५० संभूयसमुत्थानम्

संभूयसमुत्थान-विधिः

अथ संभूयसमुत्थानाख्यस्य पदस्य विधिर् उच्यते

तत्र बृहस्पतिः ।

कुलीनदक्षानलसैः प्राज्ञैर् नाणकवेदिभिः ।
आयव्ययज्ञैः शुचिभिः शूरैः कुर्यात् सह क्रियाम् ॥

वाणिज्यकृषिशिक्पक्रतुसङ्गीतस्तैन्यात्मिकाम् इत्य् अर्थः । तत्र वाणिज्यक्रिया नाणकवेदिभिर् आयव्ययज्ञैः संभूय कार्या, कृषिक्रिया त्व् आयव्ययज्ञैः, शिल्पक्रिया सङ्गीतक्रिया च प्राज्ञैः, क्रतुक्रिया कुलीनैः प्राज्ञः शुचिभिः, स्तैन्यक्रिया शूरैः, वाणिज्यादिषड्विधापि क्रिया दक्षैः अनलसैश् चेत्य् अवगन्तव्यम् । दक्षानलसग्रहणं भाग्याधिकव्याध्यपीडितानां प्रदर्शनार्थम् । नाणकवेदिग्रहणं चाढ्यानाम् । अत एवादक्षालसप्रतिषेधं कुर्वन् मन्दभाग्यादीन् अपि स एव प्रतिषेधयति ।

अशक्तालसरोगार्तमन्दभाग्यनिराश्रयैः ।
वाणिज्याद्याः सहैतैस् तु न कर्तव्या बुधैः क्रियाः ॥ इति ।

आश्रयो मूलधनम् । तथा च नारदः ।

फलहेतोर् उपायेन कर्म संभूय कुर्वताम् ।
आधारभूतः प्रक्षेप उत्तिष्ठेरंस् ततो ऽंशतः ॥

आधारभूत आश्रयभूतः । प्रक्षेपो मूलधनप्रक्षेपः । ततो मूलधनप्रक्षेपानुसाराद् उत्तिष्ठेरन् लाभभाजो भवेयुर् इत्य् अर्थः । हान्यादिकम् अप्य् एवम् एवेत्य् आह स एव ।

समो ऽतिरिक्तो हीनो वा यत्रांशो यस्य यादृशः ।
क्षयव्ययौ तथा विऋद्धिः तत्र तस्य तथाविधाः ॥

क्षयव्ययौ वृद्धिर् इत्य् एते प्रक्षिप्तांशानुसारेण वेदितव्या इत्य् अर्थः । बृहस्पतिर् अपि ।

प्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।
समन्यूनाधिकैर् अंशैर् लाभस् तेषां तथाविधः ॥

लाभवद् एव कर्मव्ययाव् अपीत्य् आह स एव ।

समो न्यूनाधिको वांशो येन क्षिप्तस् तथैव सः ।
व्ययं दद्यात् कर्म कुर्याल् लाभं गृह्णीत चैव हि ॥

याज्ञवल्क्यो ऽपि ।

समवायेन वणिजां लाभार्थं कर्म कुर्वताम् ।
लाभालाबौ यथाद्रव्यं यथा वा संविदा कृतौ ॥

समवायेन मूल्यद्रव्यसंसर्गेण यथाद्रव्यं संसृष्टद्रव्यवर्तितत्तदंशभूतद्रव्यानुसारेण लाभालाभौ ज्ञेयाव् इत्य् अर्थः । संविदा समयेन कृतौ कल्पितौ, पुरुषानुसारेण कल्पितौ लाभालाभौ ज्ञेयाव् इति यावत् । व्यासस् तु संभूतकारिणां कार्यम् आह ।

समक्षम् असमक्षं वावञ्चयन्तः परस्परम् ।
नानापुण्यानुसारात् ते प्रकुर्युः क्रयविक्रयौ ॥
अगोपयन्तो भाण्डानि शुल्कं दद्युश् च ते ऽध्वनि ।
अन्यथा द्विगुणं दाप्याः शुल्कस्थानाद् बहिःस्थिताः ॥ इति ।

