५७ समयानपाकर्म

अथ समयानपाकर्माख्यस्य पदस्य विधिर् उच्यते

तत्र तदुपयोगिनम् अर्थं तावद् आह बृहस्पतिः ।

वेदविद्याविदो विप्रान् श्रोत्रियान् अग्निहोत्रिणः ।
आहृत्य स्थापयेत् तत्र तेषां वृत्तिं प्रकल्पयेत् ॥

तत्र राजधान्याम्, आर्यनिवासार्हतया कृते स्थान इत्य् अर्थः । तथा च याज्ञवल्क्यः ।

राजा कृत्वा पुरे स्थानं ब्राह्मणान् न्यस्य तत्र तु । इति ।

तेषां वृत्तिं प्रकल्पयेत् इत्य् एतस्यार्थः स्वेनैव विवृतः ।

अनाच्छेद्यकरास् तेभ्यः प्रदद्यात् गृहभूमयः ।
मुक्तभाव्याश् च नृपतिः लेखयित्वा स्वशासने ॥

अनाच्छेद्यकरा अग्राह्यकराः । अग्राह्यराजभागदेयका इति यावत् । एतद् उक्तं भवति - आगामिनृपतिभिर् अग्राह्यकराः स्वेन विसृष्टकराश् च गृहभूमीः प्रदद्याद् इति । स्वशासनलेखनप्रकारो लेख्यप्रकरणोक्तो ऽनुसंधेयः । एवं प्रकल्पितवृत्तिशालीनम् आर्यवृन्दं स्वधर्मानुष्ठाननिष्ठं कर्तुं राजा प्रार्थयेत् । तथा च याज्ञवल्क्यः ।

त्रैविद्यं वृत्तिमद् ब्रूयात् स्वधर्मः पाल्यताम् इति ।

पौरत्रैवर्णिककृत्येष्व् एतैर् आर्त्विज्यादिकम् अपि कार्यम् । तथा च बृहस्पतिः ।

नित्यं नैमित्तिकं कार्यं शान्तिकं पौष्टिकं तथा ।
पौराणां कर्म कुर्युस् ते संदिग्धे निर्णयं तथा ॥

एवं समुदायविशेषस्य कार्यविशेष उक्तः । सर्वस्मुदायानां च कार्यम् आह स एव ।

ग्रामश्रेणीगणानां च सङ्केतः समयक्रिया ।
बाधकाले तु सा कार्या धर्मकार्ये तथैव च ॥

गणानां चेत्य् अत्र चशब्दः पाषण्डनैगमादीनां समुच्चयार्थः । एवं चायम् अर्थः - ग्रामश्रेणीगणपाषण्डनैगमादीनां क्षुद्रोपद्रवकाले जीर्णोद्धारादिधर्मकार्ये च यां पारिभाषिकीं समयक्रियां विनोपद्रवो दुष्परिहरः धर्मकार्यं च दुःसाधम्, सा पारिभाषिकी समयक्रिया येन येनोपाधिना नराः ग्रामादिशब्दाभिलप्यजात्या कृताः तत्तदुपाध्युपहितैर् नरैर् बहुभिर् मिलितैः कार्येति । तथा चोक्तं तेनैव ।

चाटचोरभये बाधा सर्वसाधारणी स्मृता ।
तत्रोपशमनं कार्यं सर्वैर् नैकेन केनचित् ॥

चाटो वृकः । उपशमनम् उपशमनादानम्, समय इति यावत् । समयस्वरूपनिरूपणार्थं द्वित्राः समयाः प्रदर्श्यन्ते - अवर्षेणोपद्रवे प्रतिक्षेत्रं प्रतिगृहं वा एतावद् धनं ग्रहयज्ञादिशान्तिकसिद्धये देयम् इत्य् एकः समयः, तथा चोरोपद्रवे प्रतिगृहम् एकैको दशः शत्रपाणिर् एकत्रागन्तव्य इति, तथा राजोपद्रवे राजदर्शनार्थं प्रतिग्रहम् एकैकः श्रेष्ठ आगन्तव्य इति । धर्मकार्ये तु समयस् तेनैव निरूपितः ।

