४९ निक्षेपः

निक्षेपादिस्थापनविधिः

**अथ द्वितीयस्य पदस्य निक्षेपोपनिध्यादिभेदेनानेकविधस्य विधिर् उच्यते **

तत मनुः ।

कुलजे वृत्तसंपन्ने दर्मज्ञे सत्यवादिनि ।
महापक्षे धनिन्य् आप्ते निक्षेपं निक्षिपेद् बुधः ॥

महापक्षे बन्धुशालिनि । कः पुनर् निक्षेप इत्य् अपेक्षिते व्यासः ।

स्थानत्यागाद् राजभयाद् दायादानां च वञ्चनात् ।
स्वद्रव्यम् अर्प्यते ऽन्यस्य हस्ते निक्षेपम् आह तम् ॥

स्वद्रव्यं स्वकीयद्रव्यं वस्त्रनिष्कादिकम् अन्यस्य कूलजत्वादिगुणवतो हस्ते समर्प्यते ग्राहकसमक्षम् एवार्प्यते क्षेमार्थं यत् तत्र निक्षेपशब्दो वर्तत इत्य् अर्थः । तच् चार्पणं ग्राहकस्य पुरतो गणनं कृत्वा कार्यम्, “निक्षेपं गणितं विदुः” इत् नारदस्मरणात् । उपनिधिस्थापनविधिम् आह बृहस्पतिः ।

स्थानं गृहं गृहस्थं च तद्वर्णं विविधान् गुणान् ।
सत्यं शौचं बन्धुजनं परीक्ष्य स्थपयेन् निधिम् ॥

निधिम् उपनिधिम् इत्य् अर्थः । तस्य स्वरूपम् अपि तेनैवोक्तम् ।

अनाख्यातं व्यवहितम् असंख्यातम् अदर्शितम् ।
मुद्राङ्कितं च यद् दत्तं तद् औपनिधिकं स्मृतम् ॥

व्यवहितं करण्डकादौ प्रक्षिप्य निहितम्, नास्य समर्पाणे (?) ग्राहकसमक्षासमक्षलक्षणो नियमः, दत्तम् इति सामान्येनोक्तेः । न्यासस्य तु स्वरूपनिरूपणमुखेनैव स्थापनप्रकारम् आह स एव ।

राजचोरारातिभयाद् दायादानां च वञ्चनात् ।
स्थाप्यते ऽन्यगृहे द्रव्यं न्यासस् तत् परिकीर्तितम् ॥

द्रव्यं बलीवर्दकांस्यादिकम् । गृह इति वदता गृहस्वामिनः परस्थानगतस्य असमक्षे तस्मिन्न् आगते समर्पणीयम् इति कथयित्वा स्थापितो न्यासः, न पुनः तत्समक्षे समर्पित इति दर्शितम् ॥

इति स्मृतिचन्द्रिकायां निक्षेपादिस्थापनविधिः

निक्षेपादिपालनविधिः

अथ निक्षेपादिपालनविधिः

तत्र बृहस्पतिः ।

ससाक्षिकं रहो दत्तं द्विविधं समुदाहृतम् ।
पुत्रवत् परिपाल्यं तद् विनश्यत्य् अनवेक्षया ॥

पालयितुः फलं चाह स एव ।

ददतो यद् भवेत् पुण्यं हेमकुप्याम्बरादिकम् ।
तत् स्यात् पालयतो न्यासं तथैव शरणागतम् ॥

कुप्यं त्रपुसीसादिकम् । भक्षकादेर् दोषो ऽपि तेनैव दर्शितः ।

भर्तृद्रोहे यथा नार्याः पुंसः पुत्रसुहृद्वधे ।
दोषो भवेत् तथा न्यासे भक्षितोपेक्षिते नृणाम् ॥
न्यासद्रव्यं न गृह्णीयात् तन्नाशस् त्व् अयशःकरः ॥ इति ।

न्यासग्रहणं प्राचीनवचनत्रये ऽप्य् उपलक्षणार्थम्, तेन फलश्रुत्यादिकं निक्षेपादित्रयसाधारणम् इत् मन्तव्यम् ॥