नारदो ऽपि ।

भाण्डपिण्डव्ययोद्धारभारसारान्वेक्षणम् ।
कुर्युस् ते ऽव्यभिचारेण समये स्वे व्यवस्थिताः

अथ वा सर्वानुज्ञया सर्वेषां कार्यम् एक एव कुर्यात् । तथा च बृहस्पतिः ।

बहूनां संमतो यस् तु दद्याद् एको धनं रहः ।
करणं कारयेद् वापि सर्वैर् एव कृतं भवेत् ॥

करणं लेख्यादिकम् । संभूयकारिणां मिथो विवादे ऽप्य् आह स एव ।

परीक्षकाः साक्षिणश् च ते एवोक्ताः परस्परम् ।
संदिग्धे ऽर्थे वञ्चनायां नो चेद् विद्वेषसंयुताः ॥

यदा तु विद्वेषसंयुक्तास् तदाप्य् आह स एव ।

यः कश्चिद् वञ्चकस् तेषां विज्ञातः क्रयविक्रये ।
शपथैः स विशोध्यः स्यात् सर्ववादे ऽप्य् अयं विधिः ॥

विशोध्यः सभ्यैर् इति शेषः । सर्ववादे ऽपि वञ्चनेतरविवादे ऽपीत्य् अर्थः । वञ्चकत्वे सिद्धे सति किं कार्यम् इत्य् अपेक्षिते याज्ञवल्क्यः - “जिह्मं त्यजेयुर् निर्लाभम्” इति । जिह्मं वञ्चकं निर्लाभं लाभहीनं कृत्वा त्यजेयुः । बहिःस्थिताः इतरे संभूयकारिण इत्य् अर्थः । संभूयकारिष्व् असमर्थं प्रत्य् आह स एव - “अशक्तो ऽन्येन कारयेत्” इति । स्वांशआनुरूपं कर्मेति शेषः । बृहस्पतिस् तु सर्वान् प्रत्य् आह ।

क्षयहानिर् यदा तत्र दैवराजकृता भवेत् ।
सर्वेषाम् एव सा प्रोक्ता कल्पनीया यथांशतः ॥

संभूयकारिभिः सर्वैर् इति शेषः । क्षयायैव हानिः उपचयार्थव्यतिरिक्ता हानिर् इति यावत् । दैवराजग्रहणं प्रातिस्विकदोषेतरनिमित्तोपलक्षणार्थम् । प्रातिस्विकदोषाद् धानौ त्व् आह स एव ।

अनिर्दिष्टो वार्यमाणाः प्रमादाद् यस् तु नाशयेत् ।
तेनैव तद् भवेद् देयं सर्वेषां समवायिनाम् ॥

अनिर्दिष्टः समवायाननुज्ञातः स्वबुद्ध्यैव कुर्वन् समवायिद्रव्यं यो नाशयेत्, निवार्यमाणो वा समवायिभिः इत्य् आद्यपदार्थः । प्रमादः प्रज्ञाहीनता सा प्रातिस्विकदोषोपलक्षणार्थतयात्रोक्ता । तेन कामक्रोधलोभाद्य् अपि समुत्थाननाशनिमित्तभूतं सर्वम् एवात्रोक्तम् इति मन्तव्यम् । यस् त्व् इत्यादिवचनशेषं सुगमम् । पालने ऽप्य् आह स एव ।

देवराजभयाद् यस् तु स्वशक्त्या परिपालयेत् ।
तस्यांशं दशमं दत्वा गृह्णीयस् ते ऽन्ततः परे ॥

तस्य तस्मै दशमम् अंशं दद्युः । ते समवायिनः । पालयेत् समवायिद्रव्यम् इति शेषः । तथा च कात्यायनः ।

चोरतः सलिलाद् अग्नेर् द्रव्यं यस् तु समाहरेत् ।
तस्यांशो दशमो देयः सर्ववादेष्व् अयं विधिः ॥

