५४ अस्वामिविक्रयः

प्रतिपन्नास्वामि-विक्रय-विषयाः

अथ प्रतिपन्नास्वामि-विक्रय-विषयाणि

एवं वेतनानपाकर्माख्यपदशेषभूतं स्वामिपालविवादाख्यं पदम्, तत्प्रसक्तानि च पश्वादिव्यतिक्रमविषयाण्य् उक्त्वा इदानीम् उद्देशक्रमप्राप्तास्वामिविक्रयाख्यस्य पदस्य विधिर् उच्यते ।

तत्र नारदः ।

द्रव्यम् अस्वामिविक्रीतं प्राप्तुः स्वामी तद् आप्नुयात् । इति।

अस्वामिना विक्रीतं स्वकीयं द्रव्यं यस्य पार्श्वे दृष्टं तस्य सकाशात् स्वामी तत् गृह्णीयाद् इत्य् अर्थः । एतत् स्वाम्यननुमत्या विक्रीतद्रव्यविषयम्,

व्क्रीणीते परस्य स्वं यो ऽस्वामी स्वाम्यसंमतः ।

इति मनुना विशेषितत्वात् । परस्य स्वम् इत्य् अस्यार्थो बृहस्पतिना प्रपञ्चितः ।

निक्षेपान्वाहितन्यास्स्हृतयाचितबन्धकम् ।
उपांशु येन विक्रीतम् अस्वामी सो ऽभिधीयते ॥

हृतं अपहृतम् । इतराणि पूर्वार्धवर्तीनि पदानि बहुधा व्याख्यातानि । उपांशु अप्रकाशम् । प्रपञ्चो ऽयं परद्रव्यतया प्रसिद्धानां प्रदर्शनार्थः । प्रायिकाभिप्रायेणोपांशुग्रहणम् । तेन प्रणष्टाधिगतादिकम् अपि परद्रव्यं येन् विक्रीतम्, प्रकाशम् अपि येन निक्षेपादिकं विक्रीतम्, सो ऽप्य् अस्वामी । अस्वामिविक्रयनिरूपणस्य किं प्रयोजनम् इत्य् अपेक्षिते नारदः ।

अस्वामिना कृतो यस् तु क्रयो विक्रय एव च ।
अकृतः स तु विज्ञेयो व्यवहारेषु नित्यशः ॥

कात्यायनो ऽपि ।

अस्वामिविक्रयं दानम् आधिं च विनिवर्तयेत् । इति ।

एवं च विक्रयादितः प्राग् एवास्वामिहस्ते दृष्टं नष्टम् अपहृतं वा स्वकीयद्रव्यम् अस्वामिनः सकाशात् स्वामी गृह्णीयाद् इति दण्डापूपन्यायसिद्धं बोद्धव्यम् इति । यत् तु याज्ञवल्क्येनोक्तम्,

हृतं प्रणाष्टं यो द्रव्यं परहस्ताद् अवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्याः स तु षण्णवतिं पणान् ॥ इति ।

अत्र न परहस्ताद् अवाप्तिः दण्ड्यत्वे हेतुः न्याय्यत्वात् तस्याः, किं त्व् अनिवेदनम्, तस्य तस्करप्रच्छदनफलकत्वेनान्याय्यत्वात् । यदा पुनः परहस्ताद् अवाप्तुम् असमर्थः स्वामी तदा त्व् आह स एव ।

नष्टापहृतम् आसाद्य हर्तारं ग्राहयन् नरम् ।
देशकालातिपत्तौ वा गृहीत्वा स्वयम् अर्पयेत् ॥

