४३ निर्णयादिकृत्यम्

अथ निर्णयादिकृत्यम्

तत्र संग्रहकारः ।

उक्तप्रकाररूपेण स्वमतस्थापिता क्रिया ।
राज्ञा परीक्ष्य सभ्यैस् च स्थाप्यौ जयपराजयौ ॥
यो यथोक्तान्यतमया क्रिययार्थं प्रसाधयेत् ।
भाषाक्षरसमं साध्यं स जयी परिकीर्तितः ॥
असाधयन् साधयित्वा विपरीतार्थम् आत्मनः ।
दृष्टकारणदोषो यः पुनः स तु पराजयी ॥ इति ।

अत्र व्यासः ।

जितं तु दण्डयेद् राजा जेतुः पूजां प्रवर्तयेत् ।
अजिता अपि दण्ड्याः स्युः वेदशास्त्रविरोधिनः ॥

पूजा च गन्धमाल्यवस्त्रादिना कर्या,

जेतुः प्रवर्तते पूजा गन्धमाल्याम्बरादिना ।

इति तेनैव स्मृतत्वात् । पूजाप्रवर्तनानन्तरं कात्यायनः ।

सिद्देनार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।
लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात् तु पार्थिवः ॥

नारदो ऽपि ।

मध्ये यत् स्थापितं द्रव्यं चलं वा यदि वा स्थिरम् ।
पश्चात् तत् सोदयं दाप्यं जयिने पत्रसंयुतम् ॥

पत्रं जयपत्रम् । तथा च बृहस्पतिः ।

पूर्वोत्तरक्रियायुक्तं निर्णयान्तं यदा नृपः ।
प्रदद्याज् जयिने लेख्यं जयपत्रं तद् उच्यते ॥

जयपत्रे च यद् वक्तव्यं तद् अखिलं लेख्यविधाव् उक्तम्, तद् अत्रानुसंधेयम् । “सिद्धेनार्थेन संयोज्यः” इत्य् अस्य क्वचिद् विषये विशेषम् आह याज्ञवल्क्यः ।

निह्नुते लिखितं नैकम् एकदेशविभावितः ।
दाप्यः सर्वं नृपेणार्थं न ग्राह्यस् त्व् अनिवेदितः ॥

अस्यार्थः - निष्कवस्त्राभरणाद्यनेकं प्रतिज्ञाकाले लिखितं यदा प्रतिवादी निह्नुते मिथ्यैत्द् इत्य् उक्तवान् । एकदेशविभावितः वादिना चैकदेशप्रमाणत एव सत्यं मयेत्य् अङ्गीकरितः स सर्वम् एव प्रतिज्ञातम् अर्थम् अर्थिने नृपेण दाप्यः । नैवं प्रतिज्ञायां लिखितः । पश्चाद् वादिनोच्यमानो ऽर्थः नृपेण न दाप्यतया ग्रहीतव्य इति । एतद् उक्तं भवति ।

छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः ।

इत्य् उक्तम् एवंविधविषये नृपेण नादर्तव्यम्, दुष्टाशयत्वस्यात्र सिद्धत्वाद् इति । न च वाच्यं छलानुसारित्वात् सर्वदापनम् अपि नृपेण नादरणीयम् इति । तद् आह कात्यायनः ।

सर्वापलापं यः क्र्त्वा मिथो ऽल्पम् अपि संवदेत् ।
सर्वम् एव तु दाप्यः स्याद् अभियुक्तो बृहस्पतिः ॥

आदरार्थं बृहस्पतिग्रहणम् । नारदो ऽपि सर्वदापनम् आदर्तव्यम् इति दर्शयितुम् अभियुक्तदेयत्वम् आह ।

अनेकार्थाभियुक्तेन सर्वार्थव्यपलापिना ।
विभावितैकदेशेन देयं यद् अभियुज्यते ॥

ननु प्राचीनवचनानां प्रागुक्तार्थाभिधाने दर्मनिर्णयार्थता न स्यात् छलानुसारेण तेषां व्यवहारनिर्णयाभिधायकत्वात् । सत्यम् । तथापि न दोषः, प्रागुक्तविषये व्यवहारनिर्णयस्य सर्मनिर्णयबाधकत्वात् । अत एव बृहस्पतिः ।

केवलं शास्त्रम् आश्रित्य क्रियते यत्र निर्णयः ।
व्यवहारः स विज्ञेयो धर्मस् तेनापि हीयते ॥ इति ।

