४८ ऋणादानम्

धनप्रयोगविधिः

द्वितीयपरिच्छेदः

बृहस्पतिमुखानेकमुनिवाग्वागुरान्तरम् ।
प्रविष्टो देवणाचार्यः कुरुते पदसंग्रहम् ॥

तत्र धनप्रयोगविधिः

सर्वव्यवहारपदसाधारणो विधिकलापः प्राक् प्रतिपादितः । संपति प्रतिपदम् असाधारणो विधिकलापः प्रिपाद्यते । पदानां चाष्टादशानां स्वरूपम् अवान्तरभेदजातं च द्वितीये प्रकरणे दर्शितम् । इह पदोद्देशक्रमेनादाव् ऋणादानाख्यपदस्य विधिर् उच्यते । तत्राप्य् आदौ धनदानधर्मा उच्यन्ते । तत्र धनिनं प्रत्य् आह बृहस्पतिः ।

परिपूर्णं गृहीत्वाधिं बन्धं वा साधुलग्नकम् ।
लेख्यारूढं साक्षिमद् वा ऋणं दद्याद् धनी सदा ॥

परिपूर्णं सवृद्धिकमूलद्रव्यपर्याप्तम् इत्य् अर्थः । कः पुनर् आधिः कतिविधश् चेत्य् अपेक्षिते स एव ।

आधिर् बन्धः समाख्यातः स च प्रोक्तश् चतुर्विधः ।
जङ्गमः स्थावरश् चैव गोप्यो भोग्यस् तथैव च ॥
यादृच्छिकः सावधिश् च लेख्यारूढो ऽथ साक्षिमान् ॥ इति ।

यद्य् अप्य् अत्राधिर् अष्टविधो दर्शितः, तथापि गोप्यभोग्ययादृच्छिकसावधिरुपभेदानाम् अत्रानेकविशेषविध्युपयोगार्थतात्पर्यातिशयेन कथं नान्येषाम् इति वक्तुं प्रोक्तश् चतुर्विध इत्य् उक्तम् । यावद् ऋणं तव न ददामि तावद् अयम् आधिर् इत्य् एवं कालविशेषावधिशून्यतया कृतो यादृच्छिकः । दीपोत्सवकाले ऋणं दत्वा अयम् आधिर् मया मोक्ष्यते नो चेत् तवैव भवतीत्य् एवंकृतः सावधिः । यद्य् एवम् आधिर् एव बन्ध इतीहोच्यते कथं तर्हि पूर्वस्मिन् वचने “बन्धं वा” इति बेधेनोक्तम्, उच्यते - तत्र बन्धपदस्य यो विवक्षितार्थः स हि नारदेन दर्शितः ।

निक्षेपो मित्रहस्तस्थो बन्धो विश्वासकः स्मृतः ॥ इति ।

उत्तमर्णाधमर्णयोर् यः सखा तस्य पार्श्वे निक्षिप्तम् एवाधमर्णधनम् उत्तमर्णविश्वासार्थम् अधर्मर्णेनोपदिष्टं बन्ध इति गीयत इत्य् अर्थः । लग्नकः प्रतिभूः । स च स्वाम्यादिव्यतिरिक्तो ग्राह्यः, स्वाम्यादौ धनसिद्धेर् दुष्करत्वात् । अत एव तन्निषेधः कात्यायनेन दर्शितः ।

न स्वामी न च वै शत्रुः स्वामिनाधिकृतस् तथा ।
निरुद्धो दण्डितश् चैव संदिघश् चैव न क्वचित् ॥
नैव रिक्थी न मित्रं न च चैवात्यन्तवासिनः ।
राजकार्यनियुक्तश् च ये च प्रव्रजिता नराः ॥
नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ।
नाविज्ञातो ग्रहीतव्यः प्रतिभूत्वक्रियां प्रति ॥ इति ।

संदिग्धो ऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिणः । तत्समं विवादास्पदीभूतद्रव्यसमम् । नैव रिक्थीत्य् अविभक्तविषयम् । यद् आह याज्ञवल्क्यः ।

भ्रातॄणाम् अथ दम्पत्योः पितुः पुत्रस्य चैव हि ।
प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्ते न तु स्मृतम् ॥ इति ।

नारदो ऽपि ।

साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।
विभक्ता भ्रातरः कुर्युः नाविभक्ताः परस्परम् ॥

“लेख्यारूढं साक्षिमत्” इति चाद्यश्लोकगतम् ऋणस्य विसेषणं मन्तव्यम् । तत्र येन प्रकारेण ऋणस्य लेख्यारूढता कर्तव्या दिङ्मात्रेण तम् एव प्रकारम् आह सङ्ग्रहकारः ।

चिरकं नाम लिखितं पुराणैः पौरलेखकैः ।
अर्थिप्रत्यर्थिनिर्दिष्टैः यथासंभवसंस्तुतैः ॥
स्वकीयैः पितृनामाद्यैर् अर्थिप्रत्यर्थिसाक्षिणाम् ।
प्रतिनामभिर् आक्रान्तम् अर्थिसाक्षिस्वहस्तवत् ॥
स्पष्टावगमसंयुक्तं यथास्मृत्युक्तलक्षणम् ॥ इति ।

संस्तुतैः प्रशस्तैः । प्रतिशब्दो ऽत्राक्रान्तपदेन संबध्यते । विस्तरस् त्व् अस्य लेख्यप्रकरणे जानपदाख्यलेख्याभिधाने द्रष्टव्यः । साक्षिमत्ताप्रकारस्य दिङ्मात्रं तु व्यासेनोक्तम् ।

धर्मज्ञाः पुत्रिणो मौलाः कुलीनाः सत्यवादिनः ।
श्रौतस्मार्तक्रियायुक्ता विगतद्वेषमत्सराः ।
युवानः साक्षिणः कार्या ऋणादिषु विजानता ॥ इति ।

विस्तरस् त्व् अस्यापि साक्षिप्रकरणादौ द्रष्टव्यः । एवम् उक्तविधिना सदा धनी ऋणं दद्यात् । वृद्ध्यर्थं धनप्रयोगं कुर्याद् इत्य् अर्थः । वृद्धिपरिमाणभेदास् तूत्तरत्र वृद्धिप्रकरणे वक्ष्यन्ते,

दद्युर् वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ।

इत्यादिवचनैः । ते चात्रानुसंधेयाः । एवम् अनेकनियमानुबन्धं धनप्रयोगं कुर्वतो दृष्टम् एव फलम्, दृष्टार्थमात्रार्थत्वाद् आसां स्मृतीनाम् । अत एव व्यतिरेकमुखेन दृष्टार्थम् एवाह हारीतः ।

आधिः विना लग्नकं वा प्रयुक्तं बन्धकाद् विना ।
साक्षिलेख्यविहीनं तु विसंवादे न सिध्यति ॥

नारदो ऽपि ।

विस्रम्भहेतू द्वाव् अत्र प्रतिभूर् आधिर् एव च ।
लिखितं साक्षिणस् च द्वे प्रमाणे व्यक्तिकारके ॥

विस्रम्भो विश्वासः । व्यक्तिर् अभिव्यक्तिः । एवं चाबन्धकादिप्रयोगो ऽपि लभ्येत् । तथा प्रयोगे ऽपि प्रयुक्तस्य धनस्य कथंचित् सिद्धिसंभवात् । अत एवाबन्धकप्रयोगे ऽपि वृद्धिनियमो वक्ष्यते,

संबन्धे भाग आशीतः षाष्टो भागः सलग्नके ।
निराधाने द्विकसतं मासलाभा उदाहृताः ॥

इत्यादिना । अस्वतन्त्रेषु प्रयोगनिषेधम् आह कात्यायनः ।

न स्त्रीभ्यो दासबालेभ्यः प्रयच्छेत् क्वचिद् उद्धृतम् ।
दाता न लभते तत् तु तेभ्यो दद्यात् तु यद् वसु ॥

स्त्र्यादीनाम् अस्वतन्त्रत्वाद् इत्य् अभिप्रायः । उद्धृतं प्रयोगाय गृहीतम् ।

इति स्मृतिचन्द्रिकायां धनप्रयोगविधिः

निर्दोषधनिकस्याधिविषयाणि

अथ आधिविषयाणि कानिचिद्वचनानि लिख्यन्ते । तत्र हारीतः ।

बन्धं यथा स्थापितं स्यात् तथैव प्रतिपालयेत् । इति ।

अधिग्रहणाद् (?) ऊर्ध्वम् आधेर् नाशह्रासविकारासारत्वव्यक्त्यन्तरत्वादयो यथा न भवन्ति तथा धनी प्रत्यर्पणपर्यन्तं प्रयतेन (?) पालयेद् इत्य् अर्थः । एवं पाल्यमाने ऽप्य् आधौ दैवादिवशान् नाशादिर् यदि भवेत् तदा न कश्चिद् दोषो धनिन इत्य् आह स एव ।

दैवराजोपघाते तु न दोषो धनिनः क्वचित् । इति ।

अग्निदेशोपप्लवादिर् दैवोपघातः । अनपराधे ऽप्य् उच्छृङ्खलत्वेन राज्ञा कृतः परोपघातो राजोपघातः । अत्र कात्यायनः ।

आधीकृतं तु यत् किंचिद् विनष्टं दैवराजतः ।
तत्रर्णं सोदयं दाप्यो धनिनाम् अधमर्णकः ॥

पक्षान्तरम् अप्य् आह व्यासः ।

दैवराजोपघाते तु न दोषो धनिनः क्वचित् ।
ऋणं दाप्यस् तु तन्नाशे बन्धं वान्यम् ऋणी तदा ॥

एवम् आधेर् असारत्वे ऽप्य् अनुसंधेयम् । तथा च नारदः ।

रक्ष्यमाणो ऽपि यत्राधिः कालेनेयाद् असारताम् ।
आधिर् अन्यो ऽथ वा कार्यो देयं वा धनिने धनम् ॥

असारता सवृद्धिकमूलद्रव्यापर्याप्तता (?) । केचिद् एकसंवत्सरभववृद्धिसहितमूलद्रव्यापर्याप्तताम् असारताम् आहुः, तच् चिन्त्यम्, एवंविधविशेषाश्रयणे किं कारणम् इति चोद्यसंभवात् । अन्यः पूर्वस्थितो वा आधिः पर्याप्तः कार्यः । अन्यग्रहणस्य पर्याप्तत्वेन भाव्यम् इत्य् एतावन्मात्रपरत्वात् । यतो ऽसारत्वे ऽपि पर्याप्तये किंचिद् देयं क्वचिद् इत्य् आह हारीतः ।

आधेः समधिकं द्रव्यं गृहीतं ग्राहकेण तु ।
अधिकं तव दास्यामि तद् दद्याद् धनिकस्य सः ॥

ग्राहकेण ऋणिकेन । अधिकं पूरकम् । यद्य् अपि दैवादिनिमित्तकाध्यपचारे पक्षद्वयम् उक्तम्, तथापि धनिकदोषराहित्ये स्फुटे सति चोरस्वजनादिनिमित्तकाध्यपचारे ऽपि एतत् पक्षद्वयं वेदितव्यम् । दैवादिग्रहणस्य धनिकदोषविहीननिमित्तपरत्वेन कृतत्वात् । अत एव,

दैवराजोपघाते तु न दोषो धनिनः क्वचित् ।

इति व्यासहारीताभ्याम् उक्तम् । अत एव चाध्यन्तरदानपक्षं धनिकदोषविहीनत्वेनैवाह कात्यायनः ।

न चेद् धनिकदोषेण निपतेद् विक्रियेत वा ।
आधिम् अन्यं स दाप्यः स्याद् ऋणान् मुच्येत नर्णिकः ॥ इति ।

धनिकदोषाद् अन्यत आध्यपचारे ऋणिक ऋणान् न मुच्यते । तेनान्यम् आधिं स ऋणिको धनिने राज्ञा दाप्य इत्य् अर्थः । यत् तु स्मृत्यन्तरम्,

स्रोतसापहृते क्षेत्रे राज्ञा चैवापहारिते ।
आधिर् अन्यो ऽधिकर्तव्यो देयं वा धनिने धनम् ॥

इति, तद् अपि धनिकस्यादोषे पक्षद्वयविधिपरम्, अन्यथा अग्न्याद्यपहृते पक्षद्वयम् अनेनानुक्तं स्यात् ।

इति स्मृतिचन्द्रिकायां निर्दोष-धनिकस्याधिविषयाणि

सदोष-धनिकस्याधिविषयः

अथ सदोष-धनिकस्याधिविषयाणि

अत्र हारीतः ।

बन्धं यथा स्थापितं स्यात् तथैव प्रतिपालयेत् ।
अन्यथा नश्यते लाभो मूलं वा तद्व्यतिक्रमात् ॥

यथा येन प्रकारेण गोप्यत्वेन भोग्यत्वेन वास्थापितम् अधमर्णेनाधीकृतं तथैव गोप्यम् आधिं गोप्यत्वेनैव भोग्यं भोग्यत्वेनैव धनी पालयेत् । अन्यथा गोप्यं भोग्यत्वेन भोग्यं वा गोप्यत्वेन पालितं चेत् समयातिक्रमाल् लाभो नश्यते, मूलं वा द्रव्यं नश्यत इत्य् अर्थः । याज्ञवल्क्यो ऽपि लाभनाशम् आह - “गोप्याधिभोगे नो वृद्धिः” इति । भोगे बलाद् इति शेषः । तथा च मनुः ।

नो भोक्तव्यो बलाद् आधिर् भुञ्जानो वृद्धिम् उत्सृजेत् ।

इति भोगप्रतिषेधं कुर्वन्तम् आधातारम् आक्रम्य गोप्याधिं भुञ्जानस्य अत्यन्तापराधित्वात् अल्पभोग एव सर्ववृद्धिनाशः स्याद् इति अर्थः । सर्वमूलनाशस् तु नास्मिन् विषये विकल्प्यते । अत्यन्ताधिकहानित्वात् । तेन मूलं वेति हारीतवचनं सर्वमूलनाशरूपपक्षान्तराभिधायकं बलात्कारकृतमहाभोगविषयम् इति मन्तव्यम् । यस् त्व् आधातारं वञ्चयित्वा गोप्याधिं भुङ्क्ते तस्य भोगानुसारेण लाभद्रव्य एव भागशो नाश इत्य् आह मनुः ।

यः स्वामिनाननुज्ञातम् आधिं भुङ्क्ते विचक्षणः ।
तेनार्थ्द्वृद्धिर् मोक्तव्या तस्य भोगस्य निष्कृतिः ॥

अर्धग्रहणम् अननुज्ञातभोगानुसारेण कल्पितनिष्कृतिक्षमपरिमाणोपलक्षणार्थम् । अन्यथा महाभोगस्यार्धवृद्धिविसर्जनेन निष्कृत्यसंभवात् तस्य भोगस्य निष्कृतिर् इति वाक्यशेषविरोधः स्यात् । अथ विरोधपरिहारार्थम् अल्पभोगविषयम् एवैतद् वचनम् इत्य् उच्यते त(स्या)दाननुज्ञातमहाभोगविषये (?) लाभहानिर् अनेनानुक्ता स्यात् । न चानेनानुक्तत्वे ऽपि “गोप्याधिभोगे नो वृद्धिः” इति याज्ञवल्क्यवचनेन तत्र लाभहानिर् उच्यते इत्य् वाच्यम्, बलकृताल्पभोगविषयत्वात् तस्य । तस्माद् अर्थग्रहणस्योपलक्षणत्वम् एवेति युक्तम् । भोग्याधौ तु गोप्यत्वेन पालिते लाभस्यैव नाशः । समयातिक्रममात्रेण मूलनाशपक्षानवतारात् । न च भोग्याधौ वृद्ध्यभावाल् लाभनाशपक्षस्याप्य् अनवतार इति वाच्यम्, भोगस्यापि लोभत्वात् । न च तत्राभोगे वृद्धिलाभो भविष्यतीति वाच्यम् । यत् आह मनुः ।

न त्व् एवाधौ सोपकारे कौसीदीं वृद्धिम् आप्नुयात् । इति ।

सोपकारे आधौ भोग्याधाव् इत्य् अर्थः (?) । एतद् उक्तं भवति - आधिभोगमात्रार्थं प्रयुक्तधनस्यात्मापराधाद् इतो भोगालाभे लाभहानिर् एव, न पुनर् अङ्गीकृतवृद्धिसिद्धिर् इति । आधात्राद्यपराधाद् अभोगे (?) तु भुञ्जानाद् अधमर्णाद् वा भोगलाभ एव ग्राह्यो धनिना न तु वृद्धिर् इति मन्तव्यम् । यद्य् एवं भोग्याधौ न कद्चिद् अपि वृद्धिः, कथं तर्हि याज्ञवल्क्येन,

गोप्याधिभोगे नो वृद्धिः सोपकारे ऽथ हापिते ।

इति भोग्याधाव् अप्य् उपेक्षया कार्याक्षमत्वे धनिकेन कृते वृद्धिप्रतिषेधः कृतः, प्राप्त्यभावात् प्रतिषेधानुपपत्तेः । उच्यते - यत्राधाता आधेर् उपभोगं वृद्धिदानम् अप्य् आपद्य् अभ्युपगच्छति, तत्र प्राप्ता वृद्धिः “सोपकारे ऽथ हापिते” इत्य् अनेन प्रतिषिध्यते । न च वृद्धिभोगयोः समुच्चयेनाभ्युपगतिर् एव नास्ति, “न त्व् एवाधौ” इति मनुवचननिवारितत्वाद् इति वाच्यम् । मनुवचनस्य भोग्याधौ कदाचिद् अभोगे ऽस्तु वृद्धिर् इति शङ्काव्युदासार्थत्वात् । तस्माद् अन्यथा पालिते सर्वत्राधौ लाभनाशो न गोप्यमात्र इति सिद्धम् । एतेन गोप्ये लाभस्य हानिः, भोग्ये तु लाभावावान् मूलहानिर् इति शम्भूक्तं निरस्तम् । कात्यायनो ऽप्य् अन्यथापालने क्वचिद् अमूलधननाशेन सह लाभनाशस्य विकल्पम् आह ।

अकामम् अननुज्ञातम् आधिं यः कर्म कारयेत् ।
भोक्ता कर्मफलं दाप्यो वृद्धिं वा लभते न सः ॥

कर्मफलं दास्याद्याधौ वेतनम्, शकटाद्याधौ भाटकादिकम्, न तु दास्यादिकृतावघातादिकर्मणह् फलं तण्डुलदिकम्, अपराधाननुरूपत्वात् । अत्रापि कर्मानुसारेणेति द्रष्टव्यम् । दाप्यो बन्धस्वामिने राज्ञेति शेषः । अकामम् इति दास्यादिबुद्धिमदाधिविषयम्, अन्यत्रासंभवात् । तथा कर्म कुर्वाणे ऽय् अश्वाद्याधाव् अतिक्रमकरणे दण्डो न मूलधनहानिर् भवतीत्य् आह स एव ।

यस् त्व् आधिं कर्म कुर्वाणं वाचा दण्देन कर्मभिः ।
पीडयेद् भर्त्सयेच् चैव प्राप्नुयात् पूर्वसाहसम् ॥

अकुर्वति पीडनभर्त्सनकारिणो ऽपि न दण्डः, कुर्वाणम् इत्य् अभिधानात् । क्वचिद् दण्डाध्यपगमाभ्यां हानिर् इत्य् आह स एव ।

बलाद् अकामं यत्राधिम् अनिसृष्टं प्रवेशयेत् ।
प्राप्नुयात् साहसं पूर्वम् आधाता चाधिम् आप्नुयात् ॥

अनिसृष्टम् अनाहितम्, भोग्याधौ बलाद् अल्पस्याप्य् अनाहितस्य भोगे भोक्तुर् दण्डः सर्वमूलनाशश् च स्याद् इति तात्पर्यार्थः । वञ्चनया तु भोगे कृते भोगानुसारेण मूलनाशः, अन्यथा बलाद् ग्रहणानर्थक्यापत्तेः । यस् त्व् आधौ ह्रासादिकं करोति तं प्रत्याह याज्ञवल्क्यः - “नष्टो देयः” इति । धनिनः प्रमादान् नष्टो विक्र्तिं गतो बन्धः पूर्ववत् कृत्वाधमर्णायोत्तमर्णेन देय इत्य् अर्थः । अधमर्णाच् च सलाभम् ऋणम् उत्तमर्णो गृह्णीयात् । अविकृतस्यैवाधेर् अर्पितत्वात् । अथ विकृतम् एवाधिम् अर्पयति तदा ऋणम् एव लभते लाभहानेः । तथा च नारदः ।

उपचारस् तथैवास्य लाभहानिविपर्यये ।
प्रमादाद् धनिनस् तद्वद् आधौ विकृतिम् आगते ॥ इति ।

अत्र पूर्वार्थम्"बन्धं यथा स्थापितम्" इत्यादिहारीतवचनसमानार्थम् । उत्तरार्धस्य त्व् अयम् अर्थः । यद्वद् विपर्यये लाभाहानिः तद्वद् विकृतिम् आगते यदि विकृतम् एवार्पयेद् इति । अयं च पक्षो विकृतस्याधेः पूर्ववत्करणपर्याप्तलाभसद्भवे, अन्यथा प्राचीन एव पक्षः । प्रमादाद् इति धनिकदोषोपलक्षणार्थम् । तेन भोगव्यतिरिक्तदोषाद् विकृतिम् आगते ऽप्य् आधौ पूर्ववत् कृत्वार्पणं लाभहानिर् वा । भोगाद् विकृतिम् आगते तु गोप्याधौ द्वयम् अपीत्य् अनुसंधेयम् । विकृतिम् आगत इत्य् अनेनैव ह्रासव्यक्त्यन्यत्वासारत्वाद्य् अपि संगृहीतम् आधेर् अयथास्वरूपत्वतौल्यात् । तेन तराप्य् एष एव विधिर् ज्ञेयः । भोगाद् असारत्वे तु मूलद्रव्यम् एव हीयत इत्य् आह बृहस्पतिः ।

भुक्ते त्व् असारतां प्राप्ते मूलहानिः प्रजायते । इति ।

असारत्वानुसारेणेत्य् अभिप्रायः । यदा तु धनिकदोषाद् आधिः विध्वस्तस् तदा मूल्यद्वारेणाधिं दत्वा धनी सलाभम् ऋणं गृह्णीयात् । तद् आह व्यासः ।

ग्रहीतृदोषान् नष्टश् चेद् बन्धो हेमादिको भवेत् ।
ऋणं सलाभं संशोध्य तन्मूल्यं दापयेद् धनी ॥

आधितो ऽप्य् अधिकभूतसलाभर्णविषयम् एतत् । ऋणपर्याप्ताधिनाशे त्व् आह नारदः - “विनष्टे मूलनाशः स्यात्” इति । सलाभर्णपर्याप्ताधिनाशे तु सलाबर्णनाशः स्याद् इत्य् एतद् अप्य् आह हारीतः ।

तत्समो द्विगुणो वाधिर् धनिकस्य समर्पितः ।
आधौ नष्टे धनं नष्टं धनिकस्याधिर् एव च ॥

धनं समं द्विगुणं वा । धनिकस्याधिनाशो ऽत्राध्यन्तरालाभात् । एतद् उक्तं भवति । ध्वस्ताधिधनसमानधननाशः धनिकस्य स्याद् इति । सलाभर्णात् बहुमूल्याधिनाशे तु सलाभर्णादुर्वरिताधिमूल्यम् (?) आधिदात्रे देयम् इत्य् आह बृहस्पतिः ।

बहुमूल्यो यत्र नष्टः ऋणिकं तत्र तोषयेत् । इति ।

न च तोषयेद् इति वचनाद् यावता धनेन तुष्यति तावद् धनं देयम् इति शङ्कनीयम् । यत आह मनुः ।

मूल्येन तोषयेद् एनम् आधिस्तेनो ऽन्यथा भवेत् । इति ।

सलाभर्णापगतावशिष्टाध्यंशस्य मूल्येनेत्य् अर्थः । यदि धनी मूल्येन ऋणिकं न तोषयति तदा त्व् आधिप्रत्यर्पणप्रतिभूर् मूल्येन ऋणिकं तोषयेत् । तथा च हारीतः ।

खादको वित्तहीनश् चेल् लग्नको वित्तवान् यदि ।
मूल्यं तस्य भवेद् देयं न वृद्धिं दातुम् अर्हति ॥

आधीकृतस्य धनस्य प्रीतिदत्तधनस्येव कारितवृद्ध्यसंभवाद् इत्य् अभिप्रायः । खादखो बन्धखादकः । आधिनाशक इति यावत् । लग्नकः प्रतिभूः । मूल्यं खादिताधेर् मूल्यम् । यद्य् अत्र ऋणिको बलाद् वृद्धिं गृह्णाति तदा गृहीतवृद्ध्या सहापराधानुरूपदण्डभाग् इत्य् आह स एव ।

द्विगुणं त्रिगुणं वापि यः साधयति लग्नकम् ।
राजगामि तु तद् द्रव्यं साधको दण्डम् अर्हति ॥

लग्नकग्रहणं धनिकस्याप्य् उपलक्षणार्थम् । अविध्यमानवृद्धिसाधनन्यायस्य धनिके ऽपि तुल्यत्वात् । एवं धनिओ ऽप्य् अन्यायकृद् दण्डभाक् । तथा च कत्यायनः ।

