५५ विक्रीयासम्प्रदानम्

अथ विक्रीयासम्प्रदानाख्यस्य पदस्य विधिर् उच्यते

तत्र नारदः ।

विक्रीय पण्यं मूल्येन क्रेतुर् यो न प्रयच्छति ।
स्थावरं सक्षयं दाप्यो जङ्गमं सक्रियाफलम् ॥

यो गृहीततन्मूल्यो विक्रेता पण्यं जातानुशयः क्रेत्रे प्रार्थयमानाय नार्पयति, तच् च पण्यं यदि स्थावरात्मकं तदा क्षयेण सहितम् असौ दाप्यः । यदि तु जङ्गमात्मकं तदा क्रियाफलेन सहितम् इत्य् अर्थः । क्षयशब्देन गतभोग उक्तः, क्रेतृसंबन्धित्वेन प्रलीनत्वात् । क्रियाफलं तु धेन्वादेः पण्यस्य क्षीरादिकम्, तद्दोहनादिक्रियाफलत्वात् । क्रयकालापेक्षया दापनकाले ऽर्घवृद्धाव् एतद् द्रष्टव्यम्, अर्घह्रासे त्व् अन्यथाभिधानात् । तथा च स एव ।

अर्घश् चेद् अपीहेत सोदयं पण्यम् आवहेत् । इति ।

अत्र क्रयकालगृहीतेन मूल्येन यावत् पण्यम् अर्पणकाले ऽर्घह्रासवशात् साब्यधिकं लभ्यते तत् सोदयम्, तद् आवहेत् क्रेतारं प्रापयेत्, क्रेत्रे दद्याद् इति यावत् । क्रयकाले ऽर्पणकाले वार्घसाम्ये त्व् आह याज्ञवल्क्यः ।

गृहीतमूल्यं यः पण्यं क्रेतुर् नैव प्रयच्छति ।
सोदयं तस्य दाप्यो ऽसौ ॥॥॥॥॥॥॥॥॥ ॥ इति ।

अर्घस्य ह्रासवृद्धिग्रहणाभावात् तत्साम्यविषयम् इदं वचनम् इति गम्यते । “सोदयम्” इत्यादेर् अयम् अर्थः । अदीयमानपण्यस्य यावती वृद्धिः,

निक्षेपम् वृद्धिशेषं च क्रयविक्रयम् एव च ।
याच्यमानम् अदत्तं चेद् वर्धते पञ्चकं शतम् ॥

इत्य् अकृतवृद्धिप्रकरणोक्तपरिमाणतः कल्प्यते, तत्सहितं पण्यं दाप्य इति । अर्घसाम्ये पण्योपचयरूपोदयासंभवाद् एवं व्याख्या कृता । तत्र नारदः - “स्थायिनाम् एष नियमः” इति । देशान्तरे हृत्वा विक्रेतुं ये क्रीणन्ति तदितरे क्रेतारः स्थायिनः, तद्विषयो ऽयम् “स्थावरं सक्षयं दाप्यः” इत्यादिवचनोक्तो नियम इत्य् अर्थः । कथं तर्ह्य् अस्थायिनां नियम इत्य् अपेक्षिते स एवाह - “दिग्लाभं दिग्विचारिणाम्” इति । यत् पण्यं यस्मिन् दिगन्तरे विक्रेतुं क्रीतं तत् पण्यं तस्मिन् दिगन्तरे विक्रीनानस्य यो लाभः तेन सहितं देयम् इत्य् अर्थः । विष्णुस् तु विक्रेतुर् दण्डम् अप्य् आह - “गृहीतमूल्यं यः पण्यं क्रेतुर् नैव दद्यात् तस्यासौ सोदयं दाप्यो राज्ञा च पणशतं दण्ड्यः” इति । गृहीतमूल्यं विक्रेत्रा यस्य पण्यस्य तद् गृहीतम्मूल्यम् । तस्य तस्मै क्रेत्र इति यावत् । यस् तु गृहीतमूल्यस्य पण्यस्य विक्रयानुशयाभावे ऽप्य् अनर्पकः, यश् च क्रयानुशयवशाद् अदत्तमूल्यस्य पण्यस्याग्राहकः, तौ प्रत्य् आह कात्यायनः ।

क्रीत्वा प्राप्तं न गृह्णीयाद् यो न दद्याद् अदूषितम् ।
स मूल्याद् दशमं भागं दत्वा स्वद्रव्यम् आप्नुयात् ॥
अप्राप्ते ऽर्थक्रियाकाले कृते नैव प्रदापयेत् ।
एवं धर्मो दशाहात् तु परतो ऽनुशयो न तु ॥ इति ।