सभाप्रपादेवगृहतटाकारामसंस्कृतिः ।
तथानथदरिद्राणां संस्कारो यजनक्रिया ॥
कुलायनं निरोधश् च कार्यम् अस्माभिर् अंशतः ।
यत्रैतल् लिखितं पत्रे धर्म्या सा समयक्रिया ॥
पालनीया समस्तैस् तु ॥॥॥॥॥॥॥॥॥॥॥ ॥ इति ।

सभा जनाश्रयो मण्टपः । प्रपा पानीयशालिका । आरामः उपवनम् । संस्कृतिः जीर्णोद्धारः । संस्कार उपनयनादिकः, प्रेतदहनादिश् च । यजनक्रिया सोमयागादिकर्त्रे दानम् । कुलायनं दुर्भिक्षादिपीषाहतयूधागमनम् । तस्मिन् सति यत् संविधानं विधेयं तद् एव तच्छब्देनोक्तम् । निरोधः निरोधनम्, दुर्भिक्षाद्यपगमपर्यन्तं कुलायनधारणम् इति यावत् । अस्माभिः ग्रामादिशब्दप्रवृत्तिनिमित्तभूतोपाधिशालिभिः । अंशतः गृहक्षेत्रपुरुषादिप्रयुक्त्या संग्रहीतधनेन, मध्यकत्वेन स्थितेन धनेन वा । समस्तैः समुदायिभिर् इति शेषः । एवं कृता समयक्रिया संप्रदायप्राप्ता च न केवलं समुदायिभिः पालनीया, किं तु राज्ञापि । तथा च नारदः ।

पाषण्डनैगमश्रेणीपूगव्रातगणादिषु ।
संरक्षेत् समयं राजा दुर्गे जनपदे तथा ॥

पाषण्डाः वेदोक्तलिङ्गधारिव्यतिरिक्ताः सर्वे लिङ्गिनः । तेषु मठादिहिताचरणाद्याः समयाः सन्ति । नैगमाः सार्थकवणिक्प्रभृतयः, तेषु सकञ्चुकसंदेशहरपुरुषतिरस्कारिणो दण्ड्या इत्य् एवमादयो बहवः समया विद्यन्ते । श्रेणयः एकशिल्पोपजीविनः कुविन्दादयः, तास्व् इदम् अनयैव श्रेण्या विक्रेयम् इत्यादिकाः समयाः सन्ति । पूगाः हस्त्यश्वारोहकादयः । व्रातगणशब्दौ कात्यायनेन व्याख्यातौ ।

नानायुधधराः व्राताः समवेतास् तु कीर्तिताः ।
कुलानां हि समूहस् तु गणः स परिकीर्तितः ॥ इति ।

तत्र पूगे व्राते चान्योन्यम् उत्सृज्य समरे न गन्तव्यम् इत्यादयः सन्ति समयाः । गणे तु पञ्चमे ऽह्नि पञ्चमे वाब्दे कर्णवेधः कर्तव्य इत्य् एवमादिर् अस्ति समयः । गणादिष्व् इत्य् अत्रादिशब्देन ब्रह्मपुरी महाजनपरिगृहीता, तत्र गुरुदक्षिणाद्यर्थम् आगतो माननीय इत्यादिः समयो ऽस्ति । दुर्गे तु धान्यादिकं गृहीत्वान्यत्र यास्यतो न तद् विक्रेयम् इत्यादिर् अस्ति समयः । जनपदे तु क्वचिद् विक्रेतृहस्ते दशबन्धग्रहणं ग्राह्यम्, क्वचित् क्रेतृहस्त इत्यादिको ऽस्त्य् अनेकविधः समयः । जनपदे तथेत्य् अत्र तथाशब्दो ऽनुक्तग्रामघोषपुरादीनां प्रदर्शनार्थः । तत्र न गोप्रचारस्थाने स्थातव्यम् इत्यादिको ऽस्ति ग्रामे समयः । आभीरस्त्रीपुरुषव्यभिचारे न दण्ड इत्यादिको ऽस्ति घोषे समयः । पुरे तु विनैवार्थार्पणम् आढ्यादीन् यथाशक्ति परिपालयद्भिः बन्दिग्राहकादयो निहन्तव्या इत्यादयः समयाः सन्ति । तद् एतत् समयजातं यथा स्वयं न भ्रश्यति न व्यतिवर्तते तथा राजा कुर्याद् इत्य् अर्थः । समुदायपुरुषान् अधिकृत्य बृहस्पतिः ।