इति स्मृतिचन्द्रिकायां निक्षेपादिपालनविधिः

सभ्यभूतग्रहीतारः

अथ सभ्यभूतग्रहीतृविषयाणि

अथ सभ्यभूतग्रहीतृविषयाणि कानिचिद् वचनानि लिख्यन्ते । तत्र बृहस्पतिः ।

दैवराजोपघातेन यदि तन्नाशम् आप्नुयात् ।
ग्रहीतृद्रव्यसहितं तत्र दोषो न विद्यते ॥

ग्रहीतुर् इति शेषः । उपक्षाद्यभावाद् इत्य् अभिप्रायः । ग्रहीतृद्रव्यसहितम् इत्य् एतद् उपेक्षाद्यभावनिश्चायकत्वेनोक्तम् । निक्षिप्तमात्रस्यापि कारणान्तरेणोपक्षाद्यभावे निश्चिते ग्रहीतुर् दोषो न विद्यत इत्य् अवगन्तव्यम् । दैवराजग्रहणं ग्रहीतृसमाधेयनिमित्तोपलक्षणार्थम् । अत एव कात्यायनः ।

अराजदैविकेनापि निक्षिप्तं यत्र नाशितम् ।
ग्रहीतुः सह भाण्डेन दातुर् नष्टं तद् उच्यते ॥

भाण्डेन अर्थेनेत्य् अर्थः । तथा च नारदः ।

ग्रहीतुः सह यो ऽर्थेन नष्टो नष्टः स दायिनः ।
दैवराजकृते तद्वन् न चेत् तत् जिह्मकारितम् ॥

तत् ग्रःत्रर्थेन सह प्रध्वंसनं कूटकारितं न चेद् इत्य् अन्त्यपादस्यार्थः । दायिनः स नष्ट इति वदता वचनभङ्ग्या ग्रहीता मूल्यद्वारेण न दाप्यो नष्टं धनम् इत्य् उक्तम् । उक्तं च याज्ञवल्क्येन ।

न दाप्यो ऽपहृतं तत् तु राजदैविकतस्करैः । इति ।

दैविकपदस्यार्थो मनुना स्पष्टत्वेनोक्तः ।

चोरैर् हृतं जलेनोढम् अग्निना दग्धम् एव च ।
न दद्याद् यदि तस्मात् स न संहरति किंचन ॥

तस्माद् धनाद् यदि स्तोकम् अपि न गृह्णातीत्य् अर्थः । उपनिधिग्रहीतर्य् अप्य् उक्तं तेनैव ।

समुद्रान् नाप्नुयात् किंचित् यदि तस्मान् न संहरेत् । इति । (म्ध् ८।१८८)

एवं न्यासग्रहीतर्य् अप्य् उपेक्षाद्यभावे द्रष्टव्यम्, असभ्यत्वाभावात् । “समुद्रान् नाप्नुयात्” इति वचनान्तरेण पृथगुपनिधाव् अभिधानं प्रपञ्चरुचित्वेनेति मन्तव्यम् । क्वचिद् येन केनचिद् धेतुना नष्टम् अपि ग्रहीता मूल्यद्वारेण न दाप्य इत्य् आह कात्यायनः ।

ज्ञात्वा द्रव्यवियोगं तु दाता यत्र विनिक्षिपेत् ।
सर्व्वोपायविनाशे ऽपि ग्रहीता नैव दप्यते ॥

इति स्मृतिचन्द्रिकायां सभ्यभूतग्रहीतृविषयाणि

सभ्याभासभूतग्रहीतृविषयाः

अथ सभ्याभासभूतग्रहीतृविषयाणि

तत्र कात्यायनः ।

निक्षिप्तं यस्य यत् किंचित् तत् प्रयत्नेन पालयेत् ।
दैवराजकृताद् अन्यो विनाशस् तस्य कीर्त्यते ॥

यस्य पार्श्वे यत् स्थापितं तत् तेनावहितेन पालनीयम्, यतो दैवराजकृताद् अन्यो विनाशादिस् तस्य ग्राहकस्य दोषेण कृतत्वेन कीर्त्यत इत्य् अर्थः न केवलं दुष्कीर्तिर् एव किं तु वस्तुवृत्त्या स्वदोषाद् विनाशादौ जाते बह्वर्थहानिश् चेत्य् आह स एव ।

यस्य दोषेण यत् किंचिद् विनाश्येत ह्रियेत वा ।
तद् द्रव्यं सोदयं दाप्यो दैवराजकृताद् विना ॥

