४४ दण्डविषयान्तरम्

अथान्यान्य् अपि दण्डविषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र नारदः ।

शारीरश् चार्थदण्डश् च दण्डस् तु द्विविधः स्म्र्तः ।
शारीरस् ताडनादिस् तु मरणान्तः प्रकीर्तितः ॥
काकण्यादिस् त्व् अर्थदण्डः सर्वस्वान्तस् तथैव च ॥ इति ।

अत्र शारीरो दण्डभेदः परिगणयितुं शक्यो नार्थदण्डभेद् इत्य् आह स एव ।

शारीरो दशधा प्रोक्तो ह्य् अर्थदण्डस् त्व् अनेकधा । इति ।

दशधेति न संख्यानियमार्थम्, अथो बहुविधस्य शारिरदण्डस्य वक्ष्यमाणत्वात् । तथा हि मनुना तावन् नवविधः शारीरो दण्ड इति दर्शितः ।

दश् स्थानानि दण्डस्य मनुः स्वायंभुवो ऽब्रवीत् ।
उपस्थ उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ॥
चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥ इति ।

उपस्थः स्त्रीपुंसयोर् लिङ्गम् । तन्निग्रहो ऽगम्यागमने । चौर्ये त्व् आहारनिवृत्त्यादिनाजठरस्य निग्रहः । वाक्पारुष्ये जिह्वायाः । दण्डपारुष्ये हस्तयोः । पादप्रहारादौ पादयोः । गोप्यनिरीक्षणादौ चक्षुषः । परस्त्रीस्तनानुलेपनगन्धग्रहणादौ नसिकायाः । राजमन्त्रश्रवणादौ कर्णयोः । उत्कोचप्रदानादौ व्ययप्रतिबन्धादिना धनस्य । महापातकादौ देहस्य । अयं चोपस्थादीनाम् निग्रहो यत्रागम्यागमनचौर्यदौ क्षत्रविट्शुद्राणां दण्डविशेषो नाम्नातस् तत्र कार्यः,

त्रिषु वर्णेषु तानि स्युर् अक्षतो ब्राह्मणो व्रजेत् । (म्ध् ८।१२४)

इति क्षत्रियादिषु सामान्येनाभिधानात् । अक्षतो ब्राह्मणः पूर्वोक्तदण्डस्थानेष्व् अदण्डितो ब्राह्मण इत्य् अर्थः । व्रजेद् इत् वदन् यो निर्वासितो देशान्तरं गच्छति तस्यैवोक्तदशस्थानेष्व् अदण्डो न पुनर् ब्राह्मणमात्रस्येति दर्सयति । अत एव निर्वासनविधिशेषतयापि तेनोक्तम् ।

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् ।
राष्ट्राद् एनं बहिष्कुर्यात् समग्रधम् अक्षतम् ॥ (म्ध् ८।३८०)

यस्य तु न बहिष्कारः तस्य क्षत्रियादिवद् एव दण्डः । तथा च स एव ।

चतुर्णाम् अपि वर्णानां प्रायश्चित्तम् अकुर्वताम् ।
शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥

यत् तु गौतमेनोक्तम् - “न शारीरो ब्राह्मणदण्डः” इति, तद् वधरूपस्याङ्गभङ्गात्मकस्य निषेधार्थम्, न पुनर् अङ्गनिग्रहात्मकस्यापि । तथात्वे पूर्वोक्तवचनविरोधात् । अत एव बृहस्पतिना विशेषितः ।

महापातकयुक्तो ऽपि न विप्रो वधम् अर्हति ॥ इति ।

हारीतेनापि ।

न त्व् अङ्गभेदं विप्रस्य प्रवदन्ति मनीषिणः । इति ।

एवं चाङ्गनिग्रहात्मक एव शारीरो दण्डो विप्रस्य न तु वधाद्यात्मक इत्य् अनुसंधेयम् । अत एवापस्तम्बः - “चक्षुर्निरोधस् त्व् एतेषु ब्राह्मणस्य” इति । निरोधश् चक्षुषो बन्धनादिना कार्यो न त्व् आश्रयोद्धरणेन, अङ्गभङ्गस्य निषिद्धत्वात् । यत् तु शङ्केनोक्तम् - “त्रयाणाम् अपि वर्णानां धनापहारवधबन्धक्रिया । विवासनाङ्ककरणं ब्राह्मणस्य” इति, तद् दरिद्रब्राह्मणविषयम् । तथा च ब्राह्मणं प्रकृत्य गौतमः - “कर्मवियोगविख्यापनविवासनाङ्ककरणान्य् अवृत्तौ” इति । अवृत्तौ निर्धन इत्य् अर्थः । एतद् उत्तमसाहसविषयम् । ऋणापलापादिविषये तु मनुर् आह ।

