५८ क्षेत्रजविवादः

अथ क्षेत्रजविवादाख्यस्य पदस्य विधिर् उच्यते

सीमालिङ्गनिरूपणम्

तत्र बृहस्पतिः ।

निवेशकाले कर्तव्यः सीमाबन्धविनिश्चयः ।
प्रकाशोपांशुचिह्नैश् च लक्षितः संशयापहः ॥

निवेशकालः ग्रामादिप्रवेशकालः । सीमाया बन्धो निबन्धो नियामक इति यावत् । विनिश्चीयते सीमाबन्धो येन स विनिश्चयः पाषाणादिमयः स्थूलगुडकः । सीमाबन्धश् चासौ विनिश्चयश् चेति सीमाबन्धविनिश्चयः, सीमानियामकस्थूलगुडक इत्य् अर्थः । एतद् उक्तं भवति - ग्रामादिप्रवेशकाले तत्सीमानियामकः स्थूलगुडकः प्रकाशगुप्तलिङ्गोपेतः सीमासंधौ स्थापनीय इति । प्रकाशगुप्तलिङ्गान्य् अपि तेनैव दर्शितानि ।

वापीकूपतटाकानि चैत्यारामसुरालयाः ।
स्थलनिम्ननदीस्रोतःशरगुल्मनगादयः ॥
प्रकाशचिह्नान्य् एतानि सीमायां कारेयेत् सदा ।
करीषास्थितुषाङ्गारशर्कराश्मकपालिकाः ॥
सिकतेष्टकगोवालकार्पासास्थीनि भस्म च ।
प्रक्षिप्य कुम्भेष्व् एतानि सीमान्तेषु निधापयेत् ॥ इति ।

वापी पुष्करिणी । चैत्यम् इष्टकाद्यैर् विरचितं स्थण्डिलम् । स्थलम् उन्नतो भूप्रदेशः । निम्नं परिघा । शराः तृणविशेषाः । गुल्माः कन्दशून्याः करवीरप्रकाराः । नगाः वृक्षाः । ते तु मनुना विशेषिताः ।

सीमावृक्षांस् तु कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
शल्मलीन् सालतालांश् च क्षीरिणश् चैव पादपान् ॥

न्यग्रोधो वटः । किंशुकः पलाशः । नगादय इत्य् अत्रादिशब्देन वेणुवल्लीवल्मीकवर्त्मपुरातनसेत्वादीनां स्मृत्यन्तरोक्तानां ग्रहणम् । करीषं शुष्कगोमयम् । अस्थीनि पश्वादीनाम् । तुषाः व्रीह्यादित्वचः । अङ्गारा दग्धकाष्ठावयवाः शान्ताग्नयः । शर्कराः पाषाणवत् कठिना मृदः । कपालिकाः पक्वघटावयवानाम् अवयवाः । कार्पासास्थीनि कार्पासबीजानि । निधापयेत् गर्ताभ्यन्तरेषु कुम्भीः निधाय मृद्भिः प्रच्छादयेत् । तथा च मनुः ।

उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् ।
सीमाज्ञाने नृणां वीक्ष्य लोके नित्यं विपर्ययम् ॥

उपच्छन्नानि प्रच्छादितानि अन्यानि प्रकाशचिह्नेभ्यो ऽन्यानि तानि चाधस्ताद् एवोक्तानि । तत्र कार्पासास्थिवर्जानि सर्वाणि मानवे ऽप्य् अनुकीर्तितानि । लिङ्गानाम् अनुकीर्तनम् उपलक्षणार्थम् इति दर्शयितुं कार्पासास्थिकीर्तने मनोर् अनास्था । अत एव उपांशुलिङ्गान्य् अभिधायाभिहितं मनुना ।

यानि चैवंप्रकाराणि कालात् भूमिर् न भक्षयेत् ।
तानि संधिषु सीमायाम् अप्रकाशानि कारयेत् ॥

तानि शुक्तिशङ्खगैरिकखदिरसारप्रभृतीनि । एवमुक्तलिङ्गानां मध्ये वृक्षलिङ्गान्विता सीमा द्वजिनीत्य् उच्यते । जललिङ्गान्विता मत्सिनी । तुषाङ्गारादिगुप्तलिङ्गान्विता नैधानीत्य् उच्यते । तथा च व्यासः ।

ग्रामयोर् उभयोः सीम्नि वृक्षा यत्र समुन्नताः ।
समुच्छ्रिता ध्वजाकारा ध्वजिनी सा प्रकीर्तिता ॥
स्वच्छन्दगा बहुजला मत्स्यकूर्मसमन्विता ।
नित्यप्रवाहिणी यत्र सीमा सा मत्सिनी मता ॥
तुषाङ्गारकपालैस् तु कुम्भैर् आयतनैस् तथा ।
सीमा प्रचिह्निता कार्या नैधानी सा निगद्यते ॥ इति ।

समुन्नताः कौटिल्यविकलाः । समुच्छ्रिताः उच्चाः । सीमालिङ्गानि यत्नसिद्धानि स्वतःसिद्धानि वा प्रथमवयसां गलितवयस्कैर् ज्ञापनीयानि । तथा च बृहस्पतिः ।

ततः पौगण्डबालानां प्रयत्नेन प्रदर्शयेत् ।
वार्धक्ये च शिशूनां ते दर्शयेयुस् तथैव च ॥
एवं परम्पराज्ञाने सीमाभ्रान्तिर् न जायते ॥ इति ।

पौगण्डबालाः किंचित्प्रबुद्धबालाः । ते ऽपि च पौगण्डबालाः कालेन वार्धक्यम् आपन्नाः शिशूनां किंचित्प्रबुद्धानां स्वज्ञातिज्ञापितानि सीमालिङ्गानि प्रयत्नेन दर्शयेयुः । एवम् अविच्छिन्ना ज्ञातृपरम्परा बहुतरकालात्यये ऽपि सीमाभ्रान्त्यनुत्पत्त्यर्थं कार्येत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायां सीमालिङ्गनिरूपणम्

सीमाविवादनिर्णयः

अथ सीमाविवादनिर्णयः

तत्र मनुः ।

एतैर् लिङ्गैर् नयेत् सीमां राजा विवदमानयोः ॥ इति ।

एतैः प्राङ्निरूपितैः सीमालिङ्गैर् अर्थिप्रदर्शितैः सीमां नयेत् निर्णयेद् इत्य् अर्थः । अथार्थिन्य् अविश्वासः तदा साक्षिप्रत्ययाद् एव निर्णयेत् । तद् आह स एव ।

यदि संशय एव स्याल् लिङ्गानाम् अपि दर्शने ।
साक्षिप्रत्यय एव स्यात् सीमावादविनिश्चये ॥

लिङ्गविषयकः सीमाविषयको वा साक्षिप्रत्ययः सीमाविवादनिश्चयहेतुः स्याद् इत्य् अर्थः । तत्र लिङ्गविषयकप्रत्ययशालिनां साक्षिणां साक्षिप्रकरणोक्तलक्षणम् एवानुसंधेयम् । सीमाविषयकप्रत्ययशालिनां तु साक्षिणां लक्षणाधिक्यम् इह बृहस्पतिना दर्शितम् ।

