५३ वेतनानपाकर्म

अथ वेतनानपाकर्माख्यस्य पदस्य विधिर् उच्यते

वेतनसमर्पणम्

तत्र मनुः ।

अतः परं प्रवक्ष्यामि वेतनस्यानुपक्रियाम् ॥ इति ।

वेतनं कर्ममूल्यम्, तस्यानपक्रिया भृत्यायासमर्पणम्, समर्पितस्य वा परावर्तनम् । तत्र समर्पणे विशेषम् आह नारदः ।

भृत्याय वेतनं दद्यात् कर्मस्वामी यथाक्रमम् ।
आदौ मध्ये ऽवसाने च कर्मणो यद् विनिश्चितम् ॥

तुभ्यम् इयद् दास्यामीति यद् वेतनं परिमाणतो विनिश्चितं त्रिधा विभज्य कर्मण आदिमध्यावसानेषु दाद्याद् इत्य् अर्थः । एतत् सकृदादौ देयम् इत्यादिविशेषपरिभाषाभावे वेदितव्यम् । इयद् दास्यामीति परिभाषाया अभावे विशेषम् आह स एव ।

भृताव् अनिश्चितायां तु दशभागम् अवाप्नुयुः ।
लाभगोवीर्यसस्यानां वणिग्गोपकृषीवलाः ॥

दशभागं दशमं भागम् इत्य् अर्थः । गोवीर्यं पाल्यमानगवादिपशुप्रभवं पयःप्रभृति अवाप्नुयुः, यथाक्रमेनेति शेषः । यदि कर्मस्वामी प्रागुक्तभागावाप्तिप्रतिबन्धको भवति तदा त्व् आह याज्ञवल्क्यः ।

दाप्यस् तु दशमं भागं वाणिज्यपशुसस्यतः ।
अनिश्चित्य भृतिं यस् तु कारयेत् स महीक्षिता ॥

सस्यदशमभागभृतिर् इयम् अल्पप्रयाससाध्यकृष्टक्षेत्रकर्तृविषये द्रष्टव्यम् । बह्वायाससाध्यकृष्टक्षेत्रकर्तृविषये त्व् आह बृहस्पतिः ।

त्रिभागं पञ्चभागं वा गृह्णीयात् सीरवाहकः । इति ।

व्यवस्थितविकल्पश् चायम् । कथम् अत्र व्यवस्थेत्य् अपेक्षिते स एवाह ।

भक्ताच्छादभृतः सीरात् भागं गृह्णीत पञ्चमम् ।
जातसस्यात् त्रिभागं तु प्रगृह्णीयाद् अथाभृतः (?) ॥

अशनाच्छादनाभ्यां भृतः कृषीवलः लाङ्गलविकृष्टक्षेत्रजातस (?) स्यात् । पञ्चमभागं गृह्णीयात् । ताभ्याम् अभृतस् तु तृतीयभागम् इत्य् अर्थः । अथ वा यत्र इयद् दास्यामीति परिभाषाया अभावस् तत्र मनूक्तं द्रष्टव्यम् ।

समुद्रयानकुशला देशकालार्थदर्शिनः ।
नियच्छेयुः भृतिं यां तु सा स्यात् प्राग् अकृता यदि ॥

इयद् दास्यामीति परिभाषिते ऽपि क्वचित् ततो न्यूनं स्वामिबुद्धिमात्रपरिकल्पितं वेतनं देयम्, क्वचित् ततो ऽप्य् अधिकं देयम् इत्य् आह याज्ञवल्क्यः ।

देशं कालं च यो ऽतीयाल् लाभं कुर्याच् च यो ऽन्यथा ।
तत्र स्यात् स्वामिनश् छन्दो ऽधिके देयं कृते ऽधिके ॥

यो भृत्यः स्वाम्याज्ञां विना स्वातन्त्र्येण वाणिज्यादिकर्मणः फलसाधकत्वापादकं देशं कालं वातिक्रामति, लाभं वा बहुतरव्ययकरणेन स्वल्पं करोति, तस्मै पूर्वपरिभाषितभृतिमध्ये स्वामी स्वेच्छानुसारेण किंचिद् दद्यात् । यस् तु स्वातन्त्र्येण बहुलाभं करोति, तस्मै परिभाषितमूल्याधिकं किंचिद् देयं स्वामिना पारितोषकम् इत्य् अर्थः । अनेकनिर्वर्त्ये कर्मणि परिभाषितभृतेर् अर्पणप्रकारम् आह स एव ।

यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम् ।
उभयोर् अप्य् असाध्यं चेत् साध्ये कुर्याद् यथाश्रुतम् ॥

अयम् अर्थः - कूपे कृते तत्कर्तॄणाम् इयद् दास्यामीति वेतने प्रतिश्रुते द्विबहुकर्तृभिर् आरब्धे विघ्नवशाद् असमाप्तौ तत्तत्कृतकर्मानुसारेण प्रतिकर्तृ किंचिद् देयम् । अथाविघ्नेन समाप्ते यावत् परिभाषितम् एव देयम् इति ॥

इति स्मृतिचन्द्रिकायां वेतनसमर्पणविषयाणि

भृत्यविषयाः

अथ भृत्यविषयाणि

तत्र नारदः ।

कर्मोपकरणं चैषां क्रियां प्रति यद् आहितम् ।
आप्तभावेन तद् रक्ष्यं न जैह्मेन कदाचन ॥

एषां कर्मस्वामिनां कर्मोपकरणं लाङ्गलादिकं कृष्यादिक्रियाम् उद्दिश्य यद् भृत्यपार्श्वे निहितं तत् तेन सदा निःशाठ्येन रक्ष्यम् इत्य् अर्थः । बृहस्पतिर् अपि ।

भृतकस् तु न कुर्वीत स्वामिनः शाठ्यम् अण्व् अपि ।
भृतिहानिम् अवाप्नोति ततो वादः प्रवर्तते ॥

ततः शाठ्यकरणात् विवादः स्वामिना सह स्वस्य प्रवर्तते, तत्र पराजितो भृतकः शाठ्यानुसारात् भृतिहातिम् अवाप्नोतीत्य् अर्थः । कर्मणो ऽकरणे ऽप्य् आह स एव ।

गृहीतवेतनः कर्म न करोति यदा भृतः ।
समर्थश् चेद् दमं दाप्यो द्विगुणं तच् च वेतनम् ॥

दमं शक्त्यपराधानुसारेण राज्ञे दद्यात् । गृहीतं च वेतनं द्वैगुण्येन स्वामिने दद्याद् इत्य् अर्थः । अस्मिन्न् एव विषये वेतनाग्रहण्र् त्व् आह याज्ञवल्क्यः - “अगृहीते समं दाप्यः” इति । यावता वेतनेन भृत्यत्वम् अङ्गीकृतं तावद् एव स्वामिने दद्यान् न तु राज्ञे दण्डम् इत्य् अर्थः । अथ वाङ्गीकृतां भृतिं दत्वा स्वामिना भृत्यो बलात्कारेण कारयितव्यः । यद् आह नारदः ।