आधिं दुष्टेन लेख्येन बुङ्क्ते यम् ऋणिकाद् धनी ।
नृपो दमं दापयित्वा आधिलेख्यं विनाशयेत् ॥

ऋणिकद्रव्यभोगनिष्कृत्यर्थं वृद्धिहानिर् अत्राप्य् उन्नेया ॥

**इति स्मृतिचन्द्रिकायां सदोषधनिकाधिविषयाणि **

स्वत्वध्वंसादिः

अथाधेः स्वत्वध्वंसादिविषयाणि

तत्र याज्ञवल्क्यः ।

आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्ष्यते । इति ।

प्रयुक्तार्थे द्विगुणीभूते यदि गोप्याधिर् न मोक्ष्यते तदासौ प्रणश्यति, अधर्मर्णस्य स्वं न भवेद् इत्य् अर्थः । कृतकालस् त्व् आधिर् गोप्यो भोग्यो वा संप्रतिपन्ने काले यदि न मोक्ष्यते तदा तस्यापि पूर्ववन् नाशम् आह स एव - “काले कालकृतो नश्येत्” इति । यद्य् अहम् इदम् इयता कालेन ऋणं न ददामि तदाधिर् एवानृणाय तव भविष्यतीत्र्य् एवम् अभिहितः कालकृतः । अत्र धनिनः स्वत्वापत्तिम् आह व्यासः ।

हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधौ ।
बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य तु ॥

अनेनार्वाक् चतुर्दसदिनाद् आधिनाशो ऽपि नेत्य् अर्थाद् उक्तम् । उक्तं च साक्षाद् एवानन्तरम् ।

अतो ऽन्तरा धनं दत्वा ऋणी बन्धकम् आप्नुयात् । इति ।

अतो ऽन्तरा चतुर्दसदिनाद् अर्गाव् इत्य् आर्थः । ननूर्ध्वम् अपि चतुर्दशदिनाद् धनं दत्वा बन्धकम् ऋणी किम् इति नाप्नोति, स्वत्वध्वंसकाभावात् । धनद्वैगुण्यम् अवधिभूतकालातिक्रमणं च तद्ध्वंसकम् इति चेत्, न, दानविक्रयादेर् एव तद्ध्वंसकत्वात् । आदिशब्दपरिगृहीतवर्ड़्गान्तर्गतं द्वैगुण्यादिकम् अपीति चेत्, न, स्वत्वध्वंसकतया लोकप्रसिद्धानाम् एवादिशब्देन परिग्रहात् । द्वैगुण्यादिकम् अपि तथेति चेत्, न — न हि लोके द्वैगुण्यादेस् तथा प्रसिद्धिर् अस्ति । उच्यते — सत्यं द्वैगुणादेर् नस्त्य् एव तथा प्रसिद्धिः, द्रव्यविनिमयस्य तु तथा प्रसिद्धिर् अस्त्य् एव तिलविक्रयप्रतिषेधाद् विक्रयाकरणे ऽपि विनिमयेन तिलानां स्वत्वनिवृत्तिदर्शनात् । ततश् चात्रापि कृतकालाधौ ऋणग्रहणकाल एव यद्य् अहम् इयता कालेन न ददामि तदाधिर् एवानृण्याय तव भविष्यतीति धनिकर्णिकयोर् धनविनिमयसंप्रतिपत्तेर् ज्ञातत्वाद् अवधिभूतकाले स्वत्वध्वंसो युक्त एव । एतद् एव नाशनिमित्तं याज्ञवल्क्येन “कालकृतः” इत्य् अनेनोक्तम् । द्वैगुण्ये तु यद् अपि ऋणग्रहणकाले यद्य् अहं द्वैगुण्ये ऽप्य् आधिं न मोक्षयामि तदाधिर् एवानृण्याय तव भविष्यतीति धनिकर्णिकयोर् धनविधिमयसंप्रतिपत्तिनियमाभावः । तथापि यत्रैवेयं संप्रतिपत्तिः कृता तत्रैव द्वैगुण्ये स्वत्वध्वंसः, हेतुसद्भावात्, तद्विषयं च “आधिः प्रणश्येत्” इति वचनम् इत्य् अनवद्यम् । एवं क्रयप्रतिग्रहाद्यभावे ऽपि विनिमयेनैवाधौ धनिकस्य स्वत्वापत्तिः व्रीह्यादाव् इव तिलविनियमकर्तुर् इति युक्तम् उक्तम् “बन्धकस्य धनी स्वामी” इति । द्विसप्तदिनप्रतीक्षणं तु विनिमयदार्ढ्यज्ञानार्थम् उक्तम् । द्रव्यविक्रयादेर् इव दृढविनिमयसैव स्वत्वध्वंसादिनिमित्तत्वात् । एवं च “अतो ऽन्तरा धनं दत्वा” इत्य् अपि वचनं युक्तम् एव । यत् तु बृहस्पतिनोक्तम्,

पूर्णावधौ शान्तलाभे बन्धे स्वामी धनी भवेत् ।
अनिर्गते दशाहे तु ऋणी मोक्षितुम् अर्हति ॥

इति, तद् वृद्ध्यर्थप्रयुक्तवस्त्रादिविषयम्, “ब्राह्मणेभ्यो दधि दीयताम्” इत्यादिवत् सामान्यविशेषन्यायात् । लाभशान्तिर् अपि वस्त्रादौ त्रैगुण्यादिविधायकवचनानुसारेणवगन्तव्या । एवं च चतुर्दशदिनाद् ऊर्ध्वम् आधौ स्वत्वापत्तेः यथेष्टविनियोगो हिरण्यप्रयोक्तुर् अविरुद्धः । वस्त्रादिप्रयोक्तुस् तु दसदिनाद् ऊर्ध्वम् एवेति मन्तव्यम् । यत् पुनस् तेनोक्तम्,

गोप्याधिः द्विगुणाद् ऊर्ध्वं कृतकालो यथाविधि ।
आवेदयित्वर्णिकुले भोक्तव्यः समनन्तरम् ॥

इति, तत् स्वत्वापत्तेर् अर्वाग् आधेर् अभोगमात्रविधिपरम्, न पुनर् यथेष्टविनियोगो न कदाचित् त्व् आधेर् अस्तीत्य् एवंपरम्, समनन्तरम् इत्य् अभिधानात् । तस्मान् न बार्हस्पत्यवचनयोः परस्परविरोधः । नापि व्यासबृहस्पतिवचनयोः । यत् पुनर् मनुनोक्तम्,

न चाधेः कालसंरोधान् निसर्गो ऽस्ति न विक्रयः ।

इति, तस्यायम् अर्थः - कालसंरोधः चिरकालावस्थानाद् द्विगुणीभूते ऽप्य् अमोक्षणम् इति यावत् । तस्मात् कालसंरोधात् केवलाद् ऋणग्रहणकाले विनिमयसंप्रतिपत्तिरहिताद् आधेर् न निसर्गो ऽस्ति नान्यत्राधीकरणं दानं वास्ति, विक्रयश् च नास्ति, किं तु शान्तलाभस् तिष्ठत्य् एव तावद् यावद् आधात्रा न विमोक्ष्यत इति । यदा तु शान्तलाभे धने बन्धकस्य तथैवावस्थितस्य मोचनात् प्राक् ऋणिकस्य मरणादिर् भवेत् तत्र किं कार्यम् इत्य् अपेक्षिते आह बृहस्पतिः ।

हिरण्ये द्विगुणीभूते मृते नष्टे ऽधमर्णिके ।
द्रव्यं तदीयं संगृह्य विक्रीणीत (?) समाक्षिकम् ॥
रक्षेद् वा कृतमूल्यं तु दशाहं जनसंसदि ।
ऋणानुरूपं परतो गृह्णीतान्यत् तु वर्जयेत् ॥ इति ।

हिरण्ये द्विगुणीभूते पश्चाद् आधिमोक्षणाद् अर्वाग् इत् शेषः । नष्टे कुत्र गत इति चिरकालम् अविज्ञाते । अधर्मर्णग्रहणम् ऋणदादाधिकारिणः पुत्रादेर् उपलक्षणार्थम् । द्रव्यम् आधीकृतद्रव्यम् । ऋणानुरूपं द्विगुणद्रव्यपर्याप्तम् । अन्यत् तु वर्जयेद् इति वदन् हिरण्ये द्विगुणीभूते ऽपि धने धनिकस्यादाव् अस्वामित्वं दर्शयति । ततश् च विनिमयहीनाधिविषयम् अनुवचनवद् एतद् अपि वचनं मन्तव्यम् । “हिरण्ये द्विगुणीभूते” इत्य् उदाहरणतयोक्तम्, ततश् च वस्त्रादौ शान्तलाभे ऽपि वचनम् एतद् ऊह्यम् । अत एव सामान्येनोक्तम् कात्यायनेन ।

आधाता यत्र न स्यात् तु धनी बन्धं निवेदयेत् ।
राज्ञे ततः सविख्यातो विक्रेय इति धारणा ॥
सवृद्धिकं गृहीत्वा तु शेषं राजन्य् अथार्पयेत् ॥ इति ।

आधातृग्रहणमात्रापि पूर्ववद् उपलक्षणार्थम् । राजन्य् अर्पयेद् इति ज्ञात्यादिप्रत्यासन्नाभावविषयम्, तत्सद्भावे तत्रैवार्पणस्य न्याय्यत्वात् । यत्र शेषार्पणं क्रियते तेनैव यदि सवृद्धिकं धनं दत्वा बन्धो गृह्यते तदा न विक्रयः प्रयोजनस्य विद्धत्वात् । अत एव तिष्ठेद् वेति प्रतीक्षणपक्षो ऽप्य् उक्तः । अन्यत्र त्व् आधीकरणम् अप्य् अस्मिन् विषये न विरुद्धम्, दण्ड्पूपन्यायात् । किं तु मूलमात्रम् एवान्यत्राधीकृत्यादेयं न तु सवृद्धिकम् । यद् आह प्रजापतिः,

ध्नी धनेन तेनैव परम् आधिं नयेद् यदि ।
कृत्वा तद् आधिलिखितं पूर्वं चास्य समर्पयेत् ॥

इति, यद् बन्धस्वामिनि धनं प्रयुक्तं तत्तुल्येनैव् धनेन परं धनिकान्तरम् आधिं नयेत्, न त्व् अधिकेनेत्य् अर्थः । अयं चान्वाधौ नियमस्तम्प्रतिपत्त्या (?) द्वैगुण्यादर्वादगन्वाधौ (?) द्रष्टव्यः । एवम् उक्तो ज्ञात्यादाव् अर्पणान्तो विधिः बहुमूल्याधिविषय एव, शेषार्पणादेस् तत्रैव संभवात् । सममूल्ये ऽप्य् एवं विक्रीय गृहीत्वा ऋणशेषम् ऋणादानाधिकारिणि कथंचिद् आत्ते (?) गृह्णीयाद् इत्याद्युक्तवचनत एवोह्यम् । यदा त्व् आधाता स्वल्पमूल्यधनं सुकृतं वाधाय ऋणं गृहीत्वा द्वैगुण्ये जाते ऽपि शान्तलाभं धनं न वर्धते, न चाधेर् आधानान्तरं विक्रयणं वा धनिना कर्तुं मय्य् अवस्थिते शक्यम् इति बुद्ध्या ऋणदाने विलम्बम् एवालम्बते तदासौ राज्ञा दाप्य इत्य् आह याज्ञवल्क्यः ।

चरित्रबन्धककृतं सवृद्ध्या दापयेद् धनम् । इति ।

द्व्यर्थीं चायं ग्रन्थः । एकस् तावद् अर्थः । स्वच्छाशयाधमर्णाङ्गुलीयकाद्यल्पमूल्यं (?) बन्धकम् अभूत् तच् चरित्रबन्धकम्, तेन कृतम् उपात्तम् ऋणम् अददतम् अधमर्णम् उत्ततमार्णाय सवृद्धिकं सवृद्धिकं राजा द्वैगुण्याद् ऊर्ध्वं दापयेद् इति । अन्यस् तु - चरित्रं इष्टापूर्तादिको धर्मः, स एव बन्धकम् आधिः तेन कृतम् इत्यादि समानम् । एवंविधे त्व् आधौ धनम् अप्रयच्छतो ऽधमर्णस्य नास्त्य् आनृण्यम् इत्य् अभिप्रायः । अकृतकालफलभोग्याधाव् अप्य् आनृण्यम् अधर्मर्णस्य धनदानत एव नान्यतः, फलभोगाद् अवृद्धिकत्वे ऽपि मूलानपायात् । न चाधिनौव तद् अपाय इति वाच्यम्, यद् आह स एव - “फलभोग्यो न नश्यति” इति । मूलधाप्रदाने तवैवाधिर् भविष्यतीति विनिमयसंप्रतिपत्तेर् धनग्रहणानन्तरक्षण एव मूलधनाप्रदानाद् आधिनाशापत्त्यासंभवनिरस्तत्वाद् अन्यस्य नाशकस्याविध्यमानत्वाद् इत्य् अभिप्रायः ॥

**इति स्मृतिचन्द्रिकायाम् आधेः स्वत्वध्वंसादिविषयाणि **

आधिसिद्धिः

अथाधिसिद्धिविषयाणि

तत्र नारदः ।

आधिस् तु द्विविधः प्रोक्तः जङ्गमः स्थावरस् तथा ।
सिद्धिर् अस्योभयस्यापि भोगो यद्य् अस्ति नान्यथा ॥

सिद्धिः आधित्वसिद्धिः । अन्यथा विना भोगम् अधमर्णोद्दिष्टस्योत्तमर्णस्वीकारमारेणेति यावत् । गोप्याधौ निर्भोगे भोगस्थानीयभाण्डागारान्तर्निधानादिव्यापाराद् आधित्वसिद्धिर् (?) अध्यवसेया । एवम् अस्माकम् एतदीयं गृहाद्याधिर् इति ऋणिकसंनिधौ मध्यस्थजनेष्व् आवेदनं दूरस्थत्वादिना भोगाद्यभावे त्व् आधिसाधकम् इत्य् अवगन्तव्यम् । अत एव व्यतिरेकमुखेन पूर्वोक्तेषु साधकत्वम् आह बृहस्पतिः ।

न भुङ्क्ते यः स्वम् आधानं नादद्यान् न निवेदयेत् ।
प्रमीतसाक्षी ऋणिकः तस्य लेख्यम् अपार्थकम् ॥
स्वम् आधानम् । लेख्यम् आधिलेख्यम् । सिद्धेः संदिग्धलेख्यशुद्धिर् अपि प्रयोजनम् इत्य् अर्थाद् उक्तम् । एवम् एवाधीयमानव्यक्तिविशेषोल्लेखनेन लेखनम् अप्य् आधिसाधकम् । तथा च कात्यायनः ।

मरादाचिह्नितं क्षेत्रं ग्रामं वापि यदा भवेत् ।
ग्रामादयश् च लिख्यन्ते तदा सिद्धिम् अवाप्नुयात् ॥

ग्रामादयश् च क्षेत्राध्याधेर् व्यावर्तकत्वेनेति सेषः । आधिशब्देन देशादयो गृह्यन्ते ॥

इति स्मृतिचन्द्रिकायाम् आधिसिद्धिविषयाणि

आध्यादिविवादापनोद

अथाध्यादिविवादापनोदविषयाणि

तत्र विष्णुः ।

द्वयोर् निक्षिप्त आधौ तु विवदेतां यदा नरौ ।
यस्य भुक्तिर् जयस् तस्य बलात्कारं विना कृता ॥

तस्यैव भोगाद् आधिसिद्धेर् जातत्वाद् इत्य् अभिप्रायः । द्वयोर् अपि भुक्तियुक्तत्वे त्व् आह बृहस्प्ततिः ।

क्षेत्रम् एकं द्वयोर् बन्धे दत्तं यत् समकालिकम् ।
येन भुक्तं भवेत् पूर्वं तस्य तत्सिद्धिम् आप्नुयात् ॥

दत्तम् अधर्मर्णेनोद्दिष्टम् इत्य् अर्थः । क्षेत्रग्रहणं भोग्याधेर् उपलक्षणार्थम् । अत एवाविसेषेणाह वसिष्ठः ।

तुल्यकाले ऽभिसृष्टानां लेख्यानाम् आधिकर्मणि ।
येन भुक्तं भवेत् पूर्वं तस्याधिर् बलवत्तरः ॥

तुल्यकालोत्पन्नानां लेख्यानां सद्भावसाम्ये ऽपि भोग्याध्सिद्धौ भोगस्य प्रधानकारणत्वात् तत्प्राथम्यनिबन्धना बलवत्ता युक्तेत्य् अर्थः । भोगविशेषे ऽप्य् आह स एव ।

यद्य् एकदिवसे तौ तु भोक्तुकामाव् उपागतौ ।
विभज्यादिः समं तेन भोक्तव्य इति निश्चयः ॥

तेन ताभ्याम् इत्य् अर्थः । गोप्याधाव् अपि तदुपादानादिकर्तुर् जयः, तस्यैवाधिसिद्धेर् जातत्वात् । द्वयोस् तत्सिद्दिसाम्ये ऽप्य् आह कात्यायनः ।

आधिम् एकं द्वयोर् यस् तु कुर्यात् का प्रतिपद् भवेत् ।
तयोः पूर्वकृतं ग्राह्यं तत्कर्ता चोरदण्डभाक् ॥

ऋणग्रहणोपक्रमत्वाद् आधिक्रिया प्रतिपद् इत्य् उच्यते । पूर्वकृतं पूर्वम् उपादानादिना सिद्धम् । आधिविशेषे दण्डविशेषम् आह विष्णुः - “गोचर्ममात्राधिकां भुवम् अन्यस्याधीकृतां तस्माद् अनिर्मोच्यान्यस्य यः प्रयच्छेत् स विधय्ः ऊना चेत् तु षोडशसुवर्णं दण्ड्यः” इति । उपादानादौ यौगपद्ये ऽप्य् आह बृहस्पतिः ।

तुल्यकालोपस्थितयोर् द्वयोर् अपि समं भवेत् ॥ इति ।

उपस्थितयोर् उपादानादिकं कर्तुम् इति शेषः । साक्षिलेख्यमात्रसिद्धानाम् आध्यादीनां मध्ये लेख्यसिद्धं विरोधे ग्राह्यम् इत्य् आह कात्यायनः ।

आधानं विक्रयो दानं लेख्यसाक्षिकृतं यदा ।
एकक्रियाविरुद्धं तु लेख्यं तत्रापहारकम् ॥

लेख्यं लेख्यकृतं लेख्यसिद्दम् इति यावत् । अपहारकं बलवत् । लेख्यसिद्धत्वाविसेषे ऽपि बलाबलम् आह स एव ।

अनिर्दिष्टं च निर्दिष्टम् एकत्र च विलेखितम् ।
विशेषलिखितं ज्याय इति कात्यायनो ऽब्रवीत् ॥

एकत्राधीकरणादौ विशेषलिखितं निर्दिष्टलिखितं तत् अनिर्दिष्टलिखिताज्ज्याय इत्य् अर्थः । लेख्ये निर्विशितं विलेखितम् । अनिर्दिष्टनिर्दिष्टपदयोर् अर्थं स्वयम् एव व्याचष्टे ।

यो विद्यमानं प्रधनम् स्नादिष्टस्वरूपकम् ।
आकाशभूतम् आदध्याद् आदिष्टं नैव तद् भवेत् ॥
यद् यत् तदास्य विद्येत तद् आदिष्टं विनिर्दिशेत् ॥ इति ।

प्रशब्दः पादपूरणार्थः । अनादिष्टस्वरूपकम् अनिरूपितस्वरूपकम् । आकाशभूतम् अविद्यमानप्रायम् । आदिष्टं नैव तद् भवेत् निर्दिष्टं नै तद् भवेत्, अनिर्दिष्टं भवेद् इति यवत् । आदिष्टं निर्दिष्टम् । एवं चायम् अर्थः - आधातुर् आधीकरणकाले यद् यद् धनं विद्येत निरूपितस्वरूपं च तत् तद् धनम् आधित्वेनादिष्टं सन् निर्दिष्टम् इत्य् उच्यते । तद् विपरीतं तु धनम् आधित्वेन कल्प्यमानम् अनिर्दिष्टम् इत्य् उच्यत इति । आधीकरणकाले विद्यमानत्वसाम्ये ऽप्य् आह स एव ।

यस् तु सर्वस्वम् आदिश्य प्राक् पश्चान् नामचिह्नितम् ।
आदध्यात् तत् कथं तु स्याच् चिह्नितं बलवत्तरम् ॥

अस्यार्थः - यः पूर्वम् अविशेषेण सर्वसम् आधित्वेनोद्दिश्य कस्यचिद् धस्ताद् ऋणं गृहीत्वा कालान्तरे पुनर् धनिकसंप्रतिपत्त्या क्षेत्रादिकं किंचिद् एव घट्टादिचिह्नितं पूर्वगृहीतऋणार्थम् एव दद्यत्, तत्र चिह्नितं बलवत्तरम् । पूर्वाधेर् आधिक्रियान्तरादिद्रियाप्रतिबन्धकधनिकेनैव त्यक्तत्वाद् इति । चिह्नितम् इति विरोध्यन्तरक्रियोपलक्षणार्थम् । तेन यदा प्रथमम् आधिम् आदाय धनी धनं दत्वा पस्चाद् अवञ्चकत्वं विज्ञाय आधिम् अन्तरेणैवात ऊर्ध्वम् ऋणम् आस्तां त्व्यीति प्रकरान्तरेण पुनः क्रियां करोति, तदा निराधिक्रियैव बलवतीत्य् अवगन्तव्यम् । अत एव याज्ञवल्क्यः ।

सर्वेष्व् अर्थविवादेषु बलवत्य् उत्तरा क्रिया । इति ।

तेन पूर्वस्याः क्रियाया बाधिका (?) भवतीत्य् अभिप्रायः । उदाहरणान्तरं तु - अशीतिभागवृद्धिके धने पुनस् तदर्धवृद्धिके सौहार्दादिवशात् कृते सत्य् अशीतिभागवृद्धिक्रियायाःतदर्धभागवृद्धिक्रियया बाधनम् । चिह्नितादिकं च पूर्वोक्तम् अत्रैवोदाहरणम् इत्य् अनुसंधेयम् । क्वचिद् अपवादम् उत्तरक्रियाबलवत्त्वस्याह स एव ।

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा । इति ।

स्वामित्वप्रतिबन्धापगमाभ्यां प्राग् एव पूर्वस्याः क्रियायाः कृतत्वाद् इत्य् अभिप्रायः । अनेनैवाभिप्रायेण वसिष्ठो ऽपि ।

यं पूर्वतरम् आधाय विक्रीणाति तु तम् पुनः ।
किम् एतयोर् बलीयः स्यात् प्राक्तनं बलवत्तरम् ॥

यद्य् अप्य् आधीकरणेन न स्वामिभावो निवर्तते, तथापि प्रतिबध्यते । ततश् च प्रतिबन्धस्वामिभावेन कृतो विक्रयः परेण कृत इवासिद्धत्वाद् दुर्बलो बाध्य एवेत्य् अनवद्यम् । आध्यादीनां यौगपद्ये ऽप्य् आह स एव ।

कृतं यत्रैकदिवसे दानाधमनविक्रयम् ।
त्रयाणाम् इति संदेहे कथं तत्र विचिन्तयेत् ॥
त्रयो ऽपि तद् धनं धर्म्यं विभजेयुर् यथांशतः ।
उभौ क्रियानुसारेण त्रिभागेन प्रतिग्रही ॥ इति ।

यत्र त्रयाणां दानादिकं कृतं तत्र कथम् इति संदेहे निर्णयाय विचिन्तयेद् इत्य् अर्थः । उभौ धनिकक्रेतारौ । क्रियानुसारेण दत्तधनानुसारेण । धने क्रियेतिशब्दः करणव्युत्पत्त्या वर्तितुम् उत्सहते । बृहस्पतिर् अपि ।

कृतं चेद् एकदिवसे विक्रयाधिप्रतिग्रहम् ।
त्रयाणाम् अपि संदिग्धे कथं तत्र विचारणा ॥
त्रीण्य् एवात्र प्रमाणानि विभजेयुर् यथांशतः ।
उभौ चार्थानुसारेण त्रिभागेन प्रतिग्रही ॥ इति ।

अर्थानुसारेण भागद्वयं गृह्णीयाताम् इति सेषः । एवं पूर्ववचने ऽपि क्रियानुसारेणेत्य् अत्र विशेषो द्रष्टव्यः । त्रिभागेन प्रतिग्रही संबध्यत इति शेषः । प्रतिग्रह इति तु पाठे पूर्ववचनवन् निष्पद्यत इति विशेषो ग्राह्यः ।

**इति स्मृतिचन्द्रिकायां विवादापनोदविषयाणि **

आधिमोचनम्

अथाधिमोचनविषयाणि

तत्र व्यासः ।

गोप्याधिं द्विगुणाद् ऊर्ध्वं मोचयेद् अधमर्णकः ॥ इति ।

द्विगुणाद् ऊर्ध्वं प्रयुक्तधने शान्तलाभे सतीत्य् अर्थः । मोचयेत् सवृद्धिकमूलदानेनेति शेषः । एतच् च द्वैगुण्यादिनिबन्धनाधिनाशाभावविषये वेदितव्यम् । तन्निबन्धनाधिनाशविषये तु तन्नाशात् प्राग् एव मोचयेत् । तथा चोक्तं तेनैव ।

