५२ अभ्युपेत्याशुश्रूषा

अथाभ्युपेत्याशुश्रूषाख्यस्य पदस्य विधिर् उच्यते

कर्मकरविषयाः

तत्र नारदः ।

शिष्यान्तेवासिभृतकाश् चतुर्थस् त्व् अधिकर्मकृत् ।
एते कर्मकरा ज्ञेया दासास् तु गृहजातयः ॥
सामान्यम् अस्वतन्त्रत्वम् एषाम् आहुः मनीषिणः ।
जातिकर्मकृतस् तूक्तो विशेषो वृत्तितस् तथा ॥ इति ।

एते शिष्यादयश् चतुर्विधाः शुश्रूषकाः कर्मकरा ज्ञेयाः । गृहजातयस् तु पञ्चदशविधाः शुश्रूषकाः दासाः ज्ञेयाः । एषां कर्मकराणां दासानां चास्वतन्त्रत्वलक्षणं धर्मं साधारणम् आहुर् मनीषिणो मन्वादयः । जातिकृतः कर्मकृतो वृत्तिकृतश् च विशेषः शिष्यान्तेवासिदासानाम् एवोक्त इत्य् अर्थः । तत्र शिष्याणां त्रैवर्णिकान्यतमत्वलक्षणः जातिकृतो विशेषः “वसन्ते ब्राह्मणम् उपनयीत” इत्यादिशास्त्रसिद्धो ऽध्यवसेयः । कर्मकृतस् तु तेषां विशेषो बृहस्पतिनोक्तः ।

विद्या त्रयी समाख्याता ऋग्यजुःसामलक्षणा ।
तदर्थं गुरुशुश्रूषां प्रकुर्याच् छास्त्रचोदिताम् ॥

शिष्य इति शेषः । तथा च नारदः ।

आ विद्याग्रहणाच् छिष्यः शुश्रूषेत् प्रयतो गुरुम् । इति ।

एवं गुरुदारादाव् अपि शुश्रूषा कार्या ।

तद्वृत्तिर् गुरुदारेषु गुरुपुत्रे तथैव च ।

इति तेनैवोक्तम् । भिक्षादानादिवृत्तितो विशेषः संस्कारकाण्डे शिष्याणाम् उक्त इति पुनरुक्तिभयान् नेहोच्यते । वृत्तितो विशेषं कंचिद् अभिधायाह स एव ।

समावृत्तस् तु गुरवे प्रदाय गुरुदक्षिणाम् ।
प्रतीयात् स्वगृहान् एषा शिष्यवृत्तिर् उदाहृता ॥

स्वगृहान् प्रतीयात् स्वमन्दिरं प्रति यायाद् इत्य् अर्थः । कः पुनर् अन्तेवासिनां जातिकर्मकृतो विशेष इत्य् अपेक्षिते बृहस्पतिः ।

विज्ञानम् उच्यते शिल्पं हेमकुप्यादिसंस्कृतिः ।
नृत्तादिकं च यत् प्राप्तुं कर्म कुर्याद् गुरोर् गृहे ॥

कङ्कणकटकादिनिर्माणविषयं नृत्तगीतादिकरणविषयं च चकारात् स्तम्भकुम्भादिरचनाविषयं च विज्ञानं शिल्पविज्ञानम् उच्यते, तत्प्राप्त्यर्थम् अन्तेवासी गुरोर् गृहे कर्म कङ्कणकटकादिकं कुर्याद् इत्य् अर्थः । अनेन हेमकारादिजातिकृतः कङ्कणकटकादिकर्मकृतश् च विशेषो ऽन्तेवासिनां दर्शितः । नारदस् त्व् अन्तेवासिनां कर्माभ्यासोपक्रमकाले कर्तव्यम् आह ।

स्वशिल्पम् इच्छन्न् आहर्तुं बान्धवानाम् अनुज्ञया ।
आचार्यस्य वसेद् अन्ते कालं कृत्वा सुनिश्चितम् ॥