अयम् अर्थः - विनष्टम् अपहृतं वा स्वकीयं द्रव्यम् आसाद्य अधिगन्तुर् अपहर्तुर् वा हस्ते दृष्ट्वा अधिगन्तारम् अपहर्तारं वा ग्राहयेद् राजपुरुषादिभिः सामाद्युपायैः । देशकालातिपत्तौ पुरुषाद्यानयनार्थं देशान्तरगमने कालक्षेपे च क्रियमाणे पलायनसङ्कार्यां स्वयम् एव वा गृहीत्वा राजपुरुषेभ्यो राज्ञे वा समर्पयेद् इति । ततो राजपुरुषादिभिः सामाद्युपायैः स्वामिने तद् धनं दापयित्वा दण्डयित्वा चोत्स्रष्टव्य इति ग्राहणगृहीत्वार्पणविध्योर् दृष्टार्थत्वबलाद् गम्यमानम् इह बोद्धव्यम् । यदा तु विक्रयाद् ऊर्ध्वम् एव क्रेतुर् हस्ते क्रीतं पश्यति तदाप्य् आह स एव - “स्वं लभेतान्यविक्रीतम्” इति । अन्यविक्रीतं स्वाम्यनुमतिम् अन्तरेणास्वामिना विक्रीतम् आत्मीयद्रव्यं क्रेतुः सकाशात् स्वामी गृह्णीयाद् इत्य् अर्थः विष्णुर् अपि - “अज्ञानतः प्रकाशं यः परद्रव्यं क्रीनीयात् तत्र तस्यादोषः, स्वामी द्रव्यम् अवाप्नुयात्” इति । अज्ञानतः विक्रेतुर् अस्वामित्वाज्ञानतः । तत्र परद्रव्यक्रत्ये । तस्य क्रेतुः । अदोषः तस्य तत्करदोषो नास्तीत्य् अर्थः । विक्रेतुस् तदोषो ऽस्त्य् एव, तेनात्र विक्रेतैव तस्करवद् दण्ड्यः न पुनः क्रेतापि । यत्र पुनर् विक्रेतुर् अस्वामित्वं रहसि हीनमूल्येन वा विक्रयकरणादिना ज्ञात्वैव लोभादिना परद्रव्यं क्रीणाति तत्र क्रेतुर् अपि तस्करदोषो ऽस्तीति सो ऽपि तस्करवद् दण्ड्यः । तथा च स एव - “यद्य् अप्रकाशं हीनमूल्यं वा विक्रीणीयात् तदा क्रेता च चोरवच् छस्यः” इति । बृहस्पतिर् अपि ज्ञानतो ऽज्ञानतश् च क्रये यथाकमेण स्तेनता निर्दोषता च क्रेतुर् भवतीति दर्शयति ।

येन क्रीतं तु मूल्येन प्राग् राज्ञे विनिवेदितम् ।
न तत्र विद्यते दोषः स्तेनः स्याद् उपविक्रयात् ॥

मूल्येन अहीनमूल्येन । प्राग् राज्ञे विनिवेदितं क्रयात् प्राग् एव प्रकासितम् इत्य् अर्थः । उपविक्रयपदं तु स्वयम् एव व्याचष्टे ।

अन्तर्गृहे बहिर् ग्रामान् निशायाम् असतो जनात् ।
हीनमूल्यं च यत् क्रीतं ज्ञेयो ऽसाव् उपविक्रयः ॥

असतो जनात् चण्डालादिजनाद् इत्य् अर्थः । असद्ग्रहणम् अस्वामित्वज्ञापकदासत्वादिविक्रेतृविशेषणानाम् उपलक्षणार्थम् । अत एव नारदः ।

अस्वाम्यनुमताद् दासाद् असतश् च जनाद् रहः ।
हीनमूल्यम् अवेलायां क्रीणन् तद्दोषभाग् भवेत् ॥

अस्वाम्यनुमतात् अस्वामिनैवानुमतात्, स्वाम्यनुमतिशून्याद् इति यावत् । दासग्रहणम् अस्वतन्त्रोपलक्षणार्थम् । तद्दोषभाक् तस्करदोषभाग् इत्य् अर्थः । “क्रेतुः स्तेयं रहः क्रयात्” इति तेनैवोक्तत्वात् । एवम् “क्रेतुर् दोषो ऽप्रकाशिते” इति याज्ञवल्क्यवचने ऽपि स्तेयदोष एवोक्त इत्य् अवगन्तव्यम् । तथा च तेनैव,