उपक्षादिलक्षणो ऽत्र दोषो ऽभिमतः । तथा च बृहस्पतिः ।

भेदेनोपेक्षया न्यासं ग्रहीता यदि नाशयेत् ।
याच्यमानो न दद्याद् वा दाप्यस् तत् सोदयं भवेत् ॥

नाशे मूल्यद्वारेण दाप्यः । अनाशे तु स्वरूपत एव । अकृतवृद्धिप्रकरणे सामान्येनोक्तं वृद्धिपरिमाणं नाशे ग्राह्यम्, अदाने तु,

याच्यमानो न चेद् दद्याद् वर्धते पञ्चकं शतम् ।

इति विशेषेण तत्रैवोक्तं (?) ग्राह्यम् । भेदेनोपेक्षयेति वदन् स्वीयद्रव्येण सहैवोपेक्षया नाशे तु सोदयविधिर् नेति दर्शयति । तेन “तत्र समं दाप्य उपेक्षितः” इति स्मृत्यन्त्रविहितं मूलमात्रम् एव देयम् । तथा च कात्यायनः ।

याचितानन्तरं नाशे दैवराजकृते ऽपि सः ।
ग्रहीता प्रतिदाप्यः स्यात् ॥॥॥॥॥॥ ॥ इति ।

मूलमात्रम् इति शेषः । प्रत्यर्पणविलम्बमात्रापराधे सवृद्धिकदापनायोगात् । राज्ञे च तत्समो देयः, तथा च नारदः ।

याचमानस् तु यो दातुं निक्षेपं न प्रयच्छति ।
दण्ड्यः स राज्ञो भवति नष्टे दाप्यश् च तत्समम् ॥

नष्ट इत्य् अत्र दैवाद् राजतो वेति शेषो ऽध्याहार्यः । यः पुनः स्थापितधाद् व्ययं कुरुते, उपभोगं वा, लाभार्थं प्रयोगं वा । तत्राप्य् आह स एव ।

यत्रार्थं साधयेत् तेन निक्षेप्तुर् अननुज्ञया ।
तत्रापि दण्ड्यः स भवेत् तं च सोदयम् आवहेत् ॥

साधितार्थानुसारेण दण्ड्यः । याज्ञवल्क्यो ऽपि ।

आजीवन् स्वेच्छया दण्ड्यो दाप्यस् तच् चापि सोदयम् । इति ।

आजीवन् उपजीवन् । स्वेच्छया उपनिधात्रननुज्ञया । तच्छब्देनोपनिधिर् अत्र परामृश्यते, प्रकृतत्वात् । बृहस्पतिर् अपि ।

न्यासद्रव्येण यः कश्चित् साधयेत् कार्यम् आत्मनः ।
दण्ड्यः स राज्ञो भवति दाप्यस् तच् चापि सोदयम् ॥

साधयेत् स्वाम्यननुज्ञयेति शेषः । स्वाम्यनुज्ञया तु साधयतो न दोष इति प्राचीनवचनेष्व् एवार्थाद् अवगम्यते । कात्यायनो ऽपि ।

न्यासादिकं परद्रव्यं प्रभक्षितम् उपेक्षितम् ।
अज्ञाननाशितं चैव येन दाप्यः स एव तत् ॥

अत्र विशेषम् आह व्यासः ।

भक्षिते सोदयं दाप्यः समं दाप्य उपेक्षिते ।
किंचिन् न्यूनं प्रदाप्यः स्याद् द्रव्यम् अज्ञाननाशितम् ॥

किंचिन् न्यूनम् इत्य् अस्य पादांशहीनम् इत्य् अर्थो ग्राह्य इति कैश्चिद् उक्तम् । भक्षीतवद् अपहृतं दप्यः, “निक्षेपापहारी वृद्धिसहितं धनं धनिकस्य दाप्यः” इति विष्णुस्मरणात् । अत्र दण्डम् अपि दाप्यः,

निक्षेपस्यापहर्तारं तत्समं दापयेद् धमम् ।
तथोपनिधिहर्तारं विशेषेणैव पार्थिवः ॥

इति मनुस्मरणात् । अपह्नवे त्व् अवृद्धिकम् एव साधितं दाप्य इत्य् आह व्यासः ।

निक्षेपं निह्नुते यस् तु नरो बन्धुबलान्वितः ।
साक्षिभिर् वाथ दिव्येन विभाव्य प्रतिदाप्यते ॥

