४७ बालादिधनविषयः

अथ बालादिधनविषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र मनुः ।

बालदायदकं रिक्थं तावद् राजानुपालयेत् ।
यावत् स्यात् स समावृत्तो यावद् वातीतशैशवः ॥

बालदायादकं बालस्वामिकं रिक्थं द्रव्यम् । अविद्यमानाप्तपुरुषविषयम् एतत् । बालग्रहणं स्वधनरक्षणासमर्थोपलक्षणार्थम् इति स्पष्टयितुम् आह स एव ।

वशापुत्रासु चैवं स्याद् रक्षणं निष्कुलासु च ।
पतिव्रतासु च स्त्रीषु विधवास्व् आतुरासु च ॥

वशा वन्ध्या । अपुत्रा अविद्यमानपुत्रा । निष्कुला स्वपक्षहीना । वशाप्रभृतीनां धनं ये ऽपहरन्ति तेषां दण्डम् आह स एव ।

जीवन्तीनां तु तासां ये तद् धरेयुः स्वबान्धवाः ।
ताञ् छिष्याच् चोरदण्डेन धार्मिकः पृथिवीपतिः ॥

रक्षणसमर्थस्यापि धनं तत्स्थानापरिज्ञानादिना स्वाम्य् अनुपात्तम् अन्येन तूपादाय राज्ञे विज्ञापितं जनसमूहेषु विख्याप्य राज्ञा रक्ष्यम् इत्य् आह गौतमः - “प्रणष्टम् अस्वामिकम् अधिगम्य राज्ञे प्रब्रूयुः । विख्याप्य संवत्सरं राज्ञा रक्ष्यम्” इति । यत् तूक्तं मनुना,

प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।

इति, तद् अत्यन्तदूरदेशे स्वामिस्थितिसंभावनाविषयम् । निधापनं च स्वधनामिश्रभावेन राज्ञा कार्यम्, तथा च स एव ।

प्रणष्टाधिगतं द्रव्यं तिष्ठेद् युक्तैर् अधिष्ठितम् ।
ये तत्र चोरो गृह्णीयुः तान् राजेभेन घातयेत् ॥

स्वामिनं प्रति प्रणष्टम् अन्येन च लब्धं प्रणष्टाधिगतम् । इभेन हस्तिना । प्रणष्टाधिगतस्य द्रव्यस्य प्रत्यर्पणम् आह याज्ञवल्क्यः ।

प्रणष्टाधिगतं देयं नृपेण धनिने धनम् । इति

धनी च तद् धनं स्वामित्वम् उद्भाव्य गृह्णीयात् । तथा च मनुः ।

ममेदम् इति यो ब्रूयात् सो ऽनुयोज्यो यथाविधि ।
संवाद्य रूपसंख्यादीन् स्वामी तद् द्रव्यम् अर्हति ॥

यो मेमेदम् इति ब्रूयात् स तस्य स्वामित्वज्ञानाय राजपुरुषैः कस्मिन् देशे कस्मिन् काले कीदृग्वर्णं कीदृशसंस्थनं किंसंख्याकं किंपरिमाणकं प्रणष्टम् इति पृष्टो यादृशं प्रणष्टस्य संस्थानादिकं तादृशम् एव वदन् तद् द्रव्यं ग्रहीतुम् अर्हतीत्य् अर्थः । प्रत्युत परद्रव्यापहारे प्रवृत्तत्वा दण्डम् अर्हतीत्य् आह स एव ।

अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ।
वर्णं रूपं प्रमाणं च तत्समं दण्डम् अर्हति ॥

तत्त्वतः अवेदयानो विसंवादं कुर्वाणः तत्समं प्रणष्टाधिगतसमम् । प्रणष्टाधिगतं संवत्सराद् अर्वाग् एव ग्रहीतुम् अर्हतीत्य् आह याज्ञवल्क्यः ।

शौल्किकैः स्थानपालैर् वा नष्टापहृतम् आहृतम् ।
अर्वाक् संवत्सरात् स्वामी हरेत परतो नृपः ॥

अत्यन्तदूरदेशस्थस्वामिविषये तु मनुर् आह ।

अर्वाक् त्र्यब्दाद् धरेत् स्वामी परतो नृपतिर् हरेत् । इति ।
ननु नृपतिर् हरेद् इत्य् एतत् परद्रव्यापहारप्रतिषेधशास्त्रविरुद्धम् ।
सत्यम्, अत एवास्य पृथङ्निहितस्थानात् नृपतिः स्वधनस्थानम् आहरेद् इत्य् अर्थो ऽवगन्तव्यः । एवं चावधिम् अतिक्रम्यागतायापि स्वामिने रूपसंख्यादिभिर् भावितं प्रणष्टाधिगतं देयम् एव । किं तु ततः किंचिद् द्रव्यम् अवध्यतिक्रमापराधात् नृपो गृह्णीयात् । तथा च स एव ।
आददीताथ षड्भागं प्रणष्टाधिगतात् नृपः ।
दशमं द्वादशं वापि सतां धर्मम् अनुस्मरन् ॥