कर्म कुर्वन् प्रतिश्रुत्य कार्यो दत्वा भृतिं बलात् । इति ।

प्रतिश्रुत्येतत् प्रारम्भस्योपलक्षणार्थम् । यद् आह कात्यायनः ।

कर्मारम्भं तु यत् कृत्वा सिद्धं नैव तु कारयेत् ।
बलात्कारयितव्यो ऽसाव् अकुर्वन् दण्डम् अर्हति ॥

कार्षापणद्विशतम् इति शेषः । यद् आह वृद्धमनुः ।

प्रतिश्रुत्य न कुर्याद् यः स कार्यः स्यात् बलाद् अपि ।
स चेन् न कुर्यात् तत् कर्म प्राप्नुयाद् द्विशतं दमम् ॥ इति ।

यत् तु मनुनोक्तम्,

भृतो ऽनार्तो न कुर्याद् यो दर्पात् कर्म यथोदितम् ।
स दण्ड्यः कृष्णलान् अष्टौ न देयं चास्य वेतनम् ॥

इति, तद् अल्पदण्डत्वात् भागासिद्धिविषयम्, दानप्रतिषेधाद् दत्तम् अप्य् अदत्तप्रायत्वात् प्रत्याहरणीयम् । किंचिन् मात्रासिद्धौ तु पूर्वोक्तम् एव दण्डवर्जं भवतीत्य् आह स एव ।

यथोक्तम् आर्तः स्वस्थो वा यस् तत् कर्म न कारयेत् ।
न तस्य वेतनं देयम् अल्पोनस्यापि कर्मणः ॥

स्वस्थो न कारयेद् इति वदन्न् अस्वस्थे ऽपि स्वयं कर्तृत्वनियमो नास्तीति दर्शयति । यस् त्व् आर्तः स्वार्तिसमये धनाद्यभावेन न कारयति, किं त्व् आर्त्यपगमानन्तरं स्वयं करोति तत्रार्तेः दीर्घकालतया कालक्षेपे ऽपि भृत्यदोषाभावाद् वेतनम् असौ निर्विवादं लभते इत्य् आह स एव ।

आर्तस् तु कुर्यात् स्वस्थः सन् यथाभाषितम् आदितः ।
सुदीर्घस्यापि कालस्य लभेतैव च वेतनम् ॥

यस् तु कालविशेषावधिकं कर्म प्रतिज्ञाय प्रतिज्ञातकालापूर्वाव् एव कर्म त्यजति तं प्रत्य् आह नारदः ।

काले ऽपूर्णे त्यजन् कर्म भृतेर् नाशम् अवाप्नुयात् ।

अत्र दण्डम् अप्य् आह विष्णुः - “पणशतं च राज्ञे दद्यात्” इति । अस्मिन्न् एव विषये महापारुष्यकरणादिस्वामिदोषतस् त्यजन् भृत्यो यावति काले कर्म तत्कालानुसारेण कल्पितं वेतनं लभत इत्य् आह नारदः ।

स्वामिदोषाद् अपक्रामन् यावत्कृतम् अवाप्नुयात् । इति ।

यस् तु प्रमादादिना स्वदोषेण स्वामिद्रव्यं बलीवर्दादिकं नाशयति तं प्रत्य् आह विष्णुः - “तद्दोषेण च यद् विनश्येत् तत् स्वामिने देयम् अन्यत्र राजदैवोपघातात्” इति । नष्टस्य यन् मूल्यं योग्यं तद् देयम् इत्य् अर्थः । अत्र दोषविशेषाद् विशेषम् आह वृद्धमनुः ।

प्रमादान् नाशितं दाप्यं समं द्विर् द्रोहनाशितम् । इति ।

प्रमादान् नाशितम् अनवधानान् नाशितं समम् एव दद्यात्, द्रोहनाशितं तीव्रप्रहारादिना नाशितं तद् द्विर् दाप्यो द्विगुणं दद्याद् इत्य् अर्थः । भृत्यदोषाभावे यद् अन्यत एव नष्टं तन् न देयम् इत्य् आह स एव ।

न तु दाप्यो हृतं चोरैर् दग्ध्द् ऊढं जलेन वा । इति ।

ऊढं नीतम् । यस् तु वाहको वाह्यद्रव्यं प्रज्ञाहीनत्वादिना स्वदोषेण विनाश्यति तं प्रत्य् आह नारदः ।

भाण्डव्यसनम् आगच्छेद् यदि वाहकदोषतः ।
दाप्यो यत् तत्र नश्येत् तु दैवराजकृताद् ऋते ॥

भाण्डं गोण्यादिषु न्युप्य प्रापणीयं क्रमुकादिकम् । व्यसनम् आगच्छेत् दोषादिकम् प्राप्नुयात् । अत्रापि,

प्रमादान् नाशितं दाप्यः समं द्विर् द्रोहनाशितम् ।

इति वृद्धमनूक्तो विशेषो द्रष्टव्यः । यस् तु वाहकः स्वदोषेण प्रस्थान्विघ्नं करोति तं प्रत्य् आह कात्यायनः ।

विघ्नयन् वाहको दाप्यः प्रस्थाने द्विगुणं स्मृतम् । इति ।

वाहक इत्य् उदाहरणमात्रम् एव, न तु विवक्षितम्, तेनायुधीयादिभृत्ये ऽपि विघ्नकारिणि वचनम् एतद् इति मन्तव्यम् । अत एव नारदेन,

द्विगुणां तु भृतिं दाप्य प्रस्थाने विघन्म् आचरन् ।

इति सामान्येनोक्तम् । विघ्नाचरणम् अङ्गीकृतकर्माकरणम् एवात्र विवक्षितं न पुनर् आसेधादिकम् । अङ्गीकृतकर्माकरणस्यापि यदा सहायान्तरलाभेन प्रथानविघ्नानापादकत्वं तदा त्व् आह याज्ञवल्क्यः ।

प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् ।
भृतिम् अर्धपथे सर्वां प्रदाप्यः ॥ इति ।

प्रक्रान्ते प्रस्थानकर्मणि स्वाङ्गीकृतं कर्म त्यजन् भृतिः सप्तमं भागं दाप्यः । पथि गन्तव्यभागाधिक्ये त्यजन् भृतेश् चतुर्थं भागम् अर्धपथे त्यजन् सर्वां भृतिम् इत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायां भृत्यविषयाणि

स्वामिविषयाः

अथ स्वामिविषयाणि

तत्र बृहस्पतिः ।

प्रभुणा विनियुक्तः सन् भृतको विदधाति यः ।
तदर्थम् अशुभं कर्म स्वामी तत्रापराध्नुयात् ॥

अशुभं कर्म सीमोल्लङ्घनाद्य् अन्यायेन क्षेत्रकर्षणादिकम् । स्वाम्यनुज्ञया भृत्येनाशुभकर्मकरणे स्वामिनो दण्ड इति वक्तुम् इदम् उक्तम् । कात्यायनो ऽपि ।