हीनाद् रहो हीनमूल्ये वेलाहीने च तस्करः ।

इति तस्करशब्दं प्रयुञ्जानेन स्तेयदोष एव दोषशब्देनोक्त इति सूचितम् । हीनात् क्रेयद्रव्यागमोपायहीनाद् इत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायां प्रतिपन्नास्वामिविक्रयविषयाणि

विप्रतिपन्नास्वामि-विक्रय-विषयानि

अथ विप्रतिपन्नास्वामि-विक्रय-विषयानि

तत्र कात्यायनः ।

अभियोक्ता धनं कुर्यात् प्रथमं ज्ञातिभिः स्वकम् । इति ।

अभियोक्ता नाष्टिकः, नष्टधनस्यैवात्राभियोक्तृत्वात् । सो ऽन्यहस्ते धनं दृष्टं ज्ञातिभिः साक्षिभूतैः स्वकं स्वकीयं यथा भवति तथा तावत् साधयेद् इत्य् अर्थः । कथं नाष्टिकेन स्वकीयत्वसाधनम् इत्य् अपेक्षिते याज्ञवल्क्यः ।

आगमेनोपभोगेन नष्ठं भाव्यम् ॥॥॥॥॥॥ । इति ।

आगमस् तु,

लब्धं दानक्रयप्राप्तं शौर्यं वैवाहिकं तथा ।
बान्धवाद् अप्रजाज् जातं षड्विधस् तु धनागमः ॥

इत्यादिवचनैः भुक्तिप्रकरणे निरूपितो द्रष्टव्यः । तेन चागमेनोपभोगसहितेन ज्ञातिप्रसिद्धेन नष्टधनस्य स्वकीयत्वं साध्यम् इत्य् अर्थः । तथा च कात्यायनः ।

नाष्टिकस् तु प्रकुर्वीत तद् धनं ज्ञातिभिः स्वकम् । इति ।

तद् धनं नष्टधनम् । स्वकं स्वकीयम् । प्रकुर्वीत साधयेद् इत्य् अर्थः । स्वकीयस्य धनस्य स्वकीयत्वावगतिर् अपि दानाद्यभावेन साधनीयेत्य् आह स एव ।

अदत्तत्यक्तविक्रीतं कृत्वा स्वं लभते धनम् । इति ।

दत्तं च त्यक्तं च विक्रीतं च दत्तत्यक्तविक्रीतम्, तद्विपरीतम् अदत्तत्यक्तविक्रीतं तथाभूतं भवतीति प्रमाणसिद्धं कृत्वा स्वं स्वकीयं धनं नाष्टिको विक्रेत्रादिसकाशाल् लभत इत्य् अर्थः । क्रेतारं प्रत्य् आह बृहस्पतिः ।

पूर्वस्वामी तु तद् द्रव्यं यदागत्य विचारेयेत् ।
तत्र मूलं दर्शनीयं क्रेतुः शुद्धिस् ततो भवेत् ॥

मूलं विक्रेत्रा । शुद्धिः अभियोज्यत्वनिवृत्तिः । मूलदर्शनानन्तरं व्यासः ।

मूले समाहिते क्रेता नाभियोज्यः कथंचन ।
मूलेन सह वादस् तु नाष्टिकस्य तदा भवेत् ॥

नाष्टिकस्य नष्टद्रव्यस्वामिनः । तस्मिन् वादे यदि मयाप्य् अन्यस्माद् विक्रेतुः सकाशात् क्रीतम् इत्य् अभियोज्यो वदति तदा तत्राप्य् अयम् एव मूलदर्शनादिक्रमो ऽनुसरणीयः । यदि तु नष्टग्राहकत्वेनापहारकत्वेन वा अकिंचित्करमूलत्वेन दर्शितो ददाति तदाह बृहस्पतिः ।

विक्रेता दर्शितो यत्र हीयते व्यवहारतः ।
क्रेत्रे राज्ञे मूल्यदण्डौ प्रदद्यात् स्वामिने धनम् ॥

क्रेत्रे मूल्यं राज्ञे दण्डं स्वामिने धनं प्रदद्याद् इत्य् अर्थः । नारदो ऽपि ।

विक्रेता स्वामिने ऽर्थं स्वं क्रेत्रे मूल्यं च तत्कृतम् ।
दद्याद् दण्डं तथा राज्ञे विधिर् अस्वामिविक्रये ॥