समाहरेत् स्वशक्त्या प्रत्याहरेद् इत्य् अर्थः । असमवायिद्रव्यपालने ऽप्य् अयं विधिर् विज्ञेय इत्य् अन्त्यपादार्थः । अधमर्नादिभ्यो दत्ते यस् तु प्रतियाचनादिना समवायिद्रव्यं समवायिभिः सह न साधयति तस्य लाभहानिर् इत्य् आह बृहस्पतिः ।

समवेतैस् तु यद् दत्तं प्रार्थनीयं तथैव तत् ।
न याचते च यः कश्चिल् लाभात् स परिहीयते ॥

याचनग्रहण्म् अंशानुसारेण करणीयकर्मणः प्रदर्शनार्थम् । तेन कर्मान्तराकरणे ऽप्य् अकरणानुसारेण लाभहानिर् इत्य् अस्माद् एव वचनात् प्रतिपत्तव्यम् ॥

इति स्मृतिचन्द्रिकायां संभूयकारिणां विणिजां विधयः

संभूयकारिणां कृषिकाणां विधयः

अथ संभूयकारिणां कृषिकाणां विधयः

तत्र बृहस्पतिः ।

वाह्यकर्षकबीजाद्यैः क्षेत्रोपकरणेन च ।
ये समानास् तु तैः सार्धं कृषिः कार्या विजानता ॥

वाह्या लाङ्गलादिवाहकाः बलीवर्दाः । कर्षकाः कृष्यर्थं स्वीकृताः पुरुषाः । आद्यशब्देन कृष्यर्थस्य धनस्य ग्रहणम् । वाह्येषु वर्जनीयान् आह स एव ।

कृशातिवृद्धं क्षुद्रं च रोगिणं प्रपलायिनम् ।
काणं खञ्जं च नादद्याद् वाह्यं प्राज्ञः कृषीवलः ॥

काण एकाक्षः । खञ्जो हीनचरणः । क्षेत्रेषु वर्जनीयम् आह स एव ।

पर्वते नगराभ्याशे तथा राजपथस्य च ।
ऊषरं मूषिकाव्याप्तं क्षेत्रं यत्नेन वर्जयेत् ॥

पर्वते पर्वतान्ते । नगराभ्याशे नगरसमीपे । राजपथस्य च समीप इति शेषः । एतद् उक्तं भवति - पर्वताद्यासन्नम्, अनासन्नम् प्य् ऊषरं मूषिकाव्याप्तं च क्षेत्रं वर्जयेद् इति । लाभविभागदिकं यत् संभूयवाणिज्यकृष्यादिकर्मणाम् असाधारणं पूर्वस्मिन् प्रकरणे दर्शितं तद् अप्य् अत्राप्य् अनुसंधेयम् । पूर्वत्र दर्शितात् प्रातिस्विकदोषाद् दोषान्तरेनाप्य् एकस्याहानिम् आह स एव ।

वाह्यबीजात्ययाद् यस्य क्षेत्रहानिः प्रजायते ।
तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनाम् ॥

संभूयकारिणाम् इति शेषः । वाह्यबीजग्रहणं कृषिसाधनानाम् उपलक्षणार्थम् इति मन्तव्यम् ॥

इति स्मृतिचन्द्रिकायां संभूयकारिणां कृषिकाणां विधयः

संभूयकारिणां शिल्पिनां विधयः

अथ संभूयकारिणां शिल्पिनां विधयः

शिल्पिस्वरूपनिरूपणार्थम् आह बृहस्पतिः ।

हिरण्यकुप्यसूत्राणां काष्ठपाषाणचर्मणाम् ।
संस्कर्ता च कलाभिज्ञः शिल्पी प्रोक्तो मनीषिभिः ॥

कुप्यं हेमरूप्यव्यतिरिक्तं त्रपुसीसादिकम् । हेमरूप्ये प्रकृत्य “ताभ्यां यद् अन्यत् तत् कुप्यम्” इत्य् अमरसिंहेनोक्तम् । शिल्पिनां लाभस्य विभागम् आह स एव ।

