५९ स्त्री-पुं-संबन्धः

अथ स्त्री-पुं-संबन्धाख्यस्य पदस्य विधिर् उच्यते

स्त्रीरक्षणविधिः

तत्र मनुः ।

पुरुषस्य स्त्रियाश् चैव धर्म्ये वर्त्मनि तिष्ठतोः ।
संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ॥

धर्म्ये वर्त्मनि शास्त्रीये मार्गे । संयोगे अन्योन्यसंनिधाने । विप्रयोगे देशतः कालतो वा व्यवधाने । शाश्वतान् नित्यान् अवश्यानुष्ठेयान् इति यावत् । एतद् उक्तं भवति - अनुच्छृङ्खलयोः जायापत्योः अन्योन्यम् अविप्रतिपत्तिसिद्ध्यर्थम् अवश्यं ये धर्माः परस्परसंनिधाव् असंनिधौ चानुष्ठेयाः तान् वक्ष्यामीति । के पुनस् ते धर्मा इत्य् अपेक्षिते स एवाह ।

अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैः दिवानिशम् ।
विषये सज्जमानाश् च संस्थाप्या ह्य् आत्मनो वशे ॥

स्वैः पुरुषैः भर्त्रादिपुरुषैः । विषये विनाशहेतुभूतशीतादिविषये । नारदो ऽपि ।

स्वातन्त्याद् विप्रणश्यन्ति कुले जाता अपि स्त्रियः ।
अस्वातन्त्र्यम् अतस् तासां प्रजापतिर् अकल्पयत् ॥

अतो ऽन्यैर् अपि स्वस्त्रीणां यथा भवत्य् अस्वातन्त्र्यं तथैव कल्पयितव्यम् इति शेषः । दुष्प्रसङ्गाद् अपि रक्षणं कर्तव्यम् । तथा च हारीतः - “जायानाशे कुलनाशः कुलनाशे तन्तुनाशः तन्तुनाशे देवपितृनाशो यज्ञनाशो धर्मनाशो धर्मनाशे आत्मनाशः आत्मनाशे सर्वनाशः तस्माद् एनां धर्मशीलां सुगुप्तां पत्नीं रक्षेत्” इति । मनुर् अपि ।

सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः ।
द्वयोर् हि कुलयोः शोकम् आवहेयुर् अरक्षिताः ॥
इमं हि सर्ववर्णानां पश्यन्तो धर्मम् अनुत्तमम् ।
यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥
स्वां प्रसूतिं चरित्रं च कुलम् आत्मानम् एव च ।
स्वं च धर्मं प्रयत्नेन जायां रक्षन् स रक्षति ॥ इति ।

अरक्षिताः स्त्रियो दुश्चरितेन द्वयोः कुलयोः भर्तृपितृकुलयोः शोकम् आवहेयुः कुर्युर् इत्य् अर्थः । अनेन कुलद्वयवृद्धैर् अपि रक्ष्या इति तत्क्लेशकथनम् उपदर्शितम् । दर्शितं चासां रक्षणं बृहस्पतिना ।

सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यो निवार्या स्त्री स्वबन्धुभिः ।
स्वस्त्रादिभिः गुरुस्त्रीभिः पालनीया दिवानिशम् ॥

मनुस् त्व् आत्मनैव पुरुषवत् स्त्रियो ऽपि गुप्ता भविष्यन्तीति बुद्ध्या स्त्रीरक्षणे पुरुषेणानास्था न कार्येति प्रतिपादनार्थम् आह ।

नैता रूपं प्रतीक्षन्ते नासां वयसि संस्थितिः ।
सुरूपं वा विरूपं वा पुमान् इत्य् एव भुञ्जते ॥
पौंश्चल्याच् चलचित्तत्वान् नैःस्नेह्याच् च स्वभावतः ।
रक्षिता यत्नतो ऽपीह भर्तृष्व् एता विकुर्वते ॥
शय्यासनम् अलंकारं कामं क्रोधम् अनार्थताम् ।
द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुर् अकल्पयन् ॥
एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् ।
परमं यत्नम् आतिष्ठेत् पुरुषो रक्षणं प्रति ॥ इति ।
द्रोहभावो दक्षेण प्रपञ्चितः ।

जलूकावत् स्त्रियः सर्वा भूषणाच्छादनाशनैः ।
संभृतापि कृता नित्यं पुरुषं ह्य् अपकर्षति ॥
जलूका रक्तम् आदत्ते केवलं सा तपस्विनी ।
इतरा तु धनं वित्तं मांसं वीर्यं बलं सुखम् ॥
साशङ्का बालभावे तु यौवने विमुखी भवेत् ।
तृणवन् मन्यते नारी वृद्धभावे पुनः पतिम् ॥ इति ।

भूषणाभिः संभृता कृतापि पुरुषं नित्यम् अपकर्षति सततम् अवज्ञापात्रं करोतीत्य् अर्थः । इतरा स्त्रीत्य् अर्थः । धनम् इत्यादौ प्रतिपदम् आदत्त इत्य् अनुषज्यते । एवं द्रोहभावम् अतिशयेन वदतो दक्षस्यायम् अभिप्रायः - भार्यायां बहुधा बहुविधदौष्ट्यदर्शने ऽपि जातिस्वभावनिबन्धने किम् अत्र चित्रम् इत्य् उद्वेगम् उत्सृज्य पालने यत्नानुवृत्तिः कार्येति । भर्याया भरणे ऽपि च पुरुषेण यौवने यतितव्यम् । तथा च मनुः ।

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
रक्षन्ति स्थाविरे पुत्रा न स्त्री स्वातन्त्र्यम् अर्हति ॥

पतिपुत्रविहीनायास् तूभयविधरक्षणं पतिपक्षान्तर्गतेन प्रत्यासन्नेन कार्यम् । तथा च नारदः ।

मृते भर्तर्य् अपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः ।
विनियोगात्मरक्षासु भरणे च स ईश्वरः ॥

विनियोगः कर्मणि नियोजनम् । पतिपक्षस्याप्य् अभावे स एवाह ।

परिक्षीणे पतिकुले निर्मनुष्ये निराश्रये ।
तत्सपिण्डेषु चासत्सु पितृपक्षः प्रभुः स्त्रियाः ॥

विनियोगादिष्व् इति शेषः । पितृपक्षस्याप्य् अभावे स एवाह ।

पक्षद्वयावसाने तु राजा भर्ता स्मृतः स्त्रियाः ।
स तस्या भरणं कुर्यान् निगृह्णीयात् पतिच्युताम् ॥

भर्ता भरणकर्ता ॥

इति स्मृतिचन्द्रिकायां स्त्रीरक्षणविधिः

स्त्रीरक्षणप्रकारः

अथ स्त्रीरक्षणप्रकारः

तत्र मनुः ।

न कश्चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् ।
एतैर् उपाययोगैस् तु शक्तस् ताः परिरक्षितुम् ॥

प्रसह्य आक्रम्य अवरुध्येति यावत् । यद्य् अप्य् अवरोधेन शारीरव्यभिचाराद् रक्षणं शक्यम्, तथापि मानसव्यभिचाराद् रक्षणम् अशक्यम् इति मन्वानेन मनुना,

न कश्चिद् योशितः शक्तः प्रस्ह्य परिरक्षितुम् ।

इत्याद्य् उक्तम् । न च मास्तु मानसव्यभिचाराद् रक्षणम्, अन्यजात्यसंभवेन प्रजाशुद्धिविघाताभावाद् इति वाच्यम् । यत आह स एव ।

यादृशं भजते हि स्त्री सुतं सूते तथाविधम् ।
तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत् प्रयत्नतः ॥

यादृशं पुरुषम् ऋतुकाले स्त्री मनसा भजते तत्समानशीलं पुत्रं जनयतीति पूर्वार्धस्यार्थः । तथा च शङ्खलिखितौ - “यस्मिन् भावो ऽर्पितः स्त्रीणाम् आर्तवे तच्छीलं पुत्रं जनयति” इति । अतो मानसव्यभिचाराद् अपि स्त्रियः रक्षेद् इति शेषः । तथा च मनुना “तस्मात्” इत्यादिना उत्तरार्धेन अयम् एव विधिर् दर्शितः । परिरक्षणोपाया अपि मनुना दर्शिताः ।

अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ।
शौचे धर्मे ऽन्नपक्त्यां च पारीणह्यस्य चेक्षणे ॥