यदा तु मूलभूतो विक्रेता देशान्तरे स्थितः तदा त्व् आह कात्यायनः ।

मूलानयनकालस् तु देयो योजनसंख्यया । इति ।

योजन्संख्यया देशविप्रकर्षापेक्षयेत्य् अर्थः । यदा तु कालविलम्बेनापि मूलदर्शनं न शक्यं तदाप्य् आह स एव - “प्रकाशं वा क्रयं कुर्यात्” इति प्राक्कृतं क्रयं साक्षिवचनाल् लोकविदितं कुर्याद् इत्य् अर्थः । तथा च स एव ।

प्रकाशं च क्रयं कुर्यात् साधुभिर् ज्ञा(तृ)भिः स्वकैः ।
न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी ॥

क्रये प्रकाशिते क्रेता न राज्ञा दण्ड्य इत्य् आह स एव ।

विशोधिते क्रये राज्ञा वक्तव्यः स न किंचन । इति ।

मनुर् अपि ।

अथ मूलम् अनाहार्यं प्रकाशक्रयशोधितम् ।
अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥

प्रकाशक्रयशोधितं धनं क्रेतुः सकाशान् नाष्टिको लभते, क्रेता चादण्ड्यो भूत्वा राजकीयाद् अवरोधान् मुच्यत इत्य् अर्थः । “अथ मूलम् अनाहार्यम्” इत्य् अनेन सति संभवे मूलानयनपक्ष एव ग्राह्य इत्य् उक्तम् । उक्तं च कात्यायनेन ।

असमाहार्यमूलस् तु क्रयम् एव विशोधयेत् । इति ।

असमाहार्यमूल एव क्रयं विशोधयेद् इत्य् अर्थः । तत्र,

यदा क्रिया(मूल)म् उपन्यस्य पुनर् वादी क्रयं वदेत् ।
आहरेन् मूलम् एवासौ न क्रयेण प्रयोजनम् ॥

वदेत् प्रकाशं क्रयं वदेद् इत्य् अर्थः । यदा मूलं न दर्शयति क्रेयप्रकाशनं वा न करोति तदाप्य् आह स एव ।

अनुपस्थापयन् मूलं क्रयं वाप्य् अविशोधयन् ।
यथाभियोगं धनिने क्रयं वाप्य् अविशोधयन् ॥

नाष्टिको ऽपि यदा नष्टस्य स्वकीयत्वं न साधयेत् तदाप्य् आह स एव ।

यदि स्वं नैव कुरुते ज्ञातिभिर् नाष्टिको धनम् ।
प्रसङ्गविनिवृत्त्यर्थं चोरवद् दण्डम् अर्हति ॥

प्रसङ्गः अतिप्रसङ्गः । याज्ञवल्क्यो ऽपि ।

आगमेनोपभोगेन नष्टं भाव्यम् अतो ऽन्यथा ।
पञ्चबन्धो दमस् तत्र राज्ञस् तेनाविभाविते ॥

विवादास्पदस्य धनस्य पञ्चभागसंमितो यत्र दमो बध्यते स पञ्चबन्धः । अल्पापराधविषयम् एतत् । महापराध्विषये त्व् आह व्यासः ।

वादी चेन् मार्गितं द्रव्यं साक्षिभिर् न विभावयेत् ।
दाप्यः स्याद् द्विगुणं दण्डं क्रेता तद् द्रव्यम् अर्हति ॥

क्रेतुः द्रव्यलाभः पञ्चबन्धविषये ऽपि भवति । यदा च नाष्टिकः स्वकीयत्वम् अनुवर्तमानं च विभावयति तत्रैव क्रेतुः क्रीतद्रव्यलाभो नान्यत्रेत्य् अनुसंधेयम् । एवं च यन् मनुनोक्तम्,

विक्रयाद् यो धनं किंचित् गृह्णीयात् कुलसंनिधौ ।
क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ॥

