४५ पुनर्न्यायः

अथ पुनर्न्यायः

तत्र नारदः ।

स्त्रीषु रात्रौ बहिर् ग्रामाद् अन्तर्वेश्मन्यरातिषु (?) ।
व्यवहारः कृतो ऽप्य् एषः पुनः कर्तव्यताम् इयात् ॥

स्त्रीभिः शत्रुभिर् वा रहसि वा निर्णीतो व्यवहारो ऽज्ञानपक्षपातयोः संभवात् पुनर्विचारणीय इत्य् अर्थः । एवं बलात्कारेण रागद्वेषाद्युपाधिना वा निर्णीतं निवर्त्य व्यवहारान्तरं प्रवर्तनीयम् । तथा च याज्ञवल्क्यः ।

बलोपाधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् । इति ।

ततः पश्चाद् व्यवहारान्तरं प्रवर्तयेद् इत्य् अभिप्रायः । तथा व्यवहर्तृवैगुण्ये ऽप्य् एवं कार्यम् इत्य् आह स एव ।

मत्तोन्मत्तार्तव्यसनिबालभीतादियोजितः ।
असंदिग्धकृतश् चैव व्यवहारो न सिध्यति ॥

आदिशब्देन वृद्धयोजितादयो व्यवहरा गृह्यन्ते । अत एव मनुः ।

मत्तोन्मत्तार्ताद्यधीनैः बालेन स्थविरेण वा ।
असंबन्धकृतश् चैव व्यवहारो न सिध्यति ॥

असंबन्धः अर्थिप्रत्यर्थिसंबन्धरहितः । नारदो ऽपि ।

पुरराष्ट्रविरुद्धस् च यस् च राज्ञा विवर्जितः ।
अनादेयो भवेद् वादः धर्मविभिर् उदाहृतः ॥

हारीतो ऽपि ।

राज्ञा विवर्जितो यस् तु स्वयं पौरविरोधकृत् ।
राष्ट्रस्य वा समस् तस्य प्रकृतीनां तथैव च ॥
अन्ये वा ये पुरे ग्रामे महाजनविरोधकाः ।
अनादेयास् तु ते सर्वे व्यवहाराः प्रकीर्तिताः ॥

एवं चैवंविधव्यवहारं तीरितम् अप्य् अनुशिष्टम् अपि निवृत्य व्यवहारान्तरं कर्तव्यम् इति तात्पर्यार्थो ऽनुसंधेयः (?) । तीरितानुशिष्टयोर् भेदम् आह कात्यायनः ।

असत् सद् इति यः प्रक्षः सभ्यैर् एवावधार्यते ।
तीरितः सो ऽनुशिष्टस् तु साक्षिवाक्यात् प्रकीर्तितः ॥

साक्षिवाक्याद् अवधारितो ऽनुशिष्ट इत्य् अर्थः । यत् पुनर् मनुनोक्तम्,

तीरितं चानुशिष्टं च यत्र क्वचन यद् भवेत् ।
कृतं तद् धर्मयोर् विद्यात् न तद् भूयो निवर्तयेत् ॥

इति, तत् स्त्रीकृतत्वादिनिवृत्तिहेत्वभावविषय (?) एवोत्सर्गमात्रम् इति मन्तव्यम् । अत एव तस्यापवादम् आह बृहस्पतिः ।

कुलादिभिर् निश्चिते ऽपि न संतोषं गतस् तु यः ।
विचार्य तत् कृतं राजा कुकृतं पुनर् उद्धरेत् ॥

विहितनिर्णेतृनिर्णीते ऽपि व्यवहारसमाप्तिर् अन्यायेनेति यदि विवादी मन्यते तदापि पुनर्न्यायः कार्य इत्य् अर्थः । कुकृतत्वे सिद्धे प्राङ्न्यायद्रष्टॄणां दण्डम् आह नारदः ।

दुर्दृष्टे व्यवहारे तु सभ्यास् ते दण्डम् आप्नुयुः ।
न हि जातु विना दण्डात् कश्चिन् मार्गे ऽवतिष्ठते ॥

अयं च सभ्यानाम् एव दण्डः जेतुः दुर्दर्शनाप्रयोजकत्वे वेदितव्यः । प्रयोजकत्वे तत्रास्यापि दण्डः, तथा च बृहस्पतिः ।