क्षत्रव्ट्शूद्रयोनिस् तु दण्डं दातुम् अश्क्नुवन् ।
आनृण्यं कर्मणा गच्छेद् विप्रो गच्छेच् छनैः शनैः ॥

कर्मकरणासामर्थ्ये तु कात्यायन आह ।

धनदानासहं बुध्वा स्वाधीनं कर्म कारयेत् ।
अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणाद् ऋते ॥

मनुर् अपि ।

स्त्रीबालोन्मत्तवृद्धानां दरिद्रानाथरोगिणाम् ।
शफाविदलरज्ज्वाद्यैर् विदध्यान् नृपतिर् दमम् ॥

एवं च बन्धनाङ्ककरणकर्मकरणबन्धनागरप्रवेशनताडनरूपाः शारीरदण्डभेदाः पञ्च विज्ञेयाः । अतः “शरीरो दशधा” इत्य् उपलक्षणार्थम् उक्तम्, नावधारणार्थम् इति मन्तव्यम् । “दण्डस् तु द्विविधः स्मृतः” इत्य् एतद् अप्य् उपलक्षणार्थम् एव, विधान्तरस्यापि स्मृतत्वात् । तथा हि ।

शिरसो दण्डनं मुण्डस् तस्य निर्वासनं पुरात् ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥

तस्य ब्राह्मणस्येत्य् अर्थः । ब्राह्मणस्य प्रकृतत्वात् । अथ वधस्थाने मुण्डनं दण्ड इत्य् आह याज्ञवल्क्यः ।

ब्राह्मणस्य वधो मौण्ड्यं पुरान् निर्वासनं तथा ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ।

एवं च क्षत्रियादौ वध एव न मुण्डनम् । तत्र प्रतिनिधित्वेनास्मृतत्वात् । अत एव मनुः ।

मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते ।
इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥

उत्तमसाहस इति शेषः । तथा च नारदः ।

वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।
तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसे ॥
अविशेषेण सर्वेषाम् एष दण्डविधिः स्मृतः ।
वधाद् ऋते ब्राह्मणस्य न वधं ब्राह्मणो ऽर्हति ॥ इति ।

वधाद् ऋत इत्य् अङ्गच्छेदस्याप्य् उपलक्षणार्थम्,

न त्व् अङ्गभेदं विप्रस्य प्रवदन्ति मनीषिणः ।
तपसा चेज्यया चैव ब्राह्मणः पूज्यते सदा ॥

इति हारीतस्मरणात् । मनुस् तु वधदण्डपरित्यागे हेतुम् आह ।

न ब्राह्मणवधात् पापात् नाधर्मो विद्यते क्वचित् ।
तस्मात् तस्य वधं राजा मनसापि न चिन्तयेत् ॥

अतो महापातकयुक्तो ऽपि विप्रो न वध्य इत्य् आह बृहस्पतिः ।

महापातकयुक्तो ऽपि न विप्रो वधम् अर्हति । इति ।

किं तर्ह्य् अर्हतीत्य् अपेक्षिते ऽनन्तरम् उक्तं तेनैव ।

निर्वासनाङ्कने मौण्ड्यं तस्य कुर्यान् नराधिपः । इति ।

निर्वासनम् अत्र देशतो न पुनः पुरात् । तद् आह बौधायनः - “तप्तेनायसेन ललाटे ऽङ्कियित्वा विषयान् निर्वासनम्” इति । कुर्याद् इति शेषः । अङ्कने तु विशेषो नारदेन दर्शितः ।

गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये तु श्वपदं कार्यं ब्रह्महण्य् अशिरा पुमान् ।

अङ्कनं त्व् इदं न क्षत्रियादिषु कर्तव्यम् । यद् आह उशना ।

ब्राह्मणस्यापराधेषु चतुर्ष्व् अङ्को विधीयते ।
गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने ॥
इतरेषां तु वर्णानाम् अङ्कनं नत्र करयेत् ॥ इति ।

कस् तर्हि दण्दस् तत्रेत्य् अपक्षिते बृहस्पतिः ।

महापराधयुक्तांश् च वधदण्डेन शासयेत् । इति ।

यदा तु वधदण्डेन महापराधिनो निग्रहीतुं न शक्यास् तदा मनुर् आह ।

वधेनापि यदा त्व् एतान् निग्रहीतुं न शक्नुयात् ।
तदैषु सर्वम् अप्य् एतत् प्रयुञ्जीत चतुष्टयम् ॥