इति, यच् च मरीचिनोक्तम्,

वणिग्वीधीपरिगतं विज्ञातं राजपूरुषैः ।
दिवा गृहीतं यत् क्रेता स शुद्धो लभते धनम् ॥

इति, तद् एतन्मार्गितद्रव्याविभावनाविषयम् । मार्गितद्रव्यविभावनासद्भावविषये ऽपि मनुमरीचिवचनबलात् प्रकाशकृतक्रये क्रेतुर् धनलाभो ऽस्त्व् इति चेन्, न; न हि वचनशतेनाप्य् अस्वामिविक्रीतं क्रेतुः संभवतीति प्रमातुं शक्यते । किं च सर्वत्र प्रकाशक्रयक्रेतुः धनलाभे प्राग् उक्तेन “अथ मूलम् अनाहार्यम्” इत्यादिवचनेन सह विरोधो दुर्वारः स्यात् । तस्मात् प्रकाशक्रये ऽपि मार्गितद्रव्यविभावनाभाव एव क्रेतुर् धनलाभ इत्य् अवगन्तव्यम् । सम्भुना तूक्तदोषपरिहाराय मनुमरीचिवचनाभ्यां क्रेतुर् धनयोग्यतामात्रम् उच्यते, न तु वस्तुतस् तस्यैव धनं भवतीत्य् उच्यत इत्य् उक्तम्; तद् अयुक्तम्, योग्यतामात्रकथनस्योपयोगाभावात् । यदा क्रयस्यापि साक्षिभिर् विभावनाभावस् तदा त्व् आह बृहस्पतिः ।

प्रमाणहीनवादे तु पुरुषापेक्षया नृपः ।
समन्यूनाधिकत्वेन स्वयं कुर्याद् विनिर्णयम् ॥

यस्मिन् वासे नाष्टिकस्यानुवर्तमानस्वत्वसाधकप्रमाणाभावः, क्रेतुश् च प्रकाशक्रयसाधकप्रमाणाभावस् तस्मिन् वादे नाष्टिकक्रेतृपुरुषयोर् असाधुत्वाद्यपेक्षया विवादास्पदं धनं समन्यूनाधिकत्वेन विभज्यैतावत् तवेति स्वयम् एव राजा विनिर्णयं कुर्याद् इत्य् अर्थः । ननु प्रमाणहीनवादो न कुत्रापि संभवति, कथंचिन् मानुषाभावे ऽपि दिव्याभावस्य सर्वथा वक्तुम् अशक्यत्वात् । मैवम्, अस्वामिविक्रये वादे दिव्याभावस् तावद् अवगम्यते,

अभियोक्ता धनं कुर्यात् प्रथमं ज्ञातिभिः स्वकम् ।
पश्चाद् आत्मविशुद्ध्यर्थं क्रयं क्रेता स्वबन्धुभिः ॥

इत्यादिवचनानां साक्षिनियामकानां तदितरप्रमाणाभावाभिधानपरत्वात् । किं च,

प्रकाशं च क्रयं कुर्यात् साधुभिर् ज्ञातिभिः स्वकैः ।
न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी ॥

इति साक्षीतरप्रमाणनिषेधाद् दिव्याभावः सुव्यक्तः । एवं च यद् उक्तं कात्यायनेन,

अलेख्ये ऽसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् ।

इति, तद् दिव्यनिषेधस्मृत्यभावविषयम् इति मन्तव्यम् । एतेनैतन् निरस्तम्, यत् शम्भुना मूलानयनक्रयप्रकाशनरूपम् उभयम् अधिकृत्योक्तम् - अथोभयं कर्तुम् असमर्थश् चौर्यं च न मन्यते तदा द्रव्यापेक्षया दिव्यं देयम् ।

अलेख्ये ऽसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् ।

इति कात्यायनेनोक्तत्वाद् इति । सप्रमाणकवदे ऽपि क्वचित् समम् एव दीयमानं भवतीति वचोभङ्ग्या स एव दर्शयति ।

वणिग्वीधीपरिगतं विज्ञातं राजपूरुषैः ।
अविज्ञाताश्रयात् क्रेता विक्रेता यत्र वा मृतः ॥
स्वामी दत्वार्धमूल्यं तु प्रगृह्णीत स्वकं धनम् ॥ इति ।

