् तत्सुता इत्य् अभिधाय गोत्रजा इत्य् अभिदधता याज्ञवल्क्येनोच्यते । गोत्रजशब्देनैव भ्रातृतत्सुतयोर् निर्देशे लभ्यमाने ऽपि पृथक् तयोर् अभिधानस्य गोत्रजेषु पितामहादिषु तस्य तस्य संततौ पितृसंतानाव् इव् द्वयोर् एव पुत्रपौत्रयोर् धनभागित्वज्ञापनार्थत्वात् । मनुनाप्य् अयम् एवार्थः सूच्यते ।

यो यो ह्य् अनन्तरः पिण्डात् तस्य तस्य धनं भवेत् ।
अत ऊर्ध्वं सकुल्याः स्युर् आचार्यः शिष्य एव वा ॥

तद् एतद् धारेश्वरो व्याचष्टे - यो यो ह्य् अनन्तरः पिण्डाद् इत्य् अत्र पिण्डाद् इति पदं सपिण्डाद् इत्य् अर्थे द्रष्टव्यम् । कः पुनर् अयम् अवधिभूतः सपिण्डः । पिता हरेद् इत्य् अधिकृतत्वात् पितैव । ननु पितुर् अन्तरस् तत्पिता भवति तत्पुत्रश् च । तत्रोभयोर् विद्यमानत्वे कस्यानन्तर्यं युक्तम् । तत्पुत्राणाम् इति ब्रूमः । कुत एतत् । ऽपिता हरेद् पुत्रस्य रिक्थं भ्रातर एव वाऽ इत्य् अत्र एवकारेण पितामहे रिक्थभागित्वाभावसूचनात् । ततश् च वचनाद् एव तुल्ये ऽप्य् आनन्तर्ये संततिद्वारम् एवानन्तर्यम् इष्यते । एवं च ऽयो यो ह्य् अनन्तरः पिण्डात्ऽ इत्य् अनेन पितृसंततेर् अभावे पितामहसंततिर् अभिधीयते, तस्याप्य् अभावे प्रपितामहसंततिर् इत्य् एवमाद्यात् सपिण्डाद् इत्य् अनुसंधेयम् । सपिण्डानाम् अभावे तु सकुल्याः समानोदकाश् चात्र सकुलयशब्देनोच्यते । तेषाम् अप्य् आसन्नसंततेर् अभावे पूर्ववद् विप्रकृष्टसंतती रिक्थार्हेति । एवं च ये — भ्रातृसुतानन्तरं पितामहो धनभाक् तदभावे तत्संततिः, एवं प्रपितामहादेर् अपीत्य् आहुः, ते न्यायसिद्धक्रमबाधकक्रमान्तरपरवचनसूक्ष्मार्थज्ञा न भवन्ति । अत्रायं दायप्राप्तिक्रमः — भ्रातृसुताभावे पितामहसुतस्य दायप्राप्तिः, तस्याभावे प्रपितामहसुतस्य, तस्याभावे वृद्धप्रपितामहसुतस्य, तस्याभावे वृद्धप्रपितामहपितृसुतस्य, तस्याभावे सपिण्डान्तिमपुरुषस्य, तस्यभावे तत्सुतस्य, तस्याभावे समानोदकाद्यपुरुषस्य, तस्याभावे तत्सुतस्य, एवम् एवोपरितनषट्समानोदकसंतताव् अप्य् अनुसंधेयम् । तद् एतत् सर्वम् अभिसंध्याह बृहस्पतिः ।

बहवो ज्ञातयो यत्र सकुल्या बान्धवास् तथा ।
यस् त्व् आसन्नतरस् तेषां सो ऽनपत्यधनं हरेत् ॥

ज्ञातयः सपिण्डाः सकुल्याः समानोदकाः । बान्धवास् त्व् आसन्नतराः क्रमेणैव स्मृत्यन्तरे प्रदर्शिताः ।

आतम्पितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः ।
आतममातुलपुत्राश् च विज्ञेया आत्मबान्धवाः ॥
पितुः पितृष्वसुः पुत्राः पितुर् मातृषवसुः सुताः ।
पितुर् मातुलपुत्राश् च विज्ञेयाः पितृबान्धवाः ॥
मातुः पितृष्वसुः पुत्राः मातुर् मातृष्वसुः सुताः ।
मातुर् मातुलपुत्राश् च विज्ञेया मातृबान्धवाः ॥ इति ।

ज्ञातिसकुल्यबन्धुषु वाचनिकासन्नतराभावे यथा कथंचिद् अप्य् आसन्नतरा मृग्याः, “पिण्डगोत्रऋषिसंबन्धा रिक्थं भजेरन्” इति सामान्येन गौतमस्मरणात् । बन्धूनाम् अभावे के धनभाज इत्य् अपेक्षिते याज्ञवल्क्यः - “शिष्यसब्रह्मचारिणः” इति । धनभाज इति शेषः । उपनीय वेदम् अध्यापितः शिष्यः, एकाचार्यः सब्रह्मचारी । शिष्योपाध्यायसंबन्धेन धनसंबन्धे गुणबूतस्य शिष्यस्य कथिते प्रधानभूताचार्यस्य दण्डापूपन्यायात् बन्ध्वभावे प्रथमं धनसंबन्धो ज्ञायते इति मत्वाचार्यस्यात्रानभिधानम् इति मन्तव्यम् । सब्रह्मचार्यभावे के धनभागिन इत्य् अपेक्षिते मनुः ।

सर्वेषाम् अप्य् अभावे तु ब्राह्मणा रिक्थभागिनः ।
त्रैविद्याः शुचयो दान्ताः तथा धर्मो न हीयते ॥
अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः ॥ इति ।

मनूक्तलक्षणब्राह्मणाभावे राजानं प्रत्य् आह नारदः ।

ब्राह्मणार्थस्य तन्नाशे दायादश् चेन् न कश्चन ।
ब्राह्मणायैव दातव्यम् एनस्वी स्यान् नृपो ऽन्यथा ॥

तन्नाशे अर्थस्वामिनाशे । ब्राह्मनेतरार्थस्य तन्नाशे त्व् आह मनुः ।

इतरेषां तु वर्णानां सर्वाभावे हरेन् नृपः । इति ।

नृपो जनपदपुरपरिपालनादिकर्ता । सर्वेषाम् अभावे राजगामि धनम् इत्य् अनुवृत्तौ नारदः ।

अन्यत्र ब्राह्मणात् किं तु राजा धर्मपरायणः ।
तत्स्त्रीणां जीवनं दद्याद् एष दायविधिः स्मृतः ॥