त्यजेत् पथि सहायं यः श्रान्तं रोगार्तम् एव वा ।
प्राप्नुयात् साहसं पूर्वं ग्रामे त्र्यहम् अपालयन् ॥

सहायं भृत्यम् । बृहस्पतिर् अपि ।

कृते कर्मणि यः स्वामी न दद्याद् वेतनं भृते ।
राज्ञा दापयितव्यः स्याद् विनयं चानुरूपतः ॥

भृते भृत्ये । विष्णुर् अपि - “स्वामी चेद् भृतम् अपूर्णकाले जह्यात् तस्य सर्वम् एव मूल्यं दद्यात्, पणशतं च राज्ञे, अन्यत्र भृतदोषात्” इति । तस्येति चतुर्थ्यर्थे षष्ठी, शेष इत्य् अनुवृत्तौ “चतुर्थ्यर्थे बहुलं छन्दसि” इति पाणिनिस्मरणात् । दोषो ऽत्र चौर्यादिर् अभिप्रेतः, न पुनर् बह्वाशित्वादिः । याज्ञवल्क्यो ऽपि ।

प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् ।
भृतिम् अर्धपथे सर्वां प्रदाप्यस् त्याजको ऽपि च ॥

प्रस्थानकर्मणि प्रक्रान्ते, गन्तव्यभागाधिके पथि अर्थपथे वा यो भृत्यं कर्म कुर्वाणं सामी (?) त्यापयति, सो ऽत्र त्याजको मतः । सो ऽपि पूर्वोक्तप्रदेशेषु भृत्यं त्यजन् भृत्याय सप्तमभागं दाप्य इत्य् अर्थः । पथि चतुर्थभागदापनम् अविक्रीतभाण्डस्वामिविषयम् । विक्रीतभाण्डस्वामिविषये त्व् आह वृद्धमनुः ।

पथि विक्रीय तद् भाण्डं वणिग् भृत्यं त्यजेद् यदि ।
अथ तस्यापि देयं स्याद् भृतेर् अर्धं लभेत सः ॥

पथि गन्तव्यभागाधिक इति शेषः । शौऌकिकादीनाम् आसेधेन प्रतिबद्धभाण्डस्वामिविषये राजाद्यपहृतभाण्डस्वामिविषये चाह कात्यायनः ।

यदा तु पथि तत् भाण्डम् आसिधेत ह्रियेत वा ।
यावान् अध्वा गतस् तेन प्राप्नुयात् तावतीं भृतिम् ॥

गतसरण्यनुसारेण स्वामी भृतिं प्राग् अदत्तां दद्यात् । प्राग् दत्तायास् तु भृतेर् अभिकम् आददीतेत्य् अर्थः । भाटकगृहीतेन यानादिना भाण्डनेतारं प्रत्य् आह नारदः ।

अनयन् भाटयित्वा तु भाण्डवान् यानवाहने ।
दाप्यो भृतिचतुर्भागं सर्वाम् अर्धपथे त्यजन् ॥

यानं शकटादि । वाहनम् अश्वादि । ते भाटयित्वा प्रापणादिकार्योपाधिकपरिक्रयं कृत्वा सहायार्थं परिक्रीतं यद्य् अपि न गृह्णाति, तथापि भृतिचतुर्भागं मूल्यचतुर्थांशं दाप्य इत्य् अर्थः । अर्धपथे च सर्वदापनवचनात् ततो न्यूनपथे भाटकाहृतयानानि त्यजन् त्रिभागद्विभागकल्पनया दाप्य इत्य् ऊह्यम् । यस् तु शकटादिकं भाटयित्वा तम् एवोपकारशून्य आदाय देशान्तरं गच्छति, भाटकं तु न प्रयच्छति तं प्रत्य् आह वृद्धमनुः ।

यो भाटयित्वा शकटं नीत्वा चान्यत्र गच्छति ।
भाटं न दद्याद् दाप्यः स्याद् अरूढस्यापि भाटकम् ॥

कार्योपाधिकपरिक्रयमूल्यम् इति यावत् । अरूढस्यापि अकृतोपकारस्यापि शकटादेर् भाटकं दाप्य इत्य् अर्थः । कात्यायनस् तु कृते कृत्ये समनन्तरम् असमर्पितस्य वाहनादेः समर्पणपर्यन्तं भाटकानिवृत्त्तिर् इत्य् आह ।

हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः ।
नार्पयेत् कृतकृत्यार्थः स तु दाप्यः सभाटकम् ॥

एवं गृहादेर् अपीत्य् आह स एव ।

गृहवार्यापणादीनि गृहीत्वा भाटकेन यः ।
स्वामिने नार्पयेद् यावत् तावद् दाप्यः स भाटकम् ॥

वारिशब्देनात्र तदाधारपात्रं मणिकादिकं लक्ष्यते । नार्पयेत् कृतकृत्यः सन्न् इति शेषः । मणिकादिपात्रस्य कृत्स्नभ्रंशविषये त्व् आह नारदः ।

स्तोमवाहीनि भाण्डानि पूर्णकालान्य् उपानयेत् ।
ग्रहीतुर् आभवेत् भग्नं नष्टं चान्यत्र संप्लवात् ॥

स्तोमेन भाटकेन भाण्डानि द्रवद्रव्यप्रापणार्थं गृहीतानि स्तोमवाहीनि, तानि पूर्णभाटककालानि तत्स्वामिनं प्रापयेद् इत्य् अर्थः । सिद्धम् उक्त्वा ग्रहीतुर् आभवेद् इत्याद्य् उक्तम् । तस्यायम् अर्थः - सम्प्लवः परस्परम् अन्येन वा द्रव्येण संघट्टनम्, तत्र लेशतः कार्त्स्न्येन वा भिन्नं पूर्ववत् कृतं तुल्यरूपम् आपन्नं वा भाण्डस्वामिने देयम् । संप्लवाद् अन्यत्र तु तथाभूतं भाटकग्रहीतुर् आभवेत् आत्मसंबन्धि भवेत् भाटकदात्रा न समाधेयम् इति यावत् । गृहाधारदेशाय भाटकदातारं च प्रत्य् आह स एव ।

परभूमौ गृहं कृत्वा स्तोमं दत्वा वसेत् तु यः ।
स तद् गृहीत्वा निर्गच्छेत् तृणकाष्ठेष्टकादिकम् ॥ इति ।

स्तोमाप्रदाने ऽप्य् आह स एव ।

स्तोमाद् विना वसित्वा तु परभूमाव् अनिश्चितः ।
निर्गच्छंस् तृणकाष्ठादि न गृह्णीयात् कथंचन ॥
यान्य् एव तृणकाष्ठानि त्व् इष्टका विनिवेशिता ।
स निर्गच्छंस् तु तत् सर्वं भूमिस्वामिनि वेदयेत् ॥ इति ।

