५६ क्रीत्वानुशयः

अथ क्रीत्वानुशयाख्यस्य पदस्य विधिर् उच्यते

तत्र नारदः ।

क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः । इति ।

क्रीत्वानुशयो मा भूद् इति स्वयं क्रेता प्राग् एव क्रयात् पण्यं गुणाढ्यं दुष्टं वेत्य् अवधारणार्थं परीक्षेतेत्य् अर्थः । बृहस्पतिर् अपि ।

परीक्षेत स्वयं पण्यम् अन्येषां च प्रदर्शयेत् । इति ।

अन्येषां पण्यगुणदोषविदाम् इति शेषः । एवं च तत्क्षण एव परीक्षणं चर्मादिपण्यविषयम् । यद् आह व्यासः ।

चर्मकाष्ठेष्टकासूत्रधान्यासवरसस्य तु ।
वसुकुप्यहिरण्यानां सद्य एव परीक्षणम् ॥

वसुशब्दो यद्य् अप्य् अर्थमात्रवाची, तथाप्य् अत्र गोबलीवर्दन्यायाच् चर्मादिव्यतिरिक्तार्थपरः । कुप्यं तु हेमरूप्यव्यतिरिक्तत्रपुसीसादिकं विज्ञेयम् । तथा च हेमरूप्ये प्रस्तुत्य अमरसिंहेनोक्तम् - “ताभ्यां यद् अन्यत् तत् कुप्यम्” इति । एवं चर्मादिकम् अत्यन्तास्थया परीक्ष्यम् । परीक्ष्य क्रीतस्य दोषदर्शने ऽपि त्यागायोगात् । तथा च बृहस्पतिः ।

परीक्षितं बहुमतं गृहीत्वा न पुनस् त्यजेत् । इति ।

बहुमतं क्रीतम् इति शेषः । तथा च नारदः ।

परीक्ष्याभिमतं क्रीतं विक्रेतुर् न भवेत् पुनः । इति ।

दोषदर्शने ऽपीति शेषः । अस्यापवादम् आह स एव ।

त्र्यहाद् दोह्यं परीक्षेत पञ्चाहाद् वाह्यम् एव तु ।
मुक्तावज्रप्रवालानां सप्ताहं स्यात् परीक्षणम् ॥
द्विपदाम् अर्धमासं तु पुंसां तद्विगुणं स्त्रियाः ।
दशाहं सर्वबीजानाम् एकाहं लोहवाससाम् ॥
अतो ऽर्वाक् पण्यदोषस् तु यदि संजायते क्वचित् ।
विक्रेतुः प्रतिदेयं तत् क्रेता मूल्यम् अवाप्नुयात् ॥ इति ।

त्र्यहात् क्रयदिनम् आरभेति शेषः । एवं पञ्चाहादाव् अपि शेषो द्रष्टव्यः । अत्र विक्रेतुः प्रतिदेयम् इत्यादिविधिदर्शनात् त्र्यहाद् दोह्यम् इत्यादिपरीक्षणं क्रीतदोह्यादिद्रव्यविषयम् इति गम्यते । द्विपदां पुंसां दासानाम् इत्य् अर्थः । तद्द्विगुणं मासम् इति यावत् । स्त्रियाः दासीजनस्येत्य् अर्थः । अतो ऽर्वाक् त्र्यहादेर् अभ्यन्तर इत्य् अर्थः । संजायत इत्य् अनेन ज्ञानतः सिद्धिर् उक्ता न वस्तुनि निष्पत्तिः । परीक्षाया ज्ञानतः सिद्धिहेतुत्वाद् इत्य् उक्तम् । ज्ञानतः सिद्ध्यसिद्धी च कात्यायनेन स्पष्टीकृते ।

अविज्ञातं तु यत् क्रीतं दुष्टं पश्चाद् विभावितम् ।
क्रीतं तत् स्वामिने देयं काले चेद् अन्यथा न तु ॥

अविज्ञातं परीक्षाशैथियात् तत्त्वतो ऽपरिज्ञातम् । काले यस्य द्रव्यस्य यावान् परीक्षाकाल उक्तस् तस्मिन्न् इत्य् अर्थः । अन्यथा तत्कालात्यये दुष्टत्वेन विभावितम् अपि क्रीतं न तत् स्वामिने देयम्, दुष्टग्रहणस्यानुशयहेतुमत्परत्वात् । नारदस् तु क्रयानुशयानुत्पत्त्यर्थं कर्यात् प्राक् ज्ञातव्यम् आह ।