यत्र प्रागुक्तविष्यादाव् इत्य् अर्थः । यत् तु कात्यायनेनोक्तम्,

अनेकार्थाभियोगे ऽपि यावत् संसाधयेद् धनी ।
साक्षिभिस् तावद् एवासौ लभते साधितं धनम् ॥

इति, तद् यत्र दुष्टाशयत्वस्यात्यन्तदार्ढ्याभावस् तद्विषयम् । प्राचीनवचनेष्व् इवात्र प्रतिवादिनः सर्वापलापलक्षणदौष्ट्यकथनांशाभावात् । केचिद् अस्य वचनस्य पुत्रादिदेयपित्रादिऋणविषयत्वं वदन्ति “तत्रैव नाभिजानामि” इत्य् उत्तरत्रयसंभवाद् इति वदन्तः । तन् न समीचीनम्, स्वकृतऋणविवादे ऽपि विस्मरणादिनोत्तरत्रयस्य संभवात् । पुत्रादेः पित्रादिकृतऋणविवादे मिथ्यैतद् इत्य् उत्तरम् उक्तवतो निह्नववादित्वे ऽपि साधितमात्रदानप्रसङ्गाच् च । अथ पुत्रादेर् मिथ्यैतद् इत्य् उत्तरं न संभवतीत्य् उच्यते । मैवं वोचः, ऋणग्रहणकाले प्रबुद्धस्य अप्रबुद्धस्यापि मात्रादिवचनतस् तत्संभवात् । अथ नाभिजानामीत्य् उत्तरम् उक्तवति पुत्रादौ साधितमात्रलाभवचनम् इत्य् उच्यते, तर्हि नाभिजानामीत्याद्युत्तरत्रयविषयकत्वं तस्य परिकल्प्यताम्, किं पुत्रादिविषयत्वेन । अथ,

पुत्रपौत्रै ऋणं देयं निह्नवे साक्षिभावितम् ।

इति स्मरणात्, पुत्रादिविषयत्वम् इत्य् उच्यते, तर्हि मिथ्यैतद् इत्युक्तपुत्रादिविषयत्वं न पुनः नाभिजानामीत्य् उक्तवत्पुत्रादिविषयत्वम्, “निह्नवे साक्षिभावितम्” इति स्मरणात् ।

अन्ये त्व् अन्यथा व्यवस्थापयन्ति सर्वार्थदापनवचनं प्रतिज्ञातार्थानां मधे यद्य् एकम् अप्य् अर्थम् अर्थी सादयति, तदा सर्वान् एतान् अर्थान् अहं ददामीत्य् एवं सावष्टम्भोक्तियुक्तनिह्नवविषयम् । तद्रहितविषयं तु साधितमात्रलाभावचनम् इति । एतद् अप्य् अयुक्तम्, “निह्नुते लिखितं नैकम्” इत्य् अपि शेषेणाभिधानात् । न च छलोदाहरनपरत्वाद् अस्य वक्यस्य तत्सिद्धये सावष्टम्भनिह्नवविषयत्वम् आस्थीयत इति युक्तम्, सर्वापलापच्छलम् आदाय व्यवहारसमाप्त्यभिधानात् । तावतैव वाक्यस्य छलोदाहरणपरत्वसिद्धेः । भाषाबलेनैवोक्तविषये सर्वदापनात् अनुवादकं च “निह्नुते” इत्यादिवचनम्, तत्समानर्थं वचनद्वयम् अपि स्यात् । न च,
अनेकार्थाभियोगे ऽपि यावत् संसाधयेद् धनी ।

इत्यादिकात्यायनवचनपरिहारायैवम् आश्रीयत इति युक्तम् । तद्विरोधस्य ऋजुमार्गेन परिहृतत्वाद् इत्य् अलम् अतिविस्तरकारिणा मतान्तरोपन्यासनिरासेन ।

दापनप्रकारस् तु कात्यायनेन दर्सितः ।
राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदापयेत् ।
देशाचारेण चान्यांस् तु दुष्टान् संपीड्य दापयेत् ॥
रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेत् ॥ इति ।

न केवलं राजा स्वामिने प्रदापयेत्, स्वयम् अपि दण्डं गृह्णीयाद् इत्य् आह नारदः ।

ऋणिकः सधनो यस् तु दौरात्म्यान् न प्रयच्छति ।
राज्ञा दापयितव्यः स्याद् गृहीत्वांशं तु विंशकम् ॥