अन्ते समीपे कालं कृत्वा सुनिश्चितम् एतावन्तं कालं मत्समीपे स्थातव्यम् इत्य् आचार्योक्तकालपरिमाणं सुनिश्चितं कृत्वेत्य् अर्थः । आचार्यस्यापि कर्तव्यम् आह स एव ।

आचार्यः शिक्षयेद् एनं स्वगृहे दत्तभोजनम् ।
न चान्यत् कारयेत् कर्म पुत्रवच् चैनम् आचरेत् ॥

अन्यत् कर्म स्वशिल्पव्यतिरिक्तं कर्म । एवं चान्तेवासिना कङ्कणादिकर्मफलार्पणमात्रेण गुरुशुश्रूषा कार्येत्य् अवसेयम् । स्वगृहे दत्तबोजनम् इति वदता वृत्तितो विशेषो ऽन्तेवासिनां दर्शितः । यस् त्व् अनेवंविध आचार्यस् तस्य दण्डम् आह कात्यायनः ।

यस् तु न ग्राहयेच् छिल्पं कर्माण्य् अन्यानि कारयेत् ।
प्राप्नुयात् साहसं पूर्वं तस्माच् छिष्यो निवर्तते ॥

शिष्यदौष्ट्ये ऽप्य् आह नारदः ।

शिक्षयन्तम् अदुष्टं च यस् त्व् आचार्यं परित्यजेत् ।
बलाद् वासयितव्यः स्याद् वधबन्धौ च यो ऽर्हति ॥

वासयितव्यः स्याद् आचार्यस्य पार्श्व इति शेषः । वधो ऽत्र ताडनं न प्राणच्छेदः, अपराधस्याल्पत्वात् । कृतविद्यस्य कृत्यम् आह स एव ।

शिक्षितो ऽपि कृतं कालम् अन्तेवासी समापयेत् ।
तत्र कर्म च यत् कुर्याद् आचार्यस्यैव तत्फलम् ॥

कृतं कालम् आचार्यसमीपस्थितेर् अवधित्वेन परिभाषितं कालम् । तत्र समापनीये कालशेषे प्रतिदिनम् अभासोपरमे ऽप्य् आचार्यस्यार्थलाभार्थम् अवश्यम् अभ्यस्तं कर्म कार्यम् । कालशेषे ऽपि गुरुगृह एव भोजनम् । तथा च याज्ञवल्क्यः ।

कृतशिल्पो ऽपि निवसेत् कृतं कालं गुरोर् गृहे ।
अन्तेवासी गुरुप्राप्तभोजनस् तत्फलप्रदः ॥

विद्याप्राप्तिशुश्रूषासमाप्त्यनन्तरम् अन्तेवासिनः कृत्यम् आह नारदः ।

गृहीतशिल्पः समये कृत्वाचार्यप्रदक्षिणम् ।
शक्तितश् चानुमान्यैनम् अन्तेवासी निवर्तयेत् ॥

भृतकानां तु नान्तेवासिवज् जातिकृतो वृत्तिकृतो वा विशेषः, किं तु भृतिकृतः कर्मकृतः कालकृतश् च विशेषः । तथा च बृहस्पतिः ।

यो भुङ्क्ते परदासीं तु स ज्ञेयो वनिताभृतः ।
कर्म तत्स्वामिनः कुर्याद् यथान्यो ऽर्थभृतो नरः ॥
बहुधार्थभृतः प्रोक्तस् तथा भागभृतो ऽपरः ।
हीनमध्योत्तमत्वं च सर्वेषाम् एव चोदितम् ॥
दिनमासार्धषण्मासत्रिमासाब्दभृतस् तथा ॥
कर्म कुर्यात् प्रतिज्ञातं लभेत परिभाषितम् ॥ इति ।