हेमकारादयो यत्र शिल्पं संभूय कुर्वते ।
कर्मानुरूपं निर्वेशं लभेरंस् ते यथांशतः ॥

निर्वेशो भृतिः । कात्यायनो ऽपि ।

शिक्षकाभिज्ञकुशला आचार्यश् चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागान् हरेयुस् ते यथोत्तरम् ॥

काष्ठादिमयहर्म्यादिनिर्मातॄणां मुख्यस्य भागम् आह बृहस्पतिः ।

हर्म्यं देवगृहं चापि चार्मिकोपस्कराणि च ।
संभूय कुर्वतां चैषां प्रमुखो द्व्यंशम् अर्हति ॥

अवञ्चकत्वेन कर्मकरणादिधर्मजातं यत् पूर्वतरप्रकरणे दर्शितं तद् अप्य् अत्राप्य् अनुसंधेयम् ॥

इति स्मृतिचन्द्रिकायां संभूयकारिणां शिल्पिनां विधयः

संभूयकारिणाम् ऋत्विजां विधयः

अथ संभूयकारिणाम् ऋत्विजां विधयः

तत्र मनुः ।

ऋत्विजः समवेतास् तु यथा सत्रे निमन्त्रिताः ।
कुर्युर् यथार्हतः कर्म गृह्णीयुर् दक्षिणां तथा ॥

अत्र सत्रशब्दो यज्ञमात्रविवक्षया प्रयुक्तो न पुनः सत्राख्ययज्ञविशेषविवक्षया, तत्र यजमानानाम् एव कर्तृत्वेन ऋत्विजाम् असंभवात् । तेन सोमयागादाव् अनेन वचनेन व्यापारलाभाव् उक्तौ । तत्रैव लाभविभागाभिधानार्थम् आह स एव ।

संभूय स्वानि कर्माणि कुर्वद्भिर् इह मानवैः ।
अनेन कर्मयोगेन कर्तव्यांशप्रकल्पना ॥

स्वानि कर्माणि याजमानव्यतिरिक्तानीति शेषः । अंशप्रकल्पना च “तस्य द्वादशशतं दक्षिणा” इत्य् एवम् ऋतुसंबन्धिमात्रतया विहितायां दक्षिणायाम् एव न तु “रथम् अध्वर्यवे, निविदां वरम् अश्वं होत्रम्, ब्रह्मणे ऽश्वम् आधाने, सुब्रह्मण्याय सोमक्रये शकटम्” इत्य् एवम् ऋत्विग्विशेषसंबन्धित्वेन विहितायाम्, श्रुतिविरोधापत्तेः । अत एवोक्तं तेनैव ।

रथं हरेत चाध्वर्युः ब्रह्माधाने च वाजिनम् ।
होता निविद्वरं चाश्वम् उद्गाता चाप्य् अनः क्रये ॥

ऋत्विग्विशेषोल्लेखेन विहितांशं स एव गृह्णीयाद् इत्य् अर्थः । पूर्णाहुतौ हुतायां वरं दद्याद् इत्य् अङ्गकर्मोल्लेखेन या दक्षिणा विहिताः, ताः प्रय् आह स एव ।

यस्य कर्मणि यास् तु स्युर् उक्ताः प्रत्यङ्गदक्षिणाः ।
स एव ता आददीत भजेरन् सर्व एव वा ॥

यस्य कर्मणि यत्कर्तृके कर्मणि या दक्षिणा उक्ताः स एव तत्कर्मणि ता आददीतेत्य् अर्थः । एवं च पूर्णाहुताव् अध्वर्युर् वरं गृह्णीयात्, तत्र तस्य कर्तृत्वात् । “भजेरन् सर्व एव वा” इति पक्षान्तरम् अनेककर्तृकाङ्गदक्षिणाविषयम्, तेन स्तोत्रदक्षिणाः स्तोत्रकारिण एव छन्दोगा भजेरन् । प्रधानदक्षिणास्व् अंशप्रकल्पनायाः प्रकारम् आह स एव ।

सर्वेषाम् अर्धिनो मुख्यास् तदर्धेनार्धिनो ऽपरे ।
तृतीयिनस् तृतीयांशाश् चतुर्थांशास् तु पादिनः ॥

