५१ दत्ताप्रदानिकम्

अथ दत्ताप्रदानिकाख्यस्य पदस्य विधिर् उच्यते

अदेयविषयाः

तत्र बृहस्पतिः ।

एषाखिलेनाभिहिता संभूयोत्थाननिष्कृतिः ।
अदेयदेयदत्तानाम् अदत्तस्य च कथ्यते ॥

अदेयादीनां स्वरूपम् अधुना कथ्यत इत्य् अर्थः । तत्र तावद् अदेयस्य स्वरूपभेदौ कथयति ।

सामान्यं पुत्रदाराधिसर्वस्वन्यासयाचितम् ।
प्रतिश्रुतं तथान्यस्य न देयं त्व् अष्टधा स्मृतम् ॥

सामान्यं स्वम् अनेकस्वामिकं रथ्याद्य् अत्र विवक्षितम्, अन् त्व् अविभक्तकुटुम्बस्वामिकं कनकादिकम्, तस्य देयत्वेन वक्ष्यमाणत्वात् । यद्य् अपि अनेकस्वामिकत्वेन रथ्यादिकम् अपि कुटुम्बधनतुल्यम्, तथापि स्वतन्त्रानेकस्वामिकत्वाद् अदेयम् । तथा हि - न तावत् स्वाम्यन्तरानुमतिम् अन्तरेण केनचित् स्वामिना तद् दातुं शक्यते । स्वतन्त्रबहुस्वामिके रथ्यादाव् अनुमतिर् दुर्घटैव । कुटुम्बधने तु स्वतन्त्रकतिपयस्वामिके ऽनुमतिः सुलभैवेति भेदः । ननु पुत्रदारसर्वस्वेषु पित्रादिस्वामिकेषु दानार्हेषु कथम् अदेयत्वम् । उच्यते, यथा यजमानधनानाम् अपि माषाणाम् “अयज्ञिया वै माषाः” इति निषेधश्रुतेर् अयज्ञियत्वम्, तथा पुत्रदारसर्वस्वानि स्वभूतान्य् अपि “देयं दारसुताद् ऋते । नान्वये सति सर्वस्वं” इत्यादिदाननिषेधकस्मृतिबलात् अदेयानि । आधिन्यासयाचितकेषु तु अदेयत्वं स्वत्वाभावाद् इति मन्तव्यम् । अन्यस्मै प्रतिश्रुतमन्यस्मै वाचा दत्तम् । यद्य् अपि वाग्दाने स्वत्वं नापैति, तथापि “नान्वये सति सर्वस्वं यच् चन्यस्मै प्रतिश्रुतम्” इत् निषेधस्मृतिबलात् सर्वस्ववद् अदेयं प्रतिश्रुतम् अपीति मन्तव्यम् । सर्वस्वस्याप्य् अदेयत्वम् अविभक्तान्वयद्रव्यसंयुक्तस्यैव, दातुः तस्यैव दाननिषेधात् । तेन स्वसन्तानविहीनस्य स्वसन्तानाय दत्तदायस्य वा सर्वस्वं देयम् । नारदेनाप्य् अदेयत्वम् एवम् एवान्वाहितादीनाम् उक्तम् ।

अन्वाहितं याचितकम् आदिः साधारणं च यत् ।
निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ॥
आपत्स्व् अपि हि कष्टासु वर्तमानेन देहिना ।
अदेयान्य् आहुर् आचार्याः यच् चान्यस्मै प्रतिश्रुतम् ॥ इति ।

अन्वाहितम् अन्यस्मै दातुम् अर्पितम् । अन्वाहितवत् स्त्रीधनम् अप्य् अदेयम्, स्वत्वाभावात् । अत एव दक्षः ।

सामान्यं याचितं न्यासः आधिर् दाराश् च तद्धनम् ।
अन्वाहितं निक्षेपः सर्वस्वं चान्वये सति ॥
आपत्स्व् अपि न देयानि नव वस्तूनि पण्डितैः ।
यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः ॥ इति ।

मूढात्मा दानानिर्वर्तकसामान्यद्रव्यादौ तन्निवर्तकत्वबुद्ध्या प्रवर्तमानत्वात् । प्रायश्चित्तीयते पुत्रदारादिदाने ऽतिक्रान्तनिषेधत्वात् । एवं च अत्र प्रतिग्रहीताप्य् असाधुर् एव, अयुक्तकारित्वात् । अत एवोभयोर् अपि दण्डम् आह नारदः ।