अदूषितं जलादिनेति शेषः । अर्थक्रियाकालो दोह्यवाह्यादिपण्यस्य दोहनवाहनादिकालः । तस्मिन्न् अप्राप्ते सति अग्रहणे ऽदाने वा कृते ऽपि नैव दशमं मूल्यभागं प्रदापयेत्, किं तु तम् अदत्वैव स्वद्रव्यम् आप्नुयात् । एवम् उक्तो धर्मः दशाहात् प्राग् अर्थक्रियाकालाद् ऊर्ध्वं वेदितव्यः । दशाहात् परतस् त्व् अनुशयो न कर्तव्यः, अनुशयकालस्यातीतत्वाद् इत्य् अभिप्रायः । वास्तवस्यानुशयकारणस्याभावे प्राग् उक्तो धर्मः । तथा च क्रेतारम् उदाहृत्य तेनैवोक्तम् ।

क्रीत्वानुशयवान् पण्यं त्यजेद् दोह्यादि यो नरः ।
अदुष्टम् एव काले तु समूल्याद् दशमं वहेत् ।

काले अनुशयकाले परमार्थतः पण्यम् अदुष्टम् एव दुष्टवृद्ध्या त्यजेत् न गृह्णीयाद् इत्य् अर्थः । गृहीतपण्यत्यागप्रकारो ऽपि अस्मिन् विषये तेनैव दर्शितः ।

क्रीत्वा गच्छन्न् अनुशयं क्रयी हस्तम् उपागते ।
षड्भागं तत्र मूल्यस्य दत्वा क्रीतं त्यजेद् बुधः ॥

अनुशयकालाद् ऊर्ध्वम् अनुशये सत्य् एतद् वचनम् इत्य् अपरादित्यमतिः । सा त्व् अयुक्ता, “परतो ऽनुशयो न तु” इत्य् उक्तत्वात्, अनवस्थाप्रसङ्गाच् च । मनुनाप्य् अनवस्थापरिहारार्थम् उक्तम् ।

क्रीत्वा विक्रीय वा किंचिद् यस्येहानुशयो भवेत् ।
सो ऽन्तर्दशाहात् तद् द्रव्यं दद्याच् चैवाददीत च ॥
परेण तु दशाहस्य न दद्यान् नापि दापयेत् ।
आददानो ददच् चैव राज्ञा दण्ड्यः शतानि षट् ॥ इति ।

वास्तवानुशयकारणसद्भावविषयम् एतद् दानादानम्, मूल्यदशमांशदानानुक्तेः । क्रयविक्रयाद् अन्यत्राप्य् अनुशये कर्यविक्रयानुशयोक्तम् ऊह्यम् इत्य् आह स एव ।

यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् ।
तम् अनेन विधानेन धर्म्ये पथि निवेशयेत् ॥

विक्रीयासंप्रयच्छतो यद् विक्रीतं पण्यं स्वपार्श्व एव स्थितं तस्य दैवादिवशान् नाशे तत् तुल्यं पण्यं क्रेत्रे विक्रेत्रा देयम् इति वचोभङ्ग्या नारद आह ।

उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुर् एव सो ऽनर्थो विक्रीयासंप्रयच्छतः ॥

याज्ञवल्क्यो ऽपि ।

राजदैवोपघातेन पण्यदोष उपागते ।
हानिर् विक्रेतुर् एवासौ याचितस्याप्रयच्छतः ॥

याचितस्येति वचनाद् अयाचितस्य विक्रेतुर् अप्रयच्छतो न हानिर् इति दर्शयति । एवं च “स्थावरं सक्षयं दाप्यः” इत्यादिकम् अपि याचितविषयम् इति मन्तव्यम् । पण्याद् अभ्यधिकदापनस्य तत्रैवोचितत्वात् । तेन कालान्तरे ऽपि पण्यमात्रम् एवायाचितविषये देयम् । यथा पण्यदोष उपागते याचितस्याप्रयच्छतो विक्रेतुर् एव हानिः, तथा दीयमानं पण्यम् अगृह्णतः क्रेतुर् एव हानिर् इत्य् आह नारदः ।

दीयमानं न गृह्णाति क्रीतं पण्यं च यः क्रयी ।
स एवास्य भवेद् दोषो विक्रेतुर् यो ऽप्रयच्छतः ॥