मुख्या गणाद्या ब्रह्मादयः । अपरे गणिनां द्वितीयाः प्रतिप्रथात्रादयः । तृतीयिनः गणिनां तृतीयाः प्रतिहर्त्रादयः । पादिनो गणिनां चतुर्थाः ग्रावस्तुदादयः प्रत्येतव्याः । ततश् चायम् अर्थः - सर्वेषाम् ऋत्विजां मध्ये अर्धिनो विहितदक्षिणार्धवन्तो मुख्याः । अर्धशब्दो ऽत्र किंचिन्न्यूनदक्षिणार्धे वर्तते । तदर्धेन किंचिन्न्यूनदक्षिणार्धस्यार्धेनापरे गणिनो द्वितीयाः अर्धिनो ऽर्धवन्तः । तृतीयिनस् तृतीयांशाः किंचिन्न्यूनदिक्षिणार्धस्य तृतीयांशभागिनः । पादिनस् तु किंचिन्न्यूनदक्षिणार्धस्य चतुर्थांशभागिनः । एवं च शतदक्षिणापक्षे चतुर्णां मुख्यानाम् अष्टचत्वारिंशत् गावो भवन्ति, तदनन्तराणां चतुर्णां चतुर्विंशतिगावः, तदनन्तराणां चतुर्णां षोदश गावः, तदनन्तराणां द्वादश गाव इति मन्तव्यम् । मुख्यानां चतुर्णां मिथो विभागः समत्वेनैव । एवम् एव तदनन्तरादीनाम् अपि मिथो विभागः । तथा च कात्यायनसूत्रम् - “द्वादशद्वादशाद्येभ्यः, षट् षट् द्वितीयेभ्यः, चतस्रश् चतरस् तृतीयेभ्यः, तिस्रस् तिस्र इतरेभ्यः” इति । पशुबन्धादौ विषमविभागानभिधानात् समत्वेनैव विभागो ज्ञेयः । स्वकीयकर्मकलापांशकर्तुः कृतानुसारेण भागो देय इत्य् आह मनुः ।

ऋत्विग् यदि वृतो यज्ञे स्वकर्म परिभावयेत् ।
तस्य कर्मानुसारेण देयो ऽंशः सह कर्तृभिः ॥

कर्तृभिः संभूयकारिभिर् इत्य् अर्थः । यद् वा कर्तृभिः सह देयो दक्षिणादानकाले देयो यजमानेनेत्य् अर्थः । अथ वा कर्मणि ऋत्विक्परित्यक्तांशकर्तृभिः सह देय इत्य् अर्थः । एतद् उक्तं भवति - स्वकर्मैकदेशकर्तुर् या दक्षिणा तां तस्य चैकदेशान्तरकर्तुश् च दक्षिणाकाले संभूयकारिसङ्घो यजमानो वा तत्कृतकर्मानुशरेणार्पयेद् इति । अस्य क्वचिद् अपवादम् आह स एव ।

दक्षिणासु च दत्तासु स्वकर्म परिभावयेत् ।
कृत्स्नम् एव लभेतांशम् अन्येनैव च कारेयेत् ॥

अन्येन स्वगणवर्तिनां मध्ये प्रत्यासन्नेन । येन केनचिद् अन्येन वा कार्यमाणे त्व् आध्वर्यवादिसमाख्यावाधापत्तेः । एवम् ऋत्विजि मृते ऽप्य् ऊह्यम् । अत एव नारदः ।

ऋत्विजां व्यसने ऽप्य् एवम् अन्यस् तत्कर्म निस्तरेत् ।
लभेत दक्षिणाभागं स तस्मात् संप्रकल्पितम् ॥

अन्यशब्दार्थः पूर्ववद् इहापि द्रष्टव्यः । यत् तु बृहस्पतिनोक्तम्,

एवं क्रियाप्रवृत्तानां यदा कश्चिद् विपद्यते ।
तद्बन्धुना क्रिया कार्या सर्वैर् वा सहकारिभिः ॥ इति ।