आगमं च प्रमाणं च भोगं कालं च नाम च ।
भूभागलक्षणं चैव ये विदुस् ते ऽत्र साक्षिणः ॥

आगमः स्वत्वापादकः क्रयादिः । प्रमाणं दण्डादिना परिकल्पितं परिमाणम् । यदा तूक्तविधसाक्ष्यभावः तदा सामन्तप्रदर्शितैर् लिङ्गैर् निर्णयेत् । एतद् अपि वचोभङ्ग्याह मनुः ।

साक्ष्यभावे तु चत्वारो ग्रामसीमान्तवासिनः ।
सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥

कात्यायनो ऽपि - “तेषाम् अभावे सामन्ताः” इति । तेषां द्विविधसाक्षिणाम् । के पुनः सामन्ता इत्य् अपेक्षिते स एवाह - “संसक्तकास् तु सामन्ताः” इति । विप्रतिपन्नसीमकस्य ग्रामादेश् चतसृषु दिक्ष्व् अनन्तरग्रामादिभोक्तारः संसक्तकाः, त एव सामन्ता ज्ञेया इत्य् अर्थः । एवमुक्तानां सामन्तानां यदा रागद्वेषादिप्रकटदोषसद्भावस् तदाप्य् आह स एव ।

स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्व् अर्थगौरवात् ।
तत्संसक्तेषु कर्तव्यः उद्धारो नात्र संशयः ॥

तत्संसक्तेषु सामन्तसंसक्तेषु । उद्धारः सीमाया उद्धारः सीमानिर्णय इति यावत् । एतद् उक्तं भवति - चतसृषु दिक्षु स्थितसामन्तग्रामादिभ्यो ऽनन्तरत्वेन तत्तद्दिशि स्थितग्रामादिभोक्तारः तत्संसक्ताः, तैः प्रदर्शितसीमालिङ्गैर् ग्रामादेः सीमां निर्णयेद् इति । यदा तेषाम् अपि प्रकटदोषसद्भावः तदाप्य् आह स एव ।

संसक्तसक्तदोषे तु तत्संसक्ताः प्रकीर्तिताः । इति ।

तत्संसक्ताः संसक्तसक्तसंसक्ताः । एतद् उक्तं भवति - चतसृषु दिक्षु स्थितसंसक्तसक्तग्रामादिभ्यो ऽनन्तरत्वेन तत्तद्दिशि स्थितग्रामादिभोक्तारः संसक्तसक्तसंसक्ताः, तैः प्रदर्शितसीमालिङ्गैः ग्रामादिसीमां निर्णयेद् इति । यदा तु तेषाम् अपि प्रकटदोषसद्भावः तदाप्य् आह स एव ।

त्यक्त्वा दुष्टांस् तु सामन्तान् अन्यान् मौलादिभिः सह ।
संमर्श्य कारयेत् सीमाम् एवं धर्मविदो विदुः ॥

संसक्तसक्तसंसक्ता अपि सामन्तकोटिनिविष्टाः, तेन एतेषां सामन्तशब्देन निर्देशो नानुपपन्नः । ततश् चायम् अर्थः - दुष्टान् संसक्तसक्तसंसक्तान् त्यक्त्वा साक्षिसामन्ततत्कोटिभ्यो ऽन्यान् सीमालिङ्गाभिज्ञान् मौलवृद्धोद्धृतसहितान् सीमान्तप्रतिनिर्णायकान् कारयेद् इति । के पुनः साक्षिसामन्ततत्कोटिभ्यो ऽन्य इत्य् अपेक्षिते नारदः ।

नगरग्रामगणिनो ये च वृद्धतमा नराः । इति ।

सीमालिङ्गज्ञा इति शेषः । मौलवृद्धोद्धृतास् तु कात्यायनेन दर्शिताः ।

ये तत्र पूर्वसामन्ताः पश्चाद् देशान्तरं गताः ।
तन्मूलत्वात् तु ते मौला ऋषिभिः सम्प्रकीर्तिताः ॥
निष्पाद्यमानं यैर् दृष्टं तत् कार्यं नृगुणान्वितैः ।
वृद्धा वा यदि वावृद्धास् ते वृद्धाः परिकीर्तिताः ॥
उपश्रवणसंभोगकार्याख्यानोपचिह्निताः ।
उद्धरन्ति ततो यस्माद् उद्धृतास् ते ततः स्मृताः ॥ इति ।

नृगुणान्वितैः पुरुषगुणान्वितैः । वयोवृद्धत्वं न तन्त्रम् इति विकल्पोक्त्या दर्शितम् । कार्यज्ञातृत्वं येषां पारम्पर्येण ते उद्धृता इति तृतीयश्लोकस्य तात्पर्यार्थः । एवं च प्रकटदोषेण संसक्तसक्तसंसक्तेषु दुष्टेषु पूर्वसामन्ताद्युपेतनागरग्राम्यजनश्रेणीवयोवृद्धदर्शितैः सीमालिङ्गैः सीमानिर्णयः कार्य इत्य् अवबोद्धव्यम् । गुप्तदोषेषु सामन्तेषु विशेषम् आह स एव ।

सामन्ताः साधनं पूर्वम् अनिष्टोक्तौ गुणान्विताः ।
द्विगुणास् तूत्तरा ज्ञेयास् ततो ऽन्ये त्रिगुणा मताः ॥

अनिष्टोक्तौ प्रतिवादिना गुप्तदोषोद्भावने कृते इत्य् अर्थः । उत्तराः तत्संसक्तादयो ऽन्तरङ्गाः सामन्तकोटयो द्विगुणा ज्ञेयाः । ततः सामन्ततत्कोटिभ्यो ऽन्ये बहिरङ्गा नागरादयो मौलवृद्धोद्धृतसहितास् त्रिगुणा मताः । एवं तत्संसक्तकादिष्व् अपि गुप्तदोषोद्भावने सत्य् उत्तरेषां द्वैगुण्यादिकम् ऊह्यम् । साक्षिप्रभृत्युद्धृतपर्यन्तानाम् अभावे तु मनुर् आह ।

सामन्तानाम् अभावे तु मौलानां सीमसाक्षिणाम् ।
इमान् अप्य् अनुयुञ्जीत पुरुषान् वनगोचरान् ॥

सामन्तादीनाम् अनुग्राहकमौलादीनां सीमासाक्षिणां चाभावे इमान् असभ्यान् अपि वक्ष्यमाणान् पुरुषान् अनुयुञ्जीत सीमालिङ्गानि पृच्छेद् इत्य् अर्थः । तान् एव दर्शयति ।

व्याधान् शाकुनिकान् गोपान् कैवर्तान् मूलखानकान् ।
व्यालग्राहान् उच्छवृत्तीन् अन्यांश् च वनगोचरान् ॥ (म्ध् ८।२६०)