दाप्यार्थस्य यावान् विंशतितमो भागः तावन्तम् अर्थम् अधमर्णिकात् गृह्णीयाद् इत्य् अर्थः । एतद् अपि प्रतिपन्नऋणिकविषयम् । विप्रतिपन्नऋणित्वे त्व् आह विष्णुः - “उत्तमर्णश् चेद् राजानम् इयात् तद्विभावितो ऽधर्मर्णो राज्ञे धनदशभागसमं दण्डं दद्यात् । प्राप्तार्थश् चोत्तमर्णो विंशतितमम् अंशम्” इति । प्राप्तार्थेन दानभृतित्वेन, न दण्डत्वेन निरपराधित्वात् । यदा त्व् अधमर्णो राजानम् इयात् तदा (?) मनुर् आह ।

यः साधयन्तं छन्देन वेदयेद् धनिकं नृपे ।
स राज्ञर्णचतुर्भागं दाप्यस् तस्य च तद्धनम् ॥

यो राज्ञः प्रियो ऽधमर्णस् तदाज्ञया प्रतिबन्धनं करिष्यामीति बुद्ध्या धनिकं छन्देन स्वेच्छया स्वेच्छया साधयन्तं प्रयुक्तधनयाचने ऽप्रवृत्तं नृपे वेदयेत् मां पीडयिष्यतीत्य् आवेदयेत्, असौ ऋणं तच्चतुर्भागसमं च दण्डं राज्ञा दाप्य इत्य् अर्थः । यत् पुनस् तेनोक्तम्,

यो यावन् निह्नवीतार्थं मिथ्या यावति वारयेत् ।
तौ नृपेण ह्य् अधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ॥ म्ध् ८।५९

इति तदुद्वृत्ताधमर्णोत्तमर्णविषय, “अधर्मज्ञग्रहणात्” इत्य् उक्तं तद्भाष्ये (मेधातिथि ओन् म्ध् ८।६०) । यत् तु याज्ञवल्क्येनोक्तम्,

निह्नवे भावितो दद्यद् धनं राज्जे च तत्समम् ।

इति, तद् उद्वृत्ताधर्मणस्योक्तदण्डपर्याप्तधनासंभविषये वेदितव्यम्, अन्यथा पूर्वोक्तविष्णुमनुवचनविरोधस्य दुर्वारत्वात् । मिथ्याभियोगिनस् तु अपर्याप्तधनस्यापि न तत्समदण्दः । यद् आह स एव,

मिथ्याभियोगी द्विगुणम् अभियोगाद् धनं वहेत् । इति ।

अभियोगात् अभियुक्तधनात् द्विगुणं धनं वहेत् राज्ञे दद्यद् इत्य् अर्थः । तावद् धनाभावे तु “आनृण्यं कर्मणा गच्छेत्” इत्याद्यनुकल्प् ऽवगन्तव्यः । यत् तु नारदेनोक्तम्,

न च मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः ।
यस् तत्र विनयः प्रोक्तः सो ऽभियोक्तारम् आव्रजेत् ॥

इति, तत्प्रतिपदोक्तदण्डाभावविषयं सामान्यशास्त्रत्वात् । तेन निह्नवे असद्वृत्तस्य यो दण्डो ऽभिहितो विष्णुना स एव सद्वृत्तस्य मिथ्याभियोगिनो भवतीत्य् अवगन्तव्यम् । तथा,

निह्नवे तु यदा वादी स्वयं तत् प्रतिपद्यते ।
ज्ञेया सा प्रतिपत्तिस् तु तस्यार्धो विनयः स्मृतः ॥

इति व्यासेन यो दण्डो ऽभिहितः स एव मिथ्याभियोगे ऽपि स्वयं तत्प्रतिपद्यमानस्य भवतीति चावगन्तव्यम् । यत् पुनर् मनुनोक्तम्,

अर्थे ऽपव्ययमानं तु कारणेन विभावितम् ।
दापयेद् धनिकस्यार्थं दण्डलेसं च शक्तितः ॥ (म्ध् ८।५१)