किं तच्चतुष्टयम् इत्य् अपेक्षिते याज्ञवल्क्यः ।

वाग्दण्डस् त्व् अथ धिग्दण्डो धनदण्डो वधस् तथा ।
योज्याः समस्ता व्यस्ता वाप्य् अपराधवशाद् इमे ॥

वाग्दण्डः परुषशापवचनात्मकः । धिग्दण्डो धिग् इति कुत्सनम् । समस्तानां योजने क्रमम् आह मनुः ।

वाग्दण्डं प्रथमं कुर्याद् धिग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ॥

व्यस्तानां तु योजने व्यवस्थाम् आह बृहस्पतिः ।

खल्वापराधे वाग्दण्डो धिग्दण्डः पूर्वसाहसे ।
मध्यमे त्व् अर्थदण्डस् तु राजद्रोहेषु बन्धनम् ॥
निर्वासनं वधो वापि कार्यम् आत्महितैषिणा ।
व्यस्ताः समस्ता एकस्य महापातककारिणः ॥ इति ।

तथा पुरुषापेक्षयापि व्यवस्था तेनैव दर्सिता ।

मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक् तपस्विनाम् ।
विवादिनो नरांश् चान्यान् दोषिणो ऽर्थेन् दण्डयेत् ॥

आदिग्रहणेन मान्या जना गृह्यन्ते,

गुरून् पुरोहितान् पूज्यान् वाग्दण्डेनैव दण्डयेत् ।
विवादिनो नरांश् चान्यान् धिग्धनाभ्यां च दण्डयेत् ॥

इति तेनैवोक्तत्वात् । यत् तु शङ्खेनोक्तम् - “अदण्ड्यौ मातापितरौ स्नातकपुरोहितौ परिव्राजकवानप्रस्थौ जन्मकर्मश्रुतिशीलशौचाचारवन्तश् च” इति । यद् अपि कात्यायनेन,

आचार्यस्य पितुर् मातुर् बान्धवानां तथैव च ।
एतेषाम् अपराधेषु दण्डो नैव विधीयते ॥

इति, तच् छारीरार्थदण्दयोर् निषेधार्थम्, न पुनर् दण्डमात्रस्य । यद् आह मनुः -

पिताचार्यः सुहृन् माता भार्या पुत्रः पुरोहितः ।
नादण्ड्यो नाम राज्ञो ऽस्ति धर्माद् विचलितः स्वकात् ॥

बृहस्पतिर् अपि -

ऋत्विक्पुरोहितामात्याः पुत्राः संबन्धिबान्धवाः ।
धर्माद् विचलिता दण्ड्या निर्वास्या राजहिंसकाः ॥

यत् तु गौतमेनोक्तम् - “षड्भिः परिहार्यो राज्ञावध्यश् चाबन्ध्यश् चादण्ड्यश् चाबहिष्कार्यश् चापरिवाद्यस् चापरिहार्यश् च” इति, तद् एतत् - “स एष बहुश्रुतो भवति । लोकवेदवेदाङ्गवित् । वाकोवाक्येतिहासपुराणकुशलः । तदपेक्षः तद्वृत्तिः । चत्वारिंशता संस्कारैः संस्कृतः । त्रिषु कर्मस्व् अभिरतः । षट्सु वा । सामयचारिकेष्व् अभिविनीतः” इति प्रतिपादितबहुश्रुतविषयम् । अतो न प्राचीनवचनविरोधः । कात्यायनो ऽप्य् अदण्ड्यम् आह ।

प्राणात्यये तु यत्र स्याद् अकार्यकरणं कृतम् ।
दण्डस् तत्र तु नैव स्याद् एष धर्म्यो भृगुस्मृतः ॥

नारदस् तु विहितदण्डार्धेन् दण्डम् आह ।

अयुक्तं साहसम् कृत्वा प्रत्यापत्तिं व्रजेत् तु यः ।
भ्रूयत् स्वयं वा सदसि तस्य चार्धो दमः स्मृतः ॥

व्यासो ऽपि ।

व्याधिना पीडितो यस् तु यः कश्चिद् अपि ताम्यति ।
नैतन् मया पुनः कार्यं ब्रूयात् तस्यार्धको दमः ॥

अत्र पक्षान्तरम् आह गौतमः - “अनुज्ञानं वा वेदवित् समयवचनात्” इति । अनुज्ञानम् अदण्डयित्वोत्सर्जनम् । तथा विहितदण्डाद् अभ्यधिकम् ऊनं वा दोषिणः पीडाजननसमर्थं दण्डं विदध्याद् इत्य् आह स एव - “दण्डो दमनाद् इत्य् आहुस् तेनादान्तान् दमयेत्” इति । यावति पीडाविशेषे दमनकार्योपशमस् तावत् पीडाकरं कुर्याद् इत्य् अर्थः । तथा च मनुः ।

अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः ।
सारापराधाव् आलोच्य दण्डं दण्ड्येषु पातयेत् ॥

याज्ञवल्क्यो ऽपि ।

ज्ञात्वापराधं देशं च कालं बलम् अथापि वा ।
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥

तत्रोदाहरणम् आह मनुः ।

कार्षापणं भवेद् दण्ड्यो यश् चान्यः प्राकृतो जनः ।
तत्र राज्ञो भवेद् दण्डः सहस्रम् इति धारणा ॥

प्राकृतो दरिद्रः । राजा ऐश्वर्येणाधिष्ठितः । कात्यायनो ऽपि ।

येन दोषेण शूद्रस्य दण्डो भवति धर्मतः ।
तेन चेत् क्षत्रविप्राणां द्विगुणो द्विगुणो भवेत् ॥
प्रव्रज्यावसितं शूद्रं जपहोमपरायणम् ।
वधेन शासयेत् पापं दण्ड्यो वा द्विगुणं दमम् ॥

बृहस्पतिर् अपि ।

वधार्हः सुवर्णशतं दमं दाप्यस् तु पूरुषः ।
अङ्गच्छेदार्हकस् त्व् अर्धं संदंशार्हस् तदर्धकम् ॥
ताडनं बन्धनं चैव तथैव च विडम्बनम् ।
एष दण्डो हि दासस्य नार्थदण्डो बृहस्पतिः ॥

नारदो ऽपि ।

काकण्यादिस् तु यो दण्डः स तु माषपरः स्मृतः ।
माषावरार्धो यः प्रोक्तः कार्षापणपरस् तु सः ॥
कार्षापणावरार्धस् तु चतुष्कार्षापणोत्तरः ।
द्व्यवरो ऽष्टपरश् चान्यस् त्र्यवरो द्वादशान्ततः ॥
कार्षापणास् तु ये प्रोक्ताः सर्वे ते स्युश् चतुर्गुणाः ॥ इति ।

काकण्यादिशब्दर्था दिव्यप्रकरणे दर्शिताः । अत्र कात्यायनः ।

कल्पितो यस्य यो दण्डस् त्व् अपराधस्य यत्नतः ।
पणानां ग्रहणं तु स्यात् तन्मूल्यं वाथ राजनि ॥
माषपादो द्विपादो वा दण्डो यत्र प्रवर्तिनः ।
अनिर्दिष्टं तु विज्ञेयं माषकं तु प्रकल्पयेत् ॥
यत्रोक्तो माषकैर् दण्डो राजतं तत्र निर्दिसेत् ।
कृष्णलैश् चोक्तम् एव स्याद् उक्तदण्डविनिश्चयः ॥ इति ।

पणानां कार्षापणानाम् इत्य् अर्थः । तेषां संख्याभेदनिन्धनाः (?) परिभाषिक्यः संज्ञा मनुना दर्शिताः ।

पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं चैव चोत्तमः ॥

इयं परिभाषा प्रथमापराधविषये ऽनुवर्तव्याः । पुनःपुनर् अपराधविषये त्व् आह याज्ञवल्क्यः ।

साशीतिपणसहस्रो दण्ड उत्तमसाहसः ।
तदर्धं मध्यमः प्रोक्तस् तदर्धम् अधमः स्मृतः ॥

अतो यत्र यत्रोत्तमसाहसादिशब्दैर् दण्डो निगद्यते तत्र तत्र एतत् संख्याकाः कार्षापणास् तन्मूल्यनिष्कादयो वा ग्रहीतव्याः । एवम् उक्तप्रकारो दण्डः सर्वलोकानन्दहेतुर् इत्य् आह स एव ।

यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् ।
जगद् आनन्दयेत् सर्वम् अन्यथा तत् प्रकोपयेत् ॥

तथोच्छास्त्रदण्डनस्य निन्दां विपरीतस्य प्रशंसाम् चाह स एव ।

अधर्मदण्डनं स्वर्गकीर्तिलोकविनाशनम् ।
सम्यक् तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥

दण्ड्यास् तु तेन दण्डेन क्षीणपापा भवन्तीत्य् आह नारदः ।

राजभिर् धृतदण्डास् तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥

कात्यायनो ऽपि ।

शुद्धिस् तु शास्त्रतत्त्वज्ञैश् चिकित्सा समुदाहृता ।
प्रायश्चित्तं च दण्डं च ताभ्यां सा द्विविधा स्मृता ॥

**इति स्मृतिचन्द्रिकायां दण्डविषयाणि **