व्याधादीनां द्वितीयान्ततया निर्देशः पूर्वश्लोकस्थेनानुयुञ्जीतेतिपदेनान्वयार्थः । कैवर्ताः तटाकादिखननोपजीविनः । नारदस् तु मौलादिसहितान्येषाम् अभावे सीमान्तिकप्रदेशकर्षकाः तेषाम् अभावे वनगोचरा इति दर्शयितुं वनगोचरेभ्यः प्राक्सीमाकर्षकान् दर्शयति ।

ग्रामसीमासु च बहिः ये स्युस् तत् कृषिजीविनः ।
गोपाः शाकुनिका व्याधा ये चान्ये वनगोचराः ॥ (न्स्म् ११।३)

एवं सामन्ताद्युद्धृतपर्यन्तेष्व् अप्य् उत्कृष्टानाम् अभावे निकृष्टानाम् अनुयोजनम् ऊह्यम् । अनुयोजनं सत्यानृतजन्यपुण्यपापप्रतिपादकमन्वादिवचनैर् यथार्थकथनपरान् कृत्वा प्रस्तुतार्थप्रश्नकरणम् । तानि च वचनानि साक्ष्यनुयोजनविधिप्रकरणोक्तान्य् अनुसंधेयानि । साक्षिप्रश्नविधिप्रकरणोक्तशपथैः शापिता एव सामन्तादयो विनिर्णयं ब्रूयुः । तथा च बृहस्पतिः ।

शपथैः शापिताः स्वैः स्वैः ब्रूयुः सीमाविनिर्णयम् ।
दर्शयेयुश् च लिङ्गानि तत् प्रमाणम् इति स्थितम् ॥

शपथैः स्वैः स्वैः,

सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।

इत्यादिनोक्तव्यवस्थान् अतिक्रमेणेत्य् अर्थः । मनुनापि,

ग्रामेयककुलानां तु समक्षं सीमसाक्षिणः ।
प्रष्टव्याः सीमलिङ्गानि तयोश् चैव विवादिनोः ॥

इत्य् उक्त्वोक्तम्,

ते पृष्टास् तु यथा ब्रूयुः सीमासंधिषु लक्षणम् ।
तत् तथा स्थापयेद् राजा धर्मेण ग्रामयोर् द्वयोः ॥ इति ।

ग्रामीणपुरुषसमूहस्य विवादिनोश् च समक्षं सीमालिङ्गानि तत्साक्षिप्रभृतयः प्रष्टव्या इति प्रथमश्लोकस्यार्थः । द्वितीयश्लोकार्थस् तु सुव्यक्तः । सीमाया एव ये साक्षिणस् ते सीमार्थम् एव प्रष्टव्याः, पृष्टाश् च यथा सीमां ब्रूयुः तथा ज्ञापयेद् इत्य् उह्यम् । यदा तु सीमालिङ्गसाक्षिणो लक्षणानि कथंचित् प्रदर्शयितुं न शक्नुवन्ति केवलं सीमां वदन्ति तदा तान् प्रत्य् आह स एव ।

शिरोभिः स्वैः गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
सुकृतैः शापिताः स्वैः स्वैः नयेयुस् तान् समञ्जसम् ॥

यावन्तः सीमालिङ्गसाक्षिणः ते सर्वे लोहितकुसुमस्रग्विणो लोहितवसनाः लोष्टं शिरसि धारयन्तः सीमानुयायिना चङ्क्रमेण सीमान्तं प्रदर्शयन्तस् तां सीमां समञ्जसं सम्यक् निर्णयेयुर् इत्य् अर्थः । याज्ञवल्क्यस् तु सामन्तादीन् प्रय् आह ।

सामन्ता व समग्रामाश् चत्वारो ऽष्टौ दशापि वा ।
रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥

वाशब्दात् तत्संसक्तकादयो ऽप्य् एवम् एव लिङ्गप्रदर्शनासंभवे सीमां नयेयुर् इति गम्यते, लिङ्गप्रदर्शकेषु विकल्पार्थत्वात् । समग्रामाः समसङ्ख्याताः समुदायभावम् आपन्नाश् चत्वार इत्यादिविशेषोपादानम् अन्यसमसंख्यानिरासार्थम् । समग्रामा इत्य् अत्र समग्रहणं विषमसंख्यानिवृत्त्यर्थम् । तत्राप्य् अत्यर्थम् एकसंख्यानिवृत्त्यर्थम् आह नारदः ।

नैकः समुन्नयेत् सीमां नरः प्रत्ययवान् अपि ।
गुरुत्वाद् अस्य कार्यस्य क्रियैषा बहुषु स्थिता ॥

अस्य प्रतिषेधस्य क्वचित् प्रतिप्रसवम् आह बृहस्पतिः ।

ज्ञातृचिह्नैर् विना साधुर् एको ऽप्य् उभयसंमतः ।
रक्तमाल्याम्बरधरो मृदम् आदाय मूर्धनि ॥
सत्यव्रतः सोपवासः सीमान्तं दर्शयेन् नरः ॥ इति ।

ज्ञातृचिह्नैर् विना ज्ञातॄणां चिह्नानां चाभाव इत्य् अर्थः । एतद् उक्तं भवति - साक्ष्यादिवनगोचरान्तानां सीमाज्ञातृणां प्र(?)प्रकाशोपांशुलिङ्गानाम् अभावे यः कश्चिद् उक्तविशेषणविशिष्टो नरः सीमावित् सीमान्तम् उक्तविधिना चङ्क्रममाणो दर्शयेद् इति । यद्य् अप्य् अत्र मन्वादिवचनाच् चङ्क्रमणानन्तरम् एव निर्णयः संपद्यत इति प्रतिभाति, तथापि चङ्क्रमणदिनम् आरभ्य सार्धमासान्ते निर्णयो न ततो ऽर्वाग् इत्य् अवगन्तव्यम् । यद् आह कात्यायनः ।

सीमाचङ्ग्रमणे क्रोशे पादस्पर्शे तथैव च ।
त्रिपक्षपक्षसप्ताहं दैवराजकम् इष्यते ॥ इति ।

यथासंख्यम् इति शेषः । यदाप्य् उक्तलक्षणस्य (नरस्या) प्रमाणस्याभावः तदापि न दिव्येन निर्णयः,

वाक्पारुष्ये महीवादे दिव्यानि परिवर्जयेत् ।

इत्याद्यनेकवचनेन भूविवादे दिव्यनिषेधात् । सीमाविवादश् च भूविवाद एव । यद् आह कात्यायनः ।

आधिक्यं न्यूनता चांशे अस्तिनास्तित्वम् एव च ।
अभोगभुक्तिः सीमा च षट् भूवादस्य हेतवः ॥ इति ।

कथं तर्ह्य् अत्र निर्णय इत्य् अपेक्षिते नारदः ।

यदा तु न स्युर् ज्ञातारः सीमाया न च लक्षणम् ।
तदा राजा द्वयोः सीमाम् उन्नयेद् इष्टतः स्वयम् ॥