यच् च शङ्खेन, “तत्र चेद् अनुप्राप्ते सवनम् ऋत्विङ् म्रियेत तस्य गोत्रो ऽस्य शिष्यो वा तत्कार्यम् अनुपूरयेद् अथ चेद् अबान्धवस् ततो ऽन्यम् ऋत्विजं वृणुयात्” इति, तत् सर्वम् अवान्तरगणशून्यऋत्विक्कर्तृकयज्ञविषयम् इति मन्तव्यम् । जीवत्य् एव ऋत्विजि यजमानेन ऋत्विगन्तरकरणे कस्य दक्षिणेति विवादापनोदार्थम् आह स एव - “अथ ऋत्विजि वृते पश्चाद् अन्यं वृणुयात् पूर्वाहूतस्यैव दक्षिणा पश्चाद् आहूतः किंचिल् लभेत” इति ॥

इति स्मृतिचन्द्रिकायां संभूयकारिणाम् ऋत्विजां विधयः

संभूयकारिणां नर्तकादीनां स्तेनादीनां च विधयः

अथ संभूयकारिणां नर्तकादीनां स्तेनादीनां च विधयः

तत्र बृहस्पतिः ।

नर्तकानाम् एष एव धर्मः सद्भिर् उदाहृतः ।
तालज्ञो लभते ऽधर्धं गायनास् तु समांशिनः ॥

एष धर्मः शिल्पिमुख्यस्योक्तो धर्मः । तेनायम् अर्थः - “प्रमुखो द्व्यंसम् अर्हति” इत् इयो ऽयं संभूय हर्म्यादिकं कर्वतां शिल्पिनां मिख्यस्योक्तः स एव धर्मो द्व्यंशभगित्वरूपो नर्तका दीनां संभूय नृत्तादिकं कुर्वतां मुख्यस्य सद्भिर् उदाहृत इति । अध्यर्धम् अर्धाधिकं भागं तालज्ञो लभते । स्तेनान् अपि प्रत्य् आह स एव ।

स्वाम्याज्ञया तु यच् चोरैः परदेशात् समाहृतम् ।
राज्ञे दत्वा तु षड्भागं भजेयुस् ते यथांशतः ॥
चतुरोऽंशान् बहेन् मुख्यः शूरस् त्र्यंशम् अवाप्नुयात् ।
समर्थस् तु हरेद् द्व्यंशं शेषात् त्व् अन्ये समांशिनः ॥

परदेशात् वैरिदेशाद् इत्य् अर्थः । प्रवलतरवैरिदेशाद् आहृतविषयम् एतत् । दुर्बलवैरिदेशाहृतविषये त्व् आह् कात्यायनः ।

परराष्ट्राद् धनं यत् स्याच् चोरैः स्वाम्याज्ञया हृतम् ।
राज्ञो दशांशम् उद्धृत्य विभजेरन् अन्यथाविधि ॥
चोराणां मुख्यभूतस् तु चतुरोऽंशांस् ततो हरेत् ।
शूरो ऽंशांस् त्रीन् समर्थो द्वौ शेषास् त्व् एकैकम् एव च ॥

समर्थः शक्तः । एतेषां हानिर् अप्य् एवम् एवेत्य् आह स एव ।

तेषां चेत् प्रसृतानां यो ग्रहणं समवाप्नुयात् ।
तन्मोक्षणार्थं यद् दत्तं वहेयुस् ते यथांशतः ॥

ननु संभूयकारिणां समयानुसारत एवांशकल्पनया लाभहान्योर् विभागो भविष्यतीति व्यर्था विभागविधय इत्य् आशङ्क्याह स एव ।

वणिजां कर्षकाणां च चोराणां शिल्पिनां तथा ।
अनियम्यांशकर्तॄणां सर्वेषाम् एष निर्णयः ॥

लाभहान्योः समयेन प्रतिपुरुषम् अंशम् अनियम्य वाणिज्यआदिकर्तॄणाम् इत्य् अर्थः ॥

इति स्मृतिचन्द्रियायां संभूयकारिणां नर्तकादीनां स्तेनादीनां च विधयः

समाप्तं च संभूयसमुत्थानाख्यपदस्य विधिवितानम्