संग्रहे स्वेन समानीतार्थसंविधाने । व्यये स्वेनोक्तव्यये । शौचे गृहादिशुद्धिकरसंमार्जनानुलेपनादौ । धर्मे अग्निहोत्राद्यनुकूललौकिकव्यापारे । अन्नपक्त्यां चुल्लीसंमार्जनादिपाकव्यापारे । पारीणह्यस्येक्षणे पिठरादिगृहोपकरणप्रतीक्षणे । एतद् उक्तं भवति - अकुत्सितावश्यकव्यापारवैयग्र्यवशेन पुरुषान्तरचिन्तनाद्यवसरराहित्यं भार्याया यथा भवति तथा कुर्याद् इति । बृहस्पतिनापि पूर्वोक्ता एवोपाया उक्ताः ।

आयव्यये ऽन्नसंस्कारे गृहोपस्काररक्षणे ।
शौचे ऽग्निकार्ये संयोज्याः स्त्रीणां शुद्धिर् इयं स्मृता ॥

इयम् उक्तोपायप्रभवा स्त्रीणां शुद्धिः साध्वी स्मृतेत्य् अर्थः । तथा च मनुना स्मर्यते ।

आत्मानम् आत्मना यास् तु रक्षेयुस् ताः सुरक्षिताः । इति ।

आत्मना अर्थसंग्रहाद्यासक्तचित्तेनेत्य् अर्थः । आप्तपुरुषैस् तु रक्षिताः स्त्रियो न सम्यग् रक्षिता इत्य् आह स एव ।

अरक्षिता गृहे रुद्धाः पुरुषैर् आप्तकारिभिः । इति ।

आप्तकारिभिः पुरुषैर् गृहे रुद्धा इत्य् अन्वयः । अरक्षिताः सम्यग्रक्षाविहीना इत्य् अर्थः । सम्यग्रक्षाविहीनत्वं च प्राग् एवाभिहितम् । पानादिनिवारणम् अपि नारीरक्षणप्रकार इति दर्शयितुम् आह स एव ।

पानं दुर्जनसंसर्गः पत्या च विरहो ऽटनम् ।
स्वप्नो ऽन्यगेहे वासश् च नारीणां दूषणानि षट् ॥ इति ।

तेनैतान्य् अवहितेन पतिप्रभृतिना नारीषु प्रतिषेद्धव्यानीति शेषः । पानं मद्यादीनाम् । पत्या च विरहो देशान्तरे पतिम् उत्सृज्यावस्थानम् । अटनं विना पत्या तीर्थयात्रादिकरणम् । स्वप्नो यत्र कुत्र वा शयनम् । अन्येगेहे वासः परगृहे वसनम् । पत्युः शैष्ट्यम् अपि स्त्रीरक्षणप्रकार इति दर्शयितुम् आह स एव ।

यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि ।
तादृग्गुणा सा भवति समुद्रेणेव निम्नगा ॥

अव्यभिचारव्यभिचारयोः शुभाशुभफलज्ञापनम् अपि स्त्रीरक्षणप्रकार इति दर्शयितुं तयोः फलम् आह स एव ।

पतिं या नातिचरति मनोवाक्कायसंयता ।
सा भर्तृलोकान् आप्नोति सद्भिः साध्वीति चोच्यते ॥
व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् ।
सृगालयोनिं प्राप्नोति पापरोगैश् च पीड्यते ॥ इति ।

भरणरूपरक्षणस्यापि प्रकारं दर्शयितुम् आह स एव ।

देवदत्तां पतिर् भार्यां विन्दते नेच्छयात्मनः ।
तां साध्वीं बिभृयान् नित्यं देवानां प्रियम् आचरन् ॥

देवैर् दत्ता देवदत्ता देववशायातेति यावत् । तां भार्यां स्वयंवरे पतिर् विन्दते न पुनर् आत्मेच्छया आत्मव्यापारेण विन्दते । तत्र स्वव्यापाराभावात् तां देववशायातां साध्वीं शोभनां नित्यं बिभृयात् पोषयेद् इत्य् अर्थः । न चैवं मानुषवशाद् आयातायां भार्यायां भरणम् अनावश्यकम् इति वाच्यम् । दण्डापूपन्यायेन तत्रापि नित्यं बिभृयाद् इति विधिर् गम्यते यतः । तथा हि, वरेणावृताप्य् अवश्यं भर्तव्येत्य् उक्ते वरवृता तु सुतराम् इति गम्यते । न च साध्वीम् इत्य् अस्य पतिव्रताम् इत्य् अर्थान्तरपरत्वेन न व्यभिचारिणीं बिभृयाद् इत्य् अर्थो ऽर्थाद् गम्यत इति व्यभिचारिण्याः भरणम् अनावश्यकम् इति वाच्यम्, तस्या अप्य् अवश्यभरणीयत्वात् । तत्रानुत्कटव्यभिचारिणी सतीव भरणीया, असंव्यवहार्यैव परमाप्रायश्चित्तकरणात् । उत्कटव्यभिचारिण्य् अपि पश्चात्तापाख्यप्रायश्चित्ताधिकारविशेषेण सिद्धिपर्यन्तम् अवश्यं भर्तव्या, किं तु कदन्नादिना । तथा च नारदः ।

व्यभिचारे स्त्रिया मौण्ड्यम् अधःशयनम् एव च ।
कदन्नं च कुवासश् च कर्म चावस्करो ऽन्वहम् ॥

स्त्रिया अत्यन्तव्यभिचारे जाते मौण्ड्यम् अधःशयनं च साधयेत्, कदन्नं कुवासश् च भरणार्थं दद्यात् । अमेध्यशोधनरूपं च कर्म कारयेद् इत्य् अर्थः । एवं च मनुवृत्तौ साध्वीम् इत्य् अस्य यद् अर्थान्तरम् उक्तम् - “यद् वा साध्वीं पतिव्रतां बिभृयात् न व्यभिचारिणीम्” इति, तत् तु हेयम् । हारीतो ऽपि अत्यन्तव्यभिचारिण्याः भरणम् आवश्यकम् इत्य् आह ।

भार्याया व्यभिचारिण्याः परित्यागो न विद्यते ।
दद्यात् पिण्डं कुचेलं चाप्य् अधःशय्यां च शोधयेत् ॥

पिण्डं क्षुन्निवारणमात्रकृत् कदन्नम् इत्य् अर्थः । अधः शय्या यस्याः सा अधाःशय्या ताम् । याज्ञवल्क्यो ऽपि ।

हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।
परिभूताम् अधःशय्यां वासयेद् व्यभिचारिणीम् ॥

हृताधिकारां श्रौतस्मार्तादिकर्मणि निवृत्ताधिकाराम् । परिभूताम् अनधिकृताम् । वासयेत् स्वगृहैकदेश इति शेषः,

विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्याद् एकवेश्मनि ।

इति मनुस्मरणात् । विप्रदुष्टां कायिकव्यभिचारेणात्यन्तदुष्टाम् इत्य् अर्थः । तथा च शङ्खलिखितौ - “कामचारिणीं मलिनां कुचेलां पिण्डमात्रोपजीवनीं निवृत्ताधिकाराम् अधःशय्यां निरुद्धां निवासयेद् अत्यर्थव्यभिचारिणीम्” इति । कामचारिणीं परपुरुषकामनया चरन्तीम् इत्य् अर्थः । स्वच्छन्दचारिण्यास् त्याज्यत्वाद् एवं व्याख्याता कृता । तस्यास् त्याज्यत्वम् आह यमः ।

स्वच्छन्दगा च या नारी तस्यास् त्यागो विधीयते । इति ।

संव्यवहार्यत्वापादकप्रायश्चित्ताभावो यद् गमने भवति तम् अपि या गच्छति सा स्वच्छन्दगा । अत्यर्थव्यभिचारीणी तु न त्याज्या, प्रायश्चित्तेन संव्यवहार्यत्वसंभवात् । यत् तु याज्ञवल्क्येनोक्तम्,

सोमः शौचं ददौ स्त्रीणां गन्धर्वश् च शुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्य् अतः ॥

इति, सर्वमेध्यत्वं सर्वयज्ञार्हत्वम् इत्य् अर्थः । तद् एतत् प्रशंसामात्रम्, तेन विप्रदुष्टत्वं हृताधिकारत्वं च व्यभिचारिण्या उक्तम् अविरुद्धम् । यत् पुनर् मनुनोक्तम्,

प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः ।
स्त्रियश् श्रियश् च गेहेषु न विशेषो ऽस्ति कश्चन ॥

इति, पूजार्हाः पूजास्पदीभूता इत्य् अर्थः । तद् एतद् अविप्रदुष्टस्त्रीविषयम् । तेन परिभावास्पदत्वं व्यभिचारिण्या उक्तम् अविरुद्धम् । मङ्गलार्थम् अप्य् अविप्रदुष्टाः स्त्रियः पित्रादिभिः पूज्या इत्य् आह स एव ।

पितृभिर् भ्रातृभिश् चैताः पतिभिर् देवरैस् तथा ।
पून्या भूषयितव्याश् च बहुकल्याणम् ईप्सुभिः ॥