तत्स्त्रीणां ब्राह्मणेतरधनस्वामिस्त्रीणां धनभागित्वानर्हाणाम् इत्य् अर्थः । सर्वेषाम् अभावे इत्य् अत्र वर्णभेदनिबन्धनविशेषम् आह संग्रहकारः ।

पितर्य् अविद्यमाने ऽपि धनं तत्पितृसंततेः ।
तस्याम् अविद्यमानायां तत्पितामहसंततेः ॥
असत्याम् अपि तस्यां तु प्रपितामहसंततेः ।
एवम् एवोपरितनाः सपिण्डा रिक्थभागिनः ॥
तदभावे सकुल्याः स्युर् आचार्यः शिष्य एव वा ।
सब्रह्मचारी सद्विप्राः पुर्वाभावे परः परः ॥
शूद्रस्यैकोदराभावे राजा धनम् अवाप्नुयात् ।
आचार्यस्याप्य् अभावे तु तथा क्षत्रियवैश्ययोः ॥

इति संग्रहकारस्य धारेश्वरमतानुसारित्वात् पितर्य् अविद्यमाने ऽपि धनं तत्पितृसंततेः इत्य् अभिधानानम् । अस्मिन् मते तु पितर्य् अविद्यमाने तु मातुर् धनम्, तदभावे पितामह्याः, तदभावे धनिकपितृसंततेः भ्रातृतत्सुतरूपाया इत्य् अनुसंधेयम् । एवम् उक्तम् अपुत्रधनविषयं सर्वं यथायोग्यम् अनुपनीतोपकुर्वाणब्रह्मचारिसमावृत्तगृहस्थाश्रमान्तरबहिर्भूतस्नातकस्वामिविषयम्, नैष्ठिकवनस्थयतिस्वामिकधनविषये तु ग्राहकान्तरस्मरणात् । तथा च याज्ञवल्क्यः ।

वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः ।
क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥

ब्रह्मचार्य् अत्र यतिसाहचर्यान् नैष्ठिको ऽवगम्यते । धर्मभ्राता समानाचार्यकः । एकतीर्थः समानशास्त्रकः क्रमेण पूर्वपूर्वाभावे परः पर इत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायां दुहित्रादिविषयाणि

संसृष्टभ्रात्रादिविषयाः

अथ संसृष्टभ्रात्रादिविषयाणि कानिचिद् वचनानि लिख्यन्ते

अत्र बृहस्पतिः ।

विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः ।
पितृव्येणाथ वा प्रीत्या तत्संसृष्टः स उच्यते ॥

यः पुत्रादिः पित्रदिना सह विभक्तः सन् पुनः प्रीत्यादिनिमित्तेन विभक्तेनैव येन पित्रादिना सहवासम् आपन्नः स तेन संसृष्ट इत्य् उच्यत इत्य् अर्थः । इदं चात्रार्थाद् अवगम्यते — पितृभ्रातृपितृव्यव्यतिरिक्तेन भ्रातृपितृव्यपुत्रादिना सह संसर्गो न विद्यत इति । सहवासे पुरुषाणाम् आहत्य संसर्गाभावात् धनद्वारेण संसर्गो वाच्य इतीदंताव्यवहारनिमित्तभूतावच्छेदकापनोदेन विभक्तानां पूर्ववद् एकराशीकरणपर्यन्तः संसर्गो न पुनः सहवासमात्रम् इति मन्तव्यम् । अत एव पुनः क्रियमाणधनविभागम् अनूद्य तत्र प्रकारविशेषम् आह मनुः ।

विभक्ताः सहजीवन्तो विभजेरन् पुनर् यदि ।
समस् तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ॥

सहजीवन्तः सहवासेन जीवन्तः । विभजेरन् संसृष्टधनम् इति शेषः । तत्र संसृष्टधनविभागे समविभागविधानाद् एव सिद्धे ज्यैष्ठ्यनिमित्तकांशाग्रहणे पुनर् ज्यैष्ठ्यनिमित्तकभागवैषम्यनिषेधो ऽयं स्वल्पधनसंसर्गनिमित्तकभागवैषम्यानुज्ञानार्थः । तेन संसर्गसमये यदीयं यावत्संसृष्टं तदनुसारेण संसृष्टविभागवैषम्यं कल्पनीयम् । एवं च धनस्येदंतापनोदाय संसर्गो न पुनर् इयत्तापनोदायेति मन्तव्यम् । अन्यद् अपि भागवैषम्यं निमित्तान्तरकृतम् आह बृहस्पतिः ।

संसृष्टानां तु यः कश्चिद् विद्याशौर्यादिनाधिकम् ।
प्राप्नोति तस्य दातव्यो द्व्यंशः शेषाः समांशिनः ॥

तस्मिन् प्राप्ताधिकधन इति शेषः । संसृष्टव्यानुपरोधेनार्जिते ऽपि विभाज्यत्वविधानार्थम् एतत् । संसृष्टानां मध्ये पुनर् विभागकरणाद् अर्वाक् प्रमीतस्य पुत्रादिसद्भावे,

प्रमीतपितृकाणां तु पितृतो भागकल्पना ।

इति विधिना विभागः कर्तव्यः, विधानान्तरास्मरणात्, पुत्राद्यभावे तु न पत्नीदुहितृन्यायः, विधानान्तरस्मरणात् । तथा च बृहस्पतिः ।

विभक्ता भ्रातरो ये तु संप्रीत्यैकत्र संस्थिताः ।
पुनर् विभागकरणे तेषां ज्यैष्ठ्यं न विद्यते ॥
यदा कश्चित् प्रमीयेत प्रव्रजेद् वा कथंचन ।
न लुप्यते तस्य भागः सोदरस्य विधीयते ॥ इति ।

यथा प्रथमविभागकरणात् पूर्वं मृतस्यापुत्रस्य प्रव्रजितस्य वा भागो लुप्यते, विभागाभावेन तद्धेतुकाया इयत्ताया अभावात्, तेन सर्वं रिक्थं सहवासिन एव तत्र सर्वे गृह्णन्ति, न तथात्र विभागहेतुकाया इयत्तायाः अभावः, प्रथमविभागेनैवेयत्तायाः कृतत्वात् । न च संसर्गात् सा अपैति, तस्येदन्तामात्रापनोदकत्वात् । तेन न सर्वं रिक्थं संसृष्टिन एव सर्वे गृह्णीयुः, किं तु विभागकाले तत्तद्भागः पृथगुद्धरणीयः । स च विभक्तपतिभागविषय इवादौ न पत्न्याः, किं तु संसृष्टिसोदरस्य भ्रातुर् वचनेन विधीयते । सोदरस्येत्य् एकवचनम् अविवक्षितम् । अत एव नारदः ।