धनम् अत्र सवृद्धिकमूलं विवक्षितम् । अतो ऽन्तरा ऋणिकप्रतीक्षणायोक्तकालमध्यकाल इत्य् अर्थः । ऋणिकप्रतीक्षणकलश् च लाभशान्तिम् आरभ्य द्विसप्तदिनम् । लाभशान्तितः पूर्वकालमध्ये ऽपि सवृद्धिके धने दत्ते बन्धावाप्तिर् दण्डापूपन्यायाद् अनेनैव वचनेनोक्तेति मन्तव्यम् । फलभोग्याधिं तु मूलमात्रं दत्वा फलकालान्ते वर्तमानम् आप्नुयाद् ऋणीत्य् आह स एव ।
फलभोग्यं पूर्वकालं दत्वा द्रव्यं तु सामकम् । इति ।

“ऋणी बन्धकम् आप्नुयात्” इति पूर्वार्धे पठितम् इहानुषज्यते । समम् एव सामकम्, मूलमात्रम् इति यावत् । फलभोग्यग्रहणात् स्वरूपेण भोग्यवस्त्राद्याधौ न कालव्यवस्था । तत्र धनिनं प्रय् आह बृहस्पतिः ।

धनं मूलीकृतं दत्वा यदाधिं प्रार्थयेद् ऋणी ।
तदैव तस्य मोक्तव्यो ह्य् अन्यथा दोषभाग् धनी ॥

भोग्याधाव् एवम् एव । गोप्याधौ तु मूलीकृतं सवृद्धिकं दत्वा यदा प्रार्थयते तदैव मोक्तव्यम् । मूलीकृतग्रहणस्याधमर्णदेयधनपरत्वात् । दोषः स्तेयदोषः । अत एव याज्ञवल्क्यः ।

उपस्थितस्य मोक्तव्य आधिः स्तेनो ऽन्यथा भवेत् । इति ।

उपस्थितस्य धनदानपूर्वकम् आधिमोक्षायोपस्थितस्य । स्तेनः स्तेनवद् दण्ड्य इत्य् अर्थः । उपस्थितस्य देशतः कालतो वा धनिकव्यवधाने सति धनिककुटुम्बेनाधिर् मोक्तव्यः । एतद् अप्य् अर्थाद् आह स एव ।

प्रयोजके सति धनं कुले न्यस्याधिम् आप्नुयात् । इति ।

प्रयोजको धनप्रयोक्ता । आप्नुयात् तदानीम् एवति शेषः । अथ वा, अधमर्णः प्रयोक्तृकुले न्यस्तधनो ऽपि प्रयोक्तुर् आगमनाद् ऊर्ध्वम् एवाधिं तन्मूल्यधनं वा ऋणापाकरणकाले परिकल्पितम् अवृद्धिकम् आप्नुयात् । एतद् अप्य् आह वचोबङ्ग्या स एव ।

तत्काककृतमूल्यो वा तत्र तिष्ठेद् अवृद्धिकः । इति ।

तिष्ठेद् आधिर् इति शेषः । तत्र प्रयोक्तृकुल इत्य् अर्थः । सत्य् अपि धनप्रयोजके धने शान्तलाभे ऽपि क्वचिद् विषये चिरेणैवाधिम् ऋणी समाप्नुयाद् इत्य् आह बृहस्पतिः ।

क्षेत्रादिकं यदा भुक्तम् उत्पन्नम् अधिकं ततः ।
मूलोदयं प्रविष्टं चेत् तदाधिं प्राप्नुयाद् ऋणी ॥

आधीकृतं क्षेत्रादिकं धनिकेन लाभशान्तेः पश्चाद् एव यदा भुक्तं ततो भुज्यमानाद् यदि धनम् उत्पन्नम् अधिकं क्षेत्रार्थव्ययाद् अभ्यधिकं मूलोदयतुल्यं यदा यस्मिन् काले धनिनि प्रविष्टं तदा तस्मिन् काल एवाधिम् ऋणी लभत इत्य् अर्थः । एवम् आधिलाभः कस्मिन् विषये बहव्तीत्य् अपेक्षिते स एवाह ।

पारिभाष्य यदा क्षेत्रं प्रदद्याद् धनिके ऋणी ।
त्वयैतच् छान्तलाभे ऽर्थे भोक्तव्यम् इति निश्चितम् ॥
प्रविष्टे सोदये द्रव्ये प्रदातव्यं त्वया मम ॥ इति ।

त्वयैतद् इत्यादि (?) परिभाष्य यदा ऋणग्रहणकाले क्षेत्राद्याधिं प्रदद्यात्, तदा प्रागुक्तविधयाधिलाभ इत्य् अर्थः । एवम् एवाधेर् लाभो ऽनयैव परिभाषया लाभशान्तेः पश्चाद् आधौ दत्ते भवतीत्य् आह याज्ञवल्क्यः ।

यदा तु द्विगुणीभूतम् ऋणम् आधौ तदा खलु ।
मोच्य आधिस् तदुतप्प्ने प्रविष्टे द्विगुणे धने ॥

आधौ तदा दत्त इति शेषः । अत एव विष्णुः - “गृहीतधनप्रवेशार्थम् एव यत् स्थावरं दत्तं तद् गृहीतधप्रवेशे दद्यात्” । एवंभूतपरिभाषया चाभिहितं क्षयाधिम् आचक्षते लौकिकाः । एवंभूतपरिभाषाकरणे तु सोदयाद् अत्यन्ताभ्यधिके ऽपि प्रविष्टे सामकदानं विना न कदाचिद् आधिलाध (भ?) इत्य् अनुसंधेयम् । तथान्यत्रापि क्वचिद् विषये सामकदानं विना नाधिलाभ इत्य् आह बृहस्पतिः ।

यत्राहितं गृहक्षेत्रं भोगेन प्रकर्षान्वितम् ।
तत्रर्णी नाप्नुयाद् बन्धं धनी चैव ऋणं तथा ॥
पूर्णे प्रकर्षे तत्स्वाम्यं तूभयोः परिकीर्तितम् ।
अपूर्णे ऽपि प्रकुर्यातां परस्परमतेन तौ ॥ इति ।

विषयज्ञानं विना नास्यार्थो ज्ञातुं शक्य इति विषयस् तावद् अभिधीयते — शान्तलाभे धने जाते वृद्धिमात्रावाप्त्यर्थम् अयम् आधिर् भोक्तव्य इति परिभाषां कृत्वाधिर् दत्तः, ऋणग्रहणकाले लाभशान्तिकाले वास्वाच् चाधेर् एतावति काल उत्पन्नं वृद्धेर् अपर्याप्तम् अपि समग्रवृद्ध्यर्थम् एवास्त्व् इति परिभाषाकरणकाले ऽनुक्तं च । अथ वा तत्रास्माच् चाधेर् इत्याद्य् अस्त्व् इत्य् अन्तम् उक्तम् एवेति द्विधा विषयः । अर्थो ऽप्य् अभिधीयते — आध्युत्पन्नो ऽर्थः उत्पत्त्यर्थव्ययाद् अवशिष्टः प्रकर्षपदेनात्रोक्तः, तस्मैन् समग्रवृद्ध्यपर्याप्ते धनिनि प्रविष्टे ऋणी मूलमात्रं दत्वा बन्धं परिभाषितकालात्यये ऽपि नाप्नुयात् । धनी च ऋणमूलमात्रं तदा नाप्नुयात् न गृह्णीयात्, किं तु पूर्णे प्रकर्षे समग्रवृद्धिपर्याप्ते धनिनो मूलमात्रे ऋणिनो बन्ध इत्य् एवम् उभयोस् तत्स्वाम्यं परिकीर्तितम् । तस्मात् तस्मिन्न् एव काले सामकं दत्वाधिं मोचयेद् इति शेषः । यदाप्य् अपूर्णः समग्रवृद्धेर् अपर्याप्तः प्रकर्षः तदापि स्वाम्यं प्रकुर्यातां परस्परमतेन वृद्धेर् अपर्याप्तम् अपि समग्रवृद्ध्यर्थम् एवास्त्व् इति परिभाषाकरणकाले कृतेन तौ धनिकर्णिकाव् इति । स्वाम्यकरणस्य च फलं परिभाषितकालात्यये समग्रवृद्धिपर्याप्तप्रकर्षप्रवेषाभावे ऽपि सामकम् एव दत्वा ऋणिकेन बन्धमोचनम् । परस्परमतेनेति वदन् तदभावे धनिनः स्वाम्यं वृद्धिशेषे ऽपीति दर्शयति । तथा परिभाषितकालैकदेश एव समग्रवृद्धिपर्याप्तप्रकर्षप्रवेशे ऽप्य् आह स एव ।

यदि प्रकर्षितं तत् स्यातदा (?) न धनभाग् धनी ।
ऋणी न लभते बन्धं परस्परमतं विना ॥ इति ।

द्वयोर् अपि वचनयोः परिभाषितकालात्यय इति शेषो द्रष्टव्यः । एवं चायम् अर्थः — तद् बन्धकं यदि प्रकर्षितं समग्रवृद्धिपर्याप्तप्रकर्षान्वितं परिभाषितकालैक्देशे स्यात् तदा न परिभाषितकालात्यये सति धनी धनभाक्, ऋणी च तस्मिन् सति न लभते बन्धम्, किं तु समग्रवृद्धिपर्याप्तपर्कर्षान्तरम् एव धनी मूलधनभाक् ऋणी च मूलमत्रं दत्वा बन्धं लभत इति । परस्परमतं विनेति वदन् इदं दर्शयति - परिभाषितकालैकदेशे समग्रवृद्धिपर्याप्तप्रकर्षप्रवेशो ऽस्तु वा मा वा, सर्वथा यावत् परिभाषितकालं वृद्ध्यर्थम् आधिभोगः क्रियताम् इति ऋणिकेनोक्ते यत्र धनिकेन ओम् इत्य् उक्तं तत्र वृद्धेर् अभ्यधिकप्रकर्षप्रवेशे ऽपि परिभाषितकालात्यय एव सामकं दत्वा बन्धकम् ऋणी लभते, न पुनः परिभाषितकालमध्य इति । अनेनैव व्याख्यानेन,

यावत् प्रकर्षितं तत् स्यात् तावन् न धनभाग् धनी ।
ऋणी न लभते बन्धं परस्परमतं विना ॥

इति व्यासवचनम् अपि व्याख्यातम् ।

इति स्मृतिचन्द्रिकायाम् आधिप्रकरणम्

प्रतिभूभेदाः

अथ प्रतिभूभेदाः

अथ प्रतिभूविषयाणि कानिचिद् वचनानि लिख्यन्ते । तत्र बृहस्पतिः ।

दर्शने प्रत्यये दाने ऋणिद्रव्यार्पणे तथा ।
चतुष्प्रकारः प्रतिभूः शास्त्रे दृष्टो मनीषिभिः ॥

प्रत्ययो विश्वासः । दानम् ऋणापाकरणार्थम् अर्थार्पणम् । ऋणिद्रव्यार्पणम् ऋणिनो यद् द्रव्यं गृहोपकरणादि तदर्पणम् । चतुष्प्रकारप्रतिभुवाम् अङ्गीकारप्रकारो ऽपि तेनैव दर्शितः ।

आहैको दर्शयिष्यामि दाधुर् एषो ऽपरो ऽब्रवीत् ।
दाताहम् एतद् द्रविणम् अर्पयामीति चापरः ॥

एको दर्शनप्रतिभूर् अहम् एनं पलायनप्रवृत्तं दर्शयिष्यामीति प्रातिभाव्यं भजन्न् आह । अपरः प्रत्ययप्रतिभूः एष साधुर् वञ्चकः मत्प्रत्ययेनास्य धनं देहीति ब्रूते । दानप्रतिभूः यदा यदा यन् न ददाति द्रविणं गृहीतं सवृद्धिकं तदा तस्य द्रविणस्य अहम् एव दातेति वदति । अपरः ऋणिद्रव्यार्पणप्रतिभूर् यदायं गृहीतं धनं न ददाति तदाहम् एतदीयं धनम् अर्पयामीति ब्रवीतीति वाक्यचतुष्टयस्यार्थः । हारीतो ऽपि ।

अभये प्रत्यये दाने उपस्थाने ऽर्थदर्शने ।
पञ्चस्व् एषु प्रकारेषु ग्राह्यो हि प्रतिभूर् बुधैः ॥

अभयम् उपद्रवाकरणम् । उपस्थानम् अत्र बन्धद्रव्यार्पणम् अभिमतं न दर्सनम्, तस्य स्वपदेनैवोपत्तत्वात् । पञ्चस्व् इत्य् अस्याघटनाच् च । व्यासो ऽपि ।

लेख्ये ऽकृते च द्विये वा दानप्रत्ययदर्शने ।
गृहीतबन्धोपस्थाने ऋणिद्रव्यार्पणे तथा ॥

प्रतिभुवो ग्राह्या इति शेषः । लेख्ये ऽकृते लेक्यादर्शने, दिव्ये वाकृत इत्य् अनुषङ्गः । एतद् उक्तं भवति - विवादनिर्णयाय दृष्टम् अदृष्टं वा प्रमाणं यत्र कालव्यवधानेन भविष्यति तत्रापि प्रमाणाय प्रतिभूर् ग्राह्य इति । दानप्रत्ययदर्शनानि प्राग् एव व्याख्यातानि । गृहीतबन्धोपस्थानं याचकत्वेन क्रेतुर् दर्शनाद्यर्थं वा उत्तमर्णानुज्ञयाधर्मर्णगृहीतस्य बन्धस्य पुनर् अर्पणम् । कात्यायनो ऽपि ।

दानोपस्थानवादेषु विश्वाससपथाय च ।
लग्नकं कारयेद् एवं यथायोगं विपर्यये ॥

उपस्थानं दर्सनम् । वादो विवादः । तत्र प्रतिवाद्यानयनानन्तरं सभ्यैर् लग्नकग्रहणं साधितधनादिप्राप्त्यर्थं कार्यम् । दासादौ चोरत्वादिशङ्कायां विश्वासाय प्रतिभूः कार्यः । शपथाय लग्नकग्रहणं शपथविलम्बे कार्यम् । एवम् अन्यत्रापि विपर्यये कार्यस्य न्यायविषये यथासंभवं लग्नकं कारयेद् इत्य् अन्वयः । ततश् च पूर्वाध्विक्रयदानेष्य् धूर्तदयादसंभवनायां सत्यां गोप्याधाव् आधिपालाख्यः प्रतिभूर् भोग्याधौ भुञ्जापकाख्यो बहुमूल्यादाव् अपि प्रत्यर्पकाख्यश् चानेनैव संगृहीत इत्य् अवगन्तव्यम् ॥

**इति स्मृतिचन्द्रिकायाम् प्रभूभेदाः **

प्रतिभुवाम् असाधारणा विधयः

अथ प्रतिभुवाम् असाधारणा विधयः

अथ कात्यायनः ।

दर्शनप्रतिभूर् यस् तं देशे काले च दर्शयेत् । इति ।

यो यस्य दर्शनप्रतिभूर् अभूत् स यत्र देशे काले च धनिकस्य तद्दर्शनापेक्षा तत्र तं दर्शयेद् इत्य् अर्थः । दर्शितश् चेत् प्रातिभाव्याद् असौ मोच्य इत्य् आह स एव ।

यद्य् असौ दर्सयेत् तत्र मोक्तव्यः प्रतिभूर् भवेत् । इति ।

यस् तु तत्र न दर्शयति तं प्रत्य् आह मनुः ।

यो यस्य प्रतिभूस् तिष्ठेद् दर्सनायेह मानवः ।
अदर्शयन् स तं तस्य प्रयच्छेत् स्वधनाद् ऋणम् ॥

ऋणम् अत्र सवृद्धिकं विवक्षितम्, प्रतिभूपुत्रदेयर्णे ऽपि सवृद्धिकत्वस्मरणात् । यदा तु दर्शनीयः कुत्र गत इत्य् अज्ञातः तदा त्व् आह बृहस्पतिः ।

नष्टस्यान्वेषणे कालं दद्यात् प्रतिभुवे धनी ।
देशान्रूपतः पक्षं मसं सार्धम् अथापि वा ॥

सार्धमासाद् अधिकं न दद्यात्, नियमार्थत्वाद् वचनस्य । अत एव कात्यायनः ।

नष्टस्यान्वेषणार्थं तु देयं पक्षत्रयं परम् ।
यद्य् असौ दर्सयेत् तत्र मोक्तव्यः प्रतिभूर् भवेत् ॥
काले प्रतीते प्रतिभूर् यदि तं नैव दर्शयेत् ।
स तम् अर्थं प्रदाप्यः स्यात् प्रेते चैवंविधः स्मृतः ॥ इति ।

परं परमावधिरूपम् । प्रतीते प्रतिपन्ने ऽन्वेषणार्थं कल्पित इति यावत् । तम् अर्थं दर्शनीयाद् यल् लभ्यम् । एवंविधिः स तम् अर्थं प्रदाप्यः स्याद् इति विधिः । यदि प्रतिभुवा दर्शनीयो दैवकृते राजकृते वा निमित्ते असति न दर्शितः तदैव प्रागुक्तो विधिर् इत्य् आह स एव ।

दर्शने प्रतिभूर् यस् तु देशे काले न दर्शयेत् ।
निबन्धम् आवहेत् तत्र दैवराजकृताद् ऋते ॥

निबन्धं देयद्रव्यम् । आवहेत् धनिने प्रापयेत् । दैवकृतं दीर्घरोगज्ञातिमरणादि, राककृतम् आसेधनबन्धनादि । अन्येषां तु केषांचित् प्रतिभुवां विधिम् आह नारदः ।

ऋणिष्व् अप्रतिकुर्वत्सु प्रत्यये चाथ हापिते ।
प्रतिभूस् तद् ऋणं दद्याद् अनुपस्थापयंस् तथा ॥

ऋणिष्व् अप्रतिकुर्वत्स्व् इति दानप्रतिभूविषयम् । प्रत्यये चाथ हापिते इति प्रत्ययप्रतिभूविषयम् । अनुपस्थापयन्न् इति कथंचिद् अधमर्णगृहीतबन्धोपस्थानप्रतिभूविषयम् । अप्रतिकुर्वत्सु शाठ्येन निर्धनत्वादिना वा ऋणम् अददत्सु । प्रत्यये हापिते विश्वासे व्यभिचरिते । अनुपस्थापयन् उत्तमर्णपार्श्वस्थ्म् आधिं कथंचिद् अधमर्णगतं पुनर् उत्तमर्णसमीपस्थम् अकुर्वन् । पितामहो ऽपि ।

आधिपालकृतस् त्व् आधिः मितकालोपलक्षितः ।
न चेत् स धनिने दत्तः तस्याधेस् तैः समर्पणम् ॥

अचिरेण ऋणी स्वापराधादिनान्याक्रान्तं यदि नाधिम् अर्पयति तदास्माभिर् आधिः समर्प्यत इति वदद्भिर् यैः प्रतिभूभिर् य आधिर् अर्पणीयतयाङ्गीकृतः, तस्य ऋणिकेनासमर्पितस्य तैः समर्पणं कार्यम् इत्य् अर्थः । तैर् इति बहुवचनम् एकत्वादिसंख्योपलक्षणार्थम्, अत एव हारीतः ।

विश्वासार्थं कृतस् त्व् आधिर् न प्राप्तो धनिना यदा ।
प्रापणीयस् तदा तेन देयं वा धनिने धनम् ॥

तेन आधिपालेनेत्य् अर्थः ।यदा प्रापयितुम् अशक्यं तदैव द्वितीयः पक्षः । बहुमूल्याधाव् अधमर्णायाधिप्रत्यर्पणप्रतिभूर् यः तम् अपि प्रत्य् आह स एव ।

खादको वित्तहीनश् चेल् लग्नको वित्तवान् यदि ।
मूल्यं तस्य भवेद् देयं न वृद्धिं दातुम् अर्हति ॥

खादको बन्धभक्षकः बहुमूल्याधिनाशको धनिक इति यावत् । मूल्यं बहुमूल्यस्याधेर् मूल्यम् । साक्षात् प्रतिभूर् अप्य् अत्र वृद्धिं दातुं नार्हति । खादकेनाप्य् अत्र “मूल्येन तोषयेद् एनम्” इत् वचनान् मूल्यमात्रम् एव देयम् । एवम् अवशिष्टप्रतिभुवाम् अपि स्मृत्यन्तरेषु देयद्रव्यविधयो द्रष्टव्याः । प्रत्यये लेख्ये दिव्यदर्शने चाकृते सति “ऋणं दाप्याः प्रतिभुवः” इत्यादिदापनविधायकस्मृत्यन्तराद् वा उन्नेयाः, तुल्यन्यायाद् वा कलपनीयाः । तथा हि, ऋणिद्रव्यार्पणप्रतिभूर् अप्रतिकुर्वति ऋणिके ऋणद्रव्यम् (?) अर्पयेत् । अभयप्रतिभूर् भयोपस्थितौ तत्प्रतीकारम् आचरेत् । प्रमाणप्रतिभूः प्रमाणाकरणे विवादास्पदं धनं दद्यात् । विवादप्रतिभूर् अप्रतिकुर्वति वादिनि साधितधनं दण्डधनं च दद्यात् । दासाद्यपहृतं पुनर् अलब्धं चेत् विश्वासप्रतिभूर् मूल्यद्वारेण दद्याद् इत्याद्यास् तत्र तत्र कल्पनीयाः ॥

इति स्मृतिचन्द्रिकायां प्रतिभुवाम् असाधारणविधिः

प्रतिभूपुत्रादीनां विधयः

अथ प्रतिभूपुत्रादीनां विधयः

तत्र याज्ञवल्क्यः ।

दर्शनप्रतिभूर् यत्र मृतः प्रात्ययिको ऽपि वा ।
न तत्पुत्रा ऋणं दद्युर् दद्युर् दानाय यः स्थितः ॥

प्रात्ययिकः प्रत्ययप्रतिभूः, तस्मिन् मृते दर्शनप्रतिभुवि च तयोः पुत्राः प्रातिभाव्यायातं पैतृकम् ऋणं न दद्युः । दानप्रतिभुवि तु मृते तस्य पुत्राः पूर्वोक्तम् ऋणं दद्युर् इत्य् अर्थः । यदा तु ऋणं जीवनशालिनः पूर्वोक्ताः प्रतिभुवो न दद्युः, मृतस्य दानप्रतिभुवः पुत्राश् च तदा ते दापनीया इति राज्ञो विधिम् आह स एव ।

आदौ तु वितथे दाप्याव् इतरस्य सुता अपि ।

अपिशब्दाद् दानप्रतिभूर् अपि जीवनदशायां विसंवादे दाप्य इति दर्शयति । दर्शितं च साक्षाद् एव बृहस्पतिना ।

आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् ।
उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ॥

आद्यौ दर्शनप्रत्ययप्रतिभुवौ । वितथे अहम् एनं दर्शयिष्यामि साधुर् एष इत्य् एवंविधयोः प्रतिभूवाकययोर् मिथ्यात्वे । उत्तरौ दानर्णिद्रव्यार्पणप्रतिभुवौ । विसंवादे शाठ्यादिना धने वा जात इत्य् अर्थः । एतद् उक्तं भवति - ऋणं वान्यद् वा धनादिकम् अहं तव दास्यामीत्य् एवं प्रतिभुवा यत्राङ्गीकृतं तत्र प्रतिभूर् दाप्यः, तस्याभावे तत्पुत्रो वा दाप्यः । अन्यत्र तु प्रतिभूर् एवेति । एवं च प्रमाणप्रतिभुवां त्व् एवम् अनङ्गीकारात् प्रमाणप्रतिभुव एव दाप्याः, न पुत्राः । विवादप्रतिभुवा तु साधितधनं दण्डधनं च दास्यामीत्य् अङ्गीकृतत्वाद् दानप्रतिभूवत् सति संभवे स एव दाप्यो ऽन्यथा तु तत्पुत्र इत्य् अवगन्तव्यम् । अत एव व्यासः ।

विप्रत्यये लेख्यदिव्यदर्सने चाकृते सति ।
ऋणं दाप्याः प्रतिभुवः पुत्रं तेषां न दापयेत् ॥
दानवादप्रतिभुवौ दाप्यौ तत्पुत्रकौ तदा ॥ इति ।

विप्रत्यये वितथे प्रत्यये प्रत्ययप्रतिभूर् दाप्य इत्य् अर्थः । एवम् अन्येषाम् अभयगृहीतबन्धोपस्थापनादिप्रतिभुवाम् अङ्गीकारानङ्गीकरप्रकारम् आलोच्य प्रत्ययप्रतिभूवद् दानप्रतिभूवद् वा दापनविधय ऊह्याः । यत् पुनर् मनुना “प्रातिभाव्यं वृथादानम्” इत्याद्य् अभिधाय “न पुत्रो दातुम् अर्हति” इत्य् उक्तम्, तत् दर्शनप्रतिभूविषयं यतो ऽनन्तरम् आह स एव ।

दर्शनप्रातिभाव्ये तु विधिः स्यात् पूर्वचोदितः । इति ।

पूर्वश्लोके चोदितः “प्रातिभाव्यं न पुत्रो दातुम् अर्हति” इति दर्सनप्रातिभाव्यविषये ज्ञेय इत्य् अर्थः । तत्र विषये क्वचित् तस्यापवादम् आह कात्यायनः ।