स्वामिनि स्वामिने । वेदयेत् निर्वेदयेद् इत्य् अर्थः । अनिश्चित इति वचन् तृणकाष्ठादिग्रहणाग्रहणपरिभाषाविहीनविषयम् एतद् इति दर्शयति । परिभाषितविषये तु यथा परिभाषा कृता तथैव । “स तत् गृहीत्वा निगच्छेत्” इत् मूलग्रहणव्यतिरिक्तविषयम् इत्य् आचारविरोधाय कल्पनीयम् । शम्भुस् तु “तत् गृहीत्वा” इत्य् अस्य “गृहं गृहीत्वा गृहोपकरणं गृहीत्वेति यावत्” इति व्याख्यानं कृतवान्, तत् “तृणकाष्ठेष्टकादिकम्” इत्यादिना विरुद्धम् इत्य् उपेक्षणीयम् । व्यासो ऽपि मन्दिरद्रव्यस्यैव संबन्धम् आह ।

स्नेहेन तु चिरं कालं मन्दिरं कुरुते तु यः ।
निर्गच्छतस् तस्य दारु दत्तस्तोमस्य नान्यथा ॥

तस्य परभूमौ मन्दिरादि कर्तुः । निर्गच्छतः तत् स्थानं परित्यज्य गच्छतः । यद् दार्वादिकं मन्दिररूपेण स्थितं तद् भाटके दत्ते तद्दातुर् एव, नो चेद् भूमिस्वामिन एवेत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायां स्वामिविषयाणि

पण्य-स्त्री-तदुपभोक्तृ-विषयाः

अथ पण्य-स्त्री-तदुपभोक्तृ-विषयाणि

तत्र नारदः ।

शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् ।
अनिच्छन् शुल्कदातापि शुल्कहानिम् अवाप्नुयात् ॥

“नेच्छन्ती द्विगुणं वहेत्” इत्य् अस्य क्वचिद् अपवादः स्मृत्यन्तरे दर्शितः ।

व्याधिता संभ्रमा व्यग्रा राजधर्मपरायणा ।
आमन्त्रिता च नागच्छेद् अवाच्या वडवा स्मृता ॥

अत्यन्तावश्यकेषु कार्येषु जातसम्भ्रमा तदुपभोक्तृविटविषते संभ्रमापदेनोक्ता । तत्रैव व्याकुला व्यग्रापदेनोक्ता । वडवा दासी, तद्ग्रहणम् अत्र पण्यस्त्रीप्रदर्शनार्थम्, व्याध्याद्यन्वयनिबन्धनस्यावाच्यत्वस्यान्यत्रापि तुल्यत्वात् । उपभोक्तारं तु प्रत्य् आह नारदः ।

अप्रयच्छंस् तथा शुल्कम् अनुभूय पुमान् स्त्रियम् ।
अक्रमेण तु संगच्छेत् घातदन्तनखादिभिः ॥
अयोनौ यः समाक्रामेत् बहुभिर् वापि साधनैः ।
शुल्कं सो ऽष्टगुणं दाप्यो विनयं तावद् एव तु ॥ इति ।

पण्यस्त्रियास् त्व् अपराधे दण्डादिकं मत्स्यपुराणे दर्शितम् ।

गृहीत्वा वेतनं वेश्या लोभाद् अन्यत्र गच्छति ।
तां दमं दापयेद् दद्याद् इतरस्यापि भाटकम् ॥

विवादान्तरनिर्णेतॄन् विना निर्णेत्रॄन् आह नारदः ।

वेश्याप्रधाना ये तत्र कामुकास् तद्गृहोपिताः ।
तत्समुत्थेषु कार्येषु निर्णयं संशये विदुः ॥

इति स्मृतिचन्द्रिकायां पण्यस्त्रीतदुपभोक्तृविषयाणि

समाप्तश् च वेतनानपाकर्माख्यस्य पदस्य विधिवितानः

स्वामि-पाल-विवादः

अथ नारदाभिप्रायतः प्राचीनपदशेषभूतस्य स्वामि-पाल-विवादाख्यस्य पदस्य विधिर् उच्यते

मनोर् मत्या तु क्रयविक्रयानुशयाख्यपदान्तरं स्वतन्ततयास्य पदस्योक्तत्वाद् अनन्तरम् एवोद्देशक्रमाद् वक्तव्यम् । नारदीयोद्देशक्रमानुसारिणश् च वयम् इत्य् अनवद्यम् इहाभिधानम् । अभिधानप्रतिज्ञा च मनुना स्वातन्त्र्यप्रकटनार्थम् कृता ।

पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे ।
विवादं संप्रवक्ष्यामि यथावद् धर्मतत्त्वतः ॥

विवादं विवादापनोदकं विधिम् इत्य् अर्थः । पशुष्व् इति प्रतिज्ञाविषयनियमार्थम् उक्तम् । तेन पशुविषये तत्स्वामिपालयोर् व्यतिक्रमे भृतिकल्पनादिविधिर् अस्मिन् पदे प्रतिपाद्यतया प्रतिज्ञातः, न पुनः सस्यादिषु पशूनां स्वामिणां पालानां च व्यतिक्रमे निवारणदण्डताडनादिविधिः । अतो ऽत्र निवारणादिविधिः प्रासाङ्गिक एवेति मन्तव्यम् । अतो ऽस्मिन् पदे ऽस्मभिः प्रतिज्ञातभृतिकल्पनादिविधिप्रतिपादकानि यानि वचनानि तान्य् एव लिख्यन्ते । तत्र नारदः ।

गवां शताद् वत्सतरी धेनुः स्याद् द्विशते भृतिः ।
प्रतिसंवत्सरं गोपे संधोहश् चाष्टमे ऽहनि ॥

प्रतिसंवत्सरं वत्सतरी समतिक्रान्तवत्सत्वावस्था गौर् भृतिः । पालके पाल्यमानगोशतवशाद् देया भवति शताद् अधिके तु वत्सतरीस्थाने सवत्सा गौर् अष्टमे ऽहनि संदोहश् च भवतीत्य् अर्थः । संदोहः सर्वदोहः । यथाह बृहस्पतिः ।

तथा धेनुभृतः क्षीरं लभेतास्याष्टमे ऽखिलम् । इति ।

एतेन शम्भूक्तं धेनुसंदोहयोर् नैरपेक्ष्येण भृतित्वं निरस्तम् इत्य् उपक्षणीयम् । अनया दिशा शतद्विशतसंख्यातो न्यूनाधिकसंख्याकानां गवां महिष्यादिपश्वन्तराणां च भृतीयत्ता कल्पनीया । परिभावितभृतिविशेषाभावविषयम् एतत्, तत्सद्भावविषये ऽपीयत्तापरिभाषाभावे त्व् आह मनुः ।

गोपः क्षीरभृतो यस् तु स दुह्याद् दशतो वराम् ।
गोस्वाम्यनुमतो भृत्यः ॥॥॥॥॥ ॥ इति ।