गृह्णात्य् अदत्तं यो मोहाद् यश् चादेयं प्रयच्छति ।
दण्डनीयाव् उभाव् एतौ धर्मज्ञेन महीक्षिता ॥

अदत्तग्रहणम् अदेयस्याप्य् उपलक्षणार्थम् । तेनादेयप्रतिग्रहीतुर् अदत्तप्रतिग्रहीतुश् च दण्डो ऽनेन वचनेनोक्त इति मन्तव्यम् । गृहीतस्य च परावर्तनम् अपि महीक्षिता कार्यम् इत्य् अदत्तादेयग्रहणाद् गम्यते, अदत्तेनादेयेन च दानसिद्ध्यभावात् परस्वत्वानुत्पत्तेः ॥

इति स्मृतिचन्द्रियायाम् अदेयविषयाणि

देयविषयः

अथ देयविषयाणि

अत्र नारदः ।

कुटुम्बभरणाद् द्रव्यं यत् किंचिद् अतिरिच्यते ।
तद् देयम् उपहत्यान्यं ददद् दोषम् अवाप्नुयात् ॥

अन्यम् उपहत्य भर्तव्यकुटुम्बम् उपरुध्येत्य् अर्थः । उपरोधश् च निःस्वतया भोजनाच्छादनोच्छेदननिबन्धनो ऽत्राभिमतो न तु ताम्बूलादिभोगसाधनवैकल्यनिबन्धनः । यद् आह बृहस्पतिः ।

कुटुम्बभक्तवसनाद् देयं यद् अतिरिच्यते । इति ।

भक्तं भोजनम् । वसनम् आच्छादनम् । धनधान्यादिद्रव्यम् अत्र यत्पदेनोक्तम् । उपवनादिद्रव्यं तु प्रत्य् आह स एव ।

सप्तारामगृहक्षेत्राद् यद् यत् क्षेत्रं प्रचीयते ।
पित्र्यं वाथ स्वयं प्राप्तं तद् दातव्यं विवक्षितम् ॥

सप्तभ्य आरामादिभ्यो यत् प्रचीयते अधिकं स्यात् तद् दातव्यम् इति स्मृतिशास्त्रे विवक्षितम् इत्य् अर्थः । यत् तु कात्यायनेनोक्तम्,

सर्वस्वगृहवर्जं तु कुटुम्बभरणाधिकम् ।
यद् द्रव्यं तत् स्वकं देयम् ॥॥॥॥॥॥। ॥

इति, तत् सप्तानधिकगृहविषयम् । स्वकं स्वकीयं यथेष्टविनियोगार्हद्रव्यम् इति यावत् । कथं तर्हि पुत्रदानम् । स्वस्वामिलक्षणसंबन्धाभावात् केवलं जन्यजनकलक्षण एव तत्र संबन्ध इत्य् आशङ्क्याह वसिष्ठः - “शुक्लशोणितसंभवः पुरुषः मातापितृनिमित्तकः, तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतः” इति । उत्पादनमात्रेण पितृभ्याम् आर्जितत्वात् यथेष्टविनियोगार्हत्वं पुत्रस्याप्य् अस्तीति मत्वा प्रभवत इत्य् उक्तम् । तेन पुत्रो ऽपि देयभूतो भवतीत्य् अभिप्रायः । यत् तु स्मृत्यन्तरम्,

सुतस्य सुतदाराणां वशित्वं चानुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः ॥

इति, यच् च याज्ञवल्क्येनोक्तम्,

स्वकुटुम्बाविरोधेन देयं दारसुताद् ऋते ।

इति, तद् वचनद्वयम् अनेकसुतशून्यविषयम् । तत्र हि पुत्रदाने कृते सन्तानविच्छेदापत्तेः । अत आह वसिष्ठः - “न त्व् एकं पुत्रं दद्यात् प्रतिगृह्णीयाद् वा स हि सन्तानाय पूर्वेषाम्” इति । अनेकपुत्रेष्व् अपि मातापितृवियोगसहनक्षम एव देयः ।

विक्रयं चैव दानं च न नेयाः स्युर् अनिच्छवः ।
दाराः पुत्रश् च ॥॥॥॥॥॥॥॥॥॥॥॥॥॥ ॥

इति कात्यायनस्मरणात् । यथा दाराः विक्रयं दानं वा भर्त्रा न नेयास् तथा मातृपितृभ्यां पुत्रा अपि मातृपितृवियोगानिच्छवो न नेयाः स्युर् इत्य् अर्थः । “न नेयाः स्युर् अनिच्छवः” इत्य् एतद् अनापद्विषयम् ।