गृहीत्वा बन्धकं यस् तु दर्शनप्रतिभूः स्थितः ।
विभाव्य वादिना तत्र दाप्यः स्यात् तत्सुतोपृयणम् (?) ॥

स्वविस्रम्भार्थम् अधमर्णाद् अर्थं गृहीत्वा यो दर्सनप्रतिभूत्वम् आपद्य स्थितः संस्थितो मृत इति यावत् । तस्य सुतो वादिना धनिना ऋणिकार्थधारणनिबन्धनं प्रातिभाव्यम् इति विभाव्य याच्यमानः प्रातिभाव्यागतम् ऋणं दाप्य इत्य् अर्थः । यद्य् अपि तत्सुतग्रहणाद् दर्सनप्रतिभूसुतविषयो ऽयम् अपवादः, न प्रमाणप्रतिभूसुतविषय इति प्रतिभाति, तथापि प्रतिभूसुतदापने प्रमीतस्य पितुर् अधमर्णाद् अर्थग्रहणपूर्वकं प्रातिभाव्यम् अत्र विवक्षितं निमित्तम्, न तु दर्सनप्रतिभूसुतत्वम् अपीत्य् अस्माद् एव वचनाद् अपवादो ऽन्यत्रापि विवक्षितनित्तमसद्भावे स्मृत एवेति मन्तव्यम् । विवक्षितनिमित्तद्योतनार्थम् एव च मनुना प्रश्नोत्तरत्वेनापवादो दर्शितः ।

अदातरि पुनर् दाता विज्ञातप्रकृताव् ऋणम् ।
पश्चात् प्रतिभुवि प्रेते परीप्सेत् केन हेतुना ॥
निरादिष्टधनश् चेत् तु प्रतिभूः स्याद् अलंधनः ।
स्वधनाद् एव तद् दद्यान् निरादिष्ट इति स्थितिः ॥ इति ।

अत्र पदार्थाः प्रथमम् उच्यन्ते - अदातरि दर्शयितरि, दाता धनप्रयोक्ता विज्ञातप्रकृतौ प्रायेणायं किंचिद् गृहीत्वा कस्यचित् प्रतिभूर् भवतीति विज्ञातस्वभावे ऋणं प्रातिभाव्यागतम् ऋणं परीप्सेल् लब्धुम् इच्छेत् । वाक्यार्थस् तु - अदातरि विज्ञातप्रकृतौ प्रतिभुवि प्रेते पश्चात् तत्पुत्राद् ऋणं दाता “न त (?) तत्पुत्रा ऋणं दद्युः” इति शास्त्राविरुद्धेन केन हेतुना परीप्सेद् इति । उत्तरश्लोकव्याख्याप्य् एवं क्रियते - निरादिष्टं समर्पितं बन्धत्वेन धनं यस्यासौ निरादिष्टधनः । अलं पर्याप्तं बन्धत्वेनोपात्तं धनं यस्यासाव् अलंधनः । निरादिष्टशब्देन समस्तेन निरादिष्टधनस्य दर्शनप्रतिभुवः पुत्रो लक्ष्यते । स्थितिः शास्त्रमर्यादा । वाक्यार्थस् तु - निरादिष्टधनो ऽलंधनो दर्शनप्रतिभूर् मृतश् चेत् स्यान् निरादिष्टः स्वधनाद् एव तद् ऋणं दद्याद् इति स्थितिर् इति । अनेन निरादिष्टधनत्वेनैव हेतुना परीप्सेद् इत्य् उत्तरम् अर्थाद् उक्तम् । अस्यैव वचनस्याध्याहारलक्षणाश्रयणं विहारार्थान्तरम् उच्यते - निरादिष्टधनः प्रतिभूर् अलंधनश् चेत् स्यात् स एव निरादिष्टः स्वधनाद् एव दद्याद् इति । अनिरादिष्टधनवद् अधमर्णं दर्शयन् न मुच्यते निरादिष्टधनः, किं तु दानप्रतिभूवद् दद्याद् इति तात्पर्यार्थः । एतच् चार्थान्तरं देवस्वामिनोक्तम् । प्रतिभूसुतदेवविषये तु विशेषं आह व्यासः ।

ऋणं पैतामहं पौत्रः प्रातिभावागतं सुतः ।
समं दद्यात् तत्सुतौ तु न दाप्याव् इति निस्चयः ॥

सुतः प्रतिभूसुतः । समं मूलमात्रम् । तत्सुतौ पौत्रप्रतिभूसुतयोः सुतौ । यत् तु मनुनोक्तम्,

दानप्रतिभुवि प्रेते दायादान् अपि दापयेत् ।

इति, तत्र दायादशब्दः सुतेष्व् एव व्यवतिष्ठते, अन्यथा सपिण्डमात्राभिधाने “तत्सुतौ तु न दाप्यव् इति निश्चयः” इत् पूर्वोक्तवचनविरोधापत्तेः,

प्रातिभाव्यागतं पौत्रैर् दातव्यं न क्वचिद् भवेत् ।

इति बृहस्पतिवचनविरोधापत्तेश् च । अनेकप्रतिभूदेयविषये तु विशेषम् आह याज्ञवल्क्यः ।

बहवः स्युर् यदि स्वांशैः दद्युः प्रतिभुवो धनम् ।
एकच्छायाश्रितेष्व् एषु धनिकस्य यथारुचि ॥

एकस्याधमर्णस्य छायां सकलधनदायकत्वरूपसादृश्यं प्रत्येकं विकल्पेनाश्रिताः एकच्छायाश्रिताः, तेषु यं याचते धनिकः स सर्वं दद्याद् इत्य् अर्थः । धनिकरुष्यविशेषे तु “समं स्याद् श्रुतत्वात्” इति न्यायेनात्रापि स्वांशैर् दद्युः । एकच्छायाश्रितप्रतिभूसुते तु विशेषम् आह कात्यायनः ।

एकच्छायाश्रिते सर्वं दद्यात् तु प्रोषिते सुतः ।
मृते पितरि पित्रंशं परर्णं न बृहस्पतिः ॥

सर्वं परर्णम् अपि, न पित्रंशमात्रम् इत्य् अर्थः । न तु सर्वं सवृद्धिकम् इति व्याख्येयम्,

पुत्रेणापि समं देयम् ऋणं सर्वं तु पैतृकम् ।

इति बृहस्पतिस्मरणात् । समं मूलमात्रऋणं प्रातिभाव्यागतं पैतृकम् । एतच् च धनिकेच्छायाम् “प्रोषितस्य पुत्रो मह्यं दद्यात्” इत्य् एवंविधायां सत्यां सर्वदानविधानं द्रष्टव्यम् । असत्यां तु धनिकेच्छायाम् “पित्रंशम् अप्रवृद्धिकं प्रोषितपुत्रो दद्यात्” इत् चावगन्तव्यम् । परर्णं परस्य पितृव्यतिरिक्तस्य एकछायास्रितस्य ऋणांशं पितरि मृते तत्सुतः सत्याम् अपि धनिकेच्छायां न दातुम् अर्हति, किं तु पित्रंशम् अवृद्धिकम् एवेति बृहस्पतिर् ब्रूत इत्य् अर्थः । प्रतिभूदौष्ट्यविषये त्व् आह पितामहः ।

यो यस्य प्रतिभूर् भूत्वा मिथ्या चैव तु गच्छति ।
धनिकस्य धनं दाप्यो राज्ञा दण्डं च तत्समम् ॥
कुर्याच् चेत् प्रतिभूर् वादम् ऋणिकार्थे ऽर्थिना सह ।
सोपसर्गस् तदा दण्ड्यो विवादाद् द्विगुणं धनम् ॥ इति ।

सोपसर्गो विप्लवकारी ॥

**इति स्मृतिचन्द्रिकायां प्रतिभूपुत्रादीनां विधयः **

प्रतिभ्वादिदत्तप्रतिक्रियाविधयः

अथ प्रतिभ्वादिदत्तप्रतिक्रियाविधयः

तत्र कात्यायनः ।

यस्यार्थे येन यद् दत्तं विवादे (दा) ऽभ्यर्थितेन तु ।
साक्षिभिर् भावितेनैव प्रतिभूस् तम् अवाप्नुयात् ॥

यस्य प्रातिभाव्यं कारयितुः कृते येन प्रतिभुवा धनिकादिभिर् याचितेन साक्ष्यादिभिश् चान्यार्थम् अर्पितर्थो(?) ऽयम् इत्य् अवधृतेन यत् स्वकीयं सुवर्णपसुधान्यवस्त्रादिकं धनिकादिभ्यो दत्तं तत्समम् एवार्थं प्रातिभाव्यकारयितुः सकाशात् स समाप्नुयाद् इत्य् अर्थः । यत् तु याज्ञवल्क्येनोक्तम्,

प्रतिभूर् दापितो यत्र प्रकाशं धनिने धनम् ।
द्विगुणं प्रतिदातव्यम् ऋणिकैस् तस्य तद् भवेत् ॥

इति, तद् धनिकपीडितप्रतिभूविषयम् (?) । तथा च नारदः ।

यं चार्थं प्रतिभूर् दद्याद् धनिकेनोपपीडितः ।
ऋणिकं तं प्रतिभुवे द्विगुणं प्रतिदापयेत् ॥

एतद् अपि प्रतिदानविलम्बविषयम् । तथा च कात्यायनः ।

प्रातिभाव्यं तु यो दद्यात् पीडितः प्रतिभावितः ।
त्रिपक्षात् परतः सो ऽर्थं द्विगुणं लब्धुम् अर्हति ॥

प्रतिभावितः प्रतिभूत्वेन कारितः । त्रिपक्षात् प्राक् तु समम् एव् लब्धुम् अर्हतीत्य् अर्थो ऽपि गम्यते । यद्य् अपि प्रायेण प्रीत्यैव प्रतिभूर् भवति, न च प्रीतिदत्तए वृद्धिर् अस्ति न च द्वैगुणयम्, एतावति काले धर्म्यं भवितुम् अर्हति । तथापि वचनबलात् सर्वं भविष्यति । न हि वचनस्यातिभारो ऽस्तीत्य् अवगन्तव्यम् । एवम् उक्तो द्विगुणलाभो हिरण्यविषयः । पश्वादौ तु,

संततिः स्त्रीपशुष्व् एव धान्यं त्रिगुणम् एव च ।
वस्त्रं चतुर्गुणम् प्रोक्तं रसश् चाष्टगुणः स्मृतः ॥

इति याज्ञवल्क्येन द्वैगुण्यापवादस्मरणात् ।

उक्ता पञ्चगुणा शाके बीजेक्षौ षड्गुणा स्मृता ।

इत्यादेर् उपलक्षणार्थम् इदम् उक्तं तद्भाष्यकृद्भिः, तेन शाकादौ पञ्चगुणादि देयम् । एवम् उक्तानेकविधसवृद्धिकदानम् ऋणिकाज्ञया दत्तविषयम्, अन्यत्र तु दत्तसमम् (?) एव देयम् । तथा चोचथ्यः (?) ।

प्रतिभ्वा प्रतिदत्तं यद् अपृष्टे ऋणिके धनम् ।
द्विगुणं न प्रतिभुवे प्रदेयम् ऋणिकेन तत् ॥

प्रष्टुंयोग्यदेशकालस्थर्णिकादिविषयम् एतत् । तेनान्यत्रापृष्टे ऽपि ऋणिके नायं प्रतिषेधः, किं तु पृष्टतुल्यतैव । लग्नकालग्नको पक्षयप्रतिक्रियां साधारणीम् अपि लग्नकोपक्षयप्रतिक्रियाविधिप्रसङ्गाद् अत्रैवाह नारदः ।

यस्य दोषेण यत् किंचिद् विनश्येत ह्रियेत वा ।
वोढव्यं तद् भवेत् तेन यच् चाज्ञानविनाशितम् ॥

इति स्मृतिचन्द्रिकायां प्रतिभ्वादिदत्तप्रतिक्रियाविधयः प्रतिभूप्रकरणम् समाप्तम्

वृद्धौ

अथ वृद्धिविषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र बृहस्पतिः।

वृद्धिश् चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकीर्तिता ।
षड्विधास्मिन् समाख्याता तत्त्वतस् तान् निबोधत ॥

अस्मिन् अस्मदीये धर्मशास्त्रे । कथं षड्विधत्वम् इत्य् अपेक्षिते स एवाह ।

कायिका कालिका चैव चक्रवृद्धिर् अथापरा ।
कारिताथ शिखावृद्धिर् भोगलाभस् तथैव च ॥

किं पुनः कायिकादीनां स्वरूपम् इत्य् अपेक्षिते ऽप्य् आह स एव ।

कायिका कर्मसंयुक्ता मासग्राह्या तु कालिका ।
वृद्धेर् वृद्धिश् चक्रवृद्धिः कारिता ऋणिना कृता ॥
प्रत्यहं गृह्यते या तु शिखावृद्धिस् तु सा स्मृता ।
गृहात्तोषश् (?) सदः क्षेत्रात् भोगलाभः प्रकीर्तितः ॥ इति ।

गोधोटकादेर् आधीकृतस्य दोहनवाहनादिकः कायिको व्यापार एव यत्र वृद्धित्वेन कल्पितः सा कायिकेत्य् अर्थः । तथा च व्यासः ।

दोह्यवाह्यक्रियायुक्ता कायिका समुदाहृता । इति ।

मासग्राह्या प्रतिमसं लभ्या वृद्धिः कालिका,

प्रतिमासं स्रवन्ती या सा वृद्धिः कालिकेरिता (?) ॥

इति नारदस्मरणात् । वृद्धेर् अपि प्रतिमासं मूलभावेन पुनर् वृद्धिश् चक्रवृद्धिः । ऋणिकेच्छया कृता वृद्धिः कारिता । “इच्छाकृता कारिता स्यात्” इति स्मृत्यन्तरे ऽभिधानात् । तेन छान्दसो ऽयं स्वार्थ एव कारितेति णिच्प्रत्ययो द्रष्टव्यः । परप्रेरणया तु करिता वृद्ध्रि निषिद्धैव । तथा च कात्यायनः ।

ऋणिकेन तु या वृद्धिर् अधिका सम्प्रकल्पिता ।
आपत्कालकृता नित्यं दातव्या कारिता तु सा ॥
अन्यथा कारिता वृद्धिर् न दातव्या कथंचन । इति ।

शास्त्रोक्ताद् अधिका धनदातृप्रतिलोभनार्थं स्वयं कल्पिता कारिताख्या दातव्या, न पुनर् अनेवंविधा धनिकेन कारिता दातव्येत्य् अर्थः । प्रतिदिनं लभ्या तु शिखासादृश्याच् छिखावृद्धिर् इति व्यपदिश्यते । किं पुनः शिखासादृश्यं वृद्धेर् इत्य् अपेक्षिते बृहस्पतिर् एवाह ।

शिखेव वर्धते नित्यं शिरः छेदान् निवर्तते ।
मूले दत्ते तथैवेषा शिखावृद्धिस् ततः स्मृता ॥

प्रत्यहं गृह्यत इति संप्रतिपन्नदिनसंख्याविशिष्टवृद्धिग्रहणोपलक्षणार्थम् । अत एव कात्यायनः ।

एकान्तेनैव वृद्धिं तु शोधयेद् यत्र चर्णिकम् ।
प्रतिकालं ददात्य् एव शिखाविऋद्धिस् तु सा स्मृता ॥

गृहात् तोष (?) इत्यादेर् अयम् अर्थः - निवासनिबन्धनः गृहसकाशात् संतोषः । क्षेत्रात् संभूतं धान्यादिफलं च भोगलाभाख्यो वृद्धिभेद इति । गृहक्षेत्रग्रहणं स्थावरात्मकभोग्याधेर् अप्य् उपलक्षणार्थम् । अत एव कात्यायनः ।

आधिभोगस् त्व् अशेषो यो वृद्धिं तु परिकल्पितः ।
प्रयोगो यत्र चैवं स्याद् आधिभोगः स उच्यते ॥

अशेषः स्थावरमात्रसंबन्धीत्य् अर्थः ।

इति स्मृतिचन्द्रिकायां वृद्धिभेदाः

वृद्धिपरिमाणनियमाः

अथ वृद्धिपरिमाणनियमाः

तत्र मनुः ।

अशीतिभागं गृह्णीयान् मासाद् वार्धुषिकः शते । इति ।

निष्कशते प्रयुक्ते मासस्य सपादनिष्कपरिमितां वृद्धिं वार्धुषिको (?) वृद्ध्यर्थं धनप्रयोक्ता गृह्णीयाद् इत्य् अर्थः । एतत् सबन्धकविषयम्,

अशीतिभागो वृद्धिः स्यान् मासि मासि सबन्धके ।

इति, याज्ञव्ल्क्यस्मरणात् । आधिग्रहणपूर्वके धनप्रयोगे यावद् धनं प्रयुक्तं तस्याशीतितमो भागः प्रतिमासं वृद्धिः स्याद् इत्य् अर्थः । यत् तु मनुना विकल्पत्वेनोक्तम् “द्विकं शतं वा गृह्णीयात्” इति, तद् व्यवस्थितविकल्पत्वेनोक्तम् । यत आह व्यासः ।

सबन्धे भाग आशीतः षाष्टो भागः सलग्नके ।
निराधाने द्विकसतं मासलाभ उदाहृतः ॥

अशीतिषष्टिभागाव् आधिप्रतिभूसहितयोः प्रयोगयोः प्रतिमसं यथाक्रमेण ग्राह्यौ, एतद्रहिते तु प्रयोगे पञ्चाशद्भागः प्रतिमासं ग्राह्य इत्य् अर्थः । द्वे दीयते वृद्धिर् अस्मिन् शत इति द्विकशतम् । अनेन वचोभङ्ग्या पञ्चाशद्भाग उक्तः । ब्राह्मणाधमर्ण एवायं द्विकं शतम् इति नियमः, क्षत्रियाद्यधमर्णे अन्यथा नियमः । तथा च मनुः ।

द्विकं त्रिकं चतुष्कं च पञ्चकं च सतम् एव वा ।
मासस्य वृद्धिं गृह्णीयाद् वर्णानाम् अनुपूर्वशः ॥

अबन्धकालग्नकप्रयोगविषयम् एतत्, द्विकशतस्थाने वर्णान्तरे त्रिकशतादिविधानात् । अत एव याज्ञवल्क्यः ।

वर्णक्रमाच् छतं द्वित्रिचतुःपञ्xअकम् अन्यथा । इति ।

अन्यथा बन्धकलग्नकराहित्य इत्य् अर्थः । तथाधमर्णविशेषे प्रतिमासं वृद्धेः परिमाणान्तरं द्विकशतादिस्थाने स एवाह ।

कान्तारगास् तु दशकं सामुद्रा विंशकं शतम् । इति ।

वृद्ध्या धनं गृहीत्वा ये दुर्गवर्त्मगन्तारः ते प्रतिमासं दशकं शतं दद्युः । ये तु समुद्रगन्तारः(?) ते ऽपि विंशकं शतं दद्युर् इत्य् अर्थः । एवमुक्ताशीतिभागादिशास्त्रीयवृद्धिपरिमाणेन सह विकल्पम् अधमर्णाभ्युपगतवृद्धिपरिमाणस्याह स एव ।

दद्युर् वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु । इति ।

सर्वे ब्राह्मणादयो ऽधर्मर्णाह् स्वाभ्युपगतां वृद्धिं सर्वासु जातिषूत्तमर्णभूतासु दद्युर् वेत्य् अर्थः । अयं च विकल्पः कारितायाह्म् एव वृद्धौ, अन्यत्र तु शास्त्रतः परिमाणनियमविधिर् इत्य् अयं स्वकृतपक्ष एव । पश्वादिद्रव्यस्य तु वृद्ध्यर्थं प्रयुक्तस्य तदीया सन्ततिर् एव वृद्धिर् इत्य् आह स एव “सन्ततिस् तु पशुस्त्रीणाम्” इति । स्त्रियो दास्यः । सन्तत्यभावे तु प्रयुक्तस्य पश्वादेः पुष्टिर् अविनाशो वा लाभ इति ॥

इति स्मृतिचन्द्रिकायां वृद्धिपरिमाणनियमाः

अकृतवृद्धिविधयः

अथाकृतवृद्धिविधयः

तत्र विष्णुः ।

यो गृहीत्वा ऋणं पूर्वं श्वो दास्यामीति सामकम् ।
न दद्याल् लोभतः पश्चात् तद् अध्ना वृद्धिम् आप्नुयात् ॥

समम् एव सामकम् अवृद्धिकम् इति यावत् । एतद् उक्तं भवति - प्रतिदानकावावधिम् अङ्गीकृत्य गृहीतम् अवृद्धिकम् अपि ऋणम् अवधेर् अनन्तरकालाद् आरभ्य वर्दत एवेति । वयस्यादेर् उपभोगाद्यर्थम् अर्पितविषये त्व् आह नारदः ।

न वृद्धिः प्रीतिदत्तानां स्याद् अनाकारिता क्वचित् ।
अनाकारितम् अप्य् ऊर्ध्वं वत्सरार्धाद् विवर्धते ॥

अनाकारिता अकृता । प्रीतिदत्तानां प्रतियाचनप्रतिदानदिननिर्देशशून्यानाम् इति शेषः । अनाकारितम् अपीत्यादेर् अयम् अर्थः - प्रतिदानदिननिर्देशे तु तद्दिनम् आरभ्य सषण्मासाद् ऊर्ध्वं वर्धते प्रीतिदत्तम् अपीति । गृहीतपण्यमूल्यानर्पणविषये तु कात्यायनः ।

पण्यं गृहीत्वा यो मूल्यम् अदत्वैव दिसं व्रजेत् ।
ऋतुत्रयस्योपरिष्टात् तद् धनं वृद्धिम् आप्नुयात् ॥

अप्रतियाचितविषयम् एतत् । किम् अत्र वृद्धेः परिमाणम् । उच्यते - अधर्मर्णाद्यङ्गीकारायत्तपरिमाणस्यात्रासंभवाद् अन्यस्य च पुरुषबुद्धिकल्पितस्य शास्त्रबाह्यस्यायुक्तत्वाच् छास्त्रोक्तम् एव परिमाणं ग्राह्यम्, तच् च पूर्वस्मिन् प्रकरणे दर्शितम् “अशीतिभागम्” इत्यादिना । अत एव विष्णुना “वृद्धिं दद्याद् अकृताम् अपि संवत्सरातिक्रमे यथाभिहितम्” इत्य् उक्तम् । यथाभिहितं धर्मशास्त्र इति शेषः । न च यथा प्रत्यर्थिना मध्यस्थेनार्थिना वाभिहिता तथा दद्याद् इति यथाभिहितम् इति वचनार्थः कस्मान् न स्याद् इति वाच्यम्, यत् आह मनुः ।

कृतानुसाराद् अधिका व्यतिरिक्ता न सिध्यति ।
कुसीदपथम् आहुस् तं पञ्चकं शतम् अर्हति ॥ इति ।

कुसीदपथम् आहुर् इत्य् उच्छास्त्रवृद्धिं निन्दयति । शास्त्रकृतवृद्ध्यनुसारो हि यो वृद्धिग्रहणे लौकिकानां समयाचारः स कृतानुसारः, तस्माद् अधिका वृद्धिर् उत्तमर्णादेर् अकृतवृद्धौ न सिध्यति, यतः सा व्यतिरिक्ता धर्मशास्त्रबाह्येत्य् अर्थः । अत एव कुसीदपथम् आहुः तन् न धर्मपथम् इति निन्दाप्य् उपपन्ना । “पञ्चकं शतम् अर्हति” इत्य् अस्य विषयविशेषो वक्ष्यते । यतु वैष्णववचने संवत्सरातिक्रम इत्य् उक्तम्, तद् याचितकविषयम् । तथा च कात्यायनः ।

यो याचितकम् आदाय तम् अदत्वा दिशं व्रजेत् ।
ऊर्ध्वं संवत्सरात् तस्य तद् धनं वृद्धिम् आप्नुयात् ॥ इति ।

कृतोद्धारं याचितकम् आदायेत्य् अर्थः । प्रवासाभावे तु प्रतियावनकालाद् आरभ्य याचितकस्य वृद्धिम् आह स एव ।

स्वदेशे ऽपि स्थितो यस् तु न दद्याद् याचितं क्वचित् ।
तत् ततो ऽकारितां वृद्धिम् अनिच्छन्तं च दापयेत् ॥

न दद्याद् याचितम् इति प्रकृतेन संबन्धः । ततः प्रतियाचनकालाद् आरभ्येत्य् अर्थः । प्रीतिदत्ते च प्रतिमाचिते याचनकालाद् आरभ्य वृद्धिविशेषनियमार्थम् एव वचनान्तरम् आरब्धं तेनैव ।

प्रीतिदत्तं न वर्धेत यावन् न प्रतियाचितम् ।
याच्यमानम् अदत्तं चेद् वर्धते पञ्चकं शतम् ॥

निक्षेपादाव् अपि याच्ययानम् (?) अदत्तम् एव वर्धते इत्य् आह स एव ।

निक्षेपं वृद्धिशेषं च क्रयं विक्रयम् एव च ।
याच्यमानम् अदत्तं चेद् वर्धते पञ्चकं शतम् ॥