इष्टतः इच्छात इत्य् अर्थः । इष्टत इत्य् अस्य क्वचिद् अपवादम् आह मनुः ।

सीमायाम् अविषह्यायां स्वयं राजैव धर्मवित् ।
प्रविशेद् भूमिम् एकेषाम् उपकाराद् इति स्थितिः ॥

अविषह्या ज्ञातृज्ञापकशून्या । एतद् उक्तं भवति - यत्र विवादविषयो भूर् एकस्य निरवकाशस्य ग्रामक्षेत्रादेर् अत्यन्तोपकारिका अन्यस्य तु सावकाशस्य न तथा तत्र महोपकारार्थं निरवकाशग्रामादिशेषतया तां भूमिं प्रवेशयेद् इति । एवम् उक्तैविधिना सीमानिर्णयो नावेदनानन्तरम् एव ऋणादिनिर्णयवत् कर्तुं सर्वदा सुकरः, प्रावृडादिकाले सस्यादिभिस् तिरोहितेषु सेत्वादिसीमालिङ्गेषु दुष्करत्वात् । तेन यदा सेत्वादिसीमालिङ्गानां तिरोधायकसस्याद्यभावः तदा निर्णयः कार्यः । तथा च मनुः ।

सीमां प्रति समुत्पन्ने विवादे ग्रामयोर् द्वयोः ।
ज्येष्ठमासि नयेत् सीमां सुप्रकाशेषु सेतुषु ॥

द्वयोर् ग्रामाधिपयोर् विवादे सीमां प्रति समुत्पन्ने ज्येष्टमासि मासान्तरे वा सेतुप्रभृतिषु सीमालिङ्गेषु सुव्यक्तेषु विवादाध्यासितां सीमां निर्णयेद् इत्य् अर्थः । ग्रामग्रहणं क्षेत्रादीनाम् उपलक्षणार्थम् । अत एव बृहस्पतिना,

ग्रामक्षेत्रगृहादीनां सीमावादं निबोधत ।

इत्य् उपक्रान्तम् । गृहादीनाम् इत्यादिशब्देन नगरदेशौ स्वीक्रियेते, तत्रापि सीमावादसद्भावात् । अत एव कात्यायनेन,

सामन्तभावे सामन्तैः कुर्यात् क्षेत्रादिनिर्णयम् ।
ग्रामे सीमासु च तथा तद्वन् नगरदेशयोः ॥

इत्य् उक्तम् । क्षेत्रादिनिर्णयं क्षेत्रगृहयोः सीमानिर्णयम् इत्य् अर्थः । न चैवं ग्रामक्षेत्रगृहादिष्व् अन्योन्यसामन्तैर् अन्योन्यनिर्णयः कार्यः, ग्रामसामन्तानां क्षेत्रगृहसीमास्व् अपरिचितत्वात्, एवं क्षेत्रसामन्तानां ग्रामगृहसीमासु अपरिचितत्वात् । अत एवाह स एव ।

ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् ।
गृहं गृहस्य निर्दिष्टं सामन्तान् परिभावयेत् ॥

अत्र ग्रामादिशब्देन प्रथमान्तेन लक्षणया ग्रामादिभोक्ता कथितः । ततश् चायम् अर्थः - विवादविषयस्य ग्रामादेः समन्ततः पूर्वदक्षिणपश्चिमोत्तरदिक्षु स्थितग्रामादिभोक्तृजनस् तस्य सामन्तः ततः सकाशाद् विवादविषयग्रामादिसीमालिङ्गानि परिभावयेत् निश्चिनुयात् निर्णेता राजादिर् इति । एवं नगरदेशयोर् अपि तत्तत्सामन्तात् परिभावयेद् इति विधिर् उदाहरणमुखेनास्मिन् वचने सूचित इत्य् अवगन्तव्यम् । एवम् एव केदारारामोद्यानदेवालयकूपतटाकप्रवर्षणोद्भूतजलप्रवाहस्थानादिसीमाविवादे साक्षितत्तत्सामन्तादितो निर्णेता निर्णयेत् । तथा च बृहस्पतिः।

सर्वस्मिन् स्थावरे वादे विधिर् एष प्रकीर्तितः । इति ।

इति स्मृतिचन्द्रिकायां सीमाविवादनिर्णयः

सीमासाक्ष्याद्यपराधविषयाः

अथ सीमासाक्ष्याद्यपराधविषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र कात्यायनः ।

बहूनां तु गृहीतानां न सर्वे निर्णयं यदि ।
कुर्युर् भयाद् वा लोभाद् वा दाप्यस् तूत्तमसाहसम् ॥

सीमासाक्षित्वेन प्रकीर्तितानाम् अशेषाणां साक्ष्यवादार्थं मेलने कृते ते सर्वे यदि भयादिना साक्ष्यवादं न ब्रूयुः तदा ते प्रत्येकम् उत्तमसाहसं दाप्या इत्य् अर्थः । प्रत्येकम् इत्य् अनुक्ताव् अपि एकैकस्यैव साक्षित्वात् तद् अत्र लभ्यते । यदा तु ते भयादिना सर्वे संशयम् उत्पादयित्वानैकमत्येन ब्रूयुस् तदाप्य् एवम् एव दाप्या इत्य् आह स एव ।

कीर्तिते यदि भेदः स्यात् दाप्यास् तूत्तमसाहसम् । इति ।

यदा त्व् अनृतं ब्रूयुस् तदा त्व् आह विष्णुः - “कूटसाक्षिणां सर्वस्वापहारः” इति । सामान्येनाभिधाने ऽपि दण्डगौरवात् भूवादविषयम् एतद् अवसेयम् । सामन्तानाम् अनृतवादित्वे त्व् आह नारदः ।

अथ चेद् अनृतं ब्रूयुः सामन्ताः सीमनिर्णये ।
सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥

अनृतं ब्रूयुः साक्ष्यवादे सीमालिङ्गानि वञ्चयित्वा ब्रूयुर् इत्य् अर्थः । अज्ञानोक्तौ त्व् आह कात्यायनः ।

नाज्ञानेन हि मुच्यन्ते सामन्ता निर्णयं प्रति ।
अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत् ॥

अज्ञानोक्ताव् इति निर्णयाभावोपलक्षणार्थम्, तेन भेदेनोक्ताव् अपि निर्णयाभावात् पुनः सीमां विचारयेत् । कस् तत्र निर्णायक इत्य् अपेक्षिते शङ्खलिखितौ - “सामन्तविरोधे लेख्यप्रत्ययो लेख्यविरोधे ग्रामनगरवृद्धश्रेणीप्र्ययो ग्रामनगरवृद्धश्रेणीविरोधे दशवर्षा भुक्तिर् अन्यत्र राजविप्लवात्” इति । लेख्यप्रत्ययो निर्णायक इति शेषः । एवम् उत्तरत्रापि शेषो द्रष्टव्यः । तत्संसक्तादिवनगोचरान्तानाम् अनृतवादित्वे तु नारद आह ।