तत्स्वामिनो दासीस्वामिन इत्य् अर्थः । अर्थभृतस्य बहुविधत्वम् अर्थाल्पत्वमहत्वतारतम्येन ज्ञेयम् । तत्तारतम्यं च भृत्यशक्त्यनुसारतः प्रत्येतव्यम्,

भृत्यशक्त्यनुरूपा स्याद् एषां कर्मश्रया भृतिः ।

इति नारदस्मरणात् । स्वयम् एव भागभृतस्य विभागम् आह ।

द्विप्रकारा भागभृताः कृषिगोजीविनः स्मृताः ।
जातसस्यात् तथा क्षीरात् स लभेत न संशयः ॥

हीनमध्यमोत्तमत्वलक्षणः कर्मकृतो भेदो रक्षणादिकर्मनिबन्धनः इत्य् आह स एव ।

आयुधीयोत्तमस् तेषां मध्यमः सीरवाहकः ।
भारवाहो ऽधमः प्रोक्तस् तथैव गृहकर्मकृत् ॥

सीरवाहकः कर्षकः । यथैव भारवाहो ऽधमः प्रोक्तस् तथैव पाककरणाद्यखिलगृहव्यापारकृद् अधमः प्रोक्त इत्य् अर्थः । कालकृतस् तु भृत्यानां विशेषः कालाल्पत्वमहत्त्वनिबन्धनः । अधिकर्मकृतस् तु स्वरूपम् आह नारदः ।

सर्वेष्व् अधिकृतो यः स्यात् कुटुम्बस्य तथोपरि ।
सो ऽधिकर्मकृतो ज्ञेयः स च कौटुम्बकः स्मृतः ॥

सर्वेषु भृतकेषु अधिकृत उपरिकृतो ऽधिष्ठायक इति यावत् । अर्थेष्व् अधिकृत इति केचित् पठन्ति । तथायम् अर्थः - अर्थेषु क्षेत्रहिरण्यादिष्व् अधिकृतः पालकत्वेन नियुक्त इति । कुटुम्बस्योपरीत्य् अत्र कृत इत्य् अध्याहार्यः । कुटुम्बस्योपरिकरणम् आयव्ययकर्तृत्वेन नियोग एव । एवं निरूपिताः शिष्यान्तेवासिभृतकाधिकर्मकराः शुभकर्मकरा इत्य् आह स एव ।

शुभकर्मकरा ह्य् एते चत्वारः समुदाहृताः । इति ।

शुभकर्म च जुगुप्सितकर्मेतरद् विज्ञेयम् इति स एवाह ।

गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् ।
गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥
इष्टतः स्वामिनश् चाङ्गैर् उपस्थानम् अथान्ततः ।
अशुभं कर्म विज्ञेयं शुभं तु यद् अतः परम् ॥ इति ।

अवस्करः संमार्जितरेणुराशिः । शोधनशब्दः प्रत्येकं गृहद्वारादिचतुर्ष्व् अभिसंबध्यते । उज्झनं त्यागः । अन्ततो मूत्रपुरीषविरामे लेपनिर्मार्जनार्थं स्वामीच्छया स्वहस्ताद्यर्पणम् ॥

इति स्मृतिचन्द्रिकायां कर्मकरविषयाणि

दासनिरूपणम्

अथ दासनिरूपणम्

तत्र नारदः ।

जघन्यकर्मभाजस् तु शेषा दासास् त्रिपञ्चकाः । इति ।

शेषाः शिष्यान्तेवासिभृतकाधिकर्मकृद्भ्यो ऽवशिष्टाः । जघन्यकर्मभाजः गृहद्वाराशुचिस्थानशोधनाद्यशुभकर्मभाजः । अनेन दासानां कर्मतो भेद उक्तः । त्रिपञ्चकाः पञ्चदशसङ्ख्याकाः । दासशब्दव्युत्पत्तिप्रदर्शनमुखेन दासानां कर्मकरेभ्यो भेदम् आह कात्यायनः ।