क्रयविक्रयशब्देन पण्यमूल्यं लक्ष्यते । यत् तु पूर्वप्रदर्शिते मानवे वचने “पञ्चकं शतम् अर्हति” इति सामान्येनोक्तं तत्प्रतियाचितप्रीतिदत्तादिविषयं मन्तव्यम् ।

इति स्मृतिचन्द्रिकायाम् अकृतवृद्धिविधयः

अकृतवृद्ध्यपवादः

अथ अकृतवृद्ध्यपवादः

तत्र नारदः ।

पण्यमूल्यं भृतिर् न्यासो दण्डो यश् च प्रकल्पितः ।
वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥

पण्यस्य वस्त्रादेर् मूल्यं पण्यमूल्यम् । वृथादानं नर्तकयादिभ्यः प्रतिश्रुतम् । आक्षिकपणो द्यूतद्रव्यम् । उक्तेषु सत्सु अकृतवृद्धिर् नास्तीत्य् अर्थः । अत्र पण्यमूल्यस्य वृद्धिः प्रवासप्रतियाचनाभावे । न्यासस्य त्व् अवृद्धिः प्रतियाचनाभावे यथास्थितस्यैव । अतो न पूर्वप्रकरणोक्तवचनविरोधापत्तिः । संवर्तो ऽपि ।

न वृद्धिः स्त्रीधने लाभे निक्षेपे च यथास्थिते ।
संदिग्धे प्रातिभाव्ये च यदि न स्यात् स्वयंकृता ॥

लाभे न वृद्धिः । यथास्थिते इति वदन् निक्षेपे व्यक्त्यन्यत्वादिकरणे वृद्धिः भवतीति दर्शयति । संदिग्धे धने केनचित् संदेहेन दातुम् अनुचितत्वेन स्थिते । प्रातिभाव्ये ऋणिद्रव्यार्पणादौ साक्षात् प्रतिभूविषये ऽपि । प्रतियाचनदेः परस्ताद् अपि न वृद्धिः । “यदि न स्यात् स्वयंकृता” इति वदन् स्त्रीधनादाव् अपि कृता चेद् वृद्धिः देयैवेति दर्सयति । कात्यायनो ऽपि ।

चर्मसस्यासवद्यूतपण्यमूल्ये च सर्वदा ।
स्त्रीशुल्के च न वृद्धिः स्यात् प्रातिभाव्यागतेषु च ॥

सर्वदेति वदन् प्रतियाचनादेः परस्ताद् अपि नास्त्य् अकृता वृद्धिर् इति दर्सयति । पण्यमूल्ये वचनान्तराविरोधः पूर्ववद् अवसेयः । यद्य् अपि सर्वेति सर्वशेषः प्रतिभाति, तथाप्य् अविरोधाय पण्यमूल्यशेषता मन्तव्या । व्यासो ऽपि ।

प्रातिभाव्याम् भुक्तबन्धम् गृहीतं च दित्सवः ।
न वर्धते प्रपन्नस्य दमः शुल्कं प्रैश्रुतम् ॥

भुक्तबन्धग्रहणम् उपभुक्तगोप्याधौ (?) निक्षेपोपभोग इव वृद्धिर् मा भूद् इत्य् एवम् अर्थम् । अर्थस् तु गौतमेन स्पष्टीकृतः - “भुक्ताधिर् न वर्धेत वस्त्रालङ्कारादिः” इति । अगृहीतं च दित्सव इति कृतवृद्ध्यपवादो ऽपि वृद्ध्यभावकथनप्रसङ्गाद् अकृतवृद्ध्यपवादैः सहोक्तः । तस्यार्थो याज्ञवल्क्येन स्पष्टीकृतः ।

दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् ।
मध्यस्थस्थापितं तत् तु वर्धते न ततः परम् ॥

न गृह्णाति रक्षणाक्षमत्ववृद्ध्लोलुपत्वादिहेतुनेति शेषः । मध्यस्थस्थापनाभावे स्थापितस्यापि याच्यमानस्याप्राप्तौ पूर्ववद् वर्धत एव, प्रतिदानोद्यमस्य कृतत्वासंभवात् ॥

**इति स्मृतिचन्द्रिकायाम् अकृतवृद्ध्यपवादः **

वृद्धिग्रहणप्रतिषेधाः

अथ वृद्धिग्रहणप्रतिषेधाः

तत्र मनुः ।

नातिसाम्वत्सरीं वृद्धिं न चादृष्टां विनिर्हरेत् ।
चक्रवृद्धिं कालवृद्धिं कारिता कायिका च या ॥

अत्राद्यपादार्थं केचिद् एवम् आहुः - आ द्वैगुण्याद् वृद्धिग्रहणविधानाद् वत्सराद् ऊर्ध्वम् अपि वृद्धिग्रहणे दोषाभावाद् अभ्युदयार्थी चेत् संवत्सराद् ऊर्ध्वं या वृद्धिः तां न विनिर्हरेत् न गृह्णीयाद् इति । अयं तावद् अर्थो ग्राह्यः, विरोधाभावात् । अन्ये तु संवत्सराधिकां वृद्धिं न गृह्णीयात्, यद् वृद्धिमहत्त्वेन तावद् एव द्वैगुण्यं भवेद् इत्य् अध्याहृत्यार्थम् आहुः, ते मन्दाः - “कुसीदवृद्धिर् द्वैगुणान् नात्येति"इत्य् अनेन फलतो गतार्थत्वापत्तेः, वत्सरमात्रेण द्वैगुण्णा(?)पादकवृद्धिमहत्त्वस्य निषिद्धस्यानुपपत्तेश् च । अपरे पुनर् एवं व्याचक्षते - यत्राधमर्णे प्रतिमासं पञ्चकं शतं गृह्णीयाद् इति या विऋद्धिः प्राग् उक्ता सा ब्राह्मणाद्यधमर्णके कथंचिद् अङ्गीकारवशात् गृह्यमाण संवत्सरं यावद् ग्रहीतव्या न ततः परम् इति । अयम् अप्य् अर्थो ऽस्तु, प्राक्तनार्थवद् बहुदोषाभावात् । “न चादृष्टां विनिर्हरेत्” इत्य् अस्ययम् अर्थः - धर्मशास्त्रेष्व् अदृष्टां च षट्कं सतम् इत्य् एवंभूतां स्वबुद्धिकल्पितां वृद्धिं न गृह्णीयाद् इति ।

ननु
कृआनुसाराद् अधिका व्यतिरिक्ता न सिध्यति ।

इत्य् अनेन गतार्थम् इदं वाक्यम् एवंव्याख्यायमाने स्यात् । अस्तु व्यर्थो ऽनुवादः गत्यन्तराभावाद् इति केचिद् आचक्षते । दार्ढ्यार्थम् उक्तस्यैव पुनर् अभिधानम् इत्य् अन्ये मन्यन्ते । वस्तुतस् तु, अनेन निषेधे कृēते ऽप्य् अकृतवृद्धौ वृद्धिसंप्रतिपत्त्यभावात् शास्त्रोकैव वृद्धिः सिध्यति, नान्या गंप्रतिपत्तिमात्रलभ्या वृद्धिर् इत् कथनार्थं तद्वचनम् इत्य् अगतार्थतैव । “न विनिर्हरेत्” इति पदद्वयम् उत्तरार्धपदैर् अनुषङ्गात् संबध्यते । ततश् चायम् अर्थः - या चक्रवृद्ध्यादिभेदेन चतुर्विधा वृद्धिः ताम् न गृह्णीयाद् इति । एतद् उक्तं भवति - चक्रवृद्ध्यादयः स्वरसतो न ग्राह्या इति ।

नन्व् अशीतिभागादिवृद्धिर् अपि प्रतिमासं ग्राह्या कालिका भवति, सा च स्वरसतो ग्राह्या, तथानतिभूरिपरिमाणा कारितापि स्वरसतो ग्राह्यैव । तथा कायिकाप्य् अतिपीडारहिता । तेन तासां कथं प्रतिषेधः ।
उच्यते । केन वोक्तं तासां प्रतिषेध इति ।
कासां तर्हि प्रतिषेधः ।
उच्यते । यथा,
पञचमाषास् तु विंशत्या एवं धर्मो न हीयते ।

इति वासिष्ठवचनविहिता वृद्धिः, “वसिष्ठविहितां वृद्धिम्” इति मानववचनान्तरे प्रतिष्ध्यते । एवं “कुसीदवृद्धिर् धर्म्या विंशतेः पञ्चमाषिकी मासम्” इति गौतमेन विहिता कालिकात्र प्रतिषिध्यते, कायिकाप्य् अतिपीडावती तेन न कश्चिद् दोषः ।

ननु गौतमोक्ता कालिका धर्म्यत्वेन तेन विहिता कथं प्रतिषिढ्यते । यथा “एवं धर्मो न हीयते” इति धर्म्यत्वेनापि वसिष्ठविहिता प्रतिषिद्धा तथैव प्रतिषिध्यते । अत्यर्थाधिकपरिमाणत्वेनाधर्म्यत्वात् । अधर्म्यत्वं चोक्तं मनुना “वित्तविवर्धिनीम्” इति वदता ।
कथं तर्हि वसिष्ठगौतमयोः धर्म्यत्वेनाभिधानम् ।
पञ्चकशतवच् छूद्राधमर्णविषयत्वेनेति ब्रूमः । एवं च शूद्रेतराधमर्णविषयत्वे अधर्म्यत्वात् तत्रैव कथंचिद् अङ्गीकारवशात् प्राप्ता मनुना प्रतिषिद्धेति मन्तव्यम् ।
केचित् तु त्रैवर्णिकेष्व् अपि धर्म्यत्वम् आपादयितुं गौतमादिवचनम् एवं व्याचक्षते,
माषो विंशतितमो भागः पणस्य परिकीर्तितः ।

इति स्मृत्युक्तो माxअः कार्षापणस्य विंशतितमो भागः पञ्चमाषिकीत्य् अत्र परिगृह्यते । तथा च सति कार्षापणविंशतेः प्रयुक्ता या पञ्चमाषिकी वृद्धिर् अशीतिभागवृद्धेर् ईषदधिकेति कुतस्त्या वृद्धेर् अधर्म्यतेति व्याख्याद्वयम् अप्य् अयुक्तम् । वसिष्ठवचने तावद् उभयथा व्याख्याने ऽपि “वसिष्ठविहिताम्” इत्यादिमनुवचनविरोधो दुर्वारः । “धर्म्यत्वे वित्तवर्धिनीम् उत्सृजेत्” इत्य् अस्याघटनात् । गौतमवचने तु “एवं षोषसमासैर् द्विगुणा भवतीति” इति स्ववाख्यशेषविरोधो दुष्परिहरः (?) । तथा हि प्रथमव्याख्यातॄणां व्याख्याने षोडसमसैः कार्षापणचतुष्कं भवति । द्वितीयव्याख्यातॄणां तु सुवर्णपञ्चकं भवति, तस्माद् व्याख्याद्वयम् अप्य् असंबद्धम् । मत्पक्षे पुनर् न वाक्यशेषविरोधः, व्यावहारिकनिष्कविंशतेः प्रसिद्धमाषपञ्चकवृद्धौ षोडशमासैः द्वैगुण्यसिद्धेः । किं तु धर्म्यत्वविरोधः, स चास्माभिः परिहृतः तेन चोद्यानवकाशः । यत एव “स्वरसतो न ग्राह्या” इति प्रैषेधो न पुनः सर्वथा न ग्राह्या इति, अत एव चक्रवृद्धौ कथंचिद् अङ्गीकृतायां धनिकदोषात् क्वचित् तस्यालाभम् आह स एव ।

चक्रवृद्धिं समारूढो देशकालव्यवस्थितः ।
अतिक्रामन् देसकालौ न तत्फलम् अवाप्नुयात् ॥

अतिक्रामन् देसकालौ यदि परिभाषितं देशं कालं वातिक्रामति न संनिहितस् तत्र भवति ततः स्वदोषान् न तत्फलम् अवाप्नुयात् न तां वृद्धिं लभते इत्य् अर्थः । फलप्रतिषेधान् मूलं लभते, यथोक्तप्रतिषेधाद् अन्यां वृद्धिं लभेतेति गम्यते । अन्ये ऽपि “ब्राह्मणस्य न वार्धुषम्” इत्याद्या वृद्धिग्रहणप्रतिषेधा नारदाद्युक्ताः सन्ति । ते त्व् आह्निकमध्य एवापद्वृत्तिप्रकरणे प्रदर्शिता इतीहास्माभिर् (?) न प्रदर्शिताः ॥

इति स्मृतिचन्द्रिकायां वृद्धिग्रहणप्रतिषेधाः

वृद्ध्य्-उपरमावधि-निरूपणम्

अथ वृद्ध्य्-उपरमावधि-निरूपणम्

तत्र नारदः ।

ऋणानां सार्वभौमो ऽयं विधिर् वृद्धिकरः स्मृतः ।
देशाचारस्थितिस् त्व् अन्या यत्रर्णम् अवतिष्ठते ॥
आपदं निस्तरेद् वैश्यः कामं वार्धुषिकर्मणा ॥

इत्यदिना स्मृतः ऋणिनां वृद्धिकरो विधिः सर्वतः भूमाव् अपीष्टः । यत्र द्वैगुण्यादाव् ऋणं वर्धमानम् अवतिष्ठते तत्र देशाचारस्थितिः देशान्तराचारस्थितितो ऽन्येत्य् अर्थः । कथम् अन्येत्य् अपेक्षिते स एवाह ।

द्विगुणं त्रिगुणं चैव तथान्यस्मिन् चतुर्गुणम् ।
तथाष्टगुणम् अन्यस्मिन् देयं देशे ऽवतिष्ठते ॥

देयम् ऋणं वर्धमानं क्वचिद् देसे द्विगुणं क्वचित् त्रिगुणं क्वचिच् चतुर्गुणं वा यवद् वर्धत इत्य् अर्थः । एवं प्रयुक्तद्रव्यभेदाद् अपि भेदव्यवस्थानम् । तथा च बृहस्पतिः ।

हिरण्ये द्विगुणा वृद्धिः त्रिगुणा वस्त्रकुप्ययोः ।
धान्ये चतुर्गुणा प्रोक्ता शदवाह्यलवेषु च ॥
उक्ता पञ्चगुणा शाके बीजेक्षौ षड्गुणा स्मृता ।
लवणस्नेहमद्येषु वृद्धिर् अष्टगुणा मता ॥
गुडे मधुनि चैवोक्ता प्रयुक्ते विरकालिके ॥ इति ।

कुप्यं त्रपुसीसकम् । शदः क्षेत्रफलम्, तच् च गोबलीवर्दन्यायाद् धान्यव्यतिरिक्तं पुष्पमूलफलादिकम् । वाह्यो बलीवर्दतुरगादिः । लवो मेषलोमचमरीकेशादिः । स्नेहो मधूच्छिष्टादिः । “प्रयुक्ते चिरकालिके” इत् पदद्वयं सप्तम्येकवचनान्तेन हिरण्यादिपदेन सम्बध्यते । शदवाह्यलवेषु चिरकालिकेष्व् इत्य् अध्याहरः । एवं लवणस्नेहमद्येष्व् इत्य् अत्राप्य् अध्याहारः । द्वैगुण्यहेतुभूतं पूर्णे द्वैगुण्यम् आपद्यत इत्य् आह स एव ।

अशीतिभागो वर्धेत लाभे द्विगुणताम् इयात् ।
प्रयुक्तं सप्तभिर् वर्षैस् त्रिभागोनैर् न संसयः ॥

लाभे प्रतिमासम् अशीतिभागात्मके संगृह्यमाणे हिरण्यवद् वज्रादाव् अपि द्विगुणैव वृद्धिः । तथा च वसिष्ठः ।

वज्रशुक्तिप्रवालानां हेम्नश् च रजतस्य च ।
द्विगुणा त्व् इष्यते वृद्धिः कृता कालानुसरिणी ॥

वज्रसाहवर्याच् छुक्तिर् इति मुक्ताफलं लक्षणयोच्यते । कात्यायनेन तु “मणिमुक्ताप्रवालानाम्” इति वावकशब्देनोक्त्म्, तद् ऽप्य् अत्र लक्षणानिश्चये कारणम् । कुप्यवत् ताम्रादाव् अपि त्रिगुणैव वृद्धिः । तथा च स एव ।

ताम्रायःकांस्यरीतीनां त्रपुणः सीसकस्य च ।
त्रिगुणा तिष्ठते वृद्धिः कालाच् चिरकृतस्य तु ॥

बीजवत् कार्पासे ऽपि षड्गुणैव वृद्धिः । तथा च व्यासः ।

शाककार्पासबीजेक्षौ षड्गुणा परिकीर्तिता । इति ।

स्नेहवद् रसस्याप्य् अष्टगुणैव वृद्धिः । तथा च स एव ।

वदन्त्य् अष्टगुणान् काले मद्यस्नेहरसासवान् । इति ।

कात्यायनो ऽपि ।

तैलानां चैव सर्वेषां मद्यानाम् अथ सर्पिषाम् ।
वृद्धिर् अष्टगुणा ज्ञेया गुडस्य लवणस्य च ॥

गुडवत् तुलामेयसितादाव् अप्य् अष्टगुणैव वृद्धिः । तथा च वसिष्ठः, “तुलाघृतम् अष्टगुणम्” इति । यत् पुनस् तेनोक्तम् - “त्रिगुणं धान्यं धान्येनैव रसा व्याख्याताः पुष्पमूलफलानि च” इति, यत् यत्र देशे त्रिगुणं देयम् अवतिष्ठते तद्विषयम्, दरिद्राधमर्णविषयं वा । यत् तु मनुनोक्तम्,

धान्ये शदे लवे वाह्ये नातिक्रमति पञ्चताम् ।

इति, तत् प्रत्यर्पणसमयसमृद्धाधमर्णविषयम् । ये तु कम्बलादयो “हिरण्ये द्विगुणा वृद्धिः” इत्यदिधर्मशास्त्रेष्व् अनुक्ताः तेषां द्विगुणैव वृद्धिः, “अनुक्तानां द्विगुणा” इति विष्णुस्मरणात् । चिरकालम् अदानेनाधमर्णोपरि वृद्धिस्थिताव् एव प्रयुक्तधनस्य द्वैगुण्यानतिक्रमो नान्यत्रेत्य् अर्थः । चिरस्थानाभावे तु प्रयुक्तं वर्धत एव, शतगुणत्वे ऽपि “यावत् प्रतिदानम्” इति व्यतिरेकाद् गम्यते । चिरस्थाने ऽपि स्कृदाहितवृद्धाव् एव द्वैगुण्यानतिक्रमो नान्यत्रेत्य् आह मनुः ।

अधिकं ग्रहीष्यामीति यद् अल्पं दीयते तत् कुसीदम्, तच् च द्वैगुण्यसमभिव्याहाराद् अत्र हिरण्यम् अभिप्रेतम् । तस्य वृद्धिः सकृद् आहिता । पुरुषान्तरम् असंक्रामिता न वा मूलीकृता द्वैगुण्यमूलेन सह द्विगुणत्वं नतिक्रामीत्य् अर्थः । अत्रापि पुरुषान्तरसंक्रामिता पुनर् वा मूलीकृता वृद्धिर् द्वैगुण्यम् अस्त्येतीति व्यतिरेकाद् गम्यते । यदा ऋणिकः स्वयम् एव ऋणं सवृद्धिकं पुरुषान्तरदेयं करोति, यदा वा मूलीकरोति, धनिको वा धनिकान्न्तरे त्व् आधिं कृत्वा स्वधनं गृह्णाति, तदा तद्दिनम् आरभ्य द्वैगुण्यपर्यन्तं प्रतिदानपर्यन्तं वा वर्धते इति मन्तव्यम् । एवं त्रैगुण्यादाव् अपि सकृद् आहिता वृद्धिर् नात्येति, वस्त्रादाव् अन्यथा त्व् अत्येति, न्यायसाम्यात् । चिरस्थान एव त्रैगुण्यादौ वृद्ध्युपरमो ऽन्यथा तु वर्धत एवेत्य् अवगन्तव्यम् ॥

इति स्मृतिचन्द्रिकायां वृद्ध्युपरमावधिनिरूपणम्

वृद्ध्युपरमापवादाः

अथ वृद्ध्युपरमापवादाः

तत्र बृहस्पतिः ।

तृणकाष्ठेष्टकासूत्रकिण्वचर्मास्थिवर्मणाम् ।
हेतिपुष्पफलानां च वृद्धिस् तु न निवर्तते ॥

किण्वः सुराद्रव्योपादानभूतो मूलविशेषः । चर्म बाणादिनिवारकं फलकम् । वर्व कवचम् । हेतिः आयुधम् । पुष्पफलयोर् वृद्ध्यनिवृत्तिः प्रतिदानवेलायाम् अत्यन्तसमृद्धाधमर्णविषये वेदितव्या, अन्यथा पूर्वप्रकरणोक्तत्रिगुणादिप्रतिपादकवचनविरोधापत्तेः । विष्णुर् अपि - “किण्वकार्पाससूत्रचर्मवर्मायुधेष्टकाङ्गाराणाम् अक्षया” इति । कार्पासे तु पूर्वप्रकरणोक्तषड्गुणाभिधायकवचनाविरोधः पूर्ववद् विज्ञेयः । वसिष्ठो ऽपि ।

दन्तचर्मास्थिशृङ्गाणां मृन्मयानां तथैव च ।
अक्षया वृद्धिर् एतेषां पुष्पमूलफलस्य च ॥

अक्षया मूलप्रतिदानाभावे शतगुणापि वर्धत एवेत्य् अर्थः । बृहस्पतिर् अपि ।

शिखावृद्धिं कायिकां च भोगलाभं तथैव च ।
धनी तावत् समादद्याद् यावन् मूलं न शोधितम् ॥

शिखावृद्ध्यादीनां स्वरूपं वृद्धिभेदाभिधानप्रकरणे दर्शितम् । न शोधितं न प्रतिदत्तम् ऋणिकेनेत्य् अर्थः । अत एव याज्ञवल्क्यः ।

आधिस् तु भुज्यते तावद् यावत् तन् न प्रदीयते । इति ।

एवम् उक्तो वृद्ध्युपरमापवादः चिरस्थाने सकृद् आहितायां च वृद्धौ द्रष्टव्यः, तत्रैवौत्सर्गिकवृद्ध्यपरमप्राप्तेः ॥

**इति स्मृतिचन्द्रिकायां वृद्ध्युपरमापवादः **

समाप्तं च धनदानाधमर्णप्रकरणम्

ऋणप्रतिदानविधिः

अथ ऋणप्रतिदानविधिः

तत्र बृहस्पतिः ।

याचमानाय दातव्यम् अल्पकालम् ऋणं कृतम् ।
पूर्णे ऽवधौ शान्तलाभम् अभावे च पितुः सुतैः ॥

अल्पकालम् अदीर्थकालम् इति यावत् । कृतं दीपोत्सवादौ प्रतिदेयम् इत्य् एवं सावधित्वेन कृतम् । शान्तलाभम् उपरतवृद्धिकम् । एतद् उक्तं भवति - अदीर्घकालिकम् ऋणं याच्ञानन्तरं दातव्यम् सावधिकत्वेन कृतं तु पूर्णे ऽवधौ । शान्तलाभं तु लाभशान्त्यनन्तरम् । ऋणिकाभावे च तत्सुतैर् अप्य् एवम् एव दातव्यम् इति । एतच् च याच्ञादेः समनन्तरं प्रतिदानविधानम्, न ततः प्राक् प्रतिदानव्युदासकम्, सति संभवे शीघ्रम् अपाकरणीयत्वाद् ऋणस्य । यस् तु ऋणं नापाकरोति तस्यादृष्टहानिः पुराणे दर्शिता ।

तपस्वी चाग्निहोत्री च ऋणवान् म्रियते यदि ।
तपश् चैवाग्नोत्रं च सर्वं तद् धनिनो भवेत् ॥

तेनावश्यम् ऋणम् अपाकरणीयम् इत्य् अर्थः । अनेनैवाभिप्रायेण कात्यायनेनाप्य् उक्तम् ।

उद्धारादिकम् आदाय स्वामिने न ददाति यः।
स तस्य दासो भृत्यः स्त्री पशुर् वा जायते ऋणी (गृहे) ॥ इति ।

उद्धारादिकं प्रतिदेयतयैवावस्थितं प्रीतिदत्तादिकम् । दासभृत्ययोर् भेदो वक्ष्यते । यत् तु नारदेनोक्तम्,

याच्यमानं न दद्याद् यद् ऋणं वाधिप्रतिग्रहम् ।
तद् द्रव्यं वर्धते तावद् यावत् कोटिशतं भवेत् ॥
ततः कोटिशते पूर्णे वेष्टितस् तेन कर्मणा ।
अश्वः खरो वृषो दासो भवेज् जन्मनि जन्मनि ॥

इति, तत्र याच्यमानग्रहणं याच्यमानस्य ऋणादेर् अप्रतिदाने क्लेशातिशयप्रतिपादनार्थम्, न तु याच्यमानस्यैवाप्रतिदाने क्लेशो नान्यस्येत्य् अभिधानार्थम् इत् मन्तव्यम् । लेख्यारूढर्णप्रतिदानानन्तरं प्रतिदातुः कर्तव्यम् आह याज्ञवल्क्यः ।