आपत्काले तु कर्तव्यं दानं विक्रय एव वा ।
अन्यथा न प्रवर्तन्त इति शास्त्रविनिश्चयः ॥

इति तान् एवाधिकृत्य तेनैवानन्तरम् उक्तत्वात् । यस् तु नारदेनोक्तम्,

निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ।
आपत्स्व् अपि हि कष्टासु वर्तमानेन देहिना ॥
अदेयान्य् आहुर् आचार्याः ॥॥॥॥॥॥॥॥। ।

इति, तद् अप्य् एकपुत्रविषयम्, अन्यथा पूर्वोक्तवचनविरोधस्य दुष्परिहरत्वात् । ननु मातुः प्रभुत्वे ऽपि पुत्रदानम् अयुक्तम्, अस्वतन्त्रत्वात् । सत्यम्, स्वतन्त्रपुरुषानुज्ञया तु युक्तम् एव । अत एव वसिष्ठः - “न स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद् वान्यत्रानुज्ञानात् भर्तुः” इति । किंचिद् भर्त्रापि भार्यानुज्ञातम् एव देयम्, किंचिन् मुख्येनापि भ्रात्रनुज्ञातम् एव देयम्, किंचित् स्वार्जितम् अपि दासेन स्वाम्यनुज्ञातम् एव देयम् । तथा च बृहस्पतिः ।

सौदायिकं क्रमायातं शौर्यप्राप्तं च यद् भवेत् ।
स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिम् अवाप्नुयात् ॥

सौदायिकं विवाहलब्धम्, तद् यस्या विवाहे लब्धं तया भार्ययानुज्ञातम् एव देयम्, पितामहादिक्रमायातं त्व् अविभक्तधनैर् ज्ञातिभिर् अनुजातम् एव देयम्, भृत्येन युद्धलब्धं स्वाम्यनुज्ञातम् एव देयम् इत्य् अर्थः । स्त्रीज्ञात्यनुज्ञातं सावशेषं देयम्,

वैवाहिके क्रमायाते सर्वदानं न विद्यते ।

इति तेनैवोक्तत्वात् । स्वार्जितं त्व् अविभक्तधनैर् अननुज्ञातम् अपि देयम्, “स्वयं प्राप्तम्” इति तेनैवभिहितत्वात् । एवं च स्वार्जितं स्थावरम् अपि सप्ताधिकं ज्ञात्यननुज्ञातं देयम् । यत् पुनस् तेनैवोक्तम्,

विभक्ता वाविभक्ता वा दायादाः स्थावरे समाः ।
एको ह्य् अनीशः सर्वत्र दानाधमनविक्रये ॥

इति, तत् सप्तानधिकाविभक्तस्थावरविषयम् । विभिक्ता अपि समाः, किं पुनर् अविभक्ता इति व्याख्येयम् । अन्यथा विभागो ऽनर्थकः स्यात् । एवं च यद् उक्तं स्मृत्यन्त्रे,

एको ऽपि स्थावरे कुर्याद् दानाधमनविक्रयम् ।
आपत्काले कुटुम्बार्थे धर्मार्थे ऽपि विशेषतः ॥

इति, तत् क्रमायातविभक्तस्थावरविषयं सप्तानधिकस्थावरविषयं चेति मन्तव्यम्, अपेः काकाक्षिवद् उभयत्र संबन्धात् । यदा परेण संबन्धस् तदायम् अर्थः - स्थावरे ऽपि स्थावरबहुत्वाभावे ऽपि एको दानादिकं कुर्याद् इति । आधिर् अपि दानम्, तेन रूपेण स्वत्वावगतेः “बन्धाचारेण बन्धकम्” इति श्रवणाच् च देयम् इत्य् अनुषज्यते । एवं चाधेर् अदेयत्वं पूर्वस्मिन् प्रकरणे ऽभिहितम् आधिरूपाद् रूपान्तरेणेति मन्तव्यम् । देयोक्तिप्रसङ्गाद् देयस्य प्रतिग्रःईष्यतः प्रतिग्रहप्रकारविशेषो याज्ञवल्क्येन दर्शितः ।

