४६ कृतनिवर्तनम्

अथ कृतनिवर्तनम्

तत्र मनुः ।

योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यत्र वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥

योगः परकीयधन्स्यात्मीयत्वापादकहेत्वभावे ऽपि याचितकादिना हस्तगतत्वादिसंबन्धः । अधमनं बन्धकरणम्, योगेनाधमनम् । एवं योगविक्रीतादाव् अपि विग्रहः । यमो ऽपि ।

बलाद् दत्तं बलाद् भुक्तं भलाद् यच् चापि लेखितम् ।
सर्वान् बलकृतान् अर्थान् निवर्त्यान् आह वै मनुः ॥

कात्यायनो ऽपि ।

उन्मत्तेनैव मत्तेन तथा भावान्तरेण वा ।
यद् दत्तं यत् कृतं वाथ प्रमाणं नैव तद् भवेत् ॥

नारदो ऽपि ।

यद् बालः कुरुते कार्यम् अस्वतन्त्रस् तथैव च ।
अकृतं तद् इति प्राहुः शास्त्रे शास्त्रविदो जनाः ॥

बालास्वतन्त्राव् अपि तेन निरूपितौ ।

गर्भस्हैः सदृशो ज्ञेय आष्टमाद् वत्सराच् छिशुः ।
बाल आषोषशाद् वर्षात् पौगण्डस् चापि शब्द्यते ॥
परतो व्यवहारज्ञः स्वतत्रः पितरं विना ॥ इति ।

अनेन पितृमान् अस्वतन्त्र इत्य् अर्थाद् उक्तम् । उक्तं च शङ्खलिखिताभ्याम् - " अस्वतन्त्राः पितृमन्तः" इति । पितृग्रहणं मतुर् अपि प्रदर्शनार्थम् । अत एव नारदः ।

जीवतोर् न स्वतन्त्रः स्याज् जरयापि समन्वितः । इति ।

जीवतोर् मातापितोर् इति शेषः,

तयोर् अपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ।
अभावे बीजिनो माता तदभावे तु पूवजः ॥

इति तेनैवानन्तरम् उक्तत्वात् । अनेन ज्येष्ठवान् अप्य् अस्वतन्त्र इत्य् उक्तम् । न केवलं पितृमातृज्येष्ठवान् एवास्वतन्त्र इत्य् आह स एव ।

अस्वतन्त्राः स्त्रियः पुत्रा दासा ये च परिग्रहाः ॥ इति ।

परिग्रहा उपजीविनः । कार्यविशेषेषु स्त्रीणाम् अस्वातन्त्र्यम् इत्य् आह हारीतः ।

दानार्थे वा धनार्थे वा धर्मार्थे वा विसेषतः ।
आदाने वा विसर्गे वा न स्त्री स्वातन्त्र्यम् अर्हति ॥

अन्यान् अप्य् अस्वतन्त्रान् आह नारदः ।

अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः ।
अस्वतन्त्रः स्मृतः शिष्यः आचार्ये तु स्वतन्त्रता ॥

अत्र स्वतन्त्रनिरूपणं चास्वतन्त्रकृतं कार्यं तेनैव निवर्तनीयम् इति दर्शयितुम् । अत एव कात्यायनः ।

अस्वतन्त्रकृतं कार्यं तस्य स्वामी निवर्तयेत् ।
न भर्त्रा विवदेतान्यो भीतोन्मत्तकृताद् ऋते ॥

भीतोन्मत्तादिकृतनिवर्तने राज्ञ एवाधिकारात् भीतोन्मत्तादिस्वामिना कृतनिवर्तकेन महान् यस्य विवादो नात्यन्तानुचित इत्य् अभिप्रायः । अस्वतन्त्रकृतनिवर्तनस्य क्वचिद् अपवादम् आह नारदः ।

एतान्य् एव प्रमाणानि भर्ता यद्य् अनुमन्यते ।
पुत्रः पत्युर् अभावे वा जाया वा पतिपुत्रयोः ॥
तथा दासकृतं कार्यम् अकृतं परिचक्षते ।
अन्यत्र स्वामिसंदेशान् न दासः प्रभुर् आत्मनः ॥
पुत्रेण च कृतं कार्यं यत् स्याद् अच्छन्दतः पितुः ।
तद् अप्य् अकृतम् एवाहुः दासः पुत्रश् च तौ समौ ॥ इति ।

अस्वतन्त्रकृतनिवर्तनं स्वतन्तानुमत्यभावविषये कार्यम् इत्य् अर्थः । कात्यायनो ऽपि ।

न क्षेत्रगृहदासानां दानाधमनविक्रयाः ।
अस्वतन्त्रकृताः सिद्धिं प्राप्नुयुर् नानुवर्णिताः ॥

अनुवर्णितास् तु सिद्धिं प्राप्नुवन्तीत्य् आह स एव ।

प्रमाणं सर्व एवैते पण्यानां क्रयविकर्ये ।
यदि संव्यवहारं ते कुर्वन्तो ऽप्य् अनुमोदिताः ॥

एवं क्षेत्रादीनां क्रयादिकरणे स्वतन्त्रेण नियुक्ताः भ्रात्रादयो ऽस्वतन्त्राः प्रमाणं स्युर् इत्य् आह स एव ।