दुह्यात् स्वभृत्यर्थम् इति शेषः । एतद् उक्तं भवति - दशतो दशदोग्धीणां मध्ये वराम् उत्कृष्टां स्वीकृत्य तत्क्षीरं क्षीरभृतो भृत्यो गृह्णीयाद् इति । दशदोग्ध्रीपालनार्था भृतिर् इयम् । अनया दिशा दशसंख्यातो न्यूनाधिकसंख्याकानां गवां पालनार्था महिष्यादिपालनार्थापि भृतिः कल्पनीया । अक्षीरपशूनां तु भृतिः कीरमूल्यतः कल्पनीया । द्रव्यान्तरेणाभृतपालकविषये क्षीरभृतो या प्रोक्ता भृतिः सैव भवतीत्य् आह स एव - “सा स्यात् पाले ऽभृते भृतिः” । नारदस् तु स्वामिपालयोः कर्तव्यम् आह ।

उपानयेद् गां गोपाय प्रत्यहं रजनीक्षये ।
समर्पिताश् च ता गोपः सायाह्ने प्रत्युपानयेत् ॥

गोग्रहणं पशूपलक्षणार्थम् । अत एव याज्ञावल्क्यः ।

यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत् तथा । इति ।

कृतवेतनः पालक इत्य् अर्थः । प्रमादग्रहणं पालकदोषोपलक्षणार्थम् । तेन मरणादौ निर्दोषः पालको न दाप्यः । न पुनः प्रमादमात्ररहितः, अत एव मनुः ।

विघुष्य तु हृतं चोरैर् न पालो दातुम् अर्हति ।
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥

विघुष्य पशूनाम् अनुधावनार्थं शृङ्गकलहवेण्वादिभिर् घोषं कृत्वेत्य् अर्थः । देशो यत्र स्वामी स्थितः सो ऽभिमतः, कालो ऽप्य् आहरणकालाद् अनतिविलम्बितो ऽभिमतः । एवंभूतं देशं कालं वा यदा स्वदोषेणातिक्रम्य देशान्तरे कालान्तरे वा शंसति तदा त्व् अपराधितत्वात् तदनुसारेण दातुम् अर्हतीति गम्यते । व्यासस् त्व् अदाप्यत्वं निदोषत्वाभिधानाद् अभिहितं भवतीत्य् अभिसंधाय निर्दोषत्वम् एव पालकस्य क्वचिद् आह ।

पालग्रहे ग्रामघाते तथा राष्ट्रस्य विभ्रमे ।
यत् प्रणष्टं हृतं वा स्यान् न पालस् तत्र किल्बिषी ॥

पुरुषकाराकरणे ऽपीति शेषः । अन्यत्र तु पुरुषकाराकरणे भवत्य् एव किल्बिषी । अत एव मनुः ।

नष्टं विनष्टं क्रिमिभिः श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ॥

नष्टं कुत्रेत्य् अविदितम् । क्रिमिभिर् विनष्टं प्रध्वस्तम् । श्वहतं शुना हतम् । विषमे हतं कन्दररन्ध्रप्रदेशादौ मृतम् । पुरुषकारस् तु नारदेन दर्शितः ।

क्रिमिचोरव्याघ्रभयाद् दरीश्वभ्राच् च पालयेत् ।
व्यायच्छे छक्तितः क्रोशेत् स्वामिने वा निवेदयेत् ॥

व्यायच्छेत् व्यसननिरासाय यतेतेत्य् अर्थः । स्वामिने निवेदनम् अशक्तपालकविषयम् । यद् आह स एव ।

स्याच् चेद् गोव्यसनं गोपो व्यायच्छेत् तत्र शक्तितः ।
अशक्तस् तूर्णम् आगत्य स्वामिने वा निवेदयेत् ॥

पुरुषकारम् अकुर्वाणः प्रागुक्तविनाशकैर् विनष्टां व्यक्तिं दण्डं च यथाक्रमं स्वामिनि दातुम् अर्हतीत्य् आह स एव ।

अव्यायच्छन्न् अविक्रोशन् स्वामिने वानिवेदयन् ।
वोढुम् अर्हति गोपस् तां विनयं चैव राजनि ॥

विनयप्रमाणम् आह याज्ञवल्क्यः ।

पालदोषाद् विनाशे तु पाले दण्डो विधीयते ।
अर्धत्रयोदशपणः स्वामिने द्रव्यम् एव च ॥

अर्धत्रयोदशपणः सार्धत्रयोदशकार्षापणः, सः पाले विधेयो दण्ड इत्य् अर्थः । “द्रव्यं विनष्टद्रव्यं मूल्यं विनष्टपशुमूल्यं च स्वामिने दद्यात्” इति विष्णुस्मरणात् । पालदोषप्रदर्शणार्थं तेनैव कश्चित् पालदोषो ऽपि दर्शितः - “दिवा पशूनां वृकाद्युपघाते पाले त्व् अनायति पालदोषः” इति । अनायाति उपघातनिवारणायानागच्छतीत्य् अर्थः । उपघातश् चात्र प्राणाण्तिको विघातो विवक्षितो न पुनर् उपद्रवलेशः । यद् आह मनुः ।

अजाविके तु संरुद्धे वृकैः पाले त्व् अनायति ।
यां प्रसह्य वृको हन्यात् पाले तत् किल्बिषं भवेत् ॥

याम् अजाविकजातीयां व्यक्तिम् इत्य् अर्थः । वृकग्रहणं तादृशहिंस्रप्रदर्शनार्थम् । सुगमस्थलस्थितविषयम् एतत् । दुर्गमस्थलस्थितविषये तु शक्यपुरुषकारस्यापि पालकस्य निष्किल्बिषत्वम् इत्य् आह स एव ।

तासां चेद् अवरुद्धानां चरन्तीनां मिथो वने ।
याम् उपेत्य वृको हन्यान् न पालस् तत्र किल्बिषी ॥

वने दुर्गमारण्ये ऽवरुद्धानां पालकेन स्थापितानाम् । नारदेन तु मनूक्तवचनद्वयसमानार्थवचनत्रयानन्तरम् अजाविकेतरपशुपालकेषु स्ववचनत्रयार्थातिदेशः कृतः ।

अनेन सर्वपालानां विवादः समुदाहृतः । इति ।

तथा पालके विशुद्धिसिद्ध्युपायम् आह स एव ।

मृतेषु च विशुद्धिः स्याद् वालशृङ्गादिदर्शनात् । इति ।

कालवशाद् अप्य् अरण्ये मृतेषु पशुषु पश्वपहारशङ्कानिवृत्त्यर्थं वालशृङ्गादि पश्ववयवभूतं पालको दर्शयेद् इत्य् अर्थः । आदिशब्दार्थो मनुना प्रपञ्चितः ।

कर्णौ चर्म च वाऌआंश् च बस्तिं स्नायुं च रोचनाम् ।
पशुषु स्वामिनां दद्यात् मृतेष्व् अङ्गानि दर्शयेत् ॥