स्वतन्त्रस्यात्मनो दानाद् दासत्वं दारवद् भृगुः । इति ।

यथा भर्तुः संभोगार्थं स्वशरीरदानाद् द्वारत्वं तथा स्वतन्त्रस्यात्मनः परार्थत्वेन दानाद् दासत्वम् इति भृगुर् आचार्यो मन्यत इत्य् अर्थः । अनेनात्यन्तपारार्थ्यम् आसाद्य शुश्रूषका दासाः, पारार्थ्यमात्रम् आसाद्य शुश्रूषका कर्मकरा इति भेदो ऽप्य् उक्त इत्य् अवगन्तव्यम् । अत्यन्तपारार्थ्यं तु तेषां भवति, यैस् तु स्वपुरुषार्थवृत्तिनिरोधेन पारार्थ्यम् आश्रितम् । एवंभूतं दासत्वं ब्राह्मणे तरेष्व् एव त्रिषु वर्णेषु विज्ञेयम् “दास्यं विप्रस्य न क्वचित्” इति तेनैवाभिधानात् । अनेन दासानां जातितो भेद उक्तः । विप्रेतरेष्व् अपि दास्यम् आनुलोम्येनैव ।

वर्णक्रमानुलोम्येन दास्यं न प्रतिलोमतः ।
राजन्यवैश्यशूद्राणां त्यजतां हि स्वतन्तराम् ॥

स्वतन्त्रतां त्यजताम् अत्यन्तपारार्थ्यं भजताम् इत्य् अर्थः । प्रतिलोमत इत्य् एतत् स्वधर्मपरित्यागिभ्यो यतिभ्यो ऽन्यत्र द्रष्टव्यम्,

वर्णानां प्रातिलोम्येन दासत्वं न विधीयते ।
स्वधर्मत्यागिनो ऽन्यत्र दारवद् दासता मता ॥

इति नारदस्मरणात् । यथोत्तमवर्णं प्रति हीनवर्णा सवर्णा वा भार्या भवति न पुनर् हीनवर्णं प्रत्य् उत्तमवर्णा, तथैव दासो ऽपि भवेद् इत्य् अर्थः । दारवद् दासतेतिवचनाद् विप्रस्य सवर्णं प्रति दासत्वम् आपदि प्राप्तम् इवाभातीति बुद्ध्या तन्निषेधार्थम् आह कात्यायनः ।

समवर्णे ऽपि विप्रं तु दासत्वं नैव कारयेत् । इति ।

यत् पुनः पुनरुक्तम् इव तेनैवोक्तम् ।

ब्राह्मणस्य हि दासत्वान् नृपतेजो विहन्यते ।
क्षत्रविट्छूद्रधर्मस् तु समवर्णे कदाचन ॥
कारयेद् दासकर्माणि ब्राह्मणं न बृहस्पतिः ॥ इति ।

अत्र वाक्यत्रयम् - तत्राद्यवाक्यस्य प्रातिलोम्येन दासत्वे कारिते कारयितुस् तेजोहानिर् जायत इत्य् अर्थः । दासत्वं तु न संकरजातिधर्म इति द्वितीयवाक्यस्यार्थः । दासवद् दासकर्माण्य् अपि सर्वथा ब्राह्मणं न कारयेत् सवर्णो ऽपीति तृतीयवाक्यस्यार्थ इति न किंचित् पुनरुक्तम् इव । स्वकीयेच्छाया विशिष्टपुरुषोपकारार्थं तत् कर्म कुर्वन्न् अपि ब्राह्मणो नाशुभं कर्म कुर्याद् इत्य् आह स एव ।

शीलाध्ययनसंपन्ने तदूनं कर्म कामतः ।
तत्रापि नाशुभं किंचित् प्रकुर्वीत द्विजोत्तमः ॥