दत्वर्णं पाटयेल् लेख्यं शुद्ध्यै वान्यत् तु कारयेत् । इति ।

अनृणत्वप्रख्यापनार्थं प्रतिदत्तपत्रं वोत्तमर्णाद् गृह्णीयाद् इति द्वितीयपादार्थः । ऋणलेख्यस्य स्थापनापरिज्ञानादिना पाठनासंभवे त्व् अयं पक्ष इत्य् उक्तं तद्भाष्ये । अस्यापि कथंचिद् असंभवे पक्षान्तरं नारदेनोक्तम् ।

लेख्यं दद्याद् ऋणे शुद्धे तदभावे प्रतिश्रयः ।
धनिकर्णिकयोर् एवं विशुद्धिः स्यात् परस्परम् ॥

प्रतिश्रवः प्रतिदत्तम् इत्य् अस्मिन्न् अर्थे साक्ष्यसिद्ध्यै श्रोत्रियादिश्रावणम् । साक्षिमद् ऋणप्रतिदातारं प्रत्य् आह याज्ञवल्क्यः ।

साक्षिमच् च भवेद् यद् वा तद् दातव्यं ससाक्षिकम् । इति ।

ससाक्षिकम् ऋणं पूर्वसाक्षिसमक्षम् एव दातव्यम् इत्य् अर्थः । पूर्वसाक्षिणां कथंचिद् असंभवे साक्ष्यन्तरसमक्षं वा दातव्यम्, ससाक्xइकम् इति सामान्योनोक्तेः पक्षद्वयसमर्थनार्थत्वात् । पूर्वसाक्ष्यन्तरं तु पूर्वसाक्षिबाधनक्षमत्वाय संख्यागुणाधिकम् एव कार्यम् ॥

इति स्मृतिचन्द्रिकायां ऋणप्रतिदानविधिः

असमर्थाधमर्णविषयाः

**अथासमर्थाधमर्णविषयाणि **

तत्र मनुः ।

ऋणं दातुम् अशक्तो यः कर्तुम् इच्छेत् पुनःक्रियाम् ।
स दत्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥

प्रमाणमात्रवाचको ऽपि क्रियाशब्दो ऽत्र ऋणविषयप्रमाणपरत्वाल् लेख्यसाक्षिष्व् एवावतिष्ठते । एवं चायम् अर्थः । प्रतिदानकाले धनासंपत्त्यादिवशात् सवृद्धिकमूलदानाशक्तो यो ऽधमर्णः ऋणस्य चिरन्तनत्वपरिहारतो धनिकसमाधानार्थं क्रियां लेख्यादिरूपां पुनः कर्तुम् इच्छेत्, स निष्पन्नां वृद्धिं दत्वा करणं परिवर्तयेत्, पुनर् लेख्यादिक्रियां वर्तमानवत्सरादिचिह्नितां कुर्याद् इति । यदा तु निर्जितां वृद्धिं दातुं न शक्नोति तदाप्य् आह स एव ।

अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् ।
यावती संभवेद् वृद्धिस् तावतीं दातुम् अर्हति ॥

अस्यार्थः - हिरण्यम् अदर्शयित्वा निर्जितां वृद्धिम् अदत्वा तत्रैव पूर्वकृतकरण (?) एव परिवर्तयेत् निर्जितां वृद्धिं मूलत्वेनारोपयेत् । तस्यास् तु वृद्धिर् न प्रयुक्तधनवृद्धितुल्या, किं तु अत्यन्ताल्पपरिमाणेनैवारोपणीयेति । वृद्धाव् अप्य् अंशमात्रदानशक्तेन शक्यांशं दत्वा पश्चाद् अशक्यांशान्तरं पूर्वकरण एव पूर्ववद् आरोपणीयम्, न्यायसाम्यात् । यस् तु प्रतिदानकाले सवृद्धिकं मूलांशं दातुम् अशक्तः तं प्रत्य् आह याज्ञवल्क्यः ।

लेख्यस्य पृष्टे ऽभिलिखेत् दत्वा दत्वर्णिको धनम् । इति ।

कालान्तरे ऽपि यावन् निखिलऋणापाकरणं न भवति तावद् एवं कृत्वान्ते पाटनं कुर्याद् इति । अथ वा यथाशक्ति स्तोकं दत्वा लेख्यम् उपगताख्यम् उत्तमर्णात् गृह्णीयात्, उत्तमर्णेन च तद् अवश्यं देयम्,

धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ।

इति पक्षान्तरतया तेनैवानन्तरम् अभिधानात् । एतावन् मह्यम् अनेन दत्तम् इति प्रवेशपत्रं वा धनी प्रतिदात्रे दद्याद् इति तस्यार्थः । अर्थान्तरं च तस्योपरिष्टाद् दूरे वक्ष्यामः । अयं च पक्षः प्राचीनपक्षालाभे, तथा च विष्णुः - “असमग्रदाने लेख्यासंनिधाने चोत्तमर्णः स्वलिखितं दद्यात्” इति । ऋणिकायेति शेषः । तथा च नारदः ।

गृहीत्वोपगतं दद्याद् ऋणिकायोदयं धनी । इति ।

उदयम् ऋणिकेनोपार्जितं गृहीत्वा धनी ऋणिकायोपगतं दद्याद् इत्य् अन्वयः । उदयशब्देनोपार्जितं ब्रुवन्,

ब्राह्मणस् तु परिक्षीनः शनैर् दाप्यो यथोदयम् ।

इत्य् उक्तविषये ऽप्य् अयं पक्षोविज्ञेय (?) इति दर्शयति । तेन पत्रपृष्ठे लेखनपक्षो ऽप्य् अनेन विकल्पितत्वाद् अस्मिन्न् एव विषये विज्ञेयः । एवं भागश ऋणग्रहणविधिबलाद् अस्मिन्न् एव विषये भागशो ग्रहणम्, अन्यत्र कृत्स्नस्यैवर्णस्य ग्रहणम् इति मन्तव्यम् । तेन यत्र भागशो ग्रहणविधिः तत्रैव दत्तांशस्य वृद्धिनिवृत्तिः, अन्यत्र तु यावत् कृत्स्नं न ददाति तावद् दीयमानम् अप्य् अकृत्स्नं प्रत्याख्येयम्, दत्तांशस्यापि वा वृद्धिर् ग्राह्यैव, तत्राकृत्स्नादानस्य निक्षेपमात्रतुल्यत्वात् । न च परिक्षीणविषये स्तोकं दीयमानं वृद्धिभङ्गभयात् प्रत्याख्येयम्, परिक्षीणस्यानुसनणीयत्वात्, शनैर् दाप्यत्वविधानाच् च । परिक्षीणविषये ऽप्य् आधिमोचनं कृत्स्नर्णापाकरणानन्त्रं सकृद् एव, न पुनर् दत्तांशानुसारेण बहुशः, यावद् ऋणं तव न ददामि तावद् अयम् आधिर् इति बहुमूल्यस्याप्य् आनृण्यपर्यतम् आधीकरणात् । न चाधीकृतधनस्वामित्वेणाप्य् असाव् अपरिषीण इति वाच्यम्, प्रतिबद्धधनस्वामित्वेन निःस्वतुल्यत्वात् । आधिभोगे ऽपि न वृद्धिन्यायेन दत्तांशानुसारेण भोगनिवृत्तिः । प्रतिनिष्कम् अशीतिभागादिवृद्ध्यङ्गीकारो हि धार्यमाणधनानुसारेण कृतः, तेन प्रतिदत्तांशस्य धार्यमाणस्य वृद्धिनिवृत्तिर् युक्ता । आधिभोगस् तु बोग्याधित्वस्थित्यनुयायी, न धार्यमाणधनानुयायी, स्वल्पधनप्रयोगविषये ऽपि बहुमूल्यस्याप्य् आधित्वेन स्थितस्याशेषस्यैव भोग्यत्वदर्शनात् । न चाङ्गीकारवशात् तत्र तथा भोग्यत्वदर्शनम् इति वाच्यम्, कृत्स्नं भोग्यं त्वयैतद् इत्य् एवम् अनुक्ते ऽपि दर्शनात् । भोग्याधित्वेन स्थितेश् चाविमोचनात् । विमोचनं च कृत्स्नर्णापाकरणानन्तरं सकृद् एवेत्य् उक्तम् । तेन परिक्षीणविषये ऽपि न दत्तांशानुसारेणाध्यंशवशात् तत्र भोगनिवृत्तिः । तथा कायिकवृद्ध्या गवादिकम् आधीकृत्य निष्के ऋणिना गृह्णाति, न पुनर् दत्तांशानुसारेण एकस्तनं द्विस्तनं त्रिस्तनं वाधर्मर्णायार्पयति । अश्वे ऽप्य् आधिभूते धनी स्वयम् एवाश्वम् आरुह्य कृत्स्नं मार्गं गच्छति तथेहापीत्य् अलम् अतिबहुना प्रपञ्चेन ।

यस् तु दौरात्म्याद् याच्ययानो ऽप्य् उपगतं न ददाति, तस्य हानिम् आह स एव ।
न दद्याद् याच्यमानस् तु शेषहानिम् अवाप्नुयात् । इति ।

शेषो दास्यमानतया स्थितो भागः । शेषस्य स्वल्पत्वे सत्य् एतद् द्रष्टव्यम् । तस्यानल्पत्वे त्व् अधिकहानित्वात् तां नाप्नुयात्, अपि तु गृहीतभागस्य वृद्धिदाननिबन्धनां हानिम् । अत एव बृहस्पतिः ।

ऋणं धर्मादितो ग्राह्यं यस् तूपरि न लेखयेत् ।
न चैवोपगतं दद्यात् तस्य तद् वृद्धिम् आप्नुयात् ॥
अस्यार्थकथनार्थम् आदौ विषयतात्पर्ये निरूप्येते ।

धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ।

इति याज्ञवल्क्यवचनस्य द्वाव् अर्थौ - तत्रैतावद् द्रव्यं मम प्राप्तम् इति धनी ऋणलेख्यपृष्टे स्वहस्तपरिचिह्नितम् उपगतं लिखेद् इत्य् एको ऽर्थः। अर्थान्तरं च तस्य प्राग् दर्शितम् । तयोर् अन्यतरम् अर्थम् अकुर्वतो धनिकस्य हानिर् अनेन वचनेनोच्यते । अक्षरार्थस् तु धर्मोपधिबलात्, कारागृहसंरोधनाद्युपायैर् अधमर्णाद् अकृत्स्नम् ऋणम् उपादाय यो धनी ऋणलेख्यस्योपरि मयैतावत् प्राप्तम् इति न लिखेत्, न च प्रवेशपत्रं दद्यात्, तस्य तद् दिनम् आरभ्य यावल्लेखनं लेख्यदानं वा न करोति तावद् अधमर्णाद् उपात्तं धनं वृद्धिम् आप्नुयात् अधमर्णाय वर्धत इति यावत् । कया वृद्ध्येत्य् अपेक्षिते नारदः ।

यदि वा नोपरि लिखेद् ऋणिना चोदितो ऽपि सन् ।
धनिकस्यैव वर्धेत तथैव ऋणिकस्य तत् ॥

यथैव तद् द्रव्यम् ऋणिकस्योपरि स्थितं धनिकाय वर्धते तथैवर्णिकाय धनिकस्योपरि स्थितं वर्धत इत्य् अर्थः ।

इति स्मृतिचन्द्रिकायाम् असमर्थाधमर्णविषयाणि

प्रतिदानपराङ्मुखद् ऋणिकाद् ऋणग्रहणोपायाः

अथ प्रतिदानपराङ्मुखद् ऋणिकाद् ऋणग्रहणोपायाः

तत्र बृहस्पतिः ।

प्रतिपन्न ऋणी दाप्यः सामादिभिर् उपक्रमैः । इति ।

प्रतिपन्नः ऋणसत्तायां संप्रतिपन्नः दाप्यः प्रतिदानोन्मुखः कार्यः धनिनेत्य् अर्थः । तथा च मनुः ।

यैर् यैर् उपायैर् अर्थं स्वं प्राप्नुयाद् उत्तमर्णकः ।
तैस् तैर् उपायैः संगृह्य दापयेद् अधर्मर्णिकम् ॥

के ते उपाया इत्य् अपेक्षिते बृहस्पतिः ।

धर्मोपधिबलात्कारैः गृहसंरोधनेन च । इति ।

आचरिताख्योपाय एव गृहसंरोधनेनेत्य् अनेनोपदिष्टः । धर्मादीन् स्वयम् एव व्याचष्टे ।

सुहृत्संबन्धिसंदिष्टैः सामोक्त्यानुगमेन च ।
प्रायेण वा ऋणी दाप्यो धर्म एष उदाहृतः ॥
छद्मना याचितं चार्थम् आनीय ऋणिकाद् धनी ।
अन्वाहितादि वाहृत्य दाप्यते तत्र सोपधिः ॥
यदा स्वगृहम् आनीय ताडनाद्यैर् उपक्रमैः ।
ऋणिको दाप्यते यत्र बलात्कारः स कीर्तितः ॥
दारपुत्रपशून् बध्वा कृत्वा दारोपवेशनम् ।
यत्रर्णी दाप्यते ऽर्थं स्वं तद् आचरितम् उच्यते ॥ इति ।

सुहृत्संबन्धिसंदिष्टैः मान्यजनादेशैः । संओक्य्ता प्रियपूर्ववाक्येन । अनुगमनेन अनुव्रजनेन । प्रायेण प्रार्थनाबहुल्येन (?) । छद्मना उत्सवादिच्छलाद् आनीतभूषणादिना । याचितं याचितकम् । अन्वाहितम् अन्यस्मै दातुम् अर्पितम् । आदिग्रहणाद् अन्यद् अपि यथा कथंचिद् आनीतं संगृह्यते । अर्थं स्वं स्वकीयम् अर्थम् । दाप्यते प्रतिदानोन्मुखीक्रियते । शेषं व्यक्तार्थम् । धर्मादयश् चोपाया न यथाकामं प्रवोक्तव्याः । किं तु यथायोग्यं प्रयोज्याः । तथा च कत्यायनः ।

राजानं स्वामिनं विप्रं सान्त्वेनैव प्रदापयेत् ।
रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेत् ॥
वणिजः कर्षकाश् चैव शिल्पिनश् चाव्रवीद् भृगुः ।
देशाचारेण दाप्याः स्युर् दुष्टान् संपीड्य दपयेत् ॥ इति ।

सान्त्वेन धर्माख्योपायेन । संपीड्यशब्देन बलात्काराचरिताख्योपाययोर् ग्रहणम् । कः पुनः देशाचार इत्य् अपेक्षिते स एवाह ।

धार्यो ऽवरुद्धस् त्व् ऋणिकः प्रकाशं जनसंसदि ।
यावन् न दद्याद् देयं च देशाचारस्थितिर् यथा ॥

यत्र देशे धनी स्वयम् एवावरुध्य धारयति, तत्र तथैव धार्यः । यत्र पुनर् अधमर्णसकाशाद् वेतनार्थिना निर्घृणेन पुरुषान्तरेणावरुध्य ध्रियते तत्र तथा पुरुषान्तरद्वारा धार्य इति “देशाचारस्थितिर् यथा” इत्य् अस्यार्थः । एवं च अवरुध्य धारणम् एव देशाचारानुरोधित्वाद् देशाचार इत्य् उच्यते । अवरुद्धस्यावश्यकरणीयेषु मनाग् अनुग्रहः कार्य इत्य् आह स एव ।

विण्मूत्रशङ्का यस्य स्याद् धार्यमाणस्य देहिनः ।
पृष्ठतो वानुगन्तव्यो निबद्धं वा समुत्सृजेत् ॥

निबद्धं शृङ्खलादिना । अधमाधर्मर्णविषयो द्वितीयः पक्षः तदितरविषयस् त्व् आद्यः पक्षः इत्य् औचित्यत् व्यवस्थावगन्तव्या । उभयविषये ऽपि पक्षान्तरम् आह स एव ।

स कृतप्रतिभूश् चैव मोक्तव्यः स्याद् दिने दिने ।
आहारकाले रात्रौ च निबन्धे प्रतिभूः स्थितः ॥

सः धार्यमाणो वणिगादिः । कृतदर्शनप्रतिभूर् आवश्यककृत्यकाले विमोक्तव्यः । पलायनप्रतिबन्धे प्रतिभूर् यतः स्थित इत्य् अर्थः । यदा तु प्रतिभूर् न लभ्यते लब्धं वा प्रतिभुवं न ददाति तदा अध्माधमर्णविषये पुनः पक्षान्तराभिधानार्थम् आह ।

यो दर्शनप्रतिभुवं नाधिगच्छेन् न चाश्रयेत् ।
स चारके निरोद्धव्यः स्थाप्यो वावेद्य रक्षिणः ॥

चारके संचारके, संचरण इति यावत् । स्थाप्यः प्रस्थाप्यः । आद्यः पक्षः प्रतिभूलाभे ऽपि यो न ददाति तद्विषयः, तस्यातिदौष्ट्यात् । अलब्धप्रतिभूविषयो द्वितीयः पक्षः, तस्यातिदौष्ट्याभावात् । अधमेतरविषये त्व् एतत्पक्षद्वयस्थाने ऽन्यपक्षद्वयम् आह स एव ।

न चारके निरोद्धव्यः आर्यः प्रात्ययिकः शुचिः ।
सो ऽनिबद्धः प्रमोक्तव्यो निबद्धः सपथेन वा ॥

प्रात्ययिकः अपलायित्वेन विश्वासी । अनिबद्धः रक्षकेण असंबद्ध इत्य् अर्थः । एवं च रक्षिणः आवेद्य प्रस्थाप्य इत्य् अस्य स्थाने पक्षो ऽयम् इति गम्यते । इतरस् तु पक्षः पारिशेष्यात् “स चारके निरोद्धव्यः " इति पक्षस्य स्थाने द्रष्टव्यः । यद्य् अपि वणिगादिविषयता देशाचाराख्योपायस्योक्ता, तथाप्य् आर्यादियोग्यानुग्रहपक्षप्रतिपादनाद् धर्माख्योपायसाध्यविप्रादाव् अपि देशाचाराख्योपायो योग्यानुग्रहपक्षसहितः प्रयोक्तव्य इति मन्तव्यम् । एवम् उक्तविधया धर्माद्युपायप्रयोक्ता राज्ञा न निवारणीयः, स्मृत्याचारमार्गेण क्रियमाणध्र्षणस्यानिवार्यत्वात् । अत एव मनुः ।

यः स्वकं साधयेद् अर्थम् उत्तमर्णो ऽधमर्णिकात् ।
स राज्ञा नाभियोक्तव्यः स्वकं संसाधयन् धनम् ॥

नाभियोक्तव्यो न किम् अपि वचनीयः । तथा च विष्णुः - “प्रयुक्तम् अर्थं यथा कथंचित् साधयमानो न राज्ञा वाच्यः स्यात्” इति । यथा कथंचित् स्मृत्याचारमार्गाविरोधेनेति शेषः । तद्विरोधेन साधयमानो राज्ञा निवारणीय एव, दुष्टत्वात् । यच् च तेनैवोक्तम् - “साथ्यमानश् (?) चेद् राजानम् अभिगच्छेत् तत्समं दण्ड्यः” इति, तत्रापि स्मृत्याचारमार्गाविरोधेनेति शेषो द्रष्टव्यः, अन्यथा दण्ड्यत्वानुपपत्तेः । तत्समं साध्यमानर्णसमम् । न केवलं दण्ड्यः, ऋणं च दाप्यः । तथा च याज्ञवल्क्यः ।

प्रपन्नं साधयन्न् अर्थं न वाच्यो नृपतेर् भवेत् ।
साध्यमानो नृपं गच्छन् दण्ड्यो दापयश् च तद्धनम् ॥

दण्ड्य इति सामान्याभिधानम् असमर्थविषये स्वल्पो ऽपि दण्डो यथा स्याद् इत्य् एवमर्थम् । अत एव मनुना स्वल्पदण्डो दर्शितः ।

यः साधयन्तं छन्देन वेदयेद् धनिकं नृपे ।
स राज्ञर्णचतुर्भागं दाप्यस् तस्य च तद् धनम् ॥

छन्देन स्वाभिप्रायेण, राजन्य् अनावेद्यैवेति (?) यावत् । अत्र बृहस्पतिः ।

प्रतिपन्नस्य धर्मो ऽयं व्यपलापी तु संसदि ।
लेख्येन साक्षिभिर् वापि भावयित्वा प्रदाप्यते ॥

अयं पूर्वोक्तो धर्मगणः ऋणसत्तायां सम्प्रतिपन्नस्य ऋणिकस्य । यस् तु व्यपलापी ऋणम् अपह्नोतुं तत्सत्तायां विप्रतिपन्नः, संसदि प्रमाणेनर्णं प्रसाध्य प्रतिपादनोन्मुखीकर्य इत्य् अर्थः । एवं च यद् उक्तं मनुना,

धर्मेण व्यवहारेण छद्मना चरितेन च ।
प्रयुक्तं साधयेद् अर्थं पञ्चमेन बलेन च ॥

तत्र व्यवहारेणेति व्यपलापिविषयम्, अन्यत् संप्रतिपन्नविषयम् इति मन्तव्यम् । अत एवासंप्रतिपन्ने व्यवहारातिरिक्तोपायनिषेधम् आह बृहस्पतिः ।

न रोद्धव्यः क्रियावादी संदिग्धे ऽर्थे कथंचन ।
आसेधयंस् त्व् अनासेध्यं दण्ड्यो भवति धर्मतः ॥

न रोद्धव्य इति छलादिप्रतिषेधप्रदर्शनार्थम् । क्रियावादिसंदिग्धपदयोर् अर्थं स्वयम् एव कथयति ।

प्रदातव्यं यद् भवति न्यायतः प्रददामि तत् ।
एवं यत्रर्णिको ब्रूते क्रियावादी स उच्यते ॥
रूपसङ्घ्यादिलाभेषु (?) यत्र भ्रान्तिर् द्वयोर् भवेत् ।
देयानादेययोर् वापि संदिग्धो ऽर्थः स कीर्तितः ॥ इति ।

संदिग्धे ऽर्थे प्रतिपन्नधर्मतः कुर्वतो ऽर्थहानिर् दण्डश् चेत्य् आह स एव ।

अनावेद्य तु राज्ञे यः संदिग्धे ऽर्थे प्रवर्तते ।
प्रसह्य स विनेयः स्यात् स चाप्य् अर्थो न सिध्यति ॥

प्रसह्य बलात्कारेणेत्य् अर्थः । कात्यायनो ऽपि ।

पीडयेत् तु धनी यत्र ऋणिकं न्यायवादिनम् ।
तस्माद् अर्थात् स हीयेत तत्समं चाप्नुयाद् दमम् ॥

तेन विप्रतिपन्ने ऽपि विप्रतिपत्तिनिवृत्तये व्यवहाराख्य एवोपाये प्रवृत्तिः कार्येत्य् अभिप्रायः । स चोपायः प्रतिज्ञादण्डान्तः प्रथमपरिच्छेदे निरूपित इत्य् उपरम्यते ।

**इति स्मृतिचन्द्रिकायां प्रतिदानपराङ्मुखाद् ऋणिकाद् ऋणग्रहणोपायाः **

दुःसाधाधमर्ण-विषयान्तरम्

अथान्यान्य् अपि दुःसाधाधमर्णविषयाणि वचनानि

तत्र यमः ।

ऋणिकः सधनो यस् तु दौरात्म्यान् न प्रयच्छति ।
राज्ञा दापयितव्यः स्यात् गृहीत्वा द्विगुणं ततः॥

ततः दुरात्मर्णिकसकाशाद् इत्य् अर्थः । द्विगुणम् इति सवृद्धिकमूल्यप्रदर्शनार्थम् । धनिनो दुरात्मनः सकाशाद् ऋणं बलच्छलाद्युपायेन गृह्णीयात् । तथा च बृहस्पतिः ।

पूर्णे ऽवधौ शान्तलाभम् ऋणम् उद्ग्राहयेद् धनी । इति ।

उद्ग्राहणं च बलाद्युपायेन साधनम् । पूर्णे ऽवधौ सावधिकत्वेन कृतर्णस्य उद्ग्रणं लाभशान्त्यन्तरं लाभस्य निरवधिकत्वेन कृतशान्तलाभस्य च दुःसाधत्वशङ्कया उद्ग्राहणं कार्यम्, अन्यथा त्व् अनुचितत्वात् । ऋणिकं तु प्रतिपादनात् पक्षान्तरम् आह स एव ।

कारेयेद् वा ऋणी लेख्यं चक्रवृद्धिव्यवस्थया । इति ।

वृद्धेर् अपि पुनर् वृद्धिश् चक्रवृद्धिः । मूले ऽपि विशेषम् आह स एव ।

द्वितुणस्योपरि यदा चक्रवृद्धिः प्रगृह्यते ।
भोगलाभस् तदा तत्र मूलं स्यात् सोदयं नृणाम् ॥

अनेनैव वचनेन द्व्गुणद्रव्यानुरूपभोगसमर्थाधिर् वा चक्रवृद्धिस्थाने भवतीत्य् अवगम्यते । द्विगुणग्रहणाच् छान्तलाभ एव पूर्वोक्तलेख्यान्तरकरणपक्षो न पुनः पूर्णावध्यादाव् इति गम्यते । तेन तत्र यथासंप्रपत्ति लेख्यान्तरम् ऋणिना कार्यम्, न चक्रवृद्ध्यादिनियमेन द्विगुणग्रहणादि । प्रागुदितपक्षत्रये धनिकेच्छातो व्यवस्था । यस् त्व् ऋणिको निर्धनत्वेनैव न प्रयच्छति सो ऽपि स्तोकं स्तोकं दाप्य इत्य् अह नारदः ।