भ्रातॄणाम् अप्रजाः प्रेयात् कश्चिच् चेत् प्रव्रजेत वा ।
विभजेयुर् धनं तस्य शेषास् ते स्त्रीधनं विना ॥

शेषाः संसृष्टिनः सोदरभ्रातरः,

संसृष्टिनस् तु संसृष्टी सोदरस्य तु सोदरः ।

इति याज्ञवल्क्यस्मरणात् । संसृष्टिनो भ्रातुर् धनं संसृष्ट्य् एव भ्राता हरेत् न पत्न्यादिः, तत्रापि सोदर एवेत्य् अर्थः । एवं तर्ह्य् अत्र मृतस्य पत्नीनाम् अप्रत्तदुहितॄणां च का गतिर् इत्य् अपेक्षिते ऽप्य् आह नारदः ।

भरणं चास्य कुर्वीरन् स्त्रीणाम् आ जीवितक्षयात् ।
रक्षन्ति शय्यां भर्तुश् चेद् आच्छिन्द्युर् इतरासु तत् ॥
या तस्य दुहिता तस्याः पित्र्यो ऽंशो भरणे मतः ।
आ संस्काराद् धरेद् भागं परतो बिभृयात् पतिः ॥ इति ।

तस्य मृतस्य प्रव्रजितस्य वा या दुहिता तस्याः परिणयनम्, ततः पूर्वं भरणं च शेषा एव कुर्वीरन्न् इति द्वितीयश्लोकस्य तात्पर्यार्थः प्रेत्येतव्यः । यत्र पुनः शेषेषु भ्रातृष्व् असंसृष्टा अपि सोदराः केचित् सन्ति तत्र ये संसृष्टाः सोदरास् त एव विभजेयुः ।

संसृष्टानां तु यो भागस् तेषाम् एव स इष्यते ।

इति प्रस्तुत्य भ्रातॄणाम् अप्रजा इत्य् उक्तम् । यत्र त्व् असंसृष्टाः सर्वे सोदराः भिन्नोदरास् तु संसृष्टाः तत्र सोदरा एव असंसृष्टा अपि तस्य धनं विभजेरन् न तु भिनोओदराः संसृष्टाः,

संसृष्ट्य् अपि चादद्यात् संसृष्टो नान्यमातृजः ।

इति याज्ञवल्क्यस्मरणात् । असंसृष्ट्य् अपीत्य् अपिशब्दात् अन्यमातृजस्य संसृष्टित्वविशिष्टस्य आदानप्रतिषेधः अवगम्यते । यदा तु शेषेषु सोदराभावः तदा भिन्नोदरांस् संसृष्टा विभजेयुः,

संसृष्टौ यौ पुनः प्रीत्या तौ परस्परभागिनौ ।

इति बृहस्पतिस्मरणात् । अत्र भिन्नमातृकाव् इति पौनरुक्त्यपरिहाराय गम्यते । यत् तु याज्ञवल्क्योक्तम्,

अन्योदर्यस् तु संसृष्टी नान्योदर्यो धनं हरेत् ।

इति, तत् सोदर्यसद्भावविषयम् इत्य् अविरुद्धम् । यद्य् असंसृष्टानाम् एकोदराणाम् अभाव एव संसृष्टभिन्नोदराणां धनग्रहणं तर्हि,

येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥
सोदर्या विभजेरंस् तं समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा भगिन्यश् च सनाभयः ॥

इति मनुवचनविरोधः स्यात् । चशब्दद्वयेन सर्वेषां श्लोकोक्तानां सोदरभ्रातृभगिन्यसोदरभ्रातॄणाम् इतरेतरयुक्तानां विभागावगतेः । किं च संसृष्टा भिन्नोदरभ्रातरस् तैः सहिताः सोदर्याः सनाभयो भगिन्यः समेत्य तम् अलुप्तभागं समं विभजेरन्न् इत्य् एवान्वयान् मिलितानाम् एव कर्तृता सहितसर्वशब्दाभ्यां सुव्यक्तेति व्यक्तो निरोधः । केचिद् विरोधपरिहारार्थम् इदं वचनम् एवं व्याचक्षिरे - “तम् अलुप्तभागं सोदरा यदा संसृष्टिनः तदा त एव गृह्णीयुः, नासंसृष्टिनः सोदरा अपि । संसृष्टीनां सोदराणाम् अभावे सर्वे सोदराः समेत्य मिलिताह् सहिताः समप्रधानभावेन समं अन्यूनाधिकं विभजेरन् । सोदराणाम् अभावे भगिन्यः सनाभयो विभजेरन् । तासाम् अप्य् अभावे अन्योदर्या भ्रातरः” इति । तद् एतत् अनेकाध्याहारकरणाद् अत्यन्तासमञ्जस्त्वाच् चोपेक्षणीयम् । अन्ये पुनर् विरोधपरिहारार्थम्,

अन्योदर्यस् तु संसृष्टी नान्योदर्यो धनं हरेत् ।
असंसृष्ट्य् अपि चादद्यात् संसृष्टो नान्यमातृजः ॥

इति याज्ञवल्क्यवचनं पठित्वा तद्वचनं यथा प्रतीयमानमानववचनसमानार्थतया व्याकुर्वते । तत्र तावत् “अन्योदर्यस् तु संसृष्टी नान्योदर्यो धनं हरेत् । असंसृष्टी” इत्य् एतावतो भागस्याक्षरार्थतात्पर्यार्थौ व्याख्यातौ । अन्योदर्यो यः सापत्नो भ्राता संसृष्टिधनं हरेत् न पुनर् अन्योदर्यो धनं हरेत् असंसृष्टी । अनेनान्वयव्यतिरेकाभ्याम् अन्योदर्यस्य संसृष्टित्वं धनग्रहणे कारणम् उक्तम् इति । अपि चादद्यात् असंसृष्टी" (?) इत्य् एतावता मध्यमभागेन सह संबन्धम् असंसृष्टीति पूर्वभागस्याभिधायाक्षरार्थसहितः तात्पर्यार्थो व्याख्यातः । असंसृष्टीत्य् एतद् उत्तरेणापि संबध्यते । ततश् चासंसृष्ट्य् अपि संसृष्टिनो धनम् आददीत । को ऽसाव् इत्य् अत आह “संसृष्टः” इति । संसृष्टः एकोदरसंसृष्टः सोदर्य इति यावत् । अनेनासंसृष्टस्यापि सोदर्यधनग्रहणे सोदरत्वं कारणम् उक्तम् इति । नान्यमातृज इति भागस्याप्य् एवकाराध्याहारं कृत्वा तेन सह संबन्धं संसृष्ट इति मध्यमभागान्तर्गतस्य पदस्याभिधायाक्षरार्थो व्याख्यातः । संसृष्ट इत्य् उत्तरेणापि संबध्यते । तत्र च संसृष्टः संसृष्टीत्य् अर्थः । नान्यमातृज इत्य् अत्र एवशब्दाध्याहारेण व्याख्यानं कार्यम् । संसृष्ट्य् अप्य् अन्यमातृज एव सोदरसहितः संसृष्टिनो धनं नाददीतेति कृत्स्नश्लोकस्य च तात्पर्यर्थो मानववचनसमानार्थतया दर्शितः । एवं च “असंसृष्ट्य् अपि चादद्यात्” इत्य् अपिशब्दश्रवणात् “संसृष्टो नान्यमातृजः” इत्य् अवधारणनिषेधाद् असंसृष्टसोदरस्य संसृष्टभिन्नोदरस्य च विभज्यग्रहणं कर्तव्यम् इत्य् उक्तं भवति । द्वयोर् अपि धनग्रहणकारणस्यैवैकस्य सद्भावाद् इति । तद् एतत् एवं व्याख्यातृभ्यः तेभ्य एव रोचते, न पुनः प्रतिपत्तृभ्यः, वचनतो ऽत्यन्ताप्रतीयमानस्यैव स्वप्रज्ञाबलाद् वचनार्थकरणात् । तस्माद् अत्र मनुवचनयाज्ञवल्क्यवचनयोर् यथाप्रतीयमानार्थपरयोर् विषयव्यवस्थयैवाविरोधो वाच्यो न पुनर् अर्थैक्याभिधानक्लेशाद् इति सैवोच्यते । मनुवचनं तावत् स्थावरतदितरधनसद्भावविषयम्, प्रजापतिना तत्रैव संसृष्टासंसृष्टानां विभज्यधनग्रहणविधानात् ।