यस्मात् परोपकारः कर्तव्यः तस्मात् तदूनं कर्म मध्यमोत्तमकर्मव्यतिरिक्तम् अपि कर्म कामतो वेतनम् अन्तरेण स्वेच्छया परहितार्थम् अपरः कुर्याद् इति पूर्वार्थस्यार्थः । स्वामिनं प्रत्य् आह मनुः ।

क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ ।
बिभृयाद् आनृशंस्येन स्वानि कर्माणि कारयेत् ॥

वृत्तिकर्शिताव् इत्य् अत्र द्वितीया पाशमन्त्रस्थद्वितीयावत् कर्मत्वमात्रविवक्षया प्रयुक्ता । एवं चायम् अर्थः - वृत्तिकर्शितं क्षत्रियं वैश्यं च दासभूतम् अक्रौर्येण कर्माणि कारयत् स्वामी पोषयेद् इति । वृत्तिकर्शिताव् इति वदन्न् अगत्यैव क्षत्रियवैश्ययोर् दासत्वाङ्गीकारः कार्यो न पुनः सति संभव इति दर्शयति । स्वानीति वदन् न संबन्धिजनकर्माणि कारयेद् इत्य् आह । कर्माणीति सामान्याभिधानेन जघन्यकर्माण्य् एव कारयितव्यानीति नस्ति नियम इति सूचयति । वृत्तिकर्शितौ बिभृयाद् इति वदन्न् आकाङ्क्षानुसारेण क्षत्रियवैश्ययोर् दास्यं कारयितव्यम्, न प्रभुत्वमातेणेत्य् एतद् अपि ज्ञापयति । अत एव यः प्रभुत्वमात्रेण कारयति तस्य ज्ञापितार्थाज्ञत्वनिबन्धनम् अपराधित्वम् अनूद्य दण्डं आह स एव ।

दास्यं तु कारयेन् मोहात् ब्राह्मणः संस्कृतान् द्विजान् ।
अनिच्छतः प्राभवत्याद् राज्ञा दाप्यः शतानि षट् ॥

प्रभवतो भावः प्राभवत्यं तस्मात् प्राभवत्यात् प्रभुत्वाद् एवेति यावत् । द्विजान् इति वदन् न दण्डः शूद्रविषय इति दर्शयति । अत एव शूद्रं यथा कथंचिद् अपि दास्यं करयेद् इत्य् आह स एव ।

शूद्रं तु कारयेद् दास्यं क्रीतम् अक्रीतम् एव वा ।
दास्यायैव हि सृष्टो ऽसौ स्वयम् एव स्वयंभुवा ॥

विष्णुस् तु प्रातिलोम्येन दास्यं कारयितुर् दण्डम् आह - “यस् तूत्तमवर्णं दास्ये नियोजयति तस्योत्तमसाहसो दण्डः” इति ॥

इति स्मृतिचन्द्रिकायां दासनिरूपणम्

दासविषये

अथान्यानि दासविषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र नारदः ।

गृहजातस् तथा क्रीतो लब्धो दायाद् उपागतः ।
अनाकालभृतस् तद्वद् आहितः स्वामिना च यः ॥
मोक्षितो महतश् चर्णाद् युद्धे प्राप्तः पणे जितः ।
तवाहम् इत्य् उपगतः प्रव्रज्यावसितः कृतः ॥
भक्तदासश् च विज्ञेयस् तथैव वडवाहृतः ।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥ इति ।

गृहजातः स्वगृहदास्यां जातः । क्रीतो मूल्येन स्वाम्यन्तरात् प्राप्तः । लब्धस् तत एव प्रतिग्रहादिना प्राप्तः । लब्धस् तत एव प्रतिग्रहादिना प्राप्तः । दायाद् उपागतः रिक्थग्राहित्वेन लब्धः । अनाकालभृतः दुर्भिक्षे पोषितः । आहितः स्वामिन ऋणदातर्य् आधित्वं नीतः । ऋणान् मोक्षितः ऋणमोचनप्रत्युपकारतया दासत्वम् अभ्युपगतः । युद्धे प्राप्तः समरे विजित्य गृहीतः । पणे जितो दासत्वपणके द्यूतादौ जितः । तवाहम् इत्य् उपगतः तव दासो ऽस्मीति स्वयम् एवाभ्युपगतः । प्रव्रज्यावसितः प्रभ्रष्टसंन्यासी । कृतः एतावन्तं कालं तवाहं दासो भवामीत्य् उपगतः । भक्तदासः, भक्षितं भक्तम्, मूल्यद्वारेण यावत् ते ददामि तावद् अहं ते दास इत्य् उपगतः । वडवाहृतः, वडवा गृहदासी ताम् उद्वाह्य तत्स्वाम्यनुमत्यर्थं दासत्वेन प्रविष्टः । आत्मनो विक्रेता स्वयम् एवात्मनो विक्रयम् अर्थाद्यर्थं कृतवान् । इत्य् एवं धर्मशास्त्रे दासाः पञ्चदशप्रकाराः स्मृताः इत्य् अर्थः । अत्राद्यानां गृहजातक्रीतलब्धदायागतानां चतुर्णां दासत्वापगमः स्वामिप्रसादवशाद् एव नान्यथेत्य् आह स एव ।

तत्र पूर्वश् चतुर्वर्गो दासत्वान् न विमुच्यते ।
प्रसादात् स्वामिनो ऽन्यत्र दास्यम् एषां क्रमागतम् ॥

एवम् अन्यस्याप्य् आत्मविक्रेतुर् दासत्वं स्वामिप्रसादाद् अन्यतो न विमुच्यत इत्य् आह स एव ।

विक्रीणीते स्वतन्त्रः सन् य आत्मानं नराधमः ।
स जघन्यतम्स् तेषां सो ऽपि दास्यान् न मुच्यते ॥

प्रसादात् स्वामिनो ऽन्यत्रेत्य् अत्रानुषज्यते । ततश् चायम् अर्थः - आत्मविक्रेतापि गृहजातादिवत् स्वामिप्रसादाद् अन्यतो दास्यान् न विमुच्यत इति । एवं च गृहजातादयो ऽप्य् आत्मविक्रेतृपञ्चमाः स्वामिप्रसादाद् अनाकालभृतादय इव दास्यान् मुच्यन्त इति वचोभङ्ग्या दर्शितम् इति मन्तव्यम् । स्वामिप्राणरक्षणाद् अपि गृहजातादयो ऽनाकालभृतादयश् च सर्वे दास्याद् विमुच्यन्त इत्य् आह स एव ।

यो वैषां स्वामिनां कश्चिन् मोचयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्येत पुत्रभागं लभेत च ॥

एषां पञ्चदशविधदासानां मध्य इत्य् अर्थः । एतच् च स्वामिनः प्रसादात् प्राणरक्षणाद् वा दास्यापगमनं प्रव्रज्यावसितेतरविषयम्,

प्रव्रजावसितो राज्ञो दास आमरणान्तिकः ।

इति याज्ञवल्क्यस्मरणात् । राज्ञो दासः पार्थिवस्यैव दासः नान्यस्येत्य् अर्थः । अत एव नारदः ।

राज्ञ एव तु दासः स्यात् प्रव्रज्यावसितो नरः ।
न तस्य प्रतिमोक्षो ऽस्ति नात्र शुद्धिः कथंचन ॥

नरो विप्रेतरो ऽभिप्रेतः, विप्रस्य दास्यप्रतिषेधात् । अत एव कात्यायनः ।

प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजातयः ।
निर्वासं कारयेद् विप्रं दासत्वं क्षत्रविड् भृगुः ॥ इति ।