शेषाश् चेद् अनृतं ब्रूयुः नियुक्ता भूमिकर्मणि ।
प्रत्येकं तु जघन्यास् ते विनेयाः पूर्वसाहसम् ॥
गणवृद्धादयस् त्व् अन्ये दण्डनीयाः पृथक् पृथक् ।
विनेयाः प्रथमेनैव साहसेनानृते स्थिताः ॥ इति ।

शेषाः सामन्तेभ्यो ऽवशिष्टाः तत्संसक्ताः । तेभ्यो जघन्याः संसक्तसंसक्ताः । गणवृद्धादय इत्य् अत्रादिशब्देन ग्रामनगरमौलवृद्धोद्धृतसीमाकर्षकवनगोचराः संगृहीताः । मनुस् तु सीमाचङ्क्रमणकर्तॄणाम् अनृते स्थितानां दण्डम् आह ।

यथोक्तेन नयन्तस् ते पूयन्ते सत्यसाक्षिणः ।
विपरीतं नयन्तस् तु दाप्यास् तु द्विशतं दमम् ॥

यथोक्तेन “शिरोभिस् ते गृहीत्वोर्वीम्” इत्यादिनोक्तमार्गानतिक्रमेण नयन्तः सीमाचङ्क्रमणं कुर्वाणाः सत्यसाक्षिणः सत्यभूतसीमानुभवशालिनः पूयन्ते पापेन न संबध्यन्ते । विपरीतं नयन्तः पूर्वसीमातिक्रमेण चङ्क्रमणं कुर्वाणाः कार्षापणानां द्विशतं दाप्या इत्य् अर्थः । विपरीतनयनं तु चङ्क्रमणानन्तरक्षणम् आरभ्य सार्धमासाभ्यन्तरे दैवराजकृतव्यसनदर्शने वेदितव्यम् ॥

इति स्मृतिचन्द्रिकायां सीमासाक्ष्याद्यपराधविषयाणि

नद्यादिवशात् प्राप्तभूविषयाः

अथ नद्यादिवशात् प्राप्तभूविषयाणि

तत्र बृहस्पतिः ।

अन्यग्रामात् समाहृत्य दत्तान्यस्य यदा मही ।
महानद्याथ वा राज्ञा कथं तत्र विचारणा ॥
नद्योत्सृष्टा राजदत्ता यस्य तस्यैव सा मही ।
अन्यथा न भवेल् लाभो नराणां राजदैविकः ॥
क्षयोदयौ जीवनं च दैवराजवशान् नृणाम् ।
तस्मात् सर्वेषु कार्येषु तत्कृतं न विचालयेत् ॥ इति ।

तत्कृतं दैवराजकृतम् । यद्य् अपि दैवशब्दो भाग्यम् आचष्टे तथापि नदीकृते दैवकृतम् इत्य् उच्यते, भाग्यस्यैव मूलकारणत्वात् । तथा च स एव ।

ग्रामयोर् उभयोर् यत्र मर्यादा कल्पिता नदी ।
कुरुते दानहरणं भाग्याभाग्यवशान् नृणाम् ॥
एकत्र कूलपातं तु भूमेर् अन्यत्र संस्थितिम् ।
नदी तीरे प्रकुरुते तस्य तां न विचालयेत् ॥ इति ।

तीरे नदी प्रकुरुते इत्य् अन्वयः । तस्य नदीवशाल् लब्धभूमिकस्य तां नदीकृतभूमिसंस्थितिं पूर्वस्वामी न विचालयेद् इत्य् अर्थः । एतद् अनुप्तसस्यतीरविषयम् । उप्तसस्यतीरविषये ऽप्य् आह स एव ।

क्षेत्रं ससस्यम् उल्लङ्घ्य भूमिश् छिन्ना यदा भवेत् ।
नदीस्रोतःप्रवाहेण पूर्वस्वामी लभेत ताम् ॥

तां ससस्यां भूमिम् । छेदनाद् ऊर्ध्वम् अपि पूर्वस्वामी यावद् उप्तसस्यफलप्राप्तिस् तावल् लभत इत्य् अर्थः । फललाभाद् ऊर्ध्वं तु प्राचीनवचनविषयतुल्यतैव । राजदत्तभूमिविषये ऽपि क्वचित् पूर्वस्वामी विचालयेत् क्वचिन् न विचालयेद् इत्य् आह स एव ।

या राज्ञा क्रोधलोभेन छलन्यायेन वा कृता ।
प्रदत्तान्यस्य तुष्टेन न सा सिद्धिम् अवाप्नुयात् ॥
प्रमाणरहितां भूमिं भुञ्जतो यस्य या हृता ।
गुणाधिकाय वा दत्ता तस्य तां न विचालयेत् ॥ इति ।

प्रमाणरहितां भूमिं भुञ्जतः स्वत्वे लिखितादिप्रमाणरहितां भूमिं भुञ्जत इत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायां नद्यादिवशात् प्राप्तभूविषयाणि

गृहादिविषयाः

अथ गृहादिविषयाणि

तत्र बृहस्पतिः ।

निवेशकालाद् आरभ्य गृहवार्यापणादिकम् ।
येन यावद् यथा भ्युक्तं तस्य तन् न विचालयेत् ॥

ग्रामादिप्रवेशकालाद् आरभ्य गृहादिकं तत्स्वामिना येन यावत् प्रचारभूम्याद्युपेतं तथा यस्यां दिशि द्वारादिमद् भुक्तं तस्य तन् न विचालयेत् प्रातिवेश्यदिर् जन इत्य् अर्थः । “निर्वेशकालाद् आरभ्य” इति वदन् कालान्तराद् आरभ्य भुक्तं विप्रतिपन्नं चेत् विचालयेद् इति दर्शयति । एवं निवेशकाले कल्पितं गवाक्षादिकं प्रातिवेश्याद्यनिष्टकार्य् अपि न केनचिच् चालनीयम् इत्य् आह स एव ।

वातायनं प्रणालीं च तथा निर्यूहवेदिकाः ।
चतुःशालस्यन्दनिकाः प्राङ्निविष्टा न चालयेत् ॥

वातायनं गवाक्षः । प्रणाली काष्ठादिमयो जलनिर्गमोपायः । निर्यूहः गृहघोणा । वेदिका दारुपरिष्कृता चतुरश्रा विश्रान्तिभूमिः । चतसॄणां शालानां समाहारश् चतुःशालम् । एतच् च तृणमयगृहोपलक्षणार्थम् उक्तम् । तस्माद् वृष्ट्युदकनिपातस्यन्दनिकाः । अत्रापि मध्ये निविष्टानां विचालनं पूर्ववद् अर्थाद् उक्तम् । अत एव गवाक्षादिकं परानिष्टकारितया न कार्यम् इत्य् आह कात्यायनः ।