अथेत्य् अतिक्रान्तावधेः स्वामिनः समागमनानन्तर्यम् उच्यते । समागमस्यात्यन्तविलम्बे षष्ठो भागः । अतिविलम्बे तु दशमो भागः विलम्बाभावे तु द्वादशो भाग इति व्यवस्था मन्तव्या । यत् तु गौतमेनोक्तम् - “ऊर्ध्वम् अधिगन्तुश् चतुर्थः राज्ञः शेषः” इति, तद् अतिक्रान्तावधिकस्य स्वामिनो नाशनिस्चयविषये द्रष्टव्यम् । स्वामिनि ध्रियमाणे त्व् अधिगन्तुः नृपभागचतुर्हांशो भवतीत्य् अस्माद् एव वचनात् गम्यते । यत् तु याज्ञवल्क्येनोक्तम् ।

पणान् एकशफे दद्यात् चतुरः पञ्च मानुषे ।
महिषे ऽष्ट गवां द्वौ द्वौ पादं पादम् अजाविके ॥ इति ।

तद् एकशफादौ विशेषशास्त्रं मनूक्तषड्भागाद्यादानविधेर् बाधकम् इति कैश्चिद् व्याख्यातृभिर् उक्तम् । अन्यैस् त्व् एकशफादाव् अधिगन्त्रे देयं निरूपयितुं तद् इत्य् उक्तम् । प्रणष्टाधिगतनिधिहरणम् अधिकृत्य विशेषम् आह मनुः ।

ममायम् इति यो ब्रूयान् निधिं सत्येन मानवः ।
तस्याददीत षड्भागं राजा द्वादशम् एव चा ॥
अनृतं तु वदन् दण्ड्यः स वित्तस्यांशम् अष्टमम् ॥ इति ।

ममायम्, यतो मया मत्पुरुषैर् वा निहित इति सत्येन रूपसङ्ख्यासंवादादिप्रमाणेन ज्ञापयेद् इत्य् अर्थः । स्वामिनो निर्गुणत्वे षड्भागम् आददीत । सगुणत्वे तु द्वादशभागम् इति व्यवस्थात्र मन्तव्या । तथा निधिस्वामिनो विद्वद्ब्राह्मणत्वे तु तेन राज्ञे न किंचिद् अपि दातव्यम् इत्य् आह स एव ।

विद्वांस् तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् ।
अशेषतो ऽप्य् आददीत सर्वस्याधिपतिर् हि सः ॥

पूर्वोपनिहितं स्वपित्रादिभिर् उपनिहितम् । विद्वद्ग्रहणं षट्कर्मिनो ऽप्य् उपलक्षणार्थम् । अत एव वसिष्ठः - “ब्राह्मणश् चेद् अधिगच्छेत् षट्कर्मसु वर्तमानः सर्वं हरेत्” इति । षट्कर्मसु यजनादिष्व् इत्य् अर्थः । यत् पुनर् मनुनोक्तम्,

निधीनां हि पुराणानां धातूनाम् एव च क्षितौ ।
अर्धभाग् रक्षणाद् राजा भूमेर् अधिपतिर् हि सः ॥

इति, तद् उक्तलक्षणब्राह्मणाधिगतास्मर्यमाणस्वामिकनिधिविषयम्, पुराणानाम् इत्य् अभिधानात् । यत् तु वसिष्ठेनोक्तम् - “अप्रज्ञायमानं वित्तं यो ऽधिगच्छेद् राजा तद् धरेद् अधिगन्त्रे षष्ठम् अंशं प्रदाय” इति, तद् उक्तलक्षणरहिताधिगन्तृविषयम् । अत एव याज्ञवल्क्यः ।

इतरेण निधौ लब्धे राजा षष्ठांशम् आप्नुयात् ।
अनिवेदितविज्ञातो दाप्यस् तद् दण्डम् एव च ॥

विद्याषट्कर्मसंपन्नब्राह्मणाद् इतरस्मै निध्यधिगन्त्रे दातुं राजा षष्ठांशम् अधिगतनिधिसकाशाद् आहरेद् इति पूर्वार्धस्यार्थः । अधिगतनिधिवञ्चकात् तं निधिं सर्वं शक्त्यपेक्षया दण्डं च राजा गृह्णीयाद् इत्य् उत्तराधस्यार्थः । राज्ञ एवाधिगन्तृत्वे मनुर् आह ।

यत्र पश्येन् निधिं राजा पुराणं निहितं क्षितौ ।
तस्माद् द्विजेभ्यो दत्त्वार्धं शेषं कोशे निवेशयेत् ॥

स्वकीयनिधेर् अधिगमे तु सर्वं कोशे निवेशयेत्, “निध्यधिगमो राजधनम्” इति गौतमस्मरणात् । चोरहृतं धनं प्रति तेनोक्तम् - “चोरहृतम् अपजित्य यथास्थानं गमयेत्, कोशाद् वा दद्यात्” इति । प्रथमपक्षकरणासमर्थविषये द्वितीयः पक्षः । यथाह व्यासः ।

प्रत्याहर्तुम् अशक्तस् तु धनं चोरैर् हृतं यदि ।
स्वकोशात् तद् धि देयं स्याद् अशक्तेन महीक्षिता ॥ इति ।

इति स्मृतिचन्द्रिकायां बालादिधनविषयाणि

**इति सकलविद्याविशारद - श्रीकेशवादित्यबट्टोपध्यायसूनु - **

याज्ञिक - देवणभट्टोपाध्याय -सोमयजिविचरितायां

**स्मृतिचन्द्रिकायां व्यवहारकाण्डे **

प्रथमः परिच्छेदः