निश्चित्य बहुभिः सार्धं ब्राह्मणैः शास्त्रपारगैः ।
दण्डयेज् जयिना साकं (?) पूर्वं सभ्यांस् तु दोषिणः ॥

जयिना साकं दण्डनम् अपि सभ्यदण्डप्रकरणोक्तविधिनैवेत्य् आह याज्ञवल्क्यः ।

दुर्दृष्टांस् तु पुनर् दृष्ट्वा व्यवहारान् नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ॥

दुर्दृष्टान् सजयिसभ्यदोषेणेत्य् अर्थः । यदा तु साक्षिदोषेण व्यवहारस्य दुष्टता, तदा साक्षिदण्डप्रकरणोक्तविधिना साक्षिण एव दण्ड्या न जयी नापि सभ्याः । यदा पुनः सजयिसाक्षिदोषेण, तदा त एव दण्ड्याः, न सभ्या इत्य् अभिप्रायः । एवम् असंतोषमात्रेण पुनर्न्यायः प्रकृतस्य निर्णयस्य न्यायाभासत्वे सति विधातव्यः । सम्यङ्न्यायत्वे नारद आह ।

तीरितं चानुशिष्टं च यो मन्येत विधर्मतः ।
द्विगुणं दण्डम् आस्थाय तत् कार्यं पुनर् उद्धरेत् ॥

विधर्मतः धर्मशास्त्रविरोधतो जातम् इति यो विवादी सम्यङ्निर्णीतम् अप्य् औद्धत्यात् मन्यत इत्य् अर्थः । अत्र व्यवहारसमाप्तेर् अन्यथात्वासंभवात् पुनर्न्यायानन्तरम् अपि प्राङ्न्यायपराजित एवाङ्गीकृतदण्डेन दण्ड्य इत्य् आह याज्ञव्ल्क्यः ।

यो मन्येताजितो ऽस्मीति न्यायेनापि पराजितः ।
तम् आयान्तं पुनर् जित्वा दापयेत् द्विगुणं दमम् ॥

एवं सदण्डः पुनर्न्यायः सनृपोत्तरसभायाम् एव, नृपस्यैव दण्डने ऽधिकारात् । नृपरहितायां तूत्तरसभायां दण्डविरहितः पुनर्न्यायः कार्यः दण्डांशस्य नृपैककार्यत्वात् । उत्तरसभया च (?) पूर्वसभातो ज्यायस्या भवितव्यम्, अन्यथा संदेहानिवृत्तैः । स्भ्यानां च ज्यायस्त्वतारतम्यं निर्णेतृनिर्णयप्रकरणे दर्शितम् । नृपसभादृष्टस्य कुदृष्टत्वश्ङ्कायां तु प्रकृष्टनृपान्तरसभायां पुनर्न्यायः, तथा च स्मृत्यन्तरम् ।

न्यायापेतं यद् अन्येन राज्ञाज्ञानकृतं भवेत् ।
तद् अप्य् अन्यायविहितं पुनर्न्याये निवेशयेत् ॥

यत् पुनः पितामहेनोक्तम्,

ग्रामे दृष्टः पुरं यायात् पुरे दृष्टस् तु राजनि ।
राज्ञा दृष्टः कुदृष्टो वा नास्ति तस्य पुनर् नयः ॥

इति, तत् पूर्वसभातः प्रकृष्टसभान्तरालाभविषयम् । स्ववाक्यजितस्य तु प्रकृष्टसभान्तरसद्भावे ऽपि न पुनर्न्याय इत्य् आह नारदः ।

साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः ।
स्ववाचैव जितानां तु नोक्तः पौनर्भवो विधिः ॥

साक्षिवाक्यात् सभ्यैर् एव कृताद् वा निर्णयात् पराजितानां व्यवहारस्य पुनर्दर्शनं पूर्वदर्शनस्य दूषणे सतीत्य् अर्थः । सभ्यग्रहणम् अमात्यादेर् उपलक्षणार्थम् । अत एव मनुः ।

अमात्यः प्राड्विवाको वा यः कुर्यात् कार्यम् अन्यथा ।
तत् स्वयं नृपतिः कुर्यात् तं सहस्रं च दण्डयेत् ॥ इति ।

**इति स्मृतिचन्द्रिकायां पुनर्न्यायः **