निवेशसमयाद् ऊर्ध्वं नैते योज्याः कदाचन । इति ।

परानिष्टकारितयेति शेषः । तथा च स एव ।

दृष्टिप्रासं प्रणालीं च न कुर्यात् परवेश्मसु । इति ।

दृष्टिप्रासो गवाक्षः । परवेश्मसु परवेश्माभिमुख्येनेत्य् अर्थः । एवं कृते परानिष्टं भवतीत्य् अभिप्रायः । अनेनैवाभिप्रायेण बृहस्पतिनाप्य् उक्तम् ।

वर्चःस्थानं वह्निचयं गर्तोच्छिष्टाम्बुसेचनम् ।
अत्यारात् परकुड्यस्य न कर्तव्यं कदाचन ॥

वर्चःस्थानं विष्ठास्थानम् । अत्यारात् अरत्निद्वयम् अविविहायेत्य् अर्थः । अत एव कात्यायनः ।

विण्मूत्रोदकवप्रं च वह्निश्वभ्रनिवेशनम् ।
अरत्निद्वयम् उत्सृज्य परकुड्यान् निवेशयेत् ॥

बृहस्पतिस् तु शकटादिकं संकटहेतुभूतं संसरणे न चिरं धर्यम् इत्य् आह ।

यान्त्य् आयान्ति जना येन पशवश् चानिवारिताः ।
तद् उच्यते संसरणं न रोद्धयं तु केनचित् ॥

एवं चतुष्पथादाव् अप्य् अवरोधनं न कार्यम् । अत एव नारदः ।

चतुष्पथसुरस्थानराजमार्गान् न रोधयेत् । इति ।

सुरस्थानं देवकुलादिकम् । चतुष्पथराजमार्गयोः स्वरूपम् आह कात्यायनः ।

सर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः ।
अनिरुद्धा यथाकलं राजमार्गः स उच्यते ॥

अवेलायां यत्र मार्गे राजकीयैश् चङ्क्रमणं निषिध्यते स राजमार्ग इत्य् अर्थः । यस्य क्षेत्रस्यान्तिके मध्ये वा मार्गो ऽस्ति तं प्रय् आहतुः शङ्खलिखितौ - “मार्गक्षेत्रे पथिविसर्गः” इति । कार्य इति शेषः । यस् तु संसरणादाव् अवरोधं करोति तस्य दण्डम् आह बृहस्पतिः ।

यस् तत्र संकरं श्वभ्रं वृक्षारोपणम् एव च ।
कामात् पुरीषं कुर्याद् यस् तस्य दण्डस् तु माषकः ॥

संकरः संकीर्णता अवरोध इति यावत् । वृक्षग्रहणं सस्यादेर् उपलक्षणार्थम् । यद्य् अपि पञ्चकृष्णलको माषो ऽत्रापि ग्राह्यतया प्रतिभाति, तथाप्य् अपराधानुरूपत्वाय कार्षापणस्य विंशो भागो ग्राह्यः, तत्रापि माषव्यवहारात् । राजमार्गे पुरीषकर्तुर् दण्डाधिक्यम् आह मनुः ।

समुत्सृजेद् राजमार्गे यस् त्व् अमेध्यम् अनापदि ।
स द्वौ कार्षापणौ दद्याद् अमेध्यं चाशु शोधयेत् ॥

मार्गवैशिष्ट्याद् अत्रापराधाधिक्यम् अभिसंधाय दण्डाधिक्याभिधानं मनोर् इति मन्तव्यम् । आपदि तु नार्थदण्डः किं तु वाग्दण्ड इत्य् आह स एव ।

आपद्गतस् तथा वृद्धः गर्भिणी बाल एव वा ।
परिभाषणम् अर्हन्ति तच् च शोध्यम् इति स्थितिः ॥

तटाकादाव् अमेध्यकर्तुर् अत्यन्तापराधित्वाद् दण्डे ऽप्य् अत्यन्ताधिक्यम् आह कात्यायनः ।

तटाकोद्यानतीर्थानि यो ऽमेध्येन विनाशयेत् ।
अमेध्यं शोधयित्वा तु दण्डयेत् पूर्वसाहसम् ॥

कश्मलचेलनिर्णेजनादिना तीर्थदूषकस्याप्य् अयम् एव दण्ड इत्य् आह स एव ।

दूषयेत् सिद्धतीर्थानि स्थापितानि महात्मभिः ।
पुण्यानि पावनीयानि प्राप्नुयात् पूर्वसाहसम् ॥

अपराधान्तरेषु दण्डान् आह याज्ञवल्क्यः ।

मर्यादायाः प्रभेदे तु सीमातिक्रमणे तथा ।
क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥

सीमालिङ्गविनाशकस्य प्रथमसाहसो दण्डः, क्षेत्रस्यापहरणे ऽपहर्तुर् मध्यमसाहसो दण्ड इत्य् अर्थः । यत् तु विष्णुनोक्तम् - “सीमाभेत्तारम् उत्तमसाहसं दण्डयित्वा पुनः सीमां कारयेत्” इति, तत्र सीमाभेत्तारम् इत्य् अस्य सीमाम् उल्लङ्घ्य कर्षकम् इत्य् अर्थो ऽध्यवसेयः । सीमाप्रदेशे पुनःकर्षणाद्यकरणम् एव पुनः सीमाकरणम्, तद् यथा भवति तथा राजा यतेतेति पुनः सीमां कारयेद् इत्य् अस्यार्थः । उत्तमसाहसाभिधानम् अर्धसीमातिक्रमविषयम् । समग्रसीमातिक्रमविषये त्व् आहतुः शङ्खलिखितौ - “सीमातिक्रमेष्व् अष्टसहस्रम्” इति । दण्ड इति शेषः । दण्डाधिक्यात् समग्रसीमातिक्रमविषयत्वम् अस्य वचनस्य न्याय्यम् । स्वल्पसीमातिक्रमविषये त्व् आह वृद्धमनुः ।

स्थापितां चैव मर्य्दाम् उभयोर् ग्रामयोस् तथा ।
अतिक्रामन्ति ये दर्पात् ते दण्ड्याः द्विशतं दमम् ॥

दण्डाल्पत्वाद् अल्पातिक्रमविषयम् एतद् इति न्याय्यम् । यस् तु याज्ञवल्कीये सीमालिङ्गविनाशे प्रथमसाहस उक्तः स गृहसीमालिङ्गविनाशविषयः दण्डस्याल्पत्वात् । क्षेत्रसीमालिङ्गविनाशविषये त्व् अपराधाधिक्याद् दण्डाधिक्यम् आहतुः शङ्खलिखितौ - “क्षेत्रमर्यादाभेदे त्व् अष्टशतम्” इति । दण्ड इति शेषः । एवं ग्रामादिसीमालिङ्गविनाशे दण्डाधिक्यम् ऊह्यम् । उक्तविधिना दण्डयित्वा पुनर् गृहादीनां सीमालिङ्गानि कारयेद् इति चोह्यम् । यस् तु याज्ञवल्कीये क्षेत्रापहरणे मध्यमसाहस उक्तः स तु बलाद् अपहारविषयः । चत्वारिंशदधिकपञ्चशतकार्षापणात्मकस्य मध्यमसाहसस्य गुरुदण्डत्वात् । भयप्रदर्शनेनाज्ञानेन वापहरणे कृते तु मनुर् आह ।