देवराः पत्युः भ्रातरः । याज्ञवल्क्यो ऽपि ।

भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः ।
बन्धुभिश् च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥

अत्र भर्तृव्यतिरिक्तैः पूजनम् उत्सवविषये द्रष्टव्यम् । तथा च बृहस्पतिः ।

भर्त्रा पत्नी समभ्यर्च्या वस्त्रालंकारभोजनैः ।
उत्सवे तु पितृभ्रातृश्वशुराद्याइश् च बन्धुभिः ॥

तत्र मनुः ।

यत्र नार्यस् तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्र तास् तु न पूज्यन्ते सर्वास् तत्राफलाः क्रियाः ॥
शोचन्ति योषितो यत्र विनश्यन्त्य् आशु तत्कुलम् ।
न शोचन्ति तु यत्रैता वर्धते तत्र सर्वदा ॥ इति ।

शोचन्ति भरणपूजनयोर् अभावेनेति शेषः । यत्र कुल इत्य् अर्थः । प्रवत्स्यता तु प्रत्यागमनपर्यन्तं भरणार्थम् अर्थसंविधानं विधातव्यम् । अन्यथा सन्मार्गे स्थितापि वर्धनराहित्याद् धैर्यच्युता वृत्त्यर्थं व्यभिचरेद् इत्य् आह स एव ।

विधाय वृत्तिं भार्यायाः प्रवसेत् कार्यवान् नरः ।
अवृत्तिकर्शिता हि स्त्री प्रदुष्येत् स्थितिमत्य् अपि ॥

द्वेषानुवृत्तिमत्यास् तु भार्यायाः द्वेषानुवृत्तेः प्राक् पूजनाय दत्तं वस्त्राभरणादिकं संवत्सराद् ऊर्ध्वं हृत्वा ताम् ऋतुकाले ऽपि न सेवेत्य् आह स एव ।

संवत्सरम् उदीक्षेत द्विषन्तीं योषितं पतिः ।
ऊर्ध्वं संवत्सरात् त्व् एनां हृत्वा न संवसेत् ॥

उदीक्षेत द्वेषानुवृत्तिं प्रतीक्षेत । ऊर्ध्वं संवत्सरात् द्वेषानुवृत्तौ सत्याम् इति शेषः । दायं पूजनाय दत्तम् । वृत्त्यर्थं तु कल्पितम् अनाहर्यम्, भार्याया द्वेषानुवृत्तिशालिन्या अपि भरणस्यावश्यकत्वात् । उक्तार्थस्य क्वचिद् अपवादम् आह स एव ।

उन्मत्तं पतितं क्लीबम् अबीजं वापि रोगिणम् ।
न प्रद्विषन्त्यास् त्यागो ऽस्ति न च दायापवर्तनम् ॥

क्लीबं निरुत्साहम् । अबीजं निर्वीर्यम् । एतद् उक्तं भवति - दृष्टादृष्टवैकल्यनिबन्धनद्वेषानुवृत्ताव् अप्य् अयुक्तकारित्वाभावाद् ऋतुगमनत्यागादिर् अत्र नास्तीति । याज्ञवल्क्यस् त्व् अधिविन्नाया भरणम् एवावश्यकं न पूजनादिकम् इत्य् आह ।

अधिविन्ना च भर्तव्या महद् एनो ऽन्यथा भवेत् ।

भर्तव्या पूर्ववद् एवेति शेषः ॥

इति स्मृतिचन्द्रिकायां स्त्रीरक्षणप्रकारः

आधिवेदनविषयः

अथाधिवेदन-विषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र मनुः ।

मद्यपासभ्यवृत्ता च प्रतिकूला च या भवेत् ।
व्याधिता चाधिवेत्तव्या हिंस्रार्थघ्नी च सर्वदा ॥

अधिवेदन-मात्र-योग्य-पातिव्रत्य-रहिता मद्यपाऽत्र विवक्षिता, न पुनर् महापातक-वशात् त्यागे ऽपि योग्या सुरापी । असभ्यवृत्ता व्यभिचाररता दुराचारा वा । प्रतिकूला नित्यम् इष्टविपरीतकारिणी । व्याधिता दीर्घरोगा । हिंस्रा अतिक्रूरा । अर्थघ्नी स्वातन्त्र्येणार्थव्ययशीला । अधिवेत्तव्येति पञ्चस्व् अनुषज्यते । अधिवेदनं पूर्वस्थितभार्योपरि परिणयनम् । अर्थघ्नी चेति चशब्दो ऽनुक्तसमुच्चयार्थः । काः पुनश् चशब्दसमुच्चिता इत्य् अपेक्षिते शङ्खलिखितौ - “धूर्तां वैनासिकीं स्त्रीजननीं वन्ध्याम् अप्रियवादिनीम् अप्रियशीलां पुरुषद्वेषिणीम् अननुकूलां चाधिविन्देत्” इति । धूर्ता प्रतारिका । वैनासिकी विगतनासा । स्त्रीजननी स्त्र्यपत्यमात्रजननी । एतद् उक्तं भवति - धर्मकार्यपुत्रलाभयोः सिद्धिर् यया सह न संभवति ताम् अतीत्य भार्यान्तरं विन्देद् इति । कामसिद्धिस् तु यया सह न संभवति परिपूर्णा वा न भवति ताम् अर्थैस् तोषयित्वा भार्यान्तरम् उद्वहेद् इत्य् आह देवलः ।

एकाम् उत्क्रम्य कामार्थम् अन्यां लब्धुं य इच्छति ।
समर्थस् तोषयितार्थैः पूर्वोढाम् अपरां वहेत् ॥

क्वचित् पूर्वभार्यातः विवाहान्तरे (?) ऽनुज्ञां प्राप्यान्याम् उद्वहेद् इत्य् आह मनुः ।

या रोगिणी स्यात् तु हिता संपन्ना चैव शीलतः ।
सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हिचित् ॥

रोगिणी दीर्घरोगा । हिता भर्तुर् अभ्युदयार्थिनी । क्वचित् कालक्षेपेण क्वचित् तं विनैवाधिवेदनं कार्यम् इत्य् आह स एव ।

वन्ध्याष्टमे ऽधिवेद्याब्दे दशमे तु मृतप्रजा ।
एकादशे स्त्रीजननी सद्यस् त्व् अप्रियवादिनी ॥

अष्टमे ऽब्दे गते इति शेषः । “अप्रजां नवमे वर्षे” इति हारीतस्मरणात् । एवम् एकादशे इत्य् अत्रापि शेषो ऽवगन्तव्यः,

आकाङ्क्षेताष्टवर्षाणि भर्तातिप्रसवां स्त्रियम् ।
दश वन्ध्यां च निन्द्यां च द्वादशे स्त्रीप्रसविनीम् ॥

इति देवलस्मरणात् । अतिप्रसवा अतिक्रान्तप्रसवा प्रतिगर्भं गर्भस्राववतीति यावत् । वन्द्या अनपत्या । निन्द्या मद्यपासभ्यवृत्तेत्येवमादिका । दश वन्ध्याम् इति प्रियतरवन्ध्याविषयम् । अत्र मनुः ।

अधिविन्ना तु या नारी निर्गच्छेत् रुषिता गृहात् ।
सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ॥

उपरि यस्या अभूत् परिणयनं साधिविन्नोच्यते । कुलसंनिधौ अधिविन्नायाः पित्रादिकुलसंनिधाव् इत्य् अर्थः । तत्कुलसंनिधौ त्यक्ताया अपि भरणं पतिर् एव संनिधानकरणेन कुर्यात्,

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।

इत्य् उक्तत्वात्,

अधिविन्ना तु भर्तव्या महद् एनो ऽन्यथा भवेत् ।

इत्य् उक्तत्वाच् च । या त्व् अध्यूढा नारी पत्युर् औचित्याज्ञानदोषात् कुपिता तद्गृहान् निर्गता बन्धुभ्यो ऽअन्यम् अनाश्रिता सा पतिगृहे बन्धुभिर् आश्रयभूतैः प्रवेशनीया । बन्धुरहिता चेत् स्वयम् एव विमृश्य पतिगृहम् आश्रयेद् इत्य् आह नारदः ।

अज्ञानदोषाद् ऊढा या निर्गता नान्यम् आश्रिता ।
बन्धुभिः सा नियोक्तव्या निर्बन्धुः स्वयम् आश्रयेत् ॥

याज्ञवल्क्यस् तु अधिविन्नस्त्रीभ्यो ऽधिवेदननिमित्तकं भर्तुर् देयम् आह ।

अधिविन्नस्त्रियै दद्याद् आधिवेदनिकं समम् ।
न दत्तं स्त्रीधनं यस्यै दत्तं त्व् अर्धं प्रकीर्तितम् ॥