अथ शक्तिविहीनः स्याद् ऋणी कालविपर्ययात् ।
शक्त्यपेक्षम् ऋणं दाप्यः काले काले यथोदयम् ॥

दाप्यो ब्राह्मण इति शेषः । तथा च याज्ञवल्क्यः ।

हीनजातिं परिक्षीणम् ऋणार्थं कर्म कार्येत् ।
ब्राह्मणस् तु परिक्षीणः शनैर् दाप्यो यथोदयम् ॥

कारयेद् बलात्कारेणापीति सेषः,

धनदानासं बध्वा स्वाधीनं कर्म कारयेत् ।

इति कात्यायनस्मरणात् । कर्मकरणासहं तु बन्धनागारे वासयेत्,

अशक्तो बन्धनागारे प्रेवेश्यो ब्राह्मणाद् ऋते ।

इति तेनैवोक्तत्वा । प्रवेशनफलं सामर्थ्योत्पत्तौ कथंचिद् ऋणप्राप्तिः । यत् पुनस् तेनैवोक्तम्,

कर्षकान् क्षत्रविट्शूद्रान् समीहानांस् तु दापयेत् ।

इति, तद् यथोदयं धनदानसहिष्णुविषयम् । “धनदानासहं वध्वा” इति सर्वथा धनदानासहविषयम् इति न कश्चिद् विरोधः । यस् त्व् अनेकर्णसमवायाद् युगपद् अनेकधनिकैर् दुःसाधः स कथं दप्य इत्य् अपेक्षिते याज्ञवल्क्यः ।

गृहीतानुक्रमाद् दाप्यो धनिनाम् अधमर्णिकः ।
दत्वा तु ब्राह्मणायैव नृपतेस् तदनन्तरम् ॥

नृपतेः क्षत्रियस्येत्य् अर्थः । वचनार्थस् तु कात्यायनेन विवृतः ।

नानर्णसमवाये तु यद् यत् पूर्वकृतं भवेत् ।
तत् तद् एवाग्रतो देयं राज्ञः स्याच् छ्रोत्रियाद् अनु ॥

श्रोत्रियो ऽत्र ब्राह्मणजातिमात्रशाली, न तु श्रुताध्ययनशाली त्रैवर्णिकः, राजजात्यपेक्षयोत्कृष्टजातिपरत्वेनात्र श्रोत्रियपदप्रयोगात् । ग्रहीतृजातिक्रमयोर् विरोधे जातिक्रमो ग्राह्यः, ब्राह्मणस्य पूज्यतयानुग्राह्यत्वात् । एवं क्षत्रियवैश्ययोर् वैश्यशूद्रयोर् वा युगपदुपस्थाने वर्णक्रमेण दातव्यम्, पूर्वपूर्वस्य श्रेष्ठत्वेनानुग्राह्यत्वात् । एवं क्रमेण ऋणापाकरणे क्रियमाणे यस्य ऋणापाकरणाद् अर्वाग् अल्पधन ऋणिकः परिक्षीणो जातः तस्य “हीनजातिं परिक्षीणम्” इत्यादिनोक्तमार्गानुसरणम् एव शरणम् । एकदिनकृतनानर्णसमवाये तु न पूर्वोक्तो दापनक्रमः, किं तु युगपद् एव प्रतिपादनम् ऋणिकस्य धनबाहुल्ये, धनाल्पत्वे तु तत्तदृणानुसारेण विभज्य युगपदंशदापनम् । तद् आह कात्यायनः ।

एकाहे लिखितं यत्र तत्र कुर्याद् ऋणं समम् ।
ग्रहणं लक्षणं लाभम् अन्यथा तु यथाक्रमम् ॥

ग्रहणम् आधिधनम्, रक्षणं तस्यैव पालनम्, लाभं भोगरूपलाभं च समम् एव कुर्यात् । अन्यथाहर्भेदे लिखितक्रमेण वर्णभेदक्रमेण वा ऋणप्रतिपादनम् । आध्यादौ त्व् आधि विवादापनोदविषयवचनसंग्रहणप्रकरणोक्तम् अनुसंधेयम् । “तत्र कुर्याद् ऋणं समम्” इत्यादेः क्वचिद् अपवादम् आह स एव ।

यस्य द्रव्येण यत् पण्यं साधितं यो विभावयेत् ।
तद् द्रव्यम् ऋणिकेनैव दातव्यं तस्य नन्यथा ॥

यस्य उत्तमर्णस्य धनाद् यत् पण्यम् अधमर्णेन वाणिजार्थं गृहीतं तत् पण्यविक्रयावाप्तं धनं नानर्णसमवाये ऽपि ऋणिकेन तस्यैवोत्तमर्णस्य ऋणापाकरणार्थं दातव्यम्, नान्यथा पूर्वोक्तप्रकारेण दातव्यम् इत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायां दुःसाधाधमर्णविषयाणि

समाप्तं च प्रयुक्तधनग्रहणधर्मसंग्राहकं महाप्रकरणम्

ऋणप्रतिदातृनिर्णयः

अथर्णप्रतिदातृनिर्णयः

तत्र ब्र्हस्पतिः ।

याचमानाय दातव्यम् अल्पकालम् ऋणं कृतम् ।
पूर्णे ऽवधौ शान्तलाभम् अभावे च पितुः सुतैः ॥

दातव्यं धनग्राहिणेति शेषः, सति संभवे ऋणस्य ग्राहकेणैवापाकरणीयत्वात् । अभावे च पितुः सुतैर् इति । अस्यायम् अर्थः । ऋणग्रस्तावस्थस्य पितुर् अभावे शरीरत्यागे सुतैर् अवश्यं पितृकृतम् ऋणं धनिने दातव्यम् इति । पितृकृतर्णस्यापाकरणम् आवश्यकम् इत्य् अत्र हेतुम् आह नारदः ।

इच्छन्ति पितरः पुत्रान् स्वार्थहेतोर् यतस् ततः ।
उत्तमर्णाधमर्णाभ्यां माम् अयं मोक्षयिष्यति ॥
अतः पुत्रेण जातेन स्वार्थम् उत्सृज्य यत्नतः ।
ऋणात् पिता मोचनीयो स यथा नरके ऽपतेत् ॥

यतस् ततो भार्योपगमनपुत्रिकाकरणपुत्रपरिग्रहाद्युपायानां मध्ये येन केनचिद् उपायेनेत्य् अर्थः । उत्तमम् ऋणम् “जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवा जयते” इत्यादिश्रुत्युक्तम् । अधमम् ऋणं परहस्तात् कुसीदविधिना गृहीतम् । अथ वा, उत्तमर्णाधमर्णशब्दतो लक्षणया कुसीदविधिना गृहीतम् एवर्णम् अवगन्तव्यम् । यद् आह कात्यायनः ।

पितॄणां सूनुभिर् जातैर् दानेनैवाधमाद् ऋणात् ।
विमोक्षस् तु यतस् तस्माद् इच्छन्ति पितरः सुतान् ॥ इति ।

दानेन ऋणप्रतिदानेन स्वार्थम् उपभोगादिरूपम् उत्सृज्येत्य् अर्थः, धर्मरूपस्वार्थोत्सर्गानुपपत्तेः । वाक्यार्थस् तु - यत एवम् इच्छन्ति अतः ऋणाद् अवश्यं पिता मोचनीय इति । न च जातैर् इत्य् अभिधानाज् जातमात्रस्य ऋणमोचने ऽधिकार इति वाच्यम्, स्वार्थम् उत्सृज्येत्यादेः शैशवदशायाम् अघटनात् । तेन व्यवहाराभिज्ञतया जातेनेति जातपदस्याध्याहारसापेक्षो ऽर्थो बोद्धव्यः । अत एव,

अप्राप्तव्यवहारश् चेत् स्वतन्त्रो ऽपीह नर्णभाक् ।

इति तेनैवोक्तम् । प्राप्तव्यवहारश् च षोडशवार्षिको भवति । तस्यां दशायां हेयोपादेयपरिज्ञानपरिपाकात् । स्वतन्त्रस् तु बाल्यदशायाम् अपि पितृमरणात् भवति । तेन स्वतन्त्रो ऽपीहेत्य् उक्तम् । एवं च, पितर्य् उपरते ऽप्य् अप्राप्तव्यवहारैर् न देयम्, अदाने ऽपि दोषाभावात् । किं तु प्रबुद्धकाले सर्वशक्त्या देयम्, अदाने दोषसद्भावात् । तद् आह कत्यायनः ।

नाप्राप्तव्यवहारैस् तु पितर्य् उपरते क्वचित् ।
काले तु विधिना देयं वसेयुर् नरके ऽन्यथा ॥

क्वचिद् इत्य् अत्र देयम् इत्य् अनुषज्यते । विधिना ऋणप्रतिदानप्रकरणप्रतिपादितेन विधिना । अनुपरते ऽपि पितरि सुतैः पितृकृतम् ऋणं पितरि प्रतिदानासमर्थे देयम् इत्य् आह स एव ।

विद्यमाने ऽपि रोगार्ते स्वदेशात् प्रोषिते तथा ।
विम्शात् संवत्सराद् देयम् ऋणं पितृकृतं सुतैः ॥

विंशात् संवत्सरात् प्रवासम् आरभ्येति शेषः । कुत्र गत इत्य् अज्ञातविषये सुतैर् देयम्, अन्यत्र प्रस्थापनादिनापि पित्रैव दातुं शक्यत्वात् । रोगार्ते तु स्वरूपसंख्यादिविप्रतिपत्तौ निर्णयात् पश्चाद् एव देयम् । तथा च बृहस्पतिः ।

सांनिध्ये ऽपि पितुः पुत्रै ऋणं देयं विभावितम् ।
जात्यन्धपतितोन्मत्तक्षयश्वित्रादिरोगिणः ॥

अविप्रतिपत्तौ तु, “याचमानाय दातव्यम्” इत्यादिनोक्तयाचनानन्तरकाल एव दातव्यम्, कालान्तरस्मृतेः । क्षश्वित्राईत्यादिशब्देन क्षश्वित्रादिसदृक्षदुश्चिकित्सा एव रोगा गृहन्ते, न पुनर् ज्वरादयः । जात्यन्धादिभिश् च पुत्रैः पितर्य् उपरते प्रोषिते व्याध्यादिना पीडिते ऽसमर्थे ऽपि न देयम्, पितृद्रव्यभागानर्हत्वात्, क्षयादिरोगिणाम् अत्यन्तोपद्रुतत्वात् । तथा च कात्यायनः ।

ऋणं तु दापयेत् पुत्रं यदि स्यान् निरुपद्रवः ।
द्रविणार्हश् च धुर्यश् च नान्यथा दापयेत् सुतम् ॥

द्रविणार्हः पितृद्रव्यभागार्हः । धुर्यः पितुर् धुर्याया वोढा । अर्ह इति वदन् पितृद्रव्याग्रहणे ऽपि अर्हत्वे सति पुत्रो दाप्य इति दर्शयति । दुश्चिकित्सरोगादिनोपद्रुतः पितृद्रव्यानर्हश् च अन्धादिः अधुर्यश् च पितृकृतर्णापाकरणान्धिकारीति “नान्यथा दापयेत् सुतम्” इत्य् अनेनोक्तम् । धुर्यास् चेत्य् एतत् गुणप्रधानभावेन वर्तमाननानापुत्रविषयम्, तथा च नारदः ।

पितर्य् उपरते पुत्रा ऋणं दद्युर् यथांशतः ।
विभक्ता वाविभक्ता वा यो वा तामुद्वहेद् धुरम् ॥

यथांशत इति विषमांशविभागविधायकशास्त्रानुसारेण विभक्तपुत्रविषयम् । समभागाविभक्तास् तु समानम् एव धनं दद्युः । अविभक्तास् तु समप्रधानतया वर्तमानाः संभूयसमुत्थानेन दद्युः । गुणप्रधानतया वर्तमानेष्व् अविभक्त्केषु प्रधानभूत एव सर्वं दद्यात्, गुणभूतस्यानधिकरणात् । यत्र पुनः पित्रा सह विभक्ता अविभक्ताश् च पुत्राः सन्ति, तत्र येषां विभागाद् ऊर्ध्वं पित्रा यद् ऋणं कृतं तत् तैर् न देयम्, अविभक्तेषु सुतेषु सत्सु विभक्तानां विभागतः पितृद्रव्यार्हत्वस्यापगतत्वेन मृते पितरि पुनः पितृद्रव्याग्रहणात् । अत एव कात्यायनः ।

पित्रर्णे विद्यमाने तु न च पुत्रो धनं हरेत् ।
देयं तद् धनिने द्रव्यं मृते गृह्णंस् तु दाप्यते ॥
म्र्ते पितरि तद् द्रव्यं गृह्णन्न् एव पुत्रो दाप्य इत्य् अर्थः । पितृकृतस्वकृतर्णसमवाये तु पितृकृतम् आदौ देयम् “पश्चाद् आत्मीयम् एव च” इति बृहस्पतिस्मरणात्, आत्मीयवद् एव च पित्र्यं देयम्,

ऋणम् आत्मीयवत् पित्र्यं पुत्रैर् देयं विभावितम् ।

इति तेनैवोक्तत्वात् । आत्मीयवत् यथात्मीयं सवृद्धिकं देयं तथेत्य् अर्थः । न वयं विद्म इति यत्र पुत्रैर् निह्नवः क्रियते तत्र प्रमाणेन विभावितं चेद् देयम्, नो चेन् न देयम् इति विभावितपदस्यार्थः । सर्वथा कानिचिद् ऋणानि पित्र्याणि पुत्रैर् न देयानीत्य् आह स एव ।

सौराक्षिकं वृथादानं कामक्रोधप्रतिश्रुतम् ।
प्रातिभाव्यं दण्डशुल्कशेषं पुत्रैर् न दापयेत् ॥

सौरं सुरासंपादननिमित्तम्, आक्षिकं द्यूतपराजयनिमित्तकं चेति यावत् । वृथादानं स्मृत्यन्तरे ऽभिहितम् ।

धूर्ते वन्दिनि मल्ले च कुवैद्ये कितवे शठे ।
चाटुवारणचोरेषु दत्तं भवति निष्फलम् ॥

कामप्रतिश्रुतं क्रोधप्रतिश्रुतं च कात्यायनेनोक्तम् ।

लिखितं मुक्तकं वापि देयं यत् तु प्रतिश्रुतम् ।
परपूर्वस्त्रियै तत् तु विद्यात् कामकृतं नृणाम् ॥
यत्र हिंसां समुत्पाद्य क्रोधाद् द्रव्यं विनाश्य वा ।
उक्तं तुष्टिकरं यत् तु विद्यात् क्रोधकृतं तु तत् ॥ इति ।

मुक्तकं लेखरहितम् (?) । परपूर्वस्त्रियै परभार्यायै । यत्र हिंसाम् इत्यादेर् अयम् अर्थः, परस्य हिंसां धनविनाशं वा क्रोधात् कृत्वा तत्तुष्टये द्रव्यं दास्यामीति प्रतिश्रुतं तद् ऋणं क्रोधजम् इति । प्रातिभाव्यं दर्शनप्रतिभूदेयम् अत्र विवक्षितम् । तथा च मनुः ।

प्रातिभाव्यं वृथादानम् आक्षिकं सौरिकं च यत् ।
दण्डशुल्कावशिष्टं च न पुत्रो दातुम् अर्हति ॥
दर्शनप्रातिभाव्ये तु विधिः स्यात् पूर्वचोदितः ॥ इति ।

पूर्वचोदितविधिः “प्रातिभाव्यं न पुत्रो दातुम् अर्हति” इति विधिः” । पुत्रैस् तु दातव्यं यत् प्रातिभाव्यं येन च प्रकार्रेण दातव्यम्, तत् सर्वं प्रतिभूप्रकरण एव दर्शितम् । दण्डशुल्कशेषम् इति पदद्वयस्यार्थः उशनसा स्पष्टीकृतः ।

दण्डं वा दण्डशेषं वा शुल्कं तच्छेषम् एव वा ।
न दातव्यं तु पुत्रेण यच् च न व्यावहारिकम् ॥

व्यावहारिकम् सौरिकम् इत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायाम् ऋणप्रतिदातृनिर्णये पुत्रविषयाणि

पौत्रविषयान्तरम्

अथ पौत्रविषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र कात्यायनः ।

पित्रा दृष्टम् ऋणं यत् तु क्रमायातं पितामहात् ।
निदोषं नोद्धृतं पुत्रैः देयं पौत्रैस् तु तद् भृगुः ॥

पित्रा दृष्टं स्वपितृकृतत्वेन पित्रा निःसंदिग्धम् अवगतम् । पितामहात् क्रमप्राप्तं पूर्वपूर्वपुरुषाभावादिना प्राप्तम् । निदोषम् अदेयत्वापादकदोषरहितम् । पुत्रैर् नोद्धृतं पुत्रैर् दुश्चिकित्सरोगादिवशाद् अनपाकृतम् । तथा च स एव ।

पैतामहं तु यत् पुत्रैर् न दत्तं रोगिभिः स्थितैः ।
तस्माद् एवंविधं पौरैर् देयं पैतामहं समम् ॥

समं वृद्धिरहितं मूलमात्रम् इति यावत् । पुत्रैर् एकदेशापाकरणे तु अनपाकृतांशान्तरं देयम्,

यद् ऋणं दत्तशेषं वा देयं पैतामहं तु तत् ।

इति तेनैवोक्तत्वात् । अनेवंविधम् अदेयम् इति स एवाह ।

सदोषं व्याहतं पित्रा नैव देयम् ऋणं क्वचित् । इति ।

सदोषं सुरादिनिमित्तत्वेन दोषयुक्तम् । पित्रा व्याहतं निराकृतम्, पित्रा त्व् अदृष्टम् अपह्नुतं वा प्रमाणसाधितं देयम्,

पुत्रपौत्रै ऋणं देयं निह्नवे साक्षिभावितम् ।

इति याज्ञवल्क्येनोक्तेः । अदेयोपलक्षणार्थं सदोपग्रहणं तेनान्यद् अप्य् अदेयं पुत्रेषूक्तं पौत्रेष्व् अपि शुल्काद्यवगन्तव्यम् । प्रातिभाव्यं पुनः सर्वप्रकारम् अपि पौत्रैर् न देयम् इति प्रैभूप्रकरणे दर्शितम् । पौत्रैर् अपि प्राप्तव्यवहारैर् एव देयम्, अप्राप्तव्यवहाराणां पुत्रेषूक्तन्यायेनानधिकारात् । प्रोषितविषये च पुराणां यः प्रतिदानकालः स एव पौराणाम् अपि, तथा च विष्णुः - “धनग्राहिणि प्रेते प्रव्रजिते द्विदशाः समाः । प्रोषिते वा तत्पुत्रपौत्रैर् धनं देयम् । नातः परम् अनीप्सुभिः” इति । प्रव्रजिते संन्यस्त इत्य् अर्थः । द्विदशाः समाः प्रोषिते वा विंशतिवर्षव्यापितया वा प्रवासे धनग्राहिणा कृत इत्य् अर्थः । नातः परम् अनीप्सुभिर् इत्य् अस्य विंशतिवर्षाद् ऊर्ध्वं न विलम्बः कार्यः ऋणप्रतिदानानीप्सुभिर् अपीत्य् अर्थः । अथ वायम् अर्थः - अतः पुत्रपौत्रेभ्यः परम् ऊर्ध्वं ये जातास् तैः प्रपौत्रादिभिर् अनीप्सुभिर् न देयम् इति । एतद् उक्तं भवति - पुत्रपौत्राणाम् एव जात्यन्धादिव्यतिरिक्तानां निरुपाधिकरिक्तार्हत्वम्, नान्येषां प्रपौत्रादीनाम् इति । रिक्थग्रहणाभावे प्रपौत्रादिभिर् अवश्यं पुत्रपौत्रवन् न देयम् इति । अत एव नारदः ।

क्रमाद् अव्याहतं प्राप्तं पुत्रैर् यन् नर्णम् उद्धृतम् ।
दद्युः पैतामहं पौत्रास् तच् चतुर्थान् निवर्तते ॥

कात्यायनो ऽपि ।

पुत्राभावे ऽपि दातव्यम् ऋणं पौत्रेण यत्नतः ।
चतुर्थेन न दातव्यं तस्मात् तद् धि निवर्तते ॥

एवं च प्रपितामहादिकृतर्णापाकरणानधिकारश् चतुर्थादेर् अगृहीतरिक्थस्यैव न पुनर् गृहीतरिक्थस्येत्य् अवगन्तव्यम् । पित्रात्मीयर्णदानात् पूर्वम् एव पैतामहर्णं पौत्रेणात्मपितृपितामहकृतर्णत्रयसमवाये देयम्,

तयोः पैतामहं पूर्वं देयम् एव ऋणं सदा ।

इति बृहस्पतिस्मरणात् । तयोस् ताभ्यां पित्रात्मीयाभ्याम् इत्य् अर्थः । एवं पौत्रेण रिक्थार्हत्वेन ऋणदानं धुर्यपौत्रान्तरस्याभावे धुर्यस्य वा पितृव्यस्य, धुर्यस्य सद्भावे त्व् अधुर्यस्यानधिकारात् । समप्रधानभूतेषु पौत्रादिषु विभक्तेषु यथांशतः ऋणापाकरणम्, विभक्तेषु तु संभूयसमुत्तानेनेत्याद्य् अत्राप्य् अवगन्तव्यम् । पौत्रविषयवचनानां विशेषमात्रप्रदर्शनपराणां प्रदर्शितविशेषाद् अन्यत् पुत्रैः समानम् इत्य् आभिप्रायिकार्थावगमात् । गृहीतरिक्तानां तु पौत्राणाम् अधिकारो वृद्धिसहितर्णापाकरणे “देयं पैतामहं समम्” इत्य् अस्यागृहीतरिक्थविषयत्वात् ।

तयोः पैतामहं पूर्वं देयम् एव ऋणं सदा ।

इत्य् उक्तस् तु क्रमात्मको विशेषः अगृहीतरिक्थानाम् अपि पौत्रानाम्, सदेत्यभिधानात् ॥

इति स्मृतिचन्द्रिकायाम् ऋणप्रैदातृनिर्णये पौत्रविषयाणि

रिक्थग्राहादिः

अथ रिक्थग्राहादि-विषयाणि

तत्र याज्ञवल्क्यः ।

ऋणग्राह ऋणं दाप्यो योषिद्ग्राहस् तथैव च ।
पुत्रो ऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥

अत्र पदार्थस् तावद् उच्यते । विभागक्रमेण यो द्रव्यं गृह्णाति स रिक्थग्राहः । रागादिवशात् परभार्यां यो भार्यात्वेन स्वीकरोति स योषिग्राहः, न पुनः पुत्रोत्पादकतया नियुक्तो जारो वा, तयोर् उपभोगमात्रकारित्वेन ग्राहकत्वाभावात् । यो दायानर्हतया पङ्ग्वादिर् मातापित्राश्रितद्रव्यवान् न भवति सो ऽनन्याश्रितद्रव्यः । ये रिक्थग्राहास् त एव पुनश् च रिक्थिपदेनोक्ताः । अथ पादार्था उच्यन्ते, तत्राद्यन्तपादयोर् अयम् अर्थः - दायानर्हपुत्रसद्भावे ऽप्य् असद्भावे ऽपि रिक्थग्राही ऋणं दद्याद् इति । तथा च विष्णुः - “सपुत्रस्य वापुत्रस्य वा रिक्थग्राही धनं दद्यात्” इति । एतद् उक्तं भवति - यथा पुत्रपौत्रयोर् दायभागार्हयोर् भावे ऋणभाक् न तद्व्यतिरिक्तः, तथात्रेति । यथैव पङ्ग्वादिलक्षणपुत्रसद्भावे चासद्भावे च रिक्थग्राहाभावे सति योषिद्ग्राहो ऋणं दद्याद् इति द्वितीयपादस्यार्थः । तथा च विष्णुर् एव - “विधनस्य स्त्रीग्राही” इति । सपुत्रस्य वाप्य् अपुत्रस्य चेत्य् अनुवर्तते । विधनस्येति वदन् धनहारिरहितस्येति दर्शयति । बृहस्पतिना तु स्पष्टम् उक्तम् ।

स्त्रीहारी च तथैव स्याद् अभावे धनहारिणः । इति ।

तथैव धनहारी ऋणभाक् तथैव धनहार्य् अभावे स्त्रीहारी स्याद् इत्य् अर्थः । धनहारिस्त्रीहारिणोर् अभावे दायानर्हः पुत्रो दद्याद् इति तृतीयपादस्यार्थः । तथा च नारदेन,