कोशेन लेख्यक्रियया मध्यस्थैर् वा परस्परम् ।
विश्वासं प्रथमं कृत्वा कुर्युः कार्याण्य् अनन्तरम् ॥

लेख्यक्रियया समयपत्रेण । मध्यस्थैः प्रतिभूभिर् इत्य् अर्थः । कार्याणि समूहकार्याणि । कात्यायनो ऽपि ।

समूहिनां तु यो धर्मस् तेन धर्मेण ते सदा ।
प्रकुर्युः सर्वकर्माणि स्वधर्मेषु व्यवस्थिताः ॥

सामयिकनिजधर्मानतिक्रमेण समूहिकार्याणि समुदायिनः कुर्युर् इत्य् अर्थः । याज्ञवल्क्यो ऽपि ।

निजधर्माविरोधेन यस् तु सामयिको भवेत् ।
सो ऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः ॥

निजधर्मो वर्णाश्रमादिधर्मः । सामयिकः समयनिर्वर्त्यो धर्मः । यः पुनः निजधर्मविरोधो सामयिको धर्मः यथ - संध्यावन्दनवेलायां सर्वैर् एव स्वत्वव्यापारपरिहारेण राजभवनं प्रत्यागन्तव्यम्, यो न गच्छति तस्य प्रथमसाहसो दण्ड इति । नासौ रक्ष्य इति अर्थात् गम्यते । अस्मदरातिमण्डलम् अश्वादयः प्रस्थापनीयाः, इत्यादिको यो निजधर्माविरोधेन राजाज्ञया कृतो धर्मः सो ऽपि समूहेनानुसरणीय इत्य् अन्त्यपादस्यार्थः । कात्यायनो ऽपि ।

अविरोधेन धर्मस्य निर्गतं राजशासनम् ।
तस्यैवाचरणं पूर्वं कर्तव्यं तु नृपाज्ञया ॥

धर्मस्य श्रौतस्मार्तादिधर्ममार्गस्य । निर्गत निष्ठितम् इत्य् अर्थः । राजशासनं राज्ञानिशिष्टो धर्मः । तस्यैव श्रौतस्मार्तमार्गाविरोधेन विहितस्यैव । यः पुनः श्रौतस्मार्तमार्गविरोधेन राजाज्ञानिर्मितो ध्रमः, यथा “अस्माभिर् दत्तस्य गृहक्षेत्रादेर् आधिविक्रयदानादिकं न कार्यम्” इति, तस्याचरणं न कर्तव्यम् इत्य् एवकारात् गम्यते । कथम् अत्र श्रौतस्मार्तमार्गविरोधः । उच्यते - द्रव्यार्जनविधिनार्जितस्य द्रव्यस्य यथेष्टं विनियोगः कार्य इत्य् अयम् अपि श्रौतस्मार्तमार्ग एव, तद्विरोधस् तत्रास्त्य् एवेत्य् अलं प्रत्युदाहरणसमर्थननिर्बन्धेन । यत् पुनर् तेनैवोक्तम्,

राजप्रवर्तितान् धर्मान् यो नरो नानुपालयेत् ।
गर्ह्यः स पापो दण्ड्यश् च लोपयन् राजशासनम् ॥