अन्तर्धनं च यद् द्रव्यं संसृष्टानां च तद् भवेत् ।
भूमिं गृहं चासंसृष्टाः प्रगृह्णीयुर् यथांशतः ॥ इति ।

संसृष्टानां भिन्नोदरभ्रातॄणां यथांशतो गूढधनं जङ्गमं च द्विपदचतुष्पदादिरूपं भवेत् । असंसृष्टाः सोदरभ्रातृभगिन्यस् तु गृहक्षेत्रं यथांशतः प्रगृह्णीयुर् इत्य् अर्थः । एवं च पारिशेष्यात् केवलस्थावरसद्भावविषये केवलस्थावरेतरसद्भावविषये वा याज्ञवल्क्यवचनं द्रष्टव्यम् । यदा तु शेषभूतसंसृष्टभिन्नोदरा एव तदा पिता पितृव्यो वा यः संसृष्टः स एव गृह्णीयात्, “संसृष्टिनि प्रेते संसृष्टो रिक्थभाक्” इति गौतमस्मरणात् । यदा तु पिता पितृव्यो वा संसृष्टो न विद्यते तदा त्व् असंसृष्टभिन्नोदरो भ्राता गृह्णीयात् । तदभावे त्व् असंसृष्टः पिता, तदभावे माता, तदभावे पत्नी । तथा च शङ्खः - “स्वर्यातस्य ह्य् अपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयातां ज्येष्ठा वा पत्नी” इति । स्वर्यातस्य ह्य् अपुत्रस्य पित्रा पितृव्येण व संसृष्टस्य संसृष्ट्यभावे भिन्नोदरासंसर्गे भ्रातृगामि द्रव्यम् इत्य् अर्थः । तथा च नारदः ।

संसृष्टानां तु यो भागस् तेषाम् एव स इष्यते ।
अतो ऽन्यथांशतो भाजो निर्बीजेष्व् इतरान् इयात् ॥

अतो ऽन्यथा संसृष्टेषु सत्सु भिन्नोदरभ्रात्राद्यसंसृष्टिनो नांशभाजः । यदा तु सर्वे संसृष्टाः निर्बीजाः प्रजारहिता भवन्ति तदा चेतरान् भिन्नोदरभ्रात्रादीन् असंसृष्टान् इयात् संसृष्टानां भागं प्राप्नुयाद् इत्य् अर्थः । तत्र चायम् “भ्रातृगामि द्रव्यम्” इत्यादिशङ्खवचनोक्तक्रमो द्रष्टव्यः । ज्येष्ठाग्रहणं सुसंयतत्वादिगुणवत्याः कथनार्थम्, न पुनर् मध्यमादिनिवृत्त्यर्थम् । पुनर् अपि तदभाव इति वक्तव्ये वाशब्दः प्रयुक्तः, फलसाम्यात् । तथा हि, वाशब्दाद् विकल्पो गम्यते । न चात्र स्वाम्यरूपे वस्तुनि तुल्यविकल्पः संभवति, “न हि वस्तुनि विकल्पः” इति न्यायशास्त्रे सिद्धत्वात् । तद्माद् अत्र वाशब्दाद् अभावविकल्पावगतेः फलसाम्यम् अस्त्य् एव । एवं चायं क्रमः - भ्रात्रभावे पित हरेत् तदभावे माता तदभावे पत्नीति । ततश् च विभक्तविषयोक्तपत्नीदुहित्रादिक्रमविरुद्धत्वात् तदविरोधायैतत् संसृष्टांशविषयम् इति कल्प्यते । विभक्तविषयोक्तनैयायिकपत्नीदुहित्रादिक्रमो ऽस्मिन् विषये शङ्खोक्तवाचनिकक्रमेण बाध्यते । वाचनिक एवायं क्रमः, अस्मिन् क्रमे कस्य्चिन् न्यायस्याभावात् । अनेन व्युत्क्रमेण यदा पत्नीनाम् आगतं धनं भ्रातृपुत्रादयश् च सपिण्डा विद्यन्ते तदा त्व् आह नारदः ।

मृते पत्यौ तु भार्याः स्युर् अभ्रातृपितृमातृकाः ।
सर्वे सपिण्डाः स्वधनं विभजेयुर् यथांशतः ॥

भार्याः पत्न्याः । अभ्रातृपितृमातृकाः याः पत्युर् भ्रातृपितृमातरः सासाम् अभावविशिष्टा इत्य् अर्थः । अनेन द्वन्द्वसमासे भ्रात्रपेक्षयाभ्यर्हितं पितृपदस्य पूर्वनिपातनं परित्यज्य वैपरीत्येन समासरचनां कुर्वता नारदेन संसृष्टापुत्रधनं प्रथमतो भ्रातृगामि तदभावे पितृगामि तदभावे मातृगामि तदभावे सर्ववृत्तस्थपत्न्यभिगामीति दर्शितम् । संस्ट्ष्टविषये पत्नीनां न गौणपुत्राभावे दायहरत्वम्, किं तु भिन्नोदरासंसृष्टभ्रातृपितृमातॄणाम् अप्य् अभाव् इत् मन्तव्यम् । सर्वे सपिण्डा इत्यादेर् अयम् अर्थः - संसृष्टापुत्रस्य ये भ्रातृपितृमातृव्यतिरिक्ताः सपिण्डाः भ्रातृपुत्रादयस् ते स्वधनं पूर्वम् अपुत्रधनेन सह स्वपित्रादिसंसृष्टं तदूर्ध्वं तत्पत्नीभिः सह यथांशतो भ्रातृपुत्राणां भ्रात्रंशो भार्याणां भर्त्रंश इत्य् अंशानतिक्रमेण विभजेयुर् इति । पत्नीनाम् अभावे तु संसृष्टापुत्रांशं तद्भगिनी लभते । तथा च बृहस्पतिः ।