अधिविन्नायै स्त्रियै स्त्रीधनरहितायै यावद् अधिवेदनार्थं व्ययीकृतं यवद् वाधुना परिणीतयै दत्तं तत्समम् अधिवेदननिमित्तकधनं भर्त्रा देयम् । तदर्धं तु स्त्रीधनसहितायै देयत्वेन भर्तुः प्रकीर्तितम् इत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायाम् अधिवेदनविषयाणि

अत्याज्य-स्त्रीविषयाः

अथात्याज्य-स्त्रीविषयाणि

तत्र देवलः ।

स्वदारान् त्यजतो मोहान् नरस्यान्यायमोचिनः ।
धर्मवंशपरित्यक्तुर् निष्कृतिर् न विधीयते ॥

शास्त्रोक्तत्यागहेतून् विनैव यो मोहादिना स्वस्त्रियं त्यजति तस्यान्यायेन स्वदारमोचिनः तन्मोचनद्वारेण तया सह विहितश्रौतस्मार्तादिधर्मस्य तस्याम् उत्पाद्यमानसंतानस्य च त्यक्तुर् निष्कृतिर् नस्तीत्य् अर्थः । इह लोके ऽपि तस्य राज्ञा चोरवद् दण्डनं कार्यम् । तथा च “चोरवच् छास्यः” इत्य् अनुवृत्तौ विष्णुः - “निर्दोषां परित्यजन् पत्नीं च” इति । त्यागहेतुभूतदोषरहितां भार्यां परित्य्जन्न् अपि चोरवद् दण्ड्य इत्य् अर्थः । गुणवतीं पुनः परित्यजन् महता दण्डेन वशीकृत्य तस्याम् एव भार्यायाम् अवस्थाप्यः । तथा च नरदः ।

अनुकूलाम् अवाग्दुष्टां दक्षां साध्वीं प्रजावतीम् ।
त्यजन् भार्याम् अवस्थाप्यो राज्ञा दण्डेन भूयसा ॥

यदा पुनर् दण्डेन महता तस्याम् अवस्थापयितुम् अशक्यस् तदा त्व् आह याज्ञवल्क्यः ।

अज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् ।
त्यजन् दाप्यस् तृतीयांशम् अद्रव्यो भरणं स्त्रियाः ॥

गुणवतीम् अपि भार्यां यो दुराग्रहेण उत्सृजति तद्धनतृतीयांशं त्यक्ष्यमाणभार्यायै राज्ञासौ दाप्यः । अल्पधन्श् चेद् भरणमात्रपर्याप्तं धनं दाप्य इत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायाम् अत्याज्यस्त्रीविषयाणि

त्याज्यस्त्रीविषयाः

अथ त्याज्यस्त्रीविषयाणि

तत्र नारदः ।

अन्योन्यं त्यजतोर् धर्मः स्याद् अन्योन्यं विकुर्वतोः ।
स्त्रीपुंसयोर् न चोढाया व्यवचाराद् ऋते क्रियाः ॥

विवाहसंस्कारविहीनयोः हीनजातीयस्त्रीपुंसयोर् अन्योन्यविरोधेनान्योन्यं त्यजतोः धर्मः स्याद् दोषो न स्याद् इत्य् अर्थः । ऊढा विवाहसंस्कृता । तस्यास् तु व्यभिचाररूपनिमित्तम् अन्तरेण नास्ति त्यागः । अनेन व्यभिचारे सत्य् ऊढाया अप्य् अस्त्य् एव त्याग इत्य् अर्थाद् उक्तम् । तच् च स्वच्छन्दव्यभिचारिणीविषयम्,

स्वच्छन्दगा च या नारी तस्यास् त्यागो विधीयते ।

इति यमस्मरणात् । त्यागो ऽत्र वधप्रतिनिधित्वेन कार्यः । तथा च स एव ।

स्वच्छन्दव्यभिचारिण्या विवस्वांस् त्यागम् अब्रवीत् ।
न वधं न च वैकृत्यं वधः स्त्रीणां विसर्जनम् ॥

स्त्रीणां महापराधे वधं कुर्वन् विसर्जनम् एव तासां कुर्याद् इत्य् अर्थः । वैकृत्यं कर्णनासाद्यङ्गविकर्तनम् । तद् अपि भर्त्रा न कदाचित् कार्यम् इत्य् अर्थः,

न चैव स्त्रीवधं कुर्यान् न चैवाङ्गविकर्तनम् ।

इति तेनैवोक्तत्वात् । एवम् एव शिष्यगापि नारी परित्याज्यैव । तथा च वसिष्ठः ।

चतस्रस् तु परित्याज्याः शिष्यगा गुरुगा च या ।
पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥

शिष्यो भर्तृशिष्यः । गुरुः पिता । जुङ्गितः पतितः, प्रतिलोमजो वा । पतिघ्नी तु ज्ञातिभिः परित्याज्या । ज्ञातिपरित्यक्तायाः कदन्नप्रदानादिकम् अपि न कर्तव्यम्, विशेषेणेत्य् उक्तत्वात् । चतस्र इत्य् उक्तिः न ततो ऽधिकपरित्याज्ययोषिदभावबोधनार्था, जुङ्गितोपगतपदेन पतितोपगतप्रतिलोमजोपगतयोर् अभिधानात् पूर्वापरविरोधापत्तेः । कथं तर्हि चतस्र इत्य् उक्तम् । उच्यते, पतितप्रतिलोमजोपगतयोर् जुङ्गितोपगतपदार्थतयैक्यम् उपेत्य चतस्र इति संकलीकृता । यत् एव चतस्य इत्य् उक्तिः परित्याज्यान्तराभावं न बोधयति अत एव परित्याज्यान्तर्ण्य् आह याज्ञवल्क्यः ।

॥॥॥॥॥॥॥॥॥॥॥॥॥ गर्भे त्यागो विधीयते ।
गर्भभर्तृवधे तासां तथा महति पातके ॥ इति ।

यत्र द्विजस्तीणां शूद्रात् गर्भे सति प्रायश्चित्तेन संव्यवहार्यत्वाभावात् तत्रैव विषये गर्भे सति त्यागो विधीयत इति मन्तव्यम् । तथा च वसिष्ठेनोक्तम् ।

ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण संगताः ।
अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥ इति ।

हारीतो ऽपि - “गर्भघ्नीम् अधोवर्णशिष्यगुरुगामिनीं पानव्यासक्तां धनधान्यविक्रयकारिणीं च वर्जयेत्” इति । अत्रापि यत्राधोवर्णगमने पानव्यसने धनधानविक्रये च प्रायश्चित्तेन शुद्धिर् नास्तीति शास्राद् गम्यते ततैव विसर्जनविधानम् इति मन्तव्यम् । विसर्जनं व्यवहारपरित्यागः । तथा च वसिष्ठः ।

व्यवाये तीर्थगमने धर्मेभ्यश् च निवर्तते । इति ।

व्यवायः संभोगः । तीर्थगमनशब्देनात्र स्मार्तकर्म प्रदर्शितम् । धर्मशब्देन श्रौतम् । चशब्देन स्पर्शनादि लौकिकम् । ततश् चायम् अर्थः - भोगसहायकारिसंस्पर्शसंभाषणादिभ्यो वर्जिता स्त्री निवर्तत इति । अनेन वचोभङ्ग्या संभोगादेर् आत्यन्तिकवर्जनं विसर्जनम् इत्य् उक्तम् । एवं संभोगादौ निवृत्ताया अपि स्त्रियाः कदन्नादि कल्पयितव्यम् । गृहसमीपे गृहान्तरं चेत्य् आह मनुः ।

एवम् एव विधिं कुर्याद् योषित्सु पतिआस्व् अपि ।
वस्त्रान्नम् आसां देयं तु वसेयुश् च गृहान्तिके ॥

देवलस् तु व्याध्यादिना त्याज्यासु संभोगमात्रस्य त्यागो न सहाधिकारादीनाम् इत्य् आह ।

व्याधितां स्त्रीप्रजां वन्ध्याम् उन्मत्तां विगतार्तवाम् ।
अदुष्टां लबते त्यक्तुं तीर्थान् न त्व् एव कर्मणः॥

तीर्तात् संभोगाद् इत्य् अर्थः । तथा च नारदः ।

वन्ध्यां स्त्रीजननीं निन्द्यां प्रतिकूलां च सर्वदा ।
कामतो नाभिनन्देत कुर्वन्न् एतन् न दोषभाक् ॥

निन्द्यां मरणशीलापत्यप्रसवेनेति शेषः । सर्वदा प्रतिकूलां नित्यम् इष्टविपरीतकारिणीम् । कामतः संभोगकरणेनेत्य् अर्थः । न दोषभाग् इति वदन् प्रतिषेधविधेर् अनित्यतां दर्शयति अत्र बोधायनः ।