इति स्मृतिचन्द्रिकायां स्वामिपालाख्यस्य पदस्य विधिवितानम्

पश्वादिव्यतिरिक्तविषये विवादापनोदनम्

अथ प्रासङ्गिकानि पश्वादिव्यतिरिक्तविषये यानि विवादापनोदकवचनानि तानि लिख्यन्ते

तत्र कात्यायनः ।

क्षेत्रारामविवीतेषु गृहेषु पशुपादिषु ।
ग्रहणं तत्प्रविष्टानां ताडनं वा बृहस्पतिः ॥

आरामः उपवनम् । विवीतशब्देन तृणकाष्ठसमृद्धः परपर्तिगृहीतः प्रदेश उच्यते । पशुपादिः गोष्ठादिः । ग्रहणं निवारणार्थं कर्णाद्यवयवग्रहणं ताडनं वा क्षेत्रादिषु प्रविष्टानां परपशूनां कर्तव्यम् इति बृहस्पतिः ब्रूत इत्य् अर्थः । ग्रहणं वत्सादीनाम्, स्थूलवृषादीनां तु ताडनम् इति व्यवस्था तु योग्यतयाध्यवसेया । ताडनम् अपि निवारणार्थाद् अधिकं न कार्यम्, यद् आह स एव ।

अधमोत्तममध्यानां पशूनां चैव ताडने ।
स्वामी तु विवदेद् यत्र दण्डं तत्र प्रकल्पयेत् ॥

यत्र स्वामी स्मृत्याचारमार्गव्यपेताद् अधिकताडने विवदेत तत्र ताडनाधिक्यानुसारेण दण्डप्रकल्पनम् । पशुनिवारणोपायान्तरं चाह स एव ।

अजातेष्व् एव सस्येषु कुर्याद् आवरणं महत् ।
दुःखेनेह निवर्यन्ते लब्धस्वादुरसा मृगाः ॥

अटवीनिकटवर्तिक्षेत्रविषयम् एतद् इति मृगग्रहणात् गम्यते । मार्गासन्नक्षेत्रविषये त्व् आह नारदः ।

पथि क्षेत्रे वृतिः कार्या याम् उष्ट्त्रो नावलोकयेत् ।
न लङ्घयेत् पशुर् नाश्वो न च भिन्द्याच् च सूकरः ॥

वृतिः वरणं कण्टकितशाखाभिः प्रान्ततः परिश्रयणम् इति यावत् । पथिग्रहणं संबाधस्थानोपलक्षणार्थम् । संचारपथग्रहणोपध्यन्तरम् आह ।

पथि ग्रामविवीतान्ते न दोषो ह्य् अल्पकालकम् । इति ।

दीर्घकालचारे तु दण्डम् अर्हतीति व्यतिरेकाद् गम्यते, पालकस्य तत्र दोषसंभवात् । तथा च दोष इत्य् अनुवृत्तौ गौतमः - “पथि क्षेत्रे ऽनावृते पालक्षेत्रिकयोः” इति । दीर्घकालं पशुतः सस्यपीडन इति शेषः । क्षेत्रिकः क्षेत्रकारी, तस्य वृतिम् अकुर्वतो राजभागविनाशनिबन्धनो दोषः, ततश् च सो ऽपि दोषानुसारेण दण्ड्य इत्य् अभिप्रायः । सपालपशुस्वामिनस् तु दोषस् तदभावे पालक्स्यैव विज्ञेयो भृत्यापराधनिबन्धनत्वात् स्वाम्यपराधस्य । एवं च यत्र पालस्य दोषो न विद्यते तत्र सपालपशुस्वामिनो ऽपि दोषाभावाद् विनष्टधान्यादिमूल्यं क्षेत्रिकाय स्वामिन च देयम् इति मन्तव्यम् । विपालपशुस्वामिनापि न देयम्, पशोर् व्यतिक्रमे ऽपि सपालस्येव तस्याप्य् अपरिहार्यतया व्यतिक्रमाभावात् । अत एवादण्ड्यत्वम् अपि पालवत् तस्यास्मिन् विषये वेदितव्यम् । अत एवास्य क्षेत्रिकेणापि शदो न दाप्यः । दोषस्मरणाच् च, तथा च उशनाः ।

गोभिर् विनाशितं दान्यं यो नरः प्रतियाचते ।
पितरस् तस्य नाश्नन्ति नाश्नन्ति त्रिदिवौकसः ॥ इति ।

एवं च यद् उक्तं मनुना,

सर्वत्र तु शदो देयः क्षेत्रिकायेति धारणा ।

इति, तत् निदोषविषयाद् अन्यत्रेति मन्तव्यम् । सर्वत्रग्रहणं तु विपाले

पि पशौ क्षेत्रिकस्य शदलाभो यथा स्याद् इत्य् एवमर्थम् । शदः क्षेत्रपालम् इति धारणा एष निश्चय इत्य् अर्थः । दण्डस् तु निर्दोषविषयाद् अन्यत्रेति स एवाह ।

क्षेत्रेष्व् अन्येषु तु पशुः सपादं पणम् अर्हति । इति ।

पशुर् अर्हति पशोः स्वामी पालो वार्हतीत्य् अर्थः । पशुमुखेन तत्स्वामिनः पालकस्य वाभिधानं पशुबहुत्वे प्रतिपशु सपादपणविधानार्थम् । तेन ग्रामादिसमीपवृत्तिक्षेत्रादाव् अपि वृतिः कार्यैव । वृतौ श्वादिभिः कृतं छिद्रं कण्ट्कादिभिः पुनर् निश्छिद्रं कुर्याद् इत्य् आह मनुः ।

छिद्रं च पूरयेत् सर्वं श्वसूकरमुखानुगम् । इति ।

एवं पशुनिवारणोपाये कृते ऽपि तम् अतिक्रम्य सस्यनाशे स एवाह ।

पथि क्षेत्रे परिवृते ग्रामान्तीये ऽथ वा पुनः ।
सपालः शतदण्डार्हो विपालं वारयेत् पशुम् ॥

ग्रामान्तीये ग्रामारामादिसमीपवर्तिक्षेत्रे । परिवृत इति विशेषणम् इहान्वीयते । एवं चायम् अर्थः - वृतिम् अतिक्रम्य ग्रासाद् अधिकसस्यघाती सपालः पशुः कार्षापणशतदाण्डार्हः, तत्पशुपालकः शतदण्डनं दण्डनीय इति यावत् । विपालं पशुं पुनः क्षेत्रिको लगुडादिना निवारयेद् इति । क्षेत्रिकायात्र सपालस्य पशोः स्वामिना विनष्टधान्यं देयम्, अस्मिन्न् अर्थे मूलं वक्ष्यामः । वृतिम् उत्क्रामतः पशोर् यथाशक्त्य् अनिवारण एवायं दण्डः । तत्र नारदः ।

उत्क्रम्य तु वृतिं यः स्यात् सस्यघातो गवादिभिः ।
पालः शास्यो भवेत् तत्र न चेच् छक्त्या निवारयेत् ॥