बृहस्पतिस् तु दण्डदापनम् अप्य् आह ।

गृहीत्वापह्नुते यत्र साक्षिभिः शपथेन वा ।
विभाव्य दापयेन् न्यासं तत्समं विनयं तथा ॥

इति स्मृतिचन्द्रिकायां सभ्याभासभूतह्रतीतृविषयाणि

गृहीतृस्थापकादिकृत्यानि

अथ गृहीतृस्थापकादिकृत्यविषयाणि

अत्र ग्रहीतारं प्रत्य् आह बृहस्पतिः ।

स्थापितं येन विधिना येन यच् च यथाविधि ।
तथैव तस्य तद् देयं न देयं प्रत्यनन्तरे ॥

स्थापकेतरस्य यस्य स्थापितद्रव्ये स्वाम्यम् अस्ति सः इह प्रत्यनन्तर इत्य् उच्यते । स्थापकं प्रत्य् आह मनुः ।

यो यथा निक्षिपेद् धस्ते यम् अर्थं यस्य मानवः ।
स तथैव ग्रहीतव्यो यथा दायस् तथा ग्रहः ॥

दायो दानं स्थापनम् इति यावत् । ग्रहो ग्रहणम् । एतद् उक्तं भवति - ससाक्षिकत्वेन स्थापितं साक्षिसमक्षं ग्रहीतव्यम् । रहसि स्थापितं रहस्य् एव ग्राह्यम् इति । कदा ग्राह्यम् इत्य् अपेक्षिते कात्यायनः ।

ग्राह्यस् तूपनिधिः काले कालहीनं तु वर्जयेत् ।
कालहीनं ददद् दण्डं द्विगुणं च प्रदापयेत् ॥

यद्भयाद् उपनिधिर् अन्यहस्ते न्यस्तः, तद्भयातीते काले स ग्राह्य इत्य् अर्थः । तद्भयातीते काले ऽपि स्वयम् एव नायाचितम् अर्पणीयं “सकृद् याचितम् अर्पयेत्” इति बृहस्पतिस्मरणात् । तद्भये वर्तमाने स्वयम् अयाचितं दीयमानं कालहीनं तस्य दानं दौष्ट्येनैवेति ददतो दण्डो युक्तः । स्थापकस्य दौष्ट्ये दण्डम् आह मनुः ।

निक्षेपो यः कृतो येन यावांश् च कुलसंनिधौ ।
तावान् एव स विज्ञेयो विब्रुवन् दण्डम् अर्हति ॥

कुलं साक्षिभूतम् । एतद् उक्तं भवति - ससाक्षिके साक्षिवचनं विरुद्धं ब्रुवन् दण्ड्य इति । असाक्षिके त्व् आह बृहस्पतिः ।

रहो दत्ते निधौ यत्र विसंवादः प्रजायते ।
विभावकं तत्र दिव्यम् उभयोर् अपि च स्मृतम् ॥

निधाव् उपनिधौ । उभयोर् मध्य एकस्येत्य् अर्थः । उभयोर् ग्रहणम् “रुच्या वान्यतरः कुर्यात्” इत्य् अयम् एव पक्षो यथा स्याद् इति । पार्थिवं प्रत्य् आह मनुः ।

निक्षेपस्यापहर्तारम् अनिक्षेप्तारम् एव च ।
सर्वैर् उपायैर् अन्विच्छेच् छपथैश् चैव वैदिकैः॥
यो निक्षेपं नार्पयति यश् चानिक्षिप्य याचते ।
ताव् उभौ चोवच् छस्यौ प्राप्यौ तत्समं दमम् ॥ इति ।

चोरवच् छास्यौ चोरदण्डेन दण्ड्यौ । चोरदण्डश् च प्रथमसाहस इत्य् उक्तं मनुवृत्तौ । प्राद्विवाकं च प्रत्य् आह स एव ।

तेषां न दद्याद् यदि तु तद् धिरण्यं यथाविधि ।
द्वयं निगृह्य दाप्यं स्याद् इति धर्मस्य धारणा ॥
निक्षिप्तस्य धनसैवं प्रीत्योपनिहितस्य च ।
राजा विनिर्णयं कुर्याद् अक्षिण्वन् न्यासधारणम् ॥ इति ।