इति, तत् श्रौतस्मार्तमार्गाविरुद्धराजप्रवर्तितधर्मविषयम् इति मन्तव्यम् । समुदायिभिर् विचित्रमतिभिर् अपरिमितैश् च सम्यगसम्यक्त्वं ऐकमत्येन कार्यस्य निश्चेतुम् अशक्यम् इति मत्वा द्वित्राः पञ्च वा कार्यचिन्तकाः कार्या इत्य् आह बृहस्पतिः ।

द्वौ त्रय्ः पञ्च वा कार्याः समूहहितवादिनः ।
कर्तव्यं वचनं तेषां ग्रामश्रेणीगणादिभिः ॥ इति ।

कार्यचिन्तकेषु हेयाः उपादेयाश् च तेनैव दर्शिताः ।

विद्वेषिणो व्यसनिनः शालीनालसभीरवः ।
लुब्धातिवृद्धबालाश् च न कार्याः कार्यचिन्तकाः ॥
शुचयो वेदधर्मज्ञाः दक्षाः शान्ताः कुलोद्भवाः ।
सर्वकार्यप्रवीणाश् च कर्तव्याश् च महत्तमाः ॥ इति ।

शालीनाः लज्जाशीलाः । कार्यचिन्तकाः समूहकार्यसाधकबाधकविचारकाः । याज्ञवल्क्यस् त्व् अकार्यचिन्तकानाम् अपि समूहहितवादिनां वचनं सर्वैः समूहिभिः कार्यम् इत्य् आह ।

कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् । इति ।

यस् तु हितवादिनां प्रतिकूलः स्यात् स समूहेन प्रथमसाहसं दण्ड्य इत्य् आह स एव ।

यस् तत्र विपरीतः स्यात् स दाप्यः प्रथमं दमम् ॥ इति ।

कात्यायनो ऽपि ।

युक्तियुक्तं च यो हन्याद् वक्तुर् यो ऽनवकाशदः ।
अयुक्तं चैव यो ब्रूते स दाप्यः पूर्वसाहसम् ॥

बृहस्पतिः ।

यस् तु साधारणं हिंस्यात् क्षिपेत् त्रैविद्यम् एव वा ।
संधिक्रियां विहन्याच् च स निर्वास्यस् ततः पुरात् ॥

साधारणं दण्डादिद्रव्यं दण्ड्यादेः साहाय्यकरणादिना नाशयेद् इत्य् अर्थः । क्षिपेत् आक्षिपेत् । ततः पुरात् समुदायस्थानात् । अत्रैविद्याक्षेपे तु वाक्पारुष्यपदे दण्डो वक्ष्यते । समुदायिमात्रस्य मर्मोद्घाटकादौ निर्वासनम् एव दण्डः । तथा च स एव ।

अरुन्तुदः सूचकश् च भेदकृत् साहसी तथा ।
श्रेणिपूगनृपद्विष्टः क्षिप्रं निर्वास्यते ततः ॥

अरुन्तुदो मर्मोद्घाटकः । सूचकः पिशुनः । भेदकृत् समूहिषु विमतिकृत् । ततः समूहस्थानात् । निर्वास्यते समूहेनेति शेषः । न च वाच्यं समूहस्य दण्डने ऽनधिकारात् समूहेनेति शेष इत्य् एतद् अयुक्तम् इति । यत आह स एव ।

कुलश्रेणीगणाध्यक्षाः पुरदुर्गनिवासिनः ।
वाग्धिग्दमं परित्यागं प्रकुर्युः पापकर्मणाम् ॥
तैः कृतं यच् च धर्मेण निग्रहानुग्रहं नृणाम् ।
तद् राज्ञाप्य् अनुमन्तव्यं निसृष्टार्था हि ते स्मृताः ॥ इति ।