अविज्ञाताश्रयाद् अविज्ञातस्थानकाद् विक्रेतुः सकाशाद् इत्य् अर्थः । स्वोक्तप्रकारेण ग्रहणम् उपपादयितुम् उक्तं तेनैव ।

अर्धं द्वयोर् अपि हृतं तत्र स्याद् व्यवहारतः । इति ।

द्वयोः क्रेतृनाष्टिकयोः व्यवहारतः स्वकृतापचारतः स्वकीयधनार्धं हृतं गतम् इत्य् अर्थः । कः पुनः स्वकृतापचार इत्य् अपेक्षिते तेनैवोक्तम् ।

अविज्ञातक्रयो दोषः तथा चापरिपालनम् ।
एतद् द्वयं समाख्यातं द्रव्यहानिकरं बुधैः॥

अविज्ञातस्थानकात् क्रयो ऽविज्ञातक्रयः । अथ वा परमार्थतो ऽयं स्वामीत्य् अविज्ञातात् क्रयो ऽविज्ञातक्रयः । स एव क्रेतुर् दोषो ऽपचारः । अपरिपालनम् उपेक्षा, सैव नाष्टिकस्यापचारः । एतद् द्वयम् अविज्ञातक्रयापरिपालनात्मकं द्वयं क्रेतृनाष्टिकयोर् द्रव्यहानिकरत्वेन समाख्यातम् इत्य् अर्थः । मरीचिर् अपि ।

अविज्ञातनिवेशत्वाद् यत्र मूलं न लभ्यते ।
हानिस् तत्र समा कल्प्या क्रेतृनाष्टिकयोर् द्वयोः ॥

अविज्ञातनिवेशत्वाद् अविज्ञातस्थानत्वात् । मूलं विक्रेता । बार्हपत्यवचनाद् अभिन्नार्थम् अपि असमग्रतयान्यार्थम् इति एतद् वचनं मा प्रतिभात्व् इतीह समुच्चितः ॥

इति स्मृतिचन्द्रिकायां विप्रतिपन्नास्वामिविक्रयविषयाणि

स्वाम्य्-अनर्पित-तदीय-वस्तु-भोक्तृ-विषयाः

अथ स्वाम्य्-अनर्पित-तदीय-वस्तु-भोक्तृ-विषयाणि

अथ प्रसङ्गात् स्वाम्यनर्पिततदीयवस्तुभोक्तृविषयाणि कानिचिन् नारदीयानि वचनानि लिख्यन्ते ।

उद्दिष्टम् एव भोक्तव्यं स्त्री पशुर् वसुधापि वा ।
अनर्पितं तु यो भुङ्क्ते भुक्तभोगं प्रदापयेत् ॥
अनिर्दिष्टं तु यद् द्रव्यं वासः क्षेत्रं गवादिकम् ।
स्वबलेनैव भुञ्जानश् चोरवद् दण्डम् अर्हति ॥
अनड्वाहं तथा धेनुं नावं दासं तथैव च ।
अनिदिष्टं तु भुञ्जानो दद्यात् पणचतुष्टयम् ॥
दासी नौका तथा धुर्यो बन्धकं नोपभुज्यते ।
उपभोक्ता तु तद् द्रव्यं पण्येनैव विशोधयेत् ॥
दिवसे द्विपणं दासीं धेनुम् अष्टपणं तथा ।
त्रयोदशम् अनड्वाहम् अश्वं भूमिं च षोडश ॥
नौकाम् अश्वं च धेनुं च लाङ्गलं कार्षिकस्य च ।
बलात्कारेण यो भुङ्क्ते दाप्यश् चाष्टगुणं दिने ॥
उलूखले पणार्धं तु मुसलस्य पणद्वयम् ।
शूर्पस्य च पणार्धं तु जैमिनिर् मुनिर् अब्रवीत् ॥

इति स्मृतिचन्द्रिकायां स्वाम्यनर्पिततदीयवस्तुभोक्तृविषयाणि

समाप्तश् चास्वामिविक्रयाख्यस्य पदस्य विधिवितानः