गृहं तटाकम् आरामं क्षेत्रं वा भीषया हरन् ।
शतानि पञ्च दण्ड्याः स्याद् अज्ञानाद् द्विशतो दमः ॥

यत् तु शङ्खलिखिताभ्याम् उक्तम् - “क्षेत्रोदकापहरणे अष्टशतम्” इति, दण्ड इति शेषः । तद् एतद् बलात्कारेण सोदकशाल्यादिक्षेत्रापहरणे द्रष्टव्यम् । एवम् अपह्रियमाणक्षेत्रादिभूस्त्वापेक्षया दण्डाधिक्यम् ऊह्यम् । सीमोत्पन्नवृक्षादिफलपुष्पापहारदण्डप्राप्तिपरिहारोपयोगिनम् अर्थम् आह कात्यायनः ।

सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर् द्वयोः ।
फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् ॥

सामान्यं साधारणम् । क्षेत्रस्वामिषु सवृक्षसीमक्षेत्रयोः स्वामिषु । यद्य् एकक्षेत्रस्वाम्य् एव सर्वफलम् आहरेत् तदा तस्मिन्न् अर्थफलापहारदण्डप्राप्तिः । येषां तु वृक्षादीनाम् एकस्य क्षेत्रे मूलप्रदेशा वर्तन्ते अन्यक्षेत्रस्योपरि शाखास् तद्विषये ऽप्य् आह स एव ।

अन्यक्षेत्रे तु जातानां शाखा यत्रान्य्संश्रिताः ।
स्वामिनं तं विजानीयाद् यस्य क्षेत्रेषु संश्रिताः ॥

संश्रिता आश्रिताः जाता इति यावत् ॥

इति स्मृतिचन्द्रिकायां गृहादिविषयाणि

सेत्वादिविषयाः

अथ सेत्वादिविषयाणि

तत्र नारदः ।

सेतुस् तु द्विविधो ज्ञेयः खन्यो बन्ध्यस् तथैव च ।
तोयप्रवर्तने खन्यो बन्ध्यः स्याद् विनिवर्तने ॥

क्षेत्रस्थिताधिकोदकनिर्गमनार्थं खात्वा यः क्रियते सेतुः स खन्यः, आगतोदकधारणार्थं मृदादिभिः यत्र जलप्रवाहो बध्यते स सेतुः बन्ध्य इत्य् अर्थः । तत्र नातिनिम्नतया खन्यः कार्यः, नात्युच्चतया बन्ध्य इति दर्शयितुम् अनुदकात्युदकनिन्दाम् आह स एव ।

नान्तरेणोदकं सस्यं नाशश् चात्युदके सति ।
य एवात्युदके दोषः स एवानुदके भवेत् ॥

अतो यथा न सर्वोदकहानिस् तथा खन्यः कार्यः, यथा च नातिबहूदकस्थितिः तथा बन्ध्यः कार्यः इत्य् अभिप्रायः । सेतुबन्धप्रतिबन्धकम् अपि प्रत्य् आह स एव ।

परक्षेत्रस्य मध्ये तु सेतुर् न प्रतिषिध्यते ।
महागुणो ऽल्पदोषश् चेद् वृद्धिर् इष्टा क्षये सति ॥

अस्यार्थः - स्वक्षेत्रे परेण क्रियमाणः सेतुः स्वक्षेत्रे ऽप्य् अपेक्षितोदकस्थापकत्वादिमहागुणवान्, स्वक्षेत्रलवनाशकरतयाल्पदोषवान् क्षेत्रस्वामिना न प्रतिषेध्यो यस्मात् अल्पक्षेत्रक्षये सत्य् अपि सस्यसमृद्धिर् इष्टेति । चेच्छब्दात् कुत्रचित् उक्तवैपरीत्ये प्रतिषेध्य इति दर्शयति । याज्ञवल्क्यो ऽपि ।

न निषेध्यो ऽल्पवाधस् तु सेतुः कल्याणकारकः ।
परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥

न निषेध्य इत्य् अनुषङ्गात् कूपपदेनापि संबध्यते । स्वल्पक्षेत्रः स्वल्पक्षेत्रवर्ती । एवं चायम् अर्थः - परभूमिं स्वल्पां हरन् बहूदकः कूपः परेण भूस्वामिना न प्रतिषेध्य इति । विपरीतस् त्व् अत्रापि निषेध्य एव । यत् पुनस् तेनोक्तम्,

स्वामिने यो ऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् ।
उत्पन्ने स्वामिनो भोगस् तदभावे महीपतेः ॥

इति, तस्य सति संभवे क्षेत्रस्वामिनं तदभावे राजानं वानुज्ञाप्यैव परेण परक्षेत्रे सेत्वादिकः प्रवर्तनीय इत्य् अत्र तात्पर्यम्, न पुनर् अनिवेदने सेत्वादिवशाद् उत्पन्नपरक्षेत्रफलभोक्तृनिरूपणे, वचनवैयर्थ्यप्रसङ्गात् । न हि सेत्वादिप्रवर्तनमात्रेण परः परक्षेत्रोत्पन्नफलभोक्तृतां प्रतिपद्यते, येन तन्निवारणार्थं वचनम् अर्थवत् भवेत् । केचित् तु सेत्वादिनिर्माणोत्पन्नदृष्टादृष्टफलभोक्तृनिरूपणार्थं वचनम् एतद् इति वदन्ति । यद् अत्र युक्तं तद् ग्राह्यम् । एवम् एवानिवेद्य जीर्णोद्धारे कृते ऽपि बोद्धव्यम् । तथा च नारदः ।

पूर्वप्रवृत्तम् उत्पन्नम् अपृष्ट्वा स्वामिनं तु यः ।
सेतुं प्रवर्तयेत् कश्चिन् न स तत्फलभाग् भवेत् ॥
मृते तु स्वामिनि पुनः तद्वंश्ये वापि मानवे ।
राजानम् आमन्त्र्य ततः कुर्यात् सेतुप्रवर्तनम् ॥
अतो ऽन्यथा क्लेशभाक् स्यात् मृगव्याधावमर्शनात् ।
इषवस् तस्य नश्यन्ति यो विद्धम् अनुविध्यति ॥ इति ।

अवमर्शनं निदर्शनम् । तस्य मृगव्याधस्य । कात्यायनो ऽपि ।

अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः ।
गृहोद्यानतटाकानां संस्कर्ता लभते न तु ॥
व्ययं स्वामिनि चायाते न निवेद्य नृपे यदि ।
अथावेद्य प्रयुक्तस् तु तद्गतं लभते व्ययम् ॥ इति ।