या तस्य भगिनी सा तु ततो ऽंशाल् लब्धुम् अर्हति ।
अनपत्यस्य धर्मो ऽयम् अभार्यापितृकस्य च ॥
सा च दत्ता त्व् अदत्ता वा सोदरे तु मृते सति ।
तस्यांशं तु हरेत् सैव द्वयोर् व्यक्तं हि कारणम् ॥

अभ्रातृमातृकस्य चेति चशब्दार्थः । भगिन्यभावे तु केवलाः सपिण्डाः संसृष्टांशम्,

अनन्तरः सपिण्डाद् यस् तस्य धनं भवेत् ।

इत्युक्तक्रमेण विभजेरन्, प्रतिपदोक्तानाम् अभावात् । तथा च स एव ।

मृतो ऽनपत्यो ऽभार्यश् चेद् अभ्रातृपितृमातृकः ।
सर्वे सपिण्डास् तद्दायं विभजेरन् यथांशतः ॥

तद्दायं संसृष्टदायम् । मृतो ऽनपत्यो भिन्नमातृको भ्रात्रादिप्रतिपदोक्तधनग्राहित्वरहितश् चेद् इति पूर्वार्धस्य तात्पर्यार्थः । सपिण्डाभावे तु विभक्तसंस्थितद्रव्यवद् एव संसृष्टस्वर्यातद्रव्यम् अपि समानोदकादिगामीत्य् अनुसंधेयम् । संसृष्टद्रव्यम् अधिकृत्य सपिण्डेभ्यः ऊर्ध्वं विशेषास्मृतेः ।

इति स्मृतिचन्द्रिकायां संसृष्टभ्रात्रादिविषयाणि

विभक्तपुत्रादिविभागः

अथ विभक्तपुत्रादिविभागः

अत्र जीवद्विभागोत्तरकालजातं पुत्रं प्रत्य् आह विष्णुः - “पितृविभागानन्तरोत्पन्नस्य भागं दद्युः” इति । अस्यार्थः - अविस्पष्टगर्भायां पितृभर्यायां ये पुत्राः पित्रा विभक्तास् ते स्वविभागोत्तरकालजस्य पुत्रस्य तत्संभाज्ञानतः स्वभागप्रविष्टतद्भागम् उद्धृत्य दद्युर् इति । पिता तु स्वभागप्रविष्टतद्भागांशं न दद्यात्, किं तु पूर्वजैर् दत्तान् अंशान् गृहीत्वा विभक्तजेन सह वसेत् । तस्याप्राप्तव्यवहारस्य सहवासेन पालनीयत्वात् । अत एव “पितृविभक्ताः भागं दद्युः” इत्य् उक्तम्, न पुनः पिता पितृविभक्ताश् च भागं दद्युर् इति । यत् तु गौतमेनोक्तम् - “विभक्तजः पित्र्यम् एव” इति, भागं गृह्णीयाद् इति शेषः । तद् एतत् पितृविभक्तपुत्रैर् विभक्तजस्य भागदानात् प्राग् एव मृते पितरि द्रष्टव्यम् । तथा च पूर्वजैर् भागो न देयः, पित्यम् एवेत्य् एवकारकरणात् । यत् तु बृहस्पतिनोक्तम्,

पित्रा सह विभक्ता ये सापत्ना वा सहोदराः ।
जघन्यजास् तु ये तेषां पितृभागहरास् तु ते ॥

इति, तत्र पितृभागहरा इत्य् अस्य पितृभाग एव भागहरा इत्य् अर्थो ऽवगन्तव्यः । तद् एतत् विभाद् ऊर्ध्वम् एव ये गर्भस्था भूत्वा जातास् तद्विषयम् । जघन्यजानां पितृभागाद् एव भागहरत्वे कारणम् अप्य् आह स एव ।

अनीशः पूर्वजः पित्र्ये भ्रातृभागे विभक्तजः ।

अनीशः अस्वामी । अनीशः पूर्वजः पित्र्य इत्य् अत्र पित्रा सह विभक्तत्वाद् इत्य् अभिप्रायः प्रत्येतव्यः । भ्रातृभागे विभक्तज इत्य् अत्र तु भ्रातृभागे विभक्तजधनसंक्रमणाभावाद् इत्य् अभिप्रायो ऽध्यवसेयः । प्रथमोक्ताभिप्रायेण विभक्ताग्रजानाम् अनीशतां पित्र्ये प्रसाध्य तद्बलाद् अन्यद् अप्य् आह स एव ।

पुत्रैः सह विभक्तेन पित्रा यत् स्वयम् आर्जितम् ।
विभक्तजस्य तत् सर्वम् अनीशाः पूर्वजाः स्मृताः ॥

सर्वग्रहणं विभागात् पश्चाद् आर्जिते पित्र्ये पूर्वजानां सुतानाम् अगृहीतांशत्वेनांशो ऽस्तीति शङ्कानिवृत्त्यर्थम् । एवं च पूर्वजास् तदितराश् चान्योन्यम् असंबन्धिजनवद् अस्वामिनः परस्परधने, किं त्व् ईषद् अत्र भेदो ऽस्तीत्य् आह स एव ।

यथा धने तथा चर्णे दानाधानक्रयेषु च ।
परस्परम् अनीशास् ते मुक्त्वाशौचोदकक्रियाः ॥

केवलम् आशौचोदकक्रियादौ परस्परम् ईशा न धनादाव् इत्य् अर्थः । आधानम् आधिः । उक्तम् ऋणादाव् अनीशत्वं संसर्गाभावे सतीत्य् आह स एव ।

संसृष्टौ यौ पुनः प्रीत्या तौ परस्परभागिनौ । इति ।

यत् पुनर् मनुनोक्तम्,

ऊर्ध्वं विभागाज् जातस् तु पित्र्यम् एव हरेद् धनम् ।
संसृष्टास् तेन वा ये स्युः विभजेत स तैः सह ॥