वृतिराहित्येनापरिहार्यसस्यघातविषये ऽप्य् आह स एव ।

ग्रामोपान्ते च यत् क्षेत्रं विवीतान्ते महापथे ।
अनावृतं चेत् तन्नाशे न पालस्य व्यतिक्रमः ॥

महापथ इति वदन्न् अपरिहार्यमार्गगामिनो व्यतिक्रमाभावं दर्शयति । अत्रार्थाद् दण्डाभावो ऽप्य् उक्तः । मानवे तु साक्षाद् एवोक्तः ।

तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि ।
न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥

निवारणे ऽनिच्छूनाम् इति शेषः । यद् आह याज्ञवल्क्यः ।

पथि गृआमे विवीतान्ते क्षेत्रे दोषो न विद्यते ।
अकामतः कामचारे चोरवद् दण्डम् अर्हति ॥

अन्तशब्दो ऽत्र समीवे वर्तते, स च पथ्यादिषि प्रत्येकम् अभिसंबध्यते । अत्र दण्डव्यवस्थाम् आह गौतमः - “पशुपीडने स्वामिदोषः पालसंयुक्त तु तस्मिन्” इति । पशुपीडने पशुवशात् सस्यपीडन इति यावत् । विपालपशुपीडने स्वामिन एव दोषः, पालसंयुक्ते तु पाले ऽपीत्य् अर्थः । तत्र स्वामिन एव दोषे तस्य शददण्डौ, द्वयोर् दोषे तु स्वामिनः शदः पालस्य दण्ड एव, न पुनः शदोपीति मन्तव्यम् । यत् तु नारदेनोक्तम्,

या नष्टा पालदोषेण गौः क्षेत्रं तु विनाशयेत् ।
न तत्र स्वामिनो दोषः पालस् तं दण्डम् अर्हति ॥

इति, तत्र स्वामिनो दण्डप्रापकदोषाभाव उक्तो न पुनः शददानप्रापकदोषाभावो ऽपीत्य् अविरोधः । नष्टा अविदितस्थाना । यत् तु बृहस्पतिनोक्तम्,

सस्यान् निवारयेद् गास् तु वीर्णदोषो द्वयोर् भवेत् ।
स्वामी शददमं दाप्यः पालस् ताडनम् अर्हति ॥

इति, शदश् च दमश् चेति शददमम् इत्य् अस्य विग्रहः । यच् च याज्ञवल्क्येनोक्तम्,

गोप्यस् ताड्यस् तु गोमी तु पूर्वोक्तं दण्डम् अर्हति ।

इति, गोपः पशुपालः, गोमी पशुस्वामी । तद् इदं द्वयम् अपि समुलसस्यनाशविषयं, तत्र पुनः प्ररोहाभावेनापराधाधिक्यात्, स्वामिनो ऽपि दण्डार्हताच् च । अत एव नारदः ।

समूलसस्यनाशे तु तत्स्वामी प्राप्नुयाच् छदम् ।
वधेन गोपो मुच्येत दण्डं स्वामिनि पातयेत् ॥

तत्स्वामी सस्यस्वामी । शदो ऽत्र अत्यन्तविनाशानुसारेण शदकल्पकैः कल्पितः । शदकल्पकाश् च बाधितक्षेत्रस्य समन्ततो यानि क्षेत्राणि तत्कारिणो विज्ञेयाः,

गोभिस् तु भक्षितं सस्यं यो नरः प्रतियाचते ।
सामन्तानुमतं देयं धान्यं वा तत्र वापितम् ॥

इति तेनैवोक्तत्वात् । वधो ऽत्र कशादिना ताडनम् । दण्डो ऽत्र स एव वेदितव्यो यो याज्ञवल्क्येन पूर्वम् उक्तः । कः पुनर् असौ । उच्यते ।

माषान् अष्टौ तु महिषी सस्यघातस्य कारिणी ।
दण्डनीया तदर्धं तु गौस् तदर्धम् अजाविकम् ॥
भक्षयित्वोपविष्ठानां यथोकाद् द्विगुणो दमः ।
समम् एषां विवीतस्थे खरोष्ट्रं महिषीसमम् ॥ इति ।

अयम् अर्थः - परसस्यघातकारिण्या बालेतरमहिष्याः स्वामी प्रतिमहिष्य् अष्टौ माषान् दण्डनीयः । उक्तविशेषणद्वययुक्तगोस्वामी चतुरो माषान् । तथाविधच्छागमेषस्वामी च द्वौ द्वौ माषौ । एषाम् एव पशूनां सस्यभक्षणाद् आरभ्य यावच्छयनम् अनिवारितानां स्वामी तथोक्तदण्डाद् द्विगुणं पूर्ववद् दण्डनीयः । विवीतस्थतृणाद्युपघाते ऽपि पूर्वोक्तपशुस्वामी सस्यक्षेत्रोपघातवद् दण्डनीयः । खरोष्ट्त्रस्वामी महिषीस्वामिवद् दण्डनीय इति । वाचकपदेन महिषीस्वामीत्यादिना दण्डे वक्तव्ये महिषीत्याद्यवाचकपदेन दण्डोक्तिः प्रतिपश्व् एवं दण्डनीयं इत्य् अभिधानार्थेति मन्तव्यम् । अत्रापराधानुसारेण दण्डनार्थं ताम्रिकमाषो ग्राह्यः, न पुनः सोवर्णो राजतो वा । ताम्रिकश् च माषः कार्षापणस्य षोडशो भागो भवति । यैस् त्व् अनुरूपदण्डनार्थम्,

माषो विंशतितमो भागः पणस्य परिकीर्तितः ।

इति नारदेनोक्तमाषः स्वीकृतः, तेषाम्,

संख्या रश्मिरजोमूला मनुना समुदाहृता ।
कार्षापणोना सा दिव्ये नियोज्या विनये तथा ॥

इति बार्हस्पत्यवचनविरोधो दुर्वारः, मनुनोदाहृतमाषास्वीकारात् । ताम्रिकमाषस्य तु मनुनोक्तस्य स्वीकारे न केनापि विरोध इत्य् अलं परपक्षयुत्कायुक्तचिन्तया । यत् तु मनुनोक्तम् “सपादपणम् अर्हति " इति, तत् स्वामिमतिपूर्वपशुव्यतिक्रमविषयम् । याज्ञवल्क्यवचनं त्व् अबुद्धिपूर्वविषयम् इति न तयोर् विरोधः । यत् तु विष्णुनोक्तम् “महिषी चेत् सस्यघातं कुर्यात् पालस् त्व् अष्टौ माषान् दण्ड्यः अपालायां स्वामी” इति, तद् असमूलसस्यनाशविषयम्, अन्यतरदण्डस्याल्पापराध एव युक्तत्वात् । यत् तु शङ्खलिखिताभ्याम् उक्तम् “महिषी दश” इति, तन् नारदोक्तमाषाभिप्रायम्, तथात्वे फलतस् ताम्रिकाष्टमाषात्मक एव दण्डो भविष्यति, तेन न “माषान् अष्टौ” इति याज्ञवल्क्यवचनेन विरोधः, न च “संख्या रश्मि” इत्यादिबार्हस्पत्यवचनेन । तच् च ताभ्याम् एवोक्तम् “खरोष्ट्रं षोडश अजाविकं चतुरः” इति, तत् भक्षयित्वोपविष्टखरादिविषयम् । यत् तु कात्यायनेनोक्तम्,