इति, तद्दशमांशदण्डदनासमर्थसद्वृत्ताधमर्णविषयम् इत्य् उक्तं तद्भाष्ये (मेध् ओन् म्ध् ८।५२) । कारणेनेति वदन् द्विपादव्यवहारे त्व् अर्थदापनम् एव, न दण्डदापनम्, तत्र निह्नवमिथ्याभियोगयोर् अभावाद् इति दर्सयति । एवम् एव चतुष्पादे ऽपि व्यवहारे शङ्काभियोगाज्ञानोत्तरादिना मिथ्याभियोगनिह्नवाभवे दण्डाभावो ऽध्यवसेयः । यत् तु स्मृत्यन्तरम्,

आद्ये तु दण्डपादः स्यात् द्वितीये ऽर्धं तृतीयके ।
पादन्यूनं चतुर्थे च पादे संपूर्णदण्डभाक् ॥

इति, तद् विगीतत्वाद् अप्रमाणम् इति प्रपञ्चितं विस्वरूपचार्येण । अतो निह्नवमिथ्याभियोगनिमित्तो दण्डश् चतुष्पद्य् एव व्यवहारे निमित्तसद्भावविषये ग्रहीतव्यः । तत्र ऋणादानविषयव्यवहारे दण्डविशेषो दर्शितः । निक्षेपादिविषयव्यवहारे तु दण्डविसेषस् तत्र तत्र पदे वक्ष्यते । यत् पुनः कात्यायनेनोक्तम्,

शतार्धं दपयेच् छुद्धम् अशुद्धो दण्डभाग् भवेत् ।

इति, तद् दिव्याविशेषावधृतशुद्धपुरुषविषयम् । यतो ऽनन्तरम् आह स एव ।

विषे तोये हुताशे च तुलाकोशे च तण्डुले ।
तप्तमाषकदिव्ये च क्रमाद् दण्डं प्रकल्पयेत् ॥
सहस्रं षट्सतं चैव तथा पञ्चशतानि तु ।
चतुस्त्रिद्व्येकम् एवं च हीनं हीनेषु कल्पयेत् ॥ इति ।

अयं च दिव्यनिबन्धनो दण्डो निह्नवमिथ्याभियोगयोर् अन्यतरनिबन्धेन दण्डेन समुच्चीयते, निमित्तस्मुच्चयात् । पणस् तु शास्त्रोक्तदण्डेन समुच्चीयते इत्य् आह याज्ञवल्क्यः ।

सपणस् चेत् विवदः स्यात् तत्र हीनं तु दापयेत् ।
दण्डं च स्वपणं चैव धनिने धनम् एव च ॥

नारदो ऽपि ।

विवादे सोत्तरपणे द्वयोर् यस् तत्र हीयते ।
स पणं स्वकृतं दाप्यो विनयं च पराजये ॥ इति ।

अत्र कात्यायनः ।

एवं धर्मासनस्थेन समेनैव विवदिना ।
कार्याणां निर्णयो दृश्यो ब्राह्मणैः सह नान्यथा ॥

बृहस्पतिर् अपि ।

राज्ञा यत्नेन कर्तव्यं संदिग्धार्थविचारणम् ।
त्रयस् तत्रोपचीयन्ते हानिर् एकस्य जायते ॥
जेताप्नोति धनं पूजां जितो विनयनिग्रहम् ।
जयं दानं दमं राजा सभ्याः पुण्यम् अवाप्नुयुः ॥ इति ।

नारदो ऽपि ।

एवं पश्यन् सदा राजा व्यवहारान् समाहितः ।
वितत्येह यशो दीप्तं शक्रस्यैति सलोकताम् ॥

बृहस्पतिर् अपि ।

एवं शास्त्रोदितं राजा कुर्वन् निर्णयपालनम् ।
वितत्येह यशो लोके महेन्द्रसचिवो भवेत् ॥
साक्षिलेख्यानुमानेन प्रकुर्वन् कार्यनिर्णयम् ।
वितत्येह यशो राजा ब्रध्नस्याप्नोति विष्टपम् ॥ इति ।

मनुर् अपि ।

कामक्रोधौ तु संयम्य यो ऽर्थं धर्मेण पश्यति ।
प्रजास् तम् अनुवर्तन्ते समुद्रम् इव सिन्धवः ॥
यस् त्व् अधर्मेण कार्याणि मोहात् कुर्यान् नराधिपः ।
अचिरात् तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ इति ।

**इति स्मृतिचन्द्रिकायाम् निर्णयादिकृत्यम् **