निर्वासं कारयेद् राजेति शेषः । तथा च नारदः ।

पारिव्राज्यं गृहीत्वा तु यः स्वधर्मं न तिष्ठति ।
श्वपादेनाङ्कयित्वा तु राजा शीघ्रं प्रवासयेत् ॥

श्वपादेन शुनः पादसदृशतप्तायसेन राज्ञा दास्यम् अकुर्वतोः क्षत्रियवैश्ययोर् अपि निर्वास्म् उक्तविधिना कार्यम्, स्वधर्मे न तिष्ठतीति सामान्येनाभिधानात् । यत् तु तेनैवोक्तम्,

द्वाव् एतौ कर्मचण्डालौ लोके दूरबहिष्कृतौ ।
प्रव्रज्योपनिवृत्तश् च वृथाप्रव्रजितश् च यः ॥

इति, तत् राजदासेतरविषयम्, राजदासस्य बहिष्कारानुपपत्तेः । एवं च प्रव्रज्यावसितेतरदासविमोक्षः स्वामिनः प्रसादप्राणरक्षणाभ्यां भवतीत्य् अवगन्तव्यम् । अनाकालभृतादीनां तु प्रव्रज्यावसितात्मविक्रेतृव्यतिरिकानां नवानां प्रत्येकम् एकैकेनापि गोयुगदानादिना दास्यम् अपनीयत इत्य् आह स एव ।

अनाकालभृतो दास्यान् मुच्यते गोयुगं ददत् ।
आहितो ऽपि धनं दत्वा स्वामी यद्य् एनम् उद्धरेत् ॥
ऋणं तु सोदयं दत्वा ऋणी दास्यात् प्रमुच्यते ।
तवाहम् इत्य् उपगतो युद्धे प्राप्तः पण्र् जितः ॥
प्रतिशीर्षप्रदानेन मुच्येरन् तुल्यकर्मणा ।
कृतकालव्यपगमात् कृतको ऽपि विमुच्यते ॥
भक्तस्योत्क्षेपणात् सद्यो भक्तदासः प्रमुच्यते ।
निग्रहाद् वडवायास् तु मुच्यते वड्वाहृतः ॥ इति ।

एतद् उक्तं भवति - दुर्भिक्षे पोषणेन कारितो दासो गोद्वयार्पणाद् विमुच्यते । आहितदासस् त्व् आदात्रा स्वगृहीते ऋणे प्रत्यर्पिते सत्य् उत्तमर्णदास्याद् विमुच्यते । ऋणदासस् तु स्वकृतम् ऋणं येन यावद् धनं दत्वापाकृतं तस्मै तावद् धनं सवृद्धिकं ददद् विमुच्यते । तवाहम् इत्य् उपगतादयस् त्रयो दासविशेषास् तु स्वाभिनिर्वर्त्याखिलव्यापारनिर्वर्तकदासान्तरप्रदानाद् विमुच्यन्ते । कृतस् तु दासविशेषो दास्यावधित्वेन परिभाषितकालस्यात्ययाद् विमुच्यते । गृहदासीलोभेन दासत्वम् आपन्नस् तु तत्संभोगत्यागाद् विमुच्यत इति । याज्ञवल्क्यस् तु दासाभासानां विसर्जनम् आह ।

बलाद् दासीकृतश् चोरैः विक्रीतश् चापि मुच्यते । इति ।

यो बलात्कारेणादासो ऽपि केनचित् प्रभुणा दासः कृतः, यश् च चोरैर् अपहृत्य दासत्वेन विक्रीतः, आहितो दत्तो वा स यस्य पार्श्वे दासभावेन तिष्ठति तेन प्रभुना मोचनहेतुम् अन्तरेणैव (?) शीघ्रम् एवासौ मोचनीय इत्य् अर्थः । यति तेन लोभादिवशाद् असौ न मुक्तस् तदा राज्ञा मोचयितव्यः । तथा च नारदः ।