क्षयं वृद्धिं च जानीयात् पण्यानाम् आगमं तथा । इति ।

अश्वादिपण्यानाम् अत ऊर्ध्वम् अपचयो वृद्धिर् वा भविष्यतीति देशकालादिवशाज् जानीयात् । कुलीनत्वादिज्ञानार्थम् उत्पादकं जन्मभूम्यादिकं च जानीयाद् इत्य् अर्थः । यस् तु न जानाति तं प्रत्य् आह याज्ञवल्क्यः ।

क्षयं वृद्धिं च वणिजा पण्यानाम् अविजानता ।
क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक् ॥

अनुशयः पश्चात्तापः । स चापचयादिकम् अविजानता वणिजा क्रीत्वा वृथा न कार्यः दौर्मत्यापत्तेः,

क्रीत्वा नानुशयं कुर्यात् वणिक् पण्यविचक्षणः ।

इत्युक्तनिषेधातिक्रमापत्तेश् च । अत एवानुशयं कुर्वन्न् असौ मूल्यषड्भागदण्डभाक् भवतीत्य् अन्त्यपादेन दण्डाभिधानम् उपपन्नम् । ननु विजानताप्य् अनुशयो न कार्यः निषेधसद्भावात् । सत्यम्, किं त्व् अपवादबलात् क्रियते, स चापवादो ऽनुशयात् तस्य प्रतिदानस्य प्रतिदानं (?) कुर्वता नारदेनार्थाद् दर्शितः ।

क्रीत्वा मूल्येन यत् पण्यं कुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्य् अविक्षतम् ॥
द्वितीये ऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशम् आवहेत् ।
द्विगुणं तत् तृतीये ऽह्नि परतः क्रेतुर् एव तत् ॥ इति ।

यो दुष्क्रीतं जातम् इति क्षयादिकं जानन् दृढं मन्यते तेन दुष्क्रीतं प्रतिदेयम् इति संबन्धः । अविक्षतम् अविकृतम् । विकृतं चेद् वैकृत्यसमाधानार्थं मध्यस्थजनकल्पितद्रव्यसहितम् एव क्रयदिने ऽपि प्रतिदेयम् । द्विगुणं पञ्चदशांशम् । परतः तृतीयस्याह्णः परतः । क्रेतुर् एव तत् क्रीत्वानुशयं क्षयादिकं जानन्न् अपि न कुर्याद् इत्य् अर्थः । अपशकुनतो ऽनुशये कृते ऽपि यदि क्रेता शकुनाभिज्ञः तदा याज्ञवल्क्येनोक्तं द्रष्टव्यम् । यदा तु शकुनानभिज्ञस् तदा नारदोक्तं कार्यम्, न्यायसाम्यात्, दुष्क्रीतं मन्यत इति सामान्येनोक्तेश् च । अपशकुनतो ऽपि क्रेता दुष्क्रीतं मन्यत एव । यत्र तु बहुदोषत्वेन ज्ञात्वापि पण्यं स्वपमूल्येन क्रीणाति न तत्र दुष्क्रीतं मन्यत इति न क्रयः परावर्तते । तद् एतद् उदाहरणमुखेनाह स एव ।

परिभुक्तं तु यद् वासः क्लिष्टरूपं मलीमसम् ।
सदोषम् अपि तत् क्रीतं व्क्रेतुर् न भवेत् पुनः ॥

परावर्त्यसमयम् अङ्गीकृत्य क्रीतं यदि सदोषं भवति तद् अपि विक्रेतुर् न भवति दुष्क्रीतत्वे ऽपि समयस्य बलीयस्त्वात् । एवम् उक्तविशेषशास्त्राषयक्रीत्वानुशये (?) क्रयपरावृत्तिप्रकारो ऽपि विक्रयानुशयप्रसङ्गतः पूर्वस्मिन् पदे ऽस्माभिर् दर्शितः स इहाप्य् अनुसंधेयः । मनुस् तु क्रीत्वानुशयानुत्पत्त्यर्थं कतिपयपण्यानां विक्रयानर्हत्वम् आह ।

नान्यद् अन्येन संसृष्टरूपं विक्रयम् अर्हति ।
न सावद्यं न च न्यूनं न दूरे न तिरोहितम् ॥

दूरे स्थितम् इति शेषः ॥

इति स्मृतिचन्द्रिकायां क्रीत्वानुशयाख्यस्य पदस्य विधिवितानः