तेषाम् अभियोक्तॄणाम् । तद् धिरण्यं तन्मूल्यहिरण्यम् अभियोक्तृभ्यो दाप्यम् । द्वयाम् अपि द्विगुणं निगृह्य दण्दयित्वा । अक्षिण्वन् अताडयन् ॥

इति स्मृतिचन्द्रिकायां ग्रहीतृस्थापकादिकृत्यविषयाणि

प्रत्यन्तरे प्रत्यर्पण-प्रतिषेधस्यापवादः

अथ प्रत्यन्तरे प्रत्यर्पण-प्रतिषेधस्यापवादः

तत्र मनुः ।

स्वयम् एव तु यो दद्यान् मृतस्य प्रत्यन्तरे ।
न स राज्ञाभियोक्तव्यो न निक्षेप्तुश् च बन्धुभिः ॥

पाचीने प्रकरणे या प्रत्यन्तरपदस्य व्याख्या कृता, सात्रापि द्रष्टव्या । अनेन वचनेन वचोभङ्ग्या स्थापके मृते प्रत्यनन्तरे प्रत्यर्पणं ग्राहकेण कार्यम् इत्य् उक्तम् । अयाचितेनार्पणम् अप्य् अत्र भावदोषपरिहारार्थत्वात् भूषणं न तु दूषणम् इत्य् अभिसंधायोक्तम् “स्वयम् एव तु यो दद्यात्” इति । प्रत्यनन्तरे ऽपि कालहीनम् अयाचितेन न देयम्, भावदोषापत्तेः । प्रत्यनन्तरबहुत्वे तु नैकस्मिन् प्रत्यनन्तरे देयं सर्वप्रयनन्तरसंनिधौ देयम्, तथा सति निक्षेप्तुः बन्धुभिः प्रत्यनन्तरभूतैर् अभियोक्तव्यो न भवति । यदा तु स्वयम् एव न ददाति तदा प्रयनन्तरं प्रत्य् आह स एव ।

अच्छलेनैव चान्विच्छेत् तम् अर्थं प्रीतिपूर्वकम् ।
विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥

अन्वेषणं निक्षेपादिर् अस्मिञ् जने ऽस्तीत्य् अवधारणम् । स्वतः तद् अछलेनैव भूतानुसारेणैव कार्यं न छलानुसारेण । परिसाधनं ग्राहकसकाशाद् आदानम् । वृत्तग्राहकविषये साम्नैव प्रियपूर्ववचसैव कार्यं न भयदर्शनादिना । वृत्तं विचार्य दुर्वृत्तग्राहकविषये तु छलानुसारेण वान्विच्छेत् । भयदर्शनाद्युपायान्तरेण छलादिना वा ऋणादानप्रकरणोक्तेन परिसाधयेद् इत्य् अस्माद् एव वचनाद् अवगम्यते यथा सद्वृत्ते छलादिप्रयोगवच् छपथेन शोधनस्याप्य् अनुचितत्वम् । ग्राहके तु मृते पश्चाद् यदधीनम् उपनिध्यादि जातं तेनैव स्थापके प्रत्यनन्तरे वा प्रत्यर्पणीयम् इत्य् एतद् अतिस्थूलत्वात् स्मृतिकारैर् उपेक्षितम् इत्य् अस्मरणकारणम् उन्नेयम् । यदि ग्राहकवद् असौ स्वयं न ददाति तदा स्थापकः प्रत्यनन्तरो वा पूर्वोक्तमार्गेणान्विच्छेत् । संप्रतिपन्नं पूर्वोक्तप्रकारेण परिसाधयेत् । एतद् अपि स्मृतिकारैर् अनुक्तम् ऊहेनापि ज्ञातुं शक्यत्वात् ॥