प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विसेषतः । इति ।

प्रकाशः प्रकटः ससाक्षिक इति यावत् । पुत्रस्य प्रतिग्रहे प्रकारविशेषो वसिष्ठेन दर्शितः - “पुत्रं प्रतिग्रहीष्यन् बन्धून् आहूय राजनि चावेद्य निवेशनस्य मध्ये व्याहृतिभिर् हुत्वादूरेबान्धवम् असंनिकृष्टम् एव गृह्णीयात्” इति । अदूरेबान्धवं संनिहितमातुलादिबन्धवम् । असंनिकृष्टं संनिकृष्टभ्रातृपुत्रादिव्यतिरिक्तम् एव प्रतिगृह्णीयाद् इत्य् अर्थः । प्रासङ्गिकम् उक्त्वा प्रकृतम् अपि याज्ञवल्क्येनोक्तम् ।

देयं प्रतिश्रुतं चैव दत्वा नापहरेत् पुनः । इति ।

इदं ते दास्यामीति वाचा यत् प्रतिश्रुतं तद् अवश्यं तस्मै दातव्यम्, दत्तं च न सर्वथा पुनर् अपहर्तव्यम् इत्य् अर्थः । यः पुनः प्रतिश्रुतं न ददाति, दत्तं वापहरति तस्य दोषम् आह हारीतः ।

प्रतिश्रुतार्थादानेन दत्तस्योच्छेदनेन च ।
विविधान् नरकान् याति तिर्यग्योनौ च जायते ॥

प्रतिश्रुतार्थस् तु विना दानेन ऋणवन् नापैतीत्य् आह स एव ।

वाचैव यत् प्रतिज्ञातं कर्मणा नोपपादितम् ।
ऋणवद् धर्मसंयुक्तम् इह लोके परत्र च ॥

यद् वित्तं धर्मसंयुक्तं प्रतिग्रहीतृप्रवृत्तधर्मसंपत्त्यर्थं वाचा प्रतिज्ञानं न पश्चात् समर्पितम्, तद् इह परत्र च ऋणवन् नापैतीत्य् अर्थः । ऋणवद् इत्य् अभिधानेनार्थाद् अप्रदायको दाप्यो दण्ड्यश् चेत्य् उक्तम् । उक्तं च कात्यायनेन ।

स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् ।
न दद्याद् ऋणवद् दाप्यः प्राप्नुयात् पूर्वसाहसम् ॥

ब्राह्मणाय प्रवृतधर्मपरित्यागरहितायेति (?) शेषः । “प्रतिश्रुत्याप्य् अधर्मसंयुक्ते न दद्यात्” इति गौतमस्मरणात् ॥

इति स्मृतिचन्द्रिकायां देयविषयाणि

दत्तविषयाः

अथ दत्तविषयाणि

तत्र नारदः ।

पण्यमूल्यं भृतिस् तुष्ट्या स्नेहात् प्रत्युपकारतः ।
स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ॥

पण्यस्य क्रीतद्रव्यस्य मूल्यम् । भृतिस् तु कात्यायनेन दर्शिता ।

अविज्ञातोपलब्ध्यर्थं दानं यत्र निरूपितम् ।
उपलब्धक्रियालब्धं सा भृतिः परिकीर्तिता ॥

सप्रयोजनक्रियासंपादनार्थं दत्तं भृतिर् उच्यत इत्य् अर्थः । तुष्ट्येत्य् अनेन वन्दिजनादिभ्यो दत्तं लक्ष्यते । स्नेहाद् इत्य् अनेन च दुहित्रादिभ्यो दत्तम् । प्रत्युपकारतः प्रत्युपकारार्थम् उपकृतसकाशाल् लब्धम् । तत्प्रदर्शनार्थम् आह कात्यायनः ।

भयत्राणाय रक्षार्थं तथा कार्यप्रसाधनात् ।
अनेन विधिना लब्धं विद्यात् प्रत्युपकारतः ॥

भयत्राणाय भयाद् रक्षणाय । रक्षार्थं बालधनादिरक्षार्थम् । कार्यप्रसाधनात् विवाहादिसंपादनात् । अनेन विधिना लब्धं भयत्राणादिलक्षणोपकरणाल् लब्धम् इति यावत् । स्त्रीशुल्कं परिणयनार्थं कन्याज्ञातिभ्यो दत्तम् । अनुग्रहार्थं परोपकारः कर्तव्य इति विधिबलाद् दत्तम् । तत्र सत्पात्रे ऽनुग्रहाद् दत्तं सफलं भवतीत्य् आह नारदः ।