क्षेत्रादीनां तथैव स्युः भ्राता भ्रातृसुतः सुतः ।
निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छता ॥

निसृष्टाः नियुक्ता इत्य् अर्थः । तथा च बृहस्पतिः ।

यः स्वामिना नियुक्तस् तु धनायव्ययपालने ।
कुसीदकृषिवाणिज्ये निसृष्टार्थस् तु स स्मृतः ॥
प्रमाणं तत्कृतं सर्वं लाभालाभव्ययोदयम् ।
स्वदेशे वा विदेशे वा स्वामी तं न विसंवदेत् ॥ इति ।

कात्यायनो ऽपि निसृष्टार्थकृतं कार्यं न स्वामी परिवर्तयितुम् अर्हतीत्य् आह ।

निसृष्टार्थस् तु यो यस्मिन् तस्मिन्न् अर्थे प्रभुस् तु सः ।
तद् भर्ता तत्कृतं कार्यं नान्यथा कर्तुम् अर्हति ॥

एवम् अनुमतिनियुक्त्योर् अभावे ऽपि कुटुम्बभरणार्थम् अस्वतन्तकृतं स्वतन्त्रो नान्यथाकर्तुम् अर्हतीत्य् आह मनुः ।

कुटुम्बार्थे त्व् अधीनो ऽपि व्यवहारं समाचरेत् ।
स्वदेसे वा विदेशे वा तन्न्यायान् न विचालयेत् ॥

एवम् आपत्प्रतीकारार्थे ऽपि द्रष्टव्यम् । तथा च नारदः ।

स्त्रीकृतान्य् अप्रमाणानि कार्याण्य् आहुर् अनापदि ।

स्त्रीग्रहणम् अस्वतन्त्रोपलक्षणार्थम् । एवं चापद्यस्वतन्त्रकृतान्य् अपि प्रमाणानीत्य् आर्थिको ऽर्थः प्रत्येतव्यः । अत्रापवादप्रदर्शनार्थम् आह स एव ।

विशेषतो गृहक्षेत्रदानाधमनविक्रयाः । इति ।

गृहक्षेत्रयोर् दानाधमनविक्रयास् त्व् आपद्य् अप्य् अस्वतन्त्रकृता न सिध्यन्तीत्य् अर्थः । एवं तद्भाष्ये व्याख्यातम् । तथा स्वतन्त्रेणाप्य् अस्वतन्त्रकल्पेन क्र्तं कार्यं न सिध्यतीत्य् आह नारदः ।

स्वतन्त्रो ऽपि हि यत् कार्यम् कुर्यद् अप्रक्र्तिं गतः ।
तद् अप्य् अक्र्तम् एवाहुर् स्वतन्त्रत्वहेतुतः ॥

स्वतन्त्राश् च तेनैव निरूइताः ।

त्रयः स्वतन्त्रा लोके ऽस्मिन् राजाचार्यस् तथैव च ।
प्रतिप्रति च सर्वेषां वर्णानां स्वगृहे गृही ॥
स्वातन्त्र्यं तु स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम् ॥ इति ।

गृहीति वदन् गृहिण्याः स्वतन्त्रता नास्तीति दर्शयति । तेन यद्य् अपि मातृमतो ऽस्वतन्त्रतोक्ता, तथापि मातुः स्वतन्त्रतावगन्तव्या । अत एवाभर्तृकया कृतस्य कार्यस्य पुत्राद्यनुमत्यैव सिद्धिर् उक्ता । “प्रकृतिं गतः” इत्य् अस्याप्य् अर्थस् तेनैव दर्शितः ।

कामक्रोधाभिभूतार्ता भयव्यसनपीडिताः ।
रागद्वेषपरीताश् च ज्ञेयास् त्व् अप्रकृतिं गताः ॥

एवं च स्वतन्त्रप्रकृतिस्थकृतं कार्यं सिध्यति, न त्व् अप्रकृतिस्थस्वतन्त्रक्र्तम् इत्य् आह स एव ।

कुले ज्येष्ठस् तथा श्रेष्ठः प्रकृतिस्थश् च यो भवेत् ।
तत् कृतं स्यात् कृतं कार्यं नास्वतन्त्रकृतं क्वचित् ॥

स्वतन्त्रप्रकृतिस्थकृतम् अपि पुत्रविक्रयादि कार्यंन सिध्यति, तत्र तस्यास्वतन्त्रत्वाद् इत्य् आह कात्यायनः ।

सुतस्य सुतदाराणां वशित्वं त्व् अनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः ॥

अतः सुतविक्रयादि कार्यं स्वतन्त्रप्रकृतिस्थकृतम् अपि निवर्तनीयम् इत्य् अभिप्रायः । एकपुत्रविषयम् एतद् इति दत्ताप्रदानिकाख्यपदे वक्ष्यामः । एवम् अनेकवारकृतैकर्तृकैककर्मकविक्रयादाव् (?) अपि पुनर् विक्रयादिर् वशित्वाभावान् न सिध्यतीत्य् आह याज्ञवल्क्यः ।

सर्वेष्व् अर्थविवादेषु बलवत्य् उत्तरा क्रिया ।
आदौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥ इति ।

तेनोत्तरादिक्रिया निवर्तनीयेत्य् अभिप्रायः ॥

इति स्मृतिचन्द्रिकायां कृतनिवर्तनम्