अप्रयच्छतो विक्रेतुर् यो दोषः स एवास्य भवेद् इत्य् अन्वयः । क्रेतुर् दोषाभिधानस्य फलं पण्यमूल्यं क्रेत्रे विक्रेता न प्रत्यर्पणीयम् इति । दीयमानम् इति वदन् अदीयमानम् अगृह्णतो न मूल्यहानिर् इति दर्शयति । यत्र विक्रेत्रा न याचितम्, न च क्रयी दीयमानाग्राहकः उपागतश् च पण्यदोषः, तत्र द्वयोः समा हानिः कल्प्या, क्रयानन्तरम् अर्पणग्रहणशैथिल्येन द्वयोर् अप्य् अपराधसाम्यात् । यत्र पुनर् जातानुशयः क्रेता विक्रेत्र दीयमानं न गृह्णाति तत्राप्य् आह स एव ।

दीयमानं न गृह्णाति क्रीत्वा पण्यं च यः क्रयी ।
विक्रीणानस् तद् अन्यत्र विक्रेता नापराध्नुयात् ॥

क्रयी जातानुशय इति शेषः । याज्ञवल्क्यो ऽपि ।

विक्रीतम् अपि विक्रेयं पूर्वक्रेतर्य् अगृह्णति । इति ।

अगृह्णति अनुशयेनेति शेषः । गृह्णति तु न विक्रेयम् इत्य् अर्थाद् एव सिद्धम् । यो विक्रीणाति, यश् च सदोषं पण्यं प्रच्छादितदोषं विक्रीणीते तयोः समानो दण्ड इत्य् आह स एव ।

अन्यहस्ते च विक्रीतं दृष्टं वा दुष्टवद् यदि ।
विक्रीणीते दमस् तत्र मूल्यात् तु द्विगुणं भवेत् ॥

नारदस् त्व् अस्यार्थं श्लोकद्वयेन विविच्य वदन् विशेषम् अप्य् आह ।

निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ।
मूल्यं तद्द्विगुणं दाप्यो विनयं तावद् एव तु ॥
तथान्यहस्ते विक्रीय यो ऽन्यस्मै तत् प्रयच्छति ।
सो ऽपि तद्द्विगुणं दाप्यो विनयं तावद् एव तु ॥ इति ।

बुद्धिपूर्वकविषयम् एतत्, दण्डदाप्यद्रव्ययोर् अत्महत्त्वात् । अत एव बृहस्पतिना सदोषम् उदाहृत्योक्तम् ।

ज्ञात्वा सदोषं यः पण्यं विक्रीणीते विचक्षणः ।
तद् एव द्विगुणं दाप्यः तत्समं विनयं तथा ॥

अबुद्धिपूर्वके तु क्रयपरावर्तनम् एव । अन्यत्रापि क्वचित् परावर्त्यम् इत्य् आह स एव ।

मत्तोन्मत्तेन विक्रीतं हीनमूल्यं भयेन वा ।
अस्वतन्त्रेण मूढेन त्याज्यं तस्य पुनर् भवेत् ॥

अत्र नारदः ।

दत्तमूल्यस्य पण्यस्य विधिर् एष प्रकीर्तितः ।
अदत्ते ऽन्यत्र समयान् न विक्रेतुर् अतिक्रमः ॥

उत्तरार्धस्यायम् अर्थः ।

अदत्तमूल्ये पण्ये च वाङ्मात्रेण क्रये कृते ।
न परावर्तितव्यम् ॥॥॥॥॥॥॥॥॥॥ ॥

इत्येवमादिसमयाभावे सति प्रवृत्तौ वा निवृत्तौ वा न कश्चिद् दोष इति । यत्र पुनः वाङ्मात्रक्रयपरिहारार्थं विक्रेतृहस्ते क्रेत्रा किंचिद् दत्तं तत्र विक्रेतृदोषवशेन क्रयासिद्धौ क्रेतृदत्तद्रव्यं तस्मै द्विगुणं दद्यात् । तथा च याज्ञवल्क्यः ।

सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् । इति ।

क्रयं सत्यं कर्तुं यत् विक्रेतृहस्ते कृतं तत् सत्यंकारकृतम् । क्रेतृदोषवशेन क्रयासिद्धौ त्व् आह व्यासः ।

सत्यंकारं च यो दत्वा यथाकालं न दृश्यते ।
पण्यं भवेन् निसृष्टं तत् दीयमानम् अगृह्णतः ॥

निसृष्टं भवेद् उत्सृष्टं भवेद् इत्य् अर्थः । अत्र पणस्योत्सर्गः सत्यंकारद्रव्योत्सर्गान्तो ऽभिमतः, अन्यथा वाङ्मात्रक्रयकर्तृतौल्ये विक्रेतुः सत्यंकारग्राहकता न स्यात् । अत्रापि विक्रीतम् अपि विक्रेयम् इत्य् उक्तम् अनुसंधेयम् ॥

इति स्मृतिचन्द्रिकायां विक्रीयासंप्रदानाख्यस्य पदस्य विधिवितानम्