मातापित्रोर् गुरौ मित्रे विनीते चोपकारिणि ।
दीनानाथविशिष्टेभ्यो दत्तं तु सफलं भवेत् ॥

उपकारिणि परोपकारपरे । सफलं फलातिशयोपेतम् इत्य् अर्थः । दत्तं दानविदो विदुः तद् एतत् पण्यमूल्यादि सप्तविधं दत्तम् एव दानविदो विदुः, अपरावर्तनीयं विदुर् इत्य् अर्थः । बृहस्पतिर् अपि ।

भृत्या तुष्ट्या पण्यमूल्यं स्त्रीशुल्कम् उपकारिणे ।
श्रद्धानुग्राहसंप्रीत्या दत्तम् अष्टविधं विदुः ॥

उपकारिणे यदि सर्वस्वम् अर्प्यते तदा दत्तं न भवतीत्य् आह कात्यायनः ।

प्राणसंशयम् आपन्नं यो माम् उत्तारयेद् इतः ।
सर्वस्वं तस्य दास्यामीत्य् उक्ते ऽपि न तथा भवेत् ॥

इति स्मृतिचन्द्रिकायां दत्तविषयाणि

अदत्तविषयाः

अथादत्तविषयाणि

अदत्तं तु भयक्रोधशोकवेगरुगन्वितैः ।
तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥
बालमूढास्वतन्त्रार्तमत्तोन्मत्तापवर्जितम् ।
कर्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् ॥
अपात्रे पात्रम् इत्य् उक्ते कार्ये चाधर्मसंहिते ।
यद् दत्तं स्याद् अविज्ञानाद् अदत्तं तद् अपि स्मृतम् ॥ इति ।

एतद् उक्तं भवति - भयोप्तप्तेन बन्दिग्रहादिभ्यो दत्तम्, क्रोधोपतप्तेन क्रोधविषयभूतानाम् अविभक्तधनानां धनव्ययं कर्तुम् इतरेभ्यो दत्तम्, शोकवेगाद्युपतप्तेन किं स्थितेन धनेनेति तात्कलिकया बुद्ध्या दत्तम्, उत्कोचेन राजकीयादिभ्यो दत्तम्, उपहासेन दत्तम्, व्यत्यासच्छलयोगतः प्रच्छन्नतया ग्रहीतुं परप्रतारणार्थं जनसमक्षं दत्तम्, अप्राप्तव्यवहारेण दत्तम्, मूढेन मनसि स्थिताद् अन्यस्मै दत्तम्, अस्वतन्त्रेण दासादिना दत्तम्, आर्तेन रोगोपहतप्रकृतिना दत्तम्, मत्तेन धुत्तूरादिभक्षणस्खलितधिया दत्तम्, उन्मत्तेन पित्तोद्रेकादिना स्खलितधिया दत्तम्, कर्मकरणार्थं सत्काररूपेणाकर्मकराय दत्तम्, प्रतिलाभेच्छया प्रतिलाभम् अकुर्वाणाय दत्तम्, अयोग्याय योग्योक्तिमात्रेण दत्तम्, असद्विनियोगकारिणे सद्विनियोगकृद् इत्य् उक्तिमात्रेण दत्तम् इत्य् एवं षोडशप्रकारम् अपि पुनःप्रत्याहरणीयत्वाद् अदत्तम् इत्य् उच्यत इति । पुनःप्रत्याहरणीयत्वम् एवंविधेष्व् आह कात्यायनः ।

कामक्रोधास्वतन्त्रार्तक्लीबोन्मत्तप्रमोहितैः ।
व्यत्यासपरिहासाच् च यद् दत्तं तत् पुनर् हरेत् ॥
या तु कार्यस्य सिद्ध्यर्थम् उत्कोचा स्यात् प्रतिश्रुता ।
तस्मिन्न् अपि प्रसिद्धे ऽर्थे न देया स्यात् कथंचन ॥
अथ प्राग् एव दत्ता स्यात् प्रतिदाप्यस् तथा बलात् ।
दण्डं चैकादशगुणम् आहुर् गार्गीयमानवाः ॥ इति ।

उत्कोचायाः स्वरूपम् अपि तेनैव दर्शितम् ।

स्तेनसाहसिकोद्वृत्तपारजायिकशंसनात् ।
दर्शनाद् वृत्तनष्टस्य तथासत्यप्रवर्तनात् ॥
प्राप्तम् एतैस् तु यत् किंचित् तद् उत्कोचाख्यम् उच्यते ।
न दाता तत्र दण्ड्यः स्यान् मध्यस्थश् चैव दोषभाक् ॥ इति ।