वाग्दमः पापिष्ठो ऽसीत्यादिभर्त्सनम् । धिग्दमो धिग् इति कुत्सनम् । परित्यागः अङ्ककरणं निर्वासनं वा । एतत् अर्थदण्डादेर् अप्य् उपलक्षणार्थम्, निग्रहानुग्रहम् इति सामान्यतः पुनर् अभिधानात् । निसृष्टार्थाः अनुज्ञातकार्याः । अधर्मेण तैः कृते ऽप्य् आह स एव ।

बाधां कुर्युर् यद् एकस्य संभूता द्वेषसंयुताः ।
राज्ञा ज्ञात्वा निवार्यास् तु शास्याश् चैवानुबन्धतः ॥ इति ।

अनुबन्धतः निबन्धानुसारेण शास्या दण्ड्या इत्य् अर्थः । नारदो ऽपि दण्ड्यान् आह ।

पृथग् गणांस् तु ये भिन्द्युः ते विनेया विशेषतः ।
आवहेयुर् भयं घोरं व्याधिवत् ते ह्य् उपेक्षिताः ॥

गणग्रहणम् अत्र समूहमात्रपरम्, न पुनः कुलसमूहरूपविशेषपरम् । तेन पाषण्डादाव् अपि भेदका ये ते राज्ञा विशेषतो विनेयाः । विशेषग्रहणाच् छारीरेणापि दण्डेन विनेयाः । पाषण्ड्यादिसर्वसमूहिषु राज्ञा यथा वर्तितव्यं तथाप्य् आह स एव ।

यो धर्मः कर्म यच् चैषां उपस्थानविधिश् च यः ।
यच् चैषां प्रत्युपादानम् अनुमन्येत तत् तथा ॥

धर्मो जटाधारित्वादिकः । कर्म व्रतं पर्युषितभिक्षाटनादिकम् । उपस्थानविधिः समुदायिकार्यार्थं पटहादिध्वनिम् आकर्ण्य मण्टपादौ मेलनम् । प्रत्युपादानं जीवनाय तापसवेषादिपरिग्रहः । एषां पाषण्डादीनाम् इत्य् अर्थः । अन्यद् अपि राजकृत्यम् आह स एव ।

प्रतिकूलं च यद् राज्ञः प्रकृत्यावमतं च यत् ।
बाधनं च यद् अर्थानां तत् तेभ्यो विनिवर्तयेत् ॥

प्रतिकूलं यथा,

यस्य राज्ञस् तु कुरुते शूद्रो धर्मविवेचनम् ।
तस्य प्रक्षुभ्यते राष्ट्रं बलं कोशश् च नश्यति ॥ इति ।

एवं च सार्थकादिशूद्रकर्तृकं त्रैवर्णिकपौरादीनां विवादे धर्मविवेचनादिकं “प्रतिकूलं च यद् राज्ञः” इत्य् अस्योदाहरणम् इति मन्तव्यम् । प्रकृत्या स्वभावत एवावमतम् अवज्ञातम्, तद् यथा - पाषण्डादिषु ताम्बूलभक्षणादिकम् । यच् चार्थानां बाधनं रसबाधादिकं तत् तेभ्यः सकाशाद् राजा विनिवर्तयेत् । अन्यान्य् अपि निवर्तनीयान्य् आह स एव ।

मिथः सङ्घातकरणम् अहिते शस्त्रधारणम् ।
परस्परोपतापं च तेषां राजा निवर्तयेत् ॥

मिथाह् सङ्घातकरणम् उपस्थानविधेः पूर्वं पृथक् पृथग् अवान्तरस्तोमकरणम् । अहिते कुलजादौ । परस्परोपतापो राजकीयाश्रयेण अन्योन्यम् अर्थाहरणादिकम् । अन्यद् अपि निवर्त्यम् आह स एव ।

दोषवत्कारणं यत् स्याद् अधुना च प्रकल्पितम् ।
प्रवृत्तम् अपि तद् राजा श्रेयःकामो निवर्तयेत् ॥