अप्रजां नवमे वर्षे स्त्रीप्रजां द्वादशे त्यजेत् ।
मृतप्रजां पञ्चदशे सद्यस् त्व् अप्रियवादिनीम् ॥

त्यजेत् संभोगत इति शेषः । अप्रियवादिनीं तु सहवासतो ऽपि त्यजेत् । तथा च नारदः ।

अनर्थशीला सततं तथैवाप्रियवादिनी ।
पूर्वाशना च या भर्तुः तां स्त्रीं निर्वासयेद् गृहात् ॥

अपरा अपि गृहान् निर्वासनीयाः स्त्रियस् तेनैव दर्शिताः ।

स्त्रीधनभ्रष्टसर्वस्वां गर्भविस्रंसिनीं तथा ।
भर्तुश् च वधम् इच्छन्तीं स्त्रियं निर्वासयेद् गृहात् ॥

स्त्रीधनेन सह भर्ष्टं सर्वस्वं यस्याः सा तथोक्ता । गर्भाविस्रंसिनी औषधादिसेवनया संपादितगर्भस्रावा । भर्तुर् वधम् इच्छन्ती विषप्रदानादिनेति शेषः । बोधायनेनापि निर्वासनीयाः स्त्रियो दर्शिताः ।

भर्तुः प्रतिनिवेशेन या भार्या स्कन्दयेद् ऋतुम् ।
तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं तु नयेद् गृहात् ॥
अशुश्रूषाकरीं नारीं बन्धकीं परिहिंसिकाम् ।
त्यजन्ति पुरुषाः प्राज्ञाः क्षिप्रम् अप्रियवादिनीम् ॥ इति ।

बन्धकी पुंश्चली ॥

इति स्मृतिचन्द्रिकायां त्याज्यस्त्रीविषयाणि

एवं संयोगे विप्रयोगे च पुरुषस्य धर्मा उक्ताः । अधुना संयोगे एव द्वयोर् जायापत्योर् धर्मा उच्यन्ते । तत्र मनुः ।

संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।
यस्मिन्न् एतत् कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥

तथैव भर्तृवद् एव भार्या भर्त्रा संतुष्टेति विपरिणम्य पूरणीयम्, यथास्थितस्य पुंलिङ्गत्वेनात्रान्वयासंभवात् । यस्मिन् कुले नित्यम् एतद् अन्योन्यसंतुष्टत्वं तत्र कल्याणम्, सुपुत्रजन्मलक्षणं भार्याबन्धुवर्गे प्रीतिमत्त्वलक्षणं परस्पराव्यभिचारित्वादिलक्षणं चावश्यं भवतीत्य् आर्थः । तथा च स्वयम् एव व्यतिरेकमुखेनान्वयमुखेन च कल्याणशब्दस्य विवक्षितार्थं विवृणोति ।

यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।
अप्रमोदात् पुनः पुंसः प्रजनं न प्रवर्तते ॥
स्त्रियां तु रोचमानायां सर्वं तद् रोचते कुलम् ।
तस्याम् अरोचमानायां सर्वम् एव न रोचते ॥
अन्योन्यस्याव्यभीचारो भवेद् आमरणान्तिकः । इति ।

पुंसः प्रजनं पुत्रजननम् इत्य् अर्थः । तत्कुलं स्त्रीकुलम् । दम्पत्योर् धर्मान्तरम् आह स एव ।

तथा नित्यं यतेयातां स्त्रीपुंसौ च कृतक्रियौ ।
यथा नातिचरेयातां वियुक्ताव् इतरेतरम् ॥

नातिचरेयातां धर्मार्थकामेष्व् इति शेषः । दक्षो ऽपि ।

स्वर्गे ऽपि दुर्लभं ह्य् एतद् अनुरागः परस्परम् ।
रक्तम् एकं विरक्तं वा ततः कष्टतरं नु किम् ॥

दम्पत्योः परस्परम् अनुराग इत्य् एतत् स्वर्गे ऽपि दुर्लभम् । तथा तयोर् एकतरत् स्वरूपम् अनुरक्तं विरक्तं वा स्यात् ततः कष्टतरं नु किं न किम् अपि, तद् एव परमं कष्टम् इत्य् अर्थः । तेन मिथो ऽनुरागो यथा भवति तथा स्त्रीपुंसौ यतेयाताम् इति शेषः । याज्ञवल्क्यो ऽपि ।

यत्रानुकूल्यं दम्पत्योस् त्रिवर्गस् तत्र वर्धते । इति ।

तेन मिथो ऽनुकूलत्वं यथा भवति तथा स्त्रीपुंसौ यतेयाताम् इति शेषः । त्रिवर्गो धर्मार्थकामाः । तथा च दक्षः ।

गृहाश्रमात् परं नास्ति यदि भार्या वशानुगा ।
तया धर्मार्थकामात्मत्रिवर्गफलम् अश्नुते ॥

तया वशवर्तिन्या धर्मार्थकामात्मकं त्रिवर्गाख्यफलम् अश्नुते गृहीत्य् अर्थः । वशानुगेति गुणान्तराणाम् उपलक्षणार्थम् । तथा च स एव ।

गृहे वासः सुखार्थो हि पत्नीमूलं च तत् सुखम् ।
सा पत्नी या विनीता च चित्तज्ञा वशवर्तिनी ॥
अनुकूला त्व् अवाग्दुष्टा दक्षा साध्वी प्रजावती । इति ।

पत्नी यज्ञाधिकारसंपद्युक्ता भार्या, तद्विकला तु स्त्र्य् एव न पत्नी । सापि भार्या प्रागुक्तविनीतत्वादिगुणान्वितेत्य् आह स एव ।

एभिर् एव गुणैर् युक्ता भार्यैव स्त्री न संशयः । इति ।

एभिर् एवेत्य् एवकारो ऽत्र्यायोगव्यवच्छेदार्थो न पुनर् अन्ययोगव्यवच्छेदार्थः, गुणान्तरयोगस्यापीष्टत्वात् । या पुनर् निर्गुणा सा जरेत्य् आह स एव ।

अदुष्टमानसा नित्यं स्थानमानविचक्षणा ।
भर्तुः प्रियकरी या तु सा भार्या त्व् इतरा जरा ॥

इतरा गुणरहिता जरा क्लेशकारिणीत्य् अर्थः । पत्न्यादाव् एव पत्न्यादिशब्दप्रयोगो विनीतत्वादिगुणान्वितायाम् एव समग्रं पत्न्यादिनिर्वर्त्यकार्यं भवति नान्यस्याम् इति प्रशंसार्थः । यथा “पशवो गोअश्वाः” इति श्रुतौ गवाश्वपशुष्व् एव पशुशब्दप्रयोगो गोश्वेष्व् एव समग्रं पशुनिर्वर्त्याम् कार्यम्, न पुनर् अजादिष्व् इति प्रशंसार्थःतद्वद् अत्रापीति सर्वम् अनवद्यम् । सुशिक्षिता भार्या तु बाह्याभ्यन्तरशुद्धिमद्भ्रात्रादिसमेत्य् आह स एव ।

शिष्टा भार्या शुचिभ्रातृमित्रदाससमा स्मृता ।
यस्यैतानि विनीतानि तस्य लोकेषु गौरवम् ॥

मित्रदासो ऽनुकूलदासः । एतानि पूर्वोक्तोपसर्जनानि । व्यासस् तु स्त्रीधर्मैः पूर्वोक्तगुणैश् च युक्ता स्त्री पुण्यकर्मणः कस्यचिद् एव संपद्यत इत्य् आह ।

पूर्वोत्थानपरा दक्षा जघन्यासनशायिनी ।
अवाग्दुष्टानुकूला स्त्री भवेद् वै पुण्यकर्मणः ॥

उक्तलक्षणस्त्रीकस्य स्वर्गसंनिभं सुखं तया लभ्यत इत्य् आह दक्षः ।

अनुकूलकलत्रस्य स्वर्गस् तेन न संशयः । इति ।

प्रतिकूलकलत्रद्वयशालिनो दुःखविशेषम् आह स एव ।

दुःखासिका कलिर् भेदश् छिद्रपीडा परस्परम् ।
प्रतिकूलकलत्रस्य द्विद्वारस्य न संशयः ॥ इति ।

दुःखासिका दुःखेन वसनम् । कलिः कलहः । भेदो विमतिः । छिद्रपीडा छिद्रान्वेषणनिबन्धनपीडा । परस्परं कलत्रयोर् मिथ इत्य् अर्थः । कथं तर्हि प्रतिकूलद्विकलत्रस्य कलहादिजन्यदुःखविशेषकथनम् । उच्यते - मिथः कलत्रयोर् उत्पन्नः कलहादिः तद् भर्तृपर्यन्तताम् आयातीत्य् अभिसंधायोक्तम्, “प्रतिकूलकलत्रस्य द्विद्वारस्य” इति ॥