चोरोपहतविक्रीता ये च दासीकृता बलात् ।
राज्ञा मोचयितव्यास् ते दासत्वं तेषु नेष्यते ॥

यस् तु पूर्वम् एकस्य दासः सन्न् अपरस्य दास्यम् अङ्गीकरोति असाव् अपरेण विसर्जनीय इति वचोभङ्ग्या स एवाह ।

तवाहम् इति चात्मानं यो ऽस्वतन्त्रः प्रयच्छति ।
न समं नाप्नुयात् कामं पूर्वस्वामी लभेत तम् ॥

अस्वतन्त्रः परदासत्वेनास्वतन्त्रः कामं नूतनस्वामिनि दास्यम्, पुरातनस्वामिनि दासेन काम्यमानत्वात् । एवं यद् एतद् दासम् अधिकृत्योक्तं तत् सर्वं यथायोग्यं दास्याम् अपि द्रष्टव्यम् । दासीस्वामिनम् अधिकृत्य विशेषम् आह कात्यायनः ।

स्वदासीं यस् तु संगच्छेत् प्रसूता च भवेत् ततः ।
अवेक्ष्य बीजं कार्या स्यान् न दासी सान्वया तु सा ॥

स्वकृतगर्भाधानम् अनुसंधाय स्वामिना स्वदासी सन्तानसहिता दासत्वविमोचकविधिना स्वकृतगर्भाधानादेर् दासत्वपरिहारार्थम् अदासीत्वेन कार्या स्याद् इत्य् अर्थः । कः पुनर् दासत्वविमोचको विधिर् इत्य् अपेशिते (?) नारदः ।

स्वदासम् इच्छेद् यः कर्तुम् अदासं प्रीतिमानसः ।
स्कन्धाद् आदाय तस्यासौ (?) भिन्द्यात् कुम्भं सहाम्भसा ॥
साक्षताभिः सपुष्पाभिः मूर्धन्य् अद्भिर् अवाकिरेत् ।
अदास इति चोक्त्वा त्रिः प्राङ्मुखस् तम् अथोत्सृजेत् ॥

एवं समुत्सर्गे सति दासत्वकृतम् अयोग्यत्वम् अपैतीत्य् आह स एव ।

ततः प्रभृति कर्तव्यः स्वाम्य् अनुग्रहपालितः ।
भोज्यान्नो ऽथ प्रतिग्राह्यो भवत्य् अभिमतः सताम् ॥

स्वाम्यनुग्रहेण कष्टतरदशापाकरणरूपेण पालितः निजस्वरूपं नीतः संभाषणादियोग्यो भवति तदानीम् एवेत्य् अर्थः । दासीम् अदासीं कर्तुम् इच्छतो ऽपि समानम् एतद् विधानम्, दासम् इत्य् अत्र लिङ्गवचनयोर् उद्देश्यविशेषणयोर् अविवक्षितत्वात् । स्वाम्यनुज्ञया पालितो रक्षितः भोज्यान्नः प्रतिग्राह्यः, सतां संमतश् च भवतीत्य् अर्थः । अत एव,

दासस्य तु धनं यत् स्यात् स्वामी तस्य प्रभुः स्मृतः ।

इति कात्यायनेन दासधन्प्रभुत्वे स्मृते ऽपि दासीधने ऽपि स्वामिनः प्रभुत्वं स्मृतम् इति मन्तव्यम् । तथा च स एव दासेन या परिणीता सापि दासीत्वम् अपद्यत इत्य् आह ।

दासेनोढा त्व् अदासी या सापि दासीत्वम् आप्नुयात् ।
यस्माद् भर्ता प्रभुस् तस्याः स्वाम्यधीनः प्रभुर् यतः ॥

इति स्मृतिचन्द्रिकायां दासविषयाणि

समाप्तम् अभ्युपेत्याशुश्रूषाख्यस्य पदस्य विधिवितानम्