धनस्त्रीहारिपुत्राणाम् ऋणभाग् यो धनं हरेत् ।

इत्य् उक्त्वा उक्तम् - “पुत्रो ऽसतोः स्त्रीधनिनोः” इति । ऋणभाग् इत्य् अनुवर्तते । स्त्रीग्राहधनग्राहयोर् अभावे दायानर्हः पुत्र ऋणभाग् इत्य् अर्थः । यत् पुनस् तेनैवानन्तरम् उक्तम् “स्त्रीहारी धनिपुत्रयोः” इति, तद् अयुक्तम् इव प्रतिभाति । धनहारिपुत्राभावे स्त्रीहारी ऋणभाग् इति वचनान्तरेण प्राक्प्रतिपादितार्थविरोधात्, पुत्रस्य स्त्रीहारिराहित्ये ऋणभागित्वम् इति स्वोक्तेन विरोधाच् च । सत्यम् अस्ति विरोधः । तथापि विषयभेदाद् असाव् अपगच्छति । तथा हि “विधनस्य स्त्रीग्राही” इति विष्णुवचनेन पक्षद्वयम् उक्तम् - सपुत्रस्य धनहारिरहितस्य स्त्रीहारी दद्यात्, अपुत्रस्य वा धनहारिरहितस्येति । तत्र द्वितीयः पक्षः “स्त्रीहारी धनिपुत्रयोः” इत्य् अनेनोक्तः । धनहारिपुत्रयोर् असतोः स्त्रीहारी ऋणभाग् इति द्वितीयपक्षसमानत्वात् । वचनान्तरेण प्राक्प्रतिपादितो ऽर्थः प्रथमपक्ष एव । अतो न तेन सह द्वितीयपक्षस्येवास्यापि विरोधः, विकल्पितत्वात् । “पुत्रो ऽसतोः स्त्रीधनिनोः” इत्य् अनेन सपुत्रस्य स्त्रीहारिधनहारिरहितस्य ऋणं दायानर्हः पुत्रो दद्याद् इत्य् उक्तम् । “पुत्रो ऽनन्याश्रितद्रव्यः” इति वचनेन तुल्यार्थत्वात् । एवं च न प्राक्प्रतिपादितेन स्वोक्तेन वा विरोध इति युक्तम् उक्तं नारदेन । यत् तु कात्यायनेनोक्तम्,

व्यसनाभिप्लुते पुत्रे बालो वा यत्र दृश्यते ।
द्रव्यहृद् दाप्यते तत्र तस्याभावे पुरन्ध्रिहृत् ॥

इति, तत् तस्यां दशायां दयार्हपुत्रस्यानधिकारप्रदर्शनार्थम्, न तु दायानर्हपुत्रस्य व्यसनोपप्लुत्याद्यवस्थायाम् एव धनग्राहादिर् उक्तक्र्मेणर्णभाक्, अन्यत्र तु दायानर्हः पुत्र एव प्रथमतः पश्चाद् धनग्राहादिर् इति क्रमान्तरविधानार्थम्, तस्यात्राश्रुतत्वात्, आदौ दायानर्हपुत्रदानासामञ्जस्याच् च । यत् पुनस् तेनैवोक्तम्,

पूर्वं दद्याद् धनग्राहः पुत्रस् तस्माद् अनन्तरम् ।
योषिद्ग्राहः सुताभावे पुत्रो वात्यन्तनिर्धनः ॥

इति तद् योषिद्ग्राहापेक्षयात्यन्तबहुधनो यः पुत्रस् तस्य धनग्राहानन्तर्यार्थम् इति सर्वम् अविरुद्धम् । न च योषिद्ग्राहदानाधिकारशास्त्रान्य् अथानुपपत्त्या योषिद्ग्रहणम् अपि पूर्वपतिकृतर्णदातुः शास्त्रीयम् इति शङ्कनीयम् । यतो रागप्रापयोषिद्ग्रहणस्य संभवान् न शास्त्रस्यानुपपत्तिः । अत एवाह संग्रहकारः ।

यत्र दद्याद् ऋणं वोढुः पुनर्भूस्वैरिणीपतिः ।
न तेन तद् उपादानं शास्त्रेण विहितं भवेत् ॥

तदुपादानं पुनर्भुवां स्वैरिणीनां संग्रहणम् । तास् तु नारदेन निरूपिताः ।

परपूर्वाः स्त्रियस् त्व् अन्याः सप्त प्रोक्ता यथाक्रमम् ।
पुनर्भूस् त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥
कन्यैवाक्षतयोनिर् या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा प्रोक्ता पुनःसंस्कारकर्मणा ॥
देशधर्मान् अवेक्ष्य स्त्री गुरुभिर् या प्रदीयते ।
उत्पन्नसाहसान्यस्मै सा द्वितीया प्रकीर्तिता ॥
असत्सु देवरेषु स्त्री बान्धवैर् या प्रदीयते ।
सवर्णाय सपिण्डाय सा तृतीया प्रकीर्तिता ॥
स्त्री प्रसूताप्रसूता वा पत्याव् एव तु जीवति ।
कामात् समाश्रयेद् अन्यं प्रथमा स्वैरिणी तु सा ॥
कौमारं पतिम् उत्सृज्य या त्व् अन्यं पुरुषं श्रिता ।
पुनः पत्युर् गृहं यायात् सा द्वितीया प्रकीर्तिता ॥
मृते भर्तरि तु प्राप्ता देवरादीन् अपास्य वा ।
उपगच्छेत् परं कामात् सा तृतीया प्रकीर्तिता ॥
प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा च या ।
तवाहम् इत्य् उपगता सा चतुर्थी प्रकीर्तिता ॥ इति ।

उत्पन्नसाहसा क्षतयोनिः प्रौढेति यावत् । अन्यस्मै देवरायेत्य् अर्थः । देवरायेत्य् अभिप्रायेणात्रान्यशब्दप्रयोगात्, स चाभिप्रायः “असत्सु देवरेषु” इति उत्तरत्रोक्त्या गम्यते । समाश्रयेत् सुरतार्थम् इति शेषः । एवं श्रितेत्य् अत्रापि शेषो ऽध्यवसेयः । पुनः पत्युर् गृहं यायात् निवासार्थम् इति शेषः । एवं च यः प्रथमेतरपुनर्भुवम् उपगच्छति स नियुक्तमात्रो न योषिद्ग्राह इति न पुनर्भूभर्तृकृतर्णदानाधिकारीत्य् अवगन्तव्यम् । एवं यः स्वैरिणीं चतुर्थीव्यतिरिक्ताम् उपगच्छति सो ऽपि जारमात्रो न योषिद्ग्राह इति स्वैरिणीपतिकृतर्णानधिकारीत्य् अवगन्तव्यम् । आद्यपुनर्भ्वास् तु यः पाणिं गृह्णाति स योषिद्ग्राही भवत्य् एव भार्यात्वेनैव स्वीकारात् । चतुर्थ्या अपि स्वैरिण्या भार्यात्वेनैव स्वीकार इति स्वीकर्ता योषिद्ग्राह एव । तेन ताभ्यां पुनर्भ्वाः प्रथमायाः पत्या कृतम् ऋणं स्वैरिण्याश् चतुर्थ्याः पत्या कृतं च ऋणं देयम् । तथा च तेनैवोक्तम् ।

अनिमा स्वैरिणीनां य प्रथमा च पुनर्भुवाम् ।
ऋणं तयोः पतिकृतं दद्याद् यस् ते उपाश्नुते ॥

पतित्वेनेति शेxअः । अत एव,

यस् तु दद्याद् ऋणं वोढुः पुनर्भूस्वैरिणीपतिः ।

इति संग्रहकारेणोक्तम् । यत् तु नारदेनोक्तम्,

अधनस्य ह्य् अपुत्रस्य मृतस्योपैति यः स्त्रियम् ।
ऋणं वोढुः स भजते सैवास्य च धनं स्मृतम् ॥

इति, तत्र स्त्रियम् उपैतीत्य् अस्य यथाश्रुतार्थपरत्वे नियुक्तजारयोर् अपि ऋणभागित्वम् इति प्रागुक्तविरोधः । स्त्रीग्राहपरत्वे पौनरुक्त्यम् इति सङ्कटम् इति । उच्यते - धनग्राहपुत्रयोषिद्ग्राहविहीनस्य योषिदुपभोक्तापि ऋणभाग् इति प्रतिपादनार्थम् इदं वचनम् आरब्धम् इति न सङ्कटं किंचित् । यद् अपि तेनैवोक्तम्,

या पुनः सधनैव स्त्री सापत्या वान्यम् आश्रयेत् ।
सो ऽस्या दद्याद् ऋणं भर्तुर् उत्सृजेद् वा तथैव ताम् ।

इति, तस्यायम् अर्थः - या स्त्री सधना सबालतनया च रक्षार्थं मातुलादिकम् आश्रयेत्, स चाश्रयभूतो मातुलादिः भर्तृकृतर्णं दापयेत् । यदि तु सा दातुं नेच्छति तदा सधनां सतनयां त्यजेद् इति । तथा च कात्यायनः ।

बालपुत्राधिकार्था च त्रातारं यान्यम् आश्रिता ।
आश्रितस् तदृणं दद्याद् बालपुत्राविधिः स्मृतः ॥

दद्यात् दापयेद् इत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायाम् ऋणप्रतिदातृनिर्णये रिक्थग्राहादिविषयाणि

कुटुम्बे

अथ कुटुम्ब-विषयाणि

तत्र बृहस्पतिः ।

पितृव्यभ्रातृपुत्रस्त्रीदासशिष्यानुजीविभिः ।
यद् गृहीतं कुटुम्बार्थे तद् गृही दातुम् अर्थति ॥

शिष्यग्रहणेनान्तेवास्य् अपि संगृहीतः, छात्रमात्रस्य विवक्षितत्वात् । तथा च नारदः ।

शिष्यान्तेवासिदासस्त्रीप्रेष्यकृत्यकरैश् च यत् ।
कुटुम्बहेतोर् उत्क्षिप्तं दातव्यं ततुकुटुम्बिना ॥

शिष्यो वेदविद्यार्थी । शिल्पविध्यार्थी त्व् अन्तेवासी । कुटुम्बहेतोः कुटुम्बार्थम् उत्क्षिप्तं असंनिधानादिना स्वानुज्ञां विनापि कृतम् ऋणम् । कुटुम्बिनैव ऋणकर्तुः प्रवासव्यसनाद्यभावे ऽपि देयम्, कुटुम्बभरणस्य स्वकार्यत्वाद् इत्य् अर्थः । कात्यायनो ऽप्य् अमुम् एवार्थम् आह ।

प्रोषितस्यामतेनापि कुटुम्बार्थम् ऋणं कृतम् ।
दासस्त्रीमातृशिष्यैर् वा दद्यात् पुत्रेण वा भृगुः ॥

स्त्रिया मात्रा वा कृतम् कुटुम्बार्थम् अपि किंचिद् ऋणं देयम् इत्य् आह स एव ।

देयं भार्याकृतम् ऋणं भर्त्रा पुत्रेण मातृकम् ।
भर्तुर् अर्थे कृतं यत् स्याद् अभिधाय गते दिशम् ॥

नारदो ऽपि ।

पुत्रिणी तु समुत्सृज्य पुत्रं स्त्री यान्यम् आश्रयेत् ।
तस्या ऋणं हरेत् सर्वं निःस्वायाः पुत्र एव तु ॥

अन्यं मातुलादिकम् । अनुज्ञया तु यस्य कस्यचिद् अर्थे कृतम् अपि सदा कुटुम्बिनैव देयम्, “प्राक्प्रतिपन्नं देयं यस्य कस्यचित् कुटुम्बार्थं वा” इति विष्णुस्मरणात् । प्रतिपन्नपदस्यार्थः कात्यायनेन प्रपञ्चितः ।

देयं पुत्रकृतं तत् स्याद् यच् च स्याद् अनुवर्णितम् ।
कृतासंवादितं यच् च श्रुत्वा चैवानुचोदितम् ॥

कृतम् अकृछ्र इति शेषः । कृछ्रकृतं त्व् अप्रतिपन्नम् अपि देयम् । तथा च नारदः ।

पितुर् एव नियोगाद् वा कुटुम्बभरणाय वा ।
कृतं वा यद् ऋणं कृछ्रे दद्यात् पुत्रस्य तत्पिता ॥

अत्र च पूर्वत्र च पुत्रग्रहणं कुटुम्बोपलक्षणार्थम्, पितृग्रहणं चेह गृहप्रभोर् उपलक्षणार्थम् । तथा च कात्यायनः ।

कुटुम्बार्थम् अशक्ते तु गृहीतं व्याधिते ऽथ वा ।
उपप्लवनिमित्तं च विद्याद् आपत्कृतं च तत् ॥
कन्यावैवाहिकं चैव प्रेतकार्ये च यत्कृतम् ।
एतत् सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ॥ इति ।

अशक्ते कुटुम्बभरणासमर्थे कुटुम्बिनीत्य् अर्थः । कन्यावैवाहिकं कन्याविवाहनिमित्तकम् । यत्कृतं येन कृतम् । प्रभोः प्रभुणा कुटुम्बिनेति यावत् । यथा पुत्रपितृशब्दयोर् उपलक्षणार्थत्वं नारदीये, तथा,

ऋणं पुत्रकृतं पित्रा शोध्यं यद् अनुमोदितम् ।
सुतस्नेहेन वा दद्यात् नान्यथा दातुम् अर्हति ॥

इति बार्हस्पत्यवचने ऽप्य् अवगन्तव्यम् । शोध्यम् अपाकरणीयम् । अनुमोदितग्रहणं प्रतिशुतस्याप्य् उपलक्षणार्थम्,

देयं प्रतिश्रुतं यत् स्यात् यच् च स्याद् अनुमोदितम् ।

इति कात्यायनस्मरणात् । स्नेहाद् दानं प्राङ्निरूपितनानाविधदेयर्णव्यतिरिक्तर्णविषयम् । भार्याकृतर्णविषये ऽपि समानम्, सुतग्रहणस्य स्नेहमात्रोदाहरणतया कृतत्वात् । एवं च यद् उक्तं कात्यायेनेन,

ऋणं पुत्रकृतं पित्रा न देयम् इति धर्मतः ।

इति, तद् उक्तनानाविधदेयर्णेतरर्णविषयम् इत्य् अवगन्तव्यम् । धर्मत इति वदन् स्नेहतो देयम् इति दर्शयति । यद् अपि नारदेनोक्तम्,

न भार्यया कृतम् ऋणं कथंचित् पत्युर् आवहेत् ।

इति, तद् अपि निरूपितदेयर्णव्यतिरिक्तविषयम् । एवंभूतविxअयत्वप्रदर्शनार्थम् एवानन्तरम् उक्तं तेनैव ।

आपत्कृताद् ऋते पुंसा कुटुम्बर्थो हि दुस्तरः । इति ।

भार्ययाप्य् आपदि कृतं कुटुम्बार्थं च कृतं पत्युर् अपाकरणीयं भवेद् इत्य् अर्थः । पूर्वोक्तो यो निषेधः स रजकादिस्त्रीभ्यो ऽन्यत्रेत्य् आह स एव ।

अन्यत्र रजकव्याधगोपशौण्डिकयोषिताम् ।
तेषां तत्प्रत्यया वृत्तिः कुटुम्बं च तदाश्रयम् ॥

तेषां रजकादीनाम् । तत्प्रत्यया वृत्तिः योषिदधीनं वर्तनम् इत्य् अर्थः । तेनानापदि कुटुम्बार्थं कृतम् अपि पतिभिर् देयम् इत्य् अभिप्रायः । रजकादिग्रहणं योषिदधीनवृत्तीनां तैलकशैलूषादीनाम् उपलक्षणार्थम् । याज्ञवल्क्यो ऽपि हेतुकथनेनोपलक्षणार्थत्वं दर्शयन् नारदाभिप्रायविषयत्वेनोक्तम् एवार्थम् आह ।

गोपशौण्डिकशैलूषरजकव्याधयोषिताम् ।
ऋणं दद्यात् पतिस् तासां यस्माद् वृत्तिस् तदाश्रया ॥

शौलूषो नटः । एवं च यद् उक्तं विष्णुना “न स्त्रीकृतं पतिपुत्रौ” इति, तद् उक्तदेयभूतव्यतिरिक्तविषयम् इति मन्तव्यम् । मनुस् तु कुटुम्बार्थे भृत्यादिकृतक्रियादिर् अपि कुटुम्बिनाङ्गीकरणीय इत्य् आह ।

कुटुम्बार्थे त्व् अधीनो ऽपि व्यवहारं यम् आचरेत् ।
स्वदेशे वा विदेशे वा तन् न्यायान् न विचालयेत् ॥

किं तु स्वीकुर्याद् इति शेषः ॥

**इति स्मृतिचन्द्रिकायाम् ऋणप्रतिदातृनिर्णये **

कुटुम्बजनाः

अथ कुटुम्बजनविषयाणि

तत्र याज्ञवल्क्यः ।

अविभक्तैः कुटुम्बार्थे यद् ऋणं तु कृतं भवेत् ।
दद्युस् तद् रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥

अविभक्तधनैर् भ्रात्रादिभिः समप्रधानैः कुटुम्बव्ययाय यद् ऋणं कृतं तत् तैः सदा न देयम्, किं तु तद्दानाधिकारिणि कुटुम्बिनि प्रेते प्रोषिते वा दातव्यम् इत्य् अर्थः । तत्रापि केषांचिद् अभावे यस् तिष्ठति स दद्यात् “अविभक्तैः कृतम् ऋणं यस् तिष्ठेत् स दद्यात्” इति विष्णुस्मरणात् । अविभक्तैर् इति बहुवचनं पूर्वत्रात्र चाविवक्षितम् । तथा च नारदः ।

पितृव्येणाविभक्तेन भ्रात्रा वा यद् ऋणं कृतम् ।
मात्रा वा यत् कुऋउम्बार्थे दद्युस् तत् सर्वरिक्थिनः ॥

ऋणस्य ग्रहीता पितृव्यादिर् यदि नष्टः प्रोषितो वा मृतो वा स्यात् तदा रिक्थिभिर् विभक्तैस् तत्कुटुम्बव्ययाय कृतम् ऋणं दातव्यं सवतः किम् उताविभक्तैर् इत्य् अर्थः । एवं वृत्तिकारेण व्याख्यातम् । अस्मिन् व्याख्याने वचनानन्तरे वा वृथैवाविभक्तग्रहणं स्याद् इति मत्वा भाष्यकारेण प्रविभक्तधनैः पितृव्यादिभिः स्वतः स्वधनाद् दातव्यम् इत्य् अर्थ इति वचनार्थम् उक्त्वा मध्यगाद् एव धनाद् अविभक्तैर् दत्वावशिष्टविभागः कार्यो नादत्वेति वचनान्तरार्थो दर्शितः । यदा प्रविभक्तधना ऋणं प्रयच्छन्ति तदा दायानुरूपम् अंशं दद्युः, “विभक्ताश् च दायानुरूपम् अंशम्” इति विष्णुस्मरणात् ॥

इति स्मृतिचन्द्रिकायाम् ऋणप्रतिदातृकुटुम्बजनविषयाणि

पर-तन्त्र-स्त्रीविषयाः

अथ पर-तन्त्र-स्त्रीविषयाणि

तत्र कात्यायनः ।

भर्त्रा पुत्रेण वा सार्धं केवलं वात्मना कृतम् ।
ऋणम् एवंविधं देयं नान्यथा तत्कृतं स्त्रिया ॥

अन्यथा तत्कृतं केवलं भर्त्रा पुत्रेण वा कृतं स्त्रिया तयोर् अभावे ऽपि न देयम्, किं तु भर्त्रा पुत्रेण वा सार्धं संभूय गृहीतम् ऋणं तयोर् अभावे देयम् । स्वयम् एव गृहीतं तु तयोर् अभावे ऽपीत्य् अर्थः । एवंविधम् इति वदन् अन्यद् अप्य् अस्ति स्त्रिया देयम् इति दर्शयति । किं तद् इत्य् अपेक्षिते याज्ञवल्क्यः - “प्रतिपन्नं स्त्रिया देयम्” इति । प्रतिपन्नं पतिकृतं पुत्रकृतं वा ऋणम् अहं दास्यामीत्य् अभ्युपेतम् इत्य् अर्थः,

न स्त्री पतिकृतं दद्यात् ऋणं पुत्रकृतं तथा ।
अभ्युपेतद् ऋते ॥॥॥॥॥॥॥॥॥॥॥।॥

इति नारदस्मरणात् । एवं च पतिपुत्रेतरकृतं प्रतिपन्नम् अपि स्त्रिया न देयम् इति परिसंख्यार्थतया याज्ञवल्क्यवचनम् इति मन्तव्यम्, स्पष्टत्वेन विध्यार्थत्वासंभवात् (?) । अप्रतिपन्नम् अपि पतिकृतं क्वचिद् विषये स्त्रिया देयम् इत्य् आह कात्यायनः ।

मर्तुकामेन या भर्त्रा उक्ता देयम् ऋणं त्वया ।
अप्रपन्नापि सा दाप्या धनं यद्य् आश्रितं स्त्रिया ॥

अत्रार्थाद् अनाश्रितभर्तृधना स्त्री अप्रपन्ना चेन् न देयम् इति गम्यते । यत् तु नारदेनोक्तम्,

दद्याच् चापुत्रविधवा नियुक्ता वा मुमूर्षुणा ।
यो वा तद्रिक्थम् आदद्याद् यतो रिक्थम् ऋणं ततः ॥

इति, तत् आश्रितभर्तृधनविधवाभिप्रायेणोक्तम् इति न पूर्वोक्तेन विरुद्धम् । यत् तु विष्णुनोक्तम् - “न स्त्रीपतिपुत्रकृतम्” इति, तत् सामान्येन प्रतिषेधबोधकं विशेषेण विधायकप्रागुक्तवचनविषयव्यतिरिक्तविषये ऽवतिष्ठत इत्य् अविरुद्धम् । देयादेयनिर्णयाः पृथक् पृथक् कर्तुम् असुकरा इति प्रतिदातृनिर्णयान्तःपातितयास्माभिः कृताः प्रत्येतव्याः ॥

**इति स्मृतिचन्द्रिकायां प्रतिकातृनिर्णये परतन्त्रस्त्रीविषयाणि **

समाप्तं च प्रतिदातृनिर्णयप्रकरणम्

अतीतोत्तमर्ण-ऋणापाकरण

अथातीतोत्तमर्ण-ऋणापाकरणविषयाणि

तत्र नारदः ।

ब्राह्मणस्य तु यद् देयं सान्वयस्य न चास्ति सः ।
निवपेत् तत्सकुल्येषु तदभावे ऽस्य बन्धुषु ॥

ब्राह्मणग्रहणम् उत्तमर्णोपलक्षणार्थम् । एवं चायम् अर्थः - उत्तमर्णस्य् देयं यद् ऋणं तत् तदभावे तत्सन्तानस्य तन्यादेस् तद्द्रव्यग्राहिणः ऋणप्रतिदात्रा देयम् । ससन्तानस्योत्तमर्णस्याभावे तत्सकुल्येष्व् अन्तरङ्गानतिक्रमेण देयम् । सकुल्यानाम् अप्य् अभावे मातुलादिषु बन्धुष्व् अन्तरङ्गानतिक्रमेण देयम् इति । यदा तु पूर्वोक्तानाम् अभावः तदाप्य् आह स एव ।

यदा तु न सकुल्याः स्युर् न च संबन्धिबान्धवाः ।
तदा दद्याद् द्विजेभ्यस् तु तेष्व् असत्स्व् अप्सु निक्षिपेत् ॥

प्रजापतिर् अपि ।

बन्ध्वभावे तु विप्रेभ्यो देयं क्षेप्यं जले ऽपि वा ।
जले क्षिप्तं तथाग्नौ च धनं स्यात् पारलौकिकम् ॥

आनृण्यापादनेन परलोकहितं जलादौ प्रक्षिप्तं धनं भवतीत्य् उत्तरार्धस्यार्थः । अग्नौ चेत्य् अत्र हुतम् इति शेषो ऽध्याहार्यः, न पुनः क्षिप्तम् इत्य् अस्यानुषङ्गः कार्यः । यद् आह गोभिलः - “ऋणेष्व् अज्ञायमानेषु गोलकामध्यमपर्णेन जुहुयात् यत् कुसीदम्” इति । मान्त्रवर्णिकी च अग्निर् अत्र देवता । आनृण्यार्थं चायं होमः । अनृणो भवामीति मन्त्रलिङ्गात् । गोलका पलाशः । तथा च संग्रहकारः ।

द्रव्यं यत् त्व् अधमर्णस्थं क्वचिद् ब्राह्मणगं भवेत् ।
सुतादिब्राह्मणान्तानां रिक्थभाजाम् असंभवे ॥
पलाशस्य पलाशेन जुहुयान् मध्यमेन् तु ।
यत् कुसीदम् इति प्रास्येद् अथ वाप्स्व् एव तद् धनम् ॥ इति ।

क्वचित् उत्तमर्णादिबन्ध्वन्तानाम् अभावविषय इत्य् अर्थः । यत् कुसीदम् इति पूर्वेणैव संबध्यते, मूलस्मृतौ जलपक्षेपणमन्त्रास्मरणात् । निक्षिप्तादिधने ऽप्य् एष एव विधिर् निक्षेपादिस्वामिन्य् अतीते द्रष्टव्यः, समानकारणत्वाद् इत्य् उक्तं देवस्वामिना ॥

इति स्मृतिचन्द्रिकायाम् अतीतोत्तमर्णऋणापाकरणविषयाणि

इति सकलविद्याविशारद-श्रीकेशवादित्यभट्टोपाध्याय-सूनु-याज्ञिकदेवणभत्तोपाध्यायसोमयाजिविरचितायां स्मृतिचन्द्रिकायाम् ऋणादानाख्यस्य पदस्य विधिवितानः समाप्तः