इति स्मृतिचन्द्रिकायां जायापत्योर् धर्माः

स्त्रीधर्माः

अथ स्त्रीधर्माः

तत्र मनुः ।

बालया वा युवत्या वा वृद्धया वापि योषिता ।
न स्वातन्त्र्येण कर्तव्यं कार्यं किंचिद् गृहेष्व् अपि ॥
बाल्ये पितुर् वशे तिष्ठेत् पाणिग्राहस्य यौवने ।
पुत्रस्य भर्तरि प्रेते न भजेत् स्वतन्त्रताम् ॥
पित्रा भ्रात्रा सुतैर् वापि नेच्छेद् विरहम् आत्मनः ।
एषां हि व्रहेण स्त्री गर्ह्ये कुर्याद् उभे कुले ॥ इति ।

उभे कुले पितृभर्तृकुले । स्वयं च गर्ह्या भवतीति दण्डापूपन्यायेन गम्यते, या कुलस्यापि गर्ह्यताम् आवहति सा सुतराम् आत्मन इति । उक्तं च बृहस्पतिना ।

भर्त्रा पित्रा सुतैर् न स्त्री वियुक्तान्यगृहे वसेत् ।
असत्सङ्गे विशेषेण गर्ह्यताम् एति सा ध्रुवम् ॥

याज्ञवल्क्येनाप्य् उक्तम् ।

पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः ।
हीना न स्याद् विना भर्त्रा गर्हणीयान्यथा भवेत् ॥

व्यासस् तु वेश्याव्वद् आचरणप्रतिषेधार्थम् आह ।

द्वारोपवेशनं नित्यं गवाक्षावेक्षणं तथा ।
असत्प्रलापो हस्यं च दूषणं कुलयोषिताम् ॥

नित्यम् इत्य् अवेक्षणादाव् अनुषज्यते । बृहस्पतिस् तु स्वैरणीवद् आचरणप्रतिषेधार्थम् आह ।

पानाटनदिवास्वापम् अक्रिया दूषणं स्त्रियाः । इति ।

अक्रिया अकरणं निर्व्यापारतया स्थानम् इति यावत् । शङ्खलिखितौ वेश्यावद् आचरणप्रतिषेधार्थम् आहतुः - “स्त्री नानुक्त्वा बहिर् निष्क्रामेन् नानुत्सवे गन्धमाल्याभरणानि विकृतानि वासांसि बिभृयान् न परपुरुषम् अभिभाषेतान्यत्र वणिक्प्रव्रजितवृद्धेभ्यो न नाभिं दर्शयेद् आ गुल्फाभ्यां वासः परिदध्यान् न स्तनौ विवृतौ कुर्यान् न हसेद् अनपावृतं न महाजने” इति । विकृतानीति पुरस्तात् परस्ताच् च संबध्यते । प्रव्रजितश् चतुर्थाश्रमी । अनपावृतम् असंवृतम्, क्रियाविशेषणं चैतत् । महाजनसमीपे तु संवृतस्यापि हसनस्य प्रतिषेधार्थं पुनर् निषेधः कृतः । वेश्यादिस्त्रीभिः सहैकत्रावस्थानप्रतिषेधो ऽपि ताभ्यां दर्शितः - “न गणिकाधूर्ताचारिणीमायाविनीकुहकशीलाविप्लुताभिः सहैकतस् तिष्ठेत् । संसर्गेण हि चारित्रं दुष्यति” इति । कुहकशीला शठस्वभावा । विप्लुता जारादिभिर् नष्टा । एकतःस्थितिनिषेधो ऽयं पुनः पुनः क्रियमाणविषय इति हेत्वभिधानाद् अवगम्यते । न हि सकृद् एकत्र स्थित्या कुलवधूनां चारित्रं दुष्यति । एवं कायशुद्ध्युपहतिहेतुभूतपरशयनादिसंसर्गं (?) वर्जयेत् । तथा च हारीतः - “परशयनासनवस्त्राभरणानि मनसापि नाध्यवस्येत् आ पुनःसंस्कारात् । तथैकपात्रे मद्यमांसादीन्य् उच्छिष्टनिर्माल्ये चान्यत्र गुरुभर्तृसुतेभ्यः” इति । आ पुनःसंस्कारात् आ पुनर्निर्णेजनसंस्कारात् । एकपात्रग्रहणम् अन्येन सह भोजनोपलक्षणार्थम् । मद्यमांसग्रहणम् अपेयाभक्ष्याणाम् उपलक्षणार्थम् । अत एव सुराप्यात्यर्थोपहतकायया संस्पृष्टं दुष्टं भवतीत्य् आह स एव ।

दैवे वा यदि वा पित्र्ये सुराप्य् आयतनं स्पृशेत् ।
रजस्वला पुंश्चली वा रक्षसां गच्छतीह तत् ॥

अत एव मद्यमांसादीनीत्यादिग्रहणं कृतम् । उच्छिष्टं च निर्माल्यं चोच्छिष्टनिर्माल्ये । गुरुः पिता अन्यत्र गुरुभर्तृसुतेभ्य इति वदन् गुर्वादीनाम् उच्छिष्टनिर्माल्यवर्जने ऽपि न दोष इति दर्शयति । अपेयादिवर्जनम् अवश्यं कार्यम्, गर्भस्यापि दोषहेतुत्वात् । न हि दुष्टकारणजन्यम् अदुष्टं भवितुम् अर्हति । मात्रा यत् सेवितं दुष्टम् अदुष्टं वा तद् अपि गर्भकारणम् । तद् एतद् आहतुः शङ्खलिखितौ - “सुरालशुनपलाण्डुगृञ्जनकलञ्जमांसादीन्य् अभक्ष्याणि वर्जयेन् मातुर् अशितपीताद् धि गर्भः संभवति” इति । लशुनादीनाम् अवान्तरजातिभेदः सुश्रुते निरूपितः । तेन भेदेन त्रयाणां ग्रहणम् अर्थवत् । सुरा तु स्त्रिया विशेषतो वर्जनीया, भर्तुर् अपि दोषावहत्वात् । तथा च हारीतः ।

पतत्य् अर्धं शरीरस्य यस्य भार्या सुरां पिबेत् ।
पतितार्धशरीरस्य निष्कृतिर् न विधीयते ॥

यमो ऽपि ।

वारुणीं यस्य विप्रस्य भार्या सेवेत संनिधौ ।
स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥

संनिधाव् इति वदन् संसर्गिण्य् एव भर्तरि बहिष्कारविधिर् इति दर्सयति । तेन सुरापीपरित्यागिनो नोक्तदोष इत्य् अवगन्तव्यम् । याज्ञवल्क्यो ऽपि सुरा विशेषतो वर्ज्या ब्राह्मण्या इति दर्शयितुं तत्पानजन्यप्रत्यवायस्य फलम् आह ।

पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् ।
इहैव सा शुनी घृध्री सूकरी वोपजायते ॥

तेन सुरा प्रयत्नतो वर्ज्येत्य् अभिप्रायः । विष्णुस् तु धर्मान्तराण्य् आह - “अथ स्त्रीधर्माः । क्वचित् समानवृत्तचरित्रत्वं सुसंस्कृतोपस्करता अमुक् तहस्तता सुगुप्तता मूलक्रियास्व् अनभिरतिर् मङ्गलाचारतत्परता” इति । सुसंस्कृतोपस्करता प्रक्षालनादिभिः संस्कृतपीठादिगृहोपकरणता । अमुक्तहस्तता असद्व्ययपराङ्मुखता । मूलक्रिया मूलकर्म, मन्त्रतन्त्रादिना भर्तुर् वशीकरणम् इति यावत् ॥

इति स्मृतिचन्द्रिकायां स्त्रीधर्माः

स्त्रीकर्माणि

अथ स्त्रीकर्माणि

तत्र बृहस्पतिः ।

पूर्वोत्थानं गुरुष्व् अर्वाक् भोजनव्यञ्जनक्रिया ।
जघन्यासनशायित्वं कर्म स्त्रीणाम् उदाहृतम् ॥