इति स्मृतिचन्द्रिकायां प्रत्यनन्तरे प्रत्यर्पणस्य प्रतिषेधापवादः

याचितान्वाहितविषयेषु

अथ याचितान्वाहितविषयाणि कानिचिद् वचनानि लिख्यन्त

तत्र याज्ञवल्क्यः ।

याचितान्वाहितन्यासनिक्षेपादिष्व् अयं विधिः । इति ।

याचितम् उत्सवादिषु परकीयम् अलंकाराद्यर्थं याचित्वा स्वसमीपम् आनीतम् । अन्वाहितं स्वस्मिन् स्थितं परधनम् अन्यान्तिकस्थितया कृतम् । न्यासनिक्षेपयोः स्वरूपं निक्षेपादिस्थापनविधिप्रकरणे दर्शितम् । यद्य् अपि स्मृत्यन्तरे न्यासनिक्षेपयोः स्थापनादिधर्मा उपदिष्टाः, तथाप्य् अस्यां स्मृतौ नोपदिष्टा इत्य् उपदिष्टोपनिधिधर्माणाम् अतिदेशो ऽयं युक्तः । बृहस्पत्यादिनाप्य् अनुपदिष्टधर्मकेष्व् एवान्वाहितादिष्व् अतिदिष्टम् ।

अन्वाहिते याचितके शिल्पन्यासे सबन्धके ।
एष एवोदितो धर्मस् तथा च शरणागते ॥ इति ।

शिल्पन्यासे कङ्कणादिकरणाय स्वर्णकारादिहस्तन्यस्तहिरण्यादाव् इत्य् अर्थः । अनेनाप्रतियाचितस्य शिल्पन्यासस्य दैवादिना नाशे स्वर्णकारप्रभृतिर् न दाप्य इत्यादिधर्मो ऽतिदिष्ट इति मन्तव्यम् । अत्र क्वचिद् अपवादम् आह कात्यायनः ।

यैश् च संस्क्रियते न्यासो दिवसैः परिनिश्चितैः ।
तदूर्ध्वं स्थापयेच् छिल्पी दाप्यो दैवहते ऽपि तम् ॥

यत्र जीर्णान्य् एव वस्त्रादीनि नैर्मल्याद्यर्थं रजकादौ न्यस्तानि नूतनान्य् एव वा, तन्नाशश् च शिल्पिकृताभिघाताद्युपेतजीर्णत्वादिदोषाद् अभिघातादिमात्राद् वा जातः, तत्र “यस्य दोषेण” इत्यादिनोक्तसोदयदापनम् अतिदेशात् प्राप्तम् इति वदन्ति । वस्तुतस् तु, जीर्णादौ न शिल्पिदोषः, नैर्माल्याद्यर्थत्वाद् अभिधातस्य (?) । नूतनादौ नैवम् इति शिल्पी दोषवान् । तेन जीर्णादौ न किंचिद् दाप्यः, नूतनादौ तु मूल्यमात्रं दाप्यम्, नैर्माल्यार्थाद् अभिघाताद् अधिकांशस्यैव दोषत्वेन स्वल्पदोषत्वात् । एतत् सर्वम् अभिसंधायाह स एव ।

न्यासदोषाद् विनाशः स्याच् छिल्पिनं तन् न दापयेत् ।
दापयेच् छिल्पिदोषात् तत् संस्कारार्थं यद् अर्पितम् ॥

शिल्पिदोषाद् इत्य् अत्र विनाशः स्याद् इत्य् अनुषज्यते । यत्र तन्त्वादिकं वस्त्राद्यर्थं कुविन्दादौ न्यस्तं खण्डपटादिदशायां नष्टं परिपूर्णदशायां वा कुविन्दादिना दीयमानं स्वामिना न गृहीतं नष्टं च, तत्राप्य् आह स एव ।

स्वल्पेनापि च यत् कर्म नष्टं चेद् भृतकस्य तत् ।
पर्याप्तं दित्सतस् तस्य विनश्येत् तद् अगृह्णतः ॥

यत् कर्म वस्त्रनिर्माणादि स्वल्पेनापि प्रान्तवानादिना विकलं नष्टं चेत् भृतकस्य शिल्पिन एव नष्टं पुनर् वेतनग्रहणम् अन्तरेणैव वानादिक्रियां कुर्याद् इत्य् अर्थः । यदि स्वामी पुनस् तन्त्वादिकं नार्पयति तदा पुनर् वानाद्यभावे ऽपि वेतनं शिल्पिने दत्तं न लभते । पर्याप्तं परिपूर्णं वस्त्रादिकं दित्सतो भृतस्य यः स्वामी तस्य दीयमानम् अगृह्णतस् तत् पर्याप्तं विनश्येद् इत्य् उत्तरार्धस्यार्थः । एवं चात्र भृतको नष्टं न दाप्य इति वचोभङ्ग्या भणितम् इत्य् अवगन्तव्यम् । एवं शिल्पिन्यासविषये विशेषम् उक्त्वा याचितविषये ऽप्य् आह स एव ।