इति, तत्र पित्र्यम् एवेत्य् उत्तरार्धे ऽपि संबध्यते । अतो न प्रागुक्तेन विरुद्धम् । तद् एतद् विभक्तजेन पितुः सहवासदशायां मृते पितरि द्रष्टव्यम् । अजीवद्विभागोत्तरकालजातं तु पुत्रं प्रत्य् आह याज्ञवल्क्यः ।

विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।
दृश्याद् वा तद्विभागः स्याद् आयव्ययविशोधितात् ॥

पितुर् ऊर्ध्वम् अविस्पष्टगर्भायां पितृभार्यायां भ्रातृषु परस्परं विभक्तेषु पश्चात् सुतो यो जातः स विभागभाक्, भाग एव विभागः तं लभत इति यावत् । सर्वस्माद् विभक्ततधनाद् उद्धृत्य भागभाग् इति यावत् । यद् वा, दृश्यात् दृश्यमानगृहोपस्करवाह्यदोह्याभरणभृत्यादेः सकाशाद् एवायव्ययविशोधितात् उपचयापचयाभ्याम् अवधारितेयत्तादिकाद् विभक्ताद् उद्धृतो भागस् तस्य विभक्तजस्य स्याद् इत्य् अर्थः । दृश्यग्रहणं गूढद्रव्यजाताद् विभक्ताद् ऊद्धृत्यांशकल्पनानिवृत्त्यर्थम् । विभक्तजस्य सुतत्वाविशेषे ऽपि विभागकाले दुर्विज्ञेयसद्भावशालित्वात् तत्र भागे हासकरणं न्याय्यम् इति मन्वानेन पक्षान्तरम् उक्तम् इति मन्तव्यम् । दुर्विज्ञेयतत्सद्भावता न तद्दोषकृतेति प्रथमपक्षो ऽपि नात्यन्तानुचित इति मन्तव्यम् । यत्र पुनर् विभक्तागतस्य ह्रासपक्ष एव न समानभागपक्षान्तरोन्मेषः । अत एव तत्र ह्रासभागम् एवाह बृहस्पतिः ।

गोत्रसाधारणं त्यक्त्वा यो ऽन्यं देशं समाश्रितः ।
अर्धतस् त्व् आगतस्यांशः प्रदातव्यो न संशयः ॥

गोत्रसाधारणं त्यक्त्वा सर्वसहवासनिवासदेशम् उत्सृज्य यो ऽत्यन्तदूरदेशनिवासी स्वसद्भावाज्ञानतः शेषैर् एव विभज्य सर्वस्मिन् धने गृहीते पश्चाद् आगतस्यांशो ऽर्धतो विभक्तद्रव्यार्धाद् उद्धृत्य दातव्य इत्य् अर्थः । अत्रेतरेषां विभक्तागतसद्भावाज्ञानं तद्दोषनिबन्धनम् इति न पक्षान्तरोन्मेषः । अत एव न संशय इत्य् उक्तम् । एवम् अतिदीर्घकलप्रोषितस्य सद्भावाज्ञानतः कृते विभागे सत्य् आगतस्यापीत्य् आह स एव ।

ऋणं लेख्यं गृहं क्षेत्रं यस्य पैतामहं भवेत् ।
चिरकालप्रोषितो ऽपि भागभाग् आगतस् तु सः ॥

भागभाक् अर्धबाग् इत्य् अर्थः । आगतो विभागाद् ऊर्ध्वम् आगतः । पौत्रादिस् तु विभक्तागतः क्रमायातद्रव्यमात्रे ऽंशभाग् इत्य् आह स एव ।

तृतीयः पञ्चमश् चैव सप्तमो यो ऽपि वा भवेत् ।
जन्मनाम् अपरिज्ञाने लभेतांशं क्रमागते ॥

कस्यचिद् विभक्तागतस्य क्रमागतेष्व् अपि भूमात्रे ऽंशो देय इत्य् आह स एव ।

यं परम्परया मौलाः समस्ताः स्वामिनं विदुः ।
तदन्वयस्यागतस्य दातव्या गोत्रजैर् मही ॥

आगतस्य विभागाद् ऊर्ध्वम् इति शेषः । विभागाद् ऊर्ध्वम् आगतस्य पूर्वम् आगतस्य वा स्वभागं ग्रहीतुं प्रवृत्तस्य दृष्टादृष्टप्रमाणेनादौ तावद् आत्मनः परायत्ते द्रव्ये स्वाम्यं साधयतो भागहरणे ऽधिकारो भवति नान्यथेत्य् आह स एव ।

कृते ऽकृते वा विभागे रिक्थी यत्र प्रवर्तते ।
सामान्यं चेद् भावयति तत्र भागहरस् तु सः ॥

इति स्मृतिचन्द्रिकायां विभक्तजपुत्रादिविभागः

अवलुप्तविभागः

अथावलुप्तविभागः

तत्र मनुः ।

ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि ।
पश्चाद् दृश्येत यत् किंचित् तत् सर्वं समतां नयेत् ॥

विभागकाले यद् दृश्यते ऋणं धनं वा सर्वस्मिन् तस्मिन् यथाविधि,

पितृरिक्थहराः पुत्राः सर्व एव समांशिनः ।
विद्याकर्मयुतस् तेषाम् अधिकं लब्धुम् अर्हति ॥

इत्यादिविध्यनतिक्रमेण विभक्ते पश्चात् कालान्तरे यत् किंचिद् ऋणं प्रोषितोत्तमर्णस्य यत् किंचिद् धनं प्रोषितनिक्षेपधारकादिसमीपस्थं तयोः समागमादिवशाद् दृश्यते तत् सर्वं समतां नयेत् । न पुनर् विध्याकर्मयुते ऽधिकताम् इत्य् अर्थः । पश्चाद् दृष्टे ऋणे समतानि यमात् पूर्वदृष्टे ऋणे धनवद् विषमतास्तीति गम्यते । एवं विभागकाले यद् वस्तु येन केनचिद् वञ्चकेन परकीयबुद्ध्युत्पादनादिना प्रच्छादितं विभागोत्तरकाले विचार्यमाणे स्वकीयम् एव ज्ञातं चेत् तत्समतां नयेद् इत्य् आह कात्ययनः ।

प्रच्छादितं यदि धनं पुनर् आसाद्य तत्समम् ।
भजेरन् भ्रातृभिः सार्धम् अभावे हि पितुः सुताः ॥

पितुर् अभावे सर्वे सुता एव तदासादितं विभजेरन्न् इत्य् अर्थः । एवं सहवासिषु केनचित् किंचिद् धनम् अपहृतं कथंचिद् विभागाद् ऊर्ध्वं दृष्टं चेत् समतां नयेत् । तथा च याज्ञवल्क्यः ।