पूर्वोत्थानं भर्तुर् उत्थानापेक्षया । एवं जघन्यासनादिविधाव् अपि भर्त्रासनाद्यपेक्षया जघन्यत्वम् । मान्येष्व् आदौ भोजनप्रदानादिव्यापारः । देवलो ऽपि - “पतिशुश्रूषा सहधर्मचर्या तत्पूज्यमानपूजनं तद्द्वेष्यद्वेषणम्” इति । शङ्खलिखिताव् अपि - “श्वःपचनभाण्डानाम् उपलेपनं सुसंमृष्टगृहद्वारोपलेपनं दध्यक्षतदूर्वाप्रवालपुष्पकृतबलिकर्म श्वशुरयोर् अभिवादनं महावश्यकानि कुर्यात्” इति । श्वःपचनभाण्डानाम् उपलेपनं पूर्वेद्युर् इति शेषः । ऋश्यशृङ्गो ऽपि -

गृहमेधी भवेन् नित्यं भूषणानि च भूषयेत् ।
नित्यं स्नानकृतां वेणीम् अञ्चयेत् पुष्पमालया ॥
पूर्वम् एव रहो गच्छेत् यावन् नार्यः प्रबुध्यते ।
देवताराधनं कुर्यात् धूपपुष्पाक्षतादिभिः ॥ इति ।

गृहमेधी गृहदेवतापूजापरा । स्नानकृतां स्नानेन संस्कृताम् । रहो गच्छेत् रहसि भर्तुः सकाशात् गच्छेत् । कात्यायनो ऽपि ।

पत्या चाप्य् अवियोगिन्या शुश्रूष्यो ऽग्निर् विनीतया ।
सौभाग्यवद् अवैधव्यकाम्यया भर्तृभक्तया ॥

अग्निर् गार्हपत्यादिः, औपासनाख्यो वा । सौभाग्यवद् अवैधव्यकाम्यया । सौभाग्योपेतम् अवैधव्यं कामयमानया अनेन सौभाग्यम् अवैधव्यं चाग्निपरिचर्याफलम् इत्य् उक्तम् । श्लोकादाव् अन्ते च उक्तविशेषणवशाद् विनितया पतिर् अपि सततं शुश्रूष्य इति गम्यते । न केवलं शुश्रूष्यः अपि तु दुर्दशायाम् अप्य् अलङ्घ्यः पतिर् इत्य् आह मनुः ।

यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः ।
तं शुश्रूषेत जीवन्तं दुःस्थितं च न लङ्घयेत् ॥ इति ।

न च तं द्विष्¥आद् इति चशब्दार्थः । तथा च शङ्खलिखितौ - “न भर्तारं द्विष्याद् अष्टीवलः स्यात् पतितो ऽङ्गहीनो व्याधितो वा पतिर् हि दैवतं स्त्रीणाम्” इति । अष्टीवलः स्यात् अष्टीवलाख्यरोगी स्याद् इत्य् अर्थः । पतितस्य तु पातित्यापगमपर्यन्तं भार्ययासौ पतिः शुश्रूषार्थं प्रतीक्ष्य इत्य् आह याज्ञवल्क्यः ।

आ शुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः । इति ।

पतितावस्थायां पतिः न शुश्रूष्य इत्य् आर्थिको ऽर्थः प्रत्येतव्यः । दुःशीलादिस् तु पतिर् नैव दौःशील्याद्यपगमपर्यन्तं प्रतीक्ष्यः । यद् आह मनुः ।

विशीलः कामवृत्तो वा गुणैर् वा परिवर्जितः ।
उपचर्यः स्त्रिया साध्व्या सततं देववत् पतिः ॥

कामवृत्तः स्वच्छन्दचारी । देववद् उपचर्यः देवो यथा ऐहिकामुष्मिकसुखसंपादकत्वाद् उपचर्यः तद्वत् पतिर् अपीत्य् अर्थः । तथा च स एव ।

अनृताव् ऋतुकाले च मन्त्रसंस्कारकृत् पतिः ।
सुखं नित्यं ददातीह परलोके च योषितः ॥

मन्त्रसंस्कारकृत् मन्त्रापाद्यसंस्कारकृत्, विवाहादिसंस्कारकृद् इति यावत् । याज्ञवल्क्यस् तु पतिशुश्रूषणात्मकधर्मानुरोधेनैव अन्यो धर्मः कार्य इति प्रतिपादनार्थम् आह ।

स्त्रीभिः भर्तृवचः कार्यम् एष धर्मः परः स्त्रियाः । इति ।

परः उत्कृष्ट इत्य् अर्थः । एवं चोत्कृष्टानुरोधेनापकृष्टानुष्ठानम् इत्य् अर्थात् प्रतिपादितम् । मनुर् अप्य् अर्थाद् एतद् एव वक्तुम् आह ।

नास्ति स्त्रीणां पृथग्यज्ञः न व्रतं नाप्य् उपोषणम् ।
पतिः शुश्रूष्यते येन तेन स्वर्गे महीयते ॥

शङ्खो ऽपि ।

न व्रतेनोपवासेन धर्मेण विविधेन च ।
नारी स्वर्गम् अवाप्नोति प्राप्नोति पतिपूजनात् ॥

विष्णुस् तु पतिशुश्रूषणम् अकृत्वा उपवासव्रतं न कार्यम् इति प्रतिपादयितुम् आह ।

पत्यौ जीवति या योषित् उपवासव्रतं चरेत् ।
आयुर् हरति सा भर्तुः नरकं चैव गच्छति ॥ इति ।

यत् तु शङ्खलिखिताभ्याम् उक्तम् - “भर्तुर् अनुज्ञया व्रतोपवासनियमेज्यादीनाम् आरम्भः स्त्रीधर्मः” इति, तत् पतिशुश्रूषणानुपमर्देन संपादितव्रतादिविषयम् । यत् तु पैठीनसिनोक्तम् - “स्त्रियो गृहदेवतास् तासां नाशौचं न व्रतं नोपवासः पतिशुश्रूषयैव गच्छन्ति परमां गतिम्” इति, तत् पतिशुश्रूषायाः प्राशस्त्यमात्रपरं न पुनः शौचादिनिवारणपरम् इति मन्तव्यम् । एवं कुर्वन्त्याः फलम् आह मनुः ।

अनेन नारी वृत्तेन मनोवाग्देहसंयता ।
इहाग्र्यां कीर्तिम् आप्नोति पतिलोकं परत्र च ॥

याज्ञवल्क्यो ऽपि ।

पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया ।
इह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ इति ।

कात्यायनो ऽपि ।

पतिशुश्रूषयैव स्त्री सर्वान् कामान् समश्नुते ।
दिवः पुनर् इहायाता सुखानां शेवधिर् भवेत् ॥

दिवः सकाशात् पुनर् इहागता सुखानां निधिर् भवेद् इत्य् अर्थः । पृथिवीं प्रति लक्ष्मीवाक्यम् अपि ।

नारीषु नित्यं सुविभूषितासु पतिव्रतासु प्रियवादिनीषु ।
अमुक्तहस्तासु शुभान्वितासु सुगुप्तभाण्डासु बलिप्रियासु ॥
संमृष्टगेहासु जितेन्दिर्यासु कलिव्यपेतासु विलोलुपासु ।
धर्मव्यपेक्षासु दयान्वितासु स्थिता सदाहं मुइतासु धात्रि ॥ इति ।

कलिव्यपेतासु कलहरहितासु । हारीतस् तु अपतिव्रताया दोषम् आह ।

असाध्वी या पतिं त्यक्त्वा वर्तते कामकारतः ।
न सा सुखम् अवाप्नोति कल्पते नरकाय च ॥

इति स्मृतिचन्द्रिकायां स्त्रीकर्माणि

प्रोषितभर्तृकायाः स्त्रिया धर्माः

अथ प्रोषितभर्तृकायाः स्त्रिया धर्माः

तत्र मनुः -

विधाय प्रोषिते वृत्तिं जीवेन् नियमम् आस्थिता ।
प्रोषिते त्व् अविधायैव जीवेच् छिल्पैर् अगर्हितैः ॥

जीवनार्थं व्ययं परिकल्प्य प्रोषिते भर्तरि तद्भार्या वक्ष्यमाणनियमस्था पुनर् आगमनपर्यन्तं परिकल्पितं व्ययार्थं द्रव्यम् उपजीवेत् । तत्क्षये तदकल्पने वा कर्तनादिशिल्पैः परगृहप्रवेशनदुःसङ्गत्यादिहेतुत्वादिराहित्येनागर्हितैर् जीवेद् इत्य् अर्थः । के पुनर् वक्ष्यमाणा नियमा इत्य् अपेक्षिते विष्णुः - “भर्तरि प्रोषिते प्रतिकर्माक्रिया परगृहेष्व् अनभिगमनं द्वारदेशगवाक्षेष्व् अनवस्थानम्” इति । प्रतिकर्माक्रिया अलङ्कृतेर् अकरणम् । तथा च हारीतः - “न प्रोषिते ऽलंकुर्यान् न वेणीं मुञ्चेत्” इति । शङ्खलिखिताव् अपि नियमान् आहतुः - “प्रेङ्खाताण्डवविहारचित्रदर्शनाङ्गरातोद्यानयानविवृअशयोत्कृष्टपानभोजन-कन्तुकक्रीडाधूपगन्धमाल्यालंकारदन्तधावनाञ्जनादर्शनप्रसाधनादीनाम् अस्वतन्त्राणां प्रोषितभर्तृकाणां कुलस्त्रीणाम् अनारम्भः” इति । प्रेङ्खा डोलाविहारो रथ्यादौ, न पुनर् गृहे ऽपि । विवृतशयनं निष्प्रावरणतया शयनम् । प्रेङ्खादिप्रसाधनान्तानाम् अनारम्भो ऽस्वतन्त्राणां प्रोषितभर्तृकाणां कुलस्त्रीणाम् इत्य् अन्वयः । प्रसाधनादीनाम् इत्यादिग्रहणलब्धान् आह बृहस्पतिः ।