यदि तत् कार्यम् उद्दिश्य कालं परिनियम्य वा ।
याचितो ऽर्धकृते तस्मिन्न् अप्राप्ते न तु दाप्यते ॥

तात्पर्यं तावद् उच्यते ।

याच्यमानो न दद्याद् वा दाप्यस् तत् सोदयं भवेत् ।

इत्य् अयं धर्मो ऽतिदेशाद् याचितके प्राप्तो ऽनेन क्वचित् प्रतिषिध्यते । प्रतिषेधवचनस्यायम् अर्थः - यत् कार्यं दीर्घकालसाध्यं तत् कार्यमध्ये यदि याचितः यदि वा संवत्सरपर्यन्तं दीयताम् इत्य् एवं कालं परिनियम्य याचितः, तस्मिन् कार्यमध्ये परिनियतकालमध्ये वा प्रतियाच्यमानो याचितकं यो न ददाति, असौ न सोदयं दाप्य इति । याचितकमात्रम् एवासौ कृते कार्ये परिनियतकालात्यये वा दद्यात् । यदि तदापि न ददाति तदा दैवादितो विनाशे हरणे वा जाते मूल्यं देयम् इत्य् आह स एव ।

प्राप्तकाले कृते कार्ये न दद्याद् याचितो ऽपि सन् ।
तस्मिन् नष्टे हृते वापि ग्रहीता मूल्यम् आहरेत् ॥

ननु,

याचितानन्तरं नाशे दैवराजकृते ऽपि सः ।
ग्रहीता प्रतिदाप्यः स्यात् ॥॥॥॥। ॥

इत्यादिस्मृत्या मूल्यमात्रदापनम् उपदिष्टम् इहातिदेशेनैव प्राप्तम्, किम् अर्थम् इह पुनर् उपदिश्यते । उच्यते, स्मृत्यन्तराद् दण्डो प्य् एवं प्राप्तस् तन्निवृत्त्यर्थम् इहाप्य् उक्तम् । क्वचिद् अप्राप्ते ऽपि काले कार्यमध्ये ऽपि याचितकं दाप्य इत्य् आह स एव ।

अथ कार्यविपत्तिस् तु तस्यैव स्वामिनो भवेत् ।
अप्राप्ते वै स काले तु दाप्यस् त्व् अर्धकृते ऽपि तत् ॥

याचितकस्वामिकार्यविपत्तिर् अप्रतिदाने चेन् मध्ये ऽपि प्रतियाचितो याचितकं दाप्य इत्य् अर्थः । यदि मध्ये न ददाति तदात्र सोदयं दप्यः, आतिदेशिकस्यापि प्रतिषेधकोपदेशाभावे ग्राह्यत्वात् । स्थापकपार्थिवयोः कृत्यम् अतिदेशाद् याचितके प्राप्तम् अपि सामाद्युपायप्रयोगनिवृत्त्यर्थम् आह स एव ।

यो याचितकम् आदाय न दद्यात् प्रतियाचितः ।
स निगृह्य बलाद् दाप्यो दण्ड्यश् च न ददाति यः ॥

निगृह्य बलाद् उपवासादि कारयित्वा स्थापकेन दाप्यो दानोन्मुखं कृत्वा ग्राह्यः । एवम् अपि यदि न ददाति, स राज्ञा दाप्यो दण्ड्यश् चेत्य् अर्थः । स्थापके मृते स्वयम् एव प्रतियाचनाभावे ऽपि भावदोषपरिहारार्थं प्रत्यनन्तरे दद्याद् इत्य् एतद् याचितके ऽप्य् अतिदिष्टधर्मवर्गान्तर्गतत्वेन प्राप्तम् अप्य् अवश्यानुष्ठेयं न भवतीत्य् आह बृहस्पतिः ।

याचितं स्वाम्यनुज्ञातं प्रददन् नापराध्नुयात् । इति ।

याचनाद् ऊर्ध्वम् अपीति शेषः ॥

**इति स्मृतिचन्द्रिकायां याचितान्वाहितविषयाणि **

समाप्तं च निक्षेपाख्यपदस्य विधिवितानम्