दापयेत् पणपादं गां द्वौ पादौ माहषीं तथा ।

इति, यच् च नारदेन,

गावः पादं प्रदण्ड्यास् तु महिष्यो द्विगुणं ततः ।

इति, तत् ताम्रिकमाषस्वीकारपक्षे फलतः समानत्वाद् अविरुद्धम् एव । नारदोक्तमाषस्वीकारपक्षे तु परं विरोधः । अत एव चासौ पक्षो नास्माकम् इति सर्वम् अविरुद्धम् । यत् तु स्मृत्यन्तरम्,

पणस्य पादौ द्वौ गां तद् द्विगुणां महषीं तथा।
तथाजाविकवत्सानां पादौ दण्डः प्रकीर्तितः ।

इति, तत् भक्षयित्वोपविष्टविषयम्, वचोभङ्ग्या तद्विषयदण्डस्यैवाभिधानात् । यत् पुनर् नारदेनोक्तम्,

माषं गां दापयेद् दण्डं द्वौ माषौ महिषीं तथा ।
तथाजाविकवत्सानां दण्डः स्याद् अर्धमाषकः ॥

इति, अत्र राजतस्य माषस्य माषशब्देनाभिधानं भक्षयित्वोपविष्टवत्सविषयं मन्तव्यम् ।

वसतां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः ।

इति स्मृतेः समानार्थत्वम् एवास्य वचनस्य भविष्यति । दक्षिणापथे षोदश ताम्रिकमाषाणाम् एकस्य राजतमाषस्य तुल्यमूलत्वात् । अथ वात्रापि ताम्रिकमाषस्यैवाभिधानम् अस्तु, तथापि मुहूर्तमात्रभक्षणविषयत्वाद् अविरोधः । तथा च “दण्डं प्राप्नुयात्” इत्य् अनुवृत्ताव् आहतुः शङ्खलिखितौ “रात्रौ चरन्ती गौः पञ्च माषान् दिवा त्रीन् मुहूर्ते माषं ग्रासे त्व् अदण्डः” इति । एतद् अप्रत्यक्षचारकविषयम्,

प्रत्यक्षचारकाणां तु चोरदण्डः स्मृतो बुधैः ।

इति नारदस्मरणात् । ग्रासे त्व् अद्ण्ड इत्य् अस्यायम् अर्थः - महिष्यादिभिः परसस्यादिषु कवलमात्रभक्षणे कथंचित् कृते पालस्य स्वामिनो वा स्वल्पो ऽपि दण्डो नास्तीति । आतुरपशुविषये तु बहुसस्यनाशे ऽप्य् एवम् एवादण्ड इति दोषाभावाभिधानमुखेनाह नारदः ।

राजग्रहगृहीतो वा वज्राशनिहतो ऽपि वा ।
अथ सर्पेण वा दष्टो वृक्षाद् वा पतितो भुवि ॥
व्याघ्राद् अभिहतो वापि व्याधिभिर् वाप्य् उपद्रुतः ।
न तत्र दोषः पालस्य न च दोषो ऽस्ति गोमिनाम् ॥ इति ।

आतुराणाम् अनिवार्यत्वाद् इति शेषः । निवार्याणाम् अपि केषांचित् पशूनां व्यतिक्रमे दण्डो नास्तीत्य् आह स एव ।

गौः प्रसूता दशाहान्तं महोक्षो वाजिकुञ्जराः ।
निवार्यास् तु प्रयत्नेन तेषां स्वामी न दण्डभाक् ॥

दश्दिनपर्यन्तं प्रसूतायाः निरोद्धुम् अशक्यायाः तत्स्वामी न दण्डभाक् । महोक्षस्य् सर्वासां गर्भाधानार्थं सर्वदा बन्धनायोगात् तत्स्वामी न दण्डभाक् । वाजिकुञ्जराणां स्वामिनो ऽदण्डभाक्त्वे हेतुर् उषनसा दर्शितः ।

अदण्ड्या हस्तिनो ह्य् अश्वा प्रजापालहिताः स्मृताः । इति ।

एवं च राजकीयानाम् उक्तवद्भावाद् अदण्ड्यत्वम् एव । स्वामिग्रहणं पालस्याप्य् उपलक्षणार्थम् । यद् आह मनुः ।

अनिर्दशाहाम् गां सूतां वृषान् देवपशूंस् तथा ।
अपालान् वा सपालान् वा न दण्ड्यान् मनुर् अब्रवीत् ॥

वृषाः महोक्षाः, अथ वा वृषोत्सर्गविधानेन उत्सृष्टाः,

अदण्ड्याः काणकूटाश् च वृषश् च कृतलक्षणः ।

इत्य् उशनसोक्तत्वात् । काणः एकाक्षः । कूटः एकशृङ्गः । कृतलक्षणः प्रतपायसेन कृतलाञ्छनः, अस्य अस्वामिकत्वात् स्वामिदण्डाभावे ऽपि सस्यरक्षणार्थं कदाचित् कृतलक्षणानां पाले कृते न तस्य दण्डभागित्वम्, तेषां दुर्निवारत्वाद् इति वक्तुं “वृषश् च कृतलक्षणः” इत्य् उक्तम् । एवम् एव वक्तुं मानवे “देवपशूंस् तथा” इत्य् उक्तम् । देवपशवो हि देवताप्रतिमादीनां क्षीरस्नानाद्यर्थं तदुद्देशेन दत्ताः, न च तत्र वस्तुतः स्वस्वामिभावो ऽस्तीति कृतलक्षणवृषवत् पालदण्डापवादार्थम् एव देवपशुग्रहणम् । प्रसूतगोवद् उभयदण्डाभाव एव उशनसा गोविशेषे दर्शितः ।

अदण्ड्यागन्तुकी गौश् च प्रसूता ह्य् अभिचारिणी ।

आगन्तुकी अनभ्यस्तस्थाना । अभिचारिणी प्रचुरताडनात् प्रच्युता पुनः स्वयूधाभिगामिनी । एवं कालविशेषे तेनैव गोमात्रविषये दण्डाभावो दर्शितः ।

अदण्ड्याश् चोत्सवे गावः श्राद्धकाले तथैव च । इति ।

अत्र व्यासः ।

आक्रम्य यद् द्विजैर् भुक्तं परिक्षीणैश् च बान्धवैः ।
गोभिश् च नरशार्दूल वाजिमेधाद् विशिष्यते ॥

अत्र मनुः ।

एतद् विधानम् आतिष्ठेद् धार्मिकः पृथिवीपतिः ।
स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥

इति स्मृतिचन्द्रिकायां पश्वादिव्यतिक्रमविषयाणि