प्रसाधनं नृत्तगीतसमाजोत्सवदर्शनम् ।
मांसम्धाभियोगं च न कुर्यात् प्रोषिते प्रबौ ॥

प्रोषितभर्तृकाणां दुष्प्रसङ्गेभ्यो रक्षकजने व्यवस्थाम् आहतुः शङ्खलिखितौ - “सर्वासां प्रोषिते भर्तरि ब्राह्मणी चारित्रं रक्षेत् । इतरासां मातापितरौ अनन्तरो वा राजन्यो वा” इति । सर्वासां क्षत्रियादिस्त्रीणाम् । इतरासां विप्रास्त्रीणाम् । अनन्तरः प्रत्यासन्नबन्धुः ॥

इति स्मृतिचन्द्रिकायां प्रोषितभर्तृकायाः स्त्रियो धर्माः

मृत-भर्तृक-स्त्रिया धर्माः

अथ मृत-भर्तृक-स्त्रिया धर्माः

तत्राहिताग्नेर् भार्यां प्रत्य् आह हारीतः - “आहिताग्निश् चेत् प्रमीयेत औपासनावक्षाणाग्निं परिगृह्य सर्पराज्ञीभिर् अनुसवनम् इन्धाना वसेत्” इति । अर्धाधानपक्षे मृतस्याहिताग्नेस् त्रेताग्निना दहनम् । औपासनाग्निस् तु पत्यर्थम् इन्धने ध्रियते । उल्मुकावस्थेन्धनान्य् अवक्षाणान्य् उच्यते । एवं चायम् अर्थः - उल्मुकावस्थम् औपासनाग्निं परिगृह्य “भूमिर् भूम्ना” इति चतसृभिर् अनुसवनम् इन्धाना श्वशुरादिगृहे वसेद् इति । एवम् एवानाहिताग्नेर् मृतस्य भार्या वसेत् । इयंस् तु विशेषः - औपासनाग्नेः स्वगृह्योक्तविधिना पुनः संधानं लौकिकाग्नेर् वा परिग्रहं कुर्यात् । तथा च स एव - “अनाहिताग्निश् चेद् अन्यम् आदध्याज् जनाग्निं वा परिगृह्य” इति । अनाहिताग्निश् चेत् प्रमीयीतेत्य् अनुषज्यते । परिगृह्य पूर्ववत् समिन्ध्नम् आचरेद् इति शेषः । अनाहिताग्नेर् दहनकर्मणि पूर्वस्थितस्यौपासनस्य प्रतिपत्तिर् जातेति पुनर् उत्पत्त्यर्थम् अन्यम् आदध्याद् इत्य् उक्तम् । कथं पुनः सर्वाधानपक्षे मृतभर्तृकाया अग्निपरिचर्या, न चानाहिताग्नेर् भार्यायाम् उक्तम् अत्राप्य् ऊह्यम्, वचनबलेनैव मृतभर्तृकाया अलौकिकाग्निनिष्पत्तेः । उच्यते - निर्मथिताग्निं परिगृह्य पूर्ववत् समिन्धनम् आचरेत् । “निर्मन्थ्येन पत्नीम्” इत्य् आपस्तम्बेनैतस्मिन् पक्षे निर्मन्थ्येन पत्न्याः पितृमेधविधानात् । एवं स्त्रीविशेषे ऽग्निविशेषसमिन्धनम् उक्त्वा सर्वप्रमीतभर्तृकायाः साधारणधर्मम् अप्य् आह स एव - “भर्तुः पितुः स्वजनस्य वा गृहम् आश्रित्य संयतजिह्वाहस्तपादेन्द्रिया स्वाचारवती दिवारात्रं भर्तारम् अनुशोचन्ती व्रतोपवासैः कृशात्मा आयुषो ऽन्ते पतिलोकं जयति न भूयः पतिवियोगम् आप्नोति” इति । स्मृत्यन्तरे ऽपि फलम् उक्तम् ।

पतिव्रता तु या नारी निष्ठां याति प्रभौ मृते ।
सा हित्वा सर्वपापानि पतिलोकम् आप्नुयात् ॥

बृहस्पतिनाप्य् उक्तम् ।

व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता ।
धर्मदानपरा नित्यम् अपुत्रापि दिवं व्रजेत् ॥

यत् तु श्रुताव् उक्तम् - नापुत्रस्य लोको ऽस्ति" इति, तत् यः पुत्रोत्पत्तौ धर्म्यमार्गेणाधिकारे जाते ऽपि किं पुत्रेणेत्य् अनास्थया पुत्रोत्पत्तिं न करोति तद्विषयम् । अयम् एव विषयो ऽस्याः श्रुतेः इति दर्शयितुं मनुना दृष्टान्तो ऽपि दर्शितः ।

अनेकानि सहस्राणि कौमारब्रह्मचारिणाम् ।
दिवं गतानि विप्राणाम् अकृत्वा कुलसंततिम् ॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
स्वर्गं गच्छत्य् अपुत्रापि यथा ते ब्रह्मचारिणः ॥ इति ।

पुत्रपौत्रादिसंततिम् अकृत्वा कौमारब्रह्मचारिणां विप्राणाम् अनेकानि सहस्राणि स्वर्गं गतानीत्य् आद्यशोकान्वयः । या तु पुत्रोत्पत्त्यर्थं ब्रह्मचर्ये ऽअवस्थितिं न करोति, तस्याः दोषम् आह स एव ।

अपत्यलोभाद् या तु स्त्री भर्तारम् अतिवर्तते ।
सेह निन्दाम् अवाप्नोति पतिलोकाच् च हीयते ॥

यत् तु यमेनोक्तम्,

स्त्रियाः श्रुतौ वा शास्त्रे वा प्रव्रज्या न विधीयते ।
प्रजा हि तस्याः स्वो धर्मः सवर्णाद् इति धारणा ॥

इति — शास्त्रे धर्मशास्त्रे, प्रव्रज्या ब्रह्मचर्यम् इत्य् अर्थः, यद्य् अपि स्त्रिया ब्रअह्मचर्यं श्रुत्यादौ विहितं तथापि सवर्णतः पुत्रप्राप्तिलक्षणधर्मप्रशंसार्थं ब्रह्मचर्यविधिर् अविद्यमानप्राय इति निन्दानेन क्रियत इत्य् अविरोधः — तद् एतत् कलियुगाद् युगान्तरधर्मत्वेनोक्तम् इति मन्तव्यम् । तथा च संस्कारकाण्डे विधवाया नियोजनप्रकरणे प्रतिपादितम् अस्माभिः । तेन कलियुगे ब्रह्मचर्ये व्यवस्तितत्वम् एव धर्मः । युगान्तरे तु यमोक्तो ऽपि धर्मो भवतीत्य् अवगन्तव्यम् । तत्रापि ब्रह्मचर्ये व्यवस्थानम् उत्तमो धर्मो ब्रह्मलोकप्राप्तिकरत्वात् । तथा च कात्यायनः ।

मृते भर्तरि या साध्वी ब्रह्मचर्ये व्यवस्थिता ।
सारुन्धतीसमाचारा ब्रह्मलोके महीयते ॥

यत् तु विष्णुना धर्मान्तरम् उक्तम् - “मृते भर्तरि ब्रह्मचर्यं तदन्वारोहणं वा” इति — तदन्वारोहणं भर्तारम् अनु आह्रोहणम्, अग्न्यारोहणम्; तथा च अङ्गिराः -

मृते भर्तरि या नारी समारोहेद् धुताशनम् ।
सारुन्धतीसमाचारा स्वर्गलोके महीयते ॥

— तद् एतद् धर्मान्तरम् अपि ब्रह्मचर्यधर्मात् जघन्यम्, निऋष्टफलत्वात् ॥

इति स्मृतिचन्द्रिकायां मृतभर्तृका धर्माः