आवेद्य नृपे तत्प्रयुक्तः संस्कर्ता संस्कारकृतं व्ययं लभते ॥

इति स्मृतिचन्द्रिकायां सेत्वादिविषयाणि

क्षेत्रकर्तृविषयाः

अथ क्षेत्रकर्तृविषयाणि

तत्र बृहस्पतिः - “गृहीत्वा बाहयेत् काले” इति । क्षेत्रादिविषये क्षेत्रादिस्वामिपार्श्वे अहम् इदं करिष्यामीति कृषीवलः क्षेत्रं गृहीत्वा ग्रीष्मादिकाले लाङ्गलादिकं बलीवर्दादिभिर् वाहयेद् इत्य् अर्थः । वाहनग्रहणं तदादिफलसंग्रहणान्तव्यापारस्योपलक्षणार्थम् । अत एव कृषिमात्रं कुर्वन् कृषीवलो व्यापारैकदेशकरतया दुष्टत्वात् क्षेत्रफलमूल्यतया कल्पितं क्षेत्रस्वामिने राज्ञा दाप्य इत्य् आह स एव - “वापगोपन्संग्रहान् । अकुर्वन् स्वामिने दाप्यः” इति । वापो बीनानाम् आवापः । गोपनं सस्यादिरक्षणम् । संग्रहः फलसंग्रहणम् । वाक्यार्थस् तु याज्ञवल्क्येन विवृतः ।

फालाहतम् अपि क्षेत्रं यो न कुर्यान् न कारयेत् ।
तं प्रदाप्याकृष्टशदं क्षेत्रम् अन्येन कारयेत् ॥

फालाहतं फालेन विदारितं कृष्टम् इति यावत् । न बीजावापयोग्यं मार्दवादिकं कुर्यात् । अकृष्टशदम् अकृष्टत्वेन स्थितक्षेत्राद् यत् तृणादि फलं लभ्यते तद् अकृष्टशदम् । अन्येन कृषीवलान्तरेण । यस् तु क्षेत्रं गृहीत्वा क्षेत्रकरणकालार्धे गते कर्षणं कुरुते स कालात्ययापराधानुरूपं दमं दाप्य इत्य् आह बृहस्पतिः - “मध्ये कृष्टे दमं तु सः” इति । दाप्य इत्य् अनुषज्यते । यस् तु क्षेत्रं गृहीत्वा तत्करणकालान्तपर्यन्तं न किंचित् करोति कारयति च, तम् अपि प्रत्य् आह स एव ।

क्षेत्रं गृहीत्वा यः कश्चिन् न कुर्यान् न च कारयेत् ।
स्वामिने स शदं दाप्यो राज्ञा दण्डं च तत्समम् ॥

शदं क्षेत्रफलम्, तत्समं स्वामिग्राह्यशदसमम् । स्वामिग्राह्यशदो ऽपि कियान् इत्य् अपेक्षिते स एवाह ।

चिरावसन्ने दशमं कृष्यमाणे तथाष्टमम् ।
स्वसंस्कृते तु षष्ठं स्यात् परिकल्प्य यथास्थितम् ॥

चिरावसन्ने चिरकालम् अकृष्टक्षेत्रं करिष्यामीति स्वीकृत्य उपेक्षिते, यावत्फलम् अनुपेक्षिते लभ्यते तस्य दशमं भागं मूल्यद्वारेण दाप्यः । कृष्यमाणे अचिरावसन्ने क्षेत्रे स्वीकृत्योपेक्षिते त्व् अष्टमं भागं दाप्यः । स्वसंस्कृते तु क्षेत्रे स्वीकृत्योपेक्षिते षष्ठं भागं दाप्य इत्य् अर्थः । यत् तु क्षेत्रं स्वामिनः सामर्थ्यवैकल्यादिना खिलत्वाद्यवस्थया स्थितं गृहीत्वा तद् येन कृषीवलेन स्वाम्यनिवारितेन कृतं तत् प्रत्य् आह नारदः ।

अशक्तप्रेतनष्टेषु क्षेत्रिकेष्व् अनिवारितः ।
क्षेत्रं चेद् विकृषेत् कश्चिद् अश्नुवीत स तत्फलम् ॥

अशक्ताः क्षेत्रकरणसामर्थ्यविकलाः । प्रेताः स्वर्याताः । नष्टाः कुत्र गता इति चिरकालम् अविज्ञाताः । क्षेत्रिकाः क्षेत्रस्वामिनः । एतद् उक्तं भवति - परक्षेत्रत्वे ऽपि खिलभूतभूविषये कर्तुः फलभोगो न जातु फलदण्डदापनम् इति । प्रसङ्गात् क्षेत्रस्वामिनम् आगतम् अपि प्रत्य् आह स एव ।

विकृष्यमाणे क्षेत्रे तु क्षेत्रिकः पुनर् आव्रजेत् ।
खिलोपचारं तत् सर्वं दत्वा स्वं क्षेत्रम् आप्नुयात् ॥

खिलोपचारः किल्हभञ्जनार्थो व्ययः । तस्येयत्तावधारणं खिलभूतक्षेत्रकाठिन्यतारतम्यायत्तम् इति तत् तारतम्यम् आह स एव ।

संवत्सरेणार्धखिलं खिलं स्याद् वत्सरैस् त्रिभिः ।
पञ्चवर्षावसन्नं तु क्षेत्रं स्याद् अटवीसमम् ॥

संवत्सरोपेक्षितं क्षेत्रम् अर्धखिलम् ईषद्दुष्कर्षं भवति, त्रिवत्सरोपेक्षितं तु खिलं स्याद् दुष्कर्षं भवेत् । पञ्चवर्षोपेक्षितं पुनर् अटवीसमं स्यात् अत्यन्तदुष्कर्षं भवेद् इत्य् अर्थः । यदा खिलभञ्जनार्थं व्ययं स्वामी न दातुम् उत्सहते तदा त्व् आह कात्यायनः ।

अशक्तितो न दद्याच् चेत् खिलार्थे यत् कृतो व्ययः ।
तद् अष्टभागहीनं तु कर्षकः फलम् आप्नुयात् ॥
वर्षाण्य् अष्टौ स भोक्ता स्यात् परतः स्वामिने तु तत् । इति ।

खिलार्थे यः कृतो व्ययः तत्प्रतिदानासमर्थः स्वामी कर्षकाय यदि खिलव्ययं न दद्यात् तदा कर्षकः क्षेत्रफल्स्याष्टमं भागम् अष्टौ वर्षाणि यावत् स्वामिने दत्वा अवशिष्टं गृह्णीयात् तदूर्ध्वं स्वामिने तत् क्षेत्रं समर्पयेद् इत्य् अर्थः । यद् एतत् “विकृष्यमाणे क्षेत्रे” इत्यादिना “परतः स्वामिने तु तत्” इत्यन्तेनोक्तं तत् सर्वं प्रेतक्षेत्रविषये तत्पुत्राद्यागमने ऽपि कार्यम्, अशक्तनष्टक्षेत्रविषये तु तेषाम् आगमने तत्पुत्रादीनाम् आगमने वा कार्यम् इति मन्तव्यम् ॥

इति स्मृतिचन्द्रिकायां क्षेत्रकर्तृविषयाणि

**समाप्तश् च क्षेत्रजविवादाख्यस्य पदस्य विधिवितानः **