अन्योन्यापहृतं द्रव्यं विभक्ते यत् तु दृश्यते ।
तत् पुनस् ते समैर् अंशैर् विभजेरन्न् इति स्थितिः ॥

ते सर्वे विभक्ता इत्य् अर्थः । अपहृतवद् दुर्विभक्तम् अपि समतां नयेत् । तथा च कात्यायनः ।

अन्योन्यापहृतं द्रव्यं दुर्विभक्तं च तद् भवेत् ।
पश्चात् प्राप्तं विभज्येत समभागेन तद् भृगुः ॥

दुर्विभक्तम् अशास्त्रोक्तप्रकारेण विषमतया विभक्तं मिथो ऽपहृतदुर्विभक्तवद् अन्यापहृतं नष्टलब्धं च समतां नयेत् । तथा विभक्तेनार्जितं धनं त्व् आर्जकस्यैव भवति न दायादस्येत्य् आह स एव ।

विभक्तेनैव यत् प्राप्तं धनं तस्यैव तद् भवेत् ।
हृतं नष्टं च यल् लब्धं प्रागुक्तं च पुनर् भजेत् ॥

प्रागुक्तं मिथो ऽपहृतं दुर्विभक्तं च, दृष्टान्तार्थम् अत्र पुनर् अनयोर् उपादानम् । एवं च प्रागुक्तवत् विभजेरन्न् इत्य् अर्थः । तेन परापहृतस्य नष्टलब्धस्य च समम् एव विभजनम् अनेनोक्तम् इति मन्तव्यम् । एवं मन्वादिभिर् विभागात् पश्चाद् दृश्यमानमात्रस्यैव साधारणद्रव्यस्य विभागविधानात्, पूर्वकृतविभागः सम्यक् जात इति गम्यते । तेन विभागाद् ऊर्ध्वं किंचित् सामान्यद्रव्यदर्शने ऽपि पुरुषाणां विभक्तत्वं पूर्वम् एव संपन्नम् इति मन्तव्यम् । यत् पुनर् मनुनोक्तम्,

विभागे तु कृते किंचित् सामान्यं यत्र दृश्यते ।
नासौ विभागो विज्ञेयः कर्तव्यः पुनर् एव हि ॥

इति, तत् विभक्तैर् विभक्तद्रव्येष्व् आयव्ययादिकरणात् प्राग् एव दृष्टविषये द्रष्टव्यम् । अन्यथा पूर्वोक्तसर्ववचनविरोधापत्तेः । पुनर्विभागविधानस्य प्रयोजनं पश्चाद् दृष्टांशे ऽप्य् उद्धारादिकरणम् ॥

**इति स्मृतिचन्द्रिकायां अवलुप्तविभागः **

विभक्तकृत्यम्

अथ विभक्तकृत्यम्

तत्र नारदः ।

यद्य् एकजाता बहवः पृथग्धर्माः पृथक्क्रियाः ।
पृथक्कर्मगुणोपेता न चेत् कार्येषु संमताः ॥
स्वभागान् यदि दद्युस् ते विक्रीणीरन्न् अथापि वा ।
कुर्युर् यथेष्टं तत् सर्वम् ईशास् ते स्वधनस्य वै ॥

अस्यार्थः - एकस्माज् जाता यदि बहवो ऽनेकधा विभक्ताः तथा पृथक् पृथक् परस्परानुमतिम् अन्तरेण धनसाध्याग्निहोत्रादिकर्मकारिणः स्युः, तथैव विभक्तव्ययायत्तकृष्यादिलौकिकक्रियाकारिणो भवेयुः, तथा विभिन्नभाण्डादिकर्माङ्गद्रव्योपेताः स्युः, तथा स्वकर्येषु भ्रातरो न चेत् संमताः तदा तान् अनादृत्य स्वकार्यं कुर्युः । तथा ते विभक्ता यदि स्वभागात् दद्युर् विक्रीनीयुर् अथापि वा तत् सर्वं यथेष्टं कुर्युः यतस् ते विभक्ताः स्वतन्त्राः स्वामिन इति यावत् । यत् तु बृहस्पतिनोक्तम्,

विभक्ता वाविभक्ता वा दायादाः स्थावरे समाः ।
एको ह्य् अनीशः सर्वत्र दानाधमनविक्रये ॥

इति, आधमनम् आधीकरणम् । तद् एतद् यत्र समतया स्थावरविभागम् अतिदुष्करं मत्वा तत्फलम् एव फलकाले विभज्य ग्रहीष्याम इत्य् अभिसंधिना तदितरधनविभागतो दायादा विभक्ता भवन्ति तद्विषयम्, तत्र स्थावरे त्व् एकैकस्य स्वतन्त्रस्वामित्वाभावात् । विभक्तस्य कृत्यान्तरम् अप्य् आह स एव ।

येनांशो यादृशो भुक्तः तस्य तन् न विचालयेत् । इति ।

तथा राजानं प्रत्य् आह ।

स राज्ञांशे स्वके स्थाप्यः शासनीयो ऽनुबन्धकृत् ।

अनुबन्धो निबन्धः आग्रह इति यावत् ॥

इति स्मृतिचन्द्रिकायां विभक्तकृत्यविषयाणि

विभाग-तद्धर्म-सद्भाव-निर्णय-हेतवः

अथ विभाग-तद्धर्म-सद्भाव-निर्णय-हेतवः कथ्यन्ते

तत्र याज्ञवल्क्यः ।

विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः ।
विभागभावना ज्ञेया गृहक्षेत्रैश् च यौतकैः ॥

यौतकैः पृथक्कृतैः । विभागग्रहणं तद्धर्माणाम् अपि प्रदर्शणार्थम् । अत एव नारदः ।

विभागधर्मसंदेहे दायादानां विनिर्णयः ।
ज्ञातिभिर् भागलेख्येन पृथक्कार्यप्रवर्तनात् ॥

नासीदावयोर् विभाग इति स्वरूपापलापादिना सर्वस्माद् विभाज्यान्नावयोर् विभाग इति धर्मापलापादिना विभागतद्धर्मसद्भावसंदेहे दायादानां ज्ञात्यादिसाक्षिभिर् विभागलेख्येन वा पृथक्कार्यप्रवर्तनादियुक्तिभिर् वा निर्णयो ज्ञेय इत्य् अर्थः । पृथक्कार्यप्रवर्तनं दायादानां पृथक् पृथग् वैश्वदेवभिक्षादानातिथिपूजनादिधर्मप्रवर्तनम् । कथं तस्य युक्तित्वम् इत्य् अप्केषिते अनन्तरम् उक्तं तेनैव ।

भ्रातॄणाम् अविभक्तानाम् एको धर्मः प्रवर्तते ।
विभागे सति धर्मो ऽपि भवेत् तेषां पृथक् पृथक् ॥