लोभ्दिदोषवकारणकं श्रुतिस्मृतिविरुद्धं विधवादौ वेश्यात्वादिकं पाषण्डादिभिः प्रकल्पितं बहुकालं प्रवृत्तम् अपि राजा निवर्तयेद् इत्य् अर्थः । समूहिषु यत् समूहेन कर्तुम् अशक्यं मुख्यानाम् औद्धत्यनिवारणादिकं तद् अपि राजा कुर्यात् । तथा च बृहस्पतिः ।

मुख्यैः सह समूहानां विसंवादो यदा भवेत् ।
तदा विचारेयद् राजा स्वमार्गे स्थापयेच् च तान् ॥

यस् तु मुखुअः स्वमार्गे राज्ञापि स्थापयितुम् अशक्यस् तत्रोक्तं याज्ञवल्क्येन ।

गणद्रव्यं हरेद् यद् तु संविदं लङ्घयेच् च यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद् विप्रवासयेत् ॥

राजेति शेषः, एवंविधदण्डप्रयोगे तस्यैव सामार्थात् । यदा समूहस्यापि कथंचित् सामर्थ्यम् अस्ति तदा प्रकृतत्वात् गण्स्यैव दण्डप्रयोगकर्तृत्वम् अवगन्तव्यम् । कात्यायेनाप्य् उक्तम् ।

साहसी भेदकारी च गणद्रव्यविनाशकः ।
उच्छेद्याः सर्व एवैते विख्याप्यैवं नृपैर् भृगुः ॥

केचिन् “नृपे भृगुः” इति पठन्ति । तदा अयम् अर्थः - साहसिकत्वादिकं णृपे विख्याप्य गणेणोच्छेद्या इति । यस् तु मुख्यः शपथेन स्वमार्गे स्थापयितुम् अशक्यस् तत्रोक्तं मनुना ।

यो ग्रामदेशसङ्घेषु कृत्वा सत्येन संविदम् ।
विसंवदेन् नरो लोभात् तं राष्ट्राद् विप्रवसयेत् ॥
निगृह्य दापयेद् एनं समयव्यभिचारिणम् ।
चतुःसुवर्णं षण्णिष्कं शतमानं च राजतम् ॥
एवं दण्डविधिं कुर्याद् धार्मिकः पृथिवीपतिः ।
ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥ इति ।

सत्येन शपथेनेत्य् आर्थः । सुवर्णनिष्कशतमानशब्दाः प्राग् दिव्यप्रकरणे व्याख्याताः । तत्र त्रयो ऽर्थदण्डाः दण्ड्यानाम् अर्थसत्तानुसारेण व्यवस्थापनीयाः । निर्वासनं तु निर्बन्धविअषये व्यवस्थापनीयम् । धार्मिकग्रहणाद् अधार्मिकस्य दण्डविधाव् औधासीन्यम् अप्य् अस्तीत्य् अवगम्यते । यदा च धार्मिको राजा दण्डविधाव् उदासीनस् तदा ग्रामादय एव दण्डविधिं कुर्युः, “निसृष्टार्था हि ते स्मृताः” इत्य् उक्तत्वात् । अमुख्यानां तु समयव्यभिचारिणाम् औधत्यानुसारेण दण्डः कल्पनीयः । तेषाम् अपि सामर्थ्यतो मुख्यतुल्यत्वे जाते बृहस्पतिनोक्तम् ।

॥॥॥॥॥॥॥॥॥॥॥॥॥ यः समर्थो विसंवदेत् ।
सर्वस्वहरणं दण्डस् तस्य निर्वासनं पुरात् ॥ इति ।

समर्थः समयं पालयितुं समर्थो मुख्यतुल्य इति यावत् । विसंवदेत् समयं लङ्घयेत् । अपरान् अपि दण्ड्यान् आह स एव ।

संभूयैकमतिं कृत्वा राजभाव्यं हरन्ति ये ।
ते तदष्टगुणं दाप्याः वणिजश् च पलायिनः ॥

“राजभाव्यं हरन्ति ये” इति चतुर्थपादे ऽनुषञ्जनीयः । समूहपूजार्थं यद् राज्ञा समूहकार्यार्थम् आगताय दत्तं तद् यदि समूहपार्श्वम् आगत्यासौ समूहाय स्वयं न ददाति, तदा राज्ञा दत्तम् एकादशगुणं दाप्यः । तथा च याज्ञवल्क्यः ।