एतद् उक्तं भवति - यदि मह्यं न प्रयच्छति तदा त्वत्कृतं कथयामीति भीतिम् उत्पाद्य स्तेनादिसकाशाद् यत् किंचिद् धनम् आदत्ते, तथा यदि मह्यं न प्रयच्छसि तदा त्वां वारकस्य दर्शयामीति भीतिम् उत्पाद्य पलायितसकाशाद् यत् किंचिद् आदत्ते, तथा यदि मह्यं प्रयच्छसि तदा सत्यं कृतम् इति स्वामिनः पुरस्ताद् असत्यतया वच्मीत्य् अनुकूलम् उक्त्वा दासादिसकाशात् यत् किंचिद् आदत्ते, तत् सर्वम् उत्कोचाख्यम् । तद् राज्ञा दात्रे दाप्यम्, उत्कोचापादकग्राहकौ च दण्डनीयाव् इति । बृहस्पतिः पुनःप्रत्याहरणीयम् इत्य् आह ।

प्रतिलाभेच्छया दत्तम् अपात्रे पात्रशङ्कया ।
कार्ये वाधर्मसंयुक्ते स्वामी तत् पुनर् आप्नुयात् ॥

मनुर् अपि ।

धर्मार्थं येन दत्तं स्वात् कस्मैचिद् याचते धनम् ।
पश्चाच् चेन् न तथा तत् स्याद् आदेयं तेन तद् भवेत् ॥

यज्ञादिधर्मं कर्तुं याचमानाय यद् दत्तं तेन धनेन यद्य् असौ यज्ञादिधर्मं न कुर्यात् तदा दत्तधनं पुनर् आदेयम् इत्य् अर्थः । यदि पुनर् एवंविधस्यानपहार्यतां साधयितुम् इच्छेद् याचकस् तदासौ राज्ञा तद् धनं सुवर्णादिकं दाप्यः । तथा च स एव ।

यदि संसाधयेत् तत् तु दर्पाल् लोहेन वा पुनः ।
राज्ञा दाप्यः सुवर्णं स्यात् तस्य स्तेयस्य निष्कृतिः ॥

बृहस्पतिर् अप्य् अदत्तानि कानिचिद् दर्शयति ।

क्रुद्धभ्रष्टप्रमत्तार्तबालोन्मत्तभयातुरैः ।
मत्तातिवृद्धनिर्धूतैः संमूधैः शोकवेगिभिः ॥
नर्मदत्तं तथैतैर् यत् तद् अदत्तं प्रकीर्तितम् ॥ इति ।

प्रमत्तेन दुर्ग्रहगृहीतेन । निर्धूतो ऽवधूतः । नर्मदत्तं परिहासेन दत्तम् । आर्तदत्तस्यादत्तत्वं धर्मकार्यव्यतिरिक्तविषयम्,

स्वस्थेनार्तेन वा दत्तं श्रावितं धर्मकारणात् ।
अदत्वा तु मृते दाप्यस् तत्सुतो नात्र संशयः ॥

इति कात्यायनस्मरणात् । तथेदम् अपरं सर्वविवादपदसाधारणं मनुनोक्तम् ।

योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यत्र वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥

योगः उपायः । एवं चायम् अर्थः - येनागामिनोपाधिविशेषेणाधिक्रयदानप्रतिग्रहाद्याः कृतास् तदुपाधिविगमे ते सर्वे विनिवर्तनीया इति । अत्र नारदः ।

गृणात्य् अदत्तं यो मोहाद् यश् चादेयं प्रयच्छति ।
दण्डनीयाव् उभाव् एतौ धर्मज्ञेन महीक्षिता ॥ इति ।

अत्र संप्रदानकारकीभूतो निर्दिश्यते । कर्तृकारकीभूतनरस्य त्व् अदेयादत्तयोः प्रतिपादनम् अपरहणं वा न दण्ड्यत्वापादकं स्मृत्याचारमार्गानुसारित्वात् । नापि प्रत्यवायापादकम्,

दत्तस्यैषोदिता धर्म्या यथावद् अनपक्रिया ।

इति मनुना धर्म्येत्य् अभिधानात् ॥

इति स्मृतिचन्द्रिकायाम् अदत्तविषयाणि

समाप्तं च दत्ताप्रदानिकाख्यस्य पदस विधिवितानम्