धर्मो वैश्वदेवादिः । तथा च बृहस्पतिः ।

एकपाकेन वसतां पितृदेवद्विजार्चनम् ।
एकं भवेद् विभक्तानां तद् एव स्याद् गृहे गृहे ॥

एवं च पृथक् पृथग् वैश्वदेवादिकार्थप्रवर्तनम् अविभकेष्व् अविद्यमानं विभक्तत्वम् अवगमयतीति विभागसंदेहे सति निर्णायकयुक्तितयोक्तिर् युक्तेत्य् अनवद्यम् । युक्त्यन्तराणि वक्तुं परस्परसाक्षित्वादिकं तावद् विभक्तानां विधास्यन् तत्प्रतिषेधम् अविभक्तेषु स एवाह ।

साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।
विभक्ता भ्रातरः कुर्युः नाविभक्ताः परस्परम् ॥

ग्रहणं प्रतिग्रहः । एवं च परस्परसाक्षित्वादियुक्तिभ्यो ऽपि विभागसद्भावावगतिः सिध्यत्य् एव । अत एवानन्तरम् उक्तम् तेनैव ।

येषाम् एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिषु ।
विभक्तान् अवगच्छेयुः लेख्यम् अप्य् अन्तरेण तान् ॥

प्रवर्तन्ते व्यस्ताः समस्ता वेति शेषः । एवम् ऋणग्रहणम् अपि रिक्थिषु प्रवर्तमानं विभक्तावगमकम्, अविभक्तेष्व् अप्रवर्तनात् । तथा च याज्ञवल्क्यः ।

भ्रातॄणाम् अथ दम्पत्योः पितुः पुत्रस्य चैव हि ।
प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्ते न तु स्मृतम् ॥

ततश् च ऋणदातुर् अपि ऋणग्रहीतुः सकाशात् विभक्तत्वं सिद्धम् । अत एव बृहस्पतिः ।

पृथग् आयव्ययधनाः कुसीदं च परस्परम् ।
वणिक्पथं च ये कुर्युः विभक्तास् ते न संशयः ॥

कुसीदं वृद्ध्यर्थं धनप्रयोगः । वणिक्पथो वाणिज्यम् । परस्परम् इत्य् उभयत्र संबध्यते । एवं हेतुतो निर्णयः स्वतः श्रेष्ठनिर्णायकप्रमाणाभावे कार्य इत्य् आह स एव ।

साहसं स्थावरं स्वाम्यं प्राग्विभागश् च रिक्थिनाम् ।
अनुमानेन विज्ञेयो न स्युर् यत्र च साक्षिणः ॥

प्राग्विभागो विभागविवादात् प्राग् जातो विभागः । अनुमानं युक्तिः । साहसादिसाधकयुक्तिप्रदर्शनार्थं कांश्चित् साधकान् आह स एव ।

कुलानुबन्धव्याघातहोढं साहससाधकम् ।
स्वस्य भोगः स्थावरस्य विभागस्य पृथग् धनम् ॥

कुलानुबन्धः पूर्वपुरुषवैरानुबन्धः । व्याघातः परस्परं स्पर्धा । होढं बलाद् अपहृतलेशदर्शनम् । स्वस्य भोगः आत्मनो भोगः अत्र कात्यायनः ।

वसेयुर् दश वर्षाणि पृथग् धर्माः पृथक् क्रियाः ।
भ्रातरस् ते ऽपि विज्ञेयाः विभक्ताः पैतृकाद् धनात् ॥

भ्रातृशब्दो ऽत्र रिक्थसंबन्ध्युपलक्षणार्थः । पैतृकग्रहणं दायधनोपलक्षणार्थम् । परमार्थतो दायग्रहनाभावे ऽपि,

पश्यतो ऽब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी ।
परेण भुज्यमानायाः धनस्य दसवार्षिकी ॥

इति वनानुसारेण विभक्ता एवेति विज्ञेया इत्य् अर्थः । दशवर्षाद् अर्वाक् पुनः प्रागुक्तयुक्तिभिर् एव निर्णयः । तासाम् अन्यथा सिद्धिसंभावनया निर्णयाभावे तु,

युक्तिष्व् अप्य् असमर्थासु शपथैर् एव निर्णयेत् ।

इति वचनाद् यद्य् अपि शपथः प्रापितः, तथापि शपथे निर्णयो न कार्यः । यत आह याज्ञवल्क्यः ।

विभाग्धर्मसंदेहे बन्धुसाक्ष्यभिलेखितैः ।
विभागभावना कार्या न भवेद् दैविकी क्रिया ॥ इति ।

कथं तर्हि युक्तिष्व् असमर्थासु निर्णय इत्य् अपेक्षिते मनुः ।

विभागे यत्र संदेहो दायादानां परस्परम् ।
पुनर् विभागः कर्तव्यः पृथक्स्थानस्थितैर् अपि ।

यत्र संदेहो युक्तिभिर् असमर्थाभिर् नापैतीति शेषः । यत् पुनस् तेनैवोक्तम्,

सकृद् अंशो निपतति सकृत् कन्या प्रदीयते ।
सकृद् आह ददानीति त्रीण्य् एतानि सकृत् सकृत् ॥

इति, तत् युक्त्यादिभिर् अपगतसंदेहविभागविषयम् इति सर्वम् अनवद्यम् ॥

इति स्मृतिचन्द्रिकायां विभागतधर्मसद्भावनिर्णयहेतवः

समाप्तं च दायविभागाख्यपदस्य विधिवितानम्

अत्रेयं प्रकरणानुपूर्वी — विभागकालकर्तृप्रदर्शनम्, जीवद्विभागप्रकारः, विषमविभागप्रकारः, जीवद्विभागप्रकारविषयाणि, दायानर्हविषयाणि, विभाज्यनिरूपणम्, अविभाज्यनिरूपणम्, पुत्रपौत्रादिविभागकल्पनाविषयाणि, स्त्रीधनभेदाः, स्त्रीधनकृत्यम्, स्त्रीद्वारागतधनविभागः, गौणपितृद्वारागतधनविभागः, पुत्रद्वारागतधनविभागः, अपुत्रद्वारागतधनविभागे पत्नीविषयाणि, दुहित्रादिविषयाणि, संसृष्टभ्रात्रादिविषयाणि, विभक्तजपुत्रादिविभागः अवलुप्तधनविभागः, विभक्तकृत्यम्, विभागतद्धर्मसद्भावनिर्णयहेतवः ॥

इति स्मृतिचन्द्रिकायां दायविभागाख्यपदस्य प्रकरणानुपूर्वी

इति दायभागप्रकरणं समाप्तम्