समूहकार्य आयातान् कृतकार्यान् विसर्जयेत् ।
सदानमानसत्कारैः पूजयित्वा महीपतिः ॥
समूहकार्यप्रहितो यल् लभेत तद् अर्पयेत् ।
एकादशगुणं दाप्यो यद्य् असौ नार्पयेत् स्वयम् ॥ इति ।

यल् लभेत समूहमान्यत्वनिमित्तेनेति शेषः, स्वकीयसेवाध्ययनादिनिमित्तेन तु लब्धस्य प्रातिस्विकत्वेन समुदाये ऽर्पणविध्ययोगात् । समूहकार्यप्रहितेनार्पितं च सर्वे समूहिनः समं विभागेन विभज्य गृह्णीयुः,

ततो लभ्येत यत् किंचित् सर्वेषाम् एव तत् समम् ।

इति बृहस्पतिस्मरणात् । एवं विभज्य ग्रहणम् अतुच्छद्रव्यविषयम्, तुच्छद्रव्यं तु लब्धं निःस्वादिभ्यः समूहेन देयम् । यद् आह स एव ।

षाण्मासिकं मासिकं वा विभक्तव्यं यथांशतः ।
देयं वा निःस्ववृद्धार्तस्त्रीबालातुररोगिषु ॥
सान्तानिकादिषु तथा धर्म एव सनातनः । इति ।

एकस्य पुरुषस्य षण्मासनिर्वाहायापर्याप्तं कुटुम्बस्य वैकमासनिर्वायायापर्याप्तं लब्धं चेन् निःस्वादिभ्यो तात्पर्यार्थः । यत् पुनस् तेनैवोकम्,

यत् तैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् ।
राजप्रसादलब्धं वा सर्वेषाम् एव तत् समम् ॥

इति, तस्यायम् अर्थः - तैः समूहकार्यार्थप्रहितैर् यत् सीमाविवादादाव् अधिकं क्षेत्रारामादिकं धर्माधिकरणे न्यायतः प्राप्तं परैर् अपह्रियमाणं वा रक्षितम्, तथा समूहप्रयोजनार्थम् उपात्तम् ऋणं समूहकृतानुकूल्यादिजनितराजप्रसादलब्धं वा यत् तद् एतत् सर्वं सर्वेषां समूहिनां समं ज्ञेयम् इति । गणार्थे कृतम् ऋणं सर्वेषां समम् इत्य् क्वचिद् अपवादम् आह कात्यायनः ।

गणम् उद्दिश्य यत् किंचित् कृत्वर्णं भक्षितं भवेत् ।
आत्मार्थं विनियुक्तंवा देयं तैर् एव तद् भवेत् ॥

तैर् एव समूहकार्यप्रहितैर् एव प्रतिदेयं तद् ऋणं भवतीत्य् अर्थः । परिभाषितपाथेयानर्पणे ऽपि तैः कृतम् ऋणं गणेन न देयम्, एवकारकरणात् । किं तु पाथेयम् एव देयम् । ये पुनः समुदायं प्रसाद्य तदन्तर्भावम् आपन्नाः, ये च समुदायक्षोभादिना ततो बहिर् भूताः तान् प्रत्य् आह स एव ।

गणिनां शिल्पिवर्गाणां गताः स्युर् ये तु मध्यताम् ।
प्राक्तनस्य धनर्णस्य समांशाः सर्व एव ते ॥
तथैव भोज्यवैभाव्यदानधर्मक्रियासु च ।
समूहस्थो ऽंशभागी स्यात् प्रगतस् त्व् अंशभाङ् न तु ॥ इति ॥

इति स्मृतिचन्द्रिकायां समयानपाकर्माख